भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - ८. सू - १२. ] दीपिकासहितम्. ७६३ नि चानन्तानि च तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्य मयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्' (बृ. ४-५- १९.) इति प्रत्येकमभेदवचनात् ॥ १२ ॥ ति भगवद्रूपाणां मूलरूपेणाभेदवचनादिति हेत्वर्थ उक्तो भवति । सू त्रभाष्ययोः प्रत्येकमित्युक्तिरादरसूचनार्था । तत्प्रयोजनं तु सिद्धान्त श्रुतीनां प्राबल्यसूचनेन ताभिः पूर्वपक्षश्रुतेर्बाधसूचनम् । तेन भेदाभे दवचनयोः साम्यादनिर्णय इति शङ्का निरस्ता । 'एष ते' इति बृह दारण्यके उद्दालकं प्रति याज्ञवल्क्यवचनमेतत् । 'एषः' पृथिव्यन्त र्याम्‍येव तवान्तर्यामीत्यर्थः । एवमबादावपि । 'अयमेव सः' इत्यारभ्य 'इदं सर्वम्' इत्यन्तमपि । तत्रैव मधुब्राह्मणे श्रुतम् । तदर्थस्तु-यः 'ते जोमयोऽमृतमयः पुरुषः' इति पूर्ववाक्ये तेजःपूर्णत्वनित्यस्वरूपत्वपू र्णत्वगुणः परमात्मा अभिहितः सोऽयम् । अयं क इत्याशङ्कायामाह-य इति । अयं स एव यः पूर्वोक्त आत्मा सर्वगो ह्यशीर्षाख्यः । 'इदं' रूपं 'अमृतं' नित्यमुक्तं 'सर्वमिदं' जगत् 'ब्रह्म' तदधीनमिति । 'अयं वै हर यः' इत्यारभ्य 'इत्यनुशासनम्' इत्यन्तमपि बृहदारण्यके श्रुतम् । अनेन हि परमात्मरूपाणामभेदे प्रमाणत्वेन 'इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश' (ऋ.६-४७-१८.) इति मन्त्रमुदाहृत्य व्या ख्यातः । 'हरयो' हरिनामानो 'दश' मत्स्याद्याः 'अयं वै' मूलरू प्येव चशब्दात्सूचितानि शतानि नारायणादिहरिनामकानि अयमेव । एवमृक्स्थं 'शता दश' इत्येतद्व्यूहद्वयपरत्वेन व्याख्याय दशशता नीति व्युत्क्रमेणान्वयेनैकव्यूहपरत्वेनापि व्याख्याति-सहस्राणीति । विश्वादीनि सहस्राणि अयं वा इत्यन्वयः। दशेत्येतद्बहुपर्यायमभ्युपेत्य व्यूहान्तरपरत्वेनापि व्याख्याति-बहूनि चेति । परादीनि बहूनि च हर योऽयं वा इत्यन्वयः। 'शतमनन्तं भवति' ( ) इति वचनाच्छ तेत्येतदनन्तपर्यायमित्यभिप्रेत्य व्यूहान्तरपरत्वेनापि व्याचष्टे-अनन्ता नि चेति । अजितादीन्यपि

७६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ( ८ ) सू—ॐ ॥ अपि चैवमेके ॥ ॐ ॥ १३ ॥ एवमभेदेनैव चशब्दादनन्तरूपत्वं चैके शाखिनः पठन्ति । अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमश्शिवः । ओङ्कारो विदितो येन स मुनिर्नैतरो जनः ॥ (मा. ४-७.) इदमेव सर्वस्मादन्तरं बाह्यं चेत्यर्थः । ब्रह्मायमात्मा सर्वमनुभवतीति ‘सर्वानुभूः’ सर्वज्ञ इति ‘वेदानुशासनं’ वेदव्याख्यानमित्यर्थः । पुन र्ब्रह्मेत्युक्तिस्तात्पर्यार्था, अनेकाधिशेषणसम्बन्धार्था वा । यद्वा—ब्रह्मेत्य नुवादोऽतो न पौनरुक्त्यम् । तथा च यत् ब्रह्मायमात्मा सर्वानुभूरि त्यन्वयः । विधेयविवक्षया अयमात्मेति पुल्लिङ्गप्रयोगः ॥ ( ८ ) ननु नामेदश्रुतिभिः भेदश्रुतेः बाधो युक्तः । तासां क तिपयरूपविषयत्वेन सावकाशत्वात् । नापि ‘अयं वै हरयः’ इ त्यन्तिमश्रुतिविरोधः । तत्र परस्परमभेदानुक्तेः, मूलरूपेणापि ‘ए ष त आत्मा.....अयमेव सः’ इतिवत् स्पष्टमभेदाप्रतीतेः । अ तो भेदश्रुतिबलात् विश्वादीनां भेद एवेत्याशङ्कां परिहरत्सूत्रं पठि त्वा व्याचष्टे—अपीति ॥ अत्रापिः तत्त्वप्रदीपोक्तरीत्या न केवलं का ण्वा एवं पठन्ति, किन्तु ‘एके’ अन्ये माण्डूकेया अपीति समुच्चयार्थः। एवमित्यनुवादः, अभेदेनेति व्याख्यानम् । इत्थंभूतलक्षणे तृतीया । त था च अभिन्नत्वप्रकारं प्राप्तान्येवेत्यर्थः । विश्वाद्यनन्तरूपाणीति शे षः । चशब्दादित्यनन्तरं विष्णोस्समुचितमिति शेषः । द्वितीयान्तश ब्दयोरेके पठन्तीत्यनेनान्वयः । यद्वा—अभेदेनेति सहयोगे तृतीया । तथा च चशब्दबोधितं ‘अनन्तरूपत्वं’ विश्वादिरूपाणामनन्तत्वं बहु त्वं अभेदेन सहैके पठन्तीत्यर्थः । चस्समुच्चये । इति पठन्तीत्यन्वयः । इतिरावर्तते । स च हेतौ । तथा च इति यतः पठन्ति अतो न भेदश्रु तिमवलम्ब्य विश्वादिभेदो ग्राह्यः, न भेदश्रुतिः अभेदश्रुतिविरोधिनी ति वा अध्याहारेणान्वयः । अनेन सूत्रे पठन्तीत्यस्य यतोऽतश्शब्दयो रुक्तसाध्यवाक्यस्य च अध्याहारः कार्य इति सूचितम् । श्रुत्यर्थस्तु- यद्यपि ‘अमात्रो’ भिन्नांशशून्यः तथाऽपि ‘अनन्तमात्रः’ अभिन्नान न्तांशवान् ‘द्वैतस्योपशमः’ द्वितीयेन प्रकारेणेतं द्वीतं इण् गतौ, भा वे निष्ठा, द्वीतमेव द्वैतं, मिथ्याज्ञानं तस्योपशमस्तन्नाशकृत् । तत्त्वप्र दीपे तु—‘अमात्रः’ परिमाणरहितः ‘अनन्तमात्रः’ अनन्तरूपः

