भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

Look at : "श्रुतावे" then 'व' with 'ो' = 'वो'! Wait, why did it look like 'धो'? Because the loop of 'व' with the vertical bar and 'ो' can look slightly like 'धो', or the type had a slight mark. But the word is clearly: "श्रुतावेवोक्तेरिति यावत्" (श्रुतौ एव उक्तेः = श्रुतावेवोक्तेः)! Yes! "श्रुतौ एव उक्तेः इति यावत्" = श्रुतावेवोक्तेरिति यावत्! Wait, look at in the image: Is it 'धो' or 'वो'? Look at 'व' in "यावत्": 'व' has a round belly on the left of the stem. Now look at "श्रुतावेवोक्तेरिति": the belly is round, but at the top there is a tiny speck of ink. So it is श्रुतावेवोक्तेरिति (or श्रुतावेधोक्तेरिति if misprinted, but standardly transcribed as श्रुतावेवोक्तेरिति, let's keep it accurate to reading).

Now let's check : "द्धत्वादित्येवशब्दाथैः । एवेत्यनेन तुशब्दार्थे उक्तो भवति । श्रुत्य

[ अधि- ८. सू- २८. ] दीपिकासहितम्. ४५७ ( ३ ) यद्वाक्योक्तं न तद्युक्तिर्विरोद्धुं शक्नुयात्क्वचित् । विरोधे वाक्ययोः कापि किञ्चित्त्साहाय्यकारणम् ॥ ऽपीत्युक्तं भवति । ईश्वरे जीववच्छब्दमूलत्वाख्यो विशेषोऽसिद्ध इत्य- तोऽप्याह—शब्दमूलत्वादिति । शब्दमूलत्वस्य ‘ नावेदवित् ’ इत्यादि- शब्दमूलत्वादित्यर्थः । यद्वा—श्रुतेरित्यस्यावृत्त्याऽत्र सम्बन्धः । तथा च शब्दमूलत्वस्य श्रुतेरित्यर्थः । अस्त्वीश्वरेऽयं विशेषः, ततः किमि- त्यतस्तथा च नेश्वरे युक्तिविरोधोऽवतरतीत्याह—नेति । तत्रेति शे- षः । तथा च ‘ तत्र ’ परमेश्वरे न जीव इव कृत्स्नप्रसक्त्यादिकेवलयु- क्तिविरोधोऽवतरतीत्यर्थः । युक्त्यविषयत्वात्, यथा प्रत्यक्षाविषये प्र- त्यक्षविरोध इति भावः । यद्यपि न विरोध इति प्रागुक्तत्त्वादिह पुनर्न वाच्यम्, तेनैवास्याप्यन्वयसम्भवात् । तथाऽपि तत्र लोके विरुद्धानां परमेश्वरे विरोधो नास्ति, तथा श्रुतेरित्युकम् । अत्र तु युक्तिविरोधो नास्ति, तत्परिहारोपायस्य शब्दमूलत्वाख्यस्य विशेषस्य सत्त्वादित्यु- च्यते, अतो नावक्तव्यता । अतएव तत्र विरोध इत्येवोक्तम्, अत्र तु युक्तिविरोध इति ज्ञातव्यम् । अनेन—ईश्वरकर्तृत्वपक्षे कृत्स्नप्रसक्त्या- दियुक्तिविरोधः न, कुतो ? ‘ योऽसौ ’ इति निर्दोषभूतावेव परमेश्वरे लोकविरुद्धस्यापि भिन्नांशरहितस्याप्येकदेशेन प्रवृत्तिरूपस्य स्वरू- पांशस्य बाहुल्येऽपि भेदाभावस्यांशतः कार्यकारणेऽपि निरवयवत्व- स्य प्राकृतदेहादिरहितत्वेऽपि कर्तृत्वस्याविरुद्धतयाऽवस्थानोक्ते- र्न जीवपक्ष इव सम्भावितदोषः प्रत्यक्षासिद्धत्वात् । श्रुत्युक्तमपि विरुद्धधर्मजातं युक्तिविरुद्धत्वात्कथमीशेऽङ्गीकर्तुं शक्यम्, अन्यथा जीवेऽपि प्रत्यक्षबलादङ्गीकार्यं स्यादविशेषादिति चेत्—न अत्र ‘ श- ब्दमूलत्वात् ’ युक्तिविरोधपरिहारोपयोगिनः शब्दमूलत्वस्य शब्दैक- समधिगम्यत्वस्यात्र परमेश्वरे सत्त्वादविशेषासिद्धेः । न च तदसि- द्धिः तस्य शब्दमूलत्वस्य ‘ शब्दमूलत्वात् ’ ‘ नावेदवित् ’ इत्यादिश- ब्दसिद्धत्वादिति सूत्रार्थ उक्तो भवति ॥ ( ३ ) न केवलं शब्दैकसमधिगम्यत्वेन युक्त्यविषयत्वादीश्वरे यु- क्तिविरोधाप्रसक्तिः किन्तु शब्दैकसमधिगम्ये युक्तिविरोधो नास्तीति स्मृत्युक्तत्वाच्चेत्याह—यदिति ॥ ‘ युक्तिः ’ शुष्कानुमा ‘ वाक्योक्तं ’ आगमेनोक्तं ‘ यत् ’ प्रमेयम् न तत् ‘ विरोद्धुं ’ निषेद्धुं शक्नुयादित्यर्थः किं तर्ह्यस्याः कृत्यमित्यत आह—विरोध इति । ‘क्वापि ’ क्वचिद्विष- ५८

इति पुरुषोत्तमतन्त्रे ॥ २८ ॥ (४) सू—ॐ ॥ आत्मनि चैवं विचित्राश्च हि ॥ ॐ ॥ २९ ॥ परमात्मनो विचित्राश्च शक्तयस्सन्ति नान्येषाम् । (५) विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृ [ शस्स्युः । एको वशी सर्वभूतान्तरात्मा सर्वान् देवानेक एवानु [ विष्टः ॥ ( ) ये वाक्ययोः परस्परविरोधे प्रतीते सति एकवाक्यानुकूला युक्तिः 'किञ्चित् साहाय्यकारणं' आगमेनार्थसाधने तस्य विरोधपरिहारमु खेन किञ्चित् साहाय्यकृत् तदनुग्राहिका तद्विषयव्यवस्थापिकेत्यर्थः । इतीत्यनन्तरमुक्तमिति तन्त्र इत्यनन्तरं ग्रन्थ इति च शेषः। अतः शब्द मूलत्वादित्यादिनाऽन्वयः ॥ (४) जीवपक्ष एव युक्तिविरोधो, नेश्वरपक्ष इत्येतमर्थं युक्त्यन्त रेण प्रतिपादयत्सूत्रमुपन्यस्य व्याचष्टे—आत्मनीति ॥ आत्मनीति स प्तमीबोधिताधिकरणत्वस्येहानुपयुक्तत्वात्तां विपरिणम्य योजयति-- परमात्मन इति । चशब्दस्य परमात्मन इत्यनेन शक्तय इत्यनेन च स म्बन्धः । तत्राद्यस्सौत्राद्यचशब्दानुवादरूपोऽवधारणे । अत एव त द्व्यावर्त्यमाह—नान्येषामिति । द्वितीयो न केवलं शब्दमूलत्वादविरो धः, किन्त्वीश्वरे यतो विचित्रशक्तयश्च सन्तीति समुच्चयार्थकद्विती यचशब्दानुवादः । शक्तय इत्यध्याहृतं पदम् । अस्यातोऽपि न युक्ति विरोध इति पूर्वेणान्वयः ॥ (५) ईश्वरस्यैव विचित्रशक्तित्वं नान्येषामित्येतत्कुत इत्यतो ही ति सूचितां श्रुतिं दर्शयति—विचित्रशक्तिरिति ॥ चोऽवधारणे । तथा च ‘पुराणः’ पुरातनः ‘पुरुषो’ भगवान्नेव । विचित्रशक्तिरेवेत्यस्य व्यावर्त्यमाह—न चेति । ‘अन्येषां’ जीवानां ‘तादृशः’ तादृश्यः परमा त्मशक्तिसमाः अनेन सौत्रैवंशब्दस्य एवंविधा अन्यनिरपेक्षा एवमेवा नुक्तविषयाश्चेत्यर्थ उक्तो भवति तथैव तत्त्वप्रदीपोक्तेः । अर्थान्तरं तु शब्दमूलत्वाच्च न युक्तिविरोध इति भाष्येण एवं एवंविधा युक्ति विरोधनिरासका इति टीकायां च सूचितम् । ‘एकः’ प्रधानः सर्वे वशे यस्यासौ वशी ‘सर्वभूतान्तरात्मा’ ब्रह्मादिसर्वचेतनानां भूम्या दिसर्वजडानामन्तर्नियामकः सर्वान् देवान् ‘एक एव’ अभिन्नरूपेण

