प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
६६ प्रबोधचन्द्रोदयम् ततो दावाग्निदग्धानां फलं स्याद्भूरि भूरुहाम् ॥ १९ ॥ अपि च— निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते । स्वपिता यजमानेन तत्र कस्मान्न हन्यते ॥ २० ॥ अपि च— मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम् ॥ २१ ॥ ताम् यदि स्वर्गः स्यात् ततः तर्हि दावाग्निदग्धानाम् वनवह्निभस्मीकृतानाम् भूरु- हाम् वृक्षाणाम् भूरि बहु फलम् स्यात् । प्रयोजकाभावसाम्येऽपि यदि प्रध्वस्ता- त्कर्मणः फलोदयस्वीकारे दग्धात् पादपात् फलोत्पत्तिरपि स्वीकर्त्तव्या स्यादिति तात्पर्यम् ॥ १९ ॥ निहतस्येति० यज्ञे ज्योतिष्टोमादियागे निहतस्य हिंसाकर्मतां गमितस्य पशोः छागादेः यदि स्वर्गप्राप्तिः स्वर्गाख्यकल्पितसुखातिशयावाप्तिः इष्यते ‘वैदिकी हिंसा हिंसा न भवति’, ‘तत्र हतानां छागादीनां स्वर्गगतिश्च जायत’ इति वद्भि॑िरास्तिकै- रास्थीयते तदा तत्र ज्योतिष्टोमादौ यजमानेन यागप्रवृत्तेन आस्तिकेन स्वपिता स्वजनकः कस्मात् कुतो हेतोः न हन्यते ? पशुर्हतो यदि स्वर्गं गच्छति तर्हि यज- मानः स्वर्गं प्रापयितुं स्वं पितरमपि तत्रैव हन्तु, तावतैवाल्पेन प्रयत्नेन तत्पिता स्वर्गं यास्यति, कृत तत्स्वर्गप्राप्तये प्रयत्नान्तरानुष्ठानेनेत्यर्थः । अनेन देवयज्ञप्रति- पादकं शास्त्रं दूषितमिति बोध्यम् ॥ २० ॥ मृतानामिति० श्राद्धम् श्रद्धया कृतं दशाहपिण्डदानादि मृतानाम् प्राणैस्त्यक्तानाम् अपि जन्तूनां प्राणिनाम् चेत् तृप्तिकारणम् सन्तोषसाधनम् , तदा स्नेहः तैलम् निर्वाणस्य अग्निशिखया वियुक्तस्य प्रदीपस्य शिखाम् ज्वालाम् सम्वर्धयेत् , यदि मृतस्यापि जन्तोःश्राद्धेन तृप्तिर्जायते तदा निर्वाणे दीपे न्यस्तं तैलं तदीयामपि शिखां समेधयितुं शक्नुयान्न च शक्नोति, तत् पुत्रकृतेन श्राद्धेन मृतस्य पितुरपि तृप्तिर्न भवितुं शक्नोतीति भावः । अनेन पितृयज्ञप्रतिपादकं शास्त्रं दूषितं वेदितव्यम् ॥२१॥ मिलता है तो दावाग्निदग्ध वृक्षोंमें बहुतसे फल भी होंगे ॥ १९ ॥ और—यदि यज्ञमें निहत पशुओंको स्वर्ग मिलता है तो यजमान अपने पिताओंको यज्ञमे क्यों नहीं मारते हैं ॥ २० ॥ और—यदि मरे लोगोंको श्राद्धद्वारा तृप्ति प्राप्त होती है तो बुझे हुए दीपमें तेल डालिये और उसकी शिखा बढ़ जायगी ॥ २१ ॥
द्वितीयोऽङ्कः ६७ शिष्यः-आचार्य, यद्येष एव परमार्थः पुरुषस्य यत्खाद्यते पीयते । तर्हि किमित्येतैस्तीर्थैः संसारसौख्यं परिहृत्यात्मा घोरघोरतरैः पराक- सान्तपन-षष्ठकालाशनप्रभृतिभिर्दुःखैः कस्मात् खेद्यते ? (आवालिअ, जई एसो जेव्व पल्मत्थो पुलिसस्स जं खज्जए पिज्जए । ता किति एदिहिं तित्थेहि संसालसुहं पलिहिलिय आप्पा घोलघोलतलेहिं पलाअ-सांतवन-सट्ठका आप्पासनप्प- हुदिहिं दुःखेहिं कुदो खविज्जदि ) चार्वाकः-धूर्तप्रणीतागमप्रतारितानामादामोदकैरियं वृत्तिर्मूर्खाणाम् । पश्य पश्य- आलिङ्गनं भुजनिपीडितबाहुमूलं भुग्नोन्नतस्तनमनोहरमायताक्ष्याः । परमार्थः-सिद्धान्तः । तैर्थिकैः-तीर्थविश्वासिभिः । संसारसौख्यम्-अङ्गनाऽऽ- लिङ्गादिजन्यं वैषयिकं सुखम् । परिहृत्य-विहाय । घोरघोरतरैः-अतिकठोरः । पराकः-स्वनामख्यातः । सान्तपनम्-तदाख्यया प्रसिद्धम् । षष्ठकालाशनम्-षष्ठ्यां सन्ध्यायाम् भोजनम्, इदमप्येकं व्रतम् । खेद्यते-कष्टम्प्राप्यते । यदि खाद्यते पीयत इत्येव सिद्धान्तसिद्धोऽर्थस्तदाऽलमात्मानमेभिः पराकादिभिरायासं जनयि- ष्येति भावः । धूर्त्तप्रणीतागमप्रतारितानाम्-वञ्चकजननिर्मितशास्त्रवञ्चितानाम् । आशामो- दकैः-कल्पनामात्रस्थितैर्लड्डुकैः । इमे हि मूर्खा वास्तविकं भौतिकं सुखं विहाय भाविस्वर्गादिकल्पनिकं वञ्चकप्रणीतशास्त्रप्रमापितं सुखं कामयमानाः कष्टानि सहन्ते, सोऽयमेषां प्रयासो मनःकल्पितमोदकैस्तृप्तिरिव मूलं न स्पृशतीति तात्पर्यम् । आलिङ्गनमिति० भुजनिपीडितबाहुमूलम् भुजाभ्यां नायकबाहुभ्याम् निपीडितम् दृढं धृतं यद्बाह्वोर्मूलमादिभागः यत्र तथा अत एव भुग्नोन्नतस्तनम् नत्रीभवदु- च्छ्रितकुचम् अतश्च मनोहरम् हृदयम् आयताक्ष्याः विशाललोचनायाः आलिङ्गनम् शिष्य-आचार्य, यदि खाना-पीना ही पुरुषोंके लिये परमार्थ है तो फिर ससार सुखको छोड़कर इन तीर्थोंमें श्रमणसे तथा घोरतर पराक सान्तपन षष्ठकालाशन प्रभृति दुःखोंसे क्यों आत्माको तकलीफ देते हैं । चार्वाक-धूर्त्तों द्वारा निर्मित आगमसे वञ्चित मूर्खोंकी यह आशामोदक वृत्ति है । देखो- बाहुसे बाहुमूलको दबाकर उन्नतस्तनी ललनाओंका आलिङ्गन कहाँ और मूर्खों द्वारा
६८ प्रबोधचन्द्रोदयम् भिक्षोपवासनियमार्कमरीचिदाहै- र्देहोपशोषणविधिः कुधियां क्व चैषः ॥ २२ ॥ शिष्यः—आचार्य, एवं खलु तैर्थिका आलपन्ति यद्दुःखमिश्रितं संसारसुखं परिहरणीयमिति । (आचालिअ, एवं खु तित्थिया आलवन्ति जं दुक्खमिसिदं संसालसुहं पलिहलणीअं त्ति ) चार्वाकः—(विहस्य) आः, दुर्बुद्धिविलसितमिदं नरपशूनाम् । त्याज्यं सुखं विषयसंगमजन्म पुंसां दुःखोपसृष्टमिति मूर्खविचारणैषा । आश्लेषः क्व कुत्र ? भिक्षा भैक्षचर्यम्, उपवासः उपोषणम्, नियमाः चान्द्रायणा- दयः, अर्कमरीचिदाहः पञ्चाग्निव्रतादयः सूर्यनिविष्टदृष्टिता वा, तैः, कुधियाम् नष्ट- मतीनाम् एषः देहोपशोषणविधिः कायक्लेशकरं कर्म च क्व ? नोभयोर्मनागपि सादृश्यमस्तीति भावः । दृढमङ्गनामाश्लिष्य तदुच्चकुचसम्पर्कजन्यो आनन्द क्व ? क्व चायं कायक्लेशकरो व्रतादिनियमो मूर्खैरेभिरुपदिष्टः ? तदेतयोस्तुलनायां प्रागुक्त- मेव स्वादुतया प्राशस्त्यं भजमानमत एव चादरणीयमिति बोध्यम् । वसन्ततिलकं वृत्तम्, प्रागुक्तं च तल्लक्षणम् ॥ २२ ॥ दुःखमिश्रितम्-दुःखसङ्कीर्णम्, विषसंपृक्तमिष्टान्नवत् सांसारिकसुखमपि परत्र- दुःखसङ्कीर्णतया त्याज्यमिति भावः । दुर्बुद्धिविलसितम्-बुद्धिदोषविजृम्भितम् । नरपशूनाम्-पशुतुल्यनराणाम्, तेषां पशुत्वं च हेयोपादेयार्थपरिज्ञानाभावात् , तथा त्वं चादेयमिह सुखं परित्यज्य मिथ्याभूतपरत्रसुखविषये प्रवृत्तिमत्त्वात् ॥ त्याज्यमिति० विषयसङ्गमजन्म-विषयाः स्रक्चन्दनवनिताद्याः । पदार्थाः तेषाम् सङ्गम उपभोगस्ततो जन्म प्रभवः यस्य तादृशं वैषयिकम् सुखम् आनन्दः दुःखोपसृष्टम् तदपगमादिकारणवशाज्जायमानेन कष्टेन युक्तम् अतः पुंसाम् त्याज्यम् अनुपादेयम् इति एषा एवं प्रकारा मूर्खविचारणाऽज्ञानजनधारणा । 'भोः' इदं आदृत भिक्षा उपवास नियम सूर्यकिरणदाह आदिसे देहको कष्ट देना कहाँ ? ॥ २२ ॥ शिष्य—तैर्थिकोंका कहना है कि दुःखमिश्रित होनेके कारण संसारिक सुख परिहरणीय है । चार्वाक—(हंसकर) आः ! यह तो उन नरपशुओंकी दुर्बुद्धिका विलास है । विषय संगमसे होनेवाला सुख दुःखमिश्रित होनेके कारण त्याज्य है यह मूर्खोंका
