भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[अधि - ५. सू - १४. ] दीपिका सहितम्. ४२७

भावव्यवहारेऽप्यन्तर्भेदोऽस्त्येव, एवं स्यादत्रापि । ( ३ ) तथा च श्रुतिः- 'यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति' (कठ. ४-१५०) इति ॥ विषयत्वादुदक इति विषयसप्तमी वा । तथा च 'उदके' एकपात्र स्थितोदके 'उदकान्तरस्य' पात्रान्तरस्थितोदकस्य 'एकीभावव्यव हारेऽपि' तेनेदमैक्यमापन्नमिति लोककर्तृकाभेदोक्तिसत्त्वेऽपि यथा जलयोः 'अन्तर्भेदः' अन्योन्यं भेदोऽस्त्येव 'एवं' तथाऽत्रापि जीव स्येश्वरैक्योक्तावप्यन्तः परस्परं भेदः स्यात् । न चैक्योक्तिविरोधः । यतश्चोदके उदकान्तरस्यैकीभावोक्तिवदुपचरिता स्यादिति योजना । अनेन सूत्रे लोकवदिति लोकसिद्धजनैकीभावोक्तिवदिति प्रथमान्तात त्प्रातिपदिकात् लोके जलादाविति सप्तम्यन्ताद्वा वतिरित्युक्तं भव ति । एवं भोक्त्रापत्तिरिति विपरिणामेन पूर्वपदानुवृत्तिश्च सूचिता ॥ तथा चायं सूत्रार्थः--भोक्तुः जीवस्य आपत्तेः मुक्तौ परब्रह्मत्वप्राप्तेरु क्तत्वात्तयोः 'अविभागः' अभेदस्सिद्धः । यतो भोक्तुर्मुक्ता परमात्मा भेदोऽतो संसारेऽपि तस्य तदभेदः प्राप्नोति, अतः असर्वकर्तृसंसारि जीवाभिन्नत्वाद्ब्रह्मणो न जगत्कर्तृत्वं युक्तमिति चेत्-न, ईश्वरस्य जग त्कारणत्वादि विरुद्धम्। कुतः? यतो 'नाविभागो' जीवेशयोरभेदाभा वः। न च भोक्त्रापत्तिश्रुतिविरोधः, यतः 'स्याल्लोकवत्' स्याज्जले जला न्तरस्यैकीभावोक्तिवद्भेदेऽपि स्याद्युज्यते। न च भेदेऽप्यैक्योक्तौ निमि त्ताभावः। यतः 'स्याल्लोकवत्' लोके जले जलान्तरस्यैकीभावोक्ति वत्स्थानैक्याद्यालम्बनत्वेनोपचरिता स्यादत इति ॥ (३) न श्रुतेः सूत्रान्तरेणेोपचरितार्थत्वकल्पनं क्रियते, किन्तुश्रुत्याऽ पि तदुक्तमित्याह-तथाचेति ॥ यथा सूत्रकृदाह, तथा श्रुतिश्चाहेत्यर्थः। 'निरञ्जनः परमं साम्यम्' (मुं. ३-१-३.) इत्याद्यैक्यविरोधश्रुतिरपि चशब्देन गृहीता । 'एवं मुनेर्विजानत आत्मा भवति गौतम' (कठ.४- १५.) इति श्रुतिवाक्यशेषः । कठवल्ल्यां नचिकेतसं प्रति यमवचनमे तत्र- 'हे गौतम तद्गोत्रोद्भव नचिकेत' यथा 'शुद्धे' एकपात्रस्थितोदके यथेष्टं प्रक्षिप्तशुद्धोदकं तादृगेव भवति, न तु तदेव, एवं ब्रह्म विजानतो 'मुनेः' मुनिवर्गस्य 'आत्मा' स्वामी मुख्यवायुरपि मुक्तः सन् 'तादृगेव भवति' परमात्मसदृश एव भवति, न तु स एव, किन्तु अन्ये जीवा

7: वशब्दव्यावर्त्यं दर्शयति—न चेति । चस्त्वर्थः । 'एतत्' एतत्स्वरूप-

Line 18: म् । कुत इत्यतो युक्तिमाह—यत इति । अवृद्धिरित्यपि छेदः । त-

Line 19: थाच मिश्रणात्पूर्वं अवृद्धिस्तदनन्तरं वृद्धिश्च यतः प्रदृश्यते अत इत्य- Wait, look at मिश्रणात्पूर्वं: is it मिश्रणात्पूर्वं or मिश्रणात्पूर्वम्? It has an anusvara: मिश्रणात्पूर्वं.

Line 20: र्थः । दार्ष्टान्तिकमाह—एवमिति । हिशब्दः प्रसिद्धौ 'जीवो' ज्ञानिजी- Wait, check line numbering! Let's trace from top: Line 1: header Line 2: (४) स्कान्दे च... Line 3: न चैतदेव... Line 4: एवमेव हि... Line 5: प्राप्तोऽपि... Line 6: इति काठकभाष्य... Line 7: जानतो मुनेः... Line 8: मुक्तः परमात्मानं... Line 9: वृतः । छान्दोग्य... Line 10: 'विजानतः'... Line 11:

[ अधि - ५. सू - १४. ] दीपिकासहितम्. ४२९

( ५ ) ब्रह्मेशानादिभिर्देवैर्याप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ॥ इति च । ( ६ ) ‘ न ते महित्वमन्वश्नुवन्ति ’ (ऋ. ७-९९-१.) ‘ न ते विष्णोजायमानो न जातः’ (ऋ. ७-९९-२.) इति च । ( ७ ) फलत्वेऽपि युक्तिविरोधे र्धश्लोके विपक्षे सयुक्तिकं साध्याभावोपपादनेन व्यभिचारो दृढीकृ- तः । उत्तरश्लोके तु पूर्वपक्ष्युक्तहेतोरन्यथासिद्ध्युपपादनायैक्यविरो- धिविरुद्धधर्मोपन्यास इति विवेकः । इति स्कान्द इत्यन्वयः ॥ ( ५ ) ननु ‘नासौ भवति’ इति वचनमल्पान्सायुज्यभाजोऽपे- क्ष्यैव प्रवृत्तम्, न तु ब्रह्मादीन् सायुज्यभाजोऽतो न तद्विरोधीत्यत आ- ह—ब्रह्मेति ॥ मुक्तामुक्तैरित्य