[ अधि - ८. सू - ३०. ] दीपिकासहितम्. ४५९ इति श्वेताश्वतरश्रुतिः ॥ २९ ॥ ( ६) सू—ॐ ॥ स्वपक्षदोषाच्च ॥ ॐ ३० ॥ ये दोषा इतरत्रापि ते गुणाः परमे मताः । व 'अनुप्रविष्टः' प्रेरणायेत्यर्थः । अन्यादृष्टविचित्रशक्तिसम्भावनाय वाक्यशेषोपन्यासः । श्रुतिर्यत इति शेषः । अस्यं परमात्मन इति पू- र्वेणान्वयः । शक्तेः विचित्रत्वं तु भिन्नावयवशून्यानां जीवानामीश्वर- स्य चैकदेशेन प्रवृत्त्यादिरूपाघटितविचित्रकार्यकरत्वम् । तथा श्वेता- श्वतरेऽन्यत्र वाऽनुक्तकार्यविषयकत्वमित्यादितत्त्वप्रदीपोक्तं द्रष्टव्यम् । सूत्रार्थस्तु—स्पष्टः ॥ ( ६) ननु यथा विष्णोः शब्दमूलत्वात् विचित्रशक्तित्वाच्च न त- त्र युक्तिविरोधो दोष इत्युच्यते तथा जीवेऽपि किं नोच्यते तत्रापि चे-

४६० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] न दोषः परमे कश्चिद्गुणा एव निरन्तराः ॥ इतिवचनाज्जीवपक्ष एव दोषो न परपक्षे । ( ७ ) ' अथ यस्स दोषः साञ्जनः सजनिः स जीवोऽथ यः स निर्दोषो निष्कलः सगुणः परः परमात्मा ' इति का- षायणश्रुतिः ॥ ३० ॥ ( ८ ) सू—ॐ ॥ सर्वोपेता च तद्दर्शनात् ॥ ॐ ॥ ३१ ॥ प्यन्तीयत आह—निरन्तरा इति । तथा चेश्वरवत् तदभिन्नगुणेष्व- पि न दोषनाशौ शङ्कयाविति भावः । न च भगवतो निर्दोषत्वे निर्भेद- गुणत्वे च प्रमाणाभाव इति वाच्यम् । 'निरनिष्टो निरवद्यः' ( ) 'नेह नानाऽस्ति किञ्चन' (कठ. २-४-११.) 'एवं धर्मान् पृथक्पश्यन्' (कठ. ४ - १४. ) इत्यादिश्रुतिसद्भावादित्याह—यतो निरन्तरा गुणा विष्णौ मता प्रमिता इति श्रुत्यर्थः । 'ये दोषाः' इत्येतत् श्रुतिरिति भाति । स्मृतिरित्यपि केचित् । अत एव भाष्यटीकयोर्वचनशब्दप्रयोगः ॥ ( ७ ) ननु ईश्वरवत् जीवस्यापि निर्दोषत्वात्तत्र प्रतीतदोषोऽप्य- न्यथा नीयतामित्याशङ्कां 'स्वपक्षे' जीवेशयोः सदोषत्वनिर्दोषत्वप- क्षे श्रुतिविरोधदोषाच्च स नेति सूत्रस्य वृत्त्यन्तरमाश्रित्य परिहरति- अथेति ॥ प्रकरणान्तरारम्भेऽथशब्दः । यो दुःखालपज्ञत्वादिना रागा- दिना वा सदोषः 'साञ्जनः' पुण्यपापादिसङ्गी तत्फलभोक्तेति याव- त् । 'सजनिः' उत्पत्तियुक्त स जीवः । यो निर्दोषो 'निष्कलो' भिन्नां- शशून्यः षोडशकलाशून्यो वा 'सगुणः' ज्ञानानन्दादिगुणयुक्त 'परः' उत्तमः स परमात्मेति वा, यो जीवः सः उक्तगुणकः, यः परमात्मा स एवमादिगुण इति वा श्रुत्यर्थः । श्रुतिरित्यनन्तरं यतः इति शेषः । अस्य जीवपक्षे दोष एव न परपक्ष इति पूर्वेणान्वयः । अनेन—सूत्रे च शब्दस्योभयत्रान्वयः । युक्तिविरोधस्येति योग्यतयाऽन्वेति । दोषपदं च भावप्रधानं तदुक्तिलक्षकम् । तथा च कृत्स्नप्रसक्त्यादियुक्तिविरो- धस्य जीवपक्षे दोषत्वस्यैवोक्तत्वात् नासौ तत्रादोषतां नेतव्यः । त- था जीवपक्ष एवास्य दोषत्ववचनात् न परमात्मपक्षेऽयं दोषः । एवं जीवस्य निर्दोषत्वपक्षे जीवेशयोः सदोषत्वनिर्दोषत्ववचनविरोधाख्य दोषात्स न युक्त इति त्रेधा सूत्रार्थ उक्तो भवति ॥ ( ८ ) ननु सा शक्तिर्यद्विषयिणी न भवति, यदा च नश्यति, तदा तत्र विरोधनियमान्न तया तत्परिहारो युक्त इत्याशङ्कां परिहरन्सूत्रमु-

