भारतकोश
संग्रह पर लौटें

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

द्वितीयोऽङ्कः । २१ चेटी—आयासिता खल्वारण्यिका दुष्टमधुकरैः । तद्यावदुपसृत्य समाश्वासयामि । आरण्यके मो बिभिहि । एषोपगतास्मि । ( साआ- सिदा क्खु आरणिआ दुट्ठमहुअरेहि । ता जाव उवसप्पिअ समस्सासेमि । आरणिए मा भआहि । एसा उवअदम्हि । ) विदूषकः—भोः अपसरापसर । एषा खल्विन्दीवरिकागता । ऐतं वृत्तान्तं प्रेक्ष्य देव्यै निवेदयिष्यति । ( अङ्गुल्या निर्दिश्य ।) तदिदमेव कदलीगृहं प्रविश्य मुहूर्त्तं तिष्ठावः । ( भो ओसर ओसर । एसा क्खु इन्दी- वरिआ आगदा । एदं उत्तन्तं पेक्खिअ देवीए णिवेदिस्सदि । ता इमं एव्व कदलीघरं पविसिअ मुहुत्तं चिट्ठम्ह । ) ( उभौ तथा कुरुतः । ) चेटी—( उपसृत्य कपोलौ स्पृशन्ती ।) हञ्जे आरण्यिके । कमलसदृ- शस्य तव वदनस्यायं दोषो यन्मधुकरा एवमपराध्यन्ति । (हस्ते गृहीत्वा ।) तदेहि गच्छावः । परिणतो दिवसः । ( हञ्जे आरणिए कमलसरिसस्स तुह वअ- णस्स अअं दोसो जं महुअरा एवं अवराहन्ति । ता एहि गच्छम्ह । परिणदो दिअहो । ) ( गमने नाटयतः । ) आर०—( कदलीगृहाभिमुखमवलोक्य ।) हञ्जे इन्दीवरिके अति- शिशिरतया सल्लिटस्योरुस्तैम्भ इव समुत्पन्नः । तच्छनैः शनैर्गच्छावः । ( हञ्जे इन्दीवरिए अदिसिसिरदाए सल्लिस्स ऊरुत्थम्भो विअ समुप्पण्णो । ता सणिअं सणिअं गच्छम्ह । ) चेटी—तथा । ( तह । ) ( इति निष्क्रान्ते । ) विदूषक—भोः एहि निष्कामावः । तां गृहीत्वैषा दास्याः सुतेन्दीव- रिका गताँ । ( भो एहि णिक्कमाम्ह । तं गेण्हिअ एसा दासीए सुदा इन्दीवरिआ गदा । ) राजा—( निःश्वस्य ।) कथं गता । सखे वसन्तक । न खल्वविघ्न- मभिरुषितमन्वर्थैः प्राप्यन्ते । ( विलोक्य ।) सखे पश्य पश्य । कथं गता उत्कण्ठयिष्य । शकुन्तलासु प्रियंवदास्वैतद्द्यम् । अभिगम्याभिनन्दितमि०—एवं शकुन्तलायां—अहो विस्मयः प्रार्थितार्थसिद्धयः । इति । १ मा भेषीः मा भेषीः । समाश्वासयिष्ये (मा अह्नि एसा अभाइद्वि)- २ नेदंने (ता एई). ३ कण्ठः. ४ अभ्यन्तरं—तदा कुरुतः । इत्यधिकं कूटपुस्तकयोः.

२२ प्रियदर्शिकायां आबद्धमुखमपार्थं कण्टकितं कमलकाननं तस्याः । सुकुमारपाणिपल्लवसंस्पर्शसुखं कथयतीव ॥ ९ ॥ ( निःश्वस्य । ) सखे ! क इदानीमुपायः पुनस्तां द्रष्टुम् । विदूषकः—भोः त्वमेव पुत्तलियां भङ्क्तेदानीं रोदिषि । न मम खलु ब्राह्मणस्य वचनं करोषि । ( भो तुमे एव्व पुत्तलिअं भञ्जिअ दाणिं रोदिसि । ण मह क्खु बह्मणस्स वअणं करेसि । ) राजा—किं मया न कृतम् । विदूषकः—तदिदानीं विस्मृतम् । यथा तूष्णीको भूत्वोपसर्पेति मया भणितम् । अतिसंकटे यद्भवान्प्रविश्यालीकपाण्डित्यदुविदग्धतया “ अयि विसृज विषादम् ” इत्येतैरन्यैश्च कटुवचनैर्निर्भर्त्स्य सांप्रतं किं रोदिषि । पुनरप्युपायं पृच्छसि । ( तं दाणिं विसुमरिदं । जह तुण्हीओ भविअ उवसप्पेत्ति मए भणिदं । आदिसंकडे ज भवं पविसिअ अलिअपंडिच्चदुव्विदग्गदाए अह विसिज्ज विसादेत्ति एदेहिं अन्नेहिं अ कडुअवअणेहिं णिब्भच्छिअ संपदं किं रोदिसि । पुणो वि उवाअं पुच्छसि । ) राजा— कथं समाश्वासनमपि निर्भर्त्सनमिति भणितं मूर्खेन । विदूषकः—ज्ञातमेव कोऽत्र मूर्ख इति । तत्किमेतेन । अस्तमया- भिलाषी भगवान्सहस्ररश्मिः । तदेह्मभ्यन्तरमेव प्रविशावः । ( जाणिदं एव्व को एत्थ मुक्खोत्ति । ता किं एदेण । अत्थमणाहिलासी भअवं सहस्सररसी । ता एहि अब्भन्तरं एव्व पविसह्म । ) राजा—( विलोक्य । ) अये परिणतप्रायो दिवसः । अहह । संप्रति हि— हृत्वा पद्मवनद्युतिं प्रियतमेवेयं दिनश्रीर्गता रागोऽस्मिन्मम चेतसीय सवितुर्बिम्बेऽधिकं लक्ष्यते । आबद्धेति । इदं कमलकाननं पद्मवनं व्यापन्नं मुकुलितं मुखं यस्य तत्तथाबद्ध- मुखमपि । कण्टकितं सञ्जातकण्टकं सरोमाञ्चं च सत् । तस्या आरण्यिकायाः यः सुकुमारः पाणिपल्लवः तस्य संस्पर्शन जातं सुखं कथयतीव । उत्प्रेक्षालंकारः । पथ्यार्यावृत्तम् ॥ ९ ॥ पुत्तलियां पाञ्चालिकाम् । अतिसंकटे इति सोच्छ्वासम् । अलीकपाण्डित्यं मिथ्यावैदग्ध्यं तेन दुर्विदग्धः साभिमानः पण्डितंमन्य इत्यर्थः । तस्य भावस्तत्ता तया । अस्तमयमभिलषतीत्यस्तमयाभिलाषी आसन्नस्तमय इत्यर्थः । हृत्वेति । इयं दिनश्रीः पद्मवनस्य कान्तिं शोभां हृत्वा प्रिया आरण्यिका इव गता । अस्मिन्पुरोदृश्यमाने सवितुर्बिम्बे मम चेतसि इव रागो रक्तिमा अनुरागश्च अधिकं १ अभ्युपायः २ मे दुर्वाक्यं ( मे मुखरत्वम् ) . ३ तदा भणितं.. विहस्य 'अयि... कटुवचनैः भर्त्स्य सम्प्रतं. ४ एहीतः. ५ दिवसकरः ( दिवसहरो ).

