भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - २. सू - ३. ] दीपिकासहितम्. ९९५ आत्मेत्युपदेश उपासनं च मोक्षार्थिभिः सर्वथा का- र्यमेव । 'नान्यं विचिन्तय आत्मानमेवाहं विजानी- यामात्मानमुपास आत्मा हि ममैष भवति' ( ) इति ह्युपगच्छन्ति । 'आत्मैत्येवोपास्व आत्मैत्येव वि- जानीहि नान्यं किञ्चन विजानथ आत्मा ह्येषैव भवति' ( ) इति ग्राहयन्ति च । द्यो रूढ्या विष्णुपरः । द्वितीयः आदत्ते स्वीयतयाभृत्यानिति स्वामि- वाची । उपदेशः उपासनं च कार्यमिति शेषः इति भावेनात्मेति प्रतिज्ञांशं 'आत्मेत्युपासनम्' इति स्मृत्यनुसारेण व्याचष्टे—आत्मे- ति । सूत्र इवात्राप्यात्मेत्यावर्तते । तत्रैको रूढोऽन्यः स्वामिवचनः । उपदेशश्चेति चशब्दान्वयः । न केवलं तथोपासनमावश्यकं किन्तु त- थोपदेशश्च कार्य इति चशब्दार्थः । मोक्षार्थिभिरिति सौत्रतुशब्दस्या- र्थान्तरोक्तिः । अनेनात्मत्वोपास्तेरवश्यकर्तव्यत्वे तस्या एव मोक्षसा- धनत्वात् तां विना मोक्षासिद्धेरिति हेतुरुक्तो भवति—सर्वथेति । स- र्वप्रकारविघ्नेऽपि सदा कार्यमित्यर्थः । तुशब्दस्यार्थः—एवेति, न त्व- कार्यमित्येवकारार्थः । कुतः सर्वथा कार्यत्वमित्यतो हेत्वन्तरप्रतिपाद- नाय प्रवृत्तं आत्मेत्युपगच्छन्ति ग्राहयन्ति चेत्यंशं श्रुत्युदाहरणपूर्वकं व्याचष्टे—नेति । इतीति । इति श्रुत्येत्यर्थः । 'हि' यतः । उपगच्छन्ती- ति । उपासते गुरूपदेशेन जानन्ति चेत्यर्थः । उक्तं हि सुधायां उ- पगच्छन्तीत्येतत् ज्ञानार्थं उपासनार्थं चेति । अत एव श्रुतौ विजानी- यामुपास इत्युभयोक्तिः । सन्त इति सिद्धमिति च शेषः । तथा च 'हि' यतो 'न' इति श्रुत्या सन्त आत्मेत्युपगच्छन्तीति सिद्धम्, आ- त्मत्वस्योपास्यत्वं सिद्धमिति यावत् । अतो मोक्षार्थिभिरात्मा वि- ष्णुरात्मा स्वामीत्युपासनं सर्वथा कार्यमेवेति योजना । श्रुत्यर्थस्तु— अहं परमात्मनोऽन्यं न विचिन्तये । परमात्मानमेवात्मेति विजानीया- म् । परमात्मानमेवात्मेत्युपासे । न चैतदविद्यमानोपासनमित्याह— आत्मेति । 'एषः' विष्णुः 'मम' उपासकस्यात्मा स्वामीति हि यतः प्रसिद्ध इति । एवमरे शिष्य आत्मा स्वामीत्येवोपास्व, आत्मैत्येव वि- जानीहि, विष्णोरन्यं नात्मेति 'विजानथ' विजानीथाः । न चायं मि- थ्योपासनोपदेशः, 'हि' यतः 'एषः' विष्णुः आत्मा स्वामी भव- ति खल्विति । अत्रापीतीत्यनन्तरं श्रुत्येति ग्राहयन्ति चेत्यनन्तरं इति

९९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] ( २ ) आत्मेत्युपासनं कार्यं सर्वथैव मुमुक्षुभिः । नानाक्लेशसमायुक्तोऽप्येतावन्नैव विस्मरेत् ॥ इति भविष्यत्पर्वणि । ( ३ ) आत्मा विष्णुरिति ध्यानं विशेषणविशेष्यतः । सर्वेषां च मुमुक्षूणामुपदेशश्च तादृशः ॥ कर्तव्यो नास्य हानेन कस्य चिन्मोक्ष इष्यते ॥ इति ब्राह्मे ॥ ३ ॥ —::— सिद्धमिति च शेषः । योजना तु पूर्ववदेव । ग्राहयन्तीत्यस्योपदिश- न्तीत्यर्थः । सन्तः शिष्यानिति शेषः । चशब्द उपदिशन्तिग्राहय- न्त्योः समुच्चये, तुशब्दसूचितहेतुसमुच्चये चेति ध्येयम् ॥ ( २ ) यदात्मत्वोपासनस्य मोक्षसाधनत्वं तुशब्दार्थत्वेनोक्तं मोक्षा- र्थिभिरित्यनेन, तत् कुतो ज्ञायत इत्यत आह--आत्मेति ॥ 'आत्मा' स्वामीत्युपासनं 'सर्वथा' सर्वप्रकारेण यावच्छक्ति सदा कार्यमेव । 'एतावत्' आत्मत्वमात्रं वा न विस्मरेदित्यर्थः । भविष्यत्पर्वणीत्य- स्योक्तत्वादिति शेषेणात्मेति प्रतिज्ञावाक्येनान्वयः ॥ ( ३ ) केचित्तु—विष्णुरात्मतया जीवत्वेनोपास्यः । कुतः ? यतः 'अहं ब्रह्मास्मि' इत्युपगच्छन्ति 'तत्त्वमसि' इत्यादिना ग्राहयन्ति च शिष्यानित्यहंग्रहे प्रत्यगर्थस्य जीवात्मत्वग्रहणमेतदधिकरणप्रति- पाद्यतया वर्णयन्ति । तदयुक्तमिति भावेनाह—आत्मेति । कर्तव्यमि- ति विपरिणामेनाकृष्यते । तथा च विष्णुः 'आत्मा' स्वामीति ध्यानं कर्तव्यम् । कथम् ? 'विशेषणविशेष्यतः' भावप्रधानः सावधारण- श्च । मुमुक्षूणामिति तृतीयार्थे षष्ठी । तथा च सर्वैरपि मुमुक्षुभिर्वि- ष्णुरात्मा स्वामीति विशेषणविशेष्यभावेनैव ध्यानं कर्तव्यम् । न तु विष्णोर्जीवात्मत्वविधानेन । न केवलं ध्यानं, किन्तु तादृशः आत्मा वि- ष्णुरिति विशेषणविशेष्यभावोपेत उपदेशश्च कर्तव्यः । 'अस्य' आ- त्मत्वस्योपासनस्य 'हानेन' त्यागेनास्याकरणे कस्यापि मोक्षो नेती- ष्यते प्रामाणिकैरिति स्मृत्यर्थः । ब्राह्म इत्यनन्तरं अर्थान्तरं दूषितमि- ति वाक्यशेषः ॥ २ ॥ ॥ इति आत्माधिकरणम् ॥ —

