पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
ष्ठमितो देहे जीवाङ्गुष्ठमितो हृदि' इति काठकभा-L28:प्योक्तेः देहाङ्गुष्ठमितस्य कथमतिसूक्ष्मनाडीस्थकर्णिकाग्रस्थत्वमि-L29:ति वाच्यम् । अचिन्त्यत्वाद्दीश्वरशक्तेः ॥ ४ ॥Wait, look atअचिन्त्यत्वाद्दीश्वरशक्तेःorअचिन्त्यत्वादीशश्वरशक्तेः? Look at L29: अचिन्त्यत्वाद्दीश्वरशक्तेः-त्वाthenद्दी(द with dirgha ई, soअचिन्त्यत्वाद्दीश्वरशक्तेः, sandhi of अचिन्त्यत्वात् + ईश्वरशक्तेः = त् -> द् + ई = दी -> द्री? No, द्दी= द् + दी? Yes, double d:द्दी, अचिन्त्यत्वाद् + ईश्वर = अचिन्त्यत्वाद्दीश्वरशक्तेः! Wait, त् + ई is usually दि, single d. But sometimes spelled द्दीby duplication before vowel or sandhiत्वाद्दीश्वर. In the image: look at द्दी: it has द्attached toदीor justदी? Look at द्दी: the head has a loop of द, and under it another curve: yes, द्दी`!)
L30: `॥ इति तदभा
७५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ५. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ अतः प्रबोधोऽस्मात् ॥ ॐ ॥ ८ ॥ यतस्तस्मित् सुप्तिः । ( २ ) ‘एष एव सुप्तं प्रबोधयेदेतस्माज्जीव उत्तिष्ठत्येष ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे हरेः सुप्तप्रबोधकत्वमाहात्म्यं वर्ण्यते । भेरी ताडनादेरेव सुप्तस्य प्रबोधो नेश्वरादिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुप न्यस्य व्याचष्टे—अत इति ॥ तस्मिन्निति सावधारणम् । तथा च ना डीस्थे परमात्मन्येवेत्यर्थः । उपलक्षणं चैतत् । तदभिध्यानादेवेति तत्त्व प्रदीपोक्तं द्रष्टव्यम् । सुप्तिरित्यनन्तरं उक्तेति शेषः । अस्येत्यनुवृत्ति श्च कार्या । अनेन यतोऽस्य जीवस्य तस्मिन्नेव तदिच्छयैव सुप्तिरुक्ता, अतोऽस्यास्मात्परमात्मन एव तदिच्छयैव सुप्तेः प्रबोधोऽपि नान्यस्मा दिति सूत्रयोजनोक्ता भवति । न चात्राप्रयोजकता । अङ्गुष्ठमात्रे पुरुषे कर्णिकाग्रस्थिते हरौ । विशन्ति सुषुप्तौ तु प्रबुध्यन्ते ततस्तथा ॥ इति वचनविरोधात् । देहाद्देहान्तरगते प्रविशेत्प्राणमेव तु । जीवः प्राणः परात्मानमेवं सुप्तौ . . ॥ इति वचनाच्च । मुख्यप्राणद्वारेण स्वान्तर्निवेशितस्य जीवस्य तत्प्रे रणामन्तरेण स्वत एव सुप्त्युद्बोधनशक्त्यभावाच्च ॥ ( २ ) ननु भेरीताडनाद्यनन्तरं प्रबोधदर्शनात्तेषामपि सुप्तप्रबोधहे तुत्वं सिद्धमिति कथं प्रबोधस्य भगवदेकाधीनत्वं प्रत्यक्षविरोधादि त्याशङ्कापरिहारायातशब्दं श्रुतिपरतयाऽपि व्याचष्टे—एष इति ॥ श्रुतिरित्यनन्तरं यत इत्यनुवर्तते । तथा च ‘यतः’ एवं कौण्डिन्यश्रु तिरतोऽस्मादेव प्रबोधो भवतीत्यन्वयः । अनेनातश्शब्दस्य तद्भावो नाडीष्वात्मनीत्युक्तपरामर्शकत्वं तच्छ्रुतेरिति प्रकृतश्रुतिपरामर्शकत्वं चोक्तं भवति । प्रत्यक्षं तु निमित्तमात्रविषयं, अन्यथा सावधारणश्रुति विरोधादिति भावः । ‘एषः’ परमात्मैव ‘सुप्तं’ जीवं सुप्तेः प्रबोधयति नान्यः । एतस्मादीशादेव जीव उत्तिष्ठति सुप्तेः । एष एव ‘प्रमाता’
[ अधि - ६. - सू - ९. ] दीपिकाकहितम्. ७५३ प्रमातैव परमः' इति कौण्डिन्यश्रुतिः ॥ ८ ॥ —:*:— ६. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॥ ॐ ॥९॥ न च केषां चित्स्वप्नादिकर्ता न तु सर्वेषामिति । 'एष ह्येव साधु कर्म कारयति' ( कौ. ३-८. ) इति क र्मेण्यवधारणात् । सुप्तस्य प्रबोधकः । एष परम इति तदुपपादनमिति श्रुत्यर्थः ॥ ५ ॥ ॥ इति प्रबोधाधिकरणम् ॥
६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सर्वपुरुषीयसार्वकालिकसर्वावस्थानां भग वदधीनत्वमहिमा वर्ण्यते । न सर्वेषां सार्वकालीनावस्थाः भगवदधी नाः, किं नाम ? केषां चित् किञ्चित्कालीनैवेति पूर्वपक्षे सिद्धान्तयत्सू त्रमुपन्यस्य व्याचष्टे—स एवेति ॥ चशब्दः शङ्कापरिहारसमुच्चये । केषां चित्पुरुषाणाम् इत्युपलक्षणम् । कदाचिदित्यपि द्रष्टव्यम् । 'सः' ईश्वरः । स्वप्नादीत्यादिशब्देन सुषुप्तिः गृह्यते । तुशब्दोऽवधारणे केषां चिदेवेति । तद्व्यावर्त्यमाह-नेति । सर्वेषामित्युपलक्षणम् । सर्वदेत्यपि द्रष्टव्यम् । न कदाचित् केषां चित्, किन्तु सर्वदा सर्वपुरुषाणां स परमात्मैव स्वप्नादिकर्तेति सौत्रचशब्दः साध्यधर्मसमुच्चायकः । यद्वा- सौत्रैवशब्दः पुरुषान्तरे कालान्तरे अवस्थाप्रेरकत्वव्यवच्छेदकः। चश ब्दस्त्ववधारणार्थः परमात्मनः ईश्वरान्तरसाहित्येन सर्वावस्थाप्रेर कत्वव्यवच्छेदकः । अत एव टीकायां पक्षान्तरनिषेधार्थश्चशब्द इत्यु क्तम् । तत्त्वप्रदीपरीत्या हेतौ वा चशब्दः । तस्मात्स एव परमात्मा स र्वकर्ता, नान्यो न च किञ्चित्स्वभावत एव । स्वभावस्यापि परमात्मा धीनत्वादित्यभिप्राय इत्युक्तम् । इति न च मन्तव्यमित्यन्वयः । कुत इत्यतस्तत्र हेतुत्वेन कर्मेत्याद्यंशं योजयति—एष ह्येवेति । श्रुताविति शेषः । 'कर्मणि' सर्वक्रियाहेतुत्वे । तथा च 'एष ह्येव' इति श्रुतावी शस्यैव सर्वकर्महेतुत्वं, नान्यस्येत्येवकारेणान्यत्र क्रियाहेतुत्वस्य 'अ वधारणात्' व्यवच्छेदात्स्वप्नादिप्राप्तेरपि क्रियारूपत्वात्स एव सर्वे ९५