तृतीयोऽङ्कः । २३ चक्राह्नोऽहमिव स्थितः सहचरीं ध्यायन्नलिन्यास्तटे संजाता सहसा ममेव भुवनस्याप्यन्धकारा दिशः ॥ १० ॥ ( इति निष्क्रान्ताः सर्वे । ) इति द्वितीयोऽङ्कः । तृतीयोऽङ्कः । ( ततः प्रविशति मनोरमा । ) मनोरमा—आज्ञाप्तास्मि देव्या वासवदत्तया हञ्जे मनोरमे यः स साङ्कृत्यायन्यार्यपुत्रस्य मम च वृत्तान्तो नाटकोपनिबद्धस्तस्य नर्तित- व्यशेषमद्य युष्माभिः कौमुदीमहोत्सवे नर्तितव्यमिति । ह्यः खल्वारण्य- कया प्रियसख्या शून्यहृदययान्यथैव नर्तितम् । अद्य पुनर्वासवदत्ताभूमि- कया तया यदि तथा क्रियेत ततोऽवश्यं देवी कुप्यति । तत्कुत्र तावत्तां प्रेक्ष्योपालप्स्ये । ( विलोक्य । ) एषारण्याकात्मनैव किमपि किमपि मन्त्र- य

२४ प्रियदर्शिकायां अज्ज तुङ्गेहिं कोमदीमहुसवे भविदव्वंति। हिओ क्खु आरण्णिआए पिअसहीए मुग्ग- न्हिअआए अण्णहा एव्व गणिदं। अज्ज उण बासवदत्ताभूमिआए ताए जइ तह करी- अदि तदो बलवंतं देवी कुप्पदि। ता कहिं दाव ता पेक्खिअ उवालम्भिस्सं। एसा आरण्णिआ अप्पणा एव्व किं वि किं वि मन्तअन्ती दिग्घिआतीले कदलीघरअं पविसदि। ता गुम्मन्तरिदा भविअ सुणिस्सं दाव से विसद्धजप्पिदाणिं।) (ततः प्रविशत्यासनस्था कामावस्थां नाटयन्त्यारण्यिका।) आर०—(निःश्वस्य।) हृदय दुर्लभजनं प्रार्थयमानं त्वं कस्मान्मां दुःखितां करोषि। (हिअअ दुल्लहजणं पत्थयन्तो तुमं कीस मं दुक्खिदं करेसि।) मनो०—तदेतदस्याः शून्यहृदयत्वस्य कारणम्। किं पुनरेषा प्रार्थयते। अवहिता तावच्छ्रोण्यामि। (तं एदं एदस्स सुण्णहिअअत्तणस्स कारणं। किं उण एसा पत्थेदि। अवहिदा दाव सुणिस्सं।) आर०—(सास्त्रम्।) कथं तथा नाम सौम्यदर्शनो भूत्वा महाराज एवं संतापयति माम्। आश्चर्यमाश्चर्यम्। (विभाव्य।) अथवा ममैवैषाऽभाग- धेयता। न पुनर्महाराजस्य दोषः। (कहं तह णाम सोम्मदंसणो भविअ महाराओ एव्वं संदावेदि मं। अञ्चरिअं अञ्चरिअं। अहवा मह एव्व एसा अभाअहेअदा। ण उण महाराजस्स दोसो।) मनो०—(सवाष्पम्।) कथं महाराज एवास्याः प्रार्थनीयः। साधु प्रियसखि साधु। आभिजात्यसदृशस्तेऽभिलाषः। (कहं महाराओ एव्व से पत्थणिज्जो। साहु पिअसही साहु। अभिजाअसरिसो दे अहिलासो।) आर०—कस्मै तावदेतं वृत्तान्तं निवेद्य सखवेदनमिव दुःखं करि- ष्यामि। (विचिन्त्य।) अथवा अस्ति मे हृदयनिर्विशेषा प्रियसखी मनो- रमा। तस्या अप्येतल्लज्जया न पारयामि कथयितुम्। सर्वथा मरणं वर्ज- यित्वा कुतो मे हृदयस्यान्या निर्वृतिः। (कस्स दाव इदं उत्तन्तं णिवेदित्त सअवेअणं विअ दुक्खं वाहरइस्सं। अहवा अत्थि मे हिअअणिव्विसेसा पिअसही मणोरमा। ताए वि एदं लज्जाए ण पारेमि कहिदुं। सव्वहा मरणं वज्जिअ कुदो मे हिअअस्स अण्णा णिव्वुदी।) दुर्लभजनं वत्सराजमित्यर्थः। प्रार्थयमानमभिलषत्। अवहिता सावधाना। अभागधेयता मन्दभाग्यत्वम्। हृदयान्निर्गतो विशेषो यस्या सा। पारयामि शक्नोमि। निर्वृतिः सुखम्। १ स्वारण्यिका। (आ०—कामावस्था नाटयन्ती नि श्वस्य ।). २ शोभन (शोहण०)। ३ साधु विवसखि. ४ इदानी (दाणि)।

मनोरमा—(सास्रम् ।) हा धिक् हा धिक् । अतिभूमिं गतोऽस्या- स्तपस्विन्या अनुरागः । तत्किमिदानीमत्र करिष्यामि । (हद्धि हद्धि । अदि- भूमिं गदो से तवस्सिणीए अणुराओ । ता किं दाणिं एत्थ करिस्सं ।) आर०—(साभिलाषम् ।) अयं स उद्देशो यस्मिन्मधुकैराया- स्यमानामवलम्ब्य महाराजेन समाश्वासितास्मि भीरु मा बिभीहीति । (अअं सो उद्देसो जस्सिं महुअरेहिं आआसिअन्ती ओलम्विअ महाराएण समस्सासिदम्हि भीरु मा भभाहिति ।) मनोरमा—(सहर्षम् ।) कथमेषापि दृष्टा महाराजेन । सर्वथास्त्यस्या जीवितस्योपायः । यावदुपसृत्य समाश्वासयाम्येनाम् । (सहसोपसृत्य ।) युक्तं नाम हृदयस्यापि लज्जितुम् । (कहं एसा वि दिट्ठा महाराएण । सव्वहा अत्थि से जीविदस्स उआओ । जाव उवसप्पिअ समस्सासेमि णं । जुत्तं णाम हिअअस्स वि लज्जिदुं ।) आर०—(संस्तब्धमात्मगतम् ।) हा धिक् हा धिक् । सर्वं श्रुत- मेतया । तदत्र युक्तमेव प्रकाशयितुम् । (प्रकाशं हस्ते गृहीत्वा ।) प्रिय- सखि मा कुप्य मा कुप्य । लज्जैवात्रापराध्यति । (हद्धि हद्धि । सव्वं सुदं एदाए । ता एत्थ जुत्तं एव्व पआसइदं । पिअसहि मा कुप्प मा कुप्प । लज्जा एव्व एत्थ अवरज्झदि ।) मनो०—(सहर्षम् ।) सखि अलं शङ्कया । एतन्म आचक्ष्व । सत्यमेव त्वं महाराजेन दृष्टा न वेति । (सहि अलं संकाए । एदं मे आअक्ख । सच्चं एव्व तुम्हं महाराएण दिट्ठा ण वेत्ति ।) आर०—(सलज्जमधोमुखी) श्रुतमेव प्रियसख्या सर्वम् । (सुदं एव्व पिअसहीए सव्वं ।) मनोरमा—यदि दृष्टा महाराजेन त्वं तदलं संतापितेन । स एवे- दानीं दर्शनोपायपर्याकुलो भविष्यति । (जइ दिट्ठा महाराएण तुम्हं ता अलं संताविदेण । सो एव्व दाणिं दंसणोवाअपज्जाउलो भविस्सदि ।) अतिभूमिं परां कोटिम् । तपस्विन्याः अनुकम्प्यायाः । वराक्या इत्यर्थः । हृदयस्यापि स्वहृदयादन्यतिरिक्ताया ममेत्यर्थः । आत्मगतं, प्रकाशं—सर्वश्राव्यं प्रकाश

