पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
३३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] युज्यते ॥ ४२ ॥ -: ❖ :- १४. अधिकरणम् ॥ ( १ ) ‘ एष नित्यो महिमा ब्राह्मणस्य ’ ( बृ. ६-४-२३. ) इति ब्राह्मणस्यापि नित्यमहिमा प्रतीयते । स च ब्राह्मणः ‘स वा एष महानज आत्मा’ (बृ. ६-४-२४) इत्यजशब्दा ण्यं च पापं च ’ ( बृ. ६.३-१५. ) इत्याद्ययोग इति वाच्यम् । यतोऽत्र आदिपदगृहीतं पुण्यपापादिद्रष्टृत्वं लिङ्गान्तरं च तस्यैव युज्यते अत इति योजना । तत्रोपपत्तिस्तु बृहद्भाष्यादवगन्तव्या । अनेन-‘ सुषुप्त्यु त्क्रान्त्योः’ ‘ प्राज्ञेन ’ इति सुषुप्त्युत्क्रान्तिप्रकरणयोः सुषुप्त्युत्क्रान्त्योः सुषुप्तियुतत्वात् सुषुप्तिर्जीवः , उत्क्रामयितृत्वात् उत्क्रान्तिरीश्वरः , तथा च जीवेश्वरयोः ‘भेदेन’ भिन्नत्वेनैव ‘व्यपदेशात्’ उक्तत्वात् न तयोरभेदः । अतो नैश्वराभेदेनापि जीवे असङ्गत्वोक्तिर्युज्यते । कि न्तु तत्तु तस्यैव ईश्वरस्यैव युज्यते । अत एव स्वप्नादिद्रष्टृत्वं च त स्यैव वक्तुं युज्यते न जीवस्येति सूत्रार्थः उक्तो भवति ॥ १३ ॥ इति सुषुप्त्यधिकरणम् ॥ -: ❖ :- १४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्राह्मणनाम समन्वियते । श्रुत्यादिसङ्गतिं विषया दिकं च सूचयति—एष इति । इतीति । वाजसनेयकोदाहृतऋङ्मन्त्र इत्यर्थः । न केवलं विष्णोः अपि तु कस्यचित् ब्राह्मणस्यापीत्यपेरर्थः । इदं च यो जन्माद्यधिकरणेषु विष्णोरनन्यापेक्षया जगत्स्रष्टृत्वोक्त्या अभिसंहितो नित्यमहिमा सः ‘ एषः ’ इति वाक्ये ब्राह्मणस्यापि प्रती यत इति यत्तच्छब्दाध्याहारेण योज्यम् । अनेन पूर्वाभिसंहितनित्यम हिमत्वस्य विष्णोरन्यस्याप्याक्षेपात् जन्माद्यधिकरणैः फलमुखेन अ स्याक्षेपिकी सङ्गतिरुक्ता भवति । तथा ब्राह्मणाख्यविषयोऽपि सूचितः। यद्वा—देवानामिति वाक्यं देवताधिकरणप्रतिपाद्यानुवादपरत्वेनापि व्याख्याय तेनास्याक्षेपिकी सङ्गतिरुक्ता द्रष्टव्या । तथा हि ‘ तदुप रि ’ इति सूत्रेण देवानां विरिञ्चाद्यमराणां विद्याकर्मणोस्सकाशात् साध्या या नित्यपदप्राप्तिरुक्ता, सा न युक्ता । कुतः? यतः ‘एषः’ इति वाक्ये ब्राह्मणपदोदितस्य विरिञ्चस्य नित्यमहिमा ‘प्रतीयते’ प्रतिपाद्यत
[ अधि - १४. सू - ४३. ] दीपिकासहितम्. ३३९
द्विरिञ्च इति प्राप्तम् । देवानां च विद्याकर्मणोः पद प्राप्तिः सूचिता तदुपर्यपीति ॥ ( २ ) अतो ब्रवीति— सू—ॐ ॥ पत्यादिशब्देभ्यः ॥ ॐ ॥ ४३ ॥ इति वाक्ययोजना । श्रुतौ ब्रह्मणा वेदेनान्यतेऽवगम्यते इति व्युत्पत्तिः । दीर्घव्यत्यासो विष्णोर्वेदगम्यत्वे जीवादाधिक्यज्ञापकः । तथा च ब्राह्म णस्य विष्णोरेषः पूर्वोक्तमहिमा नित्यः । कुतो ? यतोऽयं ‘न कर्मणा वर्ध ते नो कनीयान्’ (बृ.६-४-२३.) शुभकर्मणा तत्फलेन सुखेन न वर्ध ते । पापकर्मणां तत्फलेन दुःखेन न हसते इति श्रुत्यर्थः । सयुक्तिकं पूर्वपक्षयति—स इति । वाजसनेयश्रुत इत्यर्थः । चशब्दोऽवधारणे । विरिञ्च एवेति सम्बध्यते । इत्यजशब्दादिति । इत्येवं रूपेषु पूर्वोत्तर वाक्येषु श्रुताजशब्दादित्यर्थः । ‘स एषः’ परमात्मा ‘महान्’ अपरि मितः ‘अजो’ जन्मरहितश्चेति श्रुत्यर्थः । पूर्वपक्षी तु ब्राह्मणाजशब्द वाच्यं विरिञ्चि मन्यते । ननु कथं ब्राह्मणो विरिञ्चो भवेत् । तदुप रीति सूत्रे देवानां विद्याकर्मभ्यां पदप्राप्तेः समर्थितत्वेन ब्राह्मणे श्रुत नित्यमहिमत्वस्य विरिञ्चे असम्भवात् । सादिपदस्यानित्यत्वनियमा त् इत्यत आह—देवानां चेति । चोऽवधारणे । इतीत्यनन्तरं सूत्र इ ति शेषः । तथा च तदुपरीति सूत्रे विरिञ्चेतरदेवानामेव विद्याकर्म णोः सकाशात् पदप्राप्तिः ‘सूचिता’ समर्थिता । न तु विरिञ्चस्या पि । तस्येश्वररूपत्वेन देवकोष्ठप्रविष्टत्वादतो विरिञ्चस्य नित्यमहि मत्त्वं युक्तमेवेति योजना ॥ ( २ ) सिद्धान्तयत्सूत्रमवतारयति—अतइति ॥ वाजसनेयके सर्वव शित्ववाचिशब्दस्यैवादित्वात्सूत्रस्य तद्विसंवादमाशङ्क्य तत्परिहा राय सूत्रानुकूलतया सदृशशाखान्तरगतवाक्योदाहरणपूर्वकं सूत्रं व्या चष्टे—सर्वस्येति । ‘सर्वस्य’ ब्रह्मरुद्रादेः सकाशात् गुणैरधिकश्चा सौ सर्वस्य पतिः पालकश्चेति सर्वाधिपतिः । ‘सर्वस्य’ जगतः ‘ईशा नां’ ब्रह्मादीनां अन्तः प्रेरक इति सर्वस्येशान इति श्रुत्यन्तरार्थः । स र्ववशिशब्दार्थस्तु सर्वमस्य वशे यस्माद्धरिः सर्ववशी तत इति बृह द्भाष्यादवगन्तव्यः । ‘सवा एषः’ इति वाजसनेयश्रुतिः । ‘सः’ प्रा णशब्दोक्तः ‘एषः’ समानशब्दाभिधेयः ‘आत्मा’ परमात्मा ‘इतिन’ दृष्टवन्न ‘इति न’ श्रुतवन्न, किन्तु दृष्टश्रुतविलक्षण इत्यर्थः । वैशब्दः प्र