४३० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ऽन्तर्भावादत्रोक्तम् ॥ १४ ॥ —::— ६. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ ॐ ॥ १५ ॥ स्वतन्त्रबहुसाधना सृष्टिलोंके दृष्टा । नैवं ब्रह्मणः । स्याधिकरणस्य फलाध्यायसङ्गतत्वेऽपि 'युक्तिविरोधे' न ह्यन्यस्येत्यु क्तयुक्तिविरोधपरिहारात्मके ' अत्रापि ' पादेऽन्तर्भूतत्वादत्रेदमधि करणं ' उक्तं ' विशेषितमित्यर्थः । अन्यथोभयान्तर्गतस्य एकत्रोप्यनु क्तिप्रसङ्गः । तस्मादुक्तरीत्या सङ्गतिसद्भावादस्मदीयव्याख्यानमेव युक्तमिति भावः ॥ ५ ॥ ॥ इति भोक्त्राधिकरणम् ॥ —::— ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विष्णोर्जगत्कर्तृत्वे बहुयुक्तिविरोधः परिह्रिय ते । पूर्वपक्षसिद्धान्तादिप्रदर्शनाय सूत्रमेव आदौ पठति—तदिति ॥ स्वतन्त्रबहुसाधनेति । कर्तृव्यतिरिक्तस्वतन्त्रसत्ताशक्तिप्रवृत्तिमद धिष्ठानकरणादिरूपबहुसाधनसापेक्षेत्यर्थः । स्वातन्त्र्यं च कर्त्रनधी नत्वं 'सृष्टिः' घटादेः । स्थित्यादेरप्युपलक्षकमेतत् । एवमित्युक्तेऽर्थे ति लभ्यते । नेत्यावर्तते । तथा च यतो लोके यथा घटादेः सृष्टिः स्व तन्त्रबहुसाधना दृष्टा, एवं ब्रह्मणः सकाशाज्जगत्सृष्टिरपि स्वव्यतिरि क्तबहुसाधना स्यात्। तथाऽनुमेया स्यात् । अत एव तद्युक्तिविरोधान्न ब्रह्मणो जगत्कर्तृत्वं युक्तमिति योजना। अनेन ब्रह्मणः न जगत्कर्तृत्वं यु ज्यते । कुतः? महदादिसृष्ट्यादिकं प्रत्येकं कर्तृव्यतिरिक्तबहुसाधनसा पेक्षं, सृष्टित्वात्, स्थितित्वात्, संहृतित्वाद्धटादिसृष्ट्यादिवदिति बहु युक्तिविरोधादिति सयुक्तिकः पूर्वपक्षः प्रदर्शितो भवति । ईश्वरसृष्टेः साधनसापेक्षत्वमात्रसाधने कर्तारं कर्तृत्वान्तर्गतं ज्ञानेच्छादिकं परत न्त्रसाधनमेकं साधनं चादाय सिद्धसाधनता स्यादिति कर्तृभिन्नेत्या द्युक्तम्। एवं यथा घटादिसृष्टिः केवलकुलालादैरशक्या तद्व्यतिरिक्तस्व तन्त्रमृत्पिण्डदण्डादिसाधनसापेक्षा, एवं ब्रह्मणो जगत्सृष्टिरपीति न क ल्प्यमिति योजनायां सिद्धान्तप्रतिज्ञा च दर्शिता भवति । तर्हि कीदृशी

[ अधि - ६. सू - १५. ] दीपिकासहितम्. ४३१ स्वरूपसामर्थ्यादेव तस्य सृष्टिः । ( २ ) किं स्विद्वासीदधिष्ठानमारम्भणं कतमत्स्वित्कथाऽऽसी तस्य सृष्टिरित्यतस्तदुत्तरत्वेन प्रवृत्तस्य तदनन्यत्वमित्यस्याभिप्रायमा- ह-स्वरूपेति । किंस्वित्याद्युपस्कार्यम् । सामर्थ्यं प्रयत्नादि सामर्थ्योप- पर्यायप्रयत्नादिरूपमिति सुधोक्तेः । तथा च किन्तु ‘तस्य’ ब्रह्मणः ज- गतस्सृष्टिः ‘स्वरूपसामर्थ्यात्’ अनन्यप्रयत्नादेरेव भवतीत्यर्थः, न तु साधनान्तरसामर्थ्यसहकृतादित्येवकारार्थः । यद्वा—यद्यपि लोके घ- टादिसृष्टिः स्वतन्त्रबहुसाधना दृष्टा । तथाऽपि ‘नैवं ब्रह्मणः’ न तद्दृ- ष्टान्तेन ब्रह्मणो जगत्सृष्टिस्तथा कल्प्या । किन्तु स्वतन्त्रसाधनस्य त- दनन्यत्वं, कोऽर्थः ? स्वरूपसामर्थ

४३२ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - १. ] त, इति (ऋ. १०-८१-२.) ह्याक्षेपः । (३) अधिष्ठानाद्यनुक्तेः, आदिशब्दाद्युक्तिभिश्च । (४) परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्षते । म.। श्रुतौ किंशब्दावाक्षेपे । स्विच्छब्दावाक्षेपाणां भिन्नविषयत्वद्योत कौ । 'यतो भूमिं जनयन् विश्वकर्मा विद्यामौर्णोन्महिना विश्वचक्षाः' (ऋ१०-८१-२.) इति वाक्यशेषः । अत्र बभूवेत्यध्याहारः । तथा च 'वि श्वकर्मा' जगत्कर्ता हरिः सृष्टिकाले 'यतो' येनाधिष्ठानादिना भूमिं द्यां च जनयन् विशेषेण बभूव । येन चाधिष्ठानादिना 'महिना' स्वमहिम्ना विश्वचक्षाः सर्वावयवैः सर्वेन्द्रियैर्वा दर्शनशक्तिमान् हरिः भूमिं द्यां च 'और्णोत्' प्रलये आवृणोत् । 'तदधिष्ठानं' अधिकरणं 'किं स्विदासौ त्' किमासीत् न किमपि । आरभ्यते अनेनेत्यारम्भणं करणं वा 'कतमत्स्वित्' कतमदासीत् । 'कथा' कथंरूपमासीत्, न किञ्चि न्न कथमपीत्यर्थः । सत्तर्कदीपावल्यां तु—येन करणादिना भूमिं जन यन् विश्वकर्मा 'विश्वचक्षाः' विश्वद्रष्टा 'महिना' माहात्म्येन द्यां 'और्णोत्' निर्मितवान् तदधिष्ठानादिकं प्रलये 'किमासीत्' न किम पि, पार्थिवाप्यतैजसवायवीयानां वस्तूनां प्रलयेऽभावादिति श्रुत्यर्थ उक्तः ॥ (३) किं शब्दस्य प्रश्नाक्षेपयोः समत्वात्प्रश्नोऽयं किं न स्यादित्यत आह—अधिष्ठानाद्यनुक्तेरिति॥ परिहारायेति नायं प्रश्न इति च शेषः। आदिपदेनारम्भणादिकं गृह्यते । तथा च परिहारायाधिष्ठानाद्यनुक्ते र्नायं प्रश्नः, किं त्वाक्षेप इति योजना । प्रश्नस्य तैत्तिरीये 'किं स्विद्धि मस्य भेषजम्' (तै.सं.७-४-१८.) इति प्रश्नस्य 'अग्निर्हिमस्य भेषजम्' (तै.सं.७-४-१८.) इति परिहारवदत्रापि परिहारो वक्तव्यः स्यादिति भा वः । न केवलं पूर्ववाद्युक्तमनुमानमागमविरुद्धं, अपि तु युक्तिभिश्चेति प्रतिपादयितुं प्रवृत्तस्यादिशब्दस्य तात्पर्यमाह—आदिशब्दादिति । गृ हीताभिरिति शेषः । युक्तिभिरिति । अपरतन्त्रत्वात्स्वतन्त्रत्वात्साध नसत्ताप्रदत्वादिति व्यतिरेकहेतुभिरित्यर्थः । युक्तिभिश्चेत्यस्य स्वरू पसामर्थ्यादेव तस्य सृष्टिरिति ज्ञायत इत्यनेनान्वयः ॥ (४) युक्तीनामाभासत्वशङ्कानिरासाय तासां स्मृतिसिद्धतामा ह—परतन्त्र इति ॥ हिशब्दः प्रसिद्धौ । अपेक्षेत साधनादिकमिति शे

