भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

नवमः सर्गः २८७

दीक्षा लेकर बैठे। उस समय भगवान् शिव उनके शरीर में प्रविष्ट हुए जिससे उनकी शोभा और भी अधिक बढ़ गई। (यज्ञ में दीक्षित होने पर यदि शरीर खुजलाता है तो अंगुलियों से न खुजलाकर सींग से खुजलाया जाता है) ॥ २१ ॥

अवभृथप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः ।
नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥ २२ ॥

अन्वयः—अवभृथप्रयतः नितयेन्द्रियः सुरसमाजसमाक्रमणोचितः स उन्नतं शिरं वनमुचेः अरये केवलं नमयतिस्म ।

अवभृथेति । अवभृथेन प्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणेोचितो देवसमाजाधिष्ठानाहः स दशरथ उन्नतं शिरो वनमुचे जलवर्षिणे । 'जलं नीरं वनं सत्त्वम्' इति शाश्वतः । नमुचेररये केवलमिन्द्रायैव नमयति स्म । लोकरक्षार्थं वृष्टेरपेक्षितत्वाद्विन्द्रमेवानमच्छिरः । कस्मैचिदन्यस्मै मानुषायेत्यर्थः ।

भाषार्थ—यज्ञ समाप्त हो जाने पर अवभृथ स्नान से पवित्र जितेन्द्रिय और देवताओं के साथ बैठने योग्य राजा दशरथ ने केवल नमुचिराक्षस को मारनेवाले और जल बरसाने वाले इन्द्र के आगे ही अपना उन्नत मस्तक झुकाया, दूसरों के लिए नहीं, क्योंकि अन्य राजाओं को पराजित कर देने के कारण वे स्वयं प्रणम्य थे ॥ २२ ॥

असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता ।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥ २३ ॥

अन्वयः—एकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता दिनकराभिमुखाः रणरेणवः सुरद्विषां रुधिरेण असकृत् रुरुधिरे ।

असकृदिति । एकरथेनाद्वितीय रथेन तरस्विना बलवता हरिहयस्येन्द्रस्याग्रसरेण धनुर्भृता दशरथेनासकृद्वहुशः दिनकरस्याभिमुखाः अभिमुखस्थिता इत्यर्थः । रणरेणव सुरद्विषां दैत्यानां रुधिरेण रुरुधिरे निवारिताः ।

भाषार्थ—धनुर्धारी और महापराक्रमी राजा दशरथने अकेले ही अनेकों वार समराङ्गण में इन्द्र का अग्रेसर होकर राक्षसों के रुधिर से आकाश में उड़ती हुई धूलि को शान्त किया था ॥ २३ ॥

अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् ।
यमकुबेरजलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम् ॥ २४ ॥

अन्वयः—अथ मधुर यमकुबेरजलेश्वरवज्रिणां समधुरम् अञ्चितविक्रमं एकनराधिपं तं सेवितुं इव नवैः कुसुमैः उपलक्षितः सन् समाववृते ।

२८८रघुवंशमहाकाव्ये

अथेति। अथ यमकुबेरजलेश्वरवज्रिणां धर्मराजधनदवरुणामरेन्द्राणां सम. धूर्भारो यस्य स समधुरः माध्यस्थ्यवितरणसंनियमनैश्वर्यैस्तुल्यकक्ष इत्यर्थः । “ऋक्पूरब्ध्रूःपथामानक्षे” इत्यनेन समासान्तोऽच्प्रत्ययः। तं समधुरम् अञ्चितविक्रमं पूजितपराक्रममेकनराधिपं तं दशरथं सेवितुमिव मधुर्वसंततः। मद्ये पुष्परथे । मधुर्वसन्तः । ‘मद्ये पुष्परसे मधुः । दैत्ये चैवे वसन्ते च जीवाशोके मधुद्रुमे।’ इति विश्वः । कुसुमैरुपलक्षितः सन्समाववृते समागतः ‘रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुम्’ इति वचनात्पुष्पसमेतो राजानं सेवितुमागत इत्यर्थः ।

भाषार्थ—यम, कुबेर, वरुण और इन्द्र के समान पराक्रमी उस एकच्छत्र राजा दशरथ का अभिनन्दन करने के लिए वसन्त ऋतु भी नये-नये पुष्पों की भेंट लेकर आ पहुँची ॥ २४ ॥

जिगमिषुर्घनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः ।
दिनमुखानि रविर्हिमानग्रहैर्विमलयन्मलयं नगमत्यजत् ॥ २५ ॥

अन्वयः---धनदाध्युषितां दिशं जिगमिषुः रथयुजा परिवर्तितवाहनः रविः हिमनिग्रहैः दिनमुखानि विमलयन् सन् मलयं नगम् अत्यजत् ।

जिगमिषुरिति । धनदाध्युषितां कुबेराधिष्ठितां दिशं जिगमिषुर्गन्तुमिच्छु रथयुजा सारथिनाऽरुणेन परिवर्तितवाहनो निर्वातताश्वो रविः हिमस्य निग्रहैर्निराकरणैर्दिनमुखानि प्रभातानि विमलयन्विशदयन् मलयं नगं मलयाचलमत्यजत् । दक्षिणां दिशमत्याक्षीदित्यर्थः ।

भाषार्थ—कुबेर पालित उत्तर दिशा में जाने के इच्छुक और सारथि अरुण द्वारा घुमाए गए घोड़ों वाले सूर्य ने पाला हटा करके प्रातःकाल को स्वच्छ बनाते हुए मलय पर्वत को छोड़ दिया । २५ ॥

कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् ।
इति यथाक्रममाविरभून्मधुद्रुमवतीमवतीर्य वनस्थलीम् ॥ २६ ॥

अन्वयः—आदौ कुसुमजन्मः ततः, नवपल्लवाः तदनु । षट्‍पदकोकिलकूजितम् इति यथाक्रमं द्रुमवती वनस्थलीम् अवतीर्य मधुः आविर्भूत् ।

कुसुमेति । आदौ कुसुमजन्म ततो नवपल्लवाः तदनु । “अनुर्लक्षणे” इति कर्मप्रवचनीयत्वाद्वितीया । यथासंख्यं तदुभयानन्तरं षट्पदानां कोकिलानां च कूजितम् । इत्येवंप्रकारेण यथाक्रमं क्रममनतिक्रम्य पुष्पप्रियो भृङ्गः पल्लवप्रियः कोकिल इति क्रमोक्तेरयमाशयः । द्रुमवतीं द्रुमभूयिष्ठां वनस्थलीमवतीर्य मधुर्वसन्त

नवमः सर्गः

नवमः सर्गः २८९

आविरभूत् । केषांचिद्द्रुमाणां पल्लवप्राथम्यात्केषांचित्कुसुमप्राथम्यान्नोक्तक्रमस्य दृष्टविरोधः ।

भाषार्थ— सर्वप्रथम फूल खिले, फिर नए-नए कोमल पल्लव निकलने लगे तब भ्रमर गूंजने लगे, उसके बाद कषाय कण्ठ कोकिलायें कूजने लगीं, इस प्रकार क्रमशः विभिन्न वृक्षवाली उस वनस्थली में बसन्त ऋतु प्रगट होने लगी ॥ २६ ॥

नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियमर्थिनः ।
अभिययुः सरसो मधुसम्भृतां कमलिनीमलिनीरपतत्रिणः ॥ २७ ॥

अन्वयः— नयगुणोपचितां सदुपकारफलां भूपतेः श्रियम् अर्थिनः इव मधुसम्भृतां सरसः कमलिनीम् अलिनीरपतत्रिणः अभिययुः ।

नयेति । नयो नीतिरेव गुणः तेन अथवा नयेन गुणैः शौर्यादिभिश्चोपचितां सतामुपकारः फलं यस्यास्तां सदुपकारफलां भूपतेर्दशरथस्य श्रियमर्थिन इव मधुना बसन्तेन सम्भृतां सम्यक्पुष्टां सरसः सम्बन्धिनीं कमलिनीं पद्मिनीमलिनीरपतत्रिणः अलयो भृङ्गाः नीरपतत्रिणो जलपक्षिणो हंसादयश्च अभिययुः ।

भाषार्थ— जिस प्रकार नीति पूर्वक पराक्रमादि गुणों से बढ़ी हुई और सज्जनों की उपकारिका राजा दशरथ की लक्ष्मी के आगे से बहुत से मंगन हाथ फैलाया करते थे उसी प्रकार पराग से भरी हुई तालाब की कमलिनी के आस-पास भ्रमर और हंस मंडारने लगे ॥ २७ ॥