[ अधि - ८. सू - ३२. ] दीपिकासहितम्. ४६१ सर्वैर्युक्ता शक्तिभिर्देवता सा परेति यां प्राहुरजस्रश[क्तिम् । नित्यानन्दा नित्यरूपाऽजरा च या शाश्वतात्मेति च [ यां वदन्ति ॥ इति चतुर्वेदशिखायाम् । अतो न केवलं विचित्रशक्तिः, किन्तु सर्वशक्तिरेव ॥ ३१ ॥ ( ९ ) सू- ॐ ॥ विकरणत्वान्नेति चेत्तदुक्तम् ॥ ॐ ॥ ३२ ॥ न च करणाभावादनुपपत्तिरिति युक्तम् । पन्यस्य व्याचष्टे—सर्वैति ॥ चतुर्वेदशिखायामुक्तमिति शेषः । ततः किमित्यत आह—अत इति । उक्तत्वादित्यर्थः । अनेन तद्दर्शनादिति हेत्वंशस्य तस्यां श्रुतौ तथोक्तत्वादित्यर्थ उक्तो भवति । न केवल मित्यनेन सूत्रस्थशब्दः समुच्चयार्थतया व्याख्यातः । सर्वशक्तिरिति । सर्वदा सर्वविषयीणी सर्वकालिका शक्तिर्यस्याः सा तथोक्ता । अनेन सर्वोपेतेति साध्यभागो व्याकृतो भवति । एवेति चशब्दस्यार्थान्तरो क्तिः।सा परमात्माख्यदेवतेति शेषः । न त्वसर्वशक्तिर्नापि कदाचिद्भ्रष्टश क्तिरित्यार्थः । अतः शक्त्या युक्तित्त्वविरोधपरिहारो युक्त इति भा वः । स्पष्टः सूत्रार्थः । स्त्रीलिङ्गप्रयोगस्तु श्रुत्यनुसारेण । कवयो ' या मजस्रशक्तिं ' नित्यशक्तियुतां प्राहुः । यां च 'शाश्वतात्मेति' निर्वि कारस्वरूपिणीति वदन्ति । या च 'नित्यानन्दा' बहुव्रीहिरियम् । 'नि त्यरूपा' नित्याऽऽकृतिरित्यपि तद्वदेव । न विद्यते जरा यस्याः सा त थोक्ता ' सा परा देवता' परमात्माख्या देवता, सा ' सर्वैः शक्तिभिः' लिङ्गव्यत्ययः । सर्वविषयीणिभिः सार्वकालिकाभिः शक्तिभिर्युक्तेति श्रुत्यर्थः विषयबाहुल्याच्छक्तिभिरिति बहुवचनम् ॥ ( ९ ) विष्णोर्जगत्कारणत्वमाक्षिप्य समादधत्सूत्रमुपन्यस्य व्या चष्टे—विकरणत्वादिति ॥ न चेत्यारभ्य युक्तमित्यन्तेन आक्षेपांशो वि वृतः । चः समुच्चये, एतच्छङ्कापरिहारसमुच्चितस्यैवोक्तन्यायस्य सा ध्यसाधकत्वात् । ईश्वरस्य करणाभावादित्यनेन विकरणत्वादित्यस्य विगतं करणं यस्मादिति विग्रहेण फलितार्थ उक्तो भवति । करणमि न्द्रियं करादि । अनुपपत्तिः । जगत्कर्तृत्वस्येति । अनेन नेत्यस्य सा ध्यसमर्पकस्य पूर्वपक्षांशे न च युक्तमित्यनेन सिद्धान्तांशे च आवृत्त्या ऽन्वयः सूचितः ॥

(१०) अपाणिपादो जवनो गृहीता पश्यत्यचक्षुस्स शृणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरु [ षं महान्तम् ॥ (श्वे. ३-१९.) न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिक [ श्च दृश्यते । (१०) कुतो न युक्तमित्यतस्तत्र हेतुत्वेन प्रवृत्तस्य यतस्तदुक्तमि त्यस्य परोक्तहेतोरप्रयोजकत्वमसिद्धिं च प्रदर्शयतो यतस्तस्यां श्रु तौ पाण्यादिविरहिणोऽपि हरेर्ग्रहणादिकमुक्त्वा ‘तस्य’ करणराहि त्यवचनस्य ‘तत्’ अप्राकृतविषयत्वं ‘उक्तं’ उपपादितं चेत्यर्थमभि प्रेत्य ननु साक्षादिममर्थं न काऽपि श्रुतिर्वक्ति, नाप्युपपादयति तत्क थमुच्यते तदुक्तमितीत्यसिद्धिशङ्कापरिहाराय सूत्रकृदभिप्रेताः श्रुती रुदाहरति-अपाणिपाद इति ॥ अपाणिपाद् इत्यारभ्य महान्तमित्यन्तमे कं वाक्यम् । ‘न तस्य’ इत्यन्यत् । ‘न तत्समः’ इत्यपरम् । ‘पराऽ स्ये’ इति इतरत् । वाक्यचतुष्टयं श्वेताश्वतरश्रुतिगतं ‘पराऽस्य’ इत्या थर्वणेऽपि श्रुतम् । आदिशब्देन एतज्जातीयकं शाखान्तरवाक्यं गृह्य ते । श्रुतिभ्य इति पञ्चमी तृतीयार्थे । तदुक्तमिति सौत्रपदमत्र सम्ब ध्यते । यत इति शेषः । अस्यातो न च युक्तमिति पूर्वेणान्वयः । तथा च ‘अपाणिपादः’ इति श्रुतौ पाण्यादिविरहिणोऽपि हरेर्ग्रहणाद्युक्त्या ऽर्थादप्राकृतपाणिपादादेरुक्तत्वात् ‘न तस्य कार्यम्’ इति श्रुत्या च पाण्यादिराहित्यस्य प्राकृतविषयत्वेनोपपादितत्वात् ‘न तत्समः’ इति वाक्येऽपि सर्वोत्तमत्वोक्त्या प्राकृतपाण्यादिरहितत्वस्योपपादितत्वा त् ‘पराऽस्य’ इत्यत्रापि परमशक्तित्वोक्त्याऽस्योपपादितत्वान्न तदु क्त्यभावो, नापि तदुपपादनाभाव इति भावः । सूत्रार्थस्तु स्पष्टः । श्रु तौ—स भगवान् ‘अपाणिपादः’ न विद्यते प्राकृतं पाणिपादं यस्य स तथोक्त इति प्राकृतभिन्नाप्राकृतपाण्यादिमानिति च त्रेधा व्याख्ये यः । एवमचक्षुरित्याद्यपि व्याख्येयम् । अत एव तत्तदिन्द्रियोचितक्रि याकर्तृत्वमाह—जवन इत्यादिना । अत्रापाणिर्गृहीता अपादो ‘जव नो’ वेगेनागन्ता अचक्षुः पश्यति अकर्णः शृणोति इति योजना । स इति द्विर्ग्रहणात्स इत्यस्य सर्वत्र सम्बन्धः सूचितः । ‘वेद्यं’ ज्ञातव्यं सर्वं भूतं भवत् भविष्यच्च ‘वेत्ति’ जानाति । ‘तस्य’ हरेः कश्चन को ऽपि ‘वेत्ता’ ज्ञाता नास्तीत्यर्थः । नन्वन्यत्रादृष्टमपाण्यादेः गृहीतृत्वा