२६ प्रियदर्शिकायां -: १ आर०—अयं २ सखीजनः पक्षपातेन मन्त्रयते । अयि सखि- पक्षपातिनि । देवीगुणनिगडनिबद्धे खलु तस्मिञ्जने कुत एतत् । ( अअं सहीअणो पक्खवादेण मन्तेदि । अइ सहिपक्खवादिणि । देवीगुणणिअलणिवद्धे खलु तस्सिं जणे कुदो एदं । ) मनोरमा—( विहस्य । ) हला अपण्डिते कमलिनीबद्धानुरागोऽपि मधुकरो मालतीं प्रेक्ष्याभिनवरसास्वादलम्पटः कुतस्तामनासाद्य स्थितिं करोति । ( हला अपण्डिडे कमलिणीबद्धअणुराओ वि महुअरो मालईं पेक्खिअ अहिणवरसास्सादलम्पडो कुदो तं अणासादिअ ठिदिं करेदि । ) आर०—किमेतेनासम्भावितेन । ३ तदेहि । अधिकं खलु शरदा- तपेन संतप्यान्यथापि न मेऽङ्गानि संतापं मुञ्चन्ति । ( किं एदिणा असंभा- विदेण । ता एहि । अहिअं क्खु सरदादवेण संतापाई अन्न वि ण मे अङ्गाई संदावं मुञ्चन्ति । ) मनोरमा—अयि लज्जालुके न युक्तमेतदवस्थां गतायापि त आत्मा अच्छादयितुम् । ( अइ लज्जाळुए ण जुत्तं एदावत्थं गदाए वि दे अप्पा पच्छादिदुं । ) ( आरण्यिका मुखमवनमयति । ) मनोरमा—अयि अविश्रम्भशीले किमिदानीं प्रच्छादयसि । ४ निश्वा- सनिभवनिर्गतो दिवसं रात्रिमपि तवानुरागोऽविरतपतत्कुसुमशरशरनि- वहप्रवृत्तहुङ्कारशब्द इव न भणति । ( आत्मगतम् । ) अथवा न खल्वयं काले उपालम्भस्य । ५ तद्यावन्नलिनीपत्राण्यस्या हृदये दास्यामि । ( उत्थाय देवीगुणा एव निगडं लोहबन्धनस्तेन निबद्धे । मालती जातिपुष्पम् । लम्पटो लोलुपः । स्थितिं करोति स्वास्थ्यमेति । लज्जां लाति इति लज्जालु । 'भित्रादिभ्य उपसंख्या- नम्' इति वार्तिकेन डुः । सैव लज्जालुका । अविश्रम्भशीले अदृष्टसामर्थ्येऽनभिविश्वासिनि । निश्वासनिभवनिर्गतः निश्वासच्छलेन विनिर्गतः । अविरतं पतन्त्यः कुसुमशरस्य मदनस्य शरनिवहो बाणसमूहस्तस्मात्प्रवृत्तः हुङ्कारशब्द इव । न भणति न तवावस्थां कथयति किम् । १ एतद्वाक्यं नास्ति पुस्तकान्तरे. २ सखीजनपक्षपातेन मन्त्रयसे ( सखीअणपक्ख- वादेण मन्तेसि ). ३ एतन्नास्ति क्वचित्. ४ अस्य स्थाने—श्वासनिभान्निर्गतो दिवसं रात्रिमपि तवानुरागः । अविरतपतन्मन्मथशरशतहुङ्कारशब्द इव ॥ ( सासणिहा निग्गमिओ दिवसं रत्तिंपि तुज्झ अणुराओ । अविरअपडन्तमम्महसरसअहुङ्कार सद्दोव्व ॥ ) इति पद्यं क्वचित्. ५ तद्यावत्.

तृतीयोऽङ्कः । २७ दीर्घिकायां नलिनीपत्राणि गृहीत्वारण्यिकाया हृदये ददती ।) समाश्वासितु सखी समाश्वसितु सखी । (अइ अविस्सम्भसीले किं दाणि पच्छादेसि । णीसासणिह- विणिग्गओ दिअइ रत्तिं वि तुज्झ अणुआओ अविरदपडन्तरुसुमसरसन्निद्देहउउत्तहुंकार- सरो विअ ण भग्गइ । अहवा ण हु अअं कालो उवालम्भस्स । ता दाव णलिणीपत्ताई से हिअए दाइस्सं । समस्ससदु सही समस्ससदु सही ।) (ततः प्रविशति विदूषकः ।) विदूषकः—अतिमहान् खलु प्रियवयस्यस्यारण्यिकाया उपर्यनुरागः । येन परित्यक्तराजकार्यस्तस्या एव दर्शनोपायं चिन्तयन्नात्मानं विनोदयति । (विचिन्त्य ।) क्वेवेदानीं तां प्रेक्षे । अथवा तत्रैव तावद् दीर्घिकायाम- न्विष्यामि । (परिक्रामति ।) (अदिमहन्तो क्खु पिअवअस्सस्स आरणिआए उवरि अणुराओ । जेण परिच्चत्तराअकज्जो ताए एव्व दंसणोवाअं चिन्तअन्तो अप्पाणं विणोदेइ । कहिं दाणि तं पेक्खे । अहवा तहिं एव्व दाव दिग्घिआए अन्वेसामि ।) मनोरमा—(आकर्ण्य ।) पदशब्द इव श्रूयते । तत्कदलीगुल्मान्त- रिते भूत्वा प्रेक्षावहे तावत्क एष इति । (पदसद्दो विअ सुणीअदि । ता कदली- गुम्मन्तरिदा भविअ पेक्खम्ह दाव को एसोत्ति ।) (उभे तथा कृत्वा पश्यतः ।) आर०—कथं स एव महाराजस्य पार्श्ववर्ती ब्राह्मणः । (कहं सो एव्व महाराअस्स पस्सपरिवट्टी बह्मणो ।) मनोरमा—कथं वसन्तक एव । (सहर्षमौत्सुक्यञ्च ।) अपि नाम तथा भवेत् । (कहं वसन्तओ एव्व । अवि णाम तह हवे ।) विदूषकः—(दिशोऽवलोक्य ।) किमिदानीमारण्यिका सत्यमेवं संवृत्ता । (किं दाणि आरणिआ सञ्चं एव्व संवुत्ता ।) मनोरमा—(सस्मितम् ।) सखि राजवयस्यः खलु ब्राह्मणस्त्वा- मुद्दिश्य मन्त्रयते । तत्तावदवहिते शृणुवः । (सहि राअवअस्सो क्खु बह्मणो तुमं उद्दिसिअ मन्तेदि । ता दाव अवहिदा सुणामो ।) (आरण्यिका साशङ्कं सलज्जं च शृणोति ।) विदूषकः—(सोद्वेगम् ।) यद्वा तावन्मया गुरुमदनसंतापानिरुह- तथा भवेद् राजाज्ञयारण्यिकान्वेषणार्थमागतो भवेदित्याशयः। गुरुर्दुभरः मदनसंतापस्तेन १ सखि समाश्वसिहि समा०. २ तामु०. ३ इति प०. ४ रडग०. ५ इवारण्यिका. ६ यद्वा तावन्मया इति चालितुपुस्तकान्तरे ।