कुसुममेव न केवलमार्त्तवं नवमशोकसरोः स्मरदीपनम् ।
किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥ २८ ॥

अन्वयः— आर्तवं, नवम् अशोकतरोः केवलं कुसुमम् एव स्मरदीपनं न अभूत् किन्तु विलासिनां मदयिता दयिता श्रवणार्पितः किसलयप्रसवः अपि स्मरदीपनः ( अभूत् ) ।

कुसुममिति । ऋतुरस्य प्राप्तं आर्तवम् । “ऋतोरण्” इत्यण् । नवं प्रत्यग्रमशोकसरोः केवलं कुसुममेव स्मरदीपनमुद्दीपनं न । किन्तु विलासिनां मदयिता मदजनको दयिताश्रवणार्पितः किसलयप्रसवोऽपि पल्लवसन्तानोऽपि स्मरदीपन्नोऽभवत् ।

भाषार्थ— वसन्त में फूले हुए केवल अशोक के नए २ फूलों को देखकर ही कामोद्दीपन नहीं होता था किन्तु कामिनियों के कानों में सुशोभित विलासी एवं विलासिनियों को उन्मत्त करने वाले पल्लव भी कामोद्दीपक हुए ॥ २८ ॥

विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः ।
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ॥ २९ ॥

१९ र० सम्प०

२९० रघुवंश-महाकाव्ये

**अन्वयः—**मधुना विरचिताः उपवनश्रियाम् अभिनवाः पत्रविशेषकाः इव स्थिताः मधुदानविशारदाः कुरबकाः मधुलिहां रवकारतां ययुः ।

विरचिता इति । मधुना वसन्तेन विरचिता उपवनश्रियामभिनवाः पत्रविशेषकाः पत्ररचना इव स्थिता मधूनां मकरन्दानां दाने विशारदाश्चतुराः कुरबकास्तरवो मधुलिहां मधुपानां रवकारणतां ययुः । भृङ्गाः कुरबकाणां मधूनि पीत्वा जगुरित्यर्थः । दानशौण्डमर्थिजनाः स्तुवन्तीति भावः ।

**भाषार्थ—**वसन्त के द्वारा वनलक्ष्मी के लिए बनाए गए नूतन वन रचना के समान स्थित मधु बहाने वाले कुरबक वृक्ष भ्रमरों के गुञ्जार का कारण बन गये। अर्थात् कटसरैया के लाल पुष्पों के रस को पीकर भ्रमर वैसे ही गुंजार करने लगे जैसे दाता से दान पाकर याचक उसका गुणगान करते हैं या कटसरैया से इतना मधु बह रहा था कि भौंरे उसे पीकर मस्त हो उसके चारों ओर गुन-गुना रहे थे ॥ २९ ॥

सुवदनावदनासवसम्भृतस्तदनुवादिगुणः कुसुमोद्गमः ।
मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ॥ ३० ॥

**अन्वयः—**सुवदनावदनासवसम्भृतः तदनुवादिगुणः कुसुमोद्गमः मधुलोलुपैः आयतपङ्क्तिभिः मधुकरैः बकुलम् आकुलम् अकरोत् ।

सुवदनेति । सुवदनावदनासवेन कान्तामुखमद्येन सम्भृतो जनितः तत्तस्य दोहदमिति प्रसिद्धिः । तस्यासवस्यानुवादी सदृशो गुणो यस्य तदनुवादिगुणः कुसुमोद्गमः कर्ता मधुलोलुपैरायतपङ्क्तिभिर्मधुकरैर्मधुपैः करणैः । बकुलो ह्यङ्गनानां मद्यगण्डूषेण पुष्यतीति प्रसिद्धिः । बकुलं बकुलवृक्षमाकुलमकरोत् ।

भाषार्थ—( यह कवि समय प्रसिद्धि है कि जब तरुणी स्त्रियाँ मुख में मदिरा लेकर बकुल वृक्ष पर कुल्ला कर देती हैं तब वह शीघ्र विकसित हो जाता है।) सुमुखी स्त्रियों के मुख की मदिरा से उत्पन्न और उसी के समान गन्धवाले बकुल पुष्पों ने झुण्ड बनाकर उड़ते हुए मकरन्द-लोलुप भ्रमरों से मौलेसिरी के वृक्ष को सब से व्याप्त कर दिया ॥ ३० ॥

उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके ।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥ ३१ ॥

**अन्वयः—**शिशिरापगमश्रिया किंशुके उपहितं मुकुलजालं मदयापितलज्जया प्रमदया प्रणयिनि उपहितं नखक्षतमण्डनं इव अशोभत ।

उपहितमिति । शिशिरापगमश्रिया वसन्तलक्ष्म्या किंशुके पलाशवृक्षे 'पलाशः

नवमः सर्गः २९१

नवमः सर्गः २९१

किंशुकः पर्णः' इत्यमरः । उपहितं दत्तं मुकुलं जालं कुड्मलसंहतिः मदेन यापित- लज्जयाऽपसारित्रपया प्रमदया प्रणयिनि प्रियतमं उपहितं नखक्षतमेव मण्डनं तदिव अशोभत ।

**भावार्थ—**वसन्त के आने से पलाश के वृक्षों में कलियां निकल आयीं, वे ऐसी जान पड़ती थीं मानों काम के आवेश में लाज को छोड़कर किसी कामिनी ने अपने प्रियतम के शरीर पर नखक्षत कर दिये हों ॥ ३१ ॥

व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम् ।
न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्हिमम् ॥ ३२ ॥

**अन्वयः—**रविः व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलं हिमं तावत् अशेषं अपोहितं अलं न खलु ( किन्तु ) विरलं कृतवान् ।

व्रणेति । व्रणैर्दन्तक्षतैर्गुरुभिर्दुर्धरैः प्रमदानांघरैरखरोष्ठैर्दुःसहं हिमस्यावग्रहा- करत्वादसह्यं जघनेषु निर्विषयीकृता निरवकाशीकृता मेखला येन तत् शैत्या- त्याजितमेखलमित्यर्थः । एवंभूतं हिमं रविस्तावद्यावसन्तादशेषं निःशेषं यथा तथाऽपोहितुं निरसितुं नालं खलु न शक्तो हि किंतु विरलं कृतवांस्तनूचकार ।

**भावार्थ—**जिसकी शीतलता के कारण स्त्रियों ने अपनी कमर से करधनियों को उतार दिया था और जिसमें पतियों के दन्तक्षत से स्त्रियों के ओठ दुखा रहे थे, ऐसे हिम को यद्यपि सूर्य बिल्कुल नहीं हटा सके किन्तु कम अवश्य कर दिये ॥ ३२ ॥

अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा ।
अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥ ३३ ॥

**अन्वयः—**अभिनयान् परिचेतुम् उद्यता इव स्थिता मलयमारुतकम्पितपल्लवा सकलिका ये सहकारलता कलिकामजिताम् अपि मनः अमदयत् ।

अभिनयानिति । अत्र चूतलताया नर्तकीसमाधिरभिधीयते । अभिनयानर्थव्य- अकाङ्गव्यापारान् । 'व्यङ्गकाभिनयौ समौ' इत्यमरः । परिचेतुमभ्यसितुमुद्यतेवं कुतः मलयमारुतेन कम्पितपल्लवा पल्लवशब्देन हस्तो गम्यते । सकलिका सकोरका । 'कलिका कोरकः पुमान्' इत्यमरः । सहकारलता कलिः कलहो द्वेष उच्यते । 'काल स्यात्कलहे शूरे कलिरन्त्ययुगे युधि' इति विश्वः । कामो रागः तज्जितामपि जितरागद्वेषाणामपीत्यर्थः । मनोऽमदयत् ।

**भावार्थ—**नयी मञ्जरी से युक्त आम की डालियां मलयाचल की वायु से कांप उठीं, मानों उन्होंने अभिनय सीखना आरम्भ कर दिया हो, उन्हें देखकर

२९२रघुवंशमहाकाव्ये

राग द्वेष और काम को जीतनेवाले योगियों का मन भी मचल उठा। अर्थात् जिस प्रकार नर्तकी नाच के द्वारा सभासदों का मनोरंजन करती है उसी प्रकार हिलती हुई आम्रलता ने भी योगियों के मन को मुग्ध कर दिया ॥ ३३ ॥