७५४ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - २.] ( २ ) प्रदर्शकस्तु सर्वेषां स्वप्नादेरेक एव तु । परमः पुरुषो विष्णुस्ततोऽन्यो नास्ति कश्चन ॥ इत्यनुसारिस्मृतेश्च । ‘एष स्वप्नान्प्रदर्शयत्येष प्रबो धयत्येष एव परम आनन्दः’ ( ) इति च षां सर्वावस्थाप्रेरको, न केषां चिदिति भावः । अनेन सौत्रकर्मशब्दो लक्षणया कर्मणामीशाधीनत्वश्रुतिपर इत्युक्तं भवति । यद्यपि सुधा यां श्रुतिस्थः साधुकर्मशब्दो मोक्षजनकज्ञानाद्युपलक्षकः । असाधुकर्म शब्दश्च मिथ्याज्ञानाद्युपलक्षक इत्युक्तम् । तथाऽपि कर्मशब्दस्यात्रोक्त क्रियावाचित्वापरित्यागेन उच्चिनीषतिवाक्यपर्यालोचनया उपलक्षणो क्तेरदोषः । व्याख्यातेयं श्रुतिर्वैषम्याधिकरणे ॥ ( २ ) प्रदर्शक इति ॥ स्मृतेरित्यनेन स्मृतेरित्यंशोऽनुसारित्यनेना न्वित्यंशो व्याख्यातः । स्फुटमभिमतार्थाभिधायकत्वमनुसारित्वम् । हेतुसमुच्चये चः । स्मृतौ तुशब्दश्चार्थः । यतः स्वप्नादेर्जनकश्चेति तत्त्व प्रदीपोक्तेः । द्वितीयो मुख्यत्वविशेषद्योतकः । सर्वदेति शेषः । तथा च विष्णुरेव मुख्यतः सर्वदा सर्वेषां स्वप्नादेरवस्थानस्य ‘प्रदर्शकः’ तत्प्रेरकः तज्जनकश्च एक एव, न तु सद्वितीयः पुरुषान्तरसहितः । स च विष्णुरेव भवेत्, नान्यः, कुतः ? यतस्ततः ‘कश्चन’ कोऽपि परमः पुरुषो नास्त्यत इत्यर्थः । इति श्रुतिश्चेत्यन्वयः । यत इति शेषः । अने न शब्दादित्यंशो व्याख्यातः । श्रुतावेवशब्दः सर्वत्र सम्बध्यते । अन्य था स्वप्नानिति बहुवचनेन सर्वपुरुषसम्बन्धिसार्वकालिकावस्थाप्रेरक त्वलाभेऽपि तस्यान्यस्यापि सर्वावस्थाप्रेरकस्य सत्त्वेऽपि सम्भवेन त द्व्यावृत्त्यलाभात्परमात्मन एव सर्वावस्थाप्रेरकत्वरूपविवक्षितार्थासि द्धिप्रसङ्गात् । न चावधारणस्य पूर्वसम्बन्धस्य प्रयोजनवत्त्वेऽपि परम इति वाक्ये सम्बन्धो व्यर्थ इति वाच्यम् । अन्यस्यापि सर्वावस्थाप्रेर कस्य सत्त्वे तस्यापि परमत्वप्राप्त्या ‘एष ह्येव परमः’ इत्यवधारणा सम्भव इति बाधकोपन्यासार्थत्वात् । तथा च यतः ‘एषः’ परमा त्मैव ‘स्वप्नान्’ स्वप्नावस्थाः ‘प्रदर्शयति’ संयोजयति जीवान्, यत श्चैष एव सुप्तजीवान् प्रबोधयति अत एष एव ‘परमः’ सर्वोत्तमः ‘आनन्दः’ पूर्णानन्द इति श्रुत्यर्थः । ‘विधिः’ परमात्मन एवोपास्यत्व विधायकश्रुतिरिति । अनेन विधेरित्यंशो व्याख्यातः । अत्रापि चश ब्दो योज्यः । यत इति शेषः । अन्यस्यापि प्रेरकस्य सद्भावे तस्याप्यु
[ अधि-७. सू-१०. ] दीपिकासहितम्. ७५५ श्रुतिः 'आत्मानमेव लोकमुपासीत' (बृ.उ.३-४-१५०) इति च विधिः ॥ ९ ॥ ――:❖:―― ७. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ मुग्धोऽर्धसम्पत्तिः परिशेषात् ॥ ॐ ॥ १० ॥ मोहावस्थायां परमेश्वरेऽर्धप्राप्तिर्जीवस्य । ( २ ) हृदयस्थात्पराज्जीवो दूरस्थो जाग्रदेष्यति । पास्यत्वप्राप्त्या श्रुतौ परमात्मन एवोपास्यत्वावधारणानुपपत्तिरिति भावः । श्रुतिस्तु भाक्तनये व्याख्याता ॥ ६ ॥ ॥ इति कर्मानुस्मृत्यधिकरणम् ॥ ――:※:―― ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ईश्वरस्यावान्तरावस्थासंस्थितजीवप्राप्यत्व- महिमा निरूप्यते । भगवत्येव मोह इति पूर्वपक्षे मोहावस्थायाः सुषु- प्त्यन्तर्भावापत्त्या पृथगवस्थासंस्थितजीवप्राप्यत्वमहिमालाभात् मो- हावस्थाया अर्धप्राप्तिरूपत्वेन ईश्वरतदितराधिकरणकत्वमिति समर्थ- नेन पृथगवस्थात्वसमर्थनमपि तन्निरूपणोपयुक्तमेव भवति । अत्र भ- गवत्येव मोहो न तदितरत्रापीति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य प्र- तिज्ञांशं तावद्व्याचष्टे — मुग्ध इति ॥ मोहेत्यनेन 'मुग्धे' मूर्च्छायामिति मुग्धपदं भावार्थकक्तप्रत्ययान्ततया व्याख्यातम् । परमेश्वरत्यनेन त- दभावसूत्रादात्मनीत्यस्यानुवृत्तिः सूचिता । अर्धप्राप्तिरिति । भगवदुद- रे अर्धप्रवेश एवेत्यर्थः । अनेनार्धसम्पत्तिपदं व्याख्यातम् । 'पर'इति सू- त्रादनुवृत्तस्य अस्येत्यस्यार्थो जीवस्येति । अनेन न मोह ईश्वर एव, नापि तदितरत्रैव, किन्त्वीश्वरे तदितरत्र चेति सिद्धान्तप्रतिज्ञा प्रदर्शि- ता भवति ॥ ( २ ) एवं प्रतिज्ञांशं व्याख्याय परिशेषादिति हेत्वंशं व्याख्यातुं प्र- तिज्ञाहेत्वात्मकसमस्तसूत्रार्थे स्मृत्तिमुदाहरति — हृदयस्थादिति ॥ ल्यब्लोपनिमित्ते पञ्चम्यौ । तथाशब्दस्समुच्चये । तथा च यदा जीवः 'परात्' परमात्मानमपेक्ष्य 'दूरस्थः' अक्षिस्थो भवति तदा 'जाग्रत्' जाग्रत्त्वमेष्यति । यदा तु 'समीपस्थः' कण्ठदेशस्थस्तदा स्वप्नाव- स्थामेष्यति । यदा च 'अस्मिन्' परमात्मनि 'लयं' मक्षिकाणां मधु