[ अधि - ६. सू - १६. ] दीपिकासहितम्. ४३३ साधनानां साधनत्वं यतः किं तस्य साधनैः ॥ इत्यादिभिः ॥ १५ ॥ ( ५) सू—ॐ ॥ भावे चोपलब्धेः ॥ ॐ ॥ १६ ॥ स्वतन्त्रसाधनभावे प्रमाणैरुपलभ्येत । ( ६) अनुक्तं पञ्चभिर्वेदैर्न वस्त्वस्ति कुतश्चन । अतो वेदत्वमेतेषां यतस्ते सर्ववेदकाः ॥ षः । अनेनापरतन्त्रत्वयुक्तिः सूचिता । ' अपेक्षते किं ' नापेक्षत इत्य- र्थः । अनेन स्वतन्त्रत्वयुक्तिः सूचिता । कुतो नापेक्षत इत्यत आह- साधनानामिति । ' साधनत्वं ' साधनशक्तिः यतो भवतीति शेषः ' तस्य ' विष्णोः ' साधनैः ' अधिष्ठानादिभिः ' किं ' कृत्यमित्यर्थः ॥ अनेन तृतीययुक्तिरुक्ता । इत्यादिभिरिति । आदीयन्ते उपादीयन्ते इत्यादयः । तथा च इतिश्रुतिज्ञापिताभिरित्यर्थः । यद्वा — युक्त्यन्तरसू- चकस्मृत्यन्तरसङ्ग्राहक आदिशब्दः । इत्यादिभिरित्यस्य युक्तिभिरित्य- नेनान्वयः ॥ ( ५) युक्त्यन्तरेण स्वतन्त्रसाधनं प्रतिक्षिपत्सूत्रमुपन्यस्य व्याच- ष्टे—भावे चेति ॥ स्वतन्त्रेति । स्वतन्त्रसाधनान्तरसत्त्व इत्यर्थः । त- दङ्गीकारोपलक्षकमेतत् । उपलब्धेः कारणसापेक्षत्वात्तदाह—प्रमाणै- रिति । वेदादिप्रमाणैरित्यर्थः । उपलभ्येत प्रतीयेत इति लिङ्प्रयोगेन सूत्रे प्रसङ्गादिति शेषः । उपलब्धेरिति षष्ठी, न परमत इव पञ्चमी । चशब्दः प्रसङ्गाच्चेत्यन्वितो बाधकतर्करूपयुक्त्यन्तरसमुच्चायक इति सूचितं । तथा चास्य तर्कत्वात् न चोपलभ्यते तस्मान्नास्तीति विपर्य- यपर्यवसाने सूत्रे स्वतन्त्रसाधनान्तराभावः सिद्ध्यतीति भावः ॥ ( ६) ननु प्रमाणानुपलब्धमपि वस्तु किं न स्यादित्यत आह—अ- नुक्तमिति ॥ इतिहासपुराणयोः पञ्चमवेदत्वं प्रसिद्धमिति पञ्चभिरि- त्युक्तम् । ' च न ' अपि । तथा च पञ्चभिरपि वेदैरुक्तमपि वस्तु नास्ति, कुतः प्रमाणमात्रासिद्धमस्तीति कैमुत्यपरतयेदं योज्यम् । अ- न्यथा प्रमाणानुपलब्धमपीति टीका प्रमाणैरिति भाष्यं च अनुपपन्नं स्यात् । ' कुतश्चन ' किञ्चिदपीति वा । ' एतेषां ' पञ्चानाम् । अत इ- त्युक्तं विवृणोति—यत इति । ' ते ' पञ्च वेदाः ' सर्ववेदकाः ' सर्वव- स्तुप्रतिपादकाः । न च वेदानुक्तानां भगवद्गुणानां सत्त्वात् कथं तद- नुक्तवस्तुमात्रनिषेध इति वाच्यम् । कुतश्चनेत्यस्य केनापि प्रकारेणे 」 ५५

४३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] इति स्कान्दे ॥ १६ ॥ ( ७ ) 'अद्भ्यः सम्भूतः पृथिव्यै रसाच्च' ( तै. आ-३-१३. ) इत्यादिना साधनान्तरप्रतीतेः कथमनुपलब्धिरित्यत आह— सू—ॐ ॥ सत्त्वाच्चावरस्य ॥ ॐ ॥ १७ ॥ त्यर्थाश्रयणात् सामान्यतस्तेषामपि वेदोक्तत्वेन तदनुक्तत्वाभावात् । अत एव न 'सन्त्यश्रुताः' (सौपर्णश्रुतिः) इति श्रुतिविरोधः । विशे- षतोऽश्रुता इत्यर्थाश्रयणात् । स्कान्द इत्यनन्तरं उक्तत्वात्सूत्रकृदुक्तं युक्तमिति वाक्यशेषः । सूत्रयोजना तु—तस्य स्वतन्त्रसाधनान्तरस्य भावे वेदादिप्रमाणैरुपलब्धेः प्रसङ्गाच्च तदनन्यत्वमिति । न केवलमा- रम्भणशब्दादिभ्य इति चार्थः ॥ ( ७ ) ननु अद्भ्यः सम्भूत इति श्रुतौ प्रकृतिं स्वामवष्टभ्य विसृजा- मि युगेयुगे इति गीतास्मृतौ च भगवदितरप्रकृत्यादिस्वतन्त्रसाधन- सत्त्वप्रतीतेर्न तदनुपलब्धिरित्याशङ्क्य तत्परिहारत्वेन सूत्रमवतार्यव्या- चष्टे—अद्भ्य इति ॥ आदिशब्देन 'अद्भ्यः सम्भूतो हिरण्यगर्भः' (महाना.१-११.) इति श्रुतिः । 'प्रकृतिं स्वाम्' इति स्मृतिश्च गृह्यते । वाक्येनेति शेषः । साधनान्तरेति । भगवदितरस्वतन्त्रसाधनसत्त्वप्र- तीतेरित्यर्थः । पारतन्त्र्यानुक्त्यैवात्रोक्तसाधनस्यापि स्वातन्त्र्यं सिद्ध्यतीति भावः । कथमित्याक्षेपे । 'अनुपलब्धिः' उपलब्ध्द्यभावः । अवरस्येत्यनुवादेन तदधीनस्येति तात्पर्यार्थोक्तिः । आरम्भणस्थेत्य- नुवृत्तपदस्यार्थमाह—साधनस्येति । 'सत्त्वात्' सत्त्वाभ्युपगमात् । अनेन सूत्रे वरस्य चासत्त्वात् अवरस्य च सत्त्वादिति च नञोभय- त्रान्वयः । चोऽवधारणे । नञाकर्षकश्च । तथा च 'वरस्य' स्वतन्त्रस्यै- व साधनस्यासत्त्वाभ्युपगमात् 'अवरस्य' अस्वतन्त्रस्य तु सत्त्वाभ्युप- गमात् 'अद्भ्यः' इति वाक्यं तद्विषयं इति नोक्तस्य तद्विरोध इति सूत्रार्थ उक्तो भवति । 'अद्भ्यस्सम्भूतः पृथिव्यै रसाच्च । विश्वकर्म- णस्समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमा- जानमग्रे' ( तै. आ. ३-१३. ) इति तैत्तिरीयश्रुतौ तृतीयार्थे पञ्चमीचतु- र्थ्यौ । आङेवार्थे । तथा च यस्तत्पुरुषाख्यो हिरण्यगर्भो 'विश्वकर्म- णो' विश्वकर्तुः हरेस्सकाशात् 'अद्भ्यः पृथिव्यै' अबाद्युपलक्षितप- ञ्चमहाभूतैः 'रसात्' तदुपलक्षिततन्मात्राभिश्च 'सम्भूतः' उत्पन्नः