द्वितीयोऽङ्कः ६६ व्रीहीञ्जिहासति सितोत्तमतण्डुलाढ्यान् को नाम भोस्तुषकणोपहितान्हितार्थी ॥ २३ ॥ महामोहः—अये, चिरेण खलु प्रमाणवन्ति वचनानि कर्णसुखमुप- जनयन्ति । (विलोक्य, सानन्दम्) हन्त, प्रियसृहन्मे चार्वाकः । चार्वाकः—(विलोक्य) एष महाराजो महामोहः । (उपसृत्य) जयतु जयतु महाराजः । एष चार्वाकः प्रणमति । महामोहः—चार्वाक, स्वागतं ते । इहोपविश्यताम् । चार्वाकः—(उपविश्य) एष कलेः साष्टाङ्गं प्रणामः । महामोहः—अये कले, भद्रमव्याहतम् । शिष्यसम्बोधनम् , को नाम हितार्थी अभिलषितेच्छुः श्रेयःकामयमानः सितोत्तम- तण्डुलाढ्यान् श्वेतोत्तमतण्डुलयुक्तान् व्रीहीन् धान्यानि तुषकणोपहितान् तुषयुक्तान् जिहासति त्यक्तुमिच्छति । यथातुषपूर्णस्य व्रीहिराशेः सितोत्तमतण्डुलग्रहतया हितार्थिनो ग्रहणमेव कुर्वन्ति न त्यागं, तथैवांशिकक्लेशपूर्णस्यापि सांसारिकसुख- स्यादर एव यतनीयं न त्याग इति, तत्त्यागप्रवृत्तिश्चोपादेयत्यागप्रवृत्तिरूपतया कर्तु- र्मूखतां गमयेदिति भावः । निदर्शनाऽलङ्कारः । पुंसामिति कर्त्तरि षष्ठी, त्याज्यमिति कृत्यप्रत्यययोगात् । तू त्तमनुपदमेवोक्तम् ॥ २३ ॥ चिरेण-बहोः कालात्परतः । प्रमाणवन्ति-युक्तियुक्तानि । कर्णसुखमुपजनयन्ति= श्रवणं तर्पयन्ति । प्रियसृहत्-मित्रम् । स्वागतम्-सत्कारः । इह-अत्र । उपविश्यताम्-स्थीयताम् , आस्यतामिति वा । कलेः-कलियुगस्य । साष्टाङ्गः-अष्टाङ्गेनतियुक्तः । भद्रमव्याहतम्-कुशलमक्षतम्, त्वदीये कुशले तु कापि क्षतिर्नास्तीति प्रश्नाशयः । विचार है। क्या हित चाहने वाला व्यक्ति भूसासे मिलित होनेके कारण सुन्दर चावलसे युक्त धानको छोड़ देता है ? ॥ २३ ॥ महामोह—अरे, बहुत दिनोंके बाद आज प्रमाणयुक्त बातें कानोंको सुख प्रदान कर रही है । (देखकर प्रसन्नतासे) अहा ! हमारा मित्र चार्वाक आरहा है । चार्वाक—(देखकर) ये महाराज महामोह है । (समीप जाकर) जय हो महा- राजकी । यह चार्वाक प्रणाम करता है । महामोह—चार्वाक, आओ, स्वागत है । यहाँ बैठो । चार्वाक—यह कलि आपको साष्टाङ्ग प्रणाम करता है । महामोह—कले, सब कुशल तो है ?
७० प्रबोधचन्द्रोदयम् चार्वाकः—देवप्रसादात्सर्वत्र भद्रम्। निर्वर्तितकृत्यशेषश्च देवपादमूलं द्रष्टुमिति। यतः— आज्ञामवाप्य महतीं द्विषतां निपाता- न्निर्वर्त्य तां सपदि लब्धसुखप्रसादः। उच्चैःप्रमोदमनुमोदितदर्शनः सन् धन्यो नमस्यति पदाम्बुरुहं प्रभूणाम्॥ २४॥ महामोहः—अथ तस्मिन्कलौ कियत्संवृत्तम् ? चार्वाकः—देव, व्यतीतवेदार्थपथः प्रथीयसीं यथेष्टचेष्टां गमितो महाजनः। देवप्रसादात्-त्वदनुग्रहात्। निर्वर्त्तितकृत्यशेषः-समाप्तकर्त्तव्यः। देवपादमूलम्- भवदीयचरणप्रान्तम्। आज्ञामिति० महतीम् कार्यगौरवगुर्वीम् आज्ञाम् प्रभोः आदेशम् अवाप्य लब्ध्वा, ताम् आज्ञाम् द्विषतां शत्रूणां निपातात् संहारात् निर्वर्त्य साधयित्वा सपदि सद्यः लब्धसुखप्रसादः प्राप्तसन्तोषः सन् उच्चैः प्रमोदो हर्षो यत्र तत्तथा सात्यानन्दम् अनुमोदितदर्शनः दर्शनदानकृपया कृतार्थीकृतः धन्यः स्तुत्यः प्रभूणाम् स्वामिनां भवताम् मोहमहाराजानाम् पदाम्बुरुहं चरणकमलम् नमस्यति प्रणमति। शत्रुनिपा- तविषयां प्रभोराज्ञामासाद्य शत्रुशातनेन तां सम्पाद्य च सन्तुष्टमना अहं चार्वाकः सानन्दं भवता दत्तदर्शनो भवतः पादकमलं प्रणमामीत्याशयः। पूर्वतनं वृत्तम्॥२४॥ तस्मिन् कलौ-तद्विषये, कलिना कियत्कार्यं कृतमिति प्रश्नाशयः। व्यतीतेति० महाजनः वैदिकजनः समधिको जन इति वा। प्रथीयसीम् पृथुतराम् भूयसीम् यथेष्टचेष्टाम् इच्छानुकूलव्यवहारम् गमितः यथेच्छाचारितां प्रापितः सन्नित्याशयः, व्यतीतवेदार्थपथः वैदिकमार्गाच्च्युतः। वैदिका जना भूयसीं यथेच्छा- चारितां लम्भिताः सन्तो वैदिकमार्गाच्च्याविता इत्येतावत् कार्यं जातमित्याशयः। चार्वाक—आपकी कृपासे सब कुशल है। सब कार्य सम्पन्न करके आपके चरणोंमे आया हूं। क्योंकि— बड़ी सी आज्ञा प्राप्त करके शत्रुओंका विनाशकर सुख तथा प्रसन्नता प्राप्त करके दर्शनकी अनुमति मिलजानेसे धन्य हो मैं प्रभुके चरणोंमें प्रणाम कर धन्य हो रहा हूं॥२४॥ महामोह—उस कलिके सम्बन्धमें कितनी दूर तक गति हुई है ? चार्वाक—देव, अधिकांश लोक वेदोक्त पथका त्याग करके यथेच्छाचारी बन गये है, इसमे न हम
द्वितीयोऽङ्कः ७१ तदत्र हेतुर्न कलिर्न चाप्यहं प्रभोः प्रभावो हि तनोति पौरुषम् ॥२५॥ तत्रोत्तराः पथिकाः पाश्चात्याश्च त्रयीमेव त्याजिताः । शमदमादीनां कैव कथा । अन्यत्रापि प्रायशो जीविकामात्रफलैव त्रयी । यथाहार्चायः— अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । प्रज्ञापौरुषहीनानां जीविकेति बृहस्पतिः ॥ २६ ॥ तदत्र अस्यां कार्यसिद्धौ न कलिः कलियुगम् हेतुः कारणम् न चापि अहं चार्वाकः कारणम् , प्रभोः महामोहस्य भवतः प्रभावः सामर्थ्यातिशयः हि पौरुषम् पुरुष- कारम् तनोति विस्तारयति । वैदिकानां लोकानां यथेच्छाचारावलम्बनेन वैदिकमार्गा- च्च्युतौ न कलेः कारणत्वं न वा मम चार्वाकस्य कारणत्वम् , अयं तु महामोहस्य प्रभोः प्रभाव एव स्वं पुरुषकारं प्रकटयतीति समधिकप्रभाववत्ताऽऽवेदनेन धन्य- तोक्ता । वंशस्थं वृत्तम् ॥ २५ ॥ आचार्यः-बृहस्पतिः । अग्निहोत्रमिति० अग्निहोत्रम् ज्योतिष्टोमादि, अथवाऽग्निहोत्रपदेनाग्निसोध्या- न्यखिलान्यपि श्रौतस्मार्तकर्मण्युपलक्ष्यन्ते, त्रयो वेदाः ऋग्यजुःसामरूपाः, त्रिदण्डम् कर्मत्यागरूपः सन्न्यासः, भस्मगुण्ठनम् शरीरे भस्मलेपः, तेन च भस्म- धारणपूर्वाणि सन्ध्यावन्दनदेवपूजनजपादीनि कर्माणि गृह्यन्ते । बुद्धिमन्तः पुरुषाः स्वबुद्धिवैभवेन राज्ञः सामदानाद्युपायेषु तत्तद्देशकालोचितमन्त्रप्रदानेन साहाय्य- माचरन्तो राज्ञः प्रीतिमातन्वते, पौरुषशालिनोऽपि पराक्रमेण शत्रून् विजित्य राज्ञः प्रीतिपात्रतां भजन्ते, द्वयेऽप्यमी राज्ञः सकाशाल्लब्धधना नयेन जीविकां सम्पाद- यन्ति, ये चैतादृशबुद्धिविकलाः पराक्रमहीनाश्च पुरुषास्ते नयेन स्वजीविकां सम्पाद- यितुमपारयन्तो लोकवञ्चनादन्यजीविकासाधनमपश्यन्तोऽग्निहोत्राद्यनेकविधविषय- जालं प्रसार्य भिन्नरुचींल्लोकान् कांश्चित् क्वचिदित्येवंप्रायोऽखिलांस्तान् कर्मपाश- बद्धान् सम्भाव्य पश्यतोहरा एते वैदिकंमन्या धूर्त्तबका लोकेभ्यो द्रव्यं लब्ध्वा स्वजीविकां सम्पादयन्तीत्याशयः ॥ २६ ॥ कारण है न कलि, यह तो आपका प्रभाव पौरुष दिखा रहा है ॥ २५ ॥ उसमें भी उत्तर और पश्चिमके लोगोंने तो वेदको छोड़ ही दिया है । शमदमादी क्या कथा ? दूसरी जगह भी वेदोंका फल केवल जीविका रह गई है, जैसाकि आचार्यने कहा है— अग्निहोत्र, वेदत्रय, दण्डधारण, भस्म यह सब बुद्धि-पौरुषहीन जनोंकी जीविका है ऐसा बृहस्पतिका मत है ॥ २६ ॥
७२ प्रबोधचन्द्रोदयम् तेन कुरुक्षेत्रादिषु तावद्देवेन स्वप्नेऽपि विद्याप्रबोधोदयो नाशङ्कनीयः। महामोहः—साधु संपादितम् । महत्खलु तत्तीर्थ व्यर्थीकृतम् । चार्वाकः—देव, अन्यच्च विज्ञाप्यमस्ति । महामोहः—किं तत् । चार्वाकः—अस्ति विष्णुभक्तिर्नाम महाप्रभावा योगिनी । सा तु कलिना यद्यपि विरलप्रचारा कृता तथापि तदनुगृहीतान्वयमालोकयितुमपि न प्रभवामः। तदत्र देवेनावधातव्यमिति । महामोहः—( सभयमात्मगतम् ) आः, प्रसिद्धमहाप्रभावा सा योगिनी स्वभावाद्विद्वेषिणी चास्माकं दुरुच्छेद्या सा । भवतु । ( स्वगतम् ) कार्य- कुरुक्षेत्रादिषु-महाभारताख्ययुद्धभूमितया प्रसिद्धं क्षेत्रं कुरुक्षेत्रं तत्प्रभृतिषु तीर्थ- स्थानेषु । देवेन-भवता । स्वप्नेऽपि-कदापि । विद्याप्रबोधयः-ज्ञानजन्म । आशङ्क- नीयः-सम्भाव्यः । सम्पादितम्-कृतम् । महत्-प्रधानम् । तत्-कुरुक्षेत्राख्यम् । व्यर्थीकृतम्-अका- र्यकारिजनितम् । विज्ञाप्यम्-बोधनीयम् । महाप्रभावा-अतिशयितसामर्थ्यशालिनी । योगिनी-सिद्धिमासाद्य परोच्चटन ।- दिकर्मपरा । सा-विष्णुभक्तिः । विरलप्रचारा-स्तोकसञ्चारा । तदनुगृहीतान्वयम्- तत्कृपापात्रजनवंशम् । ( साक्षात्तत्कृपापात्रस्य कथा दूरे तिष्ठतु, तयाऽनुगृहीतस्य जनस्य वंशे जन्मग्रहणमेवास्माकं प्रवेशं वारयितुमलमिति भावः ) आलोकयितुम्- द्रष्टुम् , किं पुनः स्प्रष्टुमिति भावः । प्रभवामः-समर्था भवामः । अत्र-विष्णुभक्त्याः प्रभावविषये । देवेन-भवता । अवधातव्यम्-ध्यानं प्रदेयम् । प्रसिद्धमहाप्रभावा-ख्यातप्रचुरसामर्थ्या । सा-विष्णुभक्तिः । स्वभावात्-अकृत्रि- अतः इन स्थानोंमें और कुरुक्षेत्रमें विद्याप्रबोधोदयकी आप आशङ्का न करें । महामोह —ठीक किया । बड़ा भारी तीर्थ व्यर्थ कर दिया । चार्वाक—महाराज, कुछ और निवेदन करना है । महामोह—वह क्या है ? चार्वाक—विष्णुभक्ति नामकी एक योगिनी है जिसका बडा प्रभाव है। यद्यपि कलिने उसे विरलप्रचार कर दिया है, फिर भी उसके द्वारा अनुगृहीत वंशकी ओर हम देख भी नहीं पाते हैं । आप इस पर ध्यान दें । महामोह—( डरकर-स्वगत ) आः ! वह योगिनी बडी प्रसिद्ध प्रभावा है और हमारे ऊपर स्वभावतः द्वेष भी रखती है, उसका नाश हमें करना चाहिये । ( प्रकाश )
मत्याहितं भविष्यति । ( प्रकाशम् ) तत्र भद्र, अलमनया शङ्कया । काम- क्रोधादिषु प्रतिपक्षेषु कुत्रेयमुदेष्यति । चार्वाकः—तथापि लघीयस्यपि रिपौ नानवहितेन जिगीषुणा भवि- तव्यम् । यतः— विपाकदारुणो राज्ञां रिपुरल्पोऽप्यरुंतुदः । उद्वेजयति सूक्ष्मोऽपि चरणं कण्टकाङ्कुरः ॥ २७ ॥ महामोहः—( नेपथ्याभिमुखमवलोक्य ) कः कोऽत्र भोः ।
मभावात् । विद्वेषिणी-शत्रुत्वकरो दुरुच्छेद्या-कष्टेनापास्या । कार्यमत्याहितं भवि- ष्यति-विष्णुभक्ति प्रभावं विस्तारयितुं यद्युपेक्षे तथापि नाशोऽस्माकमथ प्रत्यक्षं युध्ये तत्रापि सैव गतिरित्युभयतः पाशायामस्यां रज्जौ महद्भयमुपस्थितं वेद्यम् । कामक्रोधादिषु-अस्मद्वर्गीयेषु कामनाकोपादिषु । प्रतिपक्षेषु-शत्रुषु विरोधेषु । कुत्रेय- मुदेष्यति-क्व विष्णुभक्तिः प्रकाशमेष्यति, तस्याः प्रकाशीभावो हि लोकानां हृदये- ष्वेव भावी, तत्र सर्वत्र कामादिभिः स्वावासे कृते तस्याः प्रसरो न संभवतीति तदुदयशङ्कामाकारीति तात्पर्यम् । तथाऽपि-यद्यपि कामक्रोधादिवृत्ततया जनमनसां नास्ति विष्णुभक्तेरुदयस्या- शङ्केति योजनीयम् । लघीयसि-लघुतमे । रिपौ-शत्रौ । अनवहितेन-असावधानेन । जिगीषुणा-जयेच्छाभृता । विपाकेति० विपाकदारुणः परिणामभयङ्करः अल्पः क्षुद्रतमः अपि रिपुः शत्रुः राज्ञाम् भूभृताम् अरुन्तुदः मर्मव्यथकः, तत्र दृष्टान्तमाह-सूक्ष्मः कृशाग्रभागः अपि कण्टकाङ्कुरः कण्टकप्ररोहः चरणम् उद्वेजयति पीडयति । यथा कृशाग्रोऽपि कण्ट- काङ्कुरःपादव्यथाकरो भवति तथैव तुच्छोऽपि शत्रूराज्ञां मर्म व्यथयतीति तात्पर्यम् । निदर्शनाऽलङ्कारः । अरुः मर्मस्थानं तदुपपदात्तुदतेः खशि ‘अरुर्द्विषज्जन्तस्येति’ मुमि ‘अरुन्तुदः’ इति सिद्धम् ॥ २७ ॥ कः कोऽत्र भोः-द्वारदेशे कस्तिष्ठतीति जिज्ञासा ।
भद्र, इससे घबडानेकी जरूरत नहीं है । जब काम क्रोध आदि उसके खिलाफ हैं तब वह कहाँ सिर उठायेगी ? चार्वाक—तथापि विजिगीषु व्यक्तिको छोटेसे शत्रु पर भी सावधान दृष्टि रखनी चाहिये । क्योकि— परिणाममें भयङ्कर छोटा भी शत्रु राजाओंके मर्मको दुखाता रहता है, छोटा-सा भी कण्टक चरणको उद्विग्न कर देता है ॥ २७ ॥ महामोह—( नेपथ्यकी ओर देखकर ) कौन है ?
