रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
४२ आयुर्वेदीयग्रन्थमाला । [उपदेशः एवं मासत्रयं कुर्याद्वज्रकायो भवेन्नरः । तस्य मूत्रपुरीषाभ्यां ताम्रमायाति काञ्चनम् ॥ ४८ ॥ ब्रह्मवृक्षस्य बीजानि चूर्णितानि घृतैः सह । पूर्ववद्धान्यमध्ये तु क्षिप्त्वा मासात्समुद्धरेत् ॥ ४९ ॥ पलैकैकं सदा खादेद्वत्सरान्मृत्युजिद्भवेत् । वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ॥ ५० ॥ ब्रह्मबीजोत्थितं तैलं गवां क्षीरैः पलद्वयम् । तुल्यैः पिबेद्भवेन्मूर्च्छा सिञ्चेत्तस्य मुखे पयः ॥ ५१ ॥ बोधे क्षीरौदनं दद्यान्मासाज्ज्ञानी भवेन्नरः । द्वितीये शुक्रतुल्यः स्यात्तृतीये वज्रवद्भवेत् ॥ ५२ ॥ दूरश्रावी चतुर्थे तु पञ्चमे खेगतिर्भवेत् । मासषट्के स्वयं कर्ता शिवतुल्यपराक्रमः ॥ ५३ ॥ महाकल्पान्तपर्यन्तं जीवेद्वर्षैकसेवनात् । ब्रह्मवृक्षमतिस्थूलं छेदयेदूर्ध्वभागतः ॥ ५४ ॥ अधो रक्ष्यं त्रिहस्तं स्यात्तस्य मूर्ध्नि बिलं कृतम् । पक्वैर्धात्रीफलैः पूर्यं तत्काष्ठेन निरुध्य च ॥ ५५ ॥ कुशैस्तु वेष्टयेत्सर्वं लेप्यं मृद्रोमयैः पुनः । आवेष्ट्य वस्त्रखण्डेन लिम्पेन्मृद्रोमयैस्ततः ॥ ५६ ॥ शुष्के गजपुटं देयं पैरितोऽरण्यकोत्पलैः । स्वाङ्गशीतलमुद्धृत्य सद्रवाणि फलानि च ॥ ५७ ॥ क्षिपेन्मध्वाज्यसंयुक्ते भाण्डे तान्येव भक्षयेत् । यथेष्टं भूगृहान्तःस्थः क्षीराहारी जरां जयेत् ॥ ५८ ॥ मांसद्वयेन वसुधां छिद्रां पश्यति निश्चितम् । जीवेद्ब्रह्मदिनं यावत्सर्पवत्कञ्चुकं त्यजेत् ॥ ५९ ॥ १ ‘महाबलः’ ख. । २ ‘तं तु धात्रीफलैः’ ख. । ३ ‘पाचितो’ ख. । ४ ‘छिद्रं पश्यति मासाद्वै निधानानि च भूतले’ ख. ।
४.] रसरत्नाकरस्य रसायनखण्डः । ५३ श्वेतपालाशकल्पः । श्वेतपालाशपञ्चाङ्गं चूर्णितं मधुना सह । कर्षैकं भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ ६० ॥ ब्रह्मायुर्जायते सिद्धो वर्षमात्रान्न संशयः । अजाघृतेन तद्बीजमेकैकं भक्षयेत्सदा ॥ ६१ ॥ शरीरं भस्मना मर्द्य मासान्मृत्युजरां जयेत् । जीवेद्ब्रह्मदिनं यावद्दिव्यकायो भवेन्नरः ॥ ६२ ॥ अन्ये योगा यथा रक्ते ब्रह्मवृक्षे च ये गुणाः । तथैव श्वेतपालाशे भवेयुः साधकस्य वै ॥ ६३ ॥ 'अमृतं कुरु कुरु अमृतमालिन्यै नमः ॥' अनेन मन्त्रेण सर्वयोगाः सप्ताभिमन्त्रिता भक्षणीयाः । मुण्डीकल्पः । शुक्लपक्षेऽथ पूर्णायां पुष्ये वा श्रवणे तथा । रेवत्यां वाऽथ संपूज्य मुण्डीपञ्चाङ्गमुद्धरेत् ॥ ६४ ॥ छायाशुष्कं तु तच्चूर्णं कर्षं गोपयसा सह । वर्षैकेन जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ६५ ॥ तस्य मूत्रपुरीषाभ्यां ताम्रं सौवर्णतां व्रजेत् । तच्चूर्णं तु घृतैस्तैलैर्हं तद्वत्स्याद्वलमद्भुतम् ॥ ६६ ॥ 'ॐ नमोऽमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ओं ह्रां स