३४० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ] 'सर्वस्याधिपतिः सर्वस्येशानः..स वा एष नेति ने ति' (बृ. ६-४-२२.) इत्यादि शब्देभ्यो नित्यमहिमा विष्णुरेव ॥ ( ३ ) 'उतामृतत्वस्येशानः। यदन्नेनातिरोहति' (तै-आ. ३-१२.) सिद्धौ । कुत इत्यतः 'आत्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यते ऽसङ्गो न हि सज्जतेऽसितो न व्यथते न रिष्यति ............स एष आत्माऽजरोऽमरोऽमृतोऽभयः' ( बृ. ६-४-२५ ? ) इति वाक्यशेषः प्रवृत्तः। अत्रागृह्य इत्यादिरात्मन इति नेत्युक्तार्थे साकल्येन अग्राह्यत्वा दिरूपहेतुसमर्पकः । न हीत्यादिस्तु तत्र प्रमाणाभावादिति हेतुसूच कः । यद्यपि बृहद्भाष्ये 'इतिन' रमावन्न 'इतिन' ब्रह्मादिवन्न, बद्धवन्न, मुक्तवन्नेत्यन्यथा व्याख्यातम् । तथाप्यत्र 'सयोऽतोऽश्रुतः' (ऐ.आ. ३-२-४.) इति समाख्याश्रुत्यनुसारादेवं व्याख्यातमित्यदो षः । इत्यादीति । इत्यादौ श्रुताः ये सर्वाधिपत्यादिवाचकाः शब्दाः ते भ्य इत्यर्थः । आदिपदात्सर्ववशित्वादिवाचिशब्दसङ्ग्रहः । अनेन सौ त्रादिशब्दो न केवलं शाखान्तरोक्तसर्वेशानादिशब्दग्राहकः, किन्तु वा जसनेयोक्तसर्वविलक्षणत्वसर्ववशित्वादिशब्दग्राहकोऽपीति उक्तं भ वति । एवं हेतुं व्याख्याय सूत्रे समन्वयसूत्रात् तदित्यनुवर्त्य विपरि णम्यमानेन तदित्यनेनान्वययोग्यमुद्देश्यसमर्पकं नित्यमहिमेति पदं चा ध्याहृत्याहृत्य निष्कृष्टं प्रतिज्ञां दर्शयति-नित्यमहिमेति। इदं च फलक थनरूपम् । शब्देभ्य इति हेत्वन्वययोग्यं साध्यं तु ब्राह्मण इत्यध्याहृतं द्रष्टव्यम् । अनेन—अयं ब्राह्मणः तस्तु विष्णुरेव, न विरिञ्चः । कुतः? ' पत्यादिशब्देभ्यः' सर्वाधिपत्यादिवाचिसर्वाधिपत्यादिशब्देभ्योऽत्र श्रुतेभ्यः। तथा च नित्यमहिमाऽपि स एवेति सूत्रार्थ उक्तो भवति ॥ ( ३ ) ननु सर्वाधिपत्यादिवाचिशब्दसद्भावेऽपि कुतो ब्राह्मणस्य वि ष्णुत्वनिश्चय इत्यप्रयोजकत्वशङ्कावारणाय तत्र सर्वाधिपतित्वस्य वि ष्ण्वेकनिष्ठत्वे तावच्छ्रुतिमाह-उतेति ॥ इदं च 'पुरुष एवेदं सर्वम् । यद्भूतं यच्च भव्यम्' इति पूर्ववाक्येन सह व्याख्येयम् । तत्प्रकारस्तु- ' यद्भूतं ' अतीतं ' भव्यं ' भविष्यत् वर्तमानं च तत्सर्वं 'पुरुष एव' परमपुरुषाधीनमेव । कुतः ? यतो यस्मात् न केवलममुक्तसर्वाधिपतिः पुरुषः, किन्तु 'अमृतत्वस्योत' मुक्तसमुदायस्यापि 'ईशानः' अ
[ अधि - १४. सू - ४३. ] दीपिका सहितम्. ३४१ (४) ‘सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा वि- धर्मणि’ (ऋ.१-१६४-३६.) ‘स योऽतोऽश्रुतः’ (ऐ.आ-३- २-४.) इत्यादिश्रुतिभ्यस्तस्यैव हि ते शब्दाः ॥ ४३ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये प्रथमस्याध्यायस्य तृतीयः पादः. ॥ ॐ ॥ धिपतिः । ‘विचित्रा हि तद्धितगतिः’ इति वचनात्समुदायार्थे त्वप्र- त्ययः । तत्त्वप्रदीपे तु—भावभवित्रोरभेदव्यपदेशात् भावे त्वप्रत्ययः । ‘अमृतत्वस्य’ मोक्षस्य ईशान इति चेति अर्थान्तरं चोक्तम् । अत्र हेतु- माह—यदिति । तृतीया द्वितीयार्थे । तथा च ‘यत्’ यस्मात् ‘अन्नेन’ अन्नं मर्त्यं संसारिसमूहं ‘अतिरोहति’ अतिशेते, तस्मादित्यर्थः । मु- क्तावनधीनत्वे सर्वज्ञस्य बुद्धिमत्-स्वाधीन संसारिभ्यो मोक्षप्रदाना- योगादिति भावः ॥ (४) इदानीं सर्वशब्दसम्बन्धिकेशानपदोक्तसर्वप्रेरकत्वे श्रुतिमा- ह—सप्तेति ॥ अक्षरनये व्याख्यातेयं श्रुतिः । नेति नेतीत्युक्तदृष्टश्रुत- सर्वविलक्षणत्वेऽपि श्रुतिमुदाहरति—स इति । इयमपि सर्वत्राधिकार- णे व्याख्याता । इत्यादीत्यादिपदेन सर्ववशित्वादावप्येवमेव श्रुत्यन्त- राण्युदाहर्तव्यानीति सूचयति । ‘तस्यैव’ धिष्णोरेव नान्यस्येत्येवा- र्थः । ‘हि’ यस्मात्ते सर्वाधिपत्यादिशब्दाः इत्यवगताः तस्मात् नाप्र- योजकत्वं शङ्क्यमिति वाक्यशेषः ॥ १४ ॥ —:*:-— इति ब्राह्मणाधिकरणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्व- तन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्ये- ण श्रीमज्जगन्नाथयतिकृतायां श्रीमद्ब्र- ह्मसूत्रभाष्यदीपिकायां प्रथमाध्यायस्य तृतीयः पादः ॥ ॐ ॥ —
३४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] १. अधिकरणम् ॥ ( १ ) श्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धानामपि शब्दानां सा- मस्त्येन विशेषहेतुभिर्विष्णावेव प्रवृत्तिं दर्शयत्यस्मिन् पादे— १. अधिकरणम् ॥ ( १ ) एतत्पादप्रतिपाद्यं दर्शयति—श्रुतीति ॥ अन्यत्रैवेत्येवकारोऽ त्रापि सम्बध्यते । श्रुतिलिङ्गादिभिरेव, न लोकप्रसिद्धयेति । अनेन प्रथ मद्वितीयपादप्रतिपाद्यादस्य भेदो दर्शितः । क्वचिदानन्दमयाद्यधिक रणेषु श्रुत्यादिभिरेवान्यत्रप्रसिद्धानां समन्वयकरणात्तद्व्यावर्तनाय ब लवदित्याद्यावुपस्कार्यम् । एवकारो वा बलवत्त्वद्योतकः । तथा च पूर्व पादीयप्रतिपक्षश्रुत्याद्यपेक्षया एतत्पादीयश्रुत्यादीनां प्राबल्यान्न ह्येत स्य गतार्थतेति भावः । अन्यत्र विष्णोरितरत्र प्रकृतिजीवादावेवेत्येव कारशिरस्कत्वोक्त्योभयत्र प्रसिद्धानां व्यावर्तनेन तृतीयपादप्रतिपा द्यादस्य भेदो दर्शितः । प्रसिद्धानामिति । रूढ्यादिनाऽन्यवाचकत्वे न प्रमितानामित्यर्थः । न केवलं लोकप्रसिद्ध्या श्रुत्यादितो वाऽन्यत्र प्र सिद्धानामुभयत्रप्रसिद्धानां च विष्णौ समन्वयम्, किन्तु श्रुतिलिङ्गा दिभिरन्यत्रैव प्रसिद्धानामपीत्यपेरर्थः । शब्दानामिति । नामलिङ्गात्म कानामित्यर्थः । प्रकारान्तरेणास्य प्रथमपादप्रतिपाद्याद्भेदं