७५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] समीपस्थस्तथा स्वप्नं स्वपित्यस्मिन् लयं व्रजन् ॥ यत एवं त्रयोऽवस्था मोहस्तु परिशेषतः । गोधिकादेहान्तःप्रवेशवत्प्रवेशं व्रजन् भवति तदा 'स्वपिति' सुप्त्यव- स्थां प्राप्नोतीत्यर्थः । ननु जीवस्य दक्षिणाक्षिस्थत्वे दूरस्थत्वं कुतः ? तत्रापि 'दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः' ( मा. २-६. ) इति श्रुतेः विश्वनामकपरमात्मसामीप्यसत्त्वादित्यत उक्तं-हृदयस्था- दिति । तथा च नेह यत्किञ्चिद्रूपात्सामीप्यमभिप्रेतम्, किन्तु हृदय- स्थप्राज्ञनामकपरमात्मानमपेक्ष्य, तच्च नातिप्रसङ्गीति भावः । त्रय इ- त्यावर्तते । लिङ्गव्यत्ययः । अवस्था इति बहुवचनम् । न तथेति शेषः। तथा च 'यत एवं' उक्तप्रकारेण 'त्रयः' तिस्रः 'अवस्थाः' जाग्रदा- द्याः परमात्मविदूरत्वतत्सामीप्यतत्प्रवेशार्धप्रवेशाख्यप्रकारेष् मध्ये 'त्रयः' क्रमेण परमात्मविदूरत्वसामीप्यप्रवेशरूपप्रकारत्रययुताः , मोहस्तु न तथा, अतः 'परिशेषतः' प्रसक्तप्रतिषेधे परिशिष्यमाणे बु- द्धिः परिशेषः, तेन तत्कारणानुमानं गृह्यते । तस्मात् मोहः 'अर्धप्रा- प्तिः' अर्धप्रवेशाख्यप्रकारयुक्त इति ज्ञेय इत्यर्थः । यद्वा—दूरस्थत्वा- दित्रयः प्रकाराः यत एवमवस्थात्रयेऽपि नियुक्ता अतः परिशेषात् 'अ- वस्था' अवान्तरावस्थारूपो मोहोऽर्धप्राप्तिरिति ज्ञेय इत्यर्थः । अस्मिन् पक्षे न लिङ्गव्यत्ययः । अवस्थापदं चैकवचनान्तम् । अवस्थात्रये वि- नियुक्ता इति प्रकारा इति च शेष इति ध्येयम् । न च 'हृदि ह्येष आ- त्मा' ( प्र. ०३ - ६० ) इति श्रुतेर्हृदिस्थानां जीवानां कथमक्ष्यादिस्थत्व- मिति वाच्यम् । देवानांशेन तदितरेषामभिमानातिशयेन प्रकाशगु- णेन वा हृदयस्थत्वोपपत्तेः । उक्तं हि देवताविषये बृहदारण्यकभाष्ये— हृदये संस्थितो जीवो विशेषेण हरिस्तथा । चक्षुरादिषु रूपाणि जाग्रत्काले तयोस्सदा ॥ बहूनि सन्ति तान्येव यदैकीभावमाप्नुयुः ॥ हृदयस्थेन रूपेण तदा जीवो न किञ्चन ॥ जानातीति विदुः प्राज्ञाः ॥ इति ॥ न चैवमैतरेयभाष्ये न हि जीवस्याक्ष्यादिषु पृथक्शिरोवाहादिकं वि- द्यते हृदिस्थमेव हि तस्य रूपमित्युक्तिविरोधः । 'पृथक्' स्वरूपाद्भि- न्नं शिरआदिकं नास्तीति विशिष्टनिषेधाभ्युपगमात् । अन्यथा तयोः 'चक्षुरादिषु बहूनि रूपाणि सन्ति' इत्युक्तिविरोधात् । रूपशब्दितश-
[अधि - ७. सू - १०.] दीपिकासहितम्. ७५७ अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेः ॥ इति वाराहे ॥ ( ३ ) सोऽपि तत एवेति सिद्धम् । ( ४ ) मूर्च्छाप्रबोधनं चैव यत एव प्रवर्तते । रीरस्य शिरआदिकं विनाऽयोगात् । अत एव तत्र जागरितेऽप्यक्ष्या दिषु विशेषसन्निहितं भवतीत्युक्तम् । देवेतरजीवविषयं वा तद्भाष्यं, तथात्वे शिरोबाहादिकमित्यस्य शिरआदिमद्रूपमित्यर्थः । ननु मोह स्यावस्थात्रयातिरेकित्वे परं दूरस्थत्वादिप्रकारत्रयस्यावस्थात्रये वि नियुक्तत्वात्परिशिष्टोऽर्धप्रवेशो मोहे भवेत् , तदेव कुत इत्यत आह- दुःखेति । दुःखपदमात्मकालयोरुपलक्षणम् । प्रतिस्मृतिः अनुसन्धान म् । मात्रपदेन दुःखात्मकालेतरविषयदर्शनं व्यावर्यते । अनेन मोह स्यावस्थात्रयातिरेकित्वं परिशेषात्सिद्धमित्युक्तं भवति । तथा हि— न तावत्सुप्त्यन्तर्भावो मोहस्य, दुःखानुसन्धानात् । न च तदानीं कार णाभावेन दुःखानुदयात्कथं तदनुभव इति वाच्यम् । मोहात्प्राग्विष यानुभवजन्यस्य दुःखस्य तदानीमनुसन्धानसम्भवात् । नापि जाग्र त्स्वप्नयोरन्तर्भावः । दुःखात्मकालातिरिक्तविषयादर्शनात् । अतः परि शेषान्मोहस्य पृथगवस्थात्वसिद्धिरिति । यद्वा—अनेन मोहे अर्धप्राप्ति समर्थनाय साक्षादेव परिशेषप्रकारः प्रदर्श्यते । तथाहि—न सुप्तावि व मोहे समग्रप्राप्तिः दुःखानुसन्धानात् । नापि जाग्रत्स्वप्नयोरिवाप्रा प्तिरेव, दुःखमात्रानुसन्धानेन अन्यार्थादर्शनात् । अतः परिशेषादर्ध प्राप्तिरेवेति । वाराहं उक्तमिति शेषः । न केवलं सूत्रे, किन्तु वाराहे चेति चशब्दार्थः ॥ ( ३ ) ननु मोहे जीवस्य अर्धप्रवेशरूपावस्थानमेव चिन्त्यते । तद् युक्तम् । मोहस्येश्वराधीनतायाः असिद्धत्वेन तस्यैवेह चिन्त्यत्वात् । केवलैतच्चिन्तनस्य व्यर्थत्वात् । न च शङ्काकारणाभाव इति वाच्यम् । मोहे आघातव्याध्यादिकारणान्तरस्यापि दर्शनेन तस्येश्वराधीनत्व शङ्कोदयात् इत्यत आह—सोऽपीति ॥ अपिशब्दस्समुच्चये । तत इत्या वर्तते । भवतीत्यध्याहारः । तथा च यतः न केवलं स्वप्नादिः, अपि तु ‘सः मोहोऽपि तदुद्बोधश्च ‘तत एव’ ईश्वरादेव भवतीति, ‘तत एव’ कर्मा नुस्मृत्यादिपूर्वोक्तहेतुत एव सिद्धम् । अतस्स ततोऽन्यतो वेति चिन्ता न क्रियत इत्यन्वयः ॥ ( ४ ) ननु कर्मानुस्मृत्यादेः साध्यसङ्कोचः कार्यः । अन्यथा घा