[ अधि - ८. सू - १३. ] दीपिकासहितम्. ७६५ ( ९ ) अभेदेऽपि भेदव्यपदेशः स्थानभेदादैश्वर्ययोगाच्च यु ज्यते । ( १० ) ब्रह्मतर्के च । बद्धो बन्धादिसाक्षित्वाद्भिन्नो भिन्नेषु संस्थितः । 'शिवः' सुखात्मकः 'ओंकारः' ओमित्याक्रियमाणः प्रणववाच्यः प- रमात्मा येन जीवेन विदितः स एव मुनिः न त्वितर इति 'द्वैतस्योपश- मः' भेदरहित इति व्याख्यातम् । पठन्तीत्यन्वयः ॥ ( ९ ) तर्हि का गतिः 'कार्यकारणबद्धौ' ( मा. २ - १६ . ) इति भेदव्यप- देशस्येत्यत आह-अभेदेऽपीति ॥ विश्वादिरूपाणामभिन्नत्वेऽपीत्यर्थः । यद्यपितथाऽपीत्यर्थे अपिशब्दः । अनेन सौत्रापिशब्दस्यार्थान्तरं दर्शित- म् । भेदव्यपदेशो युज्यत इति । विश्वादयो बद्धाः तुरीयस्त्वबद्ध इति भेदकधर्मोक्तिमुखेन भेदोक्तिर्युज्यते इत्यर्थः । अनेनैव शब्दस्यार्थान्तरं दर्शितम् । कथं युज्यते अत आह—स्थानभेदादिति । अक्ष्यादितदन्य- रूपस्थानभेदादित्यर्थः । तथा चाक्ष्यादिस्थो बद्धः अन्यत्रगस्त्वबद्ध इति भेदकधर्मोक्तिः स्थानभेदाद्युज्यते । तथा भेदोक्तिरपि स्थानगत- भेदस्य स्थानिन्युपचाराद्युज्यत इत्यर्थः । 'अनन्योऽप्यन्यशब्देन' इ- त्यानन्दमयनयोदाहृतप्रमाणे तु अभेदे भेदव्यपदेशः अचिन्त्यैश्वर्यात् युज्यत इत्युक्तम् । तत्र भेदव्यपदेशस्य मुख्यत्वाभिप्रायकम् । अभिन्न- स्यैकस्य स्थानभेदोऽपि कुत इत्यत आह—ऐश्वर्येति । अचिन्त्यश- क्त्याख्योपायादित्यर्थः । हेतुसाधकहेतुसमुच्चये चशब्दः ॥ ( १० ) ननु निर्दोषस्य हरेः कथं बन्ध इत्याशङ्कां परिहर्तुमुक्तार्थे चशब्दसूचितां स्मृतिमाह—ब्रह्मतर्के चेति ॥ न केवलमस्माभिरिति समुच्चये शङ्कापरिहारसमुच्चये वा चशब्दः । बन्धादीति । जीवस्य जाग्रदादिभ्रमकारणतया बन्धकर्तृत्वादित्यर्थः । आदिशब्देन दुःखा- दिदोषो गृह्यते । बद्ध इत्युपलक्षणम् । दुःखीत्यपि द्रष्टव्यम् । निर्दोषे- ति विशेषणयोः कर्मधारयो बहुलग्रहणात् । अपिः प्रत्येकं सम्बध्यते । तथा च परमेश्वरो यद्यपि निर्दोषः, तथाऽपि 'बन्धादिसाक्षित्वात्' अन्यगतबन्धदुःखादिद्रष्टृत्वात्तत्स्वामित्वाच्च बद्धादिरिति कथ्यते । एवं परमेश्वरो यद्यपि 'अद्वयरूपः' अभिन्नरूपः । तथाऽपि 'भिन्नेषु' अक्ष्यादिषु संस्थितिर्निमित्ताद्भिन्न इति कथ्यते इति योजना । इति ब्र

७६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] निर्दोषाद्वयरूपोऽपि कथ्यते परमेश्वरः ॥ इति ॥ १३ ॥ ९. अधिकरणम् ॥ ( १ ) रूपवत्त्वादनित्यत्वमिति । ( २ ) अतो वक्ति— सू—ॐ ॥ अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्वान्नैव रूपवद्ब्रह्म । ह्यातर्क इत्यन्वयः । उक्तमिति शेषः ॥ ८ ॥ ॥ इति न स्थानतोऽप्यधिकरणम् ॥ ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विष्णोरप्राकृतरूपं समर्थ्यते । पूर्वपक्षयति— रूपवत्त्वादिति ॥ शुक्लादिरूपवत्त्वेन विग्रहवत्त्वेन चोक्तत्वादित्यर्थः । अत एव च तत्त्वप्रदीपे 'रूपोपन्यासाच्च, पुरुषविधमपि' इत्यादिना रूपवत्त्वमुक्तमिति रूपशब्दितविग्रहवर्णोभयप्रापकसूत्रोदाहरणं कृत- म् । न चैवं रूपशब्देन शुक्लादिगुणप्रतीतिः स्यात् अतः—शिरःपाणी- त्युक्तमिति सुधाविरोध इति वाच्यम् । तस्यास्तन्मात्रप्रतीतिस्स्या- दित्यर्थकत्वात् । 'अनित्यत्वं' देहतो नाशवत्त्वं, विष्णोः स्यादिति शेषः। एवं रूपवत्त्वादित्येतत् रूपवत्त्वेन 'रुक्मवर्णं, आदित्यवर्णम्' इत्या- दिश्रुतिसिद्धत्वादित्यपि व्याख्येयम् । तेन हेत्वसिद्धिः परिहृता । अ- नित्यपदं च विष्णो रूपवत्त्वे 'अरूपमव्ययम्' 'तद्रूपमनामयम्' इ- त्यादिश्रुत्यप्रामाण्यं च स्यादित्यप्रामाण्यपरतयाऽपि व्याख्येयम् । यथा 'अनित्यमुच्यते' (१-२-१.) इति जैमिनिसूत्रे बाधकद्वयमुक्तं भवति, एव- मरूपत्वपक्षेऽपि बाधकद्वयं टीकोक्तमनुसन्धेयम् । तथा च पक्षद्वयेऽपि भक्तिरनुपपन्नेति पूर्वपक्ष्याभिप्रायः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ 'प्रकृत्यादि- प्रवर्तकत्वेन' तन्नियामकत्वेनेति । अनेन तच्छब्दार्थो दर्शितः । आदि- शब्देन भूतं गृह्यते । उत्तमत्वादित्यनेन प्रधानत्वादित्येतत्प्रकारान्तरेण व्याख्यातम् । तत्र पूर्वे उत्तमत्वे प्रकारप्रदर्शनरूपम् । सूत्रेऽरूपमिति वाच्ये रूपरूपिभेदन्निवृत्त्यर्थमरूपवदित्युक्तं, तद्व्याचष्टे—नेति । प्राकृ- तभौतिकरूपवद्भिन्नमेवेत्यर्थः । न तु तद्रहित्येवकारार्थः । सूत्रे तदि-

[ अधि - ९. सू - १५ ] दीपिकासहितम्. ७६७ ( ३ ) हिशब्दात् 'अस्थूलमनणु' ( बृ. ३-८-८. ) इत्यादि श्रुतेश्च । ( ४ ) भौतिकानि हि रूपाणि भूतेभ्योऽसौ परो यतः । अरूपवानतः प्रोक्तः क्व तद्व्यक्ततः परे ॥ इति मात्स्ये ॥ १४ ॥ ( ५ ) सू—ॐ ॥ प्रकाशवच्चावैय्यर्थ्यम् ॥ ॐ ॥ १५ ॥ ति व्यस्तं समस्तं चेत्याशयेन व्यस्ततच्छब्दार्थमाह—ब्रह्मेति । तस्मा न्नानित्यत्वं ब्रह्मणः शङ्क्यमिति वाक्यशेषः ॥ ( ३ ) ननु ब्रह्मणः प्रकृत्यादिसामर्थ्येन देहबन्धाभावेऽपि स्वेच्छा लीलादिनिमित्तं रूपं किं न स्यादित्याशङ्कावारकतया हिशब्दं व्याच ष्टे—हिशब्दादिति ॥ सूचिताया इति शेषः । श्रुतेरित्यस्य नेतिवाक्ये नान्वयः । तथा च निमित्तान्तरकृतरूपपदोक्तदेहाभ्युपगमे श्रुतावरूप मिति सामान्यनिषेधो न स्यादिति भावः । न केवलमुक्तयुक्तेरिति च शब्दार्थः । व्याख्यातेयं श्रुतिः अक्षरनये । अनेन सूत्रे नपुंसकोक्तिरेतच्छु त्यनुसारादिति ध्येयम् ॥ ( ४ ) सूत्रार्थे स्मृतिं चाह—भौतिकानीति ॥ यस्मात् सर्वाणि 'रूपाणि' शरीराणि पाञ्चभौतिकानि । उपलक्षणमेतत् । आव्यक्तिका नि च । यस्माच्च 'असौ' परमात्मा भूतेभ्यः 'परः' तत्प्रवर्तकत्वेन तदुत्तमः तस्मात् 'अरूपवान्' तत्कार्यरूपरहितः । ननु भूतपरे भौति करूपाभावेऽपि अव्यक्तकार्यं रूपं किं न स्यादित्यत आह—क्वेति । 'अ व्यक्ततः' प्रकृतितः 'परे' तत्प्रवर्तकत्वेन तदुत्तमे तत एव तत्कृतब न्धशून्ये ब्रह्मणि 'तत्' आव्यक्तिकं रूपमपि 'क्व' नेत्यर्थः । यद्वा— तत्त्वप्रदीपोक्तरीत्या कैमुत्यमेतत् । अस्मिन् पक्षे नोपलक्षणम् । तच्छ ब्देन भौतिकरूपस्यैव परामर्शः । तथा च यदा भूतेभ्यः परे भगवति भूतकार्यदेहो न, तदा भूतकारणाव्यक्तमप्यतीत्य वर्तमाने तस्मिन् त द्व्यक्तकार्यभूतकार्यशरीरं नेति किमु वक्तव्यमित्यर्थः । यद्वा भूतपर त्वमेव भौतिकदेहाभावे हेतुः, तदा सुतरां भूतपराद्व्यक्तपरत्वमिति भावः । एवं यतो भौतिकानि रूपाणि अनित्यत्वव्याप्तानि, असौ च भू तेभ्यः परत्वात्तद्रहितोऽतो नानित्यताशङ्का कार्येत्यध्याहारेण तत्त्वप्र दीपोक्तं योजनान्तरं द्रष्टव्यम् । इति मात्स्य इति । उक्तमिति शेषः ॥ ( ५ ) ननु ब्रह्मणो रूपाभावे 'रुक्मवर्णम्' इत्यादिरूपित्वश्रुति