दर्शयति— सामस्त्येनेति । इत्थंभूतलक्षणे तृतीया । समन्वेतव्यत्वप्रकारं प्राप्तानां शब्दानां इदं विशेषणम् । यद्वा—सामस्त्येनैव समन्वयं प्रतिपादयति, न त्वेकदेशेनेत्यर्थः । प्रकारे तृतीया । प्रकारप्रकारिणोरभेदविवक्षया इय मुक्तिः। तथा च त्रिपाद्यां स्रष्टृत्वादिगुणाभिधायकानां 'आत्मन आका- शस्सम्भूतः' इत्यादि सृष्ट्यादिप्रकरणव्याख्येयानां सत्यज्ञानादिगुणवा- चिशब्दानां तथा तत्सङ्गतानामन्नमयादिगुणिवाचकानां शब्दानां सृ- ष्ट्यादिकर्तृत्वाभिधायिप्रकरणगताकाशेंद्राग्निवज्रादिशब्दानां 'सदेव सौम्येदम' (छां. ६-२-१.) इत्यादिसृष्टिप्रकरणगतशब्दानां च समन्वयोऽ भिहितः । अत्र पुनः स्वरवर्णपदात्मनां समस्तशब्दानामित्यतोऽपि पूर्व पादेभ्योऽस्य भेद इति भावः । ननु बलवच्छ्रुतिलिङ्गादिभिरन्यत्रैवप्र सिद्धानां कथं समन्वयः, असम्भवादित्यत आह—विशेषेति । पूर्वप- क्ष्युक्तलिङ्गादिभ्योऽपि प्रबलैर्हेतुभिरित्यर्थः । तथा च नासम्भव इति भावः । ननु समस्तशब्दनिरूपणाद्वैयर्थ्यमिति परिहारो न युक्तः अं
[ अधि - १०. सू - १०. ] दीपिकासहितम्. ३४३ (२) सू—ॐ ॥ आनुमानिकमप्येकेषामिति चेन्न शरीररू पकविन्यस्तगृहीतेर्दर्शयति च ॥ ॐ ॥ १ ॥ 'तत्तु समन्वयात्' इति सर्वशब्दानां परमेश्वरे सम न्वय उक्तः । तन्न युज्यते । यतः 'अव्यक्तात्पुरुषः प रो वैय्यर्थ्यापातादित्यतोऽप्याह—विशेषेति। प्रागनुक्तहेतुभिरित्यर्थः। विष्णावेवेत्येवकारोऽन्यत्रप्रवृत्तिनिरासार्थः । 'प्रवृत्तिं' समन्वय 'द र्शयति' वक्ति सूत्रकार इत्यर्थः ॥ (२) सङ्गत्यादिकमादावेव वाच्यमिति नियमाभावात्पश्चात्तद्दर्श यिष्यन् अन्यत्राप्येवमेवेत्यतिदेशायात्र प्रथमं सूत्रमेव पठति—आनु मानिकमिति ॥ श्रुत्यादिसङ्गतिं विषयादिकं च सूचयन् सौत्रपूर्वपक्षां शं तावद्व्याचष्टे—तद्विति । इतीत्यनन्तरं सूत्र इति शेषः । 'समन्व यः' मुख्यतः परमात्मपरत्वम् । 'तत्' परमात्मपरत्वम् । एवमध्या हार्यप्रतिज्ञांशं प्रदर्श्य कुतो न युज्यत इत्यतस्तत्र हेतुतया आनुमानि कमित्यादि योजयति—यत इति । हेतुत्वद्योतकोऽयं शब्दः । अ व्यक्तशब्दघटितवाक्योदाहरणमुपलक्षणम् । अतएव सुधायामव्यक्त ग्रहणमुपलक्षणमित्युक्तम् । तेन योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ (कठ.५.७.) इति कठानां वाक्यान्तरम् , 'जीवा एव तु दुःखिनः' इति श्रुत्यन्तरवाक्यम्, 'कार्यकारणबद्धौ तौ सोऽवरः' ( ) इत्यादिकं च गृह्यते । 'इति' श्रुतैः शब्दैरिति शेषः । इतिशब्दः आद्यार्थकः । तथा च एवमादिश्रुतेः शब्दैरित्यर्थः । आनु मानिकमित्यस्य व्याख्या—साङ्ख्येत्यादि । महदादिकं स्वसदृशकार णजन्यं कार्यत्वाद्धटवत् इत्यादिशाङ्ख्योपन्यस्तानुमानसिद्धमित्यर्थः । 'प्रधानं' प्रधानादि । अपीति सौत्रपदानुवादः एकेषामपीत्यन्वय निवारणार्थोऽवधारणार्थोऽयं, जीवादिसमुच्चये वा । 'एकेषां' अन्येषा मिति । अस्य विशेष्यपदं शाखिनामिति । शाखा एषां सन्तीति शाखिनः, तेषां शाखासूच्यत इति सूत्रशेषोक्तिः । तथा च यत् 'त त्तु समन्वयात्' इत्युक्तं तन्न युज्यते । कुतः ? यतः साङ्ख्यानुमाना दिपरिकल्पितं प्रधानाद्येव एकेषां शाखिनां कठादीनां शाखासु 'अ व्यक्तात्पुरुषः' (कठ. ३ - ११.) इति श्रुतैरव्यक्तादिशब्दैरुच्यते, न
An exact line-by-line transcription of the text in Unicode Devanagari:
३४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] रः' ( कठ. ३-११. ) इति साङ्ख्यानुमानपरिकल्पितं प्रधानमप्येकेषां शाखिनामुच्यते इति चेत्— ( ३ ) न, तस्यैव पारतन्त्र्याच्छरीररूपकेऽव्यक्ते विन्यस्तस्य विष्णुः । अव्यक्तादिशब्दानां प्रधानादावेव प्रसिद्धेरिति भाव इति योजना । अनेन समन्वयसूत्रोक्तस्य विष्णौ सर्वशब्दसमन्वयस्येहाक्षे- पातेनास्याक्षेपिकी सङ्गतिः अव्यक्तजीवादिरूपो विषयः प्रधानाद्येवे- ति पूर्वपक्षश्च दर्शितः । सिद्धान्ते श्रुत्यर्थस्तु—' महतः ' महत्तत्वाभि- मानिचतुर्मुखात् ' अव्यक्तम् ' अव्यक्तशब्दितं ब्रह्म श्रीतत्त्वं च ' परं ' उत्तमम् । तस्मादव्यक्ताच्छ्रियः पूर्णषड्गुणत्वात्पुरुषशब्दवाच्यो भ- गवान् परः । तस्माच्च '
[ अधि - १. सू - १ ] दीपिकासाहितम्. ३४५ परमात्मन एवाव्यक्तशब्देन गृहीतिः । ( ४ ) कप्रत्ययः कुत्सने । योजितं युक्तं भवति । परमात्मन एवाव्यक्तादिशब्दवाच्यत्वे कथं तर्हि प्रधानादावव्यक्तादिशब्दव्यवहारः । न च वाच्यं अवाचकत्वेऽप्यन- भिज्ञानादिना तद्व्यवहार इति 'साक्षादप्यविरोधं जैमिनिः' इति सू- त्रोक्तरीत्या साक्षादित्यनेनोक्तमिति । तथा सति अवाचकत्वाविशेषेण घटादिशब्दानां पटादौ व्यवहारप्रसङ्गादित्याशङ्कापरिहारायोक्तम्— सूत्रे शरीररूपकविन्यस्तेति । तद्रथपूर्वकविन्यस्तशरीरगृहीतेरित्यप- व्याख्यानिरासाय यथावद्व्याचष्टे—'शरीररूपके अव्यक्ते' प्रधाना- दौ 'विन्यस्तस्य' स्थितस्येति । तथा च परमात्मन एवाव्यक्तादिश- ब्दमुख्यवाच्यत्वेऽपि नाव्यक्तादौ तद्व्यवहारायोगः । कुतः? अव्यक्ता- दौ परमात्मनो विन्यस्तत्वेन तत्सम्बन्धादेवाव्यक्तादावपि तच्छब्दप्र- वृत्तेरिति सूत्रकाराभिप्राय इति भावः । नन्वेतदयुक्तम् , ब्रह्मवत्प्रधा- नादेरपि मुख्यवाच्यत्वस्य वा प्रधानादिसम्बन्धादेव ब्रह्मणो वाच्य- त्वमिति वैपरीत्यस्य वा वक्तुं शक्यत्वादित्यत उक्तम्—सूत्रे शरीर- रूपेति । तत्र तत्त्वप्रदीपरीत्या शरीरमेव रूपमस्येति वा, तद्विवरणा- त्मकचन्द्रिकारीत्या शरीरस्य रूपमिव रूपं धर्मो यस्येति वा विग्रहः। तथा च प्रसिद्धशरीरसम इत्यर्थः । साम्ये निमित्तमाह-पारतन्त्र्या- दिति । पराधीनत्वादित्यर्थः । तथा च यथा लोके शरीरं पुरुषतन्त्रं तथा परमात्मतन्त्रत्वेन धर्मेण प्रसिद्धशरीरादिसदृशं प्रधानादिकं भ- वति शरीररूपमिति भावः ॥ ( ४ ) नन्वेवं सूत्रकारः पारतन्त्र्याभिप्रायेण प्रधानादेः परमात्म- नः शरीररूपत्वमसूत्रयदिति कुतो ज्ञायते । मुख्यशरीरत्वाभिप्रायेणैव रूपशब्दं प्रयुक्तवानिति किं न स्यादित्याशङ्कानिवारणाय सूत्रकृत्प्रयुक्तं कप्रत्ययं रूपशब्दोक्तमुख्यशरीरत्वाभावे हेतुसमर्पकतया व्याचष्टे— कप्रत्यय इति ॥ 'कुत्सने' नि
३४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] ( ५ ) परमात्मन एवाव्यक्तशब्दस्तत्तन्त्रत्वेन तच्छरीररूप- त्वादितरस्याप्यव्यक्तशब्दः । तावता पूर्तौ रूपपदवैयर्थ्यम् । जडाव्यक्तस्येश्वरतादात्म्यायोगेन त- स्य स्वरूपार्थत्वायोगात् । अतोऽप्युक्त एवाभिप्राय इति भावः । अने- न-रूपशब्दस्योक्तशङ्कापरिहारकत्वं उक्ताभिप्रायज्ञापकत्वं चेति प्रयो- जनद्वयमुक्तं भवति ॥ ( ५ ) एवं शरीररूपकविन्यस्तपदं व्याख्याय कथमनेनोक्तशङ्का- परिहार इत्यतः एवमेव हि शब्दानां प्रसिद्धिरपि लौकिकी । वाचकत्वं प्रधानस्य त्वितरस्य तदन्वयात् ॥ इति गारुडवचनोक्तं सौत्रापिशब्दसूचितं तदभिप्रायमाह — पर- मात्मन एवेति ॥ परमात्मन इत्यनेन स्मृतिगतप्रधानशब्दो मुख्यार्थप- रमात्मपर इत्युक्तं भवति । अव्यक्तशब्दो जीवादिशब्दोपलक्षकः । वाचक इति शेषः । इतरस्य तदन्वयादित्यनेनोक्ताभिप्रायमाह—त- त्तन्त्रत्वेनेति । परमात्माधीनत्वेन तदधीनविकृतित्वेनेति वाऽर्थः । हे- तौ तृतीया । तच्छरीररूपत्वादिति । तस्य परमात्मनः प्रसिद्धशरीर- रूपत्वेन शरीरत्वादित्यर्थः । 'इतरस्य' परमात्मान्यस्य प्रधानादेः 'अ- व्यक्तशब्दः' अव्यक्तादिशब्दः । अत्रापि पूर्ववच्छेषः । यद्वा—पूर्वे- णात्र च वाचकत्वं षष्ठ्यर्थः । तथात्वे शेषं विनैवान्वयः । न केवलं प- रमात्मनः, किन्त्वितरस्यापीत्यपेरर्थः । यद्यपि परमात्मन एव अव्य- क्तशब्दो मुख्यवाचकः । तथापि तत्तन्त्रत्वेन तच्छरीररूपत्वात्तत्सम्ब- न्धादमुख्यत इतरस्याप्यव्यक्तशब्दो वाचको भवतीत्यर्थद्वयेऽपिश- ब्दः । अनेन सौत्रापिशब्दस्यानुमानिकमप्युच्यते इति समुच्चयार्थत्वं यद्यपितथापीत्यर्थकत्वं चेत्यर्थान्तरं चोक्तं भवति । तत्तन्त्रत्वेनेत्यने- न अव्यक्तशब्द इति पुनरुक्त्या च सूत्रे शरीररूपकस्येति वाच्ये वि- न्यस्तेत्यधिकोक्तिः ब्रह्मणो न केवलं तत्र सत्त्वमात्रम्, किन्तु नियाम- कतया सत्त्वमिति दर्शयितुम् । तेन स्वातन्त्र्यनिमित्तात्तस्यैव परममु- ख्यवाच्यतेत्युक्तं भवति । तथा च इतरस्याप्यव्यक्तशब्द इति पुनर्व- चनेन परमात्मन इतरस्य न परममुख्योऽव्यक्तशब्दः, किन्तु ततः स- माकृष्य सङ्केतित एव । अतो नोभयोः साम्यं वैपरीत्यं वा शङ्क्यमिति सूचितम् । तर्ह्युभयोर्मुख्यवाच्यत्वे वाक्यभेद इति शङ्का तु शरीररू-
[ अधि - १. सू - १० ] दीपिकासहितम्. ३४७ ( ६ ) 'तुच्छ्येनाभ्वपिहितं यदासीत् ' ( ऋ १०-१२९-३. ) इति दर्शयति च । ( ७) अव्यक्तमचलं शान्तं निष्कलं निष्क्रियं परम् । यो वेद हरिमात्मानं स भयादनुमुच्यते ॥ पकेन प्रधानेन विन्यस्तस्य विशेषितस्य विशिष्टस्य परमात्मनोऽव्य क्तादिशब्दैः गृहीतेर्वाच्यत्वाभ्युपगमादिति सौत्रपदस्यार्थान्तराभि प्रायकेण सूत्रे शरीररूपकविन्यस्तोक्तेरित्यनुक्त्वा गृहीतेरिति पुंव्या पारोक्तेः प्रयोजनोक्तिपरेण प्रधानविशिष्टस्यैव परमात्मनः शब्दवाच्य त्वाभ्युपगमादिति टीकावाक्येनैव परिहृता ॥ ( ६ ) ननु परमात्मन एवाव्यक्तादिशब्दाभिधेयत्वं, प्रधानादेस्तु त त्सम्बन्धादित्येतत्तदा युज्यते । यदि प्रधानादेः पारतन्त्र्यं परमात्म नस्तु
इति पिप्पलादशाखायाम् । 'अक्षरं ब्रह्म परमम्' इ त्युक्त्वा 'अव्यक्तोऽक्षर उच्यते' (गीता. ८-३..२१.) इति वचनाच्च ॥ १ ॥ त् । अचाल्यं वा । 'शान्तं' निर्विकारं, । शस्य सुखस्य अन्त सुखो त्कर्षसीमाभूमिं पूर्णसुखमिति वा, 'निष्कलं' निर्गताः कलाः यस्मा त्तं षोडशकलारहितं, 'निष्क्रियं' अक्लिष्टकारिणम्, प्राकृतक्रियारहि तं वा, प्रलये प्रचुरव्यापारहीनं वा, निष्क्रियते निर्णीयते इति निष्क्रि यमिति वा, 'परं' उत्तमम्, 'आत्मानं' आदानादिकर्तारं हरिं 'वेद' जानाति । सः अनु ज्ञानानन्तरं 'भयात्' संसारभयात् 'मुच्यते' मु क्तो भवेदिति पिप्पलादर्षिदृष्टश्रुत्यर्थः । शाखायामित्यस्य पिप्पलाद उक्तार्थे दर्शयतीत्यध्याहृतानुवृत्ताभ्यां वचनादित्यागामिनाऽन्वयः । गी तायां 'इत्युक्त्वा वचनात्' इत्यस्य 'अक्षरं ब्रह्म' इति पूर्ववाक्येन य दक्षरं तत्परमं ब्रह्मेति यस्याक्षरस्य परब्रह्मत्वमुक्तम्, तस्यैवाक्षरस्य 'अव्यक्तोऽक्षर उच्यते' इत्युत्तरवाक्येनाव्यक्तत्वोक्तेरित्यर्थः । अ स्य परमात्मन एवाव्यक्तशब्द इति सिद्धमिति पूर्ववाक्येनान्वयः । 