[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४३५ अपरस्य तदधीनस्य साधनस्य सत्त्वात् ॥ ( ८ ) 'काल आसीत्पुरुष आसीत्परमं आसीत्तद्यदासीत्तदावृतमा- सीत्तदधीनमासीद्यह्येक एव परम आसीद्यस्यैतदासी- न्न ह्येतदासीत्' इति हि काषायणश्रुतिः ॥ १७ ॥ ( ९ ) सू—ॐ ॥ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वा सन् ‘अधि’ सर्वस्मादधिकत्वेन समवर्तत । ‘तस्य’ तत्पुरुषस्य ‘अ- ग्रे’ तदुत्पत्तेः पूर्वमेव ‘जातं’ जातं ‘विश्वं’ ब्रह्माण्डाख्यं ‘रूपं’ च तुर्मुखविग्रहं ‘त्वष्टा’ महादीप्तिर्भगवान् ‘विदधत्’ धारयन् ‘एति’ वर्तत इत्यर्थः । तत्त्वप्रदीपे तु—आपीयन्ते अनुभूयन्ते इत्यापः कर्मा- णि, पृथुत्वात्पृथिवी प्रकृतिः, रसो रक्किरिति पदत्रयमन्यथा व्याख्या- तम् । ‘स्वां’ स्वाधीनां प्रकृतिमवष्टभ्य ‘अवलम्ब्य’ उपादानीकृत्य वि- विधं जगत्सृजामीति गीतायां भगवद्वचनस्यार्थः ॥ ( ८ ) नन्वस्यां श्रुतौ साधनमात्रं प्रतीयते, न तु तस्य भगवदधी- नत्वम् । तच्च लोकानुसारात् स्वतन्त्रमेव किं न स्यादित्यतश्चशब्दसू- चितां श्रुतिमुदाहरति—काल इति ॥ यत्तदोरावृत्तिः । तदिति व्यस्तं समस्तं च । तथा चास्य जगतोऽग्रे प्रलये कालः ‘पुरुषो’ जीवः ‘प- रमः’ परमात्माऽप्यासीत् । यद्यप्येवं तथाऽपि ‘यत्’ यस्मात् ‘तत्’ तदा प्रलये यद्वस्त्वात्सीत् ‘तत्’ तेन भगवता ‘आवृतं’ तदधीन- मासीत् । अथ तस्मादेक एव परमः आसीदित्युच्यते । अस्वतन्त्रेऽभा- वशब्दः । प्रसिद्ध इति हिशब्दार्थः । कीदृशोऽसौ परमः इत्यतो जग- त्कर्तेत्याह—यस्येति । ‘यस्य’ एतस्य परमस्य सकाशात् ‘एतत्’ जगदासीदित्यर्थः । परमस्य सकाशाज्जगदुत्पत्तिः कुत इत्यत आह— न हीति । ‘हि’ यस्मात् जगत् सृष्टेः पूर्वं नासीत्तस्मादित्यर्थः । प्राग- भावेनोत्पत्तौ सिद्धायां सत्यां तदुत्पादकस्थान्यस्य अभावाद्धरिरेव ज- गत्कर्तेति सिद्धयतीति भावः । तत्त्वप्रदीपे तु—‘स एकः परम एवा- सीत्’ यदधीनमेतदासीन्न स्वतन्त्रं न ह्येतदासीदिति वक्तुं शक्यते । परतन्त्रत्वादेव । अथ वा—अथेति विशेषद्योतकः । एको भगवान्नेव ‘परमः’ प्रधान आसीन्न ह्यन्यत्परम आसीत, किन्तु तदधीनमेवेत्यर्थ उक्तः । श्रुतिरित्यनन्तरं यत इति शेषः । अस्यातोऽवरस्येत्युक्तंयुक्तमि- त्युपस्कृतेनान्वयः ॥ ( ९ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे-

४३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] क्यशेषात् ॥ ॐ ॥ १८ ॥ ‘नासदासीत्’ (ऋ. १०-१२९-१.) इति सर्वस्यास- त्त्वव्यपदेशान्नेति चेत्— असादिति ॥ इतीत्यनन्तरं श्रुताविति शेषः । ‘सर्वस्य’ साधनान्तरस्ये- ति सूत्रे शेषोक्तिः । ‘असत्त्वव्यपदेशात्’ असत्त्वस्योक्तत्वादिति । अनेन सूत्रेऽसदिति भावनिर्देश इति सूचितम् । नेति । ‘सत्त्वाच्चावर- स्य’ इत्यनेनोक्तं साधनान्तरस्य सत्त्वं तस्येश्वराधीनत्वं च नेत्यर्थः । ‘नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् । किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्च

[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४१७


(१०) न, अव्यक्तत्वपारतन्त्र्यादिधर्मान्तरेण हि तदुच्यते । (११) 'तम आसीत्' (ऋ. १० - १२९ - ३.) इति वाक्य शेषात् ।


र्मोपेतमिति यावत् । 'नास' न बभूव । अपि तु तदैवोद्रिक्तमास । ह प्रसिद्धमिति । तत्त्वोद्योतटीकायां तु—'स्वधया' सुखेनैव । न तु सु खप्राप्त्यर्थमिति व्याख्यातम् ॥ (१०) परिहारांशं व्याचष्टे—नेति ॥ नात्र स्वरूपासत्त्वाभिप्रायेण साधनानामसत्त्वोक्तिरित्यर्थः । कुत इत्यतस्तत्र धर्मान्तरेणेत्यंशमावृ त्त्या असद्व्यपदेशादित्यनेनान्वितं हेतुत्वेन योजयति-अव्यक्तत्वेति । अ वरत्वावृतत्वकार्यानभिमुखत्वादिकमादिपदार्थः । अन्यो धर्मो धर्मान्त रम् । तथा च स्वरूपासत्त्वादन्येन धर्मजातेन तदपेक्षयेत्यर्थः । य