३८ प्रियदर्शिकाया शरीरस्य प्रियवयस्यस्य वचनेन देव्योर्वासवदत्तापद्मावत्योरन्यासां च देवीनां भवनान्यन्विष्यता न सा दृष्टा तदो यत्र दीर्घिकायां दृष्टेदमपि तावत्प्रेक्षिष्य इत्यागतोऽस्मि । तथापदिहापि नास्ति । किमिदानीं करिष्ये । [१अह्म दाव मए शुष्ठुमअगसदाक्वणोमिसरीरस्स पिअवअस्सस्स वअणेण देवीण वासवदत्तापदुमाव- दीण अण्णाणं अ देवीणं भवणाई अण्णेसन्तेण ण सा दिद्वा तदा जहिं दिघिआए दिष्ठ इदं वि दाव पेक्खिस्सं ति आअदोम्हि । ता जाव इह वि णत्थि । किं दाणिं करिस्सं ।) मनोरमा—श्रुतं प्रियसख्या । (२दुर विअवहीए ।) विदूषकः—(विचिन्त्य ।) अथवा भणित एवाहं वयस्येन । यदि तामन्विष्यन्न प्रेक्षसे तत्ततोऽपि तावद्दीर्घिकातस्तस्याः करतलस्पर्शद्विगुणि- तसुखशीतलानि नलिनीपत्राणि गृहीत्वागच्छेति । तत्कथमेतानि ज्ञातव्यानि । (अहवा भणिदो एव्व अहं वअस्सेण । जइ तं अण्णेसन्तो ण पेक्खसि ता तदो वि दाव दिघिआदो ताए करअलप्फरिसद्विगुणिअसुहसीअलाई णलिणीपत्ताई गेह्निअ आअच्छति । ता कहं एदाई जाणिदव्वाई ।) मनोरमा—अयं ममावसरः । (उपसृत्य विदूषकं हस्ते गृहीत्वा ।) वस- न्तक एहि । अहं ते ज्ञापयामि । (अअं मे अवसरो । वसन्तअ एहि । अहं दे जाणवेमि ।) विदूषकः—(सभयम् ।) कस्य त्वं ज्ञापयसि । किं देव्याः । न खलु मया किमपि मन्त्रितम् । (कस्स तुमं जाणवेसि । किं देवीए । ण हु मए किं वि मन्तिदं ।) मनोरमा—वसन्तक अलं शङ्कया । यादृश्यारण्यिकायाः कृत्त आत्मनः प्रियवयस्यस्यावस्था त्वया वर्णिता ततोद्विगुणतरा भर्तुरवि कृते मम प्रियसख्या अवस्था । तत्पश्य पश्य । (उपत्त्यारम्भिका दर्शयति ।) (वसन्तअ अलं सकाए । आदिसो आरणिआए किदे अत्तणो पिअवअस्सस्स अवस्था तुए वण्णिदा तदो दिउणदरा भट्टिणो वि किदे मम पिअसहीए अवस्था । ता पेक्ख पेक्ख ।) निस्सहं दुर्बलं शरीरं यस्य तस्य । अस्वस्थवचनेन इति पाठे पर्याकुलवचनेन अस्वस्थ इति वचनेन वा । इदमपि दीर्घिकास्थानमपि । तस्याः करतलस्य स्पर्शेन द्विगुणि- तसुखानि च तानि शीतलानि च । १ असरह० २ देव्या वासवदत्ताया प्रेमावस्था च तदा यत्र दीर्घिकायां दृष्टा इति नाहि क०, ४ अन्वेषयन्, ५ स्पर्शसुख ६ ०दर उण ( ०तरं पुन ),

तृतीयोऽङ्कः। २९ विदूषकः—( दृष्ट्वा सहर्षम् ।) सफलो मे परिश्रमः । स्वस्ति भवत्यै । ( सकलो मे परिसमो । सोत्थि भोदीए ।) ( आरण्यिका सलज्जं कमलिनीपत्राण्यपनयतीति ।) मनोरमा—आर्य वसन्तक ! तव दर्शनेनैवापगतः प्रियसख्याः संतापो येन स्वयमेव नलिनीपत्राण्यपनयति । तदनुगृह्णात्वार्य इमानि । ( अज्ज वसन्तअ तुह दंसणेण एव्व अवंगदो पिअसहीए संदावो जेण सअं एव्व •णलिणीपत्ताई अवणेइ । ता अणुगेण्हदु अज्जो इमाई ।) आरण्यका—( सावेगम् ।) अयि परिहासशीले ! कस्मान्मां लज्जयसि । ( किंचित्पराङ्मुखी तिष्ठति ।) ( अइ परिहाससीले । कीस मं लज्जावेसि ।) विदूषकः—( सविषादम् ।) तिष्ठन्तु तावन्नलिनीपत्राणि । अतिलज्जा- लुका

३० प्रियदर्शिकायां वासवदत्ता—भगवति अहो ते कवित्वम्। येनैतद्गूढवृत्तान्तं नाटकापेनिबद्धं सानुभवमप्यस्माकमार्यपुत्रचरितमदृष्टपूर्वमिव दृश्यमानमधि- कतरं कौतूहलं वर्धयति। (भववदि अहो दे कवित्तणं। जेण एदं गूढवुत्तन्तं णाडओवणिबद्धं साणुभवं वि अम्हाणं अज्जउत्तचरिदं अदिट्ठपुव्वं विय दिसन्तं अहिय- ऽदरं कोदूहलं सङ्कढदि। ) साङ्कृत्यायनी—आयुष्मति आश्रयगुण एवायमीदृशो यद- सारमपि काव्यमवश्यमेव शृण्वतां श्रवणसुखमुत्पादयति। पश्य। प्रायो यत्किंचिदपि प्राप्नोत्युत्कर्षमाश्रयान्महतः। मत्तेभकुम्भतटगतमेति हि शृङ्गारतां भस्म ॥ १ ॥ वासवदत्ता—(सस्मितम्) भगवति सर्वस्य वल्लभो जामाता भवतीति ज्ञायत एवैतत्। तत्किमेतेन कथानुबन्धेन। वरं तदेव नर्ति- तव्यं द्रष्टुम्। (भववदि सव्वस्स वल्लहो जामादो होदित्ति जाणिअदि एव्व एदं। ता किं एदिणा कहाणुबन्धेण। वरं तं एव्व णच्चिदव्वं दट्ठुं।) साङ्कृत्यायनी—एवम्। इन्दीवरिके प्रेक्षागृहमादिश। चेटी—एतु एतु भट्टिनी। (एदु एदु भट्टिणी।) (सर्वाः परिक्रामन्ति।) साङ्कृत्यायनी—(विलोक्य।) अहो प्रेक्षणीयता प्रेक्षागृहस्य। आभाति रत्नशतशोभितशातकुम्भ- स्तम्भावसक्तपृथुमौक्तिकदामरम्यम्। अध्यासितं युवतिभिर्विजिताप्सरोभिः प्रेक्षागृहं सुरविमानसमानमेतत् ॥ २ ॥ कवित्वं काव्यनिर्माणनैपुण्यम्। गूढः वृत्तान्तो यस्य तत्। नाटकेऽपिनिबद्धं प्रयोगार्हं कृतम्। प्रेक्षागृहं नाट्यशाला। प्राय इति। यत्किंचिदपि सारं माहात्म्यरहितं वापि वस्तु महत आश्रयवत्सम्बन्धाद्वाप्याय उत्कर्षमोत्कृष्टय प्राप्नोति। अत्र दृष्टान्तमाह—भस्म असारत्वेन प्रसिद्धं मत्तेभस्य मदमत्तगजस्य कुम्भतटगतं यत् शृङ्गार- तां शृङ्गारं भूषणं गजमण्डनविशेषो वा तथां प्राप्नोति हि ध्रुवम् ॥ १ ॥ आभातीति। रत्नानां शतानि रत्नशतानि तैः शोभिताः शातकुम्भस्य सुवर्णस्य स्तम्भास्तेषु अवसक्तानि पृथूनि मौक्तिकदामानि मुक्तामालास्ते रम्यम्। विजिताः स्वस्वरूपान्निराकृता इत्यर्थः। अप्सरसो याभिस्ताभिः युवतिभिः अध्यासितमेतत्प्रेक्षागृहं सुरविमानसमानमाभाति। वसन्ततिलका वृत्तम्। लक्षणमुक्तम् ॥ २ ॥ १ वर्त्तति, २ एषः, ३ नाणिदं