प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः ।
सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥ ३४ ॥

अन्वयः— सुरभिगन्धिषु कुसुमितासु वनराजिषु अन्यभृताभिः प्रथमम् उदीरिताः मिताः गिरः प्रविरलाः मुग्धवधूकथा इव शुश्रुविरे ।

प्रथममिति । सुरभिर्गन्धो यासां तासु सुरभिगन्धिषु । 'गन्धस्येदूत्पूतिसुसुरभिभ्यः' इत्यदिनेकारः । कुसुमान्यासां संजातानि कुसुमिताः । तासु वनराजिषु वनपङ्क्तिषु अन्यभृताभिः कोकिलाभिः प्रथमं प्रारम्भेषूदीरिता उक्ता अत एव मिताः परिमिता गिर आलापः प्रविरला मौग्ध्यात्स्तोकोक्तां मुग्धवधूनां कथा वाच इव शुश्रुविरे श्रुताः

भाषार्थ— मनोहर गन्धवाली प्रफुल्लित वनराजियों से बैठकर कुहकने वाली कोयलों की परिमित वाणी ऐसी मालूम पड़ती थी मानों मुग्ध स्त्रियों के मधुर आलाप हों । अर्थात्—जिस प्रकार रतिकाल में नववधूंए लज्जा से कम बोलती हैं उसी प्रकार गन्धयुक्त पुष्पित उपवन में कोयलों का कुहकना कहीं २ सुनाई पड़ने लगा ॥ ३४ ॥

श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः ।
उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः ॥ ३५ ॥

अन्वयः— श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचः उपवनान्तलताः पवनाहतैः किसलयैः सलयैः पाणिभिः इव वभुः।

श्रुतीति । श्रुतिसुखाः कर्णमधुरा भ्रमरस्वना एव गीतयो यासां ताः । कुसुमान्येव कोमला दन्तरुचो दन्तकान्तयो यासां ताः । अनेक सस्मितत्वं विवक्षितम् । उपवनान्तलताः आराममध्यवल्ल्यः पवनेनाहतैः कम्पितैः किसलयैः सलयैः साभिनयैः लयशब्देन-लयानुगतोऽभिनयो लक्ष्यते । उपवनान्ते पवनाहतैरिति सक्रियत्वाभिधानात् । पाणिभिरिव बभुः । अनेन लतानां नर्तकीसाम्यं गम्यते ।

भाषार्थ— उपवन में बढ़ी हुई लतायें नर्तकी के समान ऐसी सजीव जान पड़ती थीं मानों कानों को सुख देनेवाले भ्रमरों की गुंजार ही उनकी गीत हो, खिले हुए कोमल फूल ही उनके हंसी के दांत हों और वायु से हिलाई गई शाखाओं वाले हाथों से अनेक प्रकार के हाव-भाव दिखा रही हों ॥ ३५ ॥

नवमः सर्गः

नवमः सर्गः २१३

ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् ।
पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥ ३६ ॥

अन्वयः-अङ्गनाः ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेशरं स्मरसखं मधुं पतिषु रसखण्डनवर्जितम् निर्विविशुः ।

ललितेति । अङ्गना ललितविभ्रमबन्धविचक्षणं मधुरविलासघटनापटुतरं सुरभिणा मनोहरेण गन्धेन पराजितकेसरं निर्जितवकुलपुष्पम् । 'अथ केसरे बकुलः' इत्यमरः । स्मरस्य सखायं स्मरसखं स्मरोद्दीपकमित्यर्थः मधुं मद्यम् । 'मधुं मद्ये पुष्परसे' इत्यमरः । "अर्धर्चा पुंसि च" इति पुंल्लिगता । उक्तं च-'मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः ॥' इति । पतिषु विषये रसखण्डनवर्जितमनुरागभङ्गरहितं यथा तथा निर्विविशुः । परस्परानुरागपूर्वकं पतिभिः सह पपुरित्यर्थः ।

भाषार्थ-विलास के उत्पादन में कुशल अपनी सुगन्ध से मौलेसरी को भी मात करने वाले कामवर्द्धक मद्य, को स्त्रियों ने अपने पतियों के विषय में अखण्डित प्रेम के साथ पान किया ॥ ३६ ॥

शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः ।
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहङ्गमाः ॥ ३७ ॥

अन्वयः-विकचतामरसाः मदकलोदकलोलविहङ्गमाः गृहदीर्घिकाः स्मितचारुतराननाः श्लथशिञ्जितमेखलाः स्त्रियः इव शुशुभिरे ।

शुशुभिरे इति । विकचतामरसा विकसितकमलाः । मदेन कला अव्यक्तमधुरं ध्वनन्त उदकलोलविहङ्गमा जलप्रियपक्षिणो हंसादयो यासु ता मदकलोदकलोलविहङ्गमाः । गृहेषु दीर्घिका वाप्यः स्मितेन चारुतराण्याननानि यासां ताः "ईषद्विकसितैर्गण्डैः कटाक्षैःसौष्ठवोचितैः ।। अलक्षितं द्विजद्वारे सूत्तमानां स्मितं भवेत् ॥" इति नाट्यलोचने । श्लथाः शिञ्जिता मुखरा मेखला यासां ताः । शिञ्जितेति कर्तरि क्तः । स्त्रिय इव शुशुभिरे ।

भाषार्थ-घरों के अन्दर बनी हुई बावलियों में जो कमल खिले हुए थे और मधुर शब्द करते हुए हंसादि जल पक्षी तैर रहे थे, उनसे वे ऐसी सुन्दर जान पड़ती थी मानों उनमें मुस्कराती हुई सुन्दर मुखवाली और ढीली होने के कारण बहती हुई करधनी वाली स्त्रियां जल-बिहार रही हों ॥ ३७ ॥

उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
सदृशमिष्टसमागमनिर्वृतिं वनितायाऽनितया रजनीवधूः ॥ ३८ ॥

२९४रघुवंशमहाकाव्ये

अन्वयः—मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः रजनीवधूः इष्टसमागम-निवृंत्तिम् अनितया वनितया सदृशं तनुताम् उपययौ ।

उपययाविति । मधुना मधुसमयेन खण्डिता ह्रासं गमिता । क्षीयन्ते खलूत्तरायणे रात्रयः खण्डिताख्या च नायिका ध्वन्यते हिमकरोदयेन पाण्डुर्मुखस्य प्रदोषस्य वक्त्रस्य च छविर्यस्याः सा। रजन्येत्र वधूः इष्टसमागमनिवृंत्तिं प्रियसङ्गमसुखमनि तयाऽप्राप्त्या । 'इण्गतौ' इति धातोः कर्तरि क्तः । वनियता सदृशं तुल्यं तनुतां न्यूनतां काश्यं चोपययौ ।

भाषार्थ—जिस प्रकार अपने प्रियतम से समागम न होने के कारण खण्डिता नायिका दुर्बल होती जाती हैं उसी प्रकार रात्रि रूपी नायिका भी बसन्त ऋतु के आने से छोटी होती गई और उसका मुखचन्द्र भी पीला पड़ता गया ॥ ३८ ॥

अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः ।
कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ॥ ३९ ॥

अन्वयः—हिमकरः अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः अंशुभिः मकरोर्जितकेतनं कुसुमचापम् अतेजयत् ।

अपैति । हिमकरश्चन्द्रः अपतुषारतयाऽपगतनीहारतया विशदप्रभैर्निर्मलकान्तिभिः सुरतसङ्गपरिश्रमादिभिः सुरतसङ्गस्वेदहारिभिरंशुभिः किरणै ''चन्दनं मृदुनालानि हरन्ति सुरतश्रमम्'' इति रतिरहस्यम् । मकरोर्जितकेतनं मकरेणोर्जितं केतनं ध्वजो यस्य तम् । लब्धावकाशत्वादुच्छ्रितध्वजमित्यर्थः । कुसुमचापं काममतेजयदशातयत् । 'तिज निशाने' इति धातोण्यन्तल्लिलङ् । सहकारिलाभात्कामोऽपि तीक्ष्णोऽभूदित्यर्थः ।

भाषार्थ—पाला के दूर हो जाने से चन्द्रमा निर्मल हो गया, उसने अपने सुरतश्रम को नष्ट करनेवाली किरणों से कामदेव के पुष्पों के धनुष को और भी तेज कर दिया ॥ ३९ ॥

हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् ।
युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥ ४० ॥