[ अधि - ३. सू - ४. ] दीपिकासहितम्. ९९७ ३. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ न प्रतीके न हि सः ॥ ॐ ॥ ४ ॥ ‘नाम ब्रह्मेत्युपासीत’ ( छा. ७-१-५. ) इत्यादिना श ब्दभ्रान्त्या न प्रतीके ब्रह्मदृष्टिः कार्या । किन्तु तत्स्थ त्वेनैवोपासनं कार्यम् । ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मज्ञानार्थिनो विष्णुप्रतीकैक्योपासनवर्जन मावश्यकमिति प्रतिपाद्यते । ‘नाम ब्रह्म’ इति श्रुतेर्भगवत्प्रतिमारूपं नामवागादिकं ब्रह्मतयोपास्यमिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य ति—नेति ॥ अत्र प्रतीक इति विषयसप्तमी । सुधोक्तरीत्या पूर्वसूत्रा दात्मेतीति पदद्वयमुत्तरसूत्राद्दृष्टिपदं च, यद्वा—उत्तरसूत्राद्ब्रह्मदृष्टिप दमेवात्र सम्बध्यत इति भावेन न प्रतीक इति प्रतिज्ञांशं कर्तव्येति प दाध्याहारेण व्याचष्टे-नाम ब्रह्मेत्युपास्त इत्यादिनेति । आदिशब्देन ‘वा चं ब्रह्मेत्युपास्ते’ इत्यादीनि गृह्यन्ते । जातयेति शेषः । कर्तव्येत्यनन्त रमितीत्यनुवर्तते । तथा च इत्यादिना वाक्येनैकविभक्तिकत्वरूपसा मानाधिकरण्यबलेन जातया अस्मिन् वाक्ये ऐक्योपासनं विधीयत इ ति शब्दविषयभ्रान्त्या मूलभूतया ‘प्रतीके’ नामवाङ्मनःसङ्कल्पादि शब्दितोषस्वाहापर्जन्यमित्रादिरूपप्रतिमाविषये ‘ब्रह्मदृष्टिः’ ब्रह्मत्यो पास्तिः कर्तव्येति यत्पूर्वपक्षिणोक्तं न तद्युक्तमिति योजना । आत्मेत्य नुक्त्वा ब्रह्मेत्युक्त्या प्रतीके आत्मेति दृष्टिर्जीवदृष्टिर्न कार्येति परव्या ख्यानं निरस्तं भवति । ‘सः’ प्रसिद्धो ‘यः’ अधिकारी नामोषारूप प्रतीकं ब्रह्मेत्युपास्ते, ‘अस्य’ तस्याधिकारिणो नाम्नो ‘यावद्गतं’ व्या प्तिस्थानं तत्र ‘कामचारो’ यथेष्टसञ्चारो भवतीति पूर्वपक्षे श्रुत्यर्थः । सिद्धान्ते तु नाम्नि ब्रह्मास्तीत्युपास्त इत्यर्थः । ननु यद्यभेदोपासनं न युक्तं तर्हि कथं उपासनं कार्यम् । न च न कार्यमेवेति वाच्यम् । श्रुत्य प्रामाण्यप्रसङ्गादित्याशङ्कते—किन्त्विति । परिहरति—तत्स्थत्वेनेति । अनेन सूत्रे प्रतीक इत्यावर्तते । अधिकरणत्वं च सप्तम्यर्थः । ब्रह्मदृष्टि रित्यत्रापि सम्बध्यते । आत्मेति दृष्टिरिति वा । किन्त्विति लभ्यते । तथा च किन्तु प्रतीकाधिकरणे ब्रह्मदृष्टिः कर्तव्येति प्रतिज्ञाशेषो दर्शि तो भवति । कुतो नेत्यतस्तद्धेतुत्वेन ‘हि’ यतः ‘सः’ आत्मा विष्णुः प्रतीकं न भवतीति सूत्रखण्डो योजनीय इति सिद्धत्वादन्यत्र व्याकृ

९९८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] ( २ ) ब्रह्मतर्के च । नामादिप्राणपर्यन्तमुभयोः प्रथमात्वतः । ऐक्यदृष्टिरिति भ्रान्तिरबुधानां भविष्यति ॥ तत्त्वाच्चान्न स न व्याकृतः ॥ ( २ ) तत्तत्त्वत्वेनैवोपासनं कार्यं, न त्वभेदेनेत्युक्तार्थे स्मृतिं चाह- ब्रह्मतर्के चेति ॥ अयमर्थ उक्त इति शेषः । न केवलमस्माभिरिति चा- र्थः । नामादीति । नामशब्दादीत्यर्थः । आदिशब्देन वाङ्मनःसङ्कल्प- चित्तध्यानविज्ञानबलान्नाप्तेजआकाशस्मराशाशब्दा गृह्यन्ते । 'प्राणप- र्यन्तं' प्राणशब्दपर्यन्तं 'उभयोः' नामादिब्रह्मपदयोः । यद्यपि नामा- दिशब्दास्सर्वानुगतब्रह्मशब्दाश्च बहव इति द्विवचनानुपपत्तिः । तथा- ऽपि प्रत्येकवाक्यविवक्षया राशिद्वयविवक्षया वा तदुपपत्तिः । प्रथमा- त्वत इति । प्रथमाविभक्त्यन्तत्वादित्यर्थः । केचित्तु—ननु छान्दोग्ये 'ना...पास्व, वाचमुपास्व' (छा. ७-१..) इत्यादिविधिवाक्यं, 'स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य कामचारो भवति.. ..वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य' (छा.७-१..) इत्या- दिफलवाक्यं च श्रूयते । तत्र चोभयोः द्वितीयान्तत्वमेव, न प्रथमा- न्तत्वं तत्कथमेतदिति चेत्—न, यतो 'नाम ब्रह्मेत्युपासीत' इति शाखान्तरीयपाठाभिप्रायेणेदं वचनम् । छान्दोग्यानुसारे- ण तु 'प्रथमात्वतः' इत्येतद्द्वितीयात्वादित्यस्योपलक्षकम् । द्वि- तीयात्वेऽपि देवदत्तं सिंहं विद्धीत्यादौ विधिबलेनैवप्रतीतेः । य- थोक्तं तत्त्वप्रदीपे प्रथमात्वत इति सन्निकृष्टोपलक्षणं, प्रथमात्वात् द्वि- तीयात्वादित्यर्थः । शाखान्तरे प्रथमात्वादित्याहुः । तन्न, भाष्यपुस्त- केषु शाखान्तरपाठस्यादर्शनात्, तत्त्वप्रदीपरीत्या शाखान्तरपाठस्य स्मृत्यभिप्रेतत्वेऽपीह भाष्ये तदुपादाने नियामकाभावाच्च, फलवाक्य- गतनपुंसकनामब्रह्मपदयोरितिशब्दशिरस्कयोः प्रथमान्तत्वेन तयोर्वि- षयत्वे सति सम्भवति द्वितीयान्तत्वमाश्रित्याक्षेपस्य तदज्ञानमूलत्वा- च्च । यथोक्तं छान्दोग्यव्यासतीर्थीये—नाम ब्रह्मोपास्वेत्याद्युक्ताः द्वितीयाः स यो नाम ब्रह्मेत्युपास्ते इत्याद्युक्ताः प्रथमाश्च सप्तम्यर्थतया व्याख्या- ता इति । तस्मात् छान्दोग्यस्थफलवाक्यानुसारेणैवैतद्वचनम् । पर- न्तु प्रथमात्वत इत्येतदजहत्स्वार्थलक्षणया द्वितीयात्वत इत्यस्याप्युप