तृतीयोऽङ्कः । ३१ मनोरमारण्यिके— ( उपसृत्य । ) जयतु जयतु भट्टिनी । ( जेदु जेदु भट्ठिणी । ) वासवदत्ता—मनोरमे अतिक्रान्ता खलु संध्या । तद्गच्छतम् । लघु गृहीतं नेपथ्यम् । ( मंणोरमे अदिकन्दा क्खु संझा ता गच्छह । लहु गच्छह नेवच्छं । ) उभे—यद्देव्याज्ञापयति । ( इति प्रस्थिते । ) ( जं देवी आणवेदि । ) — वासवदत्ता—आरण्यिके एतैरेव मदङ्गपिन्दिमैराभरणैर्नेपथ्यभूमिं गत्वात्मानं प्रसाधय । ( आभरणान्यङ्गादवतार्यारण्यिकायाः समर्पयति¹ ) मनोरमे त्वमपि नलगिरिग्रहणपरितुष्टेन तातेनार्यपुत्रस्य दत्तान्याभरणा- न्दीवरिकासकाशाद्गृहीत्वा नेपथ्यभूमिं गत्वात्मानं मण्डय येन सुसदृशी दृश्यसे महाराजस्य । ( आरणिणए एदेहिं एव्व मदङ्गपिण्देहिं आभरणेहिं णेव- च्छभूमिं गदुअ अप्पाणं पसाधेहि । मणोरमे तुमं वि णलगिरिग्गाहणपरितुट्ठेण तादेण अज्जउत्तस्स दिण्णाई आभरणाई इन्दीवरिआसआसादो गेण्हिअ णेवच्छभूमिं गदुअ अप्पाणं मण्डेहि जेण सुसदिसि दीससि महाराअस्स । ) ( मनोरमा इन्दीवरिकासकाशादाभरणानि गृहीत्वा सहारण्यिकया निष्क्रान्ता । ) इन्दीवरिका—इदमासनम् । उपविशतु भट्टिनी । ( ऐदं² आसणं । उवविसदु भट्ठिणी । ) वासवदत्ता—( आसनं निर्दिश्य । ) उपविशतु भगवती । ( उवविसदु भगवदी । ) ( उभे उपविष्टे³ । ) ( ततः प्रविशति गृहीतनेपथ्यः कञ्चुकी । ) कञ्चुकी— अन्तःपुराणां विहितव्यवस्थः पदे पदेऽहं स्खलितानि रक्षन् । मदङ्गपिन्दिमैरङ्गै मदैः । धारितैरित्यर्थः । प्रसाधय मण्डय । नलगिरिर्नाम इन्द्रदत्तः प्रद्योतस्य गजः तस्य आलानमुन्माथ्य प्रद्रुतस्य ग्रहणं तेन परितुष्टनेन । अन्तः- पुराणामिति । अन्तःपुराणामवरोधस्त्रीणां विहिता व्यवस्था व्यवस्थापनं येन सः । पदे पदे प्रतिपदं स्खलितानि प्रमादान् रक्षन् परिहरन् । राजदारान् प्रमादेभ्यो रक्षन्नित्यर्थः । संप्रति जरातुरा दण्डनीत्या दण्डेन नीतिस्तमवलम्ब्य गमनं तेन वृद्धस्य सर्वचरितमनुकरामि विडम्बयामि । नृपो पुराणामन्तःप्रजानां स्थितित्पालनादिरूपां व्यवस्थां करोति । प्रजाः १ एतन्नास्ति पुस्तकान्तरे. २ इदं. ३ आसनग्रहणं नाटयतः.

३२ प्रियदर्शिकाया जरातुरा सम्प्रति दण्डनीत्या सर्वं नृपस्यानुकरोमि वृत्तम् ॥ ३ ॥ भोः आज्ञापितोऽस्मि विमानिताशेषशत्रुसैन्येन यथार्थनाम्ना महासे- नेन समादिश्यतामन्तःपुरेषु यथा--भो वयमुदयनोत्सवमनुभवाम । अतो युष्माभिरुत्सवानुरूपवेशोज्ज्वलेन परिजनेन सह मन्मथोद्यानं गन्तव्यमिति । साङ्कृत्यायनी—(कञ्चुकिनं निर्दिश्य ।) राजपुत्रि प्रवृत्ता प्रेक्षा । दृश्यताम् । कञ्चुकी—तदेतेनादेशेन परिजनेन सह गन्तव्यमिति । न गृहीत- नेपथ्येनेति । कुतः । पादैर्नूपुरिभिर्नितम्बफलकैः शिञ्जानकाञ्चीगुणै- र्हारापादितकान्तिभिः स्तनतटैः केयूरिभिर्बाहुभिः । कर्णैः कुण्डलिभिः करैः सवलयैः सस्वस्तिकैर्मूर्धजै- र्देवीनां परिचारिकापरिजनोऽप्येतेषु संदृश्यते ॥ ४ ॥ न खलु किंचिदनापूर्वमनुष्ठेयम् । केवलं स्वाम्यादेश इति मत्वाऽहं समा- दिष्टस्तदाज्ञाशेषं राजपुत्र्यै निवेदयामि । (परिक्रम्यावलोक्य च ।) इयं प्रमादेभ्यो निवारयति । दण्डनीत्या अर्थशास्त्रानुसारेण प्रजा रक्षति च। दण्डनीतिनिरूपितस्तु दण्डेन नीयते चेद् दण्ड नयति वा पुनः । दण्डनीतिरिति ख्याता तान्त् सोल्लंघानतिवर्त्तते ॥ इति । श्लेषोपमालङ्कारः । वृत्तमुपजातिः । स्यादिन्द्रवज्रा यदि तौ जगौ गः । उपेन्द्रवज्रा जतना स्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति तल्लक्षणम् ॥३॥ विमानितानि तिरस्कृतान्यशेषाणां शत्रूणां सैन्यानि येन । महासेनश्चण्डमहासेन इत्यपरा भिध उज्जयिनीश्वरः । प्रेक्षा नृत्यम् । प्रेक्षाभीरीक्षणं नृत्यम् । इति हैमः । पादैरिति । नूपूराणि मञ्जीरा एषां विद्यन्ते इति नूपूरिणस्तैः पादैः । शिञ्जानः शब्दायमाना काञ्ची गुणा रसनाशृङ्खलानि येषां तेषु वा तैस्तथोक्तैः नितम्बफलकैः प्रशस्तनितम्बैः । हारै मुक्तासरैः आपादिता निर्मिता कान्तिर्येषां तादृशैः स्तनतटैः । केयूरिभिः अङ्गदसहितैः बाहुभिः । कुण्डलिभिः कुण्डलधारिभिः कर्णैः । सवलयैः कङ्कणयुक्तैः करैः सस्वस्तिकैः स्वस्तिकाख्यालङ्कारपरैः । स्वस्तिक मङ्गल द्रव्यार्पितयो वा तद्युक्तैः । मूर्धजैः केशपाशैः उपलक्षितः । देवीनां पूज्याया देव्याः । पूजार्थे बहुवचनम् । परिचारिकापरिजनः सेवकवर्गोऽपि एतेषु अन्तःपुरेषु दृश्यते । पूर्वमेव कृतेनेपथ्यो वर्त्तत इत्यर्थः । शार्दूल- विक्रीडितं वृत्तम् ॥ ४ ॥ १ एतादृशेन २ गृहीत० नास्त्यन्यत्र, ३ न स्वातन्त्र्यलज्जत ४ समादि०