[ अधि - ९. सू - ३३. ] दीपिकासाहितम्. ४६३ पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबल- [ क्रिया च ॥ ( श्वे. ६-८. ) इत्यादिश्रुतिभ्यः । ( ११ ) सर्वोपेता चेति सामान्यपरिहारेऽपि विशेषयुक्त्यर्थे पु- नराशङ्का ॥ ३२ ॥ ९. अधिकरणम् ॥ ( १ ) यत्प्रयोजनार्थं सृष्ट्यादिः तदूनत्वादपूर्णता इति । दिकं कथमीश्वरे घटते इत्यत आह—तमिति । ‘तं’ उक्तगुणं ‘अ- ग्र्यं’ सर्वश्रेष्ठं महान्तं पुरुषमाहुः कवयः अत उक्तं युक्तमित्यन्वयः । ‘तस्य’ हरेः ‘कार्यं’ प्रकृतिकार्यं ‘करणं’ पाण्यादीन्द्रियं नास्त्येवे- त्यर्थः । यद्वा—कार्यं प्राकृतं ग्रहणादिकं तथाविधं कारणं च नास्ती- त्यर्थः । ‘न तत्समश्च’ इत्यत्राद्यश्चशब्दोऽवधारणे अन्यस्तुशब्दार्थे । तथा च भगवत्सम एव न दृश्यते अधिकस्तु कुतः स्यादित्यर्थः । ‘अ- स्य’ हरेः शक्तिः ‘परा’ उत्कृष्टा ‘विविधा’ विचित्रा ‘स्वाभावि- की’ यावद्द्रव्यभाविनीति तथैव सुधोक्तेः । ज्ञानं च बलं च क्रिया च एतद्रूपेति च श्रूयत इत्यर्थः । यद्वा—अस्य ‘विविधा’ सर्वविषयी- णी परा च शक्तिः । श्रूयते ज्ञानं बलं क्रिया च श्रूयत इत्यर्थः । अस्येति भेदोक्तिस्तु विशेषबलाद्युज्यते ॥ ( ११ ) ननु ‘सर्वोपेता’ इति सूत्र एव विचित्राशेषशक्तिबलेन नि- खिलविरोधानां परिहृतत्वात्कथं पुनरधिकरणत्वादिति शङ्काऽवकाश इ- त्यत आह—सर्वेति ॥ सूत्रेणेति शेषः । सामान्येति । अप्यर्थेऽपीत्या- द्यर्थे । साधारण्येन सर्वविरोधानां परिहारे कृतेऽपीत्यर्थः । विशेषेति । विशेषतो ऽसाधारण्येन अस्यैव चोद्यस्य परिहारानुकूल युक्तिबोध- नेच्छया पुनः शङ्का दर्शितेत्यर्थः । अतएव सिद्धान्ते प्राकृतशरीराभा- वेऽपि चिदानन्दाद्यात्मकविग्रहवत्त्वादिरूपा, ‘अपाणिपादः’ इत्यादि प्रमाणविशेषरूपा वा शङ्कापरिहारोपायभूता विशेषयुक्तिः सूत्रकृता तदुक्तमित्यनेनोक्तेति भावः ॥ ८ ॥ इति श्रुतेस्तु शब्दमूलत्वादधिकरणम् ॥ :*:- ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ईश्वरस्य जगत्कर्तृत्वे निष्फलत्वादियुक्तिवि-

रोधः परिह्रियते । सयुक्तिकं पूर्वपक्षयति—यदिति ॥ अत्र यच्छब्दो यद्यर्थे । यः पर इतिवत् किंशब्दार्थे च । तदूनत्वादिति तच्छब्दोऽपि बुद्ध्या विविक्तः तर्हीत्यर्थे भवति । विष्णोः स्यादिति शेषः । तथा च यदि ‘प्रयोजनार्थे’ तदुद्देशेन विष्णोः ‘सृष्ट्यादिः’ जगत्सर्जनाविषय- क प्रवृत्तिरङ्गीकृता स्यात्, तर्हि ‘तदूनत्वात्’ सृष्ट्यादेः पूर्वं तेन भा- विना प्रयोजनेन ‘ऊनत्वात्’ तद्रहितत्वात् ‘अपूर्णता’ अनाप्तकाम- त्वं स्यात्, ततश्च अपूर्णता अपालकत्वं च स्यात् । पालकत्वोपलक्षितं सर्वकर्तृत्वं न स्याद्यज्ञदत्तवदित्येका योजना । एवं सृष्ट्यादीरीश्वरस्य यत्प्रयोजनार्थं किं प्रयोजनार्थं, न किञ्चित्प्रयोजनायेति यदि, तर्हि ‘तदू- नत्वात्’ प्रवृत्तिमात्रेणैवोनत्वात् ‘अपूर्णता’ न सर्वकर्तृत्वं स्यात् इत्य- परा योजना । तथा चोभयथाऽपि प्रवृत्त्ययोगात् प्रकारान्तरस्य चा- भावान्न विष्णोर्जगत्कर्तृत्वं युक्तमिति भावः ॥ ( २ ) एवं प्राप्ते फलानुद्देशेनैव प्रवृत्तिरिति द्वितीयपक्षावलम्बनेन सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ इत्यादिना वाक्येन कृ- तकृत्यत्वावगमान् न प्रयोजनाय सृष्टिः परमेश्वरस्येति योजना । इत्या- दिनेत्यनेनासिद्धिः परिहृता । कृतकृत्यत्वादित्यनेन प्रयोजनवत्त्वादित्य- स्य नेत्यादिना च न प्रयोजनवत्त्वादित्यस्य विभक्तिविपरिणामेन व्या- ख्यानं कृतं भवति । परमेश्वरस्येत्यनुकर्षसिद्धत्वात् अनुक्तिः । आ- दिशब्देन ‘निरनिष्टः सत्यकामः’ इत्यादिकं गृह्यते । न च श्रुतेरेव सा- क्षात्प्राप्तव्यत्वापरपर्यायकृतकृत्यत्वसाधकत्वे टीकायां पूर्णानन्दत्वेन तत्साधनानुपपत्तिरिति वाच्यम् । पूर्णानन्दत्वेनेति टीकायाः पूर्णान- न्दत्वप्रतिपादकवाक्येनेत्यर्थाश्रयणात् । अतएव सुधायां—न कर्तृत्वे न प्रयोजनवत्त्वं साध्यं, कृतकृत्यत्वेन प्रयोजनाभावस्य निश्चितत्वात् । न चासिद्धो हेतुः । ‘अथैष एव परम आनन्दः’ ( बृ. ६-३-३३. ) ‘निरनिष्टो निरवद्यः’ ( ) इति श्रुतेरिति । श्रुतेरेव साक्षा- त्कृतकृत्यत्वबोधकतोच्यते । यद्वा—टीकानुसारात् इत्यादिना सिद्धेन पूर्णानन्दत्वेन कृतकृत्यत्वावगमादिति भाष्यान्वयः । अस्मिन् पक्षे सुधा

[ अधि - ९. सू - ३४. ] दीपिकासहितम्. ४६५ ( ३ ) किन्तु - सू - ॐ ॥ लोकवत्तु लीलाकैवल्यम् ॥ ॐ ॥ ३४ ॥ यथा लोके मत्तस्य सुखोद्रेकादेव नृत्तगानादिली स्थहेतुशब्दो हेतुसाधकहेतुपरो द्रष्टव्यः । सौत्रपदं च प्रयोजनवत्त्वेन प्रयोजनवत्त्वादित्यावृत्त्या योज्यम् । सृष्ट्यादिरिति प्रकृतेऽपि पुनः सृष्टि रित्युक्तिः सृष्ट्यादिष्वेकैकमुखेनाप्याक्षेपपरिहारौ कर्तव्यौ इत्याशये न । श्रुतावेवेत्यर्थान्तरारम्भे । तथा च 'एषः' भगवानेव 'परमानन्दः' पूर्णानन्द इत्यर्थः । 'परम आनन्दः' (बृ.६-३-३३.) इति भिन्नपदत्वेन पाठेऽप्ययमेवार्थो बोध्यः । न प्रयोजनाय सृष्टिरित्यनन्तरं यत इति शे षः नेति चावर्तते। तथा च यतः परमेश्वरस्य न प्रयोजनाय न प्रयोज नोद्देशेन सृष्टिः सृष्ट्यादिप्रवृत्तिः अतो नापूर्णत्वादिदोषः अतएव न त स्य जगत्कर्तृत्वायोगः तथाऽऽप्तकामत्वेन दयासाध्यफलाभावात् न प रप्रयोजनार्थमपि तस्य सृष्ट्यादिप्रवृत्तिर्युज्यते इति योजना ॥ ( ३ ) ननु नेश्वरः फलानुद्देशेन प्रवृत्तिमान्, चेतनत्वाद्यज्ञदत्तव दित्युपपत्तिविरोधात्कथं ईश्वरस्य फलानुद्देशेन प्रवृत्तिरित्याशयेन पृ च्छति-किन्त्विति ॥ तत्परिहाराय सूत्रमुपन्यस्य व्याचष्टे—लोकव दिति । यथेत्यारभ्य प्रयोजनापेक्षयेत्यनेन लोकवदित्यंशो व्याकृतः । 'लोके' भुवने 'मत्तस्य' उन्मत्तजनस्य 'सुखोद्रेकात्' अभिव्यक्त सुखात् नृत्तं नटनं गानं गीतिः । आदिपदेन निष्फलवार्तादिकं गृह्यते । 'लीला'