७४ प्रबोधचन्द्रोदयम् (प्रविश्य दौवारिकः) दौवारिकः—जयतु जयतु। आज्ञापयतु देवः। महामोहः—भो असत्सङ्ग, आदिश्यन्तां कामक्रोधलोभमदमात्सर्या- दयो यथा योगिनी विष्णुभक्तिर्भवद्भिरेवावहितैर्विहन्तव्येति। दौवारिकः—यदाज्ञापयति देवः। (इति निष्क्रान्तः) (ततः प्रविशति पत्रहस्तः पुरुषः) पुरुषः—अहमुत्कलदेशादागतोऽस्मि। अस्ति तत्र सागरतीरसन्नि- वेशे पुरुषोत्तमशब्दितं देवतायतनम्। तस्मिन्मदमानाभ्यां भट्टारकाभ्यां महाराजसकाशं प्रेषितोऽस्मि। (विलोक्य) एषा वाराणसी। इदं राज- कुलम्। यावत्प्रविशामि। (प्रविश्य) एष भट्टारकश्चार्वाकेण सार्धं किमपि मन्त्रयंस्तिष्ठति। तदुपसर्पाम्येनम्। (उपसृत्य) जयतु जयतु भट्टारकः। अवहितैः-सावधानैः। अत्र 'विष्णुभक्तिर्विहन्तव्येति' समारभ्य 'सा भवद्भिरेव निग्राह्या' इत्यन्तेन विष्णुभक्तिश्रद्धाहिंसाकथनेनाप्तिमतीतेर्विधूतं नाम प्रतिमुखसन्धेस्तृतीयमङ्गम्, विधू- तमाप्तिर्निवार्यतम्' इति तल्लक्षणात्। सागरतीरसन्निवेशे—समुद्रतीरस्थे पत्तने। पुरुषोत्तमशब्दितम्-पुरुषोत्तमपदेन ख्यातम्। देवतायतनम्-देवमन्दिरम्। तस्मिन् मदमानाभ्याम् भट्टारकाभ्याम्-तत्र स्थिताभ्यां राजभ्यां मदमानाभिधाभ्याम्। महाराजसकाशम्-महामोहपार्श्वे। (दौवारिक का प्रवेश) दौवारिक—जय हो जय हो! महाराजकी आज्ञा सुने। महामोह—अजी असत्सङ्ग, कामक्रोध लोभ मद मात्सर्य आदिको आदेश सुना दो कि आप लोग सावधान होकर देवी विष्णुभक्तिको मारदे। दौवारिक—महाराजकी जैसी आज्ञा। (जाता है) (हाथमें पत्र लेकर पुरुषका प्रवेश) पुरुष—मै उत्कल देश से आरहा हू। वहाँ समुद्रके किनारे पुरुषोत्तमका मन्दिर है। वहाँ रहने वाले मद-मान ने मुझे महाराजके पास भेजा है। (देखकर) यही है वाराणसी।
द्वितीयोऽङ्कः ७५ इदं पत्रं तावन्निरूप्यमाणं प्रेक्षतां भट्टारकः । (इति पत्रमर्पयति) । (हग्गे उक्कलदेसादो आगदोम्हि । अत्थि तत्थ सागरतीलसण्णिवेसे पुलिसोत्तमसग्णिदं देवदाअदणम् । तस्सिं मदमायेहिं भटकेहिं महालायसआसं पेसिदोम्हि । एसा बालाणसी । एदं लाअउलम् । जाव प्पविसामि । एसो भटको चव्वाकेण सद्धं किंचि मन्तअन्तो चिट्ठदि । ता उवसप्पामि णम् । जेदु जेदु भटको । एदं पत्तं जाव णिलु- प्पिअमाणं पेक्खदु भटको) महामोहः—(पत्रं गृहीत्वा) कुतो भवान् । पुरुषः—अहं पुरुषोत्तमादागतोऽस्मि । (हग्गे पुलिसोत्तमादो आगदोम्हि) महामोहः—(स्वगतम्) कार्यमत्याहितं भविष्यति । (प्रकाशम्) चार्वाक, गच्छ । कर्तव्येष्ववहितेन भवता भवितव्यम् । चार्वाकः—यदाज्ञापयति देवः । (इति निष्क्रान्तः) भट्टारकः-महामोहो राजा । मन्त्रयन्-परामृशन् । निरूप्यमाणम्-समर्प्यमाणम् । प्रेक्षताम्-पश्यतु । भट्टारकः-महाराजः । कुतो भवान् कस्मात्स्थानादागत इति प्रश्नाशयः । पुरुषोत्तमात्-पुरुषोत्तमशब्दप्रथिताज्जगन्नाथपुर्यभिधानात् स्थानात् आगतोऽ- स्मीति तदुत्तरार्थः । कार्यमत्याहितं भविष्यति-मदमानाभ्यामत्र पत्रे निवेद्यमानं वस्तु महाभय- जनकमत्त एव च सद्य एव ध्यातव्यं भविष्यति, तद्विलम्बमत्र सावधानता करणी- येत्यर्थः । कर्त्तव्येषु-विधेयवस्तुषु । अवहितेन-सावधानेन । भवता-चार्वाकेण । यह रहा राजकुल, पैठता हू । (प्रवेश करके) ये महाराज चार्वाके साथ बात कर रहे हैं । तब तक इनके पास जाता हू । (जाकर) जय हो महाराजकी । इस पत्रको महाराज अच्छी तरह देखें । (पत्र देता है) महामोह—(पत्र लेकर) तुम कहाँसे आये हो ? पुरुष—मै पुरुषोत्तमसे आया हू । महामोह—(स्वगत) आवश्यक कार्य होगा । (प्रकाश) चार्वाक, जाओ, कर्त्तव्यांशमे सावधान रहना । चर्वाक—महाराजकी जैसी आज्ञा । (जाता है)
७६ प्रबोधचन्द्रोदयम् महामोहः-( पत्रं वाचयति ) 'स्वस्ति श्रीवाराणस्यां महाराजाधिराजपरमेश्वरमहामोहपादान्पुरुषो- त्तमायतनान्मदमानौ साष्टाङ्गपातं प्रणम्य विज्ञापयतः । यथा भद्रमव्या- हतम् । अन्यच्च देवी शान्तिर्मात्रा श्रद्धया सह विवेकस्य दौत्यमापन्ना विवेकसंगमाय देवीमुपनिषदमहर्निशं प्रबोधयति । अपि च कामसहच- रोऽपि धर्मो वैराग्यादिभिरुपजप्त इव लक्ष्यते । यतः कामाद्विभिद्य कुतश्चि- न्निगूढः प्रचरति । तदेतज्ज्ञात्वा तत्र देवः प्रमाणमिति । पुरुषोत्तमायतनात्-जगन्नाथक्षेत्रात् । साष्टाङ्गपातम्-प्रणामं कृत्वा । विज्ञापयतः- सूचयतः । भद्रमव्याहतम्-कुशलमक्षतम् । शान्तेर्माता श्रद्धा-सा श्रद्धोपेता शान्तिः- विवेकस्य दौत्यमापन्ना-विवेकेन दूतीपदे नियुज्यमाना । दूत्यो हि विप्रतीपनायिकाः स्वामिभिः सङ्गमयितुं चेष्टन्ते, अत्रोपनिषत्प्रतीपनायिका, विवेकस्तत्पतिः, श्रद्धया मात्रोपेता शान्तिदूतीति बोध्यम् । विवेकसंगमाय-विवेकेन सह संगन्तुम् । अह- र्निशम्-रात्रिं दिवम् । प्रबोधयति-शिक्षयति । कामसहचरः-कामसुहृत् । समीप- वर्त्तितयाऽनयोः सुहृद्भावः, समीपवर्त्तिता च पुरुषार्थचतुष्टयमध्ये सहपाठवशात् । उपजप्तः-भेदं प्रापितः । उपजप्तत्वे प्रमाणमाह-यत इति० विभिद्य-पृथग्भूत्वा । निगूढः-प्रच्छन्नः । इदमत्र बोध्यम्-कामो धर्मश्च सहपठितौ पुरुषार्थौ, तौ सुहृदौ यतस्तयोधर्मः कामसाधनतयाऽऽचर्य्यते, यदवधिकामानुद्दिश्य धर्माचरणं क्रियते तावत् पर्यन्तं