[ अधि - ३. सू - ४. ] दीपिकासहितम्. ९९९ नामादिस्थितिरेवात्र ब्रह्मणो हि विधीयते । लक्षकम् । तत्त्वप्रदीपोऽप्युभयोपलक्षकत्वाभिप्रायः । तथा चोपलक्ष णापक्षे फलवाक्ये उभयोः प्रथमात्वेन द्वितीयात्वाभावेऽपि विधिवा क्ये ब्रह्मपदानुवर्तनेनोभयोर्द्वितीयात्वं सम्पाद्य द्वितीयात्वत इत्येतत्प रतया योजनीयमिति सिद्धयति । अनेन ‘वाचं ब्रह्म’ इत्यादिवाक्य मपि गृहीतं भवति । शाखान्तरे प्रथमात्वादिति तत्त्वप्रदीपस्तु शाखा न्तरीयविधिवाक्य इत्यर्थकः । ‘मनो हि ब्रह्म मन उपास्व’ (छा० ७ - ३ . ) इत्यत्रत्यश्रुतिवत् ‘नाम हि ब्रह्म, वाग्घि ब्रह्म’ इ त्यपि शाखान्तरे पाठोऽस्तीति तदभिप्रायको वा भवतीति न तद्वि रोधः । अन्ये तु—उपलक्षणां विना ‘प्रथमयोः पूर्वसवर्णः’ इत्य त्रेव प्रथमात्वत इत्यस्य प्रथमा च द्वितीया च प्रथमे तयोः भावः प्रथमात्वम् , तत इत्यर्थ इत्याहुः । एके तु — ‘मनो हि ब्रह्म मन उपास्व’ इति पुनराख्यप्रतीकविषयवाक्ये मनो हि ब्र ह्मेति मनोब्रह्मपदयोः प्रथमान्तत्वदर्शनात्तद्वाक्यबलेन ‘नाम हि ब्र ह्म, वाग्घि ब्रह्म’ इत्यादिवाक्यानां सर्वत्रोहे क्रियमाणे नामादिप दानां ब्रह्मपदस्य च सर्वत्र प्रथमान्तत्वमस्तीति भावेन ‘नामादि प्राणपर्यन्तमुभयोः प्रथमात्वतः’ इत्युक्तम् । एवमेव शाखान्तपाठोऽप्य स्तीति सम्प्रदायविद इत्याहुः । प्रथमात्वत इत्यनन्तरं निमित्तादिति शे षः । उभयोरैक्यदृष्टिरिति । अभेदोपास्तिरित्यर्थः । अत्र कर्तव्यतयो च्यत इति शेषः । भ्रान्तिरित्यस्य भविष्यतीत्यनेनान्वयः । सामानाधि करण्यबलेन तथा भ्रान्तिसम्भवादिति भावः । भ्रान्तौ मूलकारणमा ह—‘अबुधानां’ अज्ञानामिति । ननु कस्मादियं भ्रान्तिरबुधानां क ल्प्यते, बुधानामेवं प्रमैव किं न स्यादित्यत आह—नामादीति । नामा दौ स्थितिरवस्थानं ‘अत्र’ ‘नामब्रह्म’ इत्यादिवाक्येषु ‘ब्रह्मणो’ ‘धि ष्णोः ‘हि’ यतः ‘विधीयते’ अभिधीयते । नामेति प्रथमाया वाचमि ति प्राणमिति द्वितीयायाश्च तर्हि का गतिः इत्यत आह—सर्वार्थेति । प्रथमेति द्वितीयाया अप्युपलक्षकम् । तथा च यस्मात्प्रथमा ‘सर्वार्था’ सर्वविभक्त्यर्थका तथा द्वितीया प्रथमा व्यतिरिक्तसर्वार्था ‘ततः’ त स्मात् ‘सप्तम्यर्था’ सप्तमीविभक्त्यर्था अधिकरणत्वार्थका मतेति यो

१००० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] सर्वार्थो प्रथमा यस्मात्सप्तम्यर्था ततो मता ॥ इति ॥ ४ ॥ —-:--— ४. अधिकरणम् ॥ ( १ ) सू--ॐ ॥ ब्रह्मदृष्टिरुत्कर्षात् ॥ ॐ ॥ ५ ॥ ब्रह्मदृष्टिश्च सर्वथा कार्यैव परमेश्वरे । उत्कृष्टत्वात् । जना । इति ब्रह्मतर्के इत्यन्वयः ॥ ३ ॥ ॥ इति प्रतीकाधिकरणम् ॥ —*— ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मत्वोपास्तेरावश्यकत्वं समर्थ्यते । ब्रह्मत्व स्यैव सदा विशिष्ट्योपासने कारणाभावान्न ब्रह्मत्वं सर्वथोपास्यमिति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—ब्रह्मेति ॥ अत्रात्मेति सूत्रात्परमेश्वर वाची सप्तम्यन्ततया विपरिणतः आत्मशब्दोऽनुवर्तते । एवं तुशब्दोऽ पि सर्वथेत्यर्थकस्सन् गुणान्तरोपासनादस्य विशेषद्योतकोऽवधारणा र्थश्चार्थकश्च । कार्येति शेष इति भावेन ब्रह्मदृष्टिरिति प्रतिज्ञांशं व्या चष्टे—ब्रह्मदृष्टिरिति । चः समुच्चये । एवकारो भिन्नक्रमः । तथा च न केवलमात्म दृष्टिः, किन्तु ‘परमेश्वरे’ भगवत्येव ‘ब्रह्मदृष्टिः’ सर्वो त्कृष्टत्वोपास्तिश्च कार्येत्यर्थः । सा च परोकरीत्या न प्रतीके कार्या ‘न हि सः’ इति पूर्वन्यायेन निरस्तत्वात्किन्तु भगवत्येवेति भावेनाह— परमेश्वर इति । उभयोपास्तिप्रकारस्तु वक्ष्यते । कुत इत्यत उत्कर्षा दिति हेतुं व्याचष्टे—उत्कृष्टत्वादिति । परमेश्वरस्येति विपरिणामेना नुषङ्गः । यद्वा—ब्रह्मत्वस्येति शेषः । अथ वा—ब्रह्मदृष्टेरिति विपरिणा मेनान्वयः । ननु सूत्रे उत्कर्षादित्युकम्, भाष्ये चोत्कृष्टत्वादिति तदे वोक्तम् । तत्कथमनेन हेत्वर्थनिर्णयः कथं च हेतुसद्भाव इति चेदुच्य ते, यथा आत्मदृष्टिस्तथा ब्रह्मदृष्टिः ब्रह्मत्वोपास्तिश्च परमेश्वर एव का र्येति प्रतिज्ञा । तत्र हेतुः—उत्कर्षादिति तस्यार्थः । परमेश्वरस्योत्कृष्ट त्वादिति भगवतो ब्रह्मत्वोपास्त्या उत्कृष्टत्वसिद्धेः । ब्रह्मत्वोपास्तौ उ पासकेन कृतायां भगवदुत्कृष्टत्वोपास्तिरेव कृता स्यादिति फलिता र्थः । ननु ब्रह्मत्वोपासनेऽपि कथमुत्कृष्टत्व

[ अधि - ४. सू - ५. ] दीपिकासहितम्. १००१ ( २ ) ब्रह्मदृष्ट्या सदोपास्यो विष्णुस्सर्वैरपि ध्रुवम् । महत्त्ववाची शब्दोऽयं महत्त्वज्ञानमेव हि । सर्वतः प्रीतिजनकमदस्तत्सर्वथा भवेत् ॥ ( ३ ) आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता । कार्यैव सर्वथा विष्णोर्ब्रह्मत्वं न परित्यजेत् ॥ स्वादित्यर्थः । तदपि कुतः ? 'उत्कृष्टत्वात्' ब्रह्मत्वे सर्वगुणान्तर्भावेन ब्रह्मपदप्रवृत्तिनिमित्तब्रह्मत्वस्यान्तर्भावितसर्वगुणत्वेनोत्कृष्टत्वरूपत्वा दित्यर्थः । तथा च ब्रह्मत्वोपासनमुत्कृष्टत्वोपासनं भवत्येवेति भावः । ननु तथाऽपि कुतो गुणान्तरपरित्यागेनास्योपासनमित्यतोऽप्याह---उ त्कृष्टत्वादिति । गुणान्तरोपासनेभ्योऽस्यैवोपासनस्योत्कृष्टत्वादतिश येनोत्कृष्टप्रसादहेतुत्वादिति ॥ ( २ ) सूत्रार्थे स्मृतिं चाह—ब्रह्मेति ॥ धान्येन धनवानितिवदत्रा भेदे तृतीया । तथा च विष्णुस्सर्वैर्ब्रह्मदृष्ट्या सर्वोत्कृष्टत्वोपासनेन 'उ पास्यो' विषयीकर्तव्य इत्यर्थः । अनेन ब्रह्मदृष्टिरित्यंशो व्याख्यातः । अत्र हेतुमाह--महत्त्वेति । 'अयं शब्दो' ब्रह्मशब्दः । यत इति शेषः । अनेन हेत्वंशो व्याकृतः । गुणान्तरपरित्यागेनास्यैव उपासने कार णमाह—महत्त्वेति । ज्ञानमुपासनं 'हि' यतः । 'सर्वतो' लक्ष्म्यादि सर्वेभ्यो महत्त्वज्ञानमित्यन्वयः । यद्वा—सर्वतो गुणान्तरोपासनादा धिक्येनेति शेषः । भवेदित्यतः प्रात्कार्यमित्युपस्कार्यम् । तथा चेत्थं योजना—यतोऽयं शब्दो महत्त्ववाची 'हि' यस्मान्महत्त्वज्ञानमेव स र्वतः प्रीतिजनकं, अतस्तन्महत्त्वज्ञानं सर्वथैव कार्यं भवेत्, यत एव मतो विष्णुस्सदोपास्य इति ॥ ( ३ ) आत्मत्वोपासनवत् ब्रह्मत्वोपासनं विनाऽपि मोक्षासम्भवा न्नैतत्कार्यमिति भावेन चशब्दज्ञापितार्थे प्रमाणमाह—आत्मेति ॥ य दा विष्णोरात्मेत्युपासा विष्णुधर्मिकात्मत्वप्रकारकोपासना मोक्षासि द्ध्यर्थमधिकारिणा कार्यैव, तां विना मोक्षाभावादिति भावः । तदा ब्रह्मत्वोपासनाभावेऽपि मोक्षाभावात् तदर्थे 'ब्रह्मत्वसंयुता' तत्प्रका रिकाऽप्युपासना 'सर्वथा' सर्वप्रकारविघ्नेऽपि कार्यैवेति योजना । अ स्मिन् पक्षे न चतुर्गुणनियमः । एतदेव विवृणोति—ब्रह्मत्वमिति । ब्रह्म त्वोपासनमित्यर्थः । अनेन ब्रह्मदृष्टिं विना मोक्षाभावेनोत्कृष्टसाधन त्वादात्मनि ब्रह्मदृष्टिः कार्येति सूत्रस्य वृत्त्यन्तरं दर्शितं भवति । ननु १२६