अन्वयः—हुतहुताशनदीप्ति यत् कुसुमं वनाश्रियः कनकाभरणस्य प्रतिनिधिः अभूत् दलकेशरपेशलं प्रियैः आहितं तत् युवतयः अलके दधुः ।

हुतेति । हुतहुताशनदीप्या ज्यादिप्रज्वलिताग्निप्रभं यत्कुसुमं कर्णिकारमित्यर्थः । वनश्रियः र पवनलक्ष्म्याः कनकाभरणस्य प्रतिनिधिः। अभूदिति शेषः । दलेषु केसरेषु

नवमः सर्गः २९५

च पेशलं सुकुमारपत्रकिञ्जल्कमित्यर्थः । आहितं प्रियैरिति शेषः । तत्कुसुमं युवतयोंऽलके कुन्तले दधुः ।

भाषार्थ— प्रज्वलित अग्नि के समान कान्तिवाले जो पुष्प वनलक्ष्मी के कानों के कर्णफूल जैसे लगते थे, अपने प्रियतमों द्वारा लाये गये सुन्दर पंखुड़ी और परागवाले उन फूलों को स्त्रियों ने बालों में धारण किया ॥ ४० ॥

अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥ ४१ ॥

अन्वयः— अञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिः अलिभिः अङ्कितः तिलकः वनस्थलीं तिलकः प्रमदाम् इव न शोभयति स्म इति न खलु ।

अलिभिरिति । अञ्जनबिन्दुमनोहरैः कज्जलकर्णसुन्दरैः कुसुमपङ्क्तिषु निपतन्ति ये तैः अलिभिरङ्कितश्चिह्नितस्तिलकः श्रीमान्नाम वृक्षः । ‘तिलकः क्षुरकः श्रीमान्’ इत्यमरः । वनस्थलीं तिलको विशेषकः । ‘तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च नहि स्त्रियाम्’ इत्यमरः । प्रमदामिव न शोभयति स्मेति न खलु अपि त्वशोभयदेवेत्यर्थः । “लट्स्मे” इति स्मशब्दयोगाद्भूतार्थे लट् । तिलकेष्वञ्जनबिन्दवः शोभार्थं क्रियन्ते ।

भाषार्थ— कज्जल बिन्दु के समान, पुष्प समूह पर बैठते हुए भ्रमरों से चिह्नित तिलक वृक्ष वनस्थली को ललाट में टीका किये हुए स्त्री की तरह सुशोभित नहीं किया था ऐसा नहीं किन्तु सुशोभित किया ही था ॥ ४१ ॥

अमदयन्मधुगन्धसनाथया किसलयाधरसङ्गतया मनः ।
कुसुमसम्भृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ ४२ ॥

अन्वयः— तरुचारुविलासिनी नवमल्लिका मधुरागसनाथया किसलयाधरसंगतया कुसुमसम्भृतया स्मितरुचा पश्यतां मनः अमदयत् ।

अमदयदिति । तरुचारुविलासिनी तरोः पुंसश्च चारुविलासिनी नवमल्लिका सप्तलाख्या लता । ‘सप्तला नवमल्लिका’ इत्यमरः । मधुनो मकरन्दस्य मद्यस्य च गन्धेन सनाथया गन्धप्रधानेत्यर्थः । किसलयमेवाधरस्तत्र सङ्गतया प्रसृतरागयेत्यर्थः । कुसुमैः सम्भृतया सम्पादिताया कुसुमरूपयेत्यर्थः । स्मितरुचा हासकान्त्या मनः पश्यतामिति शेषः । अमदयत् ।

भाषार्थ— जैसे कोई विलासिनी स्त्री अपने मद्यगन्धयुक्त हास्य से दर्शकों को मदोन्मत्त करती है वैसे ही नवमल्लिका लता भी अपने मकरन्द रूपी गन्ध से भरी

२९६ रघुवंशमहाकाव्ये

लाल पत्तारूपी के ओठों पर फूलों की मुस्कान लेकर देखने वालों के मन् को मतवाला बनाए डालती थी ॥ ४२ ॥

  अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवांकुरैः ।   परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ॥ ४३ ॥

  अन्वयः—विलासिनः अरुणरागनिषेधिभिः अंशुकैः श्रवणलब्धपदैः यवाङ्कुरैः च परभृताविरुतैः च इत्येतैः स्मरबलैः अबलैकरसाः कृताः ।

  अरुणेति । विलासिनो विलसनशीलाः पुरुषाः । “वौ कषलसकत्वस्त्रम्भः” इत्यनेन घिनुण्प्रत्ययः । अरुणास्यानूरो रागमारुण्यं निषेधन्ति तिरस्कुर्वन्तीत्यरुणरागनिषेधिनस्तैः कुसुम्भादिरञ्जनात्तत्सदृशैरित्यर्थः । तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति । “तस्यैवानुकरोतीति शब्दाः सादृश्यवाचकाः ।” इति दण्डी । अंशुकैरम्बरैः श्रवणेषु कर्णेषु लब्धपदैः निवेशितैरित्यर्थः । यवाङ्कुरैश्च परभृताविरुतैः कोकिलाकूजितैश्च इत्येतैः स्मरबलैः कामसैन्यैः अबलास्वेक एव रसो रागो येषां तेऽबलैकरसाः स्त्रीपरतन्त्राः कृताः ।

  भाषार्थ—प्रातःकाल की लालिमा से भी अधिक लाल वस्त्रों ने, कर्ण भूषण बनाये गये यव के अंकुरों ने और कुहकनेवाली कोयलों की सेना लेकर चलने वाले कामदेव ने ऐसा जाल बिछाया कि सभी विलासी पुरुष, युवती स्त्रियों के प्रेम में सुध बुध खो बैठे ॥ ४३ ॥

  उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी ।   सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ४४ ॥

  अन्वयः—शुचिभिः कणैः उपचितावयवा अलिकदम्बकयोगम् उपेयुषी तिलकजा मञ्जरी अलकजालकमौक्तिकैः सदृशकान्तिः अलक्ष्यत् ।

  उपचितेति । शुचिभिः शुभ्रैः कणै रजोभिरुपचितावयवा पुष्टावयवा अलिकदम्बकयोगमुपेयुषी प्राप्ता तिलकजा तिलकवृक्षोत्था मञ्जरी अलकेषु यज्जालकमाभरणविशेषस्तस्मिन् । मौक्तिकैः सदृशकान्तिः अलक्ष्यत । भृङ्गसङ्गिनी शुभ्रा तिलकमञ्जरी नीलालकसक्ता जालमिवालक्ष्यतेति वाक्यार्थः ।

  भाषार्थ—लोगों ने श्वेत परागों से भरे हुए अवयव वाली और भ्रमर समूह से व्याप्त तिलक वृक्ष की मञ्जरी को ऐसा देखा मानो किसी स्त्री ने अपने सिर पर मोतियों की जाली पहन लिया हो ॥ ४४ ॥

  ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः ।   कुसुमकेसररेणुमलिब्रजाः सपवनोपवनोत्थितमन्वयुः ॥ ४५ ॥

नवमः सर्गः २९७

नवमः सर्गः २९७

अन्वयः—अलिब्रजाः धनुर्भृतः मदनस्य ध्वजपटम् ऋतुश्रियः छविकरं मुखचूर्णं सपवनोपवनोत्थितम् कुसुमकेसररेणुम् अन्वयुः ।

ध्वजेति । अलिब्रजाः षट्पदनिवहा धनुर्भृतो धानुष्कस्य मदनस्य कामस्य ध्वजपटं पताकाभूतम् ऋतुश्रियो वसन्तलक्ष्म्याश्छविकरं शोभाकारं मुखचूर्णं मुखालंकारचूर्णभूतम् । 'चूर्णानि वासयोगाः स्युः' इत्यमरः । सपवनोपवनोत्थितं सपवनं पवनेन सहितं यदुपवनं यस्मिन्नुत्थितं कुसुमानां केसरेषु किञ्जल्केषु यो रेणुस्तम् । अन्वयुरन्वगच्छन् । यातेर्लङ् ।

भाषार्थ—भ्रमरों के झुण्ड उपवन में हवा से उड़नेवाले कुसुम पराग के पीछे-पीछे उनके गन्ध से लुब्ध होकर उड़ चले, हवा से उड़ता हुआ वह पराग ऐसा मालूम पड़ता था मानो धनुर्धारी कामदेव का झण्डा हो या वसन्त लक्ष्मी के मुख पर लगाने का अंगार चूर्ण हो ॥ ४५ ॥

अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया ।
अनयदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजनः ॥ ४६ ॥

अन्वयः—नवदोलम् ऋतूत्सवम् अनुभवन् अबलाजनः पटुः अपि प्रियकण्ठ-जिघृक्षया, आसनरज्जुपरिग्रहे भुजलतां जलताम् अनयत् ।

अनुभवन्निति । नवा दोला प्रेङ्खा यस्मिंस्तं नवदोलमृतूत्सवं वसन्तोत्सवमनुभवन्नबलाजनः पटुरपि निपुणोऽपि प्रियकण्ठस्य जिघृक्षया ग्रहीतुमालिङ्गितुमिच्छयाऽऽसनरज्जुपरिग्रहे पीठरज्जुग्रहणे भुजलतां बाहुलतां जलतां शैथिल्यं डलयोरभेदः "यमकश्लेषचित्रे तु बवयोडर्लयोर्न भित्" इति । अनयत् । दोलाक्रीडासु पतनभयनाटितकेन प्रियकण्ठमाश्लिष्यदित्यर्थः ।

भाषार्थ—वसन्तऋतु में नये फूलों के आनन्द का अनुभव करने वाली स्त्रियों ने चतुर होते हुए भी अपने प्रियतमों के आलिंगन की इच्छा से झूले की डोरी पकड़ने वाले हाथों को ढीला कर दिया ताकि हाथ छूटने पर हमारे प्रियतम हमें थाम ही लेंगे । इस प्रकार उनके गले लग जायेंगी । या गिरने के बहाने झूले की रस्सी को पकड़ने को ढीलाकर पति के गले का स्वयं आलिंगन कर लिया । ४६ ॥

त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः ।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ ४७ ॥

अन्वयः—बत 'अङ्गनाः मानं त्यजत, विग्रहैः अलं, गतं चतुरं वयः पुनः न एति' इति स्मरमते परभृताभिः निवेदिते सति इव वधूजनः रमतेस्म ।

त्यजतेति । बतेत्यामन्त्रणे 'खेदामुकम्पासंतोषविस्मयामन्त्रणे बत' इत्यमरः ।

२९८ रघुवंशमहाकाव्ये

बत अङ्गना मानं कोप त्यजत । तदुक्तम् “स्त्रीणामीर्ष्याकृतः कोपः मानोऽन्यासङ्गिनि प्रिये” इति । विग्रहे विरोधेरलं । विग्रहो न कार्य इत्यर्थः । गतमतीतं चतुरमुपभोगक्षमं वयो यौवनं पुनर्नैति इत्येवंरूपे स्मरमते स्मराभिप्राये । नपुंसके भावः क्तः । परभृताभिः कोकिलाभिर्निवेदिते सतीव वधूजनो रमते स्म रेमे । कोकिलाकूजितोद्दीपितेस्मरः स्त्रीजनः कामशासनभयादिवोच्छृङ्खलमखेलदित्यर्थः ।

**भाषार्थ—**उन दिनों कोयलायें मानो कामदेव का यह आदेश सुना रही थी कि हे स्त्रियो ! मानको छोड़ दो, लड़ाई झगड़ा न करो, बीती हुई नवजवानी फिर नहीं लौटती । इस प्रकार कोयलों के कामोद्दीपन वचन सुनने पर मानिनी स्त्रियाँ मान छोड़कर अपने २ पतियों के साथ फिर रमण करने लगी ॥ ४७ ॥

अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः । नरपतिश्चक्रमे मृगयारतिं स मधुमन्मधुमन्मथसन्निभः ॥ ४८ ॥

**अन्वयः—**अथ मधुमन्मधुमन्मथसन्निभः सः नरपतिः विलासवतीसखः सन् आर्तवम् उत्सवं, यथासुखं समनुभूय मृगयारतिं चकमे ।

अथेति । अथानन्तरं मधु मथनातीति मधुमद्विष्णुः संपदादित्वात्क्विप् । मधुवसन्‍तः मध्नातीति मथः पचाद्यच् । मनसो मथो मन्मथः । काम येषां सन्निभः सदृशो मधुमन्मधुमन्मथसन्निभः नरपतिर्दशरथो विलासवतीसखः स्त्री सहचरः सन् ऋतुः प्राप्तोऽस्यार्तवः तमुत्सवं यथासुखं समनुभूय मृगयारतिं मृगयाविहारं चकमे आचकांक्ष ।

**भाषार्थ—**इसके बाद विष्णु के समान पराक्रमो, वसन्त के समान प्रसन्न और कामदेव के समान सुन्दर दशरथ जी ने विलासिनी स्त्रियों के साथ वसन्त ऋतु का आनन्द अनुभव कर शिकार खेलने की इच्छा प्रगट की ॥ ४८ ॥

वासनासङ्गदोषं परिहरन्नाह— परिचयं चललक्ष्यनिपातने भयरुषोश्च तदिङ्गितबोधनम् । श्रमजयात्प्रगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ ॥४९॥

**अन्वयः—**असौ चललक्ष्यनिपातने परिचयं करोति, भयरुषोः तदिङ्गितबोधनं च करोति श्रमजयात् तनुं प्रगुणां च करोति अतः दशरथः सचिवैः अनुमतः सन् ययौ ।

परिचयमिति । असौ मृगया चललक्ष्याणि मृगगवयादीनि तेषां निपातने परिचयमभ्यासं करोति भयरुषोर्भयक्रोधयोस्तदिङ्गितबोधनं तेषां चललक्ष्याणामिङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति । तनुं शरीरं श्रमस्य जयान्निरासात्प्रगुणां प्रकृष्टलाघवादिगुणवतीं च करोति । अतो हेतो सचिवैरनुमतोऽ-

नवमः सर्गः २९९

मोदितः सन्ययौ । सर्वं चैतद्युद्धोपयोगीत्यतस्तदपेक्षया मृगयाप्रवृत्तिः। न तु व्यसनितयेति भावः ।

**भाषार्थ—**शिकार खेलने से अनेक लाभ होते हैं पहली बात तो यह होती है कि उससे चलते हुए लक्ष्य को वेधने का अभ्यास हो जाता है, फिर उससे जीवों के भय और क्रोध आदि विविध भावों की पहचान हो जाती है और परिश्रम करने से शरीर भी भली प्रकार दृढ़ हो जाता है इसलिए मन्त्रियों से राय लेकर राजा दशरथ शिकार के लिए निकल पड़े ॥ ४९ ॥

मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः ।
गगनमश्वखुरोद्धतरेणुभिर्नृसविता स वितानमिवाकरोत् ॥ ५० ॥

**अन्वयः—**मृगवनोपगमक्षमवेषभृत् विपुलकण्ठनिषक्तशरासनः नृसविता सः अश्वखुरोद्धतरेणुभिः गगनं वितानम् इव अकरोत् ।

मृगेति । मृगाणां वनं तस्योपगमः प्राप्तिः तस्य क्षममहं वेषं बिभर्तीति स तथोक्तः । मृगयाविहारानुगुणवेषधारीत्यर्थः विपुलकण्ठे निषक्तशरासनो लग्नधन्वा ना सवितेव नृसविता पुरुषश्रेष्ठः । उपमितसमासः । स राजाऽश्वखुरोद्धतरेणुभिर्गगनं वितानं तुच्छमसदिवाकरोत् । गगनं नालक्षयतेत्यर्थः । वितानं तुच्छमन्दयः इति विश्वः । अथवा सवितानमित्येकं पदम् । सवितानमुल्लोचनसहितमिवाकरोत् । 'अस्त्री वितानमुल्लोचः' इत्यमरः ।

**भाषार्थ—**मृगों से परिपूर्ण वन के योग्य वेष बनाकर विशाल कण्ठ में धनुष को रखे हुए और राजाओं में सूर्य के समान तेजस्वी वे राजा दशरथ घोड़े पर चढ़कर चले, तब उनके घोड़ों की टापों से इतनी धूलि उठी कि आकाश में चंदोवा-सा बन गया ॥ ५० ॥

ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः ।
तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥ ५१ ॥