४३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ( १२) न चान्यत्र प्रमाणमस्ति । ( १३) अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगा मजोऽन्यः । (महाना. १०-५.) अविज्ञातं सलिलं भूत्वा आसीत् । तेन ‘तमसा’ सलिलेन ‘इदं’ जगत् गूळ्हं ‘गूढं’ गूहितमासीदिति श्रुत्यर्थः । भावबोधे तु—टीकायामपरि मितमित्येतत् आङोऽर्थकथनं, अप्रकेतं प्रभावरहितमिति व्याख्यात म् । तन्मूलं चिन्त्यम् । प्रलये जडचेतनप्रकृतिभावमभिधाय अगाध त्वेनाप्रकेतेऽविज्ञाते सलिले इति व्यासतीर्थीयविरोधश्च ॥ ( १२) अथ परकृतापव्याख्यां निराचष्टे—न चेति ॥ अस्मिन्नधिक रणे चेतनाचेतनप्रपञ्चस्य परमार्थतो ब्रह्मानन्यत्वमुच्यते । कुतो? वाचा रम्भणमित्यादिश्रुतेरिति यत् परेषां व्याख्यानं तन्न युक्तम्। कुतः? यतः ‘अन्यत्र’ चेतनाचेतन प्रपञ्चस्य ब्रह्मानन्यत्वे प्रमाणं नास्त्यत इति न आवृत्त्या योजना । न केवलं प्रमाणाभावोऽन्यत्र, किन्तु प्रमाणविरोधः चेत्याशयेन चशब्दः प्रायोजि ॥ ( १३) तदुपपादनाय विरोधप्रमाणान्याह—अजो हीति ॥ श्रुति स्मृतिभ्य इत्यनन्तरं ब्रह्मान्यत्वाद्यवगमादिति वाक्यशेषः । ‘अजो हि’ इति नारायणानुवाके श्रुतम् । ‘अजामेकां लोहितशुक्लकृष्णां बह्वीं प्र जां जनयन्तीं सरूपाम’ (महाना. १०-५.) इति पूर्वार्धे श्रुतां ‘लोहितशु क्लकृष्णां’ रजःसत्त्वतमोगुणात्मिकां ‘बह्वीः प्रजाः सृजमानां सरूपां’ इति सुधागृहीतवाक्यान्तरे बहुवचनश्रवणात् सरूपां स्वसदृ शानि बह्वीं प्रजां महदादिबहुकार्याणि जनयन्तीमेकां न जायत इत्य जां प्रकृतिं एको न जायत इति ‘अजः’ संसारिजीवो ‘जुषमाणः’ से वमानः ‘अनुशेते’ अनुवर्तते । ‘अन्यः’ कश्चिन्मुच्यमानोऽस्यां प्रकृ तौ भोगान् भुक्त्वा अथ भुक्तो भोगो यस्यां सा तां ‘भुक्तभोगां’ ए नां प्रकृतिं ‘जहाति’ प्रलये परित्यजतीत्यर्थः । अत्र मुक्तामुक्तयोर्भेदो क्त्या परमात्मनोऽपि संसारिभ्यो भेदोऽभिहितः, अद्वैतिमते मुक्तपरमा त्मनोरभेदात् अस्मन्मतेऽपि ‘एनां जहाति’ इत्यनेन परमात्मनोऽप्यु क्तत्वात् । न च तस्य प्रकृतिभोगत्यागयोरयोग इति वाच्यम् । ‘ऋतं पिबन्तौ’ (कठ. १-३-१०) ‘श्रोत्रं चक्षुः स्पर्शनं च’ इत्याद्युक्तरीत्या प्र कृतिभोगस्य क्रियाप्रबन्धे लटं स्वीकृत्य सर्वदा प्रकृत्यबद्धत्वरूपप्रकृ तित्यागस्य च वक्तुं शक्यत्वात् ॥

[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४३९ ( १४ ) अनाद्यनन्तं जगदेतदीदृक्प्रवर्तते नात्र विचार्यमस्ति । न चान्यथा क्वापि च कस्य चेदमभूतपुरा नापि तथा भविष्यत्॥ ( १५ ) असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । ( गी.१६-८.) ( १४ ) एवं परोक्तं चेतनस्य ब्रह्मानन्यत्वे विरोधिप्रमाणमभिधाय इदानीमचेतनप्रपञ्चस्यापि पराभिसंहिते बाध्यत्वरूपब्रह्मानन्यत्वे तदा ह—अनादीति ॥ स्मृतिवाक्यमेतत् । 'अनाद्यनन्तं' प्रवाहत उत्पत्ति नाशशून्यं 'ईदृक्' नानाविधं व्रीह्यादिवत् प्रवाहरूपेण वर्तमानं जग त्प्रवर्तते प्रतिकल्पमिति शेषः । 'अत्र' अनादित्वानन्तत्वेदृक्त्वरूपार्थे षु विचार्यं निर्णेतव्यम् न किमप्यस्ति । सर्वं निर्णीतमेवेति भावः । वि चार्यं संशेतव्यमिति वा । ननु रज्जौ सर्पवद्विश्वस्यापि क्वचित्कस्य चि द्बाधोऽस्ति किमित्यतो नेत्याह—न चेति । 'इदं' विश्वं 'क्वापि' देशे काले च 'कस्यापि' पुरुषस्य 'अन्यथा' बाधितं 'पुरा' पूर्वं नाभू त्, उत्तरत्रापि 'तथा' बाध्यं नाभविष्यदित्यर्थः । भविष्यच्च नेति सु बन्तपदं वा ॥ ( १५ ) विश्वमिथ्यात्वमतमासुरत्वाद युक्तमिति गीतास्मृत्या दर्श यति—असत्यमिति ॥ अपरस्परसम्भूतं किमन्यत्कामहेतुकम् । एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ॥ प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ इति वाक्यशेषः प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ॥ इति पूर्ववाक्ये प्रकृता आसुराः जगत् असत्यत्वादप्रतिष्ठं ज्ञानबाध्यं त त एवानीश्वरमित्याहुः । ननु यतो यतो जातमसावसावीश्वरोऽस्तु इ त्यत उक्तं—अपरस्परसंभूतमिति। परमेश्वराधिष्ठितायाः प्रकृतेः महा न्, महतोऽहंकार इत्यादिक्रमेण परस्परसम्भूतं न भवतीत्यर्थः । ननु सत्यं न चेत् किमसत् ? एवं परस्परसंभूतं न चेत् किं नित्यं ? स्वतो वा जातं ? आद्यस्योत्तरं—अन्यदिति । सदसद्भ्यामिति शेषः । द्विती यस्योत्तरं—कामहेतुकमिति । काम इति तत्कारणमविद्या मिथ्याज्ञा नं चोपलक्ष्यते । तथा चाविद्यादि कल्पितमित्यर्थः । 'एतां दृष्टिं' बु द्धिमवष्टभ्य 'नष्टात्मानो' दुष्टचित्ताः, अतएव 'अल्पबुद्धयः' अल्प ज्ञानाः 'जगतोऽहिताः' विरोधिनोऽहितकरा वा । जगतः 'क्षयाय'