७६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] 'यदा पश्यः पश्यते रुक्मवर्णम्' (मु. ३-१-३.) 'श्या माच्छबलं प्रपद्ये' (छा. ८-१३-१०) 'सुवर्णज्योतिः' (तै. ३-१०.) इत्यादिश्रुतीनां च न वैयर्थ्यम्, विल क्षणरूपवत्त्वात् । वैयर्थ्यं, सौन्दर्यसौलक्षण्याद्यभावश्चेत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—प्रकाशवच्चेति ॥ श्रुतीनामित्यनेन वैयर्थ्यसम्बन्धी दर्शितः । 'यदा' इति मुण्डकश्रुतिरदृश्यत्वान्वये व्याख्याता । 'श्यामात्' इति छान्दोग्यश्रुतिः । 'श्यामो हृदि स्थितो विष्णुः शबलो विश्वरूपवान्' इति तद्भाष्ये व्याख्याता । यो हृदिस्थो विष्णुः श्यामरूपवान् तस्मा त्तदुपासनानन्तरं यो हृदि स्थितः 'शबलो' विश्वरूपवान्नानावर्णयु क्तस्तमहं प्रपद्ये उपासे इति तदभिप्रायः । हृद्गतोपास्तिसाध्यां विश्व रूपोपास्तिमाहेति छान्दोग्यटीकोक्तेः यो हृदिस्थो विष्णुस्तदुपासना नन्तरं यो विश्वरूपी व्याप्यरूपी तमुपासे इत्यर्थः । 'सुवर्णज्योतिः' इति वेदान्तवाक्यं तैत्तिरीयगतं वा । तस्य तद्भाष्ये सुष्ठु परमानन्दो हरिः ज्योतिः प्रेरको यस्येति मुक्तपरतया व्याख्यानेऽपीह ब्रह्मणो रुक्म वर्णाभिधायकतयाऽपि व्याख्यानादविरोधः । आदिशब्देन 'आदित्यव र्णम्' इत्यादिकं गृह्यते । श्रुतीनां चेति चशब्दः न केवलमरूपित्वश्रुती नां न वैयर्थ्यं, अपि तु रूपित्वश्रुतीनां च 'न वैयर्थ्यं' विषयाभावकृ ताप्रामाण्यमिति समुच्चये । वैयर्थ्यं चेति भिन्नक्रमेणान्वये सौन्दर्या द्यभावसमुच्चये वा चशब्दः । कुतो रूपश्रुतिवैयर्थ्याभावः सौन्दर्याद्य भावो वेत्यतस्तत्र हेतुतया प्रकाशवदित्यंशं मत्वभिप्रायेण व्याचष्टे— रूपवत्त्वादिति । पञ्चमीनिर्देशेन यतः तत् प्रकाशवद्रूपवदिति हेतुर्दर् शितः । यत्तु चशब्देनारूपित्वश्रुतीनामप्यवैयर्थ्यमनित्यत्वराहित्यं च सूचितम्, तदयुक्तम् । ब्रह्मणो रूपित्वे अनित्यत्वस्यारूपित्वश्रुतिवै यर्थ्यस्य चापत्तेरित्यतो नैवमित्याह सूत्रकृत्—अवैयर्थ्यमिति । त स्यर्थो—विलक्षणेति । प्राकृतभौतिकरूपविलक्षणेत्यर्थः । अरूपवच्चेति चशब्दार्थो वाऽयम् । तथा चानित्यत्वादिव्याप्तप्राकृतादिरूपाभावान्न ब्रह्मणोऽनित्यत्वं, न वाऽरूपित्वश्रुतिवैयर्थ्यं प्राकृतादिरूपाभावविषय त्वात्तस्या इति भावः । एवं न वैयर्थ्यमित्येतत् व्युत्पत्त्यभावादरूपित्व श्रुतेरर्थाबोधकत्वं नेत्यपि व्याख्येयम् ॥

शब्दव्यवहारवदुपपद्यते अत इति ॥ * ( ७ ) ननु कथं ब्रह्मणो विलक्षणरूपवत्त्वं, येनानित्यत्वादिदोषाभा- * Footer: ९७`

  1. Double Check Line Breaks and Markers: Count lines: L1: Header: [ अधि - ९. - सू - १६. ] दीपिकासहितम्. ७६९ L2: ( ६ ) यथा चक्षुरादिप्रकाशे विद्यमानेऽपि वैलक्षण्यादप्रका- L3: शादिव्यवहारः ॥ १५ ॥ L4: ( ७ ) सू—ॐ ॥ आह च तन्मात्रम् ॥ ॐ ॥ १६ ॥ L5: ( ६ ) ननु यद्यस्ति परमात्मनो रूपं, तर्हि कथं तस्य प्रसिद्धरूपवै- L6: लक्षण्यमात्रेणारूपित्वोक्तिरित्याशङ्कोत्तरत्वेनापि प्रकाशवदित्येतद्दृष्टा- L7: न्ताभिप्रायेण व्याचष्टे—यथेति ॥ आदिशब्देन तेजोऽन्तरं गृह्यते । वि- L8: द्यमाने इत्यतः प्राक् गृहान्तरित्युपस्कार्यम् । अपिशब्दो विरोधसूच- L9: `

वैलक्षण्यं चोच्यते रूपस्य विज्ञानानन्दमात्रत्वं 'ऐका त्म्यप्रत्ययसारम्' (मा. २-७.) इति । (८) आनन्दमात्रमजरं पुराणं एकं सन्तं बहुधा दृश्यमानम् । तमात्मस्थं येऽनुपश्यन्ति धीरा घ , सर्वरूपाणां प्रकृत्याद्यात्मकत्वनियमात् इतररूपापेक्षया तद्रूपस्य वैलक्षण्यानुक्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—आह चे ति ॥ सूत्रे भाष्ये च चोऽवधारणे । उच्यत एवेति सम्बध्यते । न तु नोच्यत इत्येवशब्दार्थः । 'रूपस्य' शरीरस्येति बुद्ध्या विविक्तस्य विपरिणतस्य तत्पदस्य व्याख्यानम् । विज्ञानानन्दमात्रत्वमिति । ज्ञा नानन्दाद्येकस्वरूपत्वमित्यर्थः । अनेन तच्छब्दः तद्गुणसारत्वादित्यत्र प्रकृतज्ञानानन्दगुणवाची भावनिर्देशश्चायमिति सूचितम् । इदं च वै लक्षण्यपदेन समानाधिकृततयाऽन्वेतव्यम् । मात्रपदेन रूपस्य प्राकृत त्वनिवृत्तिः । इति श्रुत्योच्यत इत्यन्वयः । ब्रह्मणो ज्ञानानन्दाद्यात्मक त्वोक्त्या तद्रूपस्यापि तदुक्तमित्यभिप्रायः । अनेन यतः 'ऐकात्म्यप्रत्य यसारम्' इति माण्डूकश्रुतिः तस्य ब्रह्मणो रूपस्य तन्मात्रत्वं ज्ञानान न्दाद्येकस्वरूपत्वं 'आह च' वक्त्येव अतो न वैलक्षण्यानुक्तिरिति सूत्रार्थ उक्तो भवति । तथा च पूर्ववाद्युक्तहेतुरसिद्ध इति भावः । एकः प्रधानः स चासावात्मा च पूर्णश्चैकात्मा तस्य भावः ऐकात्म्यम्, प्रत्ययो ज्ञानं, ऐकात्म्यं प्रत्ययश्चेत्युभयं सारः स्वरूपं यस्य तदैकात्म्य प्रत्ययसारमिति श्रुत्यर्थः । यद्यपि माण्डूकभाष्ये एकः प्रधान उद्दिष्टः आत्मा पूर्णत्वतश्श्रुतः । तदेवास्य स्वरूपं यदैकात्म्यं तेन कीर्तितम् ॥ प्रत्ययो ज्ञानरूपत्वात्सार आनन्दरूपतः ॥ इत्यानन्दरूपत्वं सारशब्दार्थो, न स्वरूपमित्युक्तम् । तथा व्यासतीर्थी ये—स्वार्थे ष्यञ् । ऐकात्म्यस्य ब्रह्माभेदं चाश्रित्य ऐकात्म्यश्चासौ प्रत्ययश्चासौ सारश्चेति विग्रहः प्रदर्शितः । तथाऽपि 'आनन्दमात्रम्' इत्युत्तरश्रुत्यवैयर्थ्यायेह स्वरूपार्थतया सारशब्दो व्याख्यातः ॥ (८) इह सारशब्दस्य स्वरूपार्थत्वादानन्दरूपत्वे श्रुत्यन्तरं पठ ति—आनन्दमात्रमिति । आनन्दैकस्वरूपं, न तु प्राकृतं, कुतो ? यतः