'अनेन जीवेन' इतिच्छान्दोग्यवाक्यस्य 'जीवो विनयिता साक्षी' इति सहस्रनामवाक्यस्य चोपलक्षकमेतत् । तयोरपि दर्शयतिचेतिश ब्दाभ्यां सूचितत्वात्, 'अहं' प्राणधारकत्वनिमित्ताज्जीवाख्येनानिरु द्धरूपेण 'इमाः' तेजोबन्नाख्यास्तिस्रो देवताः अनुप्रविश्य 'नामरू पे' शब्दार्थप्रपञ्चौ 'व्याकरवाणि' सम्यक्सृजानीत्यर्थः । विष्णुवा क्यमेतत् ॥ अनेन-यतः 'आनुमानिकमपि' प्रधानाद्येव 'एकेषां' शाखिनां कठादी नां शाखासु 'अव्यक्तात्पुरुषः' (कठ. ३-११.) इति श्रुतेरव्यक्तादि शब्दैरु च्यते, न तु विष्णुः, अतो न तत्तु समन्वयादित्युक्तं युक्तमिति चेत्-न कुतः ? 'गृहीतेः' परमात्मन एवाव्यक्तादिशब्दवाच्यत्वाङ्गीकारात्। परमात्मन एवाव्यक्तादिशब्दवाच्यत्वे कथं तर्हि प्रधानादौ तद्व्यवहा रः । तद्वाचकेन तद्व्यवहारे अतिप्रसङ्गादित्यत उक्तं-शरीररूपक विन्यस्तेति । यथा प्रसिद्धशरीरं पुरुषतन्त्रं तथा परमात्मतन्त्रत्वेन नि र्मितेन प्रसिद्धशरीरसमे प्रधानादौ विन्यस्तस्य स्थितस्य परमात्मनो ऽव्यक्तादि शब्दैर्वाच्यत्वेनोपगमादित्यर्थः । न चाव्यक्तस्य मुख्यश रीरत्वमेव किं न स्यादिति वाच्यम् । यतोऽव्यक्तं कप्रत्ययोक्तं कुत्सना
[ अधि - १०. सू - २. ] दीपिकासहितम्. ३४९ (८) सू—ॐ ॥ सूक्ष्मं तु तदर्हत्वात् ॥ ॐ ॥ २ ॥ सूक्ष्ममेवाव्यक्तशब्देनोच्यते । तद्ध्यव्यक्ततामर्हति । (९) सूक्ष्मत्वं च मुख्यं तस्यैव । र्हम्, न हि कुत्सनार्हं जडं चिच्छरीरिणो हरेर्मुख्यशरीरं भवति। प्रसि- द्धदेहरूपत्वान्नास्यामुख्यशरीरत्वम् । तथाच यद्यप्यव्यक्तादिशब्दाः परमात्मन्येव मुख्याः, तथापि नैतानुमानिकमप्युच्यतेऽमुख्यतः परमा- त्मसम्बन्धात् । न च साम्यं वैपरीत्यं वा शङ्क्यम् । परमात्मनोऽव्यक्ता- दौ विन्यस्तत्वेन नियामकतया वर्तमानत्वेन तस्य तत्तन्त्रत्वेनोभयोर्मु- ख्यवाच्यत्वस्य विपर्ययस्य वा अयोगात् । न च परमात्मनः शरीररूप- कविन्त्यस्तत्वादौ मानाभावः । यतः 'तुच्छयेन' इति श्रुतिः 'य आत्मनि तिष्ठन्' (माध्यन्दिनश्रुतिः) इत्यादि च तथा 'दर्शयति' प्रतिपादयति अतः । न च परमात्मनोऽव्यक्तादिशब्दवाच्यत्वे सिद्धे भवेत्कथमन्यत्र व्यवहार इति चिन्ता । तदेव कुतः सिद्धमिति वाच्यम् । यतः 'अव्य- क्तमचलम्' (पिप्पलादशाखा.) 'अव्यक्तोऽक्षरः' इति श्रुतिस्मृती तथा दर्शयतः, अतः। न चोभयोर्मुख्यवाच्यत्वे वाक्यभेद इति वाच्यम् । श- रीररूपके विन्यस्तस्य विशिष्टस्य परमात्मनो वाच्यत्वेन गृहीतेरभ्यु- पगमात् । तथा चान्वयभेदाभावान्न वाक्यभेद इति सूत्रार्थ उक्तो भवति ॥ (८) नन्वस्त्वेवं श्रौतस्मार्तप्रयोगबलेनाव्यक्तादिशब्दानां भगव- द्वाचित्वम् । तथाऽपि तत्र तेषां परममुख्यत्वं कुतः ? श्रुतिस्मृतिषु तत्र तत्प्रयोगस्यामुख्यवाच्येऽपि केवलमुख्येऽपि सम्भवादित्याशङ्कां परिह- रत्सूत्रमुपन्यस्यति—सूक्ष्ममिति ॥ अत्र तुशब्दोऽवधारणार्थः । तदि- ति व्यस्तं समासान्तर्गतं च । तत्र व्यस्तमव्यक्तस्वरूपोद्देश्यसमर्पकम् । सूक्ष्ममिति च विधेयाभिधायीत्याशयेन सौत्रं प्रतिज्ञांशं व्याचष्टे—सू- क्ष्ममेवेति । न तु रूढ्या प्रधानमित्येवार्थः । नन्वव्यक्तत्वस्यैवाव्यक्त- शब्दप्रवृत्तिनिमित्तत्वादव्यक्तमेवाव्यक्तशब्देनोच्यत इति वाच्ये कथ- मव्यक्तशब्देन सूक्ष्ममेवेत्युक्तिरित्यतः प्रवृत्तं तदर्हत्वादिति हेत्वंशं व्याचष्टे—तद्धीति । यस्मात्तत्सूक्ष्मं परमाण्वाकाशादिरूपं वस्तु अ- व्यक्ततां न व्यज्यत इति व्युत्पत्त्याऽव्यक्तशब्दप्रवृत्तिनिमित्तमव्यक्त- त्वं प्राप्तुं 'अर्हति' योग्यं भवति । तस्माद्यदव्यक्तशब्देनोच्यते, त- त्सूक्ष्ममेवेति युक्तमुक्तमित्यर्थः ॥ (९) अस्तु सूक्ष्ममेवाव्यक्ततार्हत्वादव्यक्तशब्दवाच्यम् । तथाऽ
३५० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] (१०) यत्तत्सूक्ष्मं परमं वेदितव्यं नित्यं पदं वैष्णवं ह्यामनन्ति । यत्तल्लोका नविदुर्लोकसारं विन्दन्त्येतत्कवयो योगनिष्ठाः ॥ इति च पिप्पलादशाखायाम् । (११) मुख्ये च विद्यमाने नामुख्यं युक्तम् ॥ २ ॥ पि प्रकृते किमायातमित्यतः सूक्ष्मपदं भावप्रधानं कृत्वा समग्रं सूत्रं प्रकारान्तरेण व्याचष्टे—सूक्ष्मत्वं चेति ॥ चस्त्वर्थः, अव्यक्तत्वसमु च्चये च, जीवादिपदप्रवृत्तिनिमित्तप्राणधारकत्वादिसमुच्चये च । त था च यतस्तदव्यक्तशब्दप्रवृत्तिनिमित्ताव्यक्तत्वोपयोगिसूक्ष्मत्वं तु ‘तस्य’ विष्णोरेवार्ह मुख्यमतिशयितमस्ति । अतस्तदव्यक्तमपि त स्यैव मुख्यम् । अतोऽतिमुख्यनिमित्तत्वात्स एव परममुख्यतः तद्व्य क्तं ‘तत्पदेनोच्यते’ जीवादि शब्देनोच्यते इति सूत्रभाष्ययोस्स म्बन्धः ॥ (१०) कुतो विष्णोर्मुख्यसूक्ष्मत्वं, येन तस्य मुख्याव्यक्तत्वं स्या दित्यतस्तस्य विष्णोर्मुख्यसूक्ष्मत्वस्य प्रमाणविषयतार्हत्वादेवेत्यपि सू त्रवृत्तिमभिप्रेत्य तत्सूचितां श्रुतिमाह—यदिति ॥ यत् 'लोकसारं' लोको त्तमं 'वैष्णवं पदं' विष्णुस्वरूपं 'तत्परमं सूक्ष्मं' मुख्यं सूक्ष्मं 'वेदित व्यम्' ज्ञातव्यमिति 'आमनन्ति' 'एषोणुरात्मा चेतसा वेदितव्यः' (मुं०. ३-१-९.) इत्याद्याथर्वणिकाः पठन्ति । यच्च 'लोकाः' पामराः न विदुः, 'तदेतत्' विष्णुस्वरूपं 'योगनिष्ठाः' ब्रह्मणि मनोयोगनिष्ठाः उपाय सिद्धाः 'कवयो' ज्ञानिनो 'विन्दन्ति' साक्षात्कुर्वन्ति इति 'हि' प्र सिद्धमिति श्रुत्यर्थः । शाखायामित्यस्य यत उक्तमित्यध्याहारेण सू क्ष्मत्वं चेत्यनेनान्वयः । एवं जीवादि शब्दप्रवृत्तिनिमित्तप्राणधारणादी नां भगवति मुख्यत्वे— स जीवनामा भगवान् प्राणधारणहेतुतः । उपचारेण जीवाख्या संसारिणि निगद्यते ॥ इति गीतातात्पर्योदाहृतप्रमाणमन्यच्चोदाहर्तव्यम् ॥ (११) नन्वस्तु विष्णौ मुख्यमव्यक्तादिशब्दप्रवृत्तिनिमित्तं, तथाऽ पि 'अव्यक्तात्पुरुषः ' इत्यादौ न तस्य वाच्यता, किन्त्वमुख्याव्यक्त त्वादिमत्प्रधानादेरेवेत्यतस्तन्न पूर्वसूत्रे उक्तेरित्यनुक्त्वा गृहीतेरित्यु क्त्या सूचितां युक्तिमाह—मुख्ये चेति ॥ चोऽवधारणे । मुख्यासम्भ वे तु गौणग्रहणं युक्तमिति व्यतिरेकसूचको वा । तथा च 'मुख्ये'
[ अधि - १. सू - ३. ] दीपिकासाहितम्. ३५१ ( १२ ) सू—ॐ ॥ तदधीनत्वादर्थवत् ॥ ॐ ॥ ३ ॥ विष्णौ मुख्यप्रवृत्तिनिमित्तवति विद्यमानेऽव्यक्तादिशब्दवाच्यतया स- म्भवति सति तत्परित्यागेन 'अमुख्यं' अमुख्यप्रवृत्तिनिमित्तवत्प्रधा- नाद्येव वाच्यतया गृहीतुं न युक्तमित्यर्थः ॥ ( १२ ) नन्वस्त्वेवं विष्णावेवाव्यक्तादिप्रातिपदिकानां मुख्यता । तथाऽपि 'अव्यक्तात्पुरुषः परः' इत्यादावव्यक्तादिशब्दैर्न तस्य वा- च्यत्वेन गृहीतिर्युक्ता । तथा सति 'महतः परमव्यक्तम्' (कठ.३-११.) इति महत्परत्वश्रुतेः तथा 'अव्यक्तात्' इत्यवरत्वाक्षेपकावधित्ववाचि- पञ्चमीश्रुतेः, तथा 'सोऽवरः' इति साक्षादवरत्वश्रुतेः, तथा 'जीवा एव तु दुःखिनः' 'कार्यकारणबद्धौ' (मां. २ - ११.) इति दुः- खित्वबद्धत्वादिश्रुतीनां च 'निरनिष्टो निरवद्यः' इत्यादिप्रमाणविरोधेन प- रमात्मन्यसम्भवादर्थकत्वात् तासां नैरर्थ्यापातात् । अतो बाधकाद्व्य- क्तादिशब्दैरमुख्यमपि प्रधानाद्येवावश्यं वाच्यतया ग्राह्यमित्याशङ्कां प- रिहरत्सूत्रं पठति-तदधीनत्वादिति ॥ 'दर्शयति च' इत्यतश्चशब्दानुवृ- त्ति तच्छब्दस्य विपरिणतस्यानुवृत्तिं तदित्यस्यावृत्तिं तस्मिन्नधीनं त- दधीनं तत्स्वामिकं तस्याधीनमिति वा तस्य भावस्तत्त्वं तस्मादिति वि- ग्रहं च अभिप्रेत्य व्याचष्टे-तदधीनत्वादिति ॥ चो निमित्तसमुच्चये । आ- दिशब्देन परत्वपुरुषत्वावरत्वादीनां ग्रहणम् । सप्तम्यर्थे षष्ठी । एवका- रोऽर्थवदित्यनेनापि सम्बध्यते । अव्यक्तत्वादिकं परावरत्वादिकमिति द्वितीयादिशब्दस्य प्रत्येकमन्वयः । अत्र प्रथमादिशब्देन गुणवाचिसर्व- शब्दो गृह्यते । द्वितीयादिशब्देन दोषवाच्यशेषशब्दः । यद्यपि दोषवाच- कशब्देन एकस्यैव ग्रहणात् गुणवाचकशब्देनाप्यव्यक्तशब्द एव ग्रा- ह्यो, न परशब्दोऽपि गुणान्तरस्य दोषान्तरवदादिशब्देनैव ग्रहणसम्भ- वात् । तथाऽपि निरूपकत्वेनैव परशब्दग्रहणादविरोधः । अव्यक्त- त्वादिकमित्यावर्त्तते । तत्र चैकं वाचकशब्दोपलक्षकम् । नान्यस्येत्येव शब्दार्थः । तथा च न केवलं तेषामव्यक्तत्वपरत्वपुरुषत्वजीवत्वादि- नां प्रकृतिजीवादिनिष्ठगुणापेक्षया निरवधिकानां तस्मिन्नतिसूक्ष्मत्वस- र्वोत्तमत्वपुरुषत्वादिगुणोपेते परमात्मनि सत्त्वादेव 'तदव्यक्तत्वादि- कं' अव्यक्तत्वादिगुणवाचिशब्दजातं 'अर्थवत्' गुणिनि किञ्चिद्गु- णाभिधायकत्वेन अभिधेययुक्तम्, किं नामाव्यक्तस्थं तद्रूपम् । अ-
३५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] तदधीनत्वाच्चाव्यक्तत्वादीनां तस्यैव भव्यक्तत्वं व्यक्तस्याव्यक्तत्वं महतः परत्वं चापादयतीति ' महतः परमव्य क्तम् ' इत्युच्यते । तदेव तस्याव्यक्तस्य पुरुषादवरत्वमापादयतीत्य वरशब्दार्थः । न तु स्वयमवरत्वादिति । तत्त्वप्रदीपरीत्या तेषां प्रधा नादिगतधर्माणां तदधीनत्वा दीशाधीनत्वाच्च न केवलं गुणवाचिशब्द जातमर्थवत्, किन्तु तत्प्रातिपदिकादिरूपं वा पञ्चमीविभक्त्यादिरूपं वा अवरदुःखिबद्धत्वादिवोषवाच्येऽपि तस्मिन्नीश्वरे वाच्यतया गृ हीते सत्येवार्थवदेव न निरर्थकम् । न च प्रवृत्तिनिमित्ताभावः । तद् धीनत्वात्तेषां अन्यगतावरत्वादिधर्माणाम् परमात्माधीनत्वात् । स्वामि तासम्वन्धेन तेषां तस्मिन् सत्त्वादस्यैव मुख्यनिमित्तत्वादेकेनापि श ब्दप्रवृत्तिनिमित्तेन शब्दस्यार्थ