४४ आयुर्वेदीयग्रन्थमाला । [ उपदेशः चूर्णितं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना । वर्षान्मृत्युं जरां हन्ति छिद्रां पश्यति मेदिनीम् ॥७०॥ पुनर्नवादेवदाल्योर्नीरैर्नित्यं पिबेन्नरः । देवदाल्याश्च सर्पाक्ष्याः पलैकं वा शिवाम्बुना ॥ ७१ ॥ पिबेत्स्यात्पूर्ववत्सिद्धिवत्सरान्नात्र संशयः । देवदालीं च निर्गुण्डीं पिबेत्कर्षां शिवाम्बुना । वर्षेकेन जरां हन्ति जीवेदाचन्द्रतारकम् ॥ ७२ ॥ ॐ अमृतगण रुद्रगणाम्भः स्वाहा । अयं च ग्रहणमन्त्रः ॥ ‘नमो भगवते रुद्राय हुं फट् स्वाहा ।’ अयं साधकस्य शिखा- बन्धनमन्त्रः ॥ १‘ॐ चर र र ।’ अयं भक्षणमन्त्रः ॥ श्वेतार्ककल्पः । पुष्ये श्वेतार्कमूलं तु ग्राह्यं छायाविशोषितम् । चूर्णकर्षं गवां क्षीरैः पलद्वन्द्वैर्युतं पिबेत् ॥ ७३ ॥ मासषट्काज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । द्रवं श्वेतार्कपत्राणां भृङ्गराजद्रवैः समम् ॥ ७४ ॥ एकीकृत्यातपे शुष्कं चूर्णं क्षीरैश्चतुर्गुणैः । मृद्वग्निना पचेत्तावद्यावत्पिण्डत्वमागतम् । २तत्कर्षैकं घृतैर्लेह्यं वर्षात्स्यात्पूर्ववत्फलम् ॥ ७५ ॥ ‘ॐ आं हं वासरमालिने स्वाहा ।’ अयं भक्षणमन्त्रः ॥ हस्तिकर्णकल्पः । ग्राह्यं सोमत्रयोदश्यां हस्तिकर्णस्य पत्रकम् । छायाशुष्कं तु तच्चूर्णं गवां क्षीरैः पिबेत्पलम् ॥ ७६ ॥ वर्षमात्राज्जरां हन्ति जीवेद्ब्रह्मदिनं नरः । हस्तिकर्णस्य पञ्चाङ्गं छायाशुष्कं विचूर्णितम् ॥ ७७ ॥ १ अयं पाठः ख. पुस्तके नोपलभ्यते । २ ‘कर्षैकं तु’ ख. ।
४.] रसरत्नाकरस्य रसायनखण्डः । ४५ कर्षमात्रं पिवेन्नित्यं मासैकमुदकैः सह । आरनालैस्ततस्तक्रैर्दधिक्षीराज्यक्षौद्रकैः ॥ ७८ ॥ प्रत्येकेन क्रमात्सेव्यं मासैकेन जरापहम् । जीवेद्ब्रह्मदिनं सार्धं वज्रकायो महाबलः ॥ ७९ ॥ ‘ॐ गरविषं दृष्टौ गृह्णामि स्वाहा ।’ हस्तिकर्णग्रहणमन्त्रः ॥ ‘ॐ अमृतकुटीजातानां अमृतं कुरु कुरु स्वाहा ।’ अनेन पूजयेत् । ‘ॐ अमृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः।’ भक्षणमन्त्रः ॥ रुदन्तीकल्पः । रुदन्त्याश्चैव पञ्चाङ्गं छायाशुष्कं विचूर्णयेत् । तदर्धं मुशलीचूर्णं मुशल्यार्धं फलत्रयम् ॥ ८० ॥ मूलानां कतकोत्थानां तैलं पातालयन्त्रके । ग्राहयेद्धर्मयन्त्रे वा तत्तैलं क्षालयेज्जलैः ॥ ८१ ॥ नालिकेरजलैर्वाऽथ क्षाल्यं पञ्चांशवारकम् । एतत्तैलेन संयुक्तं पूर्वचूर्णं लिहेत्क्रमात् ॥ ८२ ॥ कर्षादिवर्धनं कार्यं पलान्तं चाथ वर्धयेत् । एवमब्दाज्जरां हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ ८३॥ सिद्धयोगो ह्ययं ख्यातो वज्रकायकरो नृणाम् । निर्गुण्डीकल्पः । पुष्यार्के ग्राहयेत्प्रातर्निर्गुण्डीमूलजां त्वचम् ॥ ८४ ॥ छायाशुष्कां विचूर्ण्याथ कर्षमेकं पिवेत्सदा । अजामूत्रपलैकेन षण्मासादमरो भवेत् ॥ ८५ ॥ वर्षमात्रप्रयोगेण शिवतुल्यो भवेन्नरः । तच्चूर्णं क्षीरमध्वाज्यैर्लोडितं स्निग्धभाण्डके ॥ ८६ ॥ १ 'अमृतकुक्षिजातानां' ख. । २ 'पञ्चांशवासरम्' ख.।
४६ आयुर्वेदग्रन्थमाला । [उपदेशः रुद्ध्वा क्षिपेद्धान्यराशौ मासादुद्धृत्य भक्षयेत् । द्विपलं वर्षपर्यन्तं जीवेच्चन्द्रार्कतारकम् ॥ ८७ ॥ तच्चूर्णार्धपलं चाज्यैर्लिहेत्स्यात्पूर्ववत्फलम् । तच्चूर्णं त्रिफला मुण्डी भृङ्गी निम्बो गुडूचिका ॥ ८८ ॥ वचा चैषां समं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् । वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ ८९ ॥ निर्गुण्डीपत्रजं द्रावं भाण्डे मृद्वग्निना पचेत् । गुडवत्पाकमापन्नं पीतं वान्तिविरेककृत् ॥ ९० ॥ निर्यान्ति कृमयस्तस्य मुखनासाक्षिकर्णतः । राजयक्ष्मादिरोगांश्च सप्ताहेन विनाशयेत् । मासत्रयाज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ९१ ॥ 'ॐ नमो माय गणपतये भूपतये कुबेराय स्वाहा'. इति भक्षणमन्त्रः ॥ रसायनाः कतिपययोगाः । भल्लातकोऽभया वीरा काकतुण्ड्याः फलं वचा । लाङ्गली निम्बपत्राणि सहदेवी समं समम् ॥ ९२ ॥ एषां पातालयन्त्रेण तैलं ग्राह्यं प्रयत्नतः । तत्तैलं नीलिकामूलयुक्तमर्धपलं पिबेत् ॥ ९३ ॥ वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् । तैलार्धनिष्के तन्नस्ये कृते स्यात्पूर्ववत्फलम् ॥ ९४ ॥ कृष्णजीरकप्रस्थैकं तत्तुल्यं भृङ्गजद्रवम् । यष्टी नीलोत्पलं चैव प्रति प्रस्थार्धमाहरेत् ॥ ९५ ॥ पादप्रस्थं तिलात्तैलं सर्वमेकत्र पाचयेत् । ग्राह्यं तैलावशेषं तन्नस्यं तेनैव कारयेत् ॥ ९६ ॥ नस्यं चाङ्कोल्लतैलेन कुर्यान्मृत्युजरापहम् । निष्कार्धंनिष्कं वर्षैकं जीवेद्वर्षशतत्रयम् ॥ ९७ ॥