तयोर्मैत्री स्थिरा । वैराग्यादिप्रकाशेन धर्मेऽकामभावेनाचार्य्यमाणे धर्मः कामस्य पोषको न भवतीति धर्मो वैराग्यादिभिरुपजप्त इति कथितः । अन्योऽप्युपजप्तः स्व- सुहृदो हितेष्वसक्तः पृथङ् निगूढभावेन प्रचरति, तद्वदेवात्रापि कामसुहृद्धर्मो वैराग्यादिभिरुपजप्त इति कामं विहाय पृथग्भूतः फलाभिसन्धिशून्यतयाऽऽचर्य्यमाण इति तद्विषयाज्ञानान्निगूढचारितयोत्प्रेक्षित इति । देवः प्रमाणम्-यथोचितमादेष्टुं भवन्तः प्रभव इत्यर्थः । महामोह-( पत्र पढ़ता है ) स्वस्ति श्री वाराणसीमे महाराजाधिराज परमेश्वर महा- मोहके चरणोंमें पुरुषोत्तमसे आये हुए मद-मान प्रणाम करते हैं । यहाँ सब कुशल है । और देवी शान्ति अपनी माता श्रद्धाके साथ विवेककी दूती बनकर विवेकसे मिलनेके लिये देवी उपनिषद्को अहर्निश समझाती है । और काम सहचर होकर भी धर्म वैराग्य आदिसे फूटमें डाल दिया गया सा प्रतीत होता है । आजकल धर्म कामसे छिपकर घूमा करता है । इन बातोंको जानकर महाराज यथोचित कार्य करें ।
द्वितीयोऽङ्कः ५७ महामोहः—( सक्रोधम् ) आः किमेवमतिमुग्धौ शान्तेरपि बिभितः । कामादिषु प्रतिपक्षेषु कुतोऽस्याः संभवः । तथाहि— धाता विश्वविसृष्टिमात्रनिरतो देवोऽपि गौरीभुजा- श्लेषानन्दविघूर्णमाननयनो दक्षाध्वरध्वंसनः । दैत्यारिः कमलाकपोलमकरीलेखाङ्कितोरःस्थलः शेतेऽब्धावितरेषु जन्तुषु पुनः का नाम शान्तेः कथा ॥२८॥ सक्रोधम्-क्रोधश्चात्र मदमानयोरतिलघुकार्येऽपि व्यग्रतामालोक्य जातो बोध्यः । अतिमुग्धौ-अतिशयेन व्यामोहवन्तौ । बिभीतः = भयं कुरुतः । कामादिषु- कामक्रोधलोभमदमात्सर्यप्रभृतिषु । प्रतिपक्षेषु-विरोधिषु सत्सु । अस्याः-शान्तेः ( इन्द्रियोपशमरूपायाः) । कुतः सम्भवः नास्ति सम्भावना । सर्वतो निरुद्धेषु मार्गेषु कुत इन्द्रियशमरूपा शान्तिरुदेतुमीशेति तात्पर्यम् । धातेति० धाता ब्रह्मा विश्वस्य जगतः विसृष्टिमात्रे केवलायां विविधायां सृष्टि- प्रक्रियायां निरतः एकान्तभावेन संलग्नः, देवः दक्षाध्वरध्वंसनः दक्षयज्ञविनाशकः शिवः अपि गौर्याः पार्वत्याः भुजाभ्याम् बाहुभ्याम् य अश्लेषः आलिङ्गनं तेन य आनन्दः प्रमोदस्ततो विघूर्णमाननयनः अतिमत्तदृष्टिः, दैत्यारिः विष्णुः कमलाकपो- लमकर्याः लक्ष्मीगण्डस्थलवर्त्तिमस्याकृतिकचन्दनचर्चायाः लेखया रेखया अङ्कित- मुरःस्थलं वक्षोदेशो यस्य तादृशः सन् अब्धौ समुद्रे शेते निद्राति, ( तदेवं ब्रह्म- विष्णुशिवेषु कामाद्यधीनेषु ) पुनः इतरेषु साधारणजनेषु का नाम शान्तेः कथा ? कीदृशी शान्तिवार्त्ता ? विधातुर्विश्वनिर्माणव्यग्रतया शान्तिर्नास्ति, शिवः पार्वती- दृढालिङ्गनजन्यसुखावेशआस्यन्नयनः सन् कामपर एव, विष्णुरपि प्रियां कमलां वक्षसि स्वापयित्वा तदीयकपोलवर्त्तिमकरीलेखया स्वमुरो लाञ्छयित्वा चाब्धौ निर्भरं निद्रातीति कामाविष्ट एव, तदेवं त्रिष्वपि प्रधानदेवेषु शान्तिमत्तसम्भावना- विरहितेषु साधारणजनेष्वन्येषु शान्तेः कीदृशी चर्चा, तदेवं शान्त्या अलीकोदयतया ततो बिभ्यतोर्मदमानयोर्मुग्धत्वं सुप्रतीतमिति भावः । शार्दूलविक्रीडितं वृत्तम् , लक्षणं प्रागुक्तम् ॥ २८ ॥ महामोह—(क्रोधसे) यह इतने भोले हैं कि शान्तिसे भी डरते हैं । जब काम विरोधमें है तो शान्ति कब संभव है । देखो— ब्रह्मा सृष्टि करनेमे लगे हैं, महादेवको पार्वती बाहुपाश के आलिङ्गनसे फुरसत नहीं मिलती, और विष्णु छातीसे लक्ष्मीको लगाकर समुद्रमें सो रहे है, और लोगोंमें शान्तिकी क्या बात ? ॥ २८ ॥
५८ प्रबोधचन्द्रोदयम् ( पुरुषं प्रति वदति ) जाल्म, गच्छ । कामं सत्वरमुपेत्यादेशमस्माकं प्रतिपादय । तथा दुराशयो ऽधर्म इत्यस्माभिरवगतम् । तदस्मिन्मुहूर्तमपि न विश्वसितव्यम् । दृढं बद्ध्वा धारयितव्य इति । पुरुषः- यद्देव आज्ञापयति । ( जं देवो आणवेदि ) ( इति निष्क्रान्तः ) महामोहः-( स्वगतं विचिन्त्य ) शान्तेः कोऽभ्युपायः । अथवा अलमुपायान्तरेण । क्रोधलोभावेव तावदत्र पर्याप्तौ । ( प्रकाशम् ) कः कोऽत्र भोः । ( प्रविश्य दौवारिकः ) दौवारिकः- आज्ञापयतु देवः । जाल्म-मूर्ख, असमीक्ष्यकारिन्, तथात्वं चास्य स्थितिमविचार्यैवागमनात् ल्पनीयम् । सत्वरम्-शीघ्रम् । उपेत्य-प्राप्य । प्रतिपादय-कथय । दुराशयः-दुष्टाभिप्रायः । धर्मस्य वैराग्यो- त्पादकतया कामविमुखत्वेन दुष्टत्वमुक्तम् । अस्मिन्-धर्मे । मुहूर्त्तम्-क्षणम् । दृढं द्ध्वा-निपुणं संयम्य । बन्धनञ्च धर्मस्य काम्यानि फलान्युद्दिश्य विधीयमानत्वमेव, थाकरणेन धर्मो वैराग्यादिभिः कृतमुपजापं न मन्येतेति भावः । शान्तेः कोऽभ्यु- पायः-शान्तेर्निराकरणाय कीदृशः प्रयत्नः करणीय इति भावः । उपायान्तरेण- न्येन प्रयासेन, पर्याप्तौ-दक्षौ । ( पुरुषसे कहता है ) मूर्ख, जाओ । जल्दी जाकर हमारा आदेश सुना दो । हमने जान लिया कि धर्म दुष्ट उस पर एक क्षणके लिये भी विश्वास मत करना । उसे कसकर बांधे रहो । पुरुष-महाराजकी जैसी आज्ञा । ( जाता है ) महामोह-( स्वगत, सोचकर ) शान्तिका क्या प्रतीकार ? अथवा-प्रतीकारकी चिन्ता है, क्रोध लोभ ये दोनों इस कामके लिये काफी है । ( प्रकाश ) कोई है ? ( दौवारिकका प्रवेश ) दौवारिक-महाराज आदेश करें ।