७५८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] स ईशः परमो ज्ञेयः परमानन्दलक्षणः ॥ इति कौर्मे ॥ १० ॥ --:-- ८. अधिकरणम् ॥ ( १ ) स्थानापेक्षया परमात्मनो भेदादनुग्राह्यानुग्राहकभा व इति । ह्लादिबाह्यकारणदर्शनविरोध इत्यतो निमित्तकारणविषयं तत् , अ न्यथा विशेषस्मृतिविरोधादिति भावेन तां स्मृतिमुदाहरति---मूर्च्छे ति ॥ इदं च व्यस्तं समस्तं च । समासे मूर्च्छायाः प्रबोधनमिति विग्र हः । चस्समुच्चये । तथा च मूर्च्छा मूर्च्छायाः प्रबोधनं च 'यतः' यस्मा देव 'प्रवर्तते' उत्पद्यते स परम ईशः परमेश्वर एव ज्ञेयो, न ब्रह्मा दिजीवः । कुतः ? यतः सः ' परमानन्दलक्षणः' परमः उत्तमः पूर्णो वा आनन्दः स्वरूपलक्षणं यस्यासौ तथोक्तो नान्येोऽत इति योजना । कौर्मे उक्तमिति शेषः । अस्यातः सोऽपि तत एवेति पूर्वेणान्वयः । त था च मोहावस्थाया ईश्वराधीनत्वस्य पूर्वन्यायसिद्धत्वेन अविचार्य त्वात् अनिश्चितस्वरूपायाश्च तदधीनत्वज्ञानायोगात् अवस्थास्वरूप विचारोऽपि तदधीनत्वप्रतिपत्तिहेतुत्वात् सार्थक एवेति भावः ॥ ७ ॥ ॥ इति संपत्त्यधिकरणम् ॥ :*:- ८. अधिकरणम् ॥ ( १ ) अत्रेश्वरस्य सर्वरूपेषु निर्दोषाशेषगुणत्वं समर्थ्यते । तत्र न स्थानतोऽपीत्यनेन सूचितं पूर्वपक्षं दर्शयति—स्थानेति ॥ स्थानानां सुरनरादिसर्वशरीराणां तत्रापि दक्षिणाक्ष्यादीनां अपेक्षया तद्भेदापे क्षया स्थानभेदानिमित्तादिति यावत् । न केवलं स्थानानां, किन्तु स्थानिपरमात्मनोऽपीति वा न केवलमात्मनां जीवानां अनात्मनां घटा दीनां, किन्तु परमात्मनोऽपीति वाऽपिशब्दार्थः । ततः किमित्यतोऽनि ष्टमापाद्यमाह—अनुग्राह्येति । स्यादिति शेषः । अपिशब्दोऽत्रापि सं बध्यते । परमात्मन इति पञ्चमी षष्ठी च । तथा च परमात्मनः सका शाद्घटादीनां स्थानभेदाद्भेददर्शनात् तत एव भेदनिमित्तकगुणादि तारतम्यस्यापि दर्शनात् तत एवानुग्राह्यानुग्राहकभावदर्शनात् तद्व द्वित्त्वादिरूपिणः परमात्मनोऽपि परस्परं स्थानापेक्षया 'भेदात्' भेद प्राप्तेः तत एव गुणादितारतम्यमनुग्राह्यानुग्राहकभावश्च स्यादिति यो
[अधि - ८. सू - ११.] दीपिकासहितम्. ७५९ (२) अत आह- सू- ॐ ॥ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ॐ ॥ ११ ॥ स्थानापेक्षयाऽपि परमात्मनो न भिन्नं रूपम् । जना। एवं च स एवेत्युक्तमयुक्तमिति भावः ॥ (२) एवं पूर्वपक्षं प्रदर्श्य सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे- अत इति ॥ न केवलं स्वतः, किन्तु 'स्थानापेक्षया' स्थानभे- दादपीत्यर्थः । अनेन सूत्रे स्थानपदं तद्भेदोपलक्षकं, सप्तम्यर्थे च तसिरित्युक्तं भवति । परस्येत्यस्य व्याख्या-परमात्मन इति । सूत्रे परस्योभयत्वमित्येवोक्तौ वियदादिवत्पाणिपादाद्यवयवरूपैकैकदेश- तोऽनेकस्थानस्थितत्वं तत्रैव भेदाभावश्च विज्ञायेत तदुभयं प्रमाणासि- द्धम्, परमात्मा नैकैकदेशतः अनेकस्थानः एकदेशतोऽपि पूर्णत्वादिति युक्तिविरुद्धं, 'सप्ताङ्ग एकोनविंशतिमुखो विश्वः' (मा. २-१०) इति स्पष्टश्रुतिविरुद्धं च । अतस्तन्मा विज्ञायीति उभयलिङ्ग- मित्युक्तम् । तत्र भिन्नमित्येनेनोभयपदं व्याख्यातम् । रूपमित्यनेन लि- ङ्गपदं, 'लिङ्गं स्वरूपमुद्दिष्टम्' इति वचनात् । रूपस्वरूपशब्दयोश्च पर्यायत्वात् । तथा च पूर्वपक्षे विश्वादिरूपिणो हरेः समग्ररूपेणैव भिन्नस्थानस्थितत्वहेतुको भेदो ज्ञायत इति भावः । सिद्धान्ते न भि- न्नमिति विशिष्टनिषेधो विशेषणीभूतभेदनिषेधपर्यवसितः । भेदशब्दे- न च सुधोक्तरीत्या अन्योन्याभावस्य तत्साध्यगुणादिकृतहीनाधिकभा- वस्य तत्साध्यानुग्राह्यानुग्राहकभावस्य च ग्रहणम् । उभयशब्दस्य भिन्नार्थत्वं चोभशब्दपर्यायत्वात्सिद्धम् । तच्च 'उभादुदात्तः' इति सूत्रवृत्तिसिद्धम् । सूत्रे रूपमित्यनुक्त्वा लिङ्गमित्युक्तिः न स्थानापेक्ष- याऽपि परमात्मनो भिन्नं रूपं, न हि स्थानभेदस्तस्योभयत्वस्य लिङ्गं कारणं वा भवति । स्थानभेदेऽपि तद्गतवस्त्वेकत्वोपपत्तेः । स्वप्ना- द्यवस्थाभेदेऽपि तद्गतो भोक्तुरेकत्ववदिति तत्त्वप्रदीपे, न स्थानभेद- स्तद्भेदस्य ज्ञापकः कारको वा स्यादिति आनन्दमालायां चोक्तस्यार्था- न्तरस्य ज्ञापकत्वरूपस्य ज्ञापनार्था । तदपि पूर्वपक्ष्यभिमतहेतोरप्रयो- जकत्वोद्घाटनार्थम् । तथा च तत्त्वप्रदीपकारस्य स्थानत इति प्रथमा- र्थे तसिः। उभयमिति च भावनिर्देशः। तस्य द्वित्वपर्यायत्वाद्भेदत्वम् । लिङ्गत्वं च ज्ञापकत्वं कारणत्वं वाऽभिप्रेतम् । परमात्मनो रूपं विश्वादि- लक्षणं स्थानभेदान्न भिन्नं ज्ञेयमिति भाष्यार्थश्चाभिप्रेत इति ध्येयम् ॥
व्याप्तौ`? No. Wait, let's look at the letter after 'रि': Is it 'मि'? Wait, could it be 'अपरिच्छिन्नव्याप्तौ'? No. Wait! What is the word in the verse being glossed? Verse: "एकरूपः परो विष्णुः सर्वत्रापि न संशयः ।" Gloss:
एकरूप इति ॥रूपशब्दोऽवतारधर्मपरः ।- What about
सर्वत्रापि?सर्वत्रापि=अपरिमितव्याप्तौ? Wait! "सर्वत्रापि" means everywhere, i.e., in all places, unlimited pervasion! "अपरिमितव्याप्तौ" means "in unlimited pervasion" (meaning of 'सर्वत्रापि')! Wait, let's check if the letter is 'त': Could it beअपरिमित? Wait, look at the letter between 'रि' and 'व्या': Does it have an 'i' matra? Look at the top: yes, an 'i' matra curves over it. Does it have a loop at the bottom left? Yes, like 'म'! Wait, is there a 'त' attached to it, or is it 'अपरिमितव्याप्तौ' where the compositor made an error and printed 'अपरिमिव्याप्तौ' or 'अपरिमितव्याप्तौ'?