१००२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] इति ब्रह्मतर्के ॥ ५ ॥ —:✲:— ५. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ॐ ॥ ६ ॥ 'चक्षोस्सूर्यो अजायत' (ऋ. १०-९०-१३.) इत्या- द्युपासनं च देवानां कार्यमेव । स्वोत्पत्तिस्थानत्वा ब्रह्मत्वस्याप्यवश्योपास्यत्वे चतुर्गुणोपासनानियमभङ्गस्स्यादित्यतो वा ऽऽह—आत्मेति । अस्मिन् पक्षे यदा आत्मेत्युपासा प्रवर्तते तदा 'ब्रह्म- त्वसंयुता' सर्वोत्कृष्टस्वामी विष्णुरित्यात्मत्वविशेषणत्वेन ब्रह्मत्वविष- यिणी कार्येति योजना । ब्रह्मतर्के चेति । अयमर्थ उक्त इति शेषः । न केवलमस्माभिरिति चार्थः ॥ ४ ॥ ॥ इति ब्रह्माधिकरणम् ॥ —:✲:— ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विष्ण्वङ्गाश्रितत्वेन देवतोपासनमावश्यकमिति साध्यते । आदित्यादिभिर्देवैः स्वस्वोत्पत्त्यङ्गाश्रितत्वेनोपासनं सदा स- र्वथा न कार्यं, तेषां सदा तत्र स्थित्यभावात्, गुणान्तरेषु सत्सु भगव- दङ्गाश्रितत्वेन विशिष्य स्वचिन्तने कारणविशेषाभावाद्वेति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—आदित्यादीति ॥ अत्रादित्यादिमतय इति प्र- तिज्ञांशं व्याचष्टे—चक्षोरिति । इत्यादीति । इत्यादिनेत्यर्थः । उक्तमि- ति शेषः । यद्यप्यत्रोपासनं नोक्तम् । तथाप्युक्तेरुपासनार्थत्वादमृत इति फलोक्तेश्चार्थादुपासनमुक्तमिति भावः । उपासनमित्यतः प्राक् अङ्ग इत्युपस्कार्यम् । विषयसप्तमीयम् । तथा च स्वाश्रयत्वेन भगव- दङ्गोपासनमित्यर्थः । अनेन मतिशब्दो ज्ञानविशेषरूपोपासनोपलक्षक इत्युक्तं भवति । न केवलं पूर्वोक्तमिति चार्थः । देवानामिति । देवैरित्य- र्थः । कार्यमित्यनेन सूत्रे कार्या इति शेषो दर्शितः । चशब्दस्यार्थः— एवेति । को विशेषहेतुरित्यतः प्रवृत्तस्य उपपत्तेरित्यस्यार्थमाह—मु- क्तौ तत्र 'लयस्य' प्रवेशस्य अपेक्षितत्वादिति । नन्वप्रयोजकोऽयं हे- तुरिति चोद्योत्तरत्वेनापि—उपपत्तेरिति हेतुर्योज्यः । उपासनस्य फ- लसाम्येन कार्यत्वादिति तदर्थः । ननु मुक्तौ तत्र लयोऽसिद्ध इत्यतो ऽपि—उपपत्तेरित्याह । तदर्थः—स्वोत्पत्तिस्थानत्वादिति । स्वशब्द-

[अधि - ५० सू - ६० ] दीपिका सहितम् . १००३

त्स्वाश्रयत्वान्मुक्तौ तत्र लयस्यापेक्षितत्वाच्चोपपन्नं ते षां तथोपासनम् । ( २ ) नारायणतन्त्रे— आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु । गुणानां स्मरणाशक्तौ विष्णोर्ब्रह्मत्वमेव तु ॥ स्मर्तव्यं सततं तन्न कदाचित्परित्यजेत् । अत्र सर्वगुणानां च यतोऽन्तर्भाव इष्यते ॥ उपासकपरः । यतः यस्योत्पत्तिस्तत्र तस्य लयनियमाच्चासिद्धिरिति भावः । ननु सूर्यादिदेवानां विविधस्थानेषु चरणेन सदा भगवच्चक्षु राद्याश्रितत्वाभावात्तदभावेऽपि तथोपासनेऽन्यथोपासनप्रसङ्गादेतद् युक्तमित्याशङ्कोत्तरत्वेनाप्युपपत्तेरित्येतद्व्याचष्टे—स्वाश्रयत्वादिति । अङ्गानामिति शेषः । तथा च नित्यं रूपान्तरापेक्षया अङ्गानां स्वाश्रय त्वान्नोक्तानुपपत्तिरिति भावः । चशब्दो हेतूनां समुच्चये । निगमयति— उपपन्नमिति । युक्तमित्यर्थः । ‘तेषां’ देवानां ‘तथा’ स्वाश्रयत्वेन भ गवदङ्गोपासनमित्यर्थः । तथा चायं सूत्रार्थः—न केवलं ब्रह्मदृष्टिः, कि न्तु ‘अङ्गे’ भगवदङ्गविशेषविषये आदित्यादिभिर्देवैः ‘आदित्यादिमत यः’ आदित्याद्याश्रयत्वेनेश्वराङ्गोपासना अपि कार्या एव । को विशेषहे तुः?—उपपत्तेः । मुक्तौ तत्तदङ्गेषु प्रवेशस्यापेक्षितत्वादिति हेतोः। न चा प्रयोजकता । ‘उपपत्तेः’ उपासनस्य फलसाम्येन कार्यत्वात् । न च मुक्तौ तत्र प्रवेशस्यासिद्धिः । ‘उपपत्तेः’ स्वोत्पत्तिस्थानत्वात् । न चान्यथोपासनप्रसङ्गादेतदयुक्तम् । ‘उपपत्तेः’ नित्यं रूपान्तरेणाङ्गा नां स्वाश्रयत्वादिति ॥ ( २ ) अतीताधिकरणसहितैतदधिकरणार्थे स्मृतिं चाह—नारा यणेति ॥ अयमर्थ उक्त इति शेषः । आधिर्मानसी व्यथा । व्याधी रो गः । एतदुपलक्षितैर्विघ्नहेतुभिरित्यर्थः । विक्षिप्तमनस इति । अन्यव्या सक्तमनस इत्यर्थः । पुंस इति शेषः । कर्तरि षष्ठीयम् । अशक्तावपी त्यन्वयः । तुशब्दो विशेषार्थः । अन्योऽवधारणे । स्मरणं ध्यानम् । वि ष्णोर्गुणानां स्मरणाशक्तावित्यन्वयः । विष्णोरित्येतद्ब्रह्मत्वमित्यनेना पि सम्बध्यते । ‘तन्’ ब्रह्मत्वं तदुपासनमिति यावत् । ‘चो’ यतः ‘अ त्र’ ब्रह्मत्वे सर्वगुणानां ज्ञानानन्दादिविष्णुधर्माणां ‘अन्तर्भावः’ तद्रूप त्वमिष्यते प्रामाणिकैरतो ब्रह्मत्वं ‘सततं स्मर्तव्यं’ उपासितव्यमित्यर्थः।