द्वितीयोऽङ्कः ७६ महामोहः—तावदाहूयतां क्रोधो लोभश्च । पुरुषः—यदाज्ञापयति देवः । ( जं आणवेदि देवो ) । ( इति निष्क्रान्तः ) ( ततः प्रविशति क्रोधो लोभश्च ) क्रोधः—श्रुतं मया यथा शान्तिश्रद्धाविष्णुभक्तयो महाराजेन प्रति- पक्षमाचरन्तीति । अहो, मयि जीवति कथमासामात्मनि निरपेक्षितं चेष्टितम् । तथाहि— अन्धीकरोमि भुवनं बधिरीकरोमि धीरं सचेतनमचेतनतां नयामि । कृत्यं न पश्यति न येन हितं शृणोति धीमानधीतमपि न प्रतिसंदधाति ॥ २६ ॥ आहूयताम्-आकार्य्ताम् । महाराजेन प्रतिपक्षम्-महाराजस्य महामोहस्य विरुद्धम् । मयि-क्रोधे । जीवति- प्राणान् धारयति । आसाम्-शान्तिश्रद्धाविष्णुभक्तीनाम् । आत्मनि निरपेक्षम्- स्वस्मिन्नपेक्षारहितम् । क्रोधसुपेत्य यदमूरित्थं प्रगल्भन्ते तद्भूषामात्मविनाशा- यैव जायेत, तदेवं स्वचिन्तारहितमिदं तासां चेष्टितमिति तात्पर्यम् । अन्धीकरोमीति० भुवनम् क्षमामण्डलम् अन्धीकरोमि अनन्धमन्धंकरोमि कर्त्त- व्याकर्त्तव्यविचाररूपदृष्टिशून्यं करोमीत्यर्थः । ( भुवनम् ) बधिरीकरोमि श्रुतिसाध- नेन्द्रियरहितं करोमि ( येन हितं न शृणुयात् ) सचेतनम् चेतनया सहितम् धीरम् मनस्विनं जनम् अचेतनताम् ज्ञानशून्यत्वम् नयामि प्रापयामि । येन अन्धताऽऽ- पादनेन कृत्यम् कर्त्तव्यम् न पश्यति विचारयति, येन बधिरताप्रापणेन हितम् न महामोह—तब तक क्रोध और लोभको बुलाओ । पुरुष—महाराजकी जो आज्ञा । ( क्रोध और लोभका प्रवेश ) क्रोध—मैने सुना है कि शान्ति, श्रद्धा और विष्णुभक्ति महाराजके विरुद्ध आचरण कर रही है । अहो ! हमारे जीतेजी इन लोगोको अपनी चिन्ता भूल गई ? क्योकि— मै जगत्को अन्धा और बहरा बना सकता हू, विद्वान्को अधीर तथा मूर्ख कर दे कता हूँ, जिससे उसे न कर्त्तव्य ज्ञान होगा, न वह हित बात सुनेगा, बुद्धिमान् होकर भी इ पढ़ी बाते भूल जायगा ॥ २९ ॥
८० प्रबोधचन्द्रोदयम् लोभः—अये, मदुपगृहीता मनोरथसरित्परम्परामेव तावन्न तरिष्यन्ति किं पुनः शान्त्यादींश्चिन्तयिष्यन्ति । पश्य पश्य सखे— सन्त्येते मम दन्तिनो मदजलप्रम्लानगण्डस्थला वातव्यायतपातिनश्च तुरगा भूयोऽपि लप्स्येऽपरान् । एतल्लब्धमिदं लभे पुनरिदं लब्धाधिकं ध्यायतां चिन्ताजर्जरचेतसां बत नृणां का नाम शान्तेः कथा ॥ ३० ॥ शृणोति, येन चाचेतनतानयनेन धीमान् बुद्धिमान् अपि अधीतम् पठितम् ( अपि ) न प्रतिसन्दधाति स्मरति । क्रोधेनान्धीकृतो जनो हितमहितं च विवेक्तुमशक्तो भवति, बधिरीकृतश्च हितमपि नाकणर्यति, अचेतनभावं गमितश्च धीमानपि नाधीत- मपि स्मरतीति भावः । तथा चोक्तमपि—'क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद्- गुरून्पि । क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत्' इति ॥ २९ ॥ मदुपगृहीताः=लोभेन धृताः । मनोरथसरित्परम्पराम्-अभिलाषरूपनदीश्रेणीम् । तरिष्यन्ति-पारं गमिष्यन्ति । लोभगृहीता जनाः सदैव मनोरथपरम्परामेव तन्वाना- स्तत्पूर्त्तय एव यतमानाश्च शान्तिविषयां चिन्तामपि न कर्त्तुं पारयन्तीति भावः । मनोरथपरम्पराप्रकारमग्रे वक्ष्यति-सन्त्येते इत्यत्र । सन्त्येत इति० मदजलप्रम्लानगण्डस्थलाः मदवारिक्लिन्नकपोलदेशाः एते दन्तिनः हस्तिनः मम सन्ति मदधिकारे वर्त्तन्ते, वाताः वायवः इव व्यायतपातिनः अधिक- धाविनः तुरगाः अश्वाश्च 'मम सन्ति' इत्यनुषज्य योजनीयम् । भूयः पुनः अपरान् अन्यान् अपि गजान् तुरगांश्च लप्स्ये । एतत् लब्धम् प्राप्तम् इदम् पुनर्लभे प्राप्नो- मि इदम् एवंप्रकारेण लब्धाधिकं प्राप्तादुपरि ध्यायताम् चिन्तयताम् चिन्ताजर्जर- चेतसाम् चिन्ताकदर्थितस्वान्तानां नृणाम् नराणाम् शान्तेः का नाम कथा बत ? येषां मनसि सदेदमाप्तमिदमाप्तव्यमित्येवमलब्धलाभविषया चिन्ता स्वां ज्वालां विस्तारयति तेषां शान्तेः का चर्चा ? बतेति निश्चयार्थे । व्यायतं दीर्घं पतन्तीति ध्यायतपातिनः, वातव्यायतपातिन इत्यस्य वायुवेगा इति निर्गलितार्थः । एतेन लोभस्य स्वरूपं प्रकटीकृतम् ॥ ३० ॥ लोभ—अरे, मैं जिसे पकड़ लूंगा वह मनोरथोंसे अपना पिण्ड नहीं छुड़ा सकेगा, शान्तिकी बात क्या सोचेगा ? देखो, देखो, मित्र, ये मेरे मतवाले हाथी हैं, ये मेरे हवा की तरह द्रुतगामी घोडे हैं और हाथी घोड़े मुझे मिलेंगे । यह पा लिया और पाना है इस तरह लब्धसे आगेकी चिन्तामें जर्जर चित्त बाले मनुष्योंको शान्तिकी बात क्या सूझेगी ॥ ३० ॥