तृतीयोऽङ्कः । ३३ सा वासवदत्ता वीणाहस्तया काञ्चनमालयानुगम्यमाना गन्धर्वशालां प्रविष्टा । यावदस्याः कथयामि । ( परिक्रामति । ). ( ततः प्रविशति गृहीतवासवदत्तानेपथ्यासन्नसंचारिणिका वीणाहस्ता काञ्चनमाला च । ) आर०—हला काञ्चनमाले कस्मात्पुनश्चिरयत्यद्यापि वीणाचार्यः । ( हला कञ्चणमाले कीस उण चिराअदि अज्ज वि वीणाआरिओ । ) — काञ्च०—भर्तृदारिके दृष्टस्तेनैक.उन्मत्तः । तस्य वचनं श्रुत्वा चित्रेण भावितोऽपहसंस्तिष्ठति । ( भट्टिदारिए दिट्ठो देण एक्को उम्मत्तो । तस्स वअणं सुणिअ चित्तेण भाविदो ओहसन्तो चिट्ठइ । ) आर०—( सहस्ततालं विहस्य । ) हञ्जे सुष्ठ्वेतं पृच्छति । सदृशाः सदृशे रमन्त इति द्वावप्युन्मत्तौ । ( हञ्जे सुट्ठ एदं पुच्छदि । सरिसा सरिसे रमन्तित्ति दुवे एत्थ उम्मत्ता । ) सांकृत्यायनी—राजपुत्र्याः सदृशमाकारं पश्याम्यस्यास्तादृशेना- कारेणावश्यं त्वदीयां भूमिकां संभावयिष्यति । कञ्चुकी—( उपसृत्य । ) राजपुत्रि देवस्त्वामाज्ञापयति । 'श्वोऽव- श्यमस्माभिर्वीणां वादयन्ती श्रोतव्या । तत्तवया नवतन्त्रीसज्जया घोषवत्या स्थेयमिति । आर०—आर्य यद्येवं लघु वीणाचार्यं विसर्जय । ( अय्य जइ एवं लहु वीणाआरिअं विसज्जेहि । कञ्चुकी—एष वत्सराजं प्रेषयामि । ( इति निष्क्रान्तः । ) आर०—काञ्चनमाले उपनय मे घोषवतीं यावदस्यास्तन्त्रीः परीक्षे । ( कञ्चणमाले उवणेहि मे घोसवदीं जाव से तंतीओ परिक्खेमि । ) ( काञ्चनमाला वीणामर्पयति । आरण्यिकोत्सङ्गे वीणां कृत्वा सारयति । ) ( ततः प्रविशति गृहीतवत्सराजनेपध्या मनोरमा । ) वासवदत्तात्र वासवदत्तावेषधारिणी आरण्यिका ज्ञेया । गंधर्वशाला प्रेक्षागृहम् । चित्रेण भावितो विस्मयहृतचित्तः । सहस्ततालं हस्तौ प्रताड्य । सदृशाः सदृशे इ०-सर्वैः समत्वेषु विधाविति । द्वावप्यप्रारम्भकौ । इति समानार्थं वचनं शकुन्तले । तादृशेन राजपुत्र्युचितेन । घोषवत्या वीणया सहितया । लघु शीघ्रम् । रामदत्तापरयो राजा रुक्मणोवस्थायाइ- १ चिरयतेद्य. २ सुणिअ तेण भाविट्ठओ हसन्तो ( भावितात्थों इसन् ). ३ संहृष्टह- स्तेन ( भणीअहि ) - रज्जन्तीति. ४ राजपुत्रि तादृशमाका०. :

२. द्वितीय अङ्क: कदलीगृह मिलन, चित्रफलक रहस्य एवं वासवदत्ता शंका

पूर्वव- / दुःखं याति मनोरथेषु तनुतां संचिन्त्यमानेष्वपि" Wait, verse line: "संप्रत्येव मनो न शून्यमलसान्यङ्गानि नो पूर्वव-" Verse has: मनो न शून्यम् (1) अलसानि अङ्गानि नो (2) So commentary: "मनो न शून्यमङ्गानि च नो चालसानि" (च + नो + च + अलसानि = and nor are limbs lazy). Yes!

Line 28: "शार्दूलविक्रीडितं छन्द ॥ ५ ॥ निभृतेन निगूढम् । वेषेण कथातदर्थं । वीणां वादयन्" Wait, let's look at: "कथातदर्थं" - is there an anusvara or danda? There is a danda: "कथातदर्थं ।" or "कथातदर्थे ।"? Let's look at "कथातदर्थे" vs "कथातदर्थं": It has a danda after it.

Line 29: "वीणावादनशिक्षणप्रसङ्गेन । मय्यनुरागं अवगत्वेत्यर्थः । पटाक्षेपेण जवनिकामाक्षिप्य ।" Wait, "अवगत्वेत्यर्थः" or "अवगत्येत्यर्थः"? Look at the word: "अवगत्वेत्यर्थः" or "अवगत्ये

तृतीयोऽङ्कः । ३५ विदूषकः—एते खलु राजानो दास्येऽपि एवं नर्त्यन्ते । अहो कार्यस्य गुरुता । ( एदे खलु राणाओ दासीए वि एवं णच्चाविअन्ति । अहो कज्जस्स गरुअदा । ) राजा—( विहस्य । ) मूर्ख नैष कालः परिहासस्य । निभृतेन चित्रशालां प्रविश्य मनोरमया सहारमवृत्तं पश्यता स्थीयताम् । ( उभौ तथा कुरुतः । ) आरण्यिका—काञ्चनमाले तिष्ठतु वीणा । प्रक्ष्यामि तावत्किमपि । ( कञ्चणमाले चिट्ठदु वीणा । पुच्छिस्सं दाव किं वि । ) राजा—शृणोमि तावत्कतमोऽयमुद्देशो वर्तते । ( इत्यवहितः शृणोति । ) काञ्चनमाला—पृच्छतु भर्तृदारिका । ( पुच्छदु भट्टिदारिआ । ) आर०—सत्यमेव तातो मन्त्रयते एवं यथा—यदि वीणां वादयन्न- पहरति मां वत्सराजोऽवश्यं बन्धनान्मुञ्चामीति । ( सच्चं एव तादो मन्तेदि एव्वं जह जइ वीणं वादयन्तो अवहरेदि मं वच्छराओ अवस्सं बन्धणादो मुञ्चेमित्ति । ) राजा—( प्रविश्य पटाक्षेपेण सहर्षं वस्त्रान्ते ग्रथितं बध्नाति । ) एवमेतत् । कः संदेहः । सपरिजनं प्रद्योतं विस्मयमुपनीय वादयन्वीणाम् । वासवदत्तामपहरामि न चिरादेवेति पश्यामि ॥ ६ ॥ यतः सुसंविहितं सर्वं यौगन्धरायणेन । वासवदत्ता—( सहसोत्थाय । ) जयतु जयत्वार्यपुत्रः । ( जेदु जेदु अज्जउत्तो । ) राजा—( स्वगतम् । ) कथं प्रत्यभिज्ञातोऽस्मि देव्या । साङ्कृत्यायनी—( सस्मितम् । ) राजपुत्रि अलमलं संभ्रमेण । प्रेक्षणीयकमेतत् । ग्रथितं बध्नाति शुभशकुनं दृष्ट्वाऽभिमतासिद्धिसूचनार्थं वस्त्रपल्लवग्रन्थिबन्धनं लोकरीतिः । सपरिजनमिति । वीणां वादयन् मनोहारिणा वीणावादनेनेत्यर्थः । प्रद्योतं महासेनं सपरिजनं विस्मयमुपनीय प्रापय्य । वासवदत्तां न चिरादेवापहरामि अपहरिष्यामीति पश्यामि मन्ये । एतदुत्तरार्धं श्रुतलक्षणानुसारि नातिमनोहरं नेति व्यक्तम् ॥ ६ ॥ सुसंनिहितमिति पाठे सम्यक्सन्निधौ स्थापितम् । यौगन्धरायण उदयनस्य प्रधानामात्यः। १ दासीव्य ( दास्य इव ) । २ ग्रंथि. ३ ०ङ्गापहरणमपि; दन्ताहरण; परन्वापह. ४ सुसंनिहितं.