४६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ला, न तु प्रयोजनापेक्षया, एवमेवेश्वरस्य । ( ४ ) नारायणसंहितायां च— सृष्ट्यादिकं हरिर्नैव प्रयोजनमपेक्ष्य तु । कुरुते केवलानन्दाद्यथा मत्तस्य नर्तनम् ॥ पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः । मुक्ता अप्याप्तकामाः स्युः किमु तस्याखिलात्मनः ॥ इति॥ चारो दुरुद्धर इति भावः । प्रथमसूत्रार्थस्तु—नेश्वरप्रवृत्तिरन्येषामिव स्वप्रयोजनार्था । कुतः? प्रयोजनवत्त्वेन कृतकृत्यत्वेन प्रयोजनवत्त्वात् । यदर्थमीश्वरस्य प्रवृत्तिस्तस्य प्रयोजनस्याप्तकामत्वेन प्रागेव सिद्धत्वा त् । यद्वा—ईश्वरप्रवृत्तेर्दयालुपृवृत्ताविव परप्रयोजनवत्त्वात् । अथ वा— नेश्वरप्रवृत्तिः स्वप्रयोजनार्था, नप्रयोजनवत्त्वात् । नसमासोऽयम् । व्याख्यानादिकाले हस्तचालनादाविव सुखोद्रेकाद्गानादाविव च प्रयो जनवत्त्वराहित्यादिति चन्द्रिकायामुक्तः । द्वितीयसूत्रे—लोकवच्चि ति तुशब्दोऽवधारणे, पक्षान्तराङ्गीकारसूचकः, किं त्वित्यर्थे च । ली लाकैवल्यमिति समस्तपदं स्वरूपार्थोऽयं कैवल्यशब्दः । ईश्वरस्य प्रवृ त्तिरिति शेषः । तथा च नेश्वरस्य प्रयोजनोद्देशेन प्रवृत्तिः किन्तु ‘लो कवत् ’ यथा लोके मत्तस्य सुखोद्रेकादेव प्रवृत्तिः तस्याश्च लीलाकैव ल्यं तथा परमेश्वरस्य तन्निमित्तप्रवृत्तेरपि ‘ लीलाकैवल्यं ’ केवलली लात्वं लीलारूपत्वमेव न तु प्रयोजनान्तरार्थत्वं न वा लीलार्थत्वं अतः प्रयोजनानुद्देशे तस्य कीदृशी प्रवृत्तिरिति प्रश्नाववकाश इति सूत्र र्थः । न चैवमाद्यसूत्रार्थे वाण्वपि प्रयोजनमीश्वरस्येति तत्त्वप्रदीपवि रोधः, अत्र प्रयोजनसामान्यनिषेधादिति वाच्यम् । तस्य लोकानुग्र हाय सृष्ट्यादिक्रियां करोतीति टीकानुसारादण्वपि स्वप्रयोजनं ना स्तीति व्याख्यातव्यत्वात् । अत एव भारततात्पर्यनिर्णये ‘ भूत्यै नि जाश्रितजनस्य ’ इति परप्रयोजनोक्तिः ॥ ( ४ ) अत्रैवार्थे स्मृतिमाह—नारायणेति ॥ हरिः सृष्ट्यादिकं न स्वप्रयोजनं ‘अपेक्ष्य’ उद्दिश्य कुरुते, किन्तु ‘केवलानन्दात्’ स्वरूपान न्दादेरेव कुरुत इति योजना । अत्र दृष्टान्तमाह—यथेति । प्रथमार्थे म त्तस्येति षष्ठी । तथा च यथा मत्तस्स्वानन्दादेव कुरुते तथेत्यर्थः । कुत एवं कल्प्यत इत्यत आह—पूर्णेति । ‘तस्य’ हरेः ‘इह ’ सृष्ट्या

[ अधि - ९. सू - ३४. ] दीपिकासहितम्. ४६७ ( ५ ) ' देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ' र्द्विविषये ' प्रयोजनमतिः' अनेन मम भविष्यत्प्रयोजनमस्तीति बुद्धि स्तदपेक्षा वा 'कुतो' न कुतोऽपीत्यर्थः । कुतो नेत्यतस्तत्र—आप्तका मत्वादिति हेतुः पूर्णेत्यनेनोक्तः । तस्यासिद्धिमाशङ्क्य कैमुतिकन्याये न तं साधयति—मुक्ता इति । विशेषणसमुच्चयार्थोऽपिशब्दः । तथा च अनीश्वरा अपि ' मुक्ताः' जीवाः यदा आप्तकामाः स्युः तदा अखि लस्वामिनस्तस्य विष्णोराप्तकामता किमु वक्तव्येत्यर्थः । इति नाराय णसंहितायामित्यन्वयः । सूत्रकारोक्तमुक्तमिति शेषः ॥ ( ५ ) विवक्षिताशेषार्थप्रतिपादकत्वात् प्रथमं स्मृतिमुपन्यस्य सौ त्रलीलाशब्दार्थविवेकायात्रैवार्थे माण्डूकेयीं श्रुतिमप्याह—देवस्येति ॥ चः समु

४६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] (मां. २-९.) इति च श्रुतिः ॥ ३४ ॥ —: * :— १०. अधिकरणम् ॥ ( १ ) सर्वकर्तृत्वे वैषम्यनैर्घृण्ये तस्येति । ( २ ) अतो वक्ति— सू—ॐ ॥ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ ॐ ॥ ३५ ॥ कर्मापेक्षया फलदातृत्वान्न तस्य वैषम्यनैर्घृण्ये । सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्तस्य स्पृहा विभोः ॥ [ इति ॥ ९ ॥ इति नप्रयोजनाधिकरणम् ॥ —::*— १०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे पूर्वोक्तपरप्रयोजनरूपफलविषययुक्तिविरोधः परिह्रियते । सयुक्तिकं पूर्वपक्षयति—सर्वैति ॥ परप्रयोजनाय कर्मान पेक्ष्येति शेषः । तथा च ' तस्य ' ईश्वरस्य परप्रयोजनाय कर्मानपेक्ष या सर्वजगतकर्तृत्वेऽङ्गीकृते वैषम्यनैर्घृण्ये स्यातामित्यर्थः । अयं भा वः—परप्रयोजनाय पारमेश्वरी सृष्टिरिति पूर्वोक्तमयुक्तं, स किं कर्मा नपेक्षया परप्रयोजनाय सृष्टिं करोति ? उत तदपेक्षया । नाद्यः, तथा सति सर्वेऽपि सर्वदा सुखिनः स्युः, न तु कदाचित्केचित् सुखिनः के चित् दुःखिनः । अन्यथा निर्निमित्तमीश्वरः कांश्चित्सुखयन् कांश्चिद्दुः खयन्निरये पतितानतिविह्वलानाक्रन्दतोऽनन्यनाथानुदिधीर्षुर्विषमो निर्दयश्च स्यात् । कर्मबोधकवेदाप्रामाण्यं च स्यात् । न द्वितीयः, अ स्वातन्त्र्यापत्तेः । तथाच उभयथाऽपि दोषित्वान्नेश्वरस्य सर्वकर्तृ त्वं युक्तमिति ॥ ( २ ) एवं प्राप्ते सिद्धान्तयत्सूत्रमवतार्यव्याचष्टे—अत इति ॥ फ लेति । सुखदुःखरूपेष्टानिष्टाख्यफलदातृत्वादित्यर्थः । अनेन सापेक्ष त्वादिति सौत्रहेतोस्तात्पर्यमुक्तं भवति । फलदाने कर्मापेक्षासहितत्वा दित्यक्षरार्थः । तस्येश्वरस्येति हेतुसाध्ययोरन्वेति । वैषम्यनैर्घृण्ये इति। कर्मादिकमनपेक्ष्य निर्निमित्तं विभागेन ईश्वरस्य सुखदुःखप्रदत्वे कर्मा देः सुखदुःखसाधनत्वप्रतिपादकज्योतिष्टोमेनेत्यादि वेदाप्रामाण्यापाद कतया दोषभूते ये वैषम्यनैर्घृण्ये प्रसक्ते ते न स्त इत्यर्थः । अनेन साध्यांशो