[ अधि - ८. सू - १२.] दीपिका सहितम्. ७६१ समधिगतोऽस्मि विधूतभेदमोहः । इति च भागवते ॥ ११ ॥ (६) सू— ॐ ॥ न भेदादिति चेन्न प्रत्येकम तद्वचना त् ॥ ॐ ॥ १२ ॥ कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । था अहमपि ‘आत्म कल्पितानां’ परमात्मसृष्टानां ‘शरीरभाजां’ जी वानां ‘हृदि हृदि’ प्रतिहृदयं ‘विष्ठितं’ समग्ररूपेणैव विविधतया स्थितं ‘तं’ ईश्वरं ‘इममजं’ कृष्णं एकत्वसङ्ख्याविशिष्टमभिन्नं भेद मोहो भेदोऽस्तीति व्यामोहो विधूतः अवतारगुणादिषु निरस्तो भेद भ्रमो यस्य सः, समधिगतोऽस्मीत्यर्थः । करचरणादिरूपसामग्र्यमा त्त्रेऽयं दृष्टान्तः न तु द्रव्यपूर्तिरूपेऽपि । सूर्यस्य ईश्वरवच्चक्षुरादिषु द्र व्यपूर्त्या स्थित्यभावादिति ध्येयम् । यद्वा—‘प्रतिदृशं’ दृशंदृशं प्रति मां प्रति मां प्रत्ययं वर्तत इति नैकधा बहूनामाभिमुख्येन स्थितमर्कमे कमेकमिव ईश्वरमप्यहं एकं समधिगतोऽस्मीत्यर्थः । न चास्मिन् पक्षे सूर्यस्य वस्तुतोऽनेकस्थानत्वाभावात्कथमस्य पूर्वप्रमाणगतसूर्यदृष्टा न्तस्पष्टनरूपत्वमिति वाच्यम् । मां प्रति मां प्रतीति भ्रान्त्या बहुधा व्य वस्थितस्य सूर्यस्य यथैकत्वज्ञानमित्येवंस्पष्टनरूपत्वसम्भवात् । इति चेति । न केवलं मात्स्ये, किन्तु भागवते चोक्तार्थोऽभिहित इति चश ब्दार्थः । प्रथमस्कन्धे युधिष्ठिरं प्रति भीष्मवाक्यमेतत् ॥ (६) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे- नेति ॥ भेदवचनादित्यनेन भेदशब्दो भवनपरतया व्याख्यातः । शेषि त्वादेरुपलक्षणमेतत् । तथा च ‘कार्यकारणबद्धौ’ इति भेदकधर्मो क्तिमुखेन भेदोक्तेर्विश्वाद्यात्मनः परस्यानुग्राह्यानुग्राहकभावान्न तस्या भेदो निर्दोषत्वं गुणपूर्णत्वं च युक्तमित्यर्थः । ‘सर्वत्र हि’ इत्युक्तानु मानं तु प्रतिपक्षित्वान्नसाधकमिति भावः । ‘कार्य’ इति माण्डूकश्रु तौ कार्यशब्देनाज्ञानकार्यस्वातन्त्र्यभ्रमरूपं वा, तत्त्वप्रदीपोक्तरीत्या प्र कृतिकार्यदेहेन्द्रियादिविषयकममताभिमानादिरूपं वा, जागरणं जाग्र त्कालीनभ्रमकार्यभूतभ्रमरूपस्वप्नश्च विवक्षितः । न च स्वप्नस्य जाग्र त्कालीनभ्रमकार्यत्वं कथमिति वाच्यम् । जाग्रत्कालीनभ्रमाहितसं स्कारात्स्वप्नकालीनजाग्रत्त्वभ्रमोत्पत्तिसम्भवात् । कारणशब्देन तु अ ज्ञानं वा, भ्रान्तिकारणप्रकृतिर्वा, ‘स्वप्नादुत्थाने तैजसाद्विभक्तो वि ९६
तैजसोऽप्येवमुभय
णकजाग्रत्त्वेन च बद्धो विश्वः कार्यकारणबद्धः । तैजसोऽप्येवमुभय
बद्धः। प्राज्ञस्तु कारणमात्रबद्धः। जाग्रत्स्वप्नयोः कारणं यदज्ञानं तन्मा
बद्धः । प्राज्ञस्तु कारणमात्रबद्धः । जाग्रत्स्वप्नयोः कारणं यदज्ञानं तन्मा
त्ररूपसुप्तिबद्धत्वात्कार्यकारणाकारेण द्वावपि बन्धौ तुर्याख्यरूपे न
त्ररूपसुप्तिबद्धत्वात्कार्यकारणाकारेण द्वावपि बन्धौ तुर्याख्यरूपे न
स्त इत्यर्थः ॥
स्त इत्यर्थः ॥
( ७ ) परिहारांशं व्याचष्टे—नेति ॥ नैतच्छ्रुतिबलेनेश्वररूपाणां
( ७ ) परिहारांशं व्याचष्टे—नेति ॥ नैतच्छ्रुतिबलेनेश्वररूपाणां
Wait, let's look at "(७)" or "( ७ )":
( ७ ) or (७)? It has a slight space: ( ७ ). Either is fine, let's write ( ७ ).
भेदो वक्तव्य इत्यर्थः। कुतो नेत्यतः
[ अधि - ८. सू - १२. ] दीपिकासहितम्. ७६३ नि चानन्तानि च तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्य मयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्' (बृ. ४-५- १९.) इति प्रत्येकमभेदवचनात् ॥ १२ ॥ ति भगवद्रूपाणां मूलरूपेणाभेदवचनादिति हेत्वर्थ उक्तो भवति । सू त्रभाष्ययोः प्रत्येकमित्युक्तिरादरसूचनार्था । तत्प्रयोजनं तु सिद्धान्त श्रुतीनां प्राबल्यसूचनेन ताभिः पूर्वपक्षश्रुतेर्बाधसूचनम् । तेन भेदाभे दवचनयोः साम्यादनिर्णय इति शङ्का निरस्ता । 'एष ते' इति बृह दारण्यके उद्दालकं प्रति याज्ञवल्क्यवचनमेतत् । 'एषः' पृथिव्यन्त र्याम्येव तवान्तर्यामीत्यर्थः । एवमबादावपि । 'अयमेव सः' इत्यारभ्य 'इदं सर्वम्' इत्यन्तमपि । तत्रैव मधुब्राह्मणे श्रुतम् । तदर्थस्तु-यः 'ते जोमयोऽमृतमयः पुरुषः' इति पूर्ववाक्ये तेजःपूर्णत्वनित्यस्वरूपत्वपू र्णत्वगुणः परमात्मा अभिहितः सोऽयम् । अयं क इत्याशङ्कायामाह-य इति । अयं स एव यः पूर्वोक्त आत्मा सर्वगो ह्यशीर्षाख्यः । 'इदं' रूपं 'अमृतं' नित्यमुक्तं 'सर्वमिदं' जगत् 'ब्रह्म' तदधीनमिति । 'अयं वै हर यः' इत्यारभ्य 'इत्यनुशासनम्' इत्यन्तमपि बृहदारण्यके श्रुतम् । अनेन हि परमात्मरूपाणामभेदे प्रमाणत्वेन 'इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश' (ऋ.६-४७-१८.) इति मन्त्रमुदाहृत्य व्या ख्यातः । 'हरयो' हरिनामानो 'दश' मत्स्याद्याः 'अयं वै' मूलरू प्येव चशब्दात्सूचितानि शतानि नारायणादिहरिनामकानि अयमेव । एवमृक्स्थं 'शता दश' इत्येतद्व्यूहद्वयपरत्वेन व्याख्याय दशशता नीति व्युत्क्रमेणान्वयेनैकव्यूहपरत्वेनापि व्याख्याति-सहस्राणीति । विश्वादीनि सहस्राणि अयं वा इत्यन्वयः। दशेत्येतद्बहुपर्यायमभ्युपेत्य व्यूहान्तरपरत्वेनापि व्याख्याति-बहूनि चेति । परादीनि बहूनि च हर योऽयं वा इत्यन्वयः। 'शतमनन्तं भवति' ( ) इति वचनाच्छ तेत्येतदनन्तपर्यायमित्यभिप्रेत्य व्यूहान्तरपरत्वेनापि व्याचष्टे-अनन्ता नि चेति । अजितादीन्यपि