[Header] [ अधि - ९. सू - १७. ] दीपिकासहितम्. ७७१


स्तेषां सुखं शाश्वतं नेतरेषाम् । इति चतुर्वेदशिखायाम् ॥ १६ ॥ (९) सू—ॐ ॥ दर्शयति चाथो अपि स्मर्यते ॥ ॐ ॥ १७ ॥ दर्शयति चानन्दरूपत्वं 'तद्विज्ञानेन परिपश्यन्ति धी राः आनन्दरूपममृतं यद्विभाति' (मु. २-२-८.) इति ॥ (१०) शुद्धस्फटिकसङ्काशं वासुदेवं निरञ्जनम् । 'अजरं' सदा दृढं 'पुराणं' अनादिभूतं 'एकं' सर्वोत्कृष्टं 'सन्तं' निर्दोषं, एकं सन्तमिति वा 'बहुधा' विश्वाद्यात्मना मत्स्यादिरूपैर्वा दृश्यमानं 'आत्मस्थं' देहस्थं परमात्मानं 'ये धीराः' ज्ञानिनः 'अनु पश्यन्ति' साक्षात्कुर्वन्ति तेषां 'शाश्वतं सुखं' मोक्षो भवति, नान्ये षामित्यर्थः । इतीति । इति चतुर्वेदशिखायां च वैलक्षण्यमुच्यत इत्य न्वयः । अनेन सौत्रचशब्दः श्रुतिसमुच्चयेऽपीति सूचितम् ॥ (९) ननु उक्तश्रुतिद्वये ब्रह्मणो ज्ञानानन्दाद्यात्मकत्वमेवोच्यते, न त्वानन्दादेर्ब्रह्मशरीरत्वम् । अतो रूपिपदोक्तदेहित्वश्रुतेर्लोकविलक्षण रूपविषयत्वाभावाद्वैयर्थ्यम्, सौन्दर्याभावश्चापरिहृतः । न च रूपरू पिणोरभेदादिति तत्त्वप्रदीपे तदपि श्रुत्यभिप्रेतमित्युक्तमिति वाच्यम्। स्पष्टोक्त्यभावेनानिर्णयादित्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे— दर्शयतीति ॥ चशब्दो रूपत्वमित्यतः परो योज्यः । 'आनन्दरूपत्वं' ब्रह्मशरीरत्वमिति । अनेन सूत्रेऽपेक्षिताध्याहारो दर्शितः । न केवल मानन्दस्य ब्रह्मात्मकत्वं, किन्तु तच्छरीरत्वं चेति चशब्दार्थः । इती त्यनन्तरं भाष्ये सूत्रे च श्रुतिरिति शेषः । श्रुतिर्दर्शयतीत्यन्वयः । 'आ नन्दरूपं' आनन्दशरीरं अत एव 'अमृतं' देहतो नाशरहितं यद्विभाति तद्ब्रह्म 'विज्ञानेन' श्रवणादिजनितसाक्षात्कारेण 'परिपश्यन्ति' विष यीकुर्वन्ति ज्ञानिन इत्याथर्वणश्रुत्यर्थः ॥ (१०) सूत्रे अथोपदं ज्ञानरूपार्थान्तरवाचि । अपिस्समुच्चये । अस न्धिः प्रगृह्यत्वात् । तथा च न केवलमानन्दस्यैव ब्रह्मात्मकत्वं तद्रूप त्वं चोच्यते श्रुत्या, किन्तु ज्ञानस्यापि तदात्मकत्वं तद्रूपत्वं चोच्यते स्मृत्येति सूत्रखण्डार्थमभिप्रेत्य तां स्मृतिं पठति—शुद्धेति ॥ इति मा त्स्ये स्मर्यत इत्यन्वयः । तद्वचनाख्यस्मृत्येदमूच्यत इति यावत् । स्मृ तिः 'शुद्धस्फटिकसङ्काशं' तद्रुक्छुक्लवर्णं निरञ्जनं वासुदेवमेव परं प्र

७७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] चिन्तयीत यतिर्मान्यं ज्ञानरूपादृते हरेः ॥ इति च मात्स्ये ॥ १७ ॥ र्धानं ' श्रुते ' ज्ञानाय 'चिन्तयीत ' ध्यायीत । ' ज्ञानरूपात् ' ज्ञानश- रीराद्वासुदेवावृते ' अन्यं ' ब्रह्मादिकं परत्वेन न चिन्तयीतेत्यर्थः । न चैतत्सूत्रे एव ज्ञानानन्दयोः ब्रह्मरूपत्वे स्पष्टश्रुत्युक्तैकार्थिकोक्तिरूपपू- र्वसूत्रवैयर्थ्यमिति वाच्यम् । स्वरूपस्यापि ज्ञानाद्यात्मकत्वसिद्धयर्थं तदुपन्यासात् । न चानर्थक्यम् । ब्रह्मतच्छरीरयोरभेदेन ब्रह्मणो ज्ञा- नानन्दाद्यात्मकत्वे तच्छरीरस्यापि तल्लाभाभिप्रायेण तदुदाहरणोपप- त्तेः । अत्र तत्त्वप्रदीपे दर्शयति चानन्दस्य स्वरूपत्वं ' आनन्दरूपम् ' इत्यादि । अथो च दर्शयति— सञ्ज्ञानानन्दशीर्षोऽसौ सञ्ज्ञानानन्दबाहुकः । सञ्ज्ञानानन्ददेहस्तु सञ्ज्ञानानन्दपादवान् ॥ इति । अथो च दर्शयति— ब्रह्मणस्तद्गुणानां च भेददर्श्यधरं तमः । भेदाभेदप्रदर्शी च तम एवोत्तरं विशेत् ॥ विजानीयात्ततो ब्रह्म सदा सर्वगुणात्मकम् । गुणानां च विशेषोऽस्ति न विशेषः कथं च न ॥ ते सर्वेऽपि गुणाः पूर्णास्तच्छरीरः परः स्मृतः । आनन्दज्ञानशक्त्यादिदेहं विष्णुं तु ये जनाः ॥ अदेहं भूतदेहं वा विदुस्ते चाधरं तमः । तथा प्रकृतिदेहज्ञाः कर्मदेहविदोऽपि वा ॥ तस्मादानन्दचिद्देहं चिदानन्दशिरोमुखम् । चिदानन्दभुजं ज्ञानसुखैकपरमाङ्गुलिम् ॥ आ देहादा नखाग्रेभ्यः पूर्णचित्सुखशक्तिकम् । प्रत्येकं तु गुणांस्तांस्तु सदा सर्वगुणात्मकान् ॥ ज्ञात्वा विमुच्यते विष्णोः प्रसादान्मानुषोऽपि सन् ॥ इति पैङ्गिश्रुतिरिति । एवं दर्शयति इत्येतत अथो इत्युत्तरत्रापि संयो- ज्य व्याख्यातम् । तत्पक्षे न केवलं दर्शयति, किन्तु स्मर्यतेऽपीत्यपि श- ब्दार्थः ॥ ९ ॥ ॥ इति अरूपाधिकरणम् ॥