[ अधि - १०. सू - ३६. ] दीपिकासहितम्. ४६९ 'पुण्येन पुण्यं लोकं नयति पापेन पापम्' ( प्र. ३-७. ) इति हि श्रुतिः ॥ ३५ ॥ ( ३ ) सू— ॐ ॥ न कर्माविभागादिति चेन्नानादित्वात् ॥ ॐ ॥ ३६ ॥ यदपेक्ष्याऽसौ फलं ददाति न तत्कर्म 'एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधु कर्म कारयति तं यमधो निनीषते' ( कौ. ३-८. ) इतिश्रुतेः कर्मणोऽपि तन्निमित्तत्वादिति चेत्— व्याख्यातः। हेत्वसिद्धिपरिहारकतया तथाहीति सूत्रांशं व्याचष्टे—पुण्ये- नेति। इति हि श्रुतिरिति। हिशब्दो यत इत्यर्थे। अतः न हेत्वसिद्धिरिति वा- क्यशेषः। अस्य हेतुवाक्येनान्वयः। षट्प्रश्नश्रुतिरियम्। अत्र जीवमीश्वर इति शेषः। तथा चेश्वरः 'पुण्येन' जीवपुण्यं निमित्तीकृत्य 'पुण्यं लो- कं' पुण्यसाध्यं स्वर्गादिलोकं 'नयति' प्रापयति जीवमित्यर्थः। एवं ज्ञानेन मोक्षमिति च द्रष्टव्यम्। पापेन 'पापं' नरकादिकं दुःखबहुल- लोकं नयति। 'उभाभ्यां' समप्रधानाभ्यां पुण्यपापाभ्यां समदुःखसु- खे मनुष्यलोकं नयति इति शिष्टश्रुत्यर्थः। यद्यपि षट्प्रश्नभाष्यटीकयो- रियं श्रुतिरुदानाख्यमुख्यवायुपरतया व्याख्याता। तथाऽपि परममु- ख्यवृत्त्या विष्णुपरत्वात् अत्रोदाहरणं युक्तम्। सूत्रं स्पष्टार्थम् ॥ ( ३ ) कर्मापेक्षया फलदातृत्वमाक्षिप्य समादधत्सूत्रमुपन्यस्यति— न कर्मेति॥ अत्र कर्मेति व्यस्तपदस्य नञाऽन्वयमभिप्रेत्याक्षेपांशं व्याच- ष्टे—यदपेक्ष्येति। 'असौ' ईश्वरो यदपेक्ष्या फलं ददातीत्युच्यते, त- दपेक्षणीयं कर्मैव नास्तीति प्रतिज्ञा विशिष्टप्रतिषेधपरा। नन्वस्ति पू- र्वकर्मैवेत्यतः—अविभागादित्युक्तं सूत्रे। तत् लोके विभक्ते अस्वतन्त्र इति प्रयोगदर्शनात्तदनुसारेण अस्वतन्त्रत्वादित्यर्थकतया व्याचष्टे— कर्मणोऽपि तन्निमित्तत्वादिति। पूर्वकर्मणोऽपि भगवदधीनत्वादित्यर्थः। दोषपरिहारायापेक्ष्यस्यापीत्यपेरर्थः। न केवलं फलस्येति वाऽर्थः। त- था च कर्मणोऽपि स्वाधीनत्वान्निमित्तं विषमाणां कर्मणां कारयि- तुः पुनर्वैषम्याद्यापातेन तत्परिहाराय तदपेक्षा सम्भवतीत्यपेक्ष्यं क- र्म नास्तीति भावः। अनेन कर्माविभागादिति समस्तपदं चेति सूचितं म्। न च हेत्वसिद्धिरित्याह—एष ह्येवेति। श्रुतेरिति। अस्य तन्नि- मित्तत्वावगमादित्यनेनान्वयः। तेनाविभागादित्यस्य अविभक्ततया प-

४७० ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - १. ] (४) न, तस्यापि पूर्वकर्म कारणमित्यनादित्वात्कर्मणः । (५) भविष्यत्पुराणे— पुण्यपापादिकं विष्णुः कारयेत्पूर्वकर्मणा । रमात्माधीनतया श्रुत्युक्तत्वादित्यर्थ उक्तो भवति । श्रुतौ साधुकर्मेति मोक्षसाधनज्ञानादिकमुपलक्ष्यते । उन्निनीषतिशब्दोक्तमोक्षहेतुप्रसाद स्य केवलकर्मासाध्यत्वात् । हिशब्दः प्रसिद्धौ । तथा च ‘एषः’ भग वान् ‘यं’ जीवं ‘एभ्यो’ भूर्भुवस्स्वराख्यलोकेभ्यः ‘उन्निनीषते’ ऊ र्ध्वं नेतुमिच्छति ‘तं’ योग्यजीवं ‘कर्म ज्ञानादिकं कारयति’ तेन त त्सम्पादयतीत्यर्थः । अनेन मोक्षस्येच्छाविशेषरूपेश्वरप्रसादसाध्यतो क्ता भवति । उशब्दो विष्णुवाची । असाधुकर्म मिथ्याज्ञानोपलक्षक म् । तथा च एषः यमेभ्यो लोकेभ्यः ‘अधो निनीषते’ तमो नेतुमि च्छति, तमयोग्यजीवं तेन असाधुकर्म कारयतीत्यर्थः । अयं च सुधा रीत्योक्तः ॥ (४) परिहारांशं व्याचष्टे—नेति ॥ कुतो नेत्यतस्तत्रापेक्षितहेतुमु पस्कुर्वन्ननादित्वादिति हेतुं क्रमेण योजयति—तस्येति, पूर्वकर्मण इत्य र्थः। सत्त्वादिति शेषः, नेत्याद्यावर्तते । तथा चेत्थं योजना—नापेक्ष्यक र्माभावो वक्तव्यः । कुतः ? पूर्वकर्मणस्तादृशस्यासत्त्वात् । ननु पूर्व स्यापि कर्मणो भगवन्निमित्तत्वेन वैषम्यादिपरिहाराहेतुत्वान्नापेक्ष्य ता सम्भवतीत्यत आह—तस्यापीति, तस्यापेक्ष्यकर्मणस्ततोऽपि पूर्व कर्मकारणमिति हेतोः, तस्यापि तत्पूर्वकर्मकारित्वादिति यावत् । न केवलं पूर्वकर्मण इत्यपरेर्थः । तथा च तस्यैवापेक्ष्यतोपपत्तिरिति भावः । ननु पूर्वतनस्यापीश्वरनिमित्तत्वेन पुनर्वैषम्याद्यापादकत्वादन पेक्ष्यतैवेत्यत आह—तस्यापीति । पूर्वतनकर्मणोऽपि पूर्वं तत्पूर्वत नं कर्म कारणमिति हेतोः, तस्यापि तत्कारित्वादित्येवार्थः । ननु यत्र कर्मापेक्षाशान्तिरूपं पर्यवसानं तदारभ्य वैषम्यादिरूपो दोषः स्यादि त्यत आह—अनादित्वादिति । ‘कर्मणः’ कर्मपरम्परायास्तत्समुदाय स्यानादित्वादिति ॥ (५) सूत्रकृदुक्तार्थे पुराणसम्मतिमप्याह—भविष्यदिति ॥ न के वलं सूत्रे, किन्तु पुराणेऽपीति समुच्चये चशब्दः । इदमुक्तमिति शेषः। किमुक्तमित्यतस्तत्पठति—पुण्येति । पुण्यपापपदाभ्यां तत्साधनं क र्मोपलक्ष्यते । आदिशब्दात् तपआदि गृह्यते । जीवेनेति शेषः । ‘पूर्व