७६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ( ८ ) सू—ॐ ॥ अपि चैवमेके ॥ ॐ ॥ १३ ॥ एवमभेदेनैव चशब्दादनन्तरूपत्वं चैके शाखिनः पठन्ति । अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमश्शिवः । ओङ्कारो विदितो येन स मुनिर्नैतरो जनः ॥ (मा. ४-७.) इदमेव सर्वस्मादन्तरं बाह्यं चेत्यर्थः । ब्रह्मायमात्मा सर्वमनुभवतीति ‘सर्वानुभूः’ सर्वज्ञ इति ‘वेदानुशासनं’ वेदव्याख्यानमित्यर्थः । पुन र्ब्रह्मेत्युक्तिस्तात्पर्यार्था, अनेकाधिशेषणसम्बन्धार्था वा । यद्वा—ब्रह्मेत्य नुवादोऽतो न पौनरुक्त्यम् । तथा च यत् ब्रह्मायमात्मा सर्वानुभूरि त्यन्वयः । विधेयविवक्षया अयमात्मेति पुल्लिङ्गप्रयोगः ॥ ( ८ ) ननु नामेदश्रुतिभिः भेदश्रुतेः बाधो युक्तः । तासां क तिपयरूपविषयत्वेन सावकाशत्वात् । नापि ‘अयं वै हरयः’ इ त्यन्तिमश्रुतिविरोधः । तत्र परस्परमभेदानुक्तेः, मूलरूपेणापि ‘ए ष त आत्मा.....अयमेव सः’ इतिवत् स्पष्टमभेदाप्रतीतेः । अ तो भेदश्रुतिबलात् विश्वादीनां भेद एवेत्याशङ्कां परिहरत्सूत्रं पठि त्वा व्याचष्टे—अपीति ॥ अत्रापिः तत्त्वप्रदीपोक्तरीत्या न केवलं का ण्वा एवं पठन्ति, किन्तु ‘एके’ अन्ये माण्डूकेया अपीति समुच्चयार्थः। एवमित्यनुवादः, अभेदेनेति व्याख्यानम् । इत्थंभूतलक्षणे तृतीया । त था च अभिन्नत्वप्रकारं प्राप्तान्येवेत्यर्थः । विश्वाद्यनन्तरूपाणीति शे षः । चशब्दादित्यनन्तरं विष्णोस्समुचितमिति शेषः । द्वितीयान्तश ब्दयोरेके पठन्तीत्यनेनान्वयः । यद्वा—अभेदेनेति सहयोगे तृतीया । तथा च चशब्दबोधितं ‘अनन्तरूपत्वं’ विश्वादिरूपाणामनन्तत्वं बहु त्वं अभेदेन सहैके पठन्तीत्यर्थः । चस्समुच्चये । इति पठन्तीत्यन्वयः । इतिरावर्तते । स च हेतौ । तथा च इति यतः पठन्ति अतो न भेदश्रु तिमवलम्ब्य विश्वादिभेदो ग्राह्यः, न भेदश्रुतिः अभेदश्रुतिविरोधिनी ति वा अध्याहारेणान्वयः । अनेन सूत्रे पठन्तीत्यस्य यतोऽतश्शब्दयो रुक्तसाध्यवाक्यस्य च अध्याहारः कार्य इति सूचितम् । श्रुत्यर्थस्तु- यद्यपि ‘अमात्रो’ भिन्नांशशून्यः तथाऽपि ‘अनन्तमात्रः’ अभिन्नान न्तांशवान् ‘द्वैतस्योपशमः’ द्वितीयेन प्रकारेणेतं द्वीतं इण् गतौ, भा वे निष्ठा, द्वीतमेव द्वैतं, मिथ्याज्ञानं तस्योपशमस्तन्नाशकृत् । तत्त्वप्र दीपे तु—‘अमात्रः’ परिमाणरहितः ‘अनन्तमात्रः’ अनन्तरूपः
[ अधि - ८. सू - १३. ] दीपिकासहितम्. ७६५ ( ९ ) अभेदेऽपि भेदव्यपदेशः स्थानभेदादैश्वर्ययोगाच्च यु ज्यते । ( १० ) ब्रह्मतर्के च । बद्धो बन्धादिसाक्षित्वाद्भिन्नो भिन्नेषु संस्थितः । 'शिवः' सुखात्मकः 'ओंकारः' ओमित्याक्रियमाणः प्रणववाच्यः प- रमात्मा येन जीवेन विदितः स एव मुनिः न त्वितर इति 'द्वैतस्योपश- मः' भेदरहित इति व्याख्यातम् । पठन्तीत्यन्वयः ॥ ( ९ ) तर्हि का गतिः 'कार्यकारणबद्धौ' ( मा. २ - १६ . ) इति भेदव्यप- देशस्येत्यत आह-अभेदेऽपीति ॥ विश्वादिरूपाणामभिन्नत्वेऽपीत्यर्थः । यद्यपितथाऽपीत्यर्थे अपिशब्दः । अनेन सौत्रापिशब्दस्यार्थान्तरं दर्शित- म् । भेदव्यपदेशो युज्यत इति । विश्वादयो बद्धाः तुरीयस्त्वबद्ध इति भेदकधर्मोक्तिमुखेन भेदोक्तिर्युज्यते इत्यर्थः । अनेनैव शब्दस्यार्थान्तरं दर्शितम् । कथं युज्यते अत आह—स्थानभेदादिति । अक्ष्यादितदन्य- रूपस्थानभेदादित्यर्थः । तथा चाक्ष्यादिस्थो बद्धः अन्यत्रगस्त्वबद्ध इति भेदकधर्मोक्तिः स्थानभेदाद्युज्यते । तथा भेदोक्तिरपि स्थानगत- भेदस्य स्थानिन्युपचाराद्युज्यत इत्यर्थः । 'अनन्योऽप्यन्यशब्देन' इ- त्यानन्दमयनयोदाहृतप्रमाणे तु अभेदे भेदव्यपदेशः अचिन्त्यैश्वर्यात् युज्यत इत्युक्तम् । तत्र भेदव्यपदेशस्य मुख्यत्वाभिप्रायकम् । अभिन्न- स्यैकस्य स्थानभेदोऽपि कुत इत्यत आह—ऐश्वर्येति । अचिन्त्यश- क्त्याख्योपायादित्यर्थः । हेतुसाधकहेतुसमुच्चये चशब्दः ॥ ( १० ) ननु निर्दोषस्य हरेः कथं बन्ध इत्याशङ्कां परिहर्तुमुक्तार्थे चशब्दसूचितां स्मृतिमाह—ब्रह्मतर्के चेति ॥ न केवलमस्माभिरिति समुच्चये शङ्कापरिहारसमुच्चये वा चशब्दः । बन्धादीति । जीवस्य जाग्रदादिभ्रमकारणतया बन्धकर्तृत्वादित्यर्थः । आदिशब्देन दुःखा- दिदोषो गृह्यते । बद्ध इत्युपलक्षणम् । दुःखीत्यपि द्रष्टव्यम् । निर्दोषे- ति विशेषणयोः कर्मधारयो बहुलग्रहणात् । अपिः प्रत्येकं सम्बध्यते । तथा च परमेश्वरो यद्यपि निर्दोषः, तथाऽपि 'बन्धादिसाक्षित्वात्' अन्यगतबन्धदुःखादिद्रष्टृत्वात्तत्स्वामित्वाच्च बद्धादिरिति कथ्यते । एवं परमेश्वरो यद्यपि 'अद्वयरूपः' अभिन्नरूपः । तथाऽपि 'भिन्नेषु' अक्ष्यादिषु संस्थितिर्निमित्ताद्भिन्न इति कथ्यते इति योजना । इति ब्र