१००४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] ( ३ ) स्वोत्पत्त्यङ्गं च देवानां विष्णोश्चिन्त्यं सदैव तु । तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः । तदाश्रिताश्च ते नित्यं ततश्चिन्त्यं विशेषतः ॥ इति ॥ ६ ॥ -- ६. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ आसीनस्सम्भवात् ॥ ॐ ॥ ७ ॥ सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यात् । त ( ३ ) एवमतीताधिकरणार्थोपयुक्तांशमुदाहृत्य पतदधिकरणोपयुक्तं स्मृत्यंशमुदाहरति—स्वोत्पत्त्यङ्गं चेति । 'देवानां' देवैर्विष्णोस्स्वोत्प- त्त्यङ्गं च सदैव चिन्त्यम् । स्वाश्रयत्वेनेति शेषः । न केवलं ब्रह्मत्वादी- ति चशब्दार्थः । अत्र हेतुमाह—'तेषां' देवानामिति । 'तत्र' अङ्गेषु 'हि' यतः । न चान्यथोपासनमेतदित्याह—तदाश्रिताश्चेति । 'ते' दे- वाः 'नित्यं' रूपान्तरेणाङ्गाश्रिता एवेत्यर्थः । 'ततः' तदाश्रितत्वात् 'विशेषतो' विशिष्य सर्वथा देवाश्रयाङ्गं देवैश्चिन्त्यमित्यर्थः । इति ना- रायणतन्त्र इत्यन्वयः ॥ ५ ॥ ॥ इति आदित्याधिकरणम् ॥ -::– ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे आसनादिनियमस्साध्यते । प्रयोजनाभावा- द्धासनं सर्वथाऽपेक्षितमिति पूर्वपक्षे सिद्धान्तयत्तत्सूत्रमुपन्यस्यति— आसीन इति ॥ अत्र पूर्वस्माच्चशब्दोऽनुवर्तते । स चाप्यर्थोऽवधारणे च । जिज्ञासुरुपासनं कुर्यादिति च शेष इति भावेन प्रतिज्ञांशं व्या- चष्टे—सर्वदोपासनं कुर्वन्निति । 'सर्वदा' स्थितिगत्यासनादिसर्वका- लेषु 'उपासनं' सामान्यस्मरणादि । कुर्वन्निति । जिज्ञासुरिति शेषः । अपिशब्दो हेतुवाक्ये सम्बध्यते । आसीन इति सावधारणम् । तेनानु- वृत्तचशब्दो व्याख्यातः । 'विशेषतः' सर्वथा कुर्यादिति । अत्रापि उ- पासनमिति सम्बध्यते । अत्रोपासनं वस्तुतो ध्यानम् । तथा चेत्थं प्र- तिज्ञावाक्ययोजना—उपासनं कुर्वन् जिज्ञासुः 'आसीनः' उपविश- न्नेवोपासनं विशेषतः 'सर्वथा' सर्वप्रकारविघ्नेऽपि कुर्यादिति । आ- सीनस्योपासने सर्वदोपासनाऽभावः स्यादिति शङ्कावारणाय—सर्वदो- पासनं कुर्वन्नित्याह । तथा चाधिकारी सर्वदोपासनं कुर्वन्नेव भवेत् ।

[ अधि - ६. सू - ८. ] दीपिकासहितम्. १००५ दा विक्षेपाल्पत्वेन सम्भवात् ॥ ७ ॥ ( २ ) सू—ॐ ॥ ध्यानाच्च ॥ ॐ ॥ ८ ॥ स्मरणोपासनं चैव ध्यानात्मकमिति द्विधा । स्मरणं सर्वदा योग्यं ध्यानोपासनमासने ॥ ( ३ ) नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः । तच्च आसीन एव कुर्यादित्यर्थः । कुत इत्यतत्सम्भवादिति हेतुं तदाश- ब्दाध्याहारेण व्याचष्टे—तदेति । सावधारणमेतत् । तस्येति शेषः । त- था च यद्यपि उपासनस्यैव ज्ञानसाधनत्वम् । तथाऽपि तस्य 'तदैव' आसने सत्येव 'सम्भवात्' योगात्, अन्यथाऽसम्भवादिति योजना । कुत इत्यतोऽनुवृत्तचशब्दसूचितं हेतुसाधकहेतुं दर्शयति—विक्षेपेति । तस्येत्यात्रापि सम्बध्यते । तथा च तस्यासीनस्यैव विक्षेपस्य चित्त- विक्षेपस्य अल्पत्वेन अबहुत्वेनेत्यर्थः । उक्तोपासनविरोधिबहुचित्तवि- क्षेपाभावादन्यस्य च तन्नियमादिति फलितार्थः । तत्त्वप्रदीपे तु सर्व- दोपासनं कुर्वन्नयं नाविशेषतः, किन्तु आसीनो विशेषतः कुर्यादित्यु- क्तम् ॥ ( २ ) ननु सर्वदोपासनं कुर्वन्नासीन एवेत्यनेन सर्वदोपासनं का- र्यम्, आसनं चापेक्षितमित्युक्तम् । तन्न युज्यते । विरुद्धत्वेनोभयोरेक- दा समावेशायोगात् । तत्रान्यतरस्मिन् त्याज्ये श्रुतिविहितत्वात्सर्व- दोपासनमुपादायासनमेव त्यज्यते, तद्विधायकश्रुत्यभावादतो नासन- मावश्यकमित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति—ध्यानाच्चेति ॥ अत्र ध्यानादिति भावप्रधानो निर्देशः । उपासनविशेषस्येति शेषः । चश- ब्दोऽनुक्तसमुच्चये, विरोधाभावसमुच्चये चेति भावेन सप्रमाणकं सू- त्रं व्याचष्टे—स्मरणेति । स्मरणं विच्छेदेन मनोवृत्तिः । यथोक्तं तत्त्व- प्रदीपे—स्मरणं विच्छेदेन मनसो वृत्तिरिति । स्मरणेति भिन्नपदं, लिङ्ग- व्यत्ययः छान्दसः । लुप्तविभक्तिको वा निर्देशः । उपासनमिति शेषो वा । चस्समुच्चये । एवकारो न्यूनसङ्ख्याव्यवच्छेदकः । तथा च उ- पासनं स्मरणोपासनं ध्यानात्मकं चेति द्विधैवेत्यर्थः । 'सर्वदा' स्थि- तिगत्यासनादिष्वपि । ध्यानोपासनमिति कर्मधारयः । 'आसने' उप- वेशने सत्येव । योग्यमित्यनुषज्यते ॥ ( ३ ) ध्यानस्वरूपप्रदर्शनपूर्वकं तस्यासिनेसापेक्षत्वमन्वयव्यतिरे-