४.] रसरत्नाकरस्य रसायनखण्डः । ४७ काकमाचीफलं पिष्ट्वा कर्षैकमुदकैः पिबेत् । वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ ९८॥ गुडूची मुशली मुण्डी निर्गुण्डी च शतावरी । विजया च समं चूर्णं सितामध्वाज्यसंयुक्तम् ॥ ९९ ॥ खादेत्कर्षद्वयं नित्यं वत्सरात्पलितं जयेत् । उक्तं गोरक्षनाथेन जीवेद्ब्रह्मदिनत्रयम् ॥ १०० ॥ शूनकशाल्मलिकाकल्पः । कृष्णाष्टम्यां कृष्णसूत्रैर्वृक्षं शूनकशाल्मलेः । आवेष्ट्याघोरमन्त्रेण रात्रौ कृष्णाजकं बलिम् ॥ १०१ ॥ दत्त्वाऽघोरं जपेत्तत्र यावदष्टसहस्रकम् । तस्य मूलत्वचं ग्राह्यं छायाशुष्कं विचूर्णयेत् ॥ १०२ ॥ मध्वाज्याभ्यां सदा खादेत्पलैकं वत्सरावधि । वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ॥ १०३ ॥ तस्य पुष्पाणि संगृह्य गवां क्षीरैः सदा पचेत् । पुष्पवर्जं पिबेत्क्षीरं मासान्मृत्युजरापहम् ॥ १०४ ॥ फलैकं तस्य वृक्षस्य गवां क्षीरेण पाचयेत् । फलवर्जं पिबेत्क्षीरं क्षीरमेवं पिबेद्बुधः ॥ १०५ ॥ चतुर्मासप्रयोगेण वज्रकायो भवेन्नरः । जीवेत्कल्पान्तपर्यन्तं वायुवेगो महाबलः ॥ १०६ ॥ तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् । काकमाची भृङ्गराजः सर्पाक्षी सहदेविका ॥ १०७ ॥ समूला देवदाली च निम्बबाकुचिबीजकम् । फलानि काकतुण्ड्याश्च मूलं ब्रह्माश्वगन्धयोः ॥ १०८॥ नीलकोरण्टपत्राणि त्रिफला च समं समम् । चूर्णं तत्कन्यकाद्रावैर्भावयेत्सप्तवासरम् ॥ १०९ ॥ छायायां शोषितं कुर्यात्सितामध्वाज्यसंयुक्तम् ।
४८ आयुर्वेदीयग्रन्थमाला । [उपदेशः भक्षेतकर्षद्वयं नित्यं वर्षमात्राज्जरां जयेत् । जीवेच्चन्द्रार्कनक्षत्रं महाकायो महाबलः ॥ ११० ॥ ‘ॐ ठः ठः ठः सः सः सः अमृते अमृतवर्षिणि अमृतसं- जीवनि सर्वकामप्रदे भगवान् सोमराज आज्ञापयति स्वाहा’ इति भक्षणमन्त्रः ॥ ' त्रिफलादियोगः । त्रिफला बाकुचीबीजं पिप्पली चाश्वगन्धिका । सर्वं तुल्यं कृतं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् । वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ १११ ॥ ‘ॐ ह्रां ह्रीं हूं सः स्वाहा’ अनेन मन्त्रेण भक्षयेत् ॥ मूलिकाकल्पेषु पारदयोगः । मूलिकाकल्पयोगेषु गुञ्जैकां मृतपारदम् । प्रतियोगयुतं खादेत्फलं शतगुणं भवेत् । रसेन्द्रस्य प्रभावेण शीघ्रं सिद्धिमवाप्नुयात् ॥ ११२ ॥ रसायनकल्पेषु मन्त्रयोगः । अस्थिमुद्राधरो मन्त्री लक्षमेकं श्मशानतः । जपेन्महाभयं हन्ति सिद्धिं दत्ते रसायनम् ॥ ११३ ॥ तेन भक्षितमात्रेण जीवेदाचन्द्रतारकम् । अजेयो देवदैत्यानां पर्वतानपि चालयेत् ॥ ११४ ॥ ‘ॐ ह्रीं महाभयेरुम् ।’ रसायनसेवनविधिः । प्रातः पुष्यार्कमुख्ये विविधशुभदिने मन्त्रपूजाविधानै- र्ग्राह्यं दिव्यौषधीनां फलदलकुसुमं मूलपत्रं रसं वा । सर्वाङ्गं वाऽथ सिध्यै सकलमभिनवं सेव्येद्ब्रह्मचारी क्षीरान्नं चोदकान्नं हितमशनमिदं सर्वमन्यद्विवर्ज्यम्॥ ११५ ॥ इति श्रीपार्वतीपुत्रश्रीमन्नित्यसिद्धनाथविरचिते श्रीरसरत्नाकरे रसायनखण्डे नानारसायनं नाम चतुर्थोपदेशः ।