७६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] निर्दोषाद्वयरूपोऽपि कथ्यते परमेश्वरः ॥ इति ॥ १३ ॥ ९. अधिकरणम् ॥ ( १ ) रूपवत्त्वादनित्यत्वमिति । ( २ ) अतो वक्ति— सू—ॐ ॥ अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्वान्नैव रूपवद्ब्रह्म । ह्यातर्क इत्यन्वयः । उक्तमिति शेषः ॥ ८ ॥ ॥ इति न स्थानतोऽप्यधिकरणम् ॥ ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विष्णोरप्राकृतरूपं समर्थ्यते । पूर्वपक्षयति— रूपवत्त्वादिति ॥ शुक्लादिरूपवत्त्वेन विग्रहवत्त्वेन चोक्तत्वादित्यर्थः । अत एव च तत्त्वप्रदीपे 'रूपोपन्यासाच्च, पुरुषविधमपि' इत्यादिना रूपवत्त्वमुक्तमिति रूपशब्दितविग्रहवर्णोभयप्रापकसूत्रोदाहरणं कृत- म् । न चैवं रूपशब्देन शुक्लादिगुणप्रतीतिः स्यात् अतः—शिरःपाणी- त्युक्तमिति सुधाविरोध इति वाच्यम् । तस्यास्तन्मात्रप्रतीतिस्स्या- दित्यर्थकत्वात् । 'अनित्यत्वं' देहतो नाशवत्त्वं, विष्णोः स्यादिति शेषः। एवं रूपवत्त्वादित्येतत् रूपवत्त्वेन 'रुक्मवर्णं, आदित्यवर्णम्' इत्या- दिश्रुतिसिद्धत्वादित्यपि व्याख्येयम् । तेन हेत्वसिद्धिः परिहृता । अ- नित्यपदं च विष्णो रूपवत्त्वे 'अरूपमव्ययम्' 'तद्रूपमनामयम्' इ- त्यादिश्रुत्यप्रामाण्यं च स्यादित्यप्रामाण्यपरतयाऽपि व्याख्येयम् । यथा 'अनित्यमुच्यते' (१-२-१.) इति जैमिनिसूत्रे बाधकद्वयमुक्तं भवति, एव- मरूपत्वपक्षेऽपि बाधकद्वयं टीकोक्तमनुसन्धेयम् । तथा च पक्षद्वयेऽपि भक्तिरनुपपन्नेति पूर्वपक्ष्याभिप्रायः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ 'प्रकृत्यादि- प्रवर्तकत्वेन' तन्नियामकत्वेनेति । अनेन तच्छब्दार्थो दर्शितः । आदि- शब्देन भूतं गृह्यते । उत्तमत्वादित्यनेन प्रधानत्वादित्येतत्प्रकारान्तरेण व्याख्यातम् । तत्र पूर्वे उत्तमत्वे प्रकारप्रदर्शनरूपम् । सूत्रेऽरूपमिति वाच्ये रूपरूपिभेदन्निवृत्त्यर्थमरूपवदित्युक्तं, तद्व्याचष्टे—नेति । प्राकृ- तभौतिकरूपवद्भिन्नमेवेत्यर्थः । न तु तद्रहित्येवकारार्थः । सूत्रे तदि-
[ अधि - ९. सू - १५ ] दीपिकासहितम्. ७६७ ( ३ ) हिशब्दात् 'अस्थूलमनणु' ( बृ. ३-८-८. ) इत्यादि श्रुतेश्च । ( ४ ) भौतिकानि हि रूपाणि भूतेभ्योऽसौ परो यतः । अरूपवानतः प्रोक्तः क्व तद्व्यक्ततः परे ॥ इति मात्स्ये ॥ १४ ॥ ( ५ ) सू—ॐ ॥ प्रकाशवच्चावैय्यर्थ्यम् ॥ ॐ ॥ १५ ॥ ति व्यस्तं समस्तं चेत्याशयेन व्यस्ततच्छब्दार्थमाह—ब्रह्मेति । तस्मा न्नानित्यत्वं ब्रह्मणः शङ्क्यमिति वाक्यशेषः ॥ ( ३ ) ननु ब्रह्मणः प्रकृत्यादिसामर्थ्येन देहबन्धाभावेऽपि स्वेच्छा लीलादिनिमित्तं रूपं किं न स्यादित्याशङ्कावारकतया हिशब्दं व्याच ष्टे—हिशब्दादिति ॥ सूचिताया इति शेषः । श्रुतेरित्यस्य नेतिवाक्ये नान्वयः । तथा च निमित्तान्तरकृतरूपपदोक्तदेहाभ्युपगमे श्रुतावरूप मिति सामान्यनिषेधो न स्यादिति भावः । न केवलमुक्तयुक्तेरिति च शब्दार्थः । व्याख्यातेयं श्रुतिः अक्षरनये । अनेन सूत्रे नपुंसकोक्तिरेतच्छु त्यनुसारादिति ध्येयम् ॥ ( ४ ) सूत्रार्थे स्मृतिं चाह—भौतिकानीति ॥ यस्मात् सर्वाणि 'रूपाणि' शरीराणि पाञ्चभौतिकानि । उपलक्षणमेतत् । आव्यक्तिका नि च । यस्माच्च 'असौ' परमात्मा भूतेभ्यः 'परः' तत्प्रवर्तकत्वेन तदुत्तमः तस्मात् 'अरूपवान्' तत्कार्यरूपरहितः । ननु भूतपरे भौति करूपाभावेऽपि अव्यक्तकार्यं रूपं किं न स्यादित्यत आह—क्वेति । 'अ व्यक्ततः' प्रकृतितः 'परे' तत्प्रवर्तकत्वेन तदुत्तमे तत एव तत्कृतब न्धशून्ये ब्रह्मणि 'तत्' आव्यक्तिकं रूपमपि 'क्व' नेत्यर्थः । यद्वा— तत्त्वप्रदीपोक्तरीत्या कैमुत्यमेतत् । अस्मिन् पक्षे नोपलक्षणम् । तच्छ ब्देन भौतिकरूपस्यैव परामर्शः । तथा च यदा भूतेभ्यः परे भगवति भूतकार्यदेहो न, तदा भूतकारणाव्यक्तमप्यतीत्य वर्तमाने तस्मिन् त द्व्यक्तकार्यभूतकार्यशरीरं नेति किमु वक्तव्यमित्यर्थः । यद्वा भूतपर त्वमेव भौतिकदेहाभावे हेतुः, तदा सुतरां भूतपराद्व्यक्तपरत्वमिति भावः । एवं यतो भौतिकानि रूपाणि अनित्यत्वव्याप्तानि, असौ च भू तेभ्यः परत्वात्तद्रहितोऽतो नानित्यताशङ्का कार्येत्यध्याहारेण तत्त्वप्र दीपोक्तं योजनान्तरं द्रष्टव्यम् । इति मात्स्य इति । उक्तमिति शेषः ॥ ( ५ ) ननु ब्रह्मणो रूपाभावे 'रुक्मवर्णम्' इत्यादिरूपित्वश्रुति