[ अधि - १०. सू - १० ] दीपिकासहितम्. ३५३ परावरत्वादिकमर्थवत् । (१३) यदधीनो गुणो यस्य तद्गुणी सोऽभिधीयते । र्तिसूक्ष्मत्वाभावेऽपि नाव्यक्तादिशब्दामुख्यार्थत्वं, अल्पपङ्कजेऽपि प द्ये पङ्कजशब्दस्यामुख्यत्वादर्शनादिति शङ्का च निरस्ता भवति । अव्य क्तादिगुणशब्दस्य परमात्मनि द्वेधाप्रवृत्तिनिमित्तप्रदर्शनेन प्रधानादी नाममुख्यतायां अन्याधीनप्रवृत्तिनिमित्तवत्त्वस्य हेतुत्वाभ्युपगमेनाल्प प्रवृत्तिनिमित्तवत्त्वमात्रस्य तत्र हेतुत्वानभ्युपगमात् । एतेन प्रवृत्ति निमित्ताधिक्यस्य मुख्यताहेतुत्वेऽतिसहनवति पुंसि सिंहशब्दस्य स हनार्थात् सिचेः सहैर्वा कनि निष्पन्नस्य मुख्यता स्यादित्येतदपि चो द्यं निरस्तम् । प्रवृत्तिनिमित्तस्य अनन्याधीनत्वस्यापि मुख्यताहेतुत्वे न तदतिशयमात्रस्य तत्र हेतुत्वात् । वस्तुतस्तु—पद्मत्वजातेः प ङ्कजशब्दनिमित्तत्वेन विवक्षितत्वात्तस्याश्चाल्पपङ्कजादधिकपङ्कजेऽ तिशयाभावात् । एवं सिंहत्वजातेः सिंहशब्दप्रवृत्तिनिमित्तभूताया अ तिशयस्य पुंस्यभावाच्च नोक्तातिप्रसङ्ग इति परिहारान्तरं चन्द्रिको क्तं द्रष्टव्यम् । ‘मथनान्मथितो जातः सहनात्सिंह उच्यते' इति बृहदैतरेयभाष्यवचनं तु अमुख्यार्थाभिधायकम् ॥ (१३) ननु भवेदेतत्प्रधानादिगतशब्दप्रवृत्तिनिमित्तप्रेरकत्वेन ईश्व रस्यावरादिशब्दवाच्यत्वम्, यद्यन्यगतशब्दप्रवृत्तिनिमित्तप्रेरकेऽसाव वरादिशब्दो वर्तेत इति सिद्ध्येत् । तदेव कुतः सिद्धमित्यतस्तत्र व्याप्ति वचनमुखेन अनुमानमाह— यदधीन इति । ‘यस्य' धर्मिणो वाचक स्य शब्दस्य प्रवृत्तिनिमित्ताख्यो ‘गुणो’ ‘यदधीनः’ पूर्ववद्विग्रहः । ‘सः तद्गुणी' तद्गुणवानित्युच्यते । तन्निमित्तकशब्देनाभिधीयते इति व्याप्तिवचनस्यार्थः । तत्र वैदिकलौकिकोभयविधं दृष्टान्तमाह— यथे ति । ‘यथा परमात्मा' विष्णुः ‘अनेन जीवेन' इत्यादौ जीवगतप्राण धारणाख्यजीवशब्दप्रवृत्तिनिमित्तस्वातन्त्र्याज्जीवशब्देनोच्यते । य था च भृत्यगतजयस्य जयशब्दप्रयोगनिमित्तस्य राजाधीनत्वाद्वाजा जयीत्युच्यते इत्यर्थः । अभिधीयत इत्यनेन अभिधाख्यमुख्यवृत्त्यैवार्थे प्रयोगः, न त्वमुख्यवृत्त्येत्युक्तं भवति । दृष्टान्तद्वयसमुच्चयेऽपिशब्दः । ‘तमेव मृत्युममृतं तात दैवतं सर्वात्मनाऽवेहि परं परायणम्' इति न्यायविवरणोदाहृतभागवतवचने ‘यथाऽमृतत्वापादकत्वाद्ब्रह्मामृतं ४५
न्मुख्यार्थः परमात्मैव 'अव्यक्तात्पुरुषः ' इत्यादावव्यक्तादि-16.शब्दैरुच्यते, न प्रधानादीत्युक्तम् । तदेव युक्त्यन्तरेणोपपादयत्सूत्रमु-17.पन्यस्य चशब्दस्यानेकहेतुसमुच्चयार्थत्वमभिप्रेत्य तच्छेषं प्रतिज्ञारूपं18.पूरयति-ज्ञेयत्वेति ॥ 'अन्यस्य' प्रधानादेरव्यक्तादिशब्दवाच्यत्वं न यु-19.ज्यते, किन्तु विष्णोरेवेति योजना । सूत्रार्थस्तु-विष्णोरेव मुमुक्षुज्ञेयत्वे20. ' तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ ।21. अमृतस्यैष सेतुः ' ॥ ( मुं.२-२-५० )22.इति वचनात्प्रधानादेस्तदभावान्मोक्षफलकवेदानां तद्धेतुज्ञानविष-23.यब्रह्मज्ञापन एव प्रवृत्तत्वात्प्रतिवाक्यं तत्परत्वस्य च ' आदाव-24.न्ते च मध्ये च विष्णुस्सर्वत्र गीयते ' इत्यादिवचनसिद्धत्वात् स्वतः25.प्राप्तमुख्यवृत्तित्यागे कारणाभावाच्च वि
[ अधि - १. सू - ५. ] दीपिकासहितम्. ३५५ ( १५ ) सू—ॐ ॥ वदतीति चेन्न प्राज्ञो हि ॥ ॐ ॥ ५ ॥ 'महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते' ( कठ. ३-१५.) इति ज्ञेयत्वं वदतीति चेत्— ( १६ ) न, प्राज्ञः परमात्मा हि तत्रोच्यते । 'अणोरणीयान्म- ( १५ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे- वदतीति ॥ नान्यस्येत्यनुवर्तते । तथा च 'अन्यस्य' प्रधानस्य 'न ज्ञेय त्वावचनं' मोक्षार्थं ज्ञेयत्ववचनाभावः । कुतः? यतः 'अनाद्यनन्तं मह- तः परं ध्रुवम्' (कठ. ३-१५.) इति वचनं लिङ्गव्यत्ययेन 'तं' 'महतः प- रमव्यक्तम्' इति पूर्ववाक्ये महत्तत्वात्परत्वेनोक्तं अव्यक्तमिति योज- नायां अन्यस्य मोक्षार्थं ज्ञेयत्वं वदत्यत इति वाक्ययोजना। ननु वदतेः शाब्दप्रतीतिवाचित्वात्तत्र चशब्दस्य करणत्वात्कथं वदतीति व्यपदे- शः? इत्थम्—अवान्तरव्यापारवतो हि करणस्य कारकत्वं, अन्यथा- तिप्रसङ्गात् । तत्र स्वस्वक्रियां प्रति सर्वस्य प्राधान्येन कर्तृत्वात् कर- णेऽपिशब्दे तद्विवक्षया वदतीति व्यपदेशो युज्यते ॥ ( १६ ) परिहारांशं व्याचष्टे—नेति ॥ नैतद्वाक्यबलेन अन्यस्य मो- क्षार्थं ज्ञेयत्वं मन्तव्यमित्यर्थः । कुत इत्यत आह—प्राज्ञ इति । प्रज्ञ ए- व प्राज्ञः तस्य व्याख्या परमात्मेति । 'हि' यतः 'तत्र' वाक्ये परमा- त्मैवोच्यते, न प्रधानं अतो नेति योजना । ननु महतः परत्वलिङ्गात्प्र- धानमत्रोच्यते इत्यत आह—अणोरिति । 'हि' यतः 'अणोः' इति क- ठश्रुतौ 'तस्यैव' प्रकृतपरमात्मन एव 'महतो' महत्तत्त्वात् 'महत्त्वं' परत्वमुच्यते, न त्वन्यस्य । अतो न लिङ्गादन्यदत्रोच्यत इत्यध्याहारे- ण योजना । लिङ्गस्यान्यथासिद्धत्वादिति भावः । नन्वस्यां श्रुतौ भग- वानणोः सूक्ष्मादपि सूक्ष्मः, महतोऽणुप्रतियोगिस्थूलात्स्थूल इति प्रति- पादनेन भगवतः सर्वस्थूलात्परत्वोक्तावपि न महत्तत्त्वपरत्वमुच्यते, अतो न महत्परत्वलिङ्गं विष्णौ सावकाशमित्यत आह—सर्वस्मादि- ति । इदं च हेतुगर्भं विशेषणम् । तस्येत्यनुषज्यते । अपिर्भिन्नक्रमो य- द्यपीत्याद्यर्थेऽपि भवति कैमुत्ये च । 'सिद्धयति यतः' इति शेषः । त- था चात्र तस्य विष्णोः सर्वस्मात्परत्वोक्तावपि 'महतो' महत्तत्त्वात्प- रत्वमपि सिद्धयति । न केवलं सर्वस्थूलत्वमित्यपेरर्थः । कस्मात्? यत- स्सर्वस्मात्स्थूलात्परस्य महतः परत्वं कैमुत्येन युज्यते अत इति योज- ना । तथा चायं सिद्धान्ते कठवाक्यार्थस्सम्पद्यते—अनाद्यनन्तमिति