**अन्वयः—**वनमालया ग्रथितमौलिः तरुपलाशसवर्णतनुच्छदः तुरगवल्गनचञ्चलकुण्डलः सः रुरुचेष्टितभूमिषु विरुरुचे ।

ग्रथितेति । वनमालया वनपुष्पस्रजा ग्रथितमौलिविबद्धधम्मिल्लः "पत्रपुष्पमयी माला बनमाला प्रकीर्तिता" इति । तरूणां पलाशैः पत्रैः सवर्णः समानस्तनुच्छदो वर्म यस्य स तथोक्तः । इदं च वर्मणः पलाशसावर्ण्याभिधानं मृगादीनां विश्वासायर्थम् । तुरगस्य वल्गनेन गतिविशेषेण चञ्चलकुण्डलोऽसौ दशरथो रुरुभिर्मृगविशेषैश्चेष्टिताश्चरिता या भूमयस्तासु विरुरुचे विदिद्युते ।

३०० रघुवंशमहाकाव्ये

भाषार्थ—राजा दशरथ के केशों में वनमाला गूंथी हुई थी और वे वृक्षों के पत्तों के समान गहरे रंग का कवच पहने हुए थे घोड़ों के वेग से चलने के कारण उनके कानों के कुण्डल भी हिल रहे थे, इस वेष में चलते-चलते वे उस वनस्थली में जा पहुँचे जहां रुरु जाति के मृग घूमा करते थे ॥ ५१ ॥

तनुलताविनिवेशितविग्रहा भ्रमरसङ्क्रमितेक्षणवृत्तयः । ददृशुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ॥ ५२ ॥

अन्वयः—तनुलताविनिवेशितविग्रहाः भ्रमरसंक्रमितेक्षणवृत्तयः वनदेवताः सुनयनं नयनन्दितकोसलं तम् अध्वनि ददृशुः ।

तन्विति । तनुषु लतासु विनिवेशितविग्रहा संक्रामितदेहाः भ्रमरेषु संक्रमिता ईक्षणवृत्तयो दृग्व्यापारा यासां ता वनदेवताः सुनयनं सुलोचनं नयेन नीत्यानन्दितास्तोषिताः कोसला येन तं दशरथमध्वनि ददृशुः । प्रसन्नपावनतया तं देवता अपि गूढवृत्त्या ददृशुरित्यर्थः ।

भाषार्थ—सूक्ष्म लताओं में शरीर की ओर भ्रमरों में नेत्र व्यापार को संक्रमित करनेवाली वनदेवताओं ने भी उन सुन्दर नेत्रवाले कोसल की प्रजाओं को सदा सुख पहुँचाने वाले राजा दशरथ को मार्ग में देखा ॥ ५२ ॥

श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः । स्थिरतुरङ्गमभूमिनिपानवन्मृगवयोगवयोपचितं वनम् ॥ ५३ ॥

अन्वयः—सः श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्युः स्थिरतुरङ्गभूमिः निपानवत् मृगवयोगवयोपचितं वनं विवेश ।

श्वगणीति । स दशरथः शुनां गण, स एषामस्तीति श्वगणिनः श्वग्राहिणः तैः वागुरा मृगबन्धनरज्जुः । 'वागुरा मृगबन्धनी' इत्यमरः तथा चरन्तीति वागुरिका जालिकाः । "चरति" इति ठक्प्रत्ययः । 'द्वौ वागुरिकजालिकौ' इत्यमरः । तैश्च प्रथममास्थितमधिष्ठितं व्यपगता अनला दावाग्नयो दस्यवस्तस्कराश्च यस्मात्तथोक्तम् । 'दस्युतस्करमोषकः' इत्यमरः । "कारयेद्भवनशोधनमादौ मातुरन्तिकमपि प्रविविक्षुः । आप्तशस्त्रचनुगतः प्रविशेदद्वा संकटे च गहने च तिष्ठेत्" इति कामन्दकः । स्थिरा दृढाः पङ्कादिरहिता तुरङ्गमयोग्या भूमिर्यस्य तत् । निपानवदाहावयुक्तम् । 'अहावस्तुनिपानं स्यादुपकूपजलाशये' इत्यमरः । मृगैर्हरिणादिभिर्वयोभिः पक्षिभिर्गवयैर्गोहसदृशैररण्यपशुविशेषैश्चोपचितं समृद्धं वनं विवेश प्रविष्टवान् ।

भाषार्थ—वे राजा दशरथ उस वन में पहुँचे जहाँ पहले से ही जाल और शिकारी कुत्ते लेकर उनके सेवक पहुँच चुके थे, वहाँ न तो अग्नि का भय था न

नवमः सर्गः ३०१

चोरों का । घोड़ों के चलने योग्य वहाँ की जमीन सूखी हुई थी, कुओं का पास पशुओं के पानी पीने योग्य हौजें बनी हुई थीं और हरिण पक्षी एवं गवय प्रचुर मात्रा में वर्तमान थे ॥ ५३ ॥

अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् ।
धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी ॥ ५४ ॥

अन्वयः—अथ अनाधिः रवरोषितकेसरी नरवरः कनकपिङ्गतडिद्गुणसंयुतं त्रिदशायुधं नभस्य इव अधिज्यं धनुः उपाददे ।

अथेति । अथानाधिर्मनोव्यथारहितो नरवरो नरश्रेष्ठः रवेण धनुष्टङ्कारेण रोषिताः केसरिणः सिंहा येन स राजा । कनकमिव पिङ्गः पिशङ्गो यस्तडिदेव गुणो मौर्वी तेन संयुतं त्रिदशायुधमिन्द्रचापं नभस्यो भाद्रपदमास इव । 'स्युर्नभस्यः प्रौष्ठपदभाद्रपदाः समाः' इत्यमरः । अधिज्यमधिगतमौर्वीकं धनुरुपाददे जग्राह ।

भाषार्थ—तब वे नरश्रेष्ठ राजा दशरथ अपना वह धनुष चढ़ाये । जिसके टंकार से सिंह गरज उठे । वे उस समय उस भादो महीना के समान लग रहे थे जिसमें इन्द्रधनुष निकला हुआ हो और उसमें सुवर्ण के रङ्ग की पीली बिजली की डोरी बँधी हो ॥ ५४ ॥

तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं पुरस्तात् ।
आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारम् ॥ ५५ ॥

अन्वयः—स्तनप्रणयिभिः एणशावैः मुहुः व्याहन्यमानहरिणीगमनं कुशगर्भमुखं तदग्रसरगर्वितकृष्णसारं मृगाणां यूथं तस्य पुरस्तात् आविर्बभूव ।

तस्येति । स्तनप्रणयिभिः स्तनपायिभिरेणशावैर्हरिणशिशुभिः । 'पृथुकः शावकः शिशुः' इत्यमरः । व्याहन्यमानं तद्वत्सलतया तद्गमनानुसारेण मुहुर्मुहुः प्रतिषिध्यमानं हरिणीनां गमनं गतिर्यस्य तत् । कुशा गर्भे येषां तानि मुखानि यस्य तत्कुशगर्भमुखं । तस्य यूथस्याग्रेसरः पुरःसरो गर्वितो दृप्तश्च कृष्णसारो यस्य तत् । मृगाणां यूथं कुलम् । 'सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम्' इत्यमरः । तस्य दशरथस्य पुरस्तादग्र आविर्बभूव । वसन्ततिलका वृत्तम् ।

भाषार्थ—उन्होंने देखा कि आगे मृगों का झुण्ड चला आ रहा है जिसमें हरिणियां भी हैं जो उन बच्चों के कारण रुकती चलती हैं जो कुश चरते-चरते अपनी मां के स्तनों से दूध पीने के लिए बीच-बीच में खड़े हो जाते हैं इस झुण्ड के आगे-आगे मुख में कुश लिए एक गर्वीला काला हरिण भी चल रहा है ॥ ५५ ॥

३०२ रघुवंशमहाकाव्ये

तत्प्रार्थितं जवनवाजिगतेन राज्ञा
तूणीमुखोद्धृतशरेण विशीर्णपङ्क्तिः।
श्यामीचकार वनमाकुलदृष्टिपातै-
र्वातेरितोत्पलदलप्रकरैरिवाद्रैः ॥ ५६ ॥

अन्वयः—जवनवाजिगतेन, तूणीमुखोद्धृतशरेण राज्ञा प्रार्थितं विशीर्णपङ्क्तिः तत् आर्द्रैः आकुलदृष्टिपातैः वातेरितोत्पलदलप्रकरैः इव वनं श्यामीचकार ।