१००६ ब्रह्मसूत्रभाष्यम्. [ अध्या -४. पा - १. ] आसीनस्य भवेत्तत्तु न शयानस्य निद्रया । स्थितस्य गच्छतो वाऽपि विक्षेपस्यैव सम्भवात् । स्मरणात्परमं ज्ञेयं ध्यानं नास्त्यत्र संशयः । इति नारायणतन्त्रे । अतो ध्यानत्वाच्च ॥ ८ ॥ (४) सू— ॐ ॥ अचलत्वं चापेक्ष्य ॥ ॐ ॥ ९ ॥ अचलं चेच्छरीरं स्यान्मनसश्चाप्यचालनम् । काङ्क्षामुपपादयति — नैरन्तर्यमित्यादिना ॥ नैरन्तर्यमविच्छेदः । 'त त्' ध्यानम् । तुशब्दोऽवधारणार्थः । आसीनस्यैवेत्यन्वेति । तद्व्याव र्त्यमाह —नेति । निद्रया शयानस्येत्यन्वयः । गच्छत इति षष्ठी । वाश ब्दो विकल्पार्थः । अपिः समुच्चये । कुतो नेत्यत आह —विक्षेपस्येति । मनोविक्षेपस्येत्यर्थः । एवकारस्सम्भवादेवेत्यन्वेति । तर्हि सुशकेन सा र्वकालिकेन स्मरणेनैवालं, किं ध्यानेनेत्यत आह—स्मरणादिति । 'परमं' अधिकं 'तत्र' आधिक्यविषये । नारायणतन्त्र इति । यतोऽ मिहितमिति शेषः । ध्यानत्वादिति । तस्य उपासनस्येति शेषः । च शब्दः आसनस्यावश्यकत्वमविरोधश्चेति साध्यसमुच्चये । तथा चेत्थं योजना —यतः उपासनं स्मरणं ध्यानात्मकमिति द्विधा भवति । यत श्च स्मरणोपासनं सर्वदा योग्यम् । यतश्च सर्वदोपासनविधिः सर्व दोपासनं कुर्वन्नित्युक्तिश्च तद्विषयो भवतीति शेषः । यतो ध्यानं म नोवृत्तेर्नैरन्तर्यं उपासनविशेषः । तच्चासनाभावे चित्तविक्षेपप्राप्तेरास ने सत्येव युज्यते । यतश्च स्मरणात् ध्यानमधिकमिति नारायणतन्त्रेऽ भिहितम् । अतस्तस्यासनसापेक्षतयोच्यमानस्योपासनस्य ध्यानत्वा त्तद्रूपत्वान्नासननियमसदोपासनयोर्विरोधः । अत एव ध्यानस्यासन मन्तरेणासम्भवादासनस्यावश्यकत्वं च सिध्यतीति । अत्र सर्वत्र वि षयानुक्तिः प्रकृतिसिद्धत्वात्परमात्मा हि प्रकृतः ॥ (४) ननु ध्यानार्थमपि नासनमावश्यकम् । न चैवं चित्तविक्षेपा परिहारः । इन्द्रियाणां विषयेभ्य उपसंहाररूपप्रत्याहारादिना चित्तवि क्षेपपरिहारादित्याशङ्कां परिहरत्सूत्रं पठति—अचलत्वं चेति ॥ अत्र मनसो देहस्य भवतीति पदत्रयमध्याहार्यम् । सूत्रपदानामावृत्तिश्च । आसीन इत्यनुवर्तते । उपासनं विशेषतः कुर्यादिति च प्रकरणाल्लभ्य ते । अचलत्वमिति प्रथमान्तं द्वितीयान्तं च । साधनसमुच्चये चशब्दः। यद्वा—तत्त्वप्रदीपरीत्याऽनिद्रत्वं चकारार्थः । तथा च यतो मनसः 'अ

यहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण है:

[ अधि - ६. सू - १०. ] दीपिकासहितम्. १००७ चलने तु शरीरस्य चञ्चलं च मनो भवेत् ॥ इति ब्र ह्माण्डे ॥ ९ ॥ ( ५ ) सू— ॐ ॥ स्मरन्ति च ॥ ॐ ॥ १० ॥ समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ इत्यादि ॥ चलत्वं ' विक्षेपाभावो न केवलं प्रत्याहारादिना भवति, किन्तु देहस्या चलत्वं चापेक्ष्य भवति । देहस्याचलत्वं चासनमपेक्ष्य भवति । अत आसीन एवोपासनं कुर्यादिति सूत्रवृत्तिमभिप्रेत्य सूत्रार्थे स्मृतिमुदाह रति—अचलमिति । 'चेत्' यदि अचालनमचलनं स्यादित्युभयत्र स म्बध्यते । चोऽन्वयव्यतिरेकसमुच्चये । अपिः धर्मिसमुच्चये । तुः विशे षे । हिः प्रसिद्धौ । ब्रह्माण्ड इत्यनन्तरं सूत्रार्थोऽ

१००८ ब्रह्मसूत्रभाष्यम् [ अध्या - ४, पा - १. ] ( ६ ) सू–ॐ ॥ यत्रैकाग्रता तत्राविशेषात् ॥ ॐ ॥११॥ देशकालावस्थादिषु यत्रैकाग्रता भवति तत्रैव स्थात व्यम् । ( ७ ) तमेव देशं सेवेत तं कालं तामवस्थितिम् । तानेव भोगान् भुञ्जीत मनो यत्र प्रसीदति ॥ ( ६ ) नन्वासनादिनियतिवत् देशकालादिनियतिरप्यङ्गीकार्या । पर्वताग्रे नदीतीरे.... इति स्मृतेः । ब्राह्मे मुहूर्ते उत्थाय वार्युपस्पृश्य माधवः । दध्यौ प्रसन्नकरण आत्मानं तमसः परम् ॥ इति भागवतवचनात् । ब्राह्मे मुहूर्ते उत्थाय धर्मार्थानुपचिन्तयेत् । इति मनुस्मृतेश्चेत्याशङ्कां निवारयत्सूत्रं पठति—यत्रेति ॥ अत्र ध्याना- दित्यस्य षष्ठ्यन्ततया विपरिणामेन अनुवृत्तिर् भवतीति शेषं चाभिप्रे- त्य यत्रेति प्रतिज्ञांशं व्याचष्टे—देशेति । यत्र तत्रेत्यनुवादः, देशकाला- वस्थादिष्विति व्याख्यानम् । अवस्था आसनम् । आदिशब्देन भोगो गृह्यते । ‘ एकाग्रता ’ एकविषयता । ध्यानस्येति शेषः । स्थातव्यमि- त्येतत्तस्मिन्नेव देशे स्थातव्यं तस्मिन्नेव काले ध्यातव्यं तदेवासनं ग्रा- ह्यं तदेव भोग्यं भोक्तव्यमिति सर्वेषां स्मृत्युक्तानामुपलक्षकम् । अनेन सूत्रे तत्रेति सावधानं ध्यानं कार्यमिति शेष इत्युक्तं भवति ॥ ( ७ ) अविशेषादिति हेत्वंशस्य स्मृत्येव व्याख्यानात्तमव्याख्या- य समग्रसूत्रार्थं स्मृतिमाह—तमेवेति ॥ अत्र देशकालादीनां किमा- सनादिवत् ध्यानोपयोगितयाऽऽवश्यकत्वम् , उत पृथगेव ज्ञानोपयो- गित्वादिति विकल्प्याद्यस्य दूषणमाह-तमेवेति । अवस्थितिरासनम् । अत्र हेतुमाह—न हीति । यतः ‘ देशादिभिः ’ नियतदेशकालादिना ‘ कश्चिद्विशेषः ’ अतिशयो नास्ति ध्याने इति शेषः । अतस्तदेव देशा- दिकं सेवेत न तु नियतमित्यर्थः । द्वितीयस्य दूषणमाह—न हीति । अस्मिन् पक्षे ज्ञान इति शेषः । तथा च ज्ञाने देशादिभिः केवलैर्न क- श्चिद्विशेष इत्यर्थः । तत्र हेतुः—मनःप्रसादनार्थमिति । प्रसादनं वृत्ति- रचाञ्चल्यं वा । तदर्थं तत्संपादनार्थमित्यर्थः । ‘ हि ’ यतः ‘ चिन्तना ’ मार्गणं यद्वा—‘ चिन्तना ’ विचारः योगशास्त्र इति शेषः । उक्तं हि तत्त्वप्रदीपे—या तु योगशास्त्रे हरिक्षेत्रदिनादिदेशकालविशेषादिचि-