द्वितीयोऽङ्कः ८१ क्रोधः—सखे, विदितस्त्वया मत्प्रभावः । त्वाष्ट्रं वृत्रमघातयत्सुरपतिश्चन्द्रार्धचूड़ोऽच्छिन- द्देवो ब्रह्मशिरो वसिष्ठतनयानाघातयत्कौशिकः । अपि च— विद्यावन्त्यपि कीर्तिमन्त्यपि सदाचारावदातान्यपि प्रोच्चैःपौरुषभूषणान्यपि कुलान्युद्धर्तुमीशः क्षणात् ॥ ३१ ॥ लोभः—तृष्णे, इतस्तावत् । ( प्रविश्य तृष्णा ) मत्प्रभावः—मम क्रोधस्य सामर्थ्यम् । त्वाष्ट्रमिति० त्वष्टुः देवशिल्पिनः अपत्यम् त्वाष्ट्रम् वृत्रम् सुरपतिः देवेन्द्रः अघा- तयत् हतवान्, देवः चन्द्रार्धचूडः चन्द्रशेखरः शिवः ब्रह्मशिरः ब्रह्मणो मस्तकम् अच्छिनत् अकृन्तयत्, कौशिकः विश्वामित्रो वसिष्ठतनयान् शतसंख्याकान् महर्षे- र्वसिष्ठस्य पुत्रान् अघातयत् अमारयत्, क्रोधान्धतायामिन्द्रः स्वशिल्पिनः पुत्रं वृत्रासुरमहन्, शिवो ब्रह्मशिरोऽच्छिनत्, कौशिकः परस्यापराधे परान् वसिष्ठतन- यान् अमारयत्, तदेवं क्रोधमाहात्म्यं महदिति सामान्येन समर्थयितुमाह—विद्या- वन्त्यपीति० ( अहं क्रोधः ) विद्यावन्ति प्रशस्तविद्यानि अपि कीर्त्तिमन्ति यशोभाज- नानि अपि, सदाचारावदातानि चरित्रशुद्धानि अपि, प्रोच्चैःपौरुषभूषणानि साम- र्थ्यशालितया प्रथितानि अपि कुलानि लोकसमुदायान् वंशान् वा क्षणात् एकेन मुहूर्तेन उद्धर्तुम् च्यावयितुम् ईशः समर्थः । क्रोधोऽह विद्यावतां यशस्विनां चारि- त्रिकशुद्धियुक्तानां पौरुषप्रथितानाञ्च जनानां हृदयानि बलादधिकर्तुं क्षमो यथादृष्ट- नेषूदाहरणेषु-इन्द्रो वृत्रासुरवधमकार्षीत्, संयमिश्रेष्ठशिवो ब्रह्मणः शिरोऽकृन्तत् , तपस्विचूड़ामणिविश्वामित्रो वसिष्ठपुत्रानघातय दिति । तदेवं प्रभावोऽहमिति भावः ॥ शार्दूलविक्रीडितमेव वृत्तम् ॥ ३१ ॥ इतस्तावत्–आगच्छेति शेषः । क्रोध—मित्र, तुम तो हमारा प्रभाव जानते ही हो । इन्द्रने वृत्रासुरका वध किया, शिवने ब्रह्माका सिर काटा, विश्वामित्रने वसिष्ठ पुत्रोंका [वध] किया । और विद्यासे युक्त तथा कीर्त्तिसे धवल एवं पौरुषसे भूषित कुलोंको भी मैं [क्षण] भरमे वशीकृत कर सकता हूँ ॥ ३१ ॥ लोभ—तृष्णे, जरा इधर तो आना । ( तृष्णाका प्रवेश ) ६ प्र० च०
=२ प्रबोधचन्द्रोदयम् तृष्णाः—किमाज्ञापयत्यार्यपुत्रः । (कि आणवेदि अज्जउत्तो) लोभः—प्रिये, श्रूयताम्— क्षेत्रग्रामवनाद्रिपत्तनपुरद्वीपक्षमामण्डल- प्रत्याशायतसूत्रबद्धमनसां लब्धाधिकं ध्यायताम् । तृष्णे देवि यदि प्रसीदसि तनोष्याङ्गानि तुङ्गानि चे- त्तद्भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डलक्षैरपि ॥ ३२ ॥ तृष्णा—आर्यपुत्र, स्वयमेव तावदहमस्मिन्नर्थे नित्यमभियुक्ता । सांप्र- क्षेत्र्यानेति० क्षेत्रम् कर्षणोपयुक्ता भूमिः, ग्रामः-वसतिः, वनम् काष्ठप्राप्तिसाधनम्, अद्रिः पर्वतः स च शैलेयादिप्राप्तिहेतुः, पत्तनम् स्वल्पग्रामः, पुरम् नगरम्, द्वीपम् देशभेदः, क्षमामण्डलम् पृथिवीचक्रम्, क्षेत्रमारभ्य क्षमामण्डलान्तमुपभोगार्थम- पेक्ष्यमागमिष्यते प्राणिभिरिति प्रसिद्धिम नुरुध्येषां क्रमशः लाभेऽग्रेऽग्रे वर्द्धते प्रत्या- शेति दर्शयितुमित्थं प्रोक्तम् । एषां प्रत्याशा प्राप्तीच्छा एव आयतम् विस्तृतम् सूत्रं रज्जुस्तन्बन्धनसाधनत्वात्तेन बद्धानि नियन्त्रितानि मनांसि हृदयानि येषां तेषाम् लब्धा- धिकम् प्राप्तादग्रिमम् ध्यायताम् साभिलाषमनसा भावयताम् प्राणभृताम् प्राणिनाम् प्रति तृष्णे देवि, यदि प्रसीदसि अनुग्रहं करोषि, तथा कृत्वा च अङ्गानि शरीरावयवान् तुङ्गानि महान्ति स्थूलानि च तनोषि कुरुषे चेत् तत् तदा, भोः इदं सम्बोधनम् नामान्तरं व्यञ्जयितुम्, ब्रह्माण्डलक्षैरपि लक्षसङ्ख्यैः ब्रह्माण्डैः प्राप्तैरपि कुतः शमकथा शान्तिचर्चा ? अयमाशयः—क्षेत्रादि क्षमामण्डलान्तं प्राप्तवन्तोऽपि जनाः प्राप्तादधिकं कामयन्त इति न तिरोहितं दृष्टिशालिनामस्यां स्थितौ त्वं तृष्णा यदि प्रसद्य लब्धा- धिकं ध्यायतां प्राणिनामङ्गानि स्थूलानि करोषि अर्थात् प्राप्तिप्रत्याशायां यत्र तत्र भ्रमणक्षमाणि सम्पाद्य स्वविस्तृतयेऽवसरमुत्पादयसि तदा ते सतृष्णा जना ब्रह्मा- ण्डलक्षाणि प्राप्यापि न शमं भजिष्यन्त इति । तदैवं यतस्वेति तदनुरोधः पूर्वो- क्तमेव वृत्तम् ॥ ३२ ॥ स्वयम्-अप्रवर्त्तिता । अस्मिन्नर्थे-सतृष्णजनतृष्णासमेधने । नित्यम्-सततम् । तृष्णा—आर्यपुत्रकी क्या आज्ञा है ? लोभ—प्रिये, सुनो,— क्षेत्र, ग्राम, वन, पहाड, गाँव, पृथ्वीमण्डल की आशामें जिनके दिल बंधे हैं, जो लब्धाधिक का ध्यान कर रहे हैं, यदि तुम कृपा करके उनके अङ्गों को स्थूलकर दो तो हे प्रिये ब्रह्माण्ड पाने पर भी प्राणियोंको शान्ति कहाँ होगी ॥ ३२ ॥ तृष्णा—आर्यपुत्र, मैं इस विषयमें खुद सचेष्ट रहती हूँ। अब आपके इशारा को
द्वितीयाऽङ्कः ८३ तमार्थपुत्रस्याज्ञया ब्रह्माण्डकोटयोऽपि न मे उदरं पूरयिष्यन्ति । (अज्जउत्त, सञ्चं जेव्व दाव अहं एदस्स अत्थे णिच्चं अहिजुत्ता । संपदं अज्जउत्तस्स अण्णाए बह्माण्डकोटिश्रोवि ण मे उदरं पूरेइस्संति ) क्रोधः—हिंसे, इत आगम्यताम् । ( प्रविश्य हिंसा ) हिंसा—एषास्मि । आज्ञापयत्वार्यपुत्रः । (एसम्हि । आणवेदु अज्जउत्तो) क्रोधः—प्रिये, तावत्त्वया सह धर्मचारिण्या मातृपितृवधोऽपि ममे- षत्कर एव । तथाहि— केयं माता पिशाची क इव हि जनको भ्रातरः केऽत्र कीटा वध्योऽयं बन्धुवर्गः कुटिलविटसुहृच्चेष्टिता ज्ञातयोऽमी । ( हस्तौ निष्पीड्य ) आगर्भं यावदेषां कुलमिदमखिलं नैव निःशेषयामि भियुक्ता-तत्परा । ब्रह्माण्डकोटयः-कोटिसंख्यकब्रह्माण्डानि । न मे उदरं पूरयि- न्ति तृप्तिं जनयिष्यन्ति । सहधर्मचारिण्या-स्त्रिया । ईषत्करः-सुकरः । हिंसासहचरः क्रोधो मातरं पित- पि च हन्तुं प्रवृत्तिशालीति भावः । केयमिति० इयं पिशाची राक्षसी इव माता जननी का ? न काऽपीत्यर्थः, जनकः ता क इव ? न कोऽपीत्यर्थः । कीटाः कीटवत्तुच्छाः भ्रातरः