नाट्यचतुरया" Wait, "तन्महश"? Or "तन्महत्"? Or "तन्महेश"? Or "तन्महान्"? Or "तन्मदः"? Look at line 28: "स्वनस्तमनुकरोतीति तथा । तन्महश ।" Wait: "सान्द्र गम्भीर य जलदस्तस्य ह्रादं स्वनस्तमनुकरोतीति तथा । तन्महश ।" Wait, what is "तन्महश"? Could it be "तन्मन्द्रः"? Or "तन्महत्"? Or "तन्मन्दः"? Or "तन्महर्षि"? Look at the verse: "सान्द्रजलदह्लादानुकारी स्वरः" Commentary: "सान्द्र गम्भीर य जलदस्तस्य ह्रादं स्वनस्तमनुकरोतीति तथा । तन्म..." Wait, "तत्सत्त्वम्" in line 26: "अत्यूर्जितं अतिमहत् सत्त्वं मनोगाम्भीर्यं पौरुषं वा तदेव ।" Then: "लीला सैव । सान्द्र गम्भीर य जलदस्तस्य ह्रादं स्वनस्तमनुकरोतीति तथा । तन्म..." Wait, "गम्भीर य" -> is it "गम्भीरो यः"? Look at line 27: "सान्द्र गम्भीर य जल

तृतीयोऽङ्कः । ३९ काञ्चनमाला—( आरण्यिकाया आसनं निर्दिश्य ।) इहैवोपविशतु उपा- ध्यायः । ( इह एव्व उवविसदु उवज्झाओ । ) राजा—( उपविश्य । ) राजपुत्री चेदानीमुपविशतु । काञ्चनमाला—( सस्मितम् । ) इदानीमेव भर्तृदारिका विद्यामानेन तदर्हत्यैवैषोपाध्यायपीठिकायाः । ( दाणि एव्व सिदा तुझेहिं । ता अह्हदि एव्व एसा उवज्झाअपीडिआए) इयमर्धासनस्य । राजपुत्रि स्थीयताम् । ण्यिका काञ्चनमालां पश्यति । ) सस्मितम् । ) भर्तृदारिके उपविश । कोऽत्र दोषः । ( भट्टिदारिए उवविस । को एत्थ दोसो । सिस्सविसेसा ण्यिका सलज्जमुपविशति । ) गत् । ) भगवत्याधिकं कल्पितं काव्यम् । न खल्वहं पुत्रेण सहोपविष्टा । ( भअवदीए अदिअं कप्पिदं एकासणे अज्जउत्तेण सह उवविट्ठा । ) नः श्रोतुमिच्छामि । वादय वीणाम् । स्मितम् । ) काञ्चनमाले चिरं खलु मम वादयन्त्याः निःसहान्यङ्गानि । तन्न शक्नोमि वादयितुम् । शन्तीए परिस्सगो जादो । दाणि णिसहाइं अङ्गाई । ध्याय सुष्ठु परिश्रान्ता भर्तृदारिका । कपो- लतलबद्धस्वेदलवायाः तद्यास्या वेपेते अग्रहस्तौ । तत्समाश्वस्ता भवतु मुहूर्तम् । ( उवज्झाअ सुट्ठु परिस्सन्ता भट्टिदारिआ । कवोअत्तलबद्धसेअलेसाए पेरा से वेपन्ति अग्गहत्था । ता समस्सत्था होदु मुहुत्तं । ) राजा—काञ्चनमाले युक्तमभिहितम् । ( हस्तेनं ग्रहीतुमिच्छति । ) ( आरण्यिका हस्तमपसारयति । ) कस्मादित्युपाध्यायः । विद्यामानेन गानविद्याप्रावीण्यप्रदर्शनेनेत्यर्थः । कपोलतले बद्धा स्वेदलवा यस्याः । अग्रो य सौ हस्तो च इति कर्मधारयः । हस्ताग्रहस्तयोर्गुणिगुणिनो र्भेदाभेदादिति वामनः । १ विद्याऽनुपवि०-ध्यायपीठिकानि. २ उपविष्टा ( उपविष्टया). ३ विड़कणजलका । ४ हस्ते.

वासवदत्ता—(सास्रम् ।) भगवति अधिकमेतदपि त्वया कृतम् । न खल्वहं काञ्चनमाला काल्येन वज्जयितव्या । (भगवदि अहिअं एदं वि तुए किदं । ण हु अहं कञ्चणमाला कल्लेण वज्जयिदव्वा ।) साङ्कृत्यायनी—(विहस्य ।) आयुष्मति ईदृशमेव काव्यं भविष्यति । आर०—(सरोषमिव ।) अपेहि काञ्चनमाले अपेहि । न मे बहु- मतासि । (अवेहि कञ्चणमाले अवेहि । ण मे बहुमदासि ।) काञ्चन०—(सस्मितम् ।) यद्यहं तिष्ठन्ती न बहुमता तदेषा गच्छामि । (इति निष्क्रान्ता ।) (जद् अहं चिट्ठन्ती ण बहुमदा ता ऐसा गच्छामि ) आर०—(ससम्भ्रमम् ।) काञ्चनमाले तिष्ठ तिष्ठ । अयमस्याग्रहस्त- समर्पितः । (कञ्चणमाले चिट्ठ चिट्ठ । अयं से अग्गहत्थो समप्पिदो ।) राजा—(आरण्यिकाया हस्तं गृहीत्वा ।) सद्योऽवश्यायबिन्दुव्यतिकरशिशिरः किं भवेत्पद्मकोशो ह्रादित्वं नास्य मन्ये सदृशमिदमुपस्येव वीतातपस्य । मुञ्चन्त्येते हिमौघं नखरजनिकराः पञ्च किं सोऽपि दाही ज्ञातं स्वेदापदेशादविरतममृतं स्यन्दते व्यक्तमेतत् ॥ ११ ॥ अपि च । एतेन बालविद्रुमपल्लवशोभापहारदक्षेण । हृदये मम त्वयायं न्यस्तो रागः स्वहस्तेन ॥ १२ ॥ सद्य इति । अत्र मया गृहीत कर सद्यस्तत्कालश्च अवश्ययाबिन्दूनां नीहारकणानां व्यतिकर सम्बन्धेन शिशिर शीतल पद्मकोश कमलमुकुल भवेत्किम् । नैतत्संभ- वीत्याह । अस्य नीहारकणसद्भावस्य पद्ममुकुलस्य अधुनाह्लादित्वमानन्दकारित्वं न मन्ये । यत वीतातपस्य आतपरहितस्य । पोतातपस्येति पाठे गृहीतातपस्य । अस्य उपस्येष सदृश योग्यम् । उपस्येव पद्ममिव आह्लादको भवेदिति भाव । वितर्कांतरमाह एते पञ्च नखरजनिकरा नखचन्द्रा हिमौघ नीहारसन्दोह मुञ्चति किम् । नैतदपि । यत सोऽपि रजनिकर दाही विरहिणां दहनशील । न तु सर्वदानन्दकरो यथायम् । तस्मिन्नेतत्सं- दिग्धे निर्णयमाह—ज्ञातं मया सम्यगवगतम् । एतत् स्वेदापदेशात्स्वेदव्याजेन अमृतम विरतं स्यन्दते क्षरति । एतद् व्यक्त स्पष्टमेव । सन्देहापहुतिसकीर्णोत्प्रेक्षा । शार्दूल- वि० वृत्तम् । एतेनेति । एतेन बाल य विद्रुमपल्लव प्रवालकुरलस्तस्यशोभाया अपहारे मोचने दक्षेण । अथ वा तत्सदृशेन स्वहस्तेन त्वया मम हृदये अय राग रक्तिमा अनुरागो वा न्यस्तोऽर्पित ॥ १२ ॥ १ अह्र २ वीता०