[ अधि - १०. सू - ३७. ] दीपिका सहितम्. ४७१ अनादित्वात्कर्मणश्च न विरोधः कथं चन ॥ इति ॥ ३६ ॥ ( ६ ) सू—ॐ ॥ उपपद्यते चाप्युपलभ्यते च ॥ ॐ ॥ ३७ ॥ न च कर्मापेक्षत्वेन ईश्वरस्यास्वातन्त्र्यम् । ( ७ ) द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतस्सन्ति न सन्ति यदुपेक्षया ॥ कर्मणा' स्वापेक्ष्येण निमित्तभूतेनेत्यर्थः । 'कर्मणः' स्वापेक्ष्यस्य । च शब्दात्तत्पूर्वतनेन कर्मणा इति सूचितम् । तथा च कर्मपरम्परया अना दित्वात् 'कथं चन' केनापि प्रकारेण कार्यमूलकतया कारणकर्ममूल कतया वा 'विरोधो' वैषम्यनैर्घृण्याख्यो दोषो नास्तीत्यर्थः । इति भ विष्यत्पुराण इत्यन्वयः ॥ ( ६ ) नन्वीश्वरस्य कर्मापेक्षासहितत्वात् वैषम्याद्यभावेऽपि निय मेन कर्मापेक्षयैव फलदातृत्वादस्वातन्त्र्यं प्रसज्यत इत्याशङ्कां परिहर त्सूत्रमुपन्यस्य व्याचष्टे—उपपद्यत इति ॥ अस्वातन्त्र्यमित्यनन्तरं किन्तूपपद्यते च तदिति शेषः । चशब्दोऽवधारणे । तथा च नेश्वर स्य कर्मापेक्षत्वेन निमित्तेन 'अस्वातन्त्र्यं' स्वातन्त्र्यानुपपत्तिः, कि न्तु तत्स्वातन्त्र्यमुपपद्यत एवेति योजना । अनेन उपपद्यते चेति प्र तिज्ञा व्याख्याता ॥ ( ७ ) ननु सापेक्षस्य कथं तदुपपद्यते इत्यतस्तत्र हेतुत्वेन प्रवृत्त स्य यतस्तदुपलभ्यते इत्यंशस्य तात्पर्यमाह--द्रव्यमित्यादिना ॥ 'न र्ते त्वत्क्रियते' इत्यादिरादिशब्दार्थः । कर्मेत्यतः प्रागपेक्षणीयेत्युपस्का र्थम् । कालजीवादिः द्वितीयादिशब्दार्थः । 'सत्त्वस्य' सत्त्वादेः । न केवलं कर्मादिस्वरूपाणां, किन्तु तेषां सत्तादेरपीत्यपिशब्दार्थः । 'त दधीनत्वात्' ईश्वराधीनत्वेनोपलभ्यमानत्वादित्यर्थः । तथा च स्वे च्छया नियमेन स्वाधीनतत्त्वादिमदपेक्षायामपि नास्वातन्त्र्यमिति भावः । अनेन यतस्तत्कर्मादिसत्त्वाद्यपि तदीश्वराधीनमुपलभ्यते स्मृत्यादाविति हेत्वर्थ उक्तो भवति । अत एव तत्त्वप्रदीपे उपपद्यते च तस्य स्वातन्त्र्यं, यत उपलभ्यते कर्मादेस्तदधीनत्वं श्रुतिस्मृत्यो रिति प्रतिज्ञाहेत्वोर्योजना दर्शिता । केचित्तु—कर्मादीनामिति भाष्यं सूत्रे अध्याहृतहेतुपरं चशब्दसूचितहेतुपरं वा । द्रव्यमित्यादि च त स्यासिद्धिपरिहारायापिशब्दसूचितभागवतस्मृत्यादिप्रमाणोपन्यास रूपमित्याहुः । तत्तु तत्त्वप्रदीपविरुद्धं द्रव्यमिति स्मृत्युदाहरणेन 'ए

नादेरपि" or "द्रव्यमित्यादिनाऽनादेरपि" is standard. Wait, let's look at L11: "कर्मादिसत्ताऽपि" - the avagraha is printed as 'ऽ'. In L16: "ऽपि पूर्वमुत्पादित..." - the avagraha is printed as 'ऽ'. In L6, is it 'ऽ'? Yes, it's an avagraha 'ऽ' or 'ना'! If there's an avagraha: "द्रव्यमित्यादिनाऽनादेरपि".

Let's check the rest of the text line by line to ensure 100% accuracy:

४७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] इत्यादिना कर्मादीनां सत्त्वस्यापि तदधीनत्वात् । (८) न च पुनर्वैषम्याद्यापातेन दोषः । तादृशवैषम्यादेरुप- (wait, does it have hyphen? No hyphen in print, it's just तादृशवैषम्यादेरुप at the end of line 3, and लभ्यमानत्वात् । at line 4) Wait, let's check line 3: " (८) न च पुनर्वैषम्याद्यापातेन दोषः । तादृशवैषम्यादेरुप" line 4:

[ अधि - ११. सू - ३८. ] दीपिकासहितम्. ४७३ ( ९) स कारयेत्पुण्यमथापि पापं न तावता दोषवानीशिताऽपि। ईशो यतो गुणदोषादिसत्त्वे स्वयं परोऽनादिरादिः प्र [ जानाम् ॥ इति चतुर्वेदशिखायाम् ॥ ३७ ॥ ११. अधिकरणम् ॥ ( १ ) अवशिष्टैरुपसंहरति- ( ९ ) काऽसौ श्रुतिरित्थतस्तामुदाहरति-स कारयेदिति ॥ चतु वेदशिखायामित्यस्य उपलभ्यमानत्वादित्यनेनान्वयः । श्रुतौ स इत्य स्योत्तरत्राप्यधिकारसूचकोऽथशब्दः । अपिशब्दौ समुच्चयार्थी । तथा च ‘सः’ विष्णुः स्वाधीनपूर्वकर्मापेक्षया पुण्यं कर्म जीवेन कारयेत् पापं कर्म च कारयेत् । एवं तस्य कर्मणः ‘ईशिता’ नियन्ताऽपि स एव । तावता न वैषम्यादिदोषवानित्यर्थः । तत्त्वप्रदीपे तु-स भगवा न् स्वयमीशिताऽपि पुण्यस्य शोभनमेव फलं पापस्य तद्विपरीतमित्ये तदन्यथा कर्तुं समर्थोऽपि न तथा करोति, किन्तु पुण्यं पुण्यैः कारये त् पापं पापैरथ मिश्रकर्माण्यपि विमिश्रैः कारयेन्नैतावता वैषम्यादि दोषवान् । कुतो ? यतः ‘परः’ स्वतन्त्रः स परमात्मा ‘गुणदोषादि सत्त्वे’ अन्येषु गुणदोषसम्बन्धापादने गुणदोषादीनां गुणदोषत्वापा दने च स्वयमेवेशः अतः । किञ्चायं न सकर्तृकः, येन पराधीनतया दोषसम्भवः, अतो न तस्य दोष इत्याह-‘अनादिः’ उत्पादकशून्य इति । इतोऽपि न दोषसम्भव इत्याह-आदिः प्रजानामिति । प्रजोप लक्षितसर्वकर्तेत्यर्थः । न च कस्यापि स्वदोषेच्छा भवति, किमु सर्व कर्तुरतो न दोषवान्, किन्तु परमेश्वरः स्वातन्त्र्यात् सर्वगुणगणपरि पूर्ण एव स्वाभाविकीं स्वीयां स्थितमनपोह्य त्रिविधान् धर्मान् त्रिवि धैः कारयतीत्यभ्युपगमे श्रुत्याद्यनुग्रहश्चोपपद्यते । वक्ष्यन्ते च नियमा स्तद्रूपाभावाः । तत्रोपपद्यते चैवंनियमवत्त्वं स्वतन्त्रस्य । उपलभ्यते चैवं स्वभावत्त्वं ‘देवस्य’ (मां. २-९.) इति श्रुतौ, इति श्रुतिर्व्या ख्याता। अनेनोपपद्यते उपलभ्यत इत्यनयोरसकृदावृत्तिस्सूचिता॥१०॥ ॥ इति वैषम्यनैर्घृण्याधिकरणम् ॥ ११. अधिकरणम् ( १ ) अत्राधिकरणे विष्णोः सर्वगुणपूर्तौ सर्वदोषराहित्ये च युक्त्य ६०