४४० ब्रह्मसूत्रभाष्यम्. [ अध्या - २ । पा - १ । ] ( १६ ) असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुः परां हि । यस्सत्यरूपं जगदेतदीदृक्सृष्ट्वा त्वभूत्सत्यकर्मा महात्मा । ( १७ ) अथैनमाहुस्सत्यकर्मेति सत्यं ह्येवेदं विश्वमसौ सृजते । अथैनमाहुर्नित्यकर्मेति नित्यं ह्येवासौ कुरुते । ( १८ ) 'यच्चिकेते सत्यमित्तन्न मोघम्' (ऋ. १०-५५-६.) अनिष्टप्राप्तये विनाशाय वा 'उग्रकर्माणः' क्रूरकर्माणस्सन्तः 'प्रभव न्ति' कलियुगादावुत्पद्यन्त इत्यर्थः । अत्र जगदसत्यतावादिनामासुर त्वाद्युक्त्या तत्सत्यताऽवगम्यत इति प्रकृतसङ्गतिः । गीताभाष्ये तु— न केवलं जगतो मिथ्यात्वादि वदतामासुरत्वं 'असत्यमप्रतिष्ठन्ते' इ त्यनेनोच्यते, किन्तु जगज्जन्मादिकारणं विष्णुं ये न मन्यन्ते तेषां सर्वे षामपीति भावेन न विद्यते सत्यमस्येत्यसत्यं विष्ण्वाख्योत्पादकरहि तं, एवं न विद्यते प्रतिष्ठा प्रतिष्ठापक ईश्वरश्च विष्णुर्र्यस्य तदप्रतिष्ठ मनीश्वरमिति चोक्तम् । 'अन्नाद्भवन्ति भूतानि' इत्यादिक्रमेण परस्प रसम्भूतं न भवतीत्यपरस्परसम्भूतमेतादृशं जगद्ये आहुः, ते आसुरा इति व्याख्यातम् ॥ ( १६ ) विश्वमिथ्यात्वमतस्यासुरत्वं युक्तं, विष्णुमाहात्म्यविरुद्धत्वा दित्येतदुच्यते—असत्यमाहुरिति ॥ स्मृतिवाक्यमिदम् । यतः एतज्ज ग

[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४४१ इत्यादिश्रुतिस्मृतिभ्यः । (१९) परस्परविरुद्धे तु वाक्यानां यत्र युक्तता । तथैवार्थः परिज्ञेयो नावाक्या युक्तिरिष्यते ॥ इति बृहत्संहितायाम् ॥ 'जेता' प्राप्ता, तथाऽपि तेभ्यः स्पार्हं वसु यज्ञादिफलं दाताऽपि प- रमेश्वरः इन्द्रादिनामा 'यत' 'विश्वं' 'चिकेत' चकार । कित करणे । तत् 'सत्यमित्' सत्यमेव, न मिथ्या । कुतो ? यतः तत् 'न मोघं' अर्थक्रियाद्यनुपयुक्तं न भवतीत्यर्थः । यद्वा-'स्पार्हं' स्पृहणीयं 'वसु' स्व- र्गभूम्यादिकं बल्यादिभ्यो जेता इन्द्रादिभ्यो दाताऽपीत्यर्थः । आदिपदेन 'कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छा- श्वतीभ्यस्समाभ्यः' ( ईशा.८.) । इतीशावास्यवाक्यम्, । विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् । प्रधन्वस्य महतो महानि सत्यासत्यस्य करणानि वोचम् ॥ ( ऋ. २ - २४ - १२. ) इति ऋग्वेदवाक्यं च गृह्यते, अन्यानि च । 'कविः' सर्वज्ञः 'मनी- षी' ब्रह्मादिसर्वमनसामीशिता प्रेरकः णिनिप्रत्ययान्तोऽयं शब्दः । प- रिभवति सर्वानिति 'परिभू' सर्वोत्तमः परमनपेक्ष्य स्वयमेव भव- तीति 'स्वयम्भूः' अनन्याश्रयः स्वतन्त्रः परमेश्वरः 'अर्थान्' महदा- दीन् 'शाश्वतीभ्यः समाभ्यः' सप्तम्यर्थे पञ्चमी सर्वेष्वपि कालेषु 'याथातथ्यतः' तथाभावमनतिक्रान्तं यथातथं तस्य भावो याथा- तथ्यं ततो याथातथ्येनैव अबाधिततयैव सत्यानेव 'व्यदधात्' निर्मित- वानित्यर्थः । निर्माणशक्तिप्रदर्शनाय कविरित्यादि । हे मघवानौ यश- स्विनौ धनवन्तौ चेन्द्राबृहस्पती 'युवोः' युवयोरधीनं विश्वं 'सत्यमि- त्' सत्यमेव । कुतः ? 'वां' युवयोः सत्यजगत्स्र्जनादिरूपं 'व्रतं' कर्म 'आपश्चन' सर्वदेवता अपि 'प्रमिनन्ति' जानन्ति यतः, न के- वलमहमेव प्रतिपन्न इति मन्त्रद्रष्टा द्विरूपमिन्द्रबृहस्पतिशब्दवाच्यं प- रमेश्वरं प्रत्याह ॥ ( १९) ननु न जीवो ब्रह्मणो भिद्यते चेतनत्वात्, ब्रह्मवत, प्रपञ्चो वा बाध्यो दृश्यत्वाच्छुक्तिरजतवदित्यादियुक्तिसद्भावात्कथमन्यत्र प्र- माणाभाव इत्यत आह—परस्परेति ॥ तुरेवार्थोऽप्यर्थः । तथा च वा- क्यानां परस्परं विरोधे सत्येव 'यत्र' यस्मिन्नर्थे 'तथैव युक्तता' ए- ५६

४४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १.० ] (२०) विरुद्धवत्प्रतीयन्ते आगमा यत्र वै मिथः । तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते ॥ इति च । (२१) ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि । इत्यादिवद्विरुद्धानि वचनान्यथ युक्तयः । प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ॥ कवाक्यानुसारेणैव युक्तिसिद्धताऽस्ति सोऽर्थो विज्ञेयस्स्यात् । एता वता 'अत्राक्या' श्रुतिस्मृत्यानुकूल्यहीना केवला युक्तिरपि न प्रमाणं 'इष्यते' अङ्गीक्रियते प्रामाणिकैः । शुष्कयुक्तिसिद्धार्थोऽपि न विज्ञे य इत्यर्थः । बृहतसंहितायामित्यनन्तरं न केवल युक्तिः प्रमाणमित्युक्त मिति शेषः ॥ (२०) ननु यथोदाहृतश्रुत्यादिकं सत्यत्वे प्रमाणम्, तथाऽचेतनप्र पञ्चस्य बाध्यत्वरूपे ब्रह्मानन्यत्वेऽपि 'वाचारम्भणम्' इत्यादिश्रुति स्मृतयः प्रमाणं सन्तीत्यत आह—विरुद्धवदिति ॥ पारमार्थिकविरो धे त्याज्यत्वमेव स्यात्, न तु व्याख्येयत्वमित्यतो विरुद्धवदित्युक्तम् । यदि तर्हीत्यर्थे यत्र तत्रेति निपातौ । वैशब्दः प्रसिद्धौ । दृष्टं प्रत्यक्षं अ तिबलबहुप्रमाणदर्शनं वा । तथा च ये मिथ्यात्वसत्यत्वादिरूपार्थद्वय बोधका आगमा यदि 'मिथः' परस्परं विरुद्धवत्प्रतीयन्ते । तर्हि दृ ष्टानुसारेण तेषामापाततः प्रतीतादन्योऽर्थः 'अन्ववेक्ष्यते' मुख्यवृ त्त्याऽवगम्यत इत्यर्थः । इति चेति । ब्रह्मतर्के उक्तमिति शेषः । चः पू र्वप्रमाणसमुच्चये । तथा च प्रकृते साक्षिप्रत्यक्षानुसारेण अनन्यत्वश्रु त्यादीनामन्यथा व्याख्येयत्वान्न तेऽन्यत्र प्रमाणमिति भावः ॥ (२१) स्मर्यते च प्रपञ्चमिथ्यात्ववादिश्रुत्यादेरन्यर्थवर्णनं इति भा वेनाह—ईश इति ॥ इतिशब्दः प्रत्येकमभिसम्बध्यते । एवमपिशब्दोऽ पि । अत एव द्विर्ग्रह्णमिति तत्त्वोद्योतटीकोक्तिः । इत्यादिवदितिव तिः । इत्याद्यर्थसाधकवचनयुक्तिवदित्यर्थः अत्रेशोऽप्यनीश इत्येकं मतं, जगन्मिथ्येत्यपरं, गुरुरपूज्य इत्यन्यत् । आदिशब्देनैकः चेतनः परब्रह्म भावो मोक्ष इत्यादिमतं गृह्यते। तथा चेशोऽप्यनीश इत्यादिवचनवत् 'प्रमाणानि' तथा प्रतीतानि वचनानि यतो बहुभिर्वैदिकैः प्रमाणैर्विरु द्धान्यत आभासाः आभासानीति 'वैदिकैः' वेदार्थज्ञैर्ज्ञेयानीत्यर्थः। अथे ति समुच्चये । एवमादयो युक्तयोऽपि यस्माद्वैदिकैर्बहुभिः प्रमाणैः विरु द्धास्तस्मादाभासा इति ज्ञेया इत्यर्थः। वचनापेक्षया विरोधिप्रमाणानां