७६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] 'यदा पश्यः पश्यते रुक्मवर्णम्' (मु. ३-१-३.) 'श्या माच्छबलं प्रपद्ये' (छा. ८-१३-१०) 'सुवर्णज्योतिः' (तै. ३-१०.) इत्यादिश्रुतीनां च न वैयर्थ्यम्, विल क्षणरूपवत्त्वात् । वैयर्थ्यं, सौन्दर्यसौलक्षण्याद्यभावश्चेत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—प्रकाशवच्चेति ॥ श्रुतीनामित्यनेन वैयर्थ्यसम्बन्धी दर्शितः । 'यदा' इति मुण्डकश्रुतिरदृश्यत्वान्वये व्याख्याता । 'श्यामात्' इति छान्दोग्यश्रुतिः । 'श्यामो हृदि स्थितो विष्णुः शबलो विश्वरूपवान्' इति तद्भाष्ये व्याख्याता । यो हृदिस्थो विष्णुः श्यामरूपवान् तस्मा त्तदुपासनानन्तरं यो हृदि स्थितः 'शबलो' विश्वरूपवान्नानावर्णयु क्तस्तमहं प्रपद्ये उपासे इति तदभिप्रायः । हृद्गतोपास्तिसाध्यां विश्व रूपोपास्तिमाहेति छान्दोग्यटीकोक्तेः यो हृदिस्थो विष्णुस्तदुपासना नन्तरं यो विश्वरूपी व्याप्यरूपी तमुपासे इत्यर्थः । 'सुवर्णज्योतिः' इति वेदान्तवाक्यं तैत्तिरीयगतं वा । तस्य तद्भाष्ये सुष्ठु परमानन्दो हरिः ज्योतिः प्रेरको यस्येति मुक्तपरतया व्याख्यानेऽपीह ब्रह्मणो रुक्म वर्णाभिधायकतयाऽपि व्याख्यानादविरोधः । आदिशब्देन 'आदित्यव र्णम्' इत्यादिकं गृह्यते । श्रुतीनां चेति चशब्दः न केवलमरूपित्वश्रुती नां न वैयर्थ्यं, अपि तु रूपित्वश्रुतीनां च 'न वैयर्थ्यं' विषयाभावकृ ताप्रामाण्यमिति समुच्चये । वैयर्थ्यं चेति भिन्नक्रमेणान्वये सौन्दर्या द्यभावसमुच्चये वा चशब्दः । कुतो रूपश्रुतिवैयर्थ्याभावः सौन्दर्याद्य भावो वेत्यतस्तत्र हेतुतया प्रकाशवदित्यंशं मत्वभिप्रायेण व्याचष्टे— रूपवत्त्वादिति । पञ्चमीनिर्देशेन यतः तत् प्रकाशवद्रूपवदिति हेतुर्दर् शितः । यत्तु चशब्देनारूपित्वश्रुतीनामप्यवैयर्थ्यमनित्यत्वराहित्यं च सूचितम्, तदयुक्तम् । ब्रह्मणो रूपित्वे अनित्यत्वस्यारूपित्वश्रुतिवै यर्थ्यस्य चापत्तेरित्यतो नैवमित्याह सूत्रकृत्—अवैयर्थ्यमिति । त स्यर्थो—विलक्षणेति । प्राकृतभौतिकरूपविलक्षणेत्यर्थः । अरूपवच्चेति चशब्दार्थो वाऽयम् । तथा चानित्यत्वादिव्याप्तप्राकृतादिरूपाभावान्न ब्रह्मणोऽनित्यत्वं, न वाऽरूपित्वश्रुतिवैयर्थ्यं प्राकृतादिरूपाभावविषय त्वात्तस्या इति भावः । एवं न वैयर्थ्यमित्येतत् व्युत्पत्त्यभावादरूपित्व श्रुतेरर्थाबोधकत्वं नेत्यपि व्याख्येयम् ॥
शब्दव्यवहारवदुपपद्यते अत इति ॥ * ( ७ ) ननु कथं ब्रह्मणो विलक्षणरूपवत्त्वं, येनानित्यत्वादिदोषाभा- * Footer: ९७`
- Double Check Line Breaks and Markers:
Count lines:
L1: Header:
[ अधि - ९. - सू - १६. ] दीपिकासहितम्. ७६९L2:( ६ ) यथा चक्षुरादिप्रकाशे विद्यमानेऽपि वैलक्षण्यादप्रका-L3:शादिव्यवहारः ॥ १५ ॥L4:( ७ ) सू—ॐ ॥ आह च तन्मात्रम् ॥ ॐ ॥ १६ ॥L5:( ६ ) ननु यद्यस्ति परमात्मनो रूपं, तर्हि कथं तस्य प्रसिद्धरूपवै-L6:लक्षण्यमात्रेणारूपित्वोक्तिरित्याशङ्कोत्तरत्वेनापि प्रकाशवदित्येतद्दृष्टा-L7:न्ताभिप्रायेण व्याचष्टे—यथेति ॥ आदिशब्देन तेजोऽन्तरं गृह्यते । वि-L8:द्यमाने इत्यतः प्राक् गृहान्तरित्युपस्कार्यम् । अपिशब्दो विरोधसूच-L9: `
वैलक्षण्यं चोच्यते रूपस्य विज्ञानानन्दमात्रत्वं 'ऐका त्म्यप्रत्ययसारम्' (मा. २-७.) इति । (८) आनन्दमात्रमजरं पुराणं एकं सन्तं बहुधा दृश्यमानम् । तमात्मस्थं येऽनुपश्यन्ति धीरा घ , सर्वरूपाणां प्रकृत्याद्यात्मकत्वनियमात् इतररूपापेक्षया तद्रूपस्य वैलक्षण्यानुक्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—आह चे ति ॥ सूत्रे भाष्ये च चोऽवधारणे । उच्यत एवेति सम्बध्यते । न तु नोच्यत इत्येवशब्दार्थः । 'रूपस्य' शरीरस्येति बुद्ध्या विविक्तस्य विपरिणतस्य तत्पदस्य व्याख्यानम् । विज्ञानानन्दमात्रत्वमिति । ज्ञा नानन्दाद्येकस्वरूपत्वमित्यर्थः । अनेन तच्छब्दः तद्गुणसारत्वादित्यत्र प्रकृतज्ञानानन्दगुणवाची भावनिर्देशश्चायमिति सूचितम् । इदं च वै लक्षण्यपदेन समानाधिकृततयाऽन्वेतव्यम् । मात्रपदेन रूपस्य प्राकृत त्वनिवृत्तिः । इति श्रुत्योच्यत इत्यन्वयः । ब्रह्मणो ज्ञानानन्दाद्यात्मक त्वोक्त्या तद्रूपस्यापि तदुक्तमित्यभिप्रायः । अनेन यतः 'ऐकात्म्यप्रत्य यसारम्' इति माण्डूकश्रुतिः तस्य ब्रह्मणो रूपस्य तन्मात्रत्वं ज्ञानान न्दाद्येकस्वरूपत्वं 'आह च' वक्त्येव अतो न वैलक्षण्यानुक्तिरिति सूत्रार्थ उक्तो भवति । तथा च पूर्ववाद्युक्तहेतुरसिद्ध इति भावः । एकः प्रधानः स चासावात्मा च पूर्णश्चैकात्मा तस्य भावः ऐकात्म्यम्, प्रत्ययो ज्ञानं, ऐकात्म्यं प्रत्ययश्चेत्युभयं सारः स्वरूपं यस्य तदैकात्म्य प्रत्ययसारमिति श्रुत्यर्थः । यद्यपि माण्डूकभाष्ये एकः प्रधान उद्दिष्टः आत्मा पूर्णत्वतश्श्रुतः । तदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितम् ॥ प्रत्ययो ज्ञानरूपत्वात्सार आनन्दरूपतः ॥ इत्यानन्दरूपत्वं सारशब्दार्थो, न स्वरूपमित्युक्तम् । तथा व्यासतीर्थी ये—स्वार्थे ष्यञ् । ऐकात्म्यस्य ब्रह्माभेदं चाश्रित्य ऐकात्म्यश्चासौ प्रत्ययश्चासौ सारश्चेति विग्रहः प्रदर्शितः । तथाऽपि 'आनन्दमात्रम्' इत्युत्तरश्रुत्यवैयर्थ्यायेह स्वरूपार्थतया सारशब्दो व्याख्यातः ॥ (८) इह सारशब्दस्य स्वरूपार्थत्वादानन्दरूपत्वे श्रुत्यन्तरं पठ ति—आनन्दमात्रमिति । आनन्दैकस्वरूपं, न तु प्राकृतं, कुतो ? यतः