४७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] सू-ॐ ॥ सर्वधर्मोपपत्तेश्च ॥ ॐ ॥ ३८ ॥ गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवा [ त्र शङ्का । विरोध उच्यते । ननु सर्वेषां युक्तिविरोधानां परिहृतत्वात्किमुत्तरसू- त्रेणेत्यत एतत्सूत्रतात्पर्यमाह—अवशिष्टैरिति ॥ पूर्णत्वमितिशेषः । त- था च विशिष्यप्रतिपादितेभ्यः स्रष्टृत्वादिगुणेभ्यः अवशिष्टैः सर्वगुणैः प्रतिपादितैः पूर्णत्वं 'उपसंहरति' निगमयत्यत्रेत्यर्थः । इदमुकं भवति- पूर्वाधिकरणेषु विष्णोः प्रत्येकमेकैकगुणविषये दोषाभावविषये च वि- रोधं परिहृत्य तत्समर्थनं कृतम् । तेभ्योऽवशिष्टाः ये सर्वगुणा दोषा- भावाश्च तत्र सामान्यतो युक्तिविरोधपरिहारेण तान् समर्थ्य धिष्णोः सर्वगुणपूर्णत्वविषयं सर्वदोषाभाववत्त्वविषये च प्राप्तयुक्तिविरोधप- रिहारेण तत्प्रकरणमत्राधिकरणे समापयति सूत्रकार इति । यथोक्तं प्रमेयदिपे 'उपसंहरति' प्रकरणं समापयतीति । अत्र भाष्ये तृती- या द्वितीयार्थे । समर्थ्य पूर्णत्वमितिपदद्वयमध्याहार्यमिति ध्येयम् । न विष्णोस्सर्वगुणपूर्णत्वं युक्तं, चेतनत्वात् जीववत्, अन्यथा ऽन्यस्यापि तत्स्यादविशेषादितिप्राप्ते सिद्धान्तयत्सूत्रं पठित्वा व्या- चष्टे—सर्वैति । इति सर्वधर्मोपपत्तेरिति । एवंरूपसर्वधर्मोपपाद- कश्रुतेरित्यर्थः । क्वचित् 'सर्वगुणोपपत्तिश्रुतेश्च' इतिपाठः । गुणे तिधर्मशब्दव्याख्यानम् । न केवलं स्वातन्त्र्यादिना विष्णोः सर्वे धर्मोपपत्तिः, किन्तु 'गुणाः श्रुताः' (सौपर्णश्रुतिः) इति सर्वधर्मो- पपादकश्रुतेश्चेति समुच्चये चशब्दः । तत्त्वप्रदीपे तु—'इति सर्व- गुणोपपत्तिश्रुतेः' कयाऽपि विधया दोषाभावश्रुतेश्चेति चशब्दार्थ उक्तः । अस्य हेतोः चशब्दसूचितेन नायुक्तं विष्णोः पूर्वत्वमि- तिसाध्येनान्वयः । चेतनत्वं त्वप्रयोजकं श्रुतिविरुद्धं चेति भावः । सू- त्रार्थस्तु स्पष्टः । वेदे 'श्रुता गुणाः' अणुत्वमहत्वादिशुभधर्माः 'सु- विरुद्धाश्च' लोकदृष्ट्याऽतिविरुद्धाः अन्यत्र सहादृष्टा अपि 'देवे' ह- रौ सन्त्येव, न तु तेषां विरुद्धतया मिथ्यात्वं कल्पनीयमित्यर्थः । न के- वलं विरुद्धा इत्यपिशब्दार्थः । एवं हरौ 'अश्रुताः' वेदानुक्ताश्च रमा- चतुर्मुखवाणीचिन्त्या गुणास्सन्ति । तर्हि यावन्तो रमादिभिश्चिन्तयि- तुं शक्यन्ते तावन्त एव गुणाः किमित्यतो नेत्याह—अचिन्त्या इति । यथा रमादिभिश्चिन्त्यास्सन्ति, तथा तैरचिन्त्याश्च गुणाः सन्तीत्यर्थः।

[ अधि - ११. सू - ३८. ] दीपिकासहितम्. ४७५ चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि त [ था प्रतीताः ॥ इति सर्वधर्मोपपत्तेरिति ॥ ३८ ॥ —: ❖ :— इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये द्वितीयास्याध्यायस्य प्रथमः पादः. ॥ ॐ ॥ — ननु यथा गुणाः श्रुताः चिन्त्या अचिन्त्याश्च देवे सन्ति तथा दोषा अ पि किमित्यतो नेत्याह—दोषा इति । देवे दोषाः श्रुता एव न सन्ति, नापि चिन्त्याः, किमुपुनरचिन्त्या दोषान सन्तीति वक्तव्यमित्यर्थः। ननु कथं न दोषाः श्रुताः ‘जनितोत धिष्ण्येः’ ( ) इत्यादौ प्रती तैरित्यत आह—अज्ञैरिति । मिथ्यादृग्भिर्हि तथा श्रुता इति सन्तीति च प्रतीताः, न तु ज्ञानिनामित्यर्थः । अयं चार्थस्तत्त्वप्रदीपन्यायदीपिकासू क्तः। न चाश्रुता रमादिचिन्त्याः सन्ति चेत् ‘अनुक्तं पञ्चभिर्वेदैर्न च स्त्वस्ति कुतश्च न’ इत्युक्तिविरोध इति वाच्यम् । सामान्यतः श्रुताः विशिष्याश्रुता इत्यर्थस्येह विवक्षितत्वेन विरोधाभावात् । इयं च गी तातत्पर्योक्तरीत्या ऋग्वेदे सौपर्णशाखाश्रुतिः । गीताभाष्ये तु इयं जाबालिखिलश्रुतिरित्युक्तम् । सुपर्णदृष्टाया अपि श्रुतेर्जाबालिदृष्टत्वस म्भवादविरोधः ॥ ११ ॥ ॥ इति सर्वधर्मोपपत्त्यधिकरणम् ॥ —❦— इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि कायां द्वितीयाध्यायस्य प्रथमः पादः. ॥ ॐ ॥ —