[ अधि-७. सू-१२. ] दीपिकासहितम्. १००९ न हि देशादिभिः कश्चिद्विशेषस्समुदीरितः । मनःप्रसादनाथें हि देशकालादिचिन्तना ॥ इति वा राहे ॥ ११ ॥ ७. अधिकरणम् ॥ (१) सू- ॐ ॥ आ प्रायणात्तत्रापि हि दृष्टम् ॥ ॐ ॥ १२ ॥ यावन्मोक्षस्तावदुपासनादि कार्यम् । न्ता क्रियते सा हरेर्विशेषाभिव्यक्तिहेतुत्वेन तेषां मनःप्रसादकरत्वेने व, नान्यविशेषहेतोरिति । अतोऽन्यथासिद्धत्वान्न देशादेः ज्ञानोप योगित्वमिति भावः। न च देशकालादिवदासनस्याप्यनियतत्वे ‘आसी नः’ इति तन्नियमोक्तिविरोध इति वाच्यम् । वीरासनमेव पद्मासनमेव ध्यानोपयोगीति विशेषनियमस्यैवात्र निषेधात् । उपवेशनार्थमासन सामान्यनियमस्यानिषेधात् । तस्यैव पूर्वमभिहितत्वात् । न च ‘पर्व ताग्रे’ इत्याद्युक्तिविरोधः । प्रायेण मनःप्रसादनाथेंत्वेन तदुक्तिसम्भवा त् । वाराहे इत्यनन्तरमुक्तत्वादिति शेषः । अस्य पूर्वेणान्वयः ॥ ६ ॥ ॥ इति आसीनाधिकरणम् ॥ ७. अधिकरणम् ॥ (१) अत्राधिकरणे ध्यानस्य प्रायणान्तत्वं समर्थ्यते । साधनस्य कार्यपर्यन्तमेवानुष्ठेयत्वात् ज्ञानपर्यन्तमेव ध्यानमावश्यकं, न तु मुक्ति पर्यन्तमपीति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—आ प्रायणादिति॥ अत्राङ् मर्यादायाम् । टीकारीत्या प्रायणं चरमशरीरोत्क्रमणं, तत्त्वप्र दीपरीत्या तु प्रायणं प्रकर्षणायनं नारायणं प्रति गमनं मोक्षस्तत्पर्यन्त मित्यर्थ इत्याशयेनाप्रायणादित्यंशं व्याचष्टे—यावन्मोक्ष इति । उपा सनादि कार्यमिति शेषोक्तिः । कार्यमिति सावधारणं, मुमुक्षूणामिति शेषः । उपासनं ध्यानम् । आदिपदेन श्रवणादिर्गृह्यते । तत्त्वप्रदीपुरी त्याऽर्चनादिकं च । तत्रायं विवेकः—ज्ञानात्पूर्वं तावच्छ्रवणादियुतं ध्यानं कर्तव्यं, आनन्दातिशयार्थं ज्ञानान्तरमपि प्रायेण केवलं ध्यानं कर्तव्यम् । न च श्रवणादिनाऽपि तत्सिद्धिः । ध्यानस्य प्रधानसाधनत्वे न तदयोगात् । सम्यक् ध्यानाभावे श्रवणादीति ॥ १२७

१०१० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ] (२) 'स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्या यीत्' (प्र. ५-१.) इति हि श्रुतिः । (३) 'सर्वदैनमुपासीत यावद्विमुक्तिर्मुक्ता अपि ह्येनमुपा सते' इति सौपर्णश्रुतिः । (४) शृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यान्नेक्षा क्वचन बाध्यते ॥ (२) ननु ध्यानस्य ज्ञानफलकत्वेन तत्पर्यन्तमनुष्ठानेऽपि तदनन्त रमपि मुक्तिपर्यन्तं तदनुवर्तनीयमिति कुतो ज्ञायत इत्यतो ज्ञानात्पूर्वं ध्यानस्य कर्तव्यत्वे विवादाभावात्तत्सिद्धवत्कृत्य तदुत्तरं तस्य कार्य त्वे श्रुतिप्रमाणसूचकतया दृष्टं हीत्येतद्व्याचष्टे—स इति ॥ 'हि' यतः। इति षट्प्रश्नश्रुतिरस्तीत्यर्थः । अस्य यावन्मोक्ष इत्यनेनान्वयः । हे 'भग वन्' पूज्य 'एतत्' एतेषु ज्ञानिमनुष्येषु स यः कश्चित् 'प्रायणान्तं' प्रायणपर्यन्तं यावच्छरीरादुत्क्रमणं तावदिति यावत् । 'ओंकारं' ओ मित्यभिक्रियमाणं तद्वाच्यं परमात्मानं 'अभिध्यायीत' प्रणवेन सर्वदा हरिं चिन्तयेदिति यावत् । 'सः' पुरुषस्तेन ध्यानेन कतमं लोकं प्रा प्नोतीति श्रुत्यर्थः । पिप्पलादं प्रति शैब्यवाक्यमेतत् ॥ (३) कैमुत्येनापि ध्यानस्य मुक्तिपर्यन्तत्वं साधयितुं सूत्रखण्डः— तत्रापीति । तत्रापिः कैमुत्ये । तथा च मुक्तावपि ध्यानं कुर्वन्ति सन्तः, किमु ततः पूर्वमिति तस्यासिद्धिपरिहारार्थमपि दृष्टं हीत्यंशो योज्य इ त्याशयेन तत्सूचितश्रुतिं दर्शयति—सर्वदेति ॥ ज्ञानात्पूर्वं तदुत्तरं चे त्यर्थः । अस्योत्तरावधिमाह—यावद्विमुक्तिरिति । एवं कैमुत्योपयुक्तं साध्यमभिधाय तद्धेतुं कैमुत्यमाह—मुक्ता अपीति । अपिशब्दः कैमु त्ये । हिशब्दो यत इत्यर्थे । श्रुतिश्चेत्यन्वयः । चः श्रुतिद्वयसमुच्चये । य त इति शेषः । अस्यातो यावन्मोक्ष इति साध्यवाक्येनान्वयः ॥ (४) ज्ञानपर्यन्तं श्रवणादियुतं ध्यानं कार्यमित्यत्र स्मृतिं चाह— शृणुयादिति ॥ अज्ञानशब्देन तन्निवृत्तिर्लक्ष्यते । तावदिति शेषः । ए वमुत्तरत्रापि । मतिर्मननम् । 'अयुक्तता' विपर्ययः । युक्तायुक्तत्वसं शयो वा । एतदपि निवृत्त्युपलक्षकम् । कार्येति कार्यमिति च क्रमेण शेषः । तत्त्वस्येति सर्वत्रान्वीयते । श्रवणादेरिव ज्ञानस्याप्यावृत्तावेव मोक्षो न त्वावृत्त्यभाव इति न वाच्यमिति भावेनाह—नेक्षेति । 'ईक्षा' ब्रह्मदृष्टिः 'क्वचन' कादाचित्काऽपि 'न बाध्यते' न मोक्षसाधिका भ