[ अधि - १०, सू - १८. ] दीपिकासहितम्. ७७३ १०. अधिकरणम् ॥ ( १ ) सू- ॐ ॥ अतएव चोपमा सूर्यकादिवत् ॥ ॐ ॥ १८ ॥ यस्मादेवं परमेश्वररूपाणां मिथो न कश्चिद्भेदः । अ तः सादृश्याज्जीवस्यापि तथा स्यादिति, तस्य प्रति बिम्बत्वमुक्त्वा चशब्देन भेदं दर्शयति । १०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ईश्वरस्य जीवाद्भेदाभेदो निराक्रियते । अत्र पूर्वपक्षानुवादरूपं अत एवोपमेति सूत्रांशं व्याकरोति—यस्मादिति ॥ योजना तु 'यस्मात्' यत एवं 'न स्थानतोऽपि' इत्याद्युक्तप्रकारेण प रमेश्वररूपाणां परमेश्वरस्य च 'मिथः' परस्परं 'कश्चित्' अन्यो न्याभावरूपो वा हीनाधिकभावरूपो वा अनुग्राह्यानुग्राहकभावरूपो वा भेदो न, किन्त्वभेद एव सिद्धोऽत इति दृष्टान्तलाभादिति भावः । न तत्रान्योऽन्वेषणीय इत्येवशब्दार्थः । एवं सौत्रातःशब्दपरामृश्यं प्रद् र्श्यावृत्त्यभिप्रायेण तमनुकृत्य तस्यार्थान्तरमाह--सादृश्यादिति । चि त्त्वादिना परमेश्वरसादृश्यादित्यर्थः । सूत्रे 'ततो ह्यस्य' इत्यतोऽनुवृ त्तस्यास्येत्यस्यार्थमाह—जीवस्येति । न केवलं परमेश्वररूपाणामित्य पेरर्थः । अनेन पूर्वत्रापि चशब्दसम्बन्धो ज्ञापितः । उपमेत्यस्यार्थः— तथेति । परमेश्वराभेद इत्यर्थः । स्यादिति शेषोक्तिः । स्यादितीत्यन न्तरं प्राप्ते तत्परिहारायेति शेषः । अनेन सूत्रे 'न स्थानतोऽपि' इत्य तो नञनुकर्षोऽभिप्रेयते ॥ कुतो नैत्यतस्तत्र हेतुतयाऽऽगतं सूर्यकादिव दित्यंशं सिद्धान्त्यभिप्रेतानुमानपरतया व्याचष्टे—तस्येति । जीवस्ये त्यर्थः । 'प्रतिबिम्बत्वं' ईशप्रतिबिम्बत्वाख्यं हेतुमुक्त्वा सूर्यकादिव दिति दृष्टान्तोक्त्यैवेति शेषः । 'चशब्देन' उत्तरत्राप्यन्वितेन 'भेदं' परमेश्वरेणात्यन्तभेदरूपं साध्यं 'दर्शयति' समुच्चिनोति सूत्रकार इ त्यर्थः । तत्त्वप्रदीपरीत्या तु रूपमित्यादिका श्रुतिस्तस्य प्रतिबिम्बत्वमु क्त्वा भेदं दर्शयतीति चशब्देन सूत्रकारो दर्शयतीत्यर्थः । यद्वा—भे दाभेदपूर्वपक्षस्य बहिरैव लाभादत एवेत्यादि समग्रसूत्रं सिद्धान्त ए वेत्याह—यस्मादिति । ज्ञानैश्वर्यादाविति शेषः । भेदशब्दश्च विशेष वाची । अत इत्यावर्तेतेऽपीति च । तथा च यस्मादेवमुक्तरीत्या परमे श्वररूपाणां तत्स्वरूपांशानां मत्स्यादीनां परमेश्वरस्य च मिथो ज्ञानैश्व र्यादौ न कश्चिद्विशेषः, तस्मादेव जीवस्यापि अतः परमेश्वरस्वरूपां

७७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ( २ ) रूपं रूपं प्रतिरूपो बभूव ( बृ. ४-५-१९. ) बहवस्सूर्यका यद्वत्सूर्यस्य सदृशा जले । एवमेवात्मका लोके परात्मसदृशा मताः ॥ ( ) इत्यादि । शत्वे 'सादृश्यात्' मत्स्यादिसाभ्यात् 'तथा स्यात्' परमेश्वरस्वरूपां- शवत् ज्ञानैश्वर्याद्यविशेषः स्यादिति 'अतः' एतदर्थमेवानिष्टप्रसङ्ग- परिहारार्थमेव अत एवोपमेति पदैः 'तस्य' जीवस्य तथाऽपि अंशत्वेऽ- पि 'तथा' प्रतिबिम्बभाव एवेति प्रतिबिम्बभावमेवोक्त्वा 'चशब्देन' अ- तस्तेन हेतुना सूर्यकादिवद्दृष्टान्तेन 'भेदं' साध्यं समुच्चिनोति सूत्रका- र इत्यन्वयः ॥ ( २ ) जीवस्येश्वरप्रतिबिम्बत्वमेव कुत इत्यतश्चशब्दसूचितश्रुतेरे- वेत्याह—रूपमिति ॥ द्वितीयव्याख्याने तु युक्तिसिद्धप्रतिबिम्बत्वे दा- र्ढ्याय श्रुत्युपन्यासः । व्याख्यातेयं श्रुतिरंशनये । 'जले' जलादौ 'सू- र्यकाः' तत्र प्रतिबिम्बिताः सूर्याः 'यद्वत्' यथा सूर्यस्य सदृशा म- ताः, एवमेव लोके प्रमिताः 'आत्मकाः' ईशप्रतिबिम्बभूता अमुख्या- त्मानः परमात्मसदृशा मता इति श्रुत्यन्तरार्थः । अत्राद्यश्रुतौ रूपशब्दो- क्तं प्रतिबिम्बत्वं द्वितीयश्रुत्या परमात्मसदृशा इति व्याख्यातमिति ज्ञे- यम् । इत्यादीत्यनन्तरं श्रुतिरिति शेषः । अत एव तत्त्वप्रदीपे श्रुतिर्द- र्शयतीत्युक्तम् । टीकाकृताऽपि श्रुतिरित्त्यध्याहारस्य सिद्धत्वादित्याश- येन प्रतिबिम्बत्वं दर्शयतीत्यन्वययोग्यपदद्वयमनुषज्यते इत्युक्तम् । त- था चायं टीकारीत्या सूत्रार्थः—'अत एव' ईशतद्रूपाणामभेदोक्तेरेव 'अत एव' जीवस्य चेतनत्त्वादिना ईश्वरसाम्यादेवाऽस्य जीवस्य 'उ- पमा' मत्स्यादिसाम्यम् । तद्वदीशाभेदः स्यादिति न, कुतः? यतः 'सूर्यकादिवत्' जलादौ प्रतिबिम्बितसूर्यच्छायादिवत् ईशप्रतिबि- म्बस्तस्मादेव तद्भिन्नश्चातः । यद्वा—'अत एव' मत्स्यादीनामीश्वर- स्य च ज्ञानैश्वर्यादाविव विशेषस्योक्तत्वादेव अतः । तर्हि जीवस्यापि परमेश्वरस्वरूपांशत्वे यतः 'उपमा' मत्स्यादिभिः साम्यं स्यात्, ततश्च तस्योपमा परमेश्वरवत् ज्ञानाद्यविशेषः स्यात् अतः एतदर्थमेवंरूपा- निष्टपरिहारार्थं जीवस्योपमैव ईश्वरप्रतिबिम्बत्वैव, न स्वरूपांशता । यतः प्रतिबिम्बोऽतः सूर्यकादिवच्च भेद एव नाभेंदोऽपि । न च हेत्वसि- द्धिः। 'रूपम्' इत्यादिश्रुतेरिति । तत्त्वप्रदीपरीत्या तु—'अत एव' जी-