३५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] हतो महीयान्' ( कठ. २-२०. ) इति तस्यैव हि म हतो महत्त्वम् । सर्वस्मात्परस्य महतोऽपि परत्वं यु ज्यते ॥ ५ ॥ ( १७ ) सू—ॐ ॥ प्रकरणात् ॥ ॐ ॥ ६ ॥ 'सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्' (क ठ. ३-९. ) इति तस्य ह्येतत्प्रकरणम् ॥ ६ ॥ ( १८ ) सू—ॐ ॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ॐ ॥ ७ ॥ समस्तम् । अनादिरुत्पत्तिशून्यश्चासावनन्तो गुणदेशतोऽपरिच्छिन्न श्चेति विग्रहः । तं 'महतः परं' सर्वस्मात्स्थूलात्परम् । अत एव मह त्त्वात्तदपि परं 'ध्रुवं' नित्यं निर्विकारं वा । 'तं' अव्यक्ततत्त्वात्परत्वे न पूर्वप्रकृतं पुरुषाख्यं विष्णुं 'निचाय्य' सम्पूज्य निशाम्य वा संसा राख्यरमृत्युमुखात्प्रमुच्यतेऽधिकारीति ॥ ( १७ ) ननु विशेषतो महत्परत्वस्य प्रधानलिङ्गस्य सर्वस्थूलपरत्व रूपामुख्यार्थतां स्वीकृत्यानाद्यनन्तादिवाक्यस्य विष्णुपरत्वग्रहणे का रणाभावात्प्रधानमेवात्रोच्यते इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य नञनु वृत्त्यभिप्रायेण व्याचष्टे—प्रकरणादिति ॥ इतीत्यनन्तरं श्रुतेरिति शे षः । हिशब्दो हेतौ । एतत् 'अनाद्यनन्तम्' इत्यादिवाक्यं 'तस्य' वि ष्णोः 'प्रकरणं' प्रकरणरूपमित्यवगतमिति शेषः । तथा च नात्र वि ष्णुग्रहणे कारणाभावः । कुतः? हि यस्मात्तस्य प्रकरणमस्ति । न चै तत्प्रकरणस्य वैष्णवत्वासिद्धिः । 'हि' यस्मादेतत् 'सोऽध्वनः' इ ति कठश्रुतेस्तस्य प्रकरणमित्यवगतं तस्मादिति योजना । सूत्रयोज ना तु—अस्य प्राज्ञप्रकरणत्वात्प्रकरणात्प्राज्ञ एवात्रोच्यते, नान्यदिति। सकलमिदमहं चेशायतनमिति यो विजानाति स संसाराख्यस्य वर्त्म नो विश्रान्त्यवधिभूतं पारमाप्नोति, तत्पारं विष्णोः परमं पदं स्थानं क्षीराब्ध्यादौ मुक्तप्राप्यमिति श्रुत्यर्थः सत्तर्कदीपावल्यामुक्तः ॥ ( १८ ) हेत्वन्तरेणानाद्यनन्तादिवाक्येऽन्यस्यापि प्रतिपाद्यतां परा कुर्वत्सूत्रमुपन्यस्य व्याचष्टे—त्रयाणामेवेति ॥ त्रयाणामेवेत्यनुवादः सौत्रैवंशब्दार्थप्रकारधर्मिप्रदर्शनार्थः । त्रयाणां मध्ये प्रधानमेकमस्त्वि ति शङ्कां निरासितुं सूत्रे प्रयुक्तेन एवंशब्देन ज्ञापितं श्रुत्युक्तप्रकारत्रयं दर्शयति—पितृसौमनस्येति । पितृसौमनस्यस्वर्ग्याग्निपरमात्मनां त्र याणामेवेत्यन्वयः, नान्यस्येत्येवशब्दार्थः । प्रश्न इति प्रथमान्तं निमित्त
[ अधि - १. सू - ७. ] दीपिकासहितम्. ३५७ त्रयाणामेव पितृसौमनस्यस्वर्ग्याग्निपरमात्मनां प्र श्न उपन्यासश्च । ( १९ ) 'अविज्ञातप्रार्थनं च प्रश्न इत्यभिधीयते' इति घञ् सप्तम्यन्तं च । तेन प्रश्ननिमित्तकतोपन्यासश्च सिद्धयति । चः प्रश्नोक्त समुच्चये, हेतुसमुच्चये वा । अनेन सौत्रं चशब्दद्वयं तन्त्रेणानूदितं भवति । यत इति शेषः । अस्यातोऽप्यत्र प्राज्ञ एवोच्यते, नान्यदिति प्रकृतसाध्येनान्वयः । केचित्तु—सौत्राद्यचशब्दस्य यत इति हेत्वर्थ त्वं द्वितीयस्य प्रकरणरूपहेतुसमुच्चयार्थत्वमाश्रित्य यत इति शेषो न कार्य इत्याहुः । अनेन—न केवलमेतत्प्रकरणस्य वैष्णवत्वेनात्र प्रधान स्याप्रतिपाद्यता सिद्धा, किन्त्वेतत्प्रकरणघटितानेकप्रकरणात्मकस्था नरूपायामस्यामुपनिषद्यपि 'च' यतः 'एवं त्रयाणां' पितृसौमन स्यस्वर्ग्याग्निपरमात्मरूपाणां धर्मिणामेव 'उपन्यासः' प्रतिवचनम स्ति, न त्वन्यस्य । 'अतश्च' अतोऽपि । कुतः त्रयाणामेवोपन्यासः ? यतस्त्रयाणामेव प्रश्नोऽत इति सूत्रार्थ उक्तो भवति ॥ ( १९ ) नन्वेवं हि काठकोक्ता आख्यायिका—गौतमगोत्रोत्पन्नस्यौ द्दालिकेः नचिकेता नाम पुत्र आसीत् । तत्र पितरि निरर्थकगोदानपरे सति तन्निराचिकीर्षुर्नचिकेता नाम मम पिता मां द्या दत्वाप्येवंविधाः गा न प्रयच्छत्विति भावेन मां कस्मै दास्यसीति पितरमप्राक्षीत् । त च्छ्रुत्वा क्रुद्धः पिता त्वां यमाय दास्यामि त्वं यमगृहं गच्छेत्यशपत् । एवं शप्तो नचिकेताः मृतो यमप्रवासकाले यमगृहं प्राप, तत्र त्रिरात्रं तत्पत्न्या पूजित उपवासन्नेवावसत् । अथ यम आगतस्तं नमस्कृत्या तिथित्वं यस्मान्मे गृहे तिस्रो रात्रीरनश्नन्नवात्सीः । तस्मादस्य प्र तीकाराय मत्तः त्रीन् वरान् वृणीष्वेत्यब्रवीत् । एवमुक्तः ऋषिपुत्रः आह—इदानीं मम पिता मयि क्रुद्ध आस्ते, तत्सौमनस्यं सौहार्दमपे क्षितं तद्देहीति भावेन 'शान्तसंवित्सुमनाः यथा स्यात्' इति पितृ सौमनस्यं वरं प्रथमं प्रार्थयित्वा अथाहं 'स्वर्ग्यं' स्वर्गादनपेतं स्वर्ग साधनभूतं 'अग्निं' अग्निष्टोमादिकर्माङ्गभूताग्निशब्दितेष्टकचितिस्थं तत्स्थितं विष्णुं वाऽध्येमि तत्त्वं कथयेति भावेन 'स त्वमग्निं स्वर्ग्यम ध्येषि मृत्यो प्रब्रूहि' (कठ. १ - १३. ) इति स्वर्ग्याग्निविषये द्वितीयं वरमवृणोत् । तथा मोक्षसाधनज्ञानविषयीभूतमृतमुक्तजीवनियामक परमात्मस्वरूपं मया ऽवश्यं ज्ञेयं, तत्कथयेति भावेन 'येयं प्रेते विचि