[ अधि - ६. सू- १८. ] दीपिकासहितम्. ४४३ ( २२ ) वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना । अन्येषां तु विरुद्धानां विप्रलम्भोऽथवा भ्रमः ॥ इति च भागवततन्त्रे । ( २३ ) शास्त्रार्थयुक्तोऽनुभवः प्रमाणं तूत्तमं मतम् । प्राबल्यसमर्थनाय बहुभिरित्युक्तम् । निरवकाशत्वादेरप्युपलक्षकमेत त् । अवैदिकवचनापेक्षया युक्त्यपेक्षया च प्राबल्यसूचनाय बहुभिरि ति वैदिकैरिति चोक्तम् ॥ ( २२ ) यथा प्रमाणविरुद्धानां दृश्यत्वादियुक्तीनामविषयवृत्तित्वेन व्याप्तिशून्यत्वेन च आभासत्वात् सर्वथा हेयत्वम्, किं तथा वचनाना मपीत्यपेक्षायामाभासत्वमेव विभज्याह—वेदेति ॥ वेदमन्तरन्तीति वेदानुसाराणि, वेदश्च वेदानुसाराणि च वेदवेदानुसाराणीति विग्र हः । वचनेषु कार्येवेति च शेषः । तु

४४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] मध्यमं त्वागमो ज्ञेयः प्रत्यक्षमधमं स्मृतम् ॥ ( २४ ) प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु । अनुमाद्या न स्वतन्त्राः प्रमाणपदवीं ययुः ॥ इति पुरुषोत्तमतन्त्रे ॥ १८ ॥ ( २५ ) सू— ॐ ॥ युक्तेः शब्दान्तराच्च ॥ ॐ ॥ १९ ॥ साधनानां साधनत्वं यदाऽऽत्माधीनमिष्यते । तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत् ॥ केवलप्रमाणसाधनत्वेन ततोऽस्यावरत्वात् । दृष्टादृष्टसर्वविषयकत्वेन दृष्टमात्रविषयकप्रत्यक्षात्पूर्वभावित्वाच्च मध्यमत्वमिति भावः । अधमं प्रमाणं त्वसर्वविषयत्वात्प्रत्यक्षरूपानुप्रमाणं स्मृतमित्यर्थः ॥ ( २४ ) ततः किमित्यतो ‘नावाक्या युक्तिरिष्यते’ इत्युक्तं प्रपञ्चय- ति—प्रत्यक्षयोरिति ॥ अपेक्ष्यन्ते इति शेषः । आद्यशब्देनानुमानविरो- धार्थापत्त्यादिकं गृह्यते । तथा चानुप्रमाणरूपानुमाद्यास्तु यतः प्रत्यक्ष- योरागमयोर्विरोधे सति तत्रैकार्थनिश्चयाय सहायत्वेनापेक्ष्यन्ते अतः- ‘स्वतन्त्राः’ केवलाः ‘प्रमाणपदवीं’ प्रमाणभावं न ययुरतः सर्वावरा इत्यध्याहारेण योजना । अतो न केवलया दृश्यत्वादियुक्तैरसाधकत्व- मिति भावः । पुरुषोत्तमतन्त्र इत्यनन्तरं केवलयुक्तेरसाधकत्वं उक्तमि- ति शेषः । अतो न चान्यत्र प्रमाणमस्तीत्युक्तं युक्तमिति भावः ॥ ( २५ ) ननु साधनान्तरमभ्युपगम्य तस्येश्वराधीनत्वकथनापेक्षया साधनाभावकथनमेव वरं, साधनादिशून्यस्य सृष्ट्यादिकर्तृत्वमभ्युपग- मे महिमाधिक्यलाभादित्याशङ्कां परिहरन्सूत्रमुपन्यस्यति—युक्तेरि- ति ॥ अत्र नेत्यस्यानुवृत्त्या न महिमाधिक्यलाभाय भगवतः साधना- न्तरविधुरत्वमुररीकर्तव्यमिति साध्यलाभात् तत्रोपपत्तित्वेन युक्तेरि- ति या घटनालक्षणा साधनान्तरेण सृष्टेरपि महिमाविरोधितोक्ता तस्या सिद्धिपरिहारायागमसिद्धतामाह—साधनानामिति । ‘साधनत्वं’ कार्य- जननसामर्थ्यं यदाऽऽत्माधीनं स्वाधीनं ‘इष्यते’ अङ्गीक्रियते तदा ‘सा- धनसम्पत्तिः’ ईशितव्यसिद्धये साधनसम्पादनं आत्मनः ‘ऐश्वर्यद्योति- का’ तज्ज्ञापिका तदविरोधिनीत्यर्थः । इत्यादिवाक्यात्साधनान्तरेण सृ- ष्टिरपीश्वरस्य ‘युक्ता’ महिमाविरोधिनीत्यर्थः । इति ज्ञायत इति शेषः । आदिशब्देनैवंजातीयकानि वचनानि ग्राह्याणि । लोकप्रसिद्धेरपि ग्रा- हकमेतत् । इत्यादीति लुप्तविभक्तिकं शक्तोऽपि इति विलक्षणशब्दादि