.10) Adhikarana 5: Ubhayalingadhikarana (3.2.11-13) Adhikarana 6: Arupavadadhikarana (3.2.14) Adhikarana 7: Prakritaitavattvadhikarana (3.2.15-17) Adhikarana 8: Sthanavisheshetyadhikarana? Or Prakrita...? Wait! Let's count: Upamadhikarana is Adhikarana 10! Wait, which sutras belong to Upamadhikarana? In Dvaita: Sutra 18: "अत एव चोपमा सूर्यकादिवत्" - wait! Is Sutra 18 the ONLY sutra in Upamadhikarana? Wait! Look at line 13: "अत एव चोपमेति सूत्रखण्डं व्याचष्टे" And line 24: "सूत्रखण्डस्य वृत्त्यन्तरमुक्तं भवति ॥ १० ॥" Wait, line 25: "॥ इति उपमाधिकरणम् ॥" Then Upamadhikarana consists of lines 4 to 25! Wait, but then what are lines 2-3? Lines 2-3: ( ३ ) अत एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्यु पमा, नोपाध्यधीनत्वादिना ॥ १८ ॥ Wait, look

७३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ज्ञानादिना प्रयोजनमिति । ( २ ) अतो ब्रवीति— सू— ॐ ॥ अम्बुवदग्रहणात्तु न तथात्वम् ॥ ॐ ॥ १९ ॥ अम्बुवत्स्नेहेन ग्रहणं ज्ञानं भक्तिं विना न तत्सादृश्यं शेषः । तथा चेत्थं योजना । न भक्तिः कर्तव्या । कुतः ? यतो न तया प्रयोजनमस्ति । न च ज्ञानमेव प्रयोजनम् । यतो न तेनापि प्रयोजनम स्ति । न च तस्य प्रसादः प्रयोजनम् । यतो न तेनापि प्रयोजनमस्ति । न च प्रसादेन मोक्षसम्भवात्कथं तेन न प्रयोजनमिति वाच्यम् । मो क्षस्य नित्यसिद्धत्वात् । कथम् ? ‘ नित्यानन्दज्ञानादेः ’ मोक्षस्य नि त्यानन्दज्ञानबलादिरूपत्वात् । कुतस्तस्य नित्यसिद्धत्वम् ? परमात्म सादृशस्य जीवे ‘ नित्यसिद्धत्वात् ’ नित्यं सत्त्वात् । किं ततः ? तस्य नित्यज्ञानानन्दादिरूपत्वात्

[ अधि - ११. सू - १९. ] दीपिका सहितम्. ७७७ सम्यगभिव्यज्यते । ‘यमवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्’ (कठ.२-२३.) इति हि श्रुतिः । ( ३ ) महित्वबुद्धिर्भक्तिस्तु स्नेहपूर्वाऽभिधीयत । हेन ज्ञानं भक्तिरितीति टीकया च विरोधात् । भाष्ये स्नेहेनेत्यस्या न्वाय तत्त्वप्रदीपावतारिकाटीकारीत्या सहितमिति पदाध्याहारस्या वश्यकत्वात् । सूत्रार्थकथनेन सिद्धान्त्यभिमतानुमाने हेत्वसिद्धिपरि हाराय प्रवृत्तस्य सूत्रस्यासिद्धिकारणव्यतिरेकव्यभिचारपरिहारक त्वमुक्तं भवति । तथात्वमित्यस्यार्थमाह—तत्साहश्यमिति । तद्गुणसा र्त्वादिति प्रकृते ज्ञानानन्दादिनेश्वरसादृश्यमित्यर्थः । अस्य जीवस्ये ति वर्तते । तुशब्दार्थस्सम्यगिति । सुप्तौ विनाऽपि भक्तिं सुखाद्यभिव्य क्तिदर्शनाद्व्यभिचारपरिहारायैतत्पदम् । सूत्रे भवतीत्यध्याहारेण भव तेर्व्यक्त्यर्थत्वं अभिव्यज्यत इति क्रियापदाध्याहारे वाऽभिप्रेत्याह-अ भिव्यज्यत इति । सूत्रे न साम्यमित्यनुक्त्वा न तथात्वमित्युक्त्या अभि व्यक्तिरपि कदाचित्स्वयमेव भवतीति शङ्का निरस्ता । कदाचित् त त्साहश्यस्य स्वयमेवाभिव्यक्तत्वमपि नेति तस्यार्थान्तरसम्भवात् । स्वयमेवाभिव्यक्तचङ्गीकारेऽनादिसंसारप्रवाहानुपपत्तेरिति भावः । भक्तिं विना न तत्सादृश्यं सम्यगभिव्यज्यत इति भाष्यस्य सूत्रानु सारेण व्यतिरेकमुखत्वेऽपि तेन किन्तु भक्त्यैवाभिव्यज्यत इत्यन्वयोऽ पि सूचितः । तत्कुत इत्यत आह—यमिति । कठश्रुतिरियम् । भक्ति मतः ‘तस्य’ जीवस्य ‘स्वां तनुं’ तत्स्वरूपमानन्दादिजीवस्वरूपं ‘वि वृणुते’ प्रकाशयतीत्यर्थोऽत्राभिमतः । इति हीति । हिर्यतः । अस्तीति शेषः ॥ ( ३ ) यदुक्तं स्नेहेन सहितं ज्ञानं भक्तिः, तया जीवस्वरूपस्य स म्यगभिव्यक्तिरिति तत्स्फुटमत्र श्रुतौ न प्रतीयत इत्यतः स्मृतिं चाह— महित्वेति ॥ तुरवधारणे । ‘महित्वबुद्धिः’ महत्त्वबुद्धिः । तृतीयोऽति शये । अत एव तत्त्वप्रदीपे महित्वबुद्धिः महत्त्वबुद्धिः । ‘वैश्वानरो महिनः शर्म यच्छत’ ( ) इतिवदित्युक्तम् । स्नेहः पूर्वः साहि त्यप्रतियोगित्वेन पूर्वनिर्दिष्टो यस्यां सा तथोक्ता । तथा च मानसिक स्नेहसहिता विष्णोर्माहात्म्यज्ञप्तिरेव भक्तिरित्याभिधीयत इत्यर्थः । ‘त या’ भक्त्या, न स्वत इत्येवशब्दार्थः । ‘जीवरूपं’ जीवस्वरूपम् । यद्यपि माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । ९८

७७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] तयैव व्यज्यते सम्यग्जीवरूपं सुखादिकम् ॥ इति पा द्मे ॥ १९ ॥ ❖ १२. अधिकरणम् ॥ ( १ ) सू-- ॐ ॥ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्ज- स्यादेवम् ॥ ॐ ॥ २० ॥ स्नेहो भक्तिरिति प्रोक्तः ॥ इति भारततात्पर्यनिर्णये स्नेहस्य विशेष्यत्वमुक्तम् । तथाऽपि विशेष- णविशेष्यभावस्य कामचारत्वादविरोधः । अत्र यद्यपि पूर्वपक्षभाष्येऽ- परोक्षज्ञानपूर्वकालीना भक्तिर्गृहीता । सिद्धान्तभाष्ये तु ज्ञानोत्तरका- लीनेति नैकरूप्यम् । तथाऽपि भक्तिमात्रस्य भक्तित्वेनैकरूपस्येहसा- फल्यसमर्थनान्न विरोधः । न च भक्त्यैव सम्यगभिव्यक्तौ ज्ञानोत्तरकृ- तकर्मवैयर्थ्यमिति वाच्यम् । ज्ञानजन्यभक्तेः सम्यगभिव्यक्तिहेतुत्वं ज्ञानानन्तरं पुनरनुष्ठीयमानभक्तेरुपासनस्य निवृत्तकर्मणां चेश्वरप्रसा- दद्वारा अनभिव्यक्तानन्दाभिव्यक्तिरूपे वा विचित्रानुभवरूपे वा आ- नन्दवैचित्र्ये हेतुत्वमित्यङ्गीकारेण सार्थक्योपपत्तेः । यथोक्तम्—‘उ- पासया कर्मभिश्च भक्त्या चानन्दचित्रता’ ( ) इति । पाद्म इत्यतः प्राक् हीत्यनुवर्तते । उक्तमिति शेषः । अस्य पूर्वस्य च अत इत्यध्याहारेण भक्तिं विनेत्यनेनान्वयः ॥ १९ ॥ ॥ इति अम्बुवदधिकरणम् ॥ ❖ १२. अधिकरणम् ॥ ( १ ) अत्राधिकरणे यदर्थं भगवन्महिमोच्यते, सा भक्तिः पुरुषेषु तारतम्येन तिष्ठति । तदनुसारेण भगवान् फलं प्रयच्छतीत्येतत्सम- र्ध्यते । तत्र भक्तिः साधकेषु एकप्रकारेति पूर्वपक्षे सिद्धान्तयत्सूत्रमु- पन्यस्य व्याचष्टे—वृद्धीति ॥ अरूपसूत्रादनुवृत्तं तत्पदं विपरिणाम्या- नूद्य व्याचष्टे—तस्येति । चशब्दोऽवधारणार्थः ‘वृद्धिह्रासभाक्त्वं’ साधकेष्वाधिक्यन्यूनतावत्त्वमित्यनेन सम्बध्यते । न त्वेकप्रकारत्व- मित्यवधारणार्थः । अनेन पूर्वसूत्रादत्र तुशब्दानुवृत्तिः सूचिता । भ- क्तिशब्देन तत्त्वप्रदीपरीत्या अपरोक्षज्ञानसाधनं भक्तिर्गृह्यते । ज्ञानश- ब्देन परोक्षज्ञानम् । भक्त्यंशत्वेऽपि ज्ञानस्य पृथगुक्तिः स्नेहवद्बहुमाना