तदिति । जवनो जवशीलः । “जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः” इत्यनेन युच्प्रत्ययः । 'तरस्वी त्वरितो वेगी प्रजवो जवनो जवः' इत्यमरः । तं वाजिनमश्वं गतेनारूढेन तूणीषूधिः । “बह्वादिभ्यश्च” इति स्त्रियां ङीष् । तस्या मुखाद्विवरादुद्धृतशरेण राज्ञा प्रार्थितमभियातम् । 'याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः' इति केशवः । अत एव विशीर्णा पङ्क्तिः संघीभावो यस्य तत् । मृगयूथं कर्तृ आर्द्रैर्भयादश्रुसिक्तैराकुला भयचकिता ये दृष्टिपातास्तैः वातेरितोत्पलदलप्रकरैः पवनकम्पितेन्दीवरदलवृन्दैरिव वनं श्यामीचकार ।

भाषार्थ—अपने वेगगामी घोड़े पर चढ़े हुए राजा दशरथ ने ज्यों ही अपने तरकस से बाण निकाल कर उस झुण्ड का पीछा किया, त्यों ही वह तितर-बितर हो गया और हरिणों की घबड़ाई हुई आंखों से व्याप्त वह सारा वन ऐसा मालूम पड़ने लगा मानो वायु ने काले कमलों की पंखुड़ियां उड़ाकर वहाँ बिखेर दी हों ॥

लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः
प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् ।
आकर्णकृष्टमपि कामितया स धन्वी
बाणं कृपामृदुमनाः प्रतिसंजहार ॥ ५७ ॥

अन्वयः—हरिप्रभावः धन्वी सः लक्ष्यीकृतस्य हरिणस्य देहं व्यवधाय स्थितां सहचरीं प्रेक्ष्य कामितया कृपामृदुमनाः सन् आकर्णकृष्टम् अपि बाणं प्रतिसंजहार ।

लक्ष्यीकृतेति । हरिरिन्द्रो विष्णुर्वा तस्येव प्रभावः सामर्थ्यं यस्य स तथोक्तः । धन्वी धनुष्मान्स नृपः लक्ष्यीकृतस्य वेद्धुमिष्टस्य हरिणस्य स्वप्रेयसो देहं व्यवधायानुरागादन्तर्धाय स्थितां । सह चरतीति सहचरी । पदादिषु चरतेष्टित्कारणात्ङीप् । तथाह वामनः—'अनुचरीति चरेष्टित्त्वात्' इति । तां सहचरीं हरिणीं प्रेक्ष्य कामितया स्वयं कामुकत्वात्, कृपामृदुमना करुणाद्रैचित्तः । सन् आकर्णकृष्टमपि दुष्प्रतिसंहरमपीत्यर्थः । बाणं प्रतिसंजहार । नैपुण्यादित्यर्थः । नैपुण्यं तु धन्वीत्यनेन गम्यते ।

भाषार्थ—इन्द्र के समान शक्तिशाली धनुर्धारी उस राजा दशरथ ने देखा कि

नवमः सर्गः | ३०३

जिस हरिण को वे मारना चाहते थे उसकी स्त्री हरिणी उसके शरीर को व्यवहित करके बीच में आकर खड़ी हो गई । अपने प्रियतम हरिण के लिए हरिणी का यह प्रेम देखकर दशरथ का हृदय दया से भर आया और उन्होंने कान तक खींचा हुआ भी बाण उतार लिया ॥ ५७ ॥

तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः
कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः ।
त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः
प्रौढप्रियानयनविभ्रमचेष्टितानि ॥ ५८ ॥

अन्वयः — त्रासातिमात्रचटुलैः सुनेत्रै प्रौढप्रियानयनविभ्रमचेष्टितानि स्मरतः अपरेषु अपि मृगेषु शरान् मुमुक्षोः तस्य निबिडः अपि मुष्टि कर्णान्तम् एत्य बिभिदे ।

तस्येति । त्रासाद्भयादतिमात्रचटुलैरत्यन्तचञ्चलैः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि प्रगल्भकान्तविलोचनविलासव्यापारान्साहश्यात्स्मरतः अपरेष्वपि मृगेषु शरान्मुमुक्षोर्भोक्तुमिच्छोस्तस्य नृपस्य निबिडो दृढोऽपि मुष्टिः कर्णान्तमेत्य प्राप्य बिभिदे स्वयमेव भिद्यते स्म । भिदेः कर्मकर्तरि लिट् । कामिनस्तस्य प्रियाविभ्रमस्मृतिजनितकृपातिरेकान्मुष्टिभेदः । न त्वनैपुण्यादिति तात्पर्यार्थः ।

भाषार्थ — वे दूसरे मृगों पर बाण छोड़ने की इच्छा से बाण को कान तक खींच भी लिये थे किन्तु उन्होंने जब अत्यन्त भय से व्याकुल उनके सुन्दर नेत्रों को देखा तब उन्हें अपनी युवतीं प्रियतमाओं के चञ्चल नेत्रों का स्मरण हो आया, इससे करुणार्द्र हृदय होकर उन्होंने किसी हरिण को भी नहीं मारा ॥ ५८ ॥

उत्तस्थुषः सपदि पल्वलपङ्कमध्या-
न्मुस्ताप्ररोहकवलावयवानुकीर्णम् ।
जग्राह स द्रुतवराहकुलस्य मार्गं
सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ॥ ५९ ॥

अन्वयः — सः मुस्ताप्ररोहकवलावयवानुकीर्णम् आयताभिः आर्द्रपदपङ्क्तिभिः सुव्यक्तं सपदि पल्वलपङ्कमध्यात् उतस्थुषः द्रुतवराहकुलस्य मार्गं जग्राह ।

उत्तस्थुष इति । स नृपः मुस्ताप्ररोहाणां मुस्ताङ्कुराणां कवला ग्रासाः तेषामवयवैः श्रमविवृतमुखभ्रंशिभिः शकलैरनाकीर्णं व्याप्तम् । आयताभिर्दीर्घाभिरार्द्रपदपङ्क्तिभिः सुव्यक्तं सपदि पल्वलपङ्कमध्यादुत्तस्थुष उत्थितस्य द्रुतवराहकुलस्य पलायितवराहयूथस्य मार्गं जग्राहानुससार । जिघांसया तदीयपदवीमनुययावित्यर्थः ।

भाषार्थ — उन हरिणों को छोड़कर राजा दशरथ उधर घूम पड़े जिधर

३०४ | रघुवंशमहाकाव्ये

आधा चबाये हुए मोथा के टुकड़े स्थान-स्थान पर बिखरे हुए थे और दूर तक पैरों के गीले पदचिह्नों को देखकर मालूम पड़ता था कितालों के कीचड़ से निकल-निकल कर जंगली सूअरों का समूह उधर को ही गया है ॥ ५९ ॥

तं वाहनादवनतोत्तरकायमोष- द्विध्यन्तमुद्धृतसटाः प्रतिहन्तुमीषुः । नात्मानमस्य विविदुः सहसा वराह। वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु ॥ ६० ॥

अन्वयः—वराहाः वाहनात् ईषत् अवनतोत्तरकायम् विध्यन्तं तम् उद्धृत-सटाः सन्तः प्रतिहन्तुम् अस्य ईषुभिः सहसा जघनाश्रयेषु वृक्षेषु विद्धम् आत्मानं न विविदुः ।

तमिति । वराहाः वाहनादश्वादीषदवनतोत्तरकायं किंचिदानतपूर्वकायं विध्यन्तं प्रहन्तं नृपम् उद्धृतसटा उर्ध्वकेसराः सन्तः । 'शटा जटाकेसयोः' इति केशवः । प्रतिहन्तुमीषुः प्रतिहन्तुमैच्छन् । अस्य नृपस्येषुभिः सहसा जघना-नामाश्रेयेष्ववष्टम्भेषु वृक्षेषु विद्धमात्मानं न विविदुः । एतेन वराहाणां मनस्वित्वं नृपस्य हस्तलाघवं द्योक्तम् ।

भाषार्थ—घोड़े पर चढ़े हुए राजा दशरथ ने अपने शरीर को आगे झुका कर ज्यों ही उन सूअरों पर बाण चलाया त्यों ही वे अपने गर्दनों के बालों को खड़ा करके उन पर झपटे, किन्तु उन्होंने तत्काल ऐसे कसकर बाण मारे कि सूअरों को पता नहीं चला कि वे उन पेड़ों में बाणों साथ कसकर चिपक गये जिनके सहारे वे खड़े थे ॥ ६० ॥