सोदराः अत्र के ? कोऽपीति भावः । अयम् बन्धुवर्गः परिवारचयः बन्ध्यः निष्प्रयोजनः । अमी थः दायादाः कुटिलविटसुहृच्चेष्टिताः कुटिलाः वक्राभिसन्धयो ये विटाः धूर्त्तजारा- दत् सुहृच्चेष्टितं मित्रताव् व्यवहारो येषां तादृशाः सन्तीति शेषः । यावत् यावत्काल- न्तम् एषाम् भ्रातृबन्धुवर्गज्ञातीनाम् आगर्भम् गर्भावस्थितानप्यपरित्यज्य अखि- अने पर तो करोड़ों ब्रह्माण्ड भी हमारे उदरको पूर्ण नही कर पायेंगे । क्रोध—हिंसे, जरा इधर तो आना । ( हिंसाका प्रवेश ) हिंसा—हाजिर हूं, आर्यपुत्र आदेश दें । क्रोध—प्रिये, तुमको प्राप्त कर मेरे लिये माता-पिताका वध भी आसान है, क्योंकि— पिशाची माता कौन है ? पिता कौन है ? कीटतुल्य ये भाई कौन है ? बन्धुओंको रगाना चाहिये । इन ज्ञातिजनोंका आचरण कुटिलधूर्त्तों का सा है । जब तक गर्भ
८४ प्रबोधचन्द्रोदयम् स्फूर्जन्तः क्रोधवह्नेर्न दधति विरतिं तावदङ्गे स्फुलिङ्गाः ॥ ३३ ॥ (विलोक्य) एष स्वामी । तदुपसर्पामः । (सर्वे उपसृत्य) जयतु जयतु देवः । महामोहः—श्रद्धायास्तनया शान्तिरस्मद्द्वेषिणी । सा भवद्भिरवहि- तैर्निग्राह्येति । सर्वे—यदादिशति देवः । (इति निष्क्रान्ताः) महामोहः—श्रद्धायास्तनया इत्युपक्षेपेणोपायान्तरमपि हृदयमारू- ढम् । तथाहि । शान्तेर्माता श्रद्धा । सा च परतन्त्रा । तत्केनाप्युपायेनोप- निषत्सकाशात्तावच्छ्रद्धापकर्षणं कर्तव्यम् । ततो मातृवियोगदुःखादति- लम् समग्रम् इदम् कुलम् नैव निःशेषयामि समापयामि तावत् तदवधि अङ्गे मदीये देहे स्फूर्जन्तः वर्धमानाः क्रोधवह्नेः कोपाग्नेः स्फुलिङ्गाः अग्निकणाः विरतिम् निवृत्तिम् न दधति धारयन्ति । यावदेतेषां भ्रात्रादीनामखिलमपि कुलं न विनाशयामि तावन्मम कोपस्य शान्तिर्न भवतीति तात्पर्यम् ॥ ३३ ॥ तनया-पुत्री, तदुदितत्वाच्छान्तेस्तत्पुत्रीभावेन रूपणम् । अस्मद्द्वेषिणी-अस्माकं प्रतिपन्थिनी । अवहितैः-सावधानैः । निग्राह्या-निग्रहीतव्या, दण्डनीयेति यावत् । आदिशति-आज्ञापयति । अत्रार्त्तिशान्तिप्रतीतेः शमो नाम प्रतिमुखसन्धेश्च- तुर्थमङ्गमुक्तं, तल्लक्षणं यथा—'आर्त्तिशान्तिः । शमः स्मृतः' इति । तनया-पुत्री । इत्युपक्षेपेण-इत्यस्य ध्यानपथागतत्वेन । उपायान्तरम्-अन्य समेत इनके कुलका नाश नहीं कर लेता हू तब तक क्रोधवह्निकी लपटें शान्त नहीं होंगी ॥ ३३ ॥ (देखकर) ये महाराज है । समीप जाता हूं । (सभी जाते हैं) जय हो महाराजकी, जय हो । महामोह—श्रद्धाकी बेटी शान्ति हमारी शत्रु है, तुमलोग सावधानतासे उसे निगृ- हीत करो । सब—जो आज्ञा महाराज की । (सब जाते हैं) महामोह—'श्रद्धाकी तनया है' इस प्रसङ्गसे एक दूसरा उपाय भी हमारी दृष्टिमे आगया । क्योंकि शान्तिका माता श्रद्धा । वह परतन्त्र है । इसलिये किसी छलसे उप-
द्वितीयोऽङ्कः ८५ मृदुलतया शान्तिरुपरता भविष्यति । श्रद्धां व्याक्रष्टुं मिथ्यादृष्टिरेव विला- सिनी परं प्रगल्भेति तदस्मिन्विषये सैव नियुज्यताम् । (पार्श्वतो विलोक्य) विभ्रमावति, सत्वरमाहूयतां मिथ्यादृष्टिविलासिनी । विभ्रमावती-यद्देव आज्ञापयति । (जं देवो आणवेदि) । (निष्क्रम्य मिथ्यादृष्ट्या सह प्रविशति) मिथ्यादृष्टिः-सखि, चिरदृष्टस्य महाराजस्य कथं मुखं प्रेक्षिष्ये । न खलु मां महाराज उपालप्स्यते ? (सहि, चिरदिट्ठस्स महाराअस्स कहं मुहं पेक्खिस्सं । णं खु मं महाराओ उवालहिस्सदि ?) विभ्रमावती-सखि, त्वन्मुखदर्शनेनात्मानमेव महाराजो न वेत्स्यति । उपायः । सा च-शान्तिः । परतन्त्रा-मात्राद्यत्ता । उपनिषत्सकाशात्-उपनिषदः समीपदेशात् । श्रद्धाऽपकर्षणम्-श्रद्धाया दूरीकरणम् । अतिमृदुलतया-अतिसुकुमार- तया । उपरता-मृता । श्रद्धासाहचर्यव्यपगमे शान्तेर्नाशस्तदायत्तत्वात्तस्या इति मनसिकृत्वेदं रूपकम् । व्याक्रष्टुम्-अपगमयितुम् , उपनिषदः समीपाच्चालयितु- मित्यर्थः । मिथ्यादृष्टिः-नास्तिकता । प्रगल्भा-धृष्टा, क्षमेति भावः । अस्मिन् विषये- श्रद्धाया उपनिषत्सकाशादपकर्षणरूपे कर्मणि। सा-मिथ्यादृष्टिः । नियुज्यताम्-अधि- क्रियताम् । 'विभ्रमावति' इदं मिथ्यादृष्टिसख्या नाम, 'अन्यतोऽपि दृश्यते' इति विभ्रमशब्दस्य दीर्घः । सत्वरम्-शीघ्रम् । आहूयताम्-आकार्यताम् । चिरदृष्टस्य-बहोः कालात् परतः साक्षात्कृतस्य । प्रेक्षिष्ये-द्रक्ष्यामि । उपालप्स्यते इयन्तं कालं कुत्र स्थितासि ? कथं न दृष्टासि ? इत्येवं प्रकारमुपालम्भं न प्रदास्य- तीति जिज्ञासा । त्वन्मुखदर्शनेन-त्वद्वदनावलोकनेन । आत्मानमेव न वेत्स्यति-आत्मानं विस्म- निषद्के पाससे श्रद्धाको हथिया लें । इस तरह माके वियोगमे शान्ति ढीली पड जायगी । श्रद्धाको बहकानेमें मिथ्यादृष्टि ही समर्थ हों सकेगी, अतः इस कार्यके लिये उसे ही नियुक्त करना चाहिये । (बगलकी ओर ताककर) विभ्रमावति, विलासिनी मिथ्यादृष्टिको शीघ्र बुला लाओ । विभ्रमावती-महाराजकी जो आज्ञा । (बाहर जाकर मिथ्या दृष्टिके साथ प्रवेश) मिथ्यादृष्टि-सखि, बहुत दिनों के बाद महाराज का मुख कैसे देख सकूंगी, क्या महाराज मुझे उलाहने नही देंगे ? विभ्रमावती-सखि, तुम्हारा मुख देखकर महाराज अपने को भूल जायेगे, फिर