[ अधि - ७. - सू - १२. ] दीपिकासहितम्. १०११ दृष्टतत्त्वस्य च ध्यानं यदा दृष्टिने विद्यते । भक्तिश्चानन्तकालीना परमे ब्रह्मणि स्फुटा ॥ आ विमुक्तेर्विधिर्नित्यं स्वत एव ततः परम् ॥ इति ब्र ह्माण्डे ॥ १२ ॥ वति तत्साधिकैव भवतीत्यर्थः । ज्ञानोत्तरं श्रवणादिरहितं केवलध्या नं प्रायेण कर्तव्यमेवेत्यत्रापि प्रमाणत्वेन स्मृतिशेषमुदाहरति—दृष्टत त्त्वस्येति । प्रायेण केवलमित्यध्याहार्यम् । दृष्टं साक्षात्कृतं तत्त्वं ब्रह्मा ख्यं येन स तथोक्तः तस्येत्यर्थः । न केवलं जिज्ञासोरिति चशब्दार्थः । ध्यानमित्येतदनन्तरमपि अनन्तकालीनेति पदं विपरिणामेन सम्बध्य ते । तथा च ‘दृष्टतत्त्वस्य’ पुंसः ‘परमे ब्रह्मणि’ विषये प्रायेण केव लं ध्यानमनन्तकालीनं कर्तव्यमेव । न केवलं ध्यानमनन्तकालीनं, कि न्तु ‘स्फुटा’ निरुपाधिका भक्तिश्चानन्तकालीना अपेक्षिता । तत्र हे तुः—‘यदा’ यस्मात् दृष्टिः फलत्वेन न विद्यतेऽसिद्धत्वादिति । फल त्वे ह्यनन्तकालीनत्वं न स्यादिति भावः । अथ वा-अपरोक्षज्ञानकाले वासनामयध्यानायोगादाह—यदेति । ‘यदा’ यस्मिन् काले ‘दृष्टिः’ ब्रह्मदर्शनमित्यर्थः । यद्वा—‘यदा’ यस्य ‘दृष्टिर्न विद्यते’ तद्विच्छेदो भवति तदा तस्यापाकरणार्थं पुनःपुनः दृष्ट्यर्थं दृष्टतत्त्वस्यापि मध्येम ध्ये ध्यानमपेक्षितमित्यर्थः । उक्तं हि तत्त्वप्रदीपे--दर्शनवतोऽपि यदा तद्विच्छेदस्तदा तस्यापकरणार्थे तस्य परमस्य ध्यातुर्विरिञ्चलोकं नी तस्य ततोऽप्युपदेशं प्राप्य पुनरभ्यस्यतः परं पश्यतोऽप्यामोक्षादुपा स्तिकर्तव्यतायां प्रमाणदर्शनादिति । ननु ज्ञानोत्तरमपि निरवधिकध्या नं किं विहितत्वात्क्रियते अन्यथा वा?। नाद्यः—निरवधिकध्यानस्य वि हितत्वेन कार्यत्वे मोक्षेऽपि तथाकार्यत्वापत्त्या मुक्तस्य विधिबन्ध वर्जितत्वरूपमोक्षविरोधात् । न द्वितीयः—मोक्षात्पूर्वं करणानुपपत्ते रित्यत आह—आ विमुक्तेरिति । मोक्षपर्यन्तमित्यर्थः । नित्यं विधिरि त्यन्वयः । विधिविहितत्वेन करणम् । भक्तिध्यानयोरिति शेषः । ‘ततः परं’ मुक्तेरनन्तरं ‘स्वत एव’ स्वभावेनैव करणमिति शेषः । ब्रह्मा ण्डे विवक्षितार्थ उक्त इति शेषः । न केवलं श्रुतिद्वये इति चार्थः ॥७॥ ॥ इति आप्रायणाधिकरणम् ॥

१०१२ | ब्रह्मसूत्रभाष्यम्. | [ अध्या - ४. पा - १. ] ८. अधिकरणम् ॥ ( १ ) सू- ॐ ॥ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ त- द्व्यपदेशात् ॥ ॐ ॥ १३ ॥ ब्रह्मदर्शन उत्तराघस्याश्लेषः पूर्वस्य विनाशश्च । ' त- द्यथा पुष्करपलाश आपो न लिप्यन्त एवमेवंविदि पापं कर्म न लिप्यते' (छा. ४-१४-३.) ' तद्यथेषीका- तूलमग्नौ प्रोतं प्रदूयेत एवं हैवास्य सर्वे पाप्मानः प्रहू- ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे प्रासङ्गिकं समाप्य कर्मक्षयाख्यफलसिद्धि- स्साध्यते । प्रागापादितकर्मणां भावात् न ज्ञानेन मोक्षस्सम्भवतीति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—तदिति । अत्र सम्भवत्येव ज्ञाने- न मोक्ष इति साध्याध्याहारं, तद्धेतुत्वेन तदधिगम उत्तरपूर्वाघयोरि- त्यस्यान्वयं, तत्साधकतया तद्व्यपदेशादित्यस्य प्रवृत्तिं चाभिप्रेत्य सू- त्रं व्याचष्टे—ब्रह्मदर्शन इति ॥ निमित्तसप्तम्येषा । ब्रह्मदर्शनादित्यर्थः । अनेन सूत्रे तच्छब्दो ब्रह्मदृष्टिरिति प्रकृतब्रह्मपरामर्शी । अधिगमो ज्ञान- म्, निमित्तार्थे सप्तमीत्युक्तं भवति । ' उत्तराघस्य' ज्ञानोत्तरकालीन- पापस्याश्लेषः फलतः । पूर्वस्येत्यनन्तरमघस्येति बुद्ध्या विवेकेनानुष- ज्यते । अप्रारब्धस्येति शेषः । ' विनाशः ' स्वरूपतः । चः समुच्चये । भवति यत इति शेषः । अस्याध्याहृतसाध्येनान्वयः । उत्तराघस्याश्ले- षो नाम नानन्दह्रासकरत्वाभावः, किन्तु पारलौकिकज्ञानोत्तरपापफ- लनरकादिश्लेषाभावरूपोऽलेपः, तथा ऐहिकज्ञानोत्तरपापफलाशुचि- त्वासम्भाष्यात्वादिसंश्लेषाभावश्चेति द्रष्टव्यः । यथोक्तं— ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते । अशुचित्वादिकं चास्य न भवेदिति तत्फलम् ॥ इति अनुव्याख्यानसुधयोः । कुत एतदुभयं ज्ञानाद्भवतीति, तथास- ति 'नाभुक्तम्' इति स्मृतिविरोधापातात् । न च तस्या अज्ञा- निकर्मविषयत्वं, बाधकाभावादित्यतस्तद्व्यपदेशादित्यंशं तस्मिन् त- स्य तयोरित्यावृत्त्यभिप्रायेण व्याचष्टे—तद्यथेति । इतीति । एवंरूपे छन्दोगश्रुतिद्वये इत्यर्थः । तद्व्यपदेशादिति । तस्य ज्ञानिनस्तयोरश्लेष- विनाशयोरुक्तत्वादित्यर्थः । तथा च श्रुतिरेव बाधिकेति भावः । श्रुत्य- र्थस्तु—'तत्' तत्रार्थे वक्ष्यमाणदृष्टान्तो 'यथा पुष्करपलाशे' पद्मप

यन्ते' (छा. ५-२४-३.) इति तद्व्यपदेशात् ॥ १३ ॥ (२) सू-ॐ ॥ इतरस्याप्येवमसंश्लेषः पाते तु ॥ ॐ ॥ १४ ॥ पुण्यस्याप्येवमसंश्लेषः पाते । तुशब्दोऽनुत्थानवाची । त्रे 'एवं' तथा 'एवंविदि' उक्तप्रकारेण ब्रह्मज्ञानिनि पापं कर्म 'न श्लिष्यते' तत्फलं नरकादिकं न प्राप्नोतीत्यर्थः । इषीका तृणविशेषः, सा च तूलमंशुश्चेति द्वन्द्वैकवद्भावे चैषीकातूलमिति भवति । 'इषी- केषीक' इति ह्रस्वभावश्छान्दसः । 'प्रोतं' प्रविष्टं 'प्रदूयते' प्रदह्य- ते एवमेव 'अस्य' ज्ञानिनः 'सर्वे' ज्ञानोत्तरकृताः 'पाप्मानः' पापा- नि 'प्रदूयन्ते' स्वरूपतो नश्यन्तीति ॥ (२) एवं ब्रह्मज्ञानिनो मुक्तिसिद्ध्यर्थं ज्ञानादेवाघविनाशाश्लेषावु- क्त्वा तत्समानन्यायत्वाद्वगवद्द्व

ति ॥ ' मुक्तस्य ' जीवन्मुक्तस्य Wait, look atचाह-यथेति: चाह—यथेतिorचाह-यथेति? It has a dash -: चाह—यथेति ॥ ' मुक्तस्य ' जीवन्मुक्तस्य`

*   **Line 9**:
    `प्रत्यासन्नमुक्तस्येति वा । तुशब्दः सौत्रतुशब्दार्थको विशेषार्थः । स`
    Wait, let's look at `सौत्रतुशब्दार्थको` again.
    Could it be `सौत्रसंशद्बार्थको`? No, no such word exists.
    Could it be `सौत्रतुशब्दार्थको`? Yes, "सौत्र-तु-शब्द-अर्थकः".
    Wait, what about `स च प्रागेवोक्तः ।` at the end of the line.

*   **Line 10**:
    `च प्रागेवोक्तः । ' विकर्मणो ' ज्ञानोत्तरकृतस्य तत्पूर्वस्याप्रारब्धस्य च`

*   **Line 11**:
    `पापकर्मणः तज्जन्याधर्मस्येति यावत् । अश्लेषो विनाशश्च यथा आव`

*   **Line 12**:
    `श्यकः ' एवं ' तथा ' ध्रुवं ' निश्चितं ' तमसि पततः ' प्रत्यासन्नपतन`

*   **