तृतीयोऽङ्कः । ४१ आर०—( स्पर्शविशेषं नाटयन्ती । ) हा धिक् हा धिक् । एतां मनोरमां स्पृशन्त्या अनर्थमेव मेऽङ्गानि कुर्वन्ति । ( हद्धि हद्धि । एदं मणो- रमं परिम॑सन्तीए अणत्थं एव्व मे अङ्गाई करेन्ति । ) [ वासवदत्ता—( सहसोत्थाय । ) भगवति पश्य त्वम् । अहं पुन- रलीकं न पारयामि प्रेक्षितुम् । ( भअवदि पेक्ख तुमं । अहं उण अलिअं ण पारेमि पेक्खिदुं । ) साङ्कृत्यायनी—राजपुत्रि धर्मशास्त्रविहित एष गान्धर्वो विवाहः । किमत्र लज्जास्थानम् । प्रेक्षणीयकमिदम् । तन्न युक्तमस्थाने रसभङ्गं कृत्वा गन्तुम् । ( वासवदत्ता परिक्रामति । ) इन्दीवरिका—( विलोक्य । ) भट्टिनि वसन्तकश्चित्रशालद्वारे प्रसुप्तस्तिष्ठति । ( भट्टिणि वसन्तओ चित्तसालादुवारे पसुत्तो चिट्ठइ । ) वासवदत्ता—( निरूप्य । ) वसन्तक एषैषः । ( विचिन्त्य । ) राज्ञाप्यत्र भवितव्यम् । तद्बोधयित्वा प्रक्ष्यामि तावदेनम् । ( प्रबोधयति । ) ( ·वस- न्तओ एव्व एसो । रण्णा वि एत्थ होदव्वं । ता बोधिअ पुच्छिस्सं दाव णं । ) विदूषकः—( निद्राजडुमुत्थाय सहसा विलोक्य । ) मनोरमे किं नर्तित्वागतः प्रियवयस्यः । अथवा नृत्यत्येव । ( मणोरमे किं णच्चिअ आगदो पिववअस्सो । आदु णच्चदि एव्व । ) वासवदत्ता—( सविषादम् । ) कथमार्यपुत्रो नृत्यति । मनोरमेदानीं कुत्र । ( कहं अज्जउत्तो णच्चदि । मणोरमा दाणिं कहिं । ) विदूषकः—एषा चित्रशालायां तिष्ठति । ( एसा चित्तसालाए चिट्ठइ । ) मनो०—( सभयमात्मगतम् । ) कथमन्यथैव हृदये कृत्वा देव्या मन्त्रितम् । एतेनापि मूर्खबटुकेनान्यथैव बुद्ध्वा सर्वमाकुलीकृतम् । ( कहं अण्णहा एव्व अनर्थमिव मेऽङ्गानि कुर्वन्ति कोपि दुःसहो मनोविकारो मेऽङ्गानि प्रज्वलयतीत्यर्थः । विकुर्वन्त इति पाठे मदनविकारवश्यानि भवन्तीत्यर्थः । अलीकमवास्तवम्*। गान्धर्वः- यदुक्तं-क्षत्रियस्य तु गान्धर्वो विवाहः श्रेष्ठ उच्यते । इति। अत्र मनुः-इच्छयान्योन्य- संयोगः कन्यायाश्च वरस्य च । गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः ॥ इति । अस्थाने अकारणे अनुचिते काले वा । कुत्सितः वटुः बटुकः । कुत्सायां कन् । १ * 'णिइ अण्णहत्थेण एण विक्केरन्ति ( गत्वा अङ्गहस्तेनैव विकुर्वन्ति ).

४२ प्रियदर्शिकायां हिंअए करिअ देवीए मन्तिदं । एदेण वि मुक्कचवडेण अण्णहा एव्व बुद्धिअ सव्वं आउलीकिदं ।) वासवदत्ता—( सरोषं हसन्ती ।) साधु मनोरमे साधु । शोभनं त्वया नर्तितम् । ( साधु मणोरमे साहु । सोहणं तुए णच्चिदं । ) मनो०—( सभयं कम्पमाना पादयोर्निपत्य ।) भट्टिनि न खल्वहम- त्रापराध्यामि । एतेन खलु हताशेन बलादलंकरणानि गृहीत्वा द्वार- स्थितेनेह निरुद्धा । न पुनर्मामाक्रन्दन्त्याः शब्दो मुरजनिर्घोषान्तरितः केनापि श्रुतः । (भट्टिणि ण हु अहं एत्थ अवराझामि। एदेण खु हदासेण बलादो अलंकारणाइं गेण्हिअ दुवारठिदेण इह णिरुद्धा । ण उण मह अक्कन्दन्तीए सद्दो मुरअंणि- ग्घोसान्तरिओ केण वि सुदो ।) वासवदत्ता—हञ्जे उत्तिष्ठ । ज्ञातं सर्वम् । वसन्तकः खल्वार- ण्यिकावृत्तान्तनाटके सूत्रधारः । ( हञ्जे उट्ठेहि । जाणिदं सव्वं । वसन्तओ क्खु आरण्णिआउत्तन्तणाडए सुत्तधारो ।) विदूषकः—स्वयमेव चिन्तय । क्वारण्यिका कुत्र वसन्तक इति । ( सअं एव्व चिन्तेहि । कहिं आरण्णिआ कहिं वसन्तओत्ति ।) वासवदत्ता—मनोरमे सुगृहीतं कृत्वैनमागच्छ तावत् । प्रेक्षणी- यमस्य पश्यामि । ( मणोरमे सुग्गहीदं करिअ णं आअच्छ दाव । पेक्खणीअं से पेक्खामि ।) मनो०—( स्वगतम् ।) इदानीं समाश्वसितास्मि ( विदूषकं करे बध्नाति । प्रकाशम् ।।) हताश इदानीमनुभावात्मनो दुर्नयस्य फलम् । ( दाणिं समस्ससिदम्हि । हदास दाणिं अणुभव अत्तणो दुण्णअस्स फलं । ) वासवदत्ता—( ससम्भ्रममुपसृत्य ।) आर्यपुत्र प्रतिहतमेतदमङ्गलम् । ( इति पादयोर्नीलोत्पलदामार्पयन्ती सोत्रासम् ।) मर्षयत्वार्यपुत्रो यन्मनोरमेति कृत्वा नीलोत्पलदामकेन बन्धितोऽसि । (अज्जउत्त पडिहदं एदं अमङ्गलं । मरिसेदु अज्जउत्तो जं मणोरमेत्ति करिअ णीलुप्पलदामएण बन्धविदोसि ।) ( आरण्यिका सम्भ्रममपसृत्य तिष्ठति ।)


आरण्यिकायाः वृत्तान्तो मुखेण समाधानं इत्यर्थे । स एव नाटकं तत्र सूत्रधारो योजक इत्यु- द्घाते सुव्यक्तम् । दुर्नयस्यानुष्ठितनीते । असमीक्ष्यकारिताया इत्यर्थं अन्वयदन्यथापरिणामि। १ मुक्कच(मुद्धवि०) , २ गए आक्रन्दन्तीएति ० इतिदो ( धान्तरितो ) ४ केण वि सद्दो ५ आअच्छ । ६ पेक्खंतं से पेक्खाम ७ अपनयति । ८ ( सोत्त्रासं ) मर्षयतु इत्यादि राजा वैलक्ष्यं नाटयति ' इत्येतस्य परस्तात् दृश्यते पुस्तकान्तरे । ज इत्येव तुर्ये इ या थ