तेनाभिघातरभसस्य विकृष्य पत्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः । निर्भिद्य विग्रहमशोणितलिप्तपुङ्ख- स्तयं पातयां प्रथममास पपात पश्चात् ॥ ६१ ॥

अन्वयः—अभिघातरभसस्य वन्यस्य महिषस्य नेत्रविवरे तेन विकृष्य मुक्तः पत्री विग्रहं निर्भिद्य अशोणितलिप्तपुङ्खः ( सन् ) तं प्रथमं पातयामास स्वयं पश्चात् पपात ।

तेनेति । अभिघाते रभस औत्सुक्यं यस्य तस्य अभिहन्तुमुद्यतस्येत्यर्थः । वन्यस्य वने भवस्य महिषस्य नेत्रविवरे नेत्रमध्ये तेन नृपेण विकृष्याकृष्य मुक्तः पत्री शरो विग्रहं महिषदेहं निर्भिद्य विदार्य शोणितलिप्तो न भवतीत्यशोणितलिप्तः

नवमः सर्गः ३०५

पुङ्खो यस्य स तथोक्तः सन् । तं महिषं प्रथमं पातयामास स्वयं पश्चात्पपात । “कृञ्चानुप्रयुज्यते लिटि” इत्यत्रानुशब्दस्य व्यवहितविपर्यस्तप्रयोगनिवृत्त्यर्थत्वात् 'पातयां प्रथममास' इत्यार्षप्रयोग इति पाणिनीयाः। यथाह वार्तिककारः— 'विपर्यासिनिवृत्त्यर्थं व्यवहितवृत्त्यर्थं च' इति ।

**भावार्थ—**इतने में ही उन्होंने देखा कि एक वनैला भैंसा उनकी ओर झपटा चला आ रहा है उन्होंने उसकी आंख में एक ऐसा बाण मारा कि वह भैंसे के शरीर में से इतनी जल्दी पार हो गया कि बाण के पंख में थोड़ा सा भी रक्त नहीं लगा और विशेषता यह थी कि भैंसे के शरीर को विदीर्ण कर बाण तो देर से गिरा किन्तु भैंसा पहले ही पृथ्वी पर गिर पड़ा ॥ ६१ ॥

प्रायो विषाणपरिमोक्षलघूत्तमाङ्गा- न्वङ्गांश्चकार नृपतिर्निशितैः क्षुरप्रैः । शृङ्गं स दृप्तविनयाधिकृतः परेषा- मत्युच्छ्रितं ममृषे न तु दीर्घमायुः ॥ ६२ ॥

**अन्वयः—**नृपतिः निशितैः क्षुरप्रैः खङ्गान् प्रायः विषाणपरिमोक्षलघूत्तमाङ्गान चकार, दृप्तविनयाधिकृतः सः परेषाम् अत्युच्छ्रितं शृङ्गं न ममृषे दीर्घम् आयुः तु ( न ममृषे ) इति न ।

प्राय इति । नृपतिर्निशितैः क्षुरप्रैः शरविशेषैः चन्द्राद्धर्बाणैरित्यर्थः । खड्गानू खड्गाख्यान्मृगान् 'गण्डके खड्गखड्गिनौ' इत्यमरः । प्रायो बाहुल्येन विषाणपरिमोक्षण शृङ्गभङ्गेन लघून्यगुरुण्युत्तमाङ्गानि शिरांसि येषां तांश्चकार । न त्ववधीदित्यर्थः । कुतः दृप्तविनयाधिकृतो दुष्टनिग्रहनियुक्तः स राजा परेषां प्रतिकूलानामत्युच्छ्रितमुन्नतं शृङ्गं विषाणं प्राधान्यं च । 'शृङ्गं प्राधान्यसन्त्वोश्च' इत्यमरः । न ममृषे न सेहे । दीर्घमायुर्जीवितकालम् । 'आयुर्जीवितकालो ना' इत्यमरः । न ममृष इति न किन्तु ममृष एवेत्यर्थः ।

**भावार्थ—**इतने में उन्हें गैंडों का झुण्ड दिखाई पड़ा। राजा दशरथ ने अर्द्ध-चन्द्राकार तेज बाणों से उनके सींगों को काटकर उनके शिर का बोझ हल्का कर दिया। अभिमानियों के शासक वे राजा शिर उठाकर चलने वालों का दमन अवश्य करते थे इसीलिए उन्होंने उनके उन्नत सींग को नहीं सहन किया उनके प्राण से उनको वैर नहीं था। अर्थात्, राजा दशरथ ने दया करके उनके प्राण नहीं लिए, किन्तु उनके मान को नष्ट कर दिया ॥ ६२ ॥

२० र० सम्पू०

३०६रघुवंशमहाकाव्ये

व्याघ्रानभीरभिमुखोत्पतितान्गुहाभ्यः
  फुल्लासनाग्रविटपानिव वायुरुग्णान् ।
शिक्षाविशेषलघुहस्ततया निमेषा-
  त्तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥ ६३ ॥

अन्वयः— अभीः सः गुहाभ्यः अभिमुखोत्पतितान् वायुरुग्णान् फुल्लासनाग्रविटपान् इव स्थितान् शरपूरितवक्त्ररन्ध्रान् व्याघ्रान् शिक्षाविशेषलघुहस्ततया निमेषात् तूणीचकार ।

व्याघ्रानिति । अभीर्निर्भीकः धन्वी गुहाभ्योऽभिमुखमुत्पतितान् वायुना रुग्णान्भग्नान् । फुल्ला विकसिताः । “अनुपसर्गात्फुल्लक्षीवकृशोल्लाघाः” इति निष्ठातकारस्य लत्वनिपातः । येऽसनस्य सर्जवृक्षस्य । ‘सर्जकासनबन्धूकपुष्पप्रियकजीवकाः’ इत्यमरः । अग्रविटपास्तानिव स्थितान् इषुधिभूतानित्यर्थः । व्याघ्राणां चित्ररूपत्वादुपमाने फुल्लविशेषणम् । शरैः पूरितानि वक्त्ररन्ध्राणि येषां तान्ब्याघ्रान् शिक्षाविशेषेणाभ्यासातिशयेन लघुहस्ततया क्षिप्रहस्ततया निमेषात्तूणीचकार । तूर्णं शरैः पूरितवानित्यर्थः ।

भाषार्थ— जब सैनिकों के कोलाहल से सिंह अपनी-अपनी गुफाओं से निकलकर राजा दशरथ पर टूट पड़े तब राजा दशरथ ने धनुर्विद्या में सिद्धहस्त होने के कारण इतनी शीघ्रता से उन पर बाण बरसाये कि उन सिंहों के खुले मुंह बाणों से ऐसे भर गये मानों बाणों से भरे हुए तरकस हों अर्थात् गुफा से उछलकर सामने आते ही उनके मुखों को बाणों से भर दिया ॥ ६३ ॥

निर्घातोप्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान् ।
नूनं तेषामभ्यसूयापरोऽभूद्वीर्योदग्रे राजशब्दो मृगेषु ॥ ६४ ॥

अन्वयः— कुञ्जलीनान् सिंहान् जिघांसुः निर्घातोग्रैः ज्यानिर्घोषैः क्षोभयामास, तेषां वीर्योदग्रे मृगेषु राजशब्दे अभ्यसूयापरः नूनम् अभूत् ।

निर्घातेति । कुञ्जेषु लीनान् । ‘निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे’ इत्यमरः । सिंहाञ्जिघांसुर्हन्तुमिच्छुः निर्घातो व्योमोत्थित औत्पातिकः शब्दविशेषः । तदुक्तं नारदीयसंहितायां ‘वायुनाभिहतो वायुर्गगनात्पतितः क्षितौ । दण्डादीसः सगरुतः सनिर्घातोऽतिदोषकृत् ॥’ इति तद्वदुग्रै रौद्रैर्ज्यानिर्घोषैर्मौर्वीशब्दैः क्षोभयामास । अत्रोत्प्रेक्षते—तेषां सिंहानां सम्बन्धिानि वीर्येणोदग्र उन्नते मृगेषु विषये यो राजशब्दस्तस्मिन्नभ्यसूयापरोऽभून्नूनम् । अन्यथा कथमेतानन्विष्य हन्यादित्यर्थः । ‘मृगाणाम्’ इति पाठे समासे गुणभूतत्वाद्रराजशब्देन सम्बन्धो दुर्घटः । शालिनीवृत्तम्— ‘शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः’ इति लक्षणात् ।