तस्य च भक्तिज्ञानादेः वृद्धिह्रासभाक्त्वं विद्यते ब्रह्मा दीनामुत्तमानां सर्वेषां भक्तत्वेऽन्तर्भावात् । (२) एवं भक्त्यादिविशेषाङ्गीकारादेवेश्वरस्य ब्रह्मादीन त्तमको भाव एवापरोक्षज्ञानसाधनमिति सूत्रयितुम् । भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन ॥ इति गीतोक्तेः ॥ भावबोधे तु भक्तिशब्देनापरोक्षज्ञानसाध्यमोक्षसाधनोद्रिक्तभक्तेर्ग्रह णम् । ज्ञानशब्देनापरोक्षज्ञानस्येत्युक्तम् । तत् तत्त्वप्रदीपविरुद्धम् । आ दिशब्देन भक्तिसाधनवैराग्यादेस्तत्साध्योपासनादेश्च ग्रहणम् । 'वि द्यते' अङ्गीकार्यत्वेनास्ति । अङ्गीकार्यमिति यावत् । यद्यपि पूर्वसूत्रे अम्बुवद्ग्रहणपदेन भक्तेः प्रकृतत्वात्सैवेह धर्मिसमर्पकतच्छब्देन पराम र्शनीया, भक्तितारतम्यकथनेनैवेष्टसिद्धेः, न तु ज्ञानादिकमपि । तथा ऽपि ज्ञानादितारतम्याभावे तत्साध्यभक्तितारतम्यं न सिध्यति । फल तारतम्यवत्साधनतारतम्यस्यापि भक्तितारतम्यहेतुत्वादित्याशयेनोप लक्षणाभिप्रायेण भक्तिज्ञानादेरित्युक्तम् । कुतो भक्तेर्वृद्धिह्रासभाक्त्व मित्यतस्तत्र हेतुत्वेन अन्तर्भावादित्यंशं सर्वेषामिति भक्तत्वे इति पदा ध्याहारेण तेषां महदल्पत्वादिति हेतूपस्कारेण च व्याचष्टे—ब्रह्मादी नामिति । 'उत्तमानां' ब्रह्मादिदेवानां 'भक्तत्वे' भक्तवर्गे अन्तर्भावा त्तेषां च महाफलत्वात्, एवं ब्रह्मादिदेवेतरेषां मध्यमानां ऋष्यादीनां अधमानां मनुष्योत्तमानां च सर्वेषामधिकारिणां भक्तत्वेऽन्तर्भावात्ते षाम् च महदल्पफलत्वादिति योजना । अनेनोभयेषामिति धर्मिसमर्पकं पदं देवतदन्यपरतया विवृतं भवति । मध्यमाधमाधिकारिणामल्पफ लत्वेन देवेतरत्वेन चैकीकरणम् । सूत्रे उभयेषां भक्तत्वादित्येवोक्तौ भक्तत्वस्योभयत्ववद्व्यासज्यवृत्तित्वाभावेनोभयत्वाश्रयेष्वेकैकेष्वपि प र्याप्तत्वादन्यतरेषामभक्तत्वशङ्का स्यात् तथा चोभयसामञ्जस्यादित्य युक्तं स्यादत उभयपदस्योभयविधभक्तपरत्वात् अतोऽन्तर्भावादि त्युक्तम् । अनेन त्रिविधाधिकारिणामपि भक्तत्वसिद्धिः । यद्यपि सूत्रे भाष्ये च भक्त्यादेः पक्षीकरणादधिकारिनिष्ठहेतुप्रयोगोऽनुपपन्नः । त थाऽपि पक्षधर्मताया अनावश्यकत्वादेवमुक्तम् ॥ (२) ब्रह्मादीनामन्येषां च महदल्पफलत्वेऽपि कुतो भक्तितारत म्यमित्यतः प्रवृत्तमुभयेत्यादिसूत्रखण्डं व्याचष्टे—एवमिति ॥ भक्त्या

७८० ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - २.] न्यान् प्रति च सामञ्जस्यं भवति । (३) साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः । ब्रह्मादयः क्रमेणैव यथाऽऽनन्दश्रुतौ श्रुताः ॥ इति ब्रा ह्मे ॥ २० ॥ (४) कुतः ? सू—ॐ ॥ दर्शनाच्च ॥ ॐ ॥ २१ ॥ र्थो-भक्त्यादीति । विशेषस्तारतम्यम् । आदिशब्देन पूर्वोक्तानां ग्रहण म् । 'अङ्गीकारादेव' अङ्गीकारे सत्येवेति । अनेन एवमित्येतत्सावधार णमाश्रौ योजनीयमित्युक्तं भवति । न स्थानत इत्यतोऽनुवृत्तस्य पर स्येत्यस्यार्थमाह— ईश्वरस्येति । विषमफलदातुरिति शेषः । उभयप दपरामर्शं दर्शयति— ब्रह्मादीनिति । 'अन्यान्' मध्यमाधमान् । बहु लग्रहणाद्वितीयातत्पुरुषः । चः समुच्चये । सामञ्जस्यमिति । समञ्ज सो वैषम्यादिदोषशून्यस्तस्य भावः सामञ्जस्यं 'भवति' भवेत् ना न्यथेत्येवशब्दार्थः । न तु समभक्तानां फलवैषम्यमिति तदर्थः । तथा च फलवैषम्यस्यानुपपत्त्या भक्तितारतम्यसिद्धिरिति भावः ॥ (३) फलं समं, साधनं तु विषममित्येवंरूपफलसाधनवैरूप्ये सू त्रकृदुक्तं युक्तिविरोधमुक्त्वा स्मृतिविरोधं च दर्शयति—साधनस्ये ति ॥ भक्त्यादिरूपसाधनस्येत्यर्थः । 'उत्तमत्वेन' महत्त्वेनाल्पत्वेन चेत्यस्याप्युपलक्षकमेतत् । हेतौ तृतीया । हेतुत्वं च साध्यगतोत्तमत्वं प्रतीति द्रष्टव्यम् । 'साध्यं' मुक्तिफलं 'उत्तमं' महत्, अल्पं चेत्यपि ग्रा ह्यम् । चोऽप्यर्थस्समुच्चये । ब्रह्मादयो देवा इति शेषः । अन्योपलक्षक मेतत् । साम्यभ्रमनिरासायाह— क्रमेणेति । 'अथात आनन्दस्य' (तै. २-८.) इति श्रुतौ 'यथा' येन क्रमेणानन्दित्वेन श्रुताः, तथा तेनैव क्रमेण साध्यमानन्दमाप्नुयुरित्यर्थः । इतीति । ब्राह्मे उक्तिश्चात्र प्रमा णत्वेन भवतीत्यन्वयः ॥ (४) ननु भवेदेतद्यदि ब्रह्मादीनां फलतारतम्यं स्यात्, तदेव कु त इति हेत्वसिद्धिमाशङ्कते—कुत इति ॥ फलस्य वृद्धिह्रासभाक्त्वं कुतः ? प्रमाणाभावात्साम्यस्त्येवेति भावः । एतदाक्षेपपरिहाराय सूत्रं पठि त्वा व्याचष्टे— दर्शनाच्चेति ॥ आरभ्येति । आरभ्य पठितायां श्रुतावि त्यन्वयः । यद्वा— इति सुखे विशेषदर्शनादित्यन्वयः । आरभ्येत्यस्य मनुष्योत्तममारभ्येत्यर्थः । आद्यपक्षे मनुष्योत्तममारभ्येति शेषः । 'ब्र