[ अधि - ६. सू - २१० ] दीपिकासहितम्. ४४५ इत्यादेस्साधनान्तरेण सृष्टिर्युक्ता । 'अद्भ्यस्सम्भूतो हिरण्यगर्भ इत्यष्टौ' (महाना.१-११.) इत्यादिशब्दान्त- राच्च ॥ १९ ॥ (२६) सू—ॐ ॥ पटवच्च ॥ ॐ ॥ २० ॥ साधनान्तरेण हि पटादिसृष्टिर्दृष्टा ॥ २० ॥ (२७) सू—ॐ ॥ यथा प्राणादिः ॐ ॥ २१ ॥ ति सुधायामुक्तिः । यद्वा—अन्यशब्दः शब्दान्तरं 'अद्भ्यः सम्भूतः पृथिव्यै' (तै.आ.३-१३.) इति प्रागुदाहृतश्रुत्यपेक्षया अस्या अन्यत्वात्। अत एव सूत्रे भाष्ये च प्राचीनश्रुतिसङ्ग्रहार्थे शब्दान्तरशब्दः । न केव- लं युक्तेर्युक्तत्वेनागमसिद्धत्वात्, किन्तु 'अद्भ्यस्सम्भूतो हिरण्यगर्भः' इत्यादिशब्दान्तरादपीति चशब्दार्थः । शब्दान्तरबोध्यश्रुत्योः समुच्चय एव चशब्दः । आदिशब्देनैवंजातीयकवाक्यं गृह्यते । नारायpatha? के श्रुतमिदं—हिरण्यगर्भः 'अद्भ्यः' अद्भिः अवाद्युपलक्षितपञ्चमहाभू- तैः 'सम्भूतः' उत्पन्नः 'इति' एवं 'अष्टौ' इन्द्रादिलोकपालाश्च सम्भू- ता इति तत्त्वप्रदीपदिशाश्रुत्यर्थः । तैत्तिरीये 'अष्टौ पुत्रासोऽदितेः' (तै.आ.१-१३.) इत्युक्त्वा 'मित्रश्च वरुणश्च धाता चार्यमा चांशुश्च भग श्चेन्द्रश्च विवस्वांश्च' (तै.आ.१-१३.) इति ये अष्टावन्ये गृहीतास्ते वाऽत्र ग्राह्याः । अनेन—न विष्णोर्महिमाधिक्यलाभाय प्रलये अवरसाधना- सत्त्वमुपेयम्, किन्तु तत्सत्त्वमेव । कुतः ? साधनाऽसत्त्वमन्तरा लीलया दण्डमवष्टभ्य गमनवत्साधनान्तरेण सृष्टेरपि युक्तेर्युक्तत्वाद्भगवन्महि- माविरोधित्वेनागमसिद्धत्वात् 'अद्भ्यः' इत्यादिशब्दात् शब्दान्तराच्च तत्सत्त्वपक्षाग्रह इति सूत्रार्थ उक्तो भवति ॥ (२६) न केवलं श्रुतिसिद्धत्वात्, किन्तु साधनसत्त्वस्य युक्तिसि- द्धत्वाच्च तत्राग्रह इत्याह सूत्रकृत्—पटवच्चेति ॥ अत्र पटपदं सम्प्रति- पन्नकार्यपरं सत्तत्सृष्टिलक्षकमित्याशयेन सूत्रं व्याचष्टे-साधनान्तरेणे- ति । कर्तृव्यतिरिक्तसाधनेनेत्यर्थः । दृष्टेत्यनेन दृष्टान्ते हेतुसाध्यसम्प- त्पत्तिरुक्ता । अनेन-न केवलं श्रुतेः, किन्तु विप्रतिपन्ना सृष्टिः कर्तृव्य- तिरिक्तसाधनसाध्या सृष्टित्वात्पटादिसृष्टिवदित्यनुमानाच्चावरस्य स- त्त्वं सिद्ध्यतीति सूत्रार्थ उक्तो भवति ॥ (२७) ननु तर्हि साध्ये स्वतन्त्रपदप्रवेशेन कर्तृव्यतिरिक्तस्वतन्त्र- साधनसिद्धिरपि स्यादित्याशङ्कां परिहरन्सूत्रमुपन्यस्य व्याचष्टे—य-

४४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] तच्च साधनजातं तेनानुप्रविष्टमेव यथा शरीरेन्द्रियादि । ( २८ ) प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः। क्षोभयामास भगवान् सृष्ट्यर्थं जगतः प्रभुः ॥ इति कौर्मे ॥ २१ ॥ —: ✤ ✤ :— ७. अधिकरणम् ॥ ( १ ) जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तराद्विराक्रियते— थेति ॥ तच्चेति। प्रलये सदपीत्यर्थः। यत इत्यर्थे वा चशब्दः। ‘साधन जातं’ साधनसमूहः ‘तेन’ भगवता। न त्वननुप्रविष्टम् ‘यः प्राणे तिष्ठ न्’ (बृ. ५-७-१६.) इत्यादिश्रुतेरित्येवकारार्थः। अतो न स्वतन्त्रमिति वा क्यशेषः। अन्यथाऽनुप्रवेशवैयर्थ्यादिति भावः। प्राणपदस्य वाय्वर्थ तया प्रसिद्धत्वादादिपदार्थमाह—शरीरेति। आदिशब्देन प्राणो गृ ह्यते। सूत्रे प्राणस्य स्वशब्देन ग्रहणेऽपि तस्य ज्ञानादिकार्यसाधनत्वे नासिद्धत्वात्, सम्प्रतिपन्नसाधनस्यैवेह दृष्टान्तत्वेन ग्राह्यत्वात्, शरीरे न्द्रिययोश्च तथात्वेन सिद्धत्वात् इन्द्रियाणां करणत्वेन तद्विवक्षया भाष्ये शरीरेन्द्रिययोः स्वशब्देन ग्रहणं कृतमिति ध्येयम्। अनेन— विप्रतिपन्नं साधनजातं न स्वतन्त्रं, प्रेरणार्थमीश्वरेणानुप्रविष्टत्वात्, यथा शरीरेन्द्रियप्राणादिरिति सूत्रार्थ उक्तो भवति। पूर्ववादुपन्यस्ता नुमानं तु प्रबळैतदनुमानविरुद्धत्वान्न साधकमिति भावः ॥ ( २७ ) साधनानां भगवदनुप्रविष्टत्वमेव कुत इत्यत आह—प्रकृति मिति ॥ चः समुच्चये। ‘प्रभुः’ समर्थः। ‘पुरुषोत्तमः’ भगवान् ‘प्र कृतिं’ प्रकृत्यवन्तराभिमानिनीं सरस्वतीं ‘पुरुषं’ चतुर्मुखं, यद्वा— ‘प्रकृतिं’ जडात्मिकां ‘पुरुषं’ जीवम्। अथ वा—स्त्रीपुरुषाख्यमिथु नं प्रविश्यैव जगतः सृष्ट्यर्थं तौ ‘क्षोभयामास’ सृष्टावुन्मुखीचकारे त्यर्थः। इति कौर्मे उक्तत्वादिति शेषः। अस्य साधनजातमिति पूर्वे वाक्येनान्वयः ॥ ६ ॥ इति आरम्भणाधिकरणम् ॥ —: ✤ :— ७. अधिकरणम् ॥ ( १ ) एतदधिकरणार्थमाह—जीवेति ॥ ननु समयपादे ‘अन्य थाऽनुमितौ च’ इत्यत्र जीवानामेव जगत्कर्तृत्वमिति सिद्धान्तस्य नि