[अधि - १२. सू - २१. ] दीपिकासहितम्. ७८१

‘अथात आनन्दस्य मीमांसा भवति’ (तै. २-८.) इत्यारभ्य ब्रह्मपर्यन्तेषु सुखे विशेषदर्शनात् । ह्मापर्यन्तेषु’ चतुर्मुखपर्यन्तेषु मुक्तेष्विति शेषः। ‘सुखे’ आनन्देषु विशे- षस्य तारतम्यस्य दर्शनादुक्तत्वादित्यर्थः। यद्यपि ‘सैषाऽऽनन्दस्य मी- मांसा भवति’ (तै. २-८.) इति तैत्तिरीयश्रुति पाठः। तथाऽपि शाखान्त- रपाठोऽयमित्यदोषः। श्रुतौ प्रकरणान्तरारम्भे अथशब्दः। ‘अतः’ पक्षद्व- यप्रापकसत्त्वात् ‘आनन्दस्य’ मुक्तसुखस्य ‘मीमांसा’ किं सर्वेषामेक- प्रकार उत अनेकप्रकार आनन्द इति विचारो ‘भवति’ प्रवर्तेत इत्य- र्थः। एवं विचारे अनेकथेत्युत्तरमुच्यत इति केचित्। तन्न, तैत्तिरीयभा- ष्ये आनन्दस्य ‘मीमांसा’ विचित्रता भवतीति व्याख्यानात् । विवि- धचरणं वैचित्र्यम् धात्वर्थः । स्वार्थे सन्। फलवैचित्र्ये हेतुभावा- दित्यतश्शब्दार्थः। मानुषोत्तममारभ्य विरिञ्चपर्यन्तमानन्दतारतम्यं व- क्तुं तत्र मनुष्योत्तमचक्रवर्त्यानन्दस्य पूर्वावधिभूतत्वात्तद्वचनाय मु- क्तचक्रवर्तिनो विशेषणान्याह—युवा स्यादित्यादिना । विष्णुना युत- स्सन् वाति गच्छतीति युवा । साधुगुणयुक्तत्वात्साधुना विष्णुना यु- तत्वाद्वा साधुयुवा । मुक्तथाख्याध्ययनफलवत्त्वादाध्यायिकः । आस- मन्ताच्छमस्येत्याशः अतिशयेनाशः आशिष्ठः नित्यपूर्णसुखवानित्यर्थः। अतिशयेन दृढो द्रढिष्ठः । अतिशयेन बली बलिष्ठः । य एवंभूतः मुक्त- चक्रवर्ती तस्य त्रेतायुगे संसारदशायामियं सर्वा पृथिवी ‘वित्तस्य’ वित्तेन पूर्णा स्यात्तदा तस्य यत्सुखं ‘स एको मानुष आनन्दः’ मुक्तम- नुष्यचक्रवर्तिसम्बन्ध्येक आनन्द इत्यर्थः । ‘ते’ प्रसिद्धाः ‘ये शतं मा- नुषाः’ मुक्तमनुष्यचक्रवर्तिसम्बन्ध्यानन्दाः ‘स एकः मनुष्यगन्धर्वा- णां’ मुक्तानामानन्दः । मुक्तत्वज्ञापनाय विशेषणद्वयमाह-श्रोत्रियस्ये- ति । श्रोत्रियाणामकामहतानां चेत्यर्थः । एवमग्रेऽपि वचनव्यत्ययो ज्ञे- यः । प्राप्तमोक्षिणः श्रोत्रियाः । कामकृतोपद्रवशून्याः अकामहताः । ये साक्षाद्देवप्रेष्यास्ते देवगन्धर्वाः। तेषां मनुष्यगन्धर्वापेक्षया शतगुणि- तोत्कृष्ट आनन्द इत्यर्थः । एवमग्रेऽपि पूर्वपूर्वापेक्षया उत्तरोत्तरेषां श- तगुणोत्कर्षो ज्ञातव्यः । चिरकालीनो लोकश्चिरलोकः, स एव लोको येषां ते तथोक्तास्तेषामित्यर्थः । देवेष्वनाख्याता अकथिता या देवताः देवकुले जातास्ते आजानदेवास्तेषामित्यर्थः । के कर्मदेवाः ? कुतश्च ते- षाम् कर्मदेवत्वमित्यत उक्तं—ये कर्मणेत्यादि । ‘ये ’ बल्याद्याः कर्मणा

७८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ( ५) चशब्दात् स्मृतिः । यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे । तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने ॥ इति ॥ २१ ॥ —— १३. अधिकरणम् ॥ ( १ ) सृष्टिसंहारकर्तृत्वमेवास्य, न पालकत्वम्, स्वतस्सि द्धेरिति । मध्ये 'देवान्' देवत्वं 'अपियन्ति' प्राप्नुवन्ति ते कर्मदेवा इत्यर्थः । देवानामिति । सृष्ट्यादौ देवत्वं प्राप्तानां तत्त्वाभिमानिदेवानामित्यर्थः । 'इन्द्रस्य' दक्षप्रजेश्वरस्य 'बृहस्पतेः' पुरन्दरस्य 'प्रजापतेः' रुद्र स्य 'ब्रह्मणः' चतुर्मुखस्येति समग्रश्रुत्यर्थः ॥ ( ५ ) नन्वस्तु फलतारतम्यं, तथाऽपि भक्तिसाम्यं किं न स्यात्, फलतारतम्यस्य भक्तीतरप्रसादादितारतम्येनापि सम्भवादित्यत आ ह—चशब्दादिति ॥ समुच्चितेति शेषः । काऽसावित्यतः तां स्मृतिं पठ ति—यथेति । 'अत्र' संसारे ज्ञानिनां परमेश्वरे 'यथा भक्तिविशेषो' भक्त्यतिशयो दृश्यते, तथैव तेषां 'लिङ्गभेदने' लिङ्गशरीरभङ्गे जाते सति 'मुक्तिविशेषो' मुक्तावानन्दव्यक्तिविशेषोऽपि दृश्यते । नान्यथे त्यर्थः । दृशिरत्र भवत्यर्थः । यद्वा— अत्र 'ज्ञानिनां' ज्ञानिषु यथा भ क्तितारतम्यं योगिभिः 'दृश्यते' ज्ञायते तथैव तेषां लिङ्गभेदने सति 'मुक्तिविशेषो' मुक्तितारतम्यमपि दृश्यते । न वैरूप्येणेत्यर्थः इति स्मृतिरित्यन्वयः ॥ १२ ॥ ॥ इति वृद्धिह्रासाधिकरणम् ॥ —::— १३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विश्वपालकत्वं समर्थ्यते । पूर्वपक्षयति—सृ ष्टीति ॥ सृष्टिश्च संहारश्च तयोः कर्ता तस्य भावस्तत्त्वमित्यर्थः । य द्वा—सृष्टौ सत्यां संहारः तस्य कर्तृत्वमित्यर्थः 'अस्य' भगवतः । इ दं चावर्तनीयम् । एवकारः क्रमेण भिन्नक्रमेण चान्वेति । तत्राद्यपक्षे तद्भावार्थं दर्शयति—नेति । अस्तीति शेषः । अस्येत्यनुवृत्तपदं । तथा च न विश्वपालकत्वं भगवतोऽस्ति किन्तु सृष्टिसंहारकर्तृत्वमेव । कुतः? यतोऽस्य संहारकर्तृत्वं, न च संहर्तुः पालकत्वं सम्भवतीति भावः ।