५.] रसरत्नाकरस्य रसायनखण्डः । ४९ अथ पञ्चमोपदेशः । उद्वर्तनं पलितहारि परं नराणां शोभावहं सुखकरं कचरञ्जनं च । वृद्धोपयोगिसुखसाध्यमनेकयुक्त्या वक्ष्ये सुसिद्धमनुभूतिपथेन दृष्टम् ॥ १ ॥ वलीपलितनाशार्थे पारदाद्युद्वर्तनम् । पारदं गन्धकं तुल्यं नारीस्तन्येन मर्दयेत् । विष्णुक्रान्ता मेघनादा सर्पाक्षी मुनिमुण्डिका ॥ २ ॥ आसां द्रवैर्दिनं खल्वे मर्दयेत्तत्समुद्धरेत् । यवचूर्णं तिलांश्चैव प्रत्येकं रसतुल्यकम् ॥ ३ ॥ क्षिपेत्तस्मिन् घृतैः क्षौद्रैः सर्वमालोड्य रक्षयेत् । अनेनोद्वर्तनं सम्यग्वलीपलितनाशनम् ॥ ४ ॥ वत्सराद्दिव्यदेहः स्याज्जीवेद्वर्षसहस्रकम् । वलीपलितनाशार्थे वज्रकापालिनीमूलाद्युद्वर्तनम् । वज्रकापालिनीमूलं पारदं च समं समम् ॥ ५ ॥ शिवाम्बुना त्र्यहं मर्द्यमुद्धर्तातपूर्ववत्फलम् । वलीपलितनाशार्थे उत्पलाद्युद्वर्तनम् । उत्पलानि समूलानि पारदं च समं समम् ॥ ६ ॥ सप्ताहं मर्दयेत्खल्वे स्वकीयेनाशिवाम्बुना । तेनैव मर्दयेद्गात्रं जायते पूर्ववत्फलम् ॥ ७ ॥ वलीपलितनाशार्थे पारदाद्युद्वर्तनम् । पारदस्य समांशेन ब्रह्मदण्डीयमूलकम् । क्षिप्त्वा सप्तदिनं मर्द्यं स्वकीयेनाशिवाम्बुना ॥ ८ ॥ अनेनोद्वर्तयेद्गात्रं जायते पूर्ववत्फलम् । १ 'बलकरं' ख. । ५
५० आयुर्वेदीयग्रन्थमाला । [ उपदेशः वलीपलितनाशार्थे गन्धकयोगः । गन्धकं कटुतैलेन घर्मे भाव्यं दिनावधि ॥ ९ ॥ तत्पलार्धं सदा खादेद्दिव्यकायकरं नृणाम् । जायते स्वर्णवद्देहो वत्सराद्वलिवर्जितः ॥ १० ॥ रसायनार्थे कुष्ठयोगः । कुष्ठचूर्णं समध्वाज्यं नित्यं कर्षं लिहेत्तु यः । वत्सराद्दिव्यदेहः स्याद्गन्धेन शतपुष्पवत् ॥ ११ ॥ पलितनाशार्थे कान्तपाषाणादियोगः । कान्तपाषाणचूर्णं तु तैलमध्वाज्यसंयुतम् । काकतुण्डीफलं सर्वं सममेतत्तु कल्पयेत् ॥ १२ ॥ भाण्डे रुद्धा क्षिपेन्मासं धान्यराशावथोद्धरेत् । अनेन लेपयेच्छीर्षं नस्यं कुर्याद्दिनेन वै ॥ १३ ॥ त्र्यहाद्भ्रमरसंकाशाः केशाः स्युर्वत्सरार्धकम् । पलितनाशार्थे सीसकादियोगः । नागचूर्णपलैकं तु शङ्खचूर्णपलद्वयम् ॥ १४ ॥ पथ्याचूर्णं निष्कमेकं सर्वं पेष्यं दिनावधि । अम्लदध्ना युतं यत्नात्स्नात्वाऽऽदौ शिरसि क्षिपेत् ॥१५॥ मर्दयेद्घटिकार्धं तु वेष्टयेदेरण्डपत्रकैः । शिरः संवेष्ट्य वस्त्रेण प्रातः स्नानं समाचरेत् ॥ १६ ॥ इत्येवं त्रिदिनं यत्नात्कृत्वा केशांश्च रञ्जयेत् । केशरञ्जनार्थे नीलिकादियोगः । पञ्चाङ्गं नीलिकाभृङ्गत्रिफलालोहचूर्णकम् ॥ १७ ॥ तुल्यं सर्वं कृतं सूक्ष्ममिडामूत्रेण(?) वेष्टयेत् । दिनार्धं तेन कल्केन पूर्ववत्केशरञ्जनम् ॥ १८ ॥ केशरञ्जनार्थे गुञ्जादियोगः । गुञ्जाबीजं तु त्वग्वर्ज्यं कुष्ठैलादेवदारुकम् । तुल्यं चूर्णं दिनं भाव्यं भृङ्गराजभवैर्द्रवैः ॥ १९ ॥
५.] रसरत्नाकरस्य रसायनखण्डः । ५१ सर्वं चतुर्गुणे तैले पाचयेन्मृदुवह्निना । तेनाभ्यङ्गेन केशानां रञ्जनं भ्रमरोपमम् ॥ २० ॥ केशरञ्जनार्थे हस्तिदन्तादियोगः । हस्तिदन्तस्य दग्धस्य समं योज्यं रसाञ्जनम् । अजाक्षीरेण तत्पिष्ट्वा लेपनात्केशरञ्जनम् ॥ २१ ॥ केशरञ्जनार्थे त्रिफलादियोगः । त्रिफला लोहचूर्णं तु कृष्णमृद्भृङ्गजद्रवम् । इक्षुदण्डद्रवं चैव मासं भाण्डे निरोधयेत् ॥ २२ ॥ तल्लेपाद्रञ्जयेत्केशान् स्याद्यावन्मासपञ्चकम् । केशरञ्जनार्थे लोहकिट्टादियोगः । लोहकिट्टं जपापुष्पं पिष्ट्वा धात्रीफलं समम् ॥ २३ ॥ त्रिदिनं लेपितास्तेन कचाः स्युर्भ्रमरोपमाः । भृङ्गराजरसप्रस्थं तैलं कृष्णतिलोद्भवम् ॥ २४ ॥ तुल्यं च नीलिकाद्रावं सर्वं यामं विमर्दयेत् । तल्लेपस्त्रिदिनं कार्यः केशानां रञ्जनं भवेत् ॥ २५ ॥ केशरञ्जनार्थे सिन्दूरादियोगः । सिन्दूरस्य समं चूर्णं साबुणं च तयोः समम् । तज्जले पेषितं लेप्यं तत्क्षणात्कचरञ्जनम् ॥ २६ ॥ केशरञ्जनार्थे शतपुष्पादियोगः । शतपुष्पा काकमाची तिलाः कृष्णाश्च रोचनम् । दिनं शिवाम्बुना सर्वं मर्दयेल्लोहपात्रके ॥ २७ ॥ तल्लेपं त्रिदिनं कुर्यात्केशानां रञ्जनं भवेत् । केशरञ्जनार्थे चूर्णादियोगः । चूर्णं सर्जी यवक्षारं सिद्धार्थं काञ्जिकैः सह ॥ २८ ॥ नागपुष्पाद्रवैर्मर्द्यं तल्लेपाद्रञ्जनं भवेत् । केशरञ्जनार्थे नील्यादियोगः । नीलीपत्राणि कासीसं भृङ्गराजरसं दधि ॥ २९ ॥
५२ आयुर्वेदीयग्रन्थमाला । [उपदेशः लोहचूर्णं समं पिष्ट्वा तल्लेपं केशरञ्जनम् । केशरञ्जनार्थं चूर्णादियोगः । चूर्णं सिन्दूरमङ्गारं कदलीकन्दसंयुतम् ॥ ३० ॥ लोहपात्रे लोहमुष्ट्या मर्द्यं जम्बीरजैर्द्रवैः । दिनैकं च ततो लेप्यं केशानां रञ्जनं भवेत् ॥ ३१ ॥ केशरञ्जनार्थं कुरण्टकपत्रादियोगः । कुरण्टकस्य पत्राणि नागमुष्ट्या विमर्दयेत् । तल्लेपं त्रिदिनं कुर्याज्जायते केशरञ्जनम् ॥ ३२ ॥ केशरञ्जनार्थमाम्रास्थ्यादियोगः । आम्रास्थि त्रिफला भृङ्गी प्रियङ्गुर्मातुलुङ्गकम् । निशा नीली मृणालानि नागं लोहं च चूर्णितम् ॥ ३३॥ समं कल्कं कान्तपात्रे निम्बतैलेन भावयेत् । मासमात्रं ततस्तेन लेपाद्भवति रञ्जनम् ॥ ३४ ॥ केशरञ्जनार्थे काकमाच्यादियोगः । काकमाचीयबीजानि समाः कृष्णतिलास्तथा । तत्तैलं ग्राहयेद्यन्त्रे तन्नस्यं केशरञ्जनम् ॥ ३५ ॥ केशरञ्जनं घृतम् । गोघृतं भृङ्गजं द्रावं मयूरशिखया सह । मृद्वग्निना पचेत्तेन स्यान्नस्यं केशरञ्जनम् ॥ ३६ ॥ केशरञ्जनार्थं जपापुष्परसनस्यम् । जपापुष्पद्रवं क्षौद्रं कर्षैकं नस्यमाचरेत् । सप्ताहाद्रञ्जयेत्केशान् सर्वनस्येष्वयं विधिः ॥ ३७ ॥ केशरञ्जनार्थं त्रिफलादितैलम् । त्रिफला लोहचूर्णं तु वारिणा पेषयेत्समम् । तत्तुल्येन च तैलेन भृङ्गराजरसेन च ॥ ३८ ॥ पचेत्तैलावशेषं तत्स्निग्धभाण्डे निरोधयेत् । मासैकं भूगतं कुर्यात्तेन शीर्षं प्रलेपयेत् ॥ ३९ ॥
रसरत्नाकरस्य रसायनखण्डः । ५३ कारवल्या दलैर्वेष्ट्य ततो वस्त्रेण बन्धयेत् । निर्वाते क्षीरभोजी स्यात्क्षालयेत्त्रिफलाजलैः ॥ ४० ॥ नित्यमेवं प्रकर्तव्यं लेपनं दिनसप्तकम् । कपालरञ्जनं ख्यातं यावज्जीवं न संशयः ॥ ४१ ॥ केशरञ्जनार्थे काकतुण्ड्यादियोगः । बीजानि काकतुण्ड्याश्च सिर्यालीबीजसंयुतम् १ । तच्चूर्णं दिनचत्वारि भाव्यं निर्गुण्डिजैर्द्रवैः ॥ ४२ ॥ जपापुष्पद्रवैस्तावत्ततः पातालयन्त्रके । तैलं ग्राह्यं तु तल्लेपात्केशानां रञ्जनं भवेत् ॥ ४३ ॥ वेष्ट्यमेरण्डपत्रैश्च निर्वाते क्षीरभोजनम् । कुर्यात्स्नानं काञ्जिकैश्च नित्यं सप्तदिने कृते ॥ ४४ ॥ यावज्जीवं न संदेहः केशाः स्युर्भ्रमरोपमाः । केशरञ्जनार्थे भृङ्गराजादियोगः । भृङ्गराजं काचमाचीं समांशं जलमण्डवीम् २ ॥ ४५ ॥ संपिष्ट्या ३ पूपिकां कृत्वा तैलमध्ये विपाचयेत् । पक्वां तां पेषयेत्तैलैर्लेपः स्यात्केशरञ्जनम् ॥ ४६ ॥ पूर्ववत्क्रमयोगेन सप्ताहात्तत्फलं भवेत् । केशरञ्जनार्थे त्रिफलादियोगः । अयस्कान्तमये पात्रे रात्रौ लेप्यं फलत्रयम् ॥ ४७ ॥ भृङ्गराजद्रवैः सार्धं प्रातः केशान् प्रलेपयेत् । एवं कुर्यात्त्रिसप्ताहं जायते पूर्ववत्फलम् ॥ ४८ ॥ केशरञ्जनार्थे कृष्णजीरकयोगः । प्रक्षिपेन्माहिषे शृङ्गे कृष्णजीरं तदन्धयेत् । गृहाग्रे कर्दमे क्षित्त्वा षण्मासात्तत्समुद्धरेत् ॥ ४९ ॥ तद्द्रुतं जायते कृष्णं कर्षैकं शिरसि क्षिपेत् । १ 'बीजं समम्' ख. । २ 'जलमण्ड्या' ख. । ३ 'सर्पाक्ष्याऽपूपिकां' ख. ।
५४ आयुर्वेदीयग्रन्थमाला । [उपदेशः वेष्टयेत्पूर्वयोगेन कपालरञ्जनं भवेत् ॥ ५० ॥ भ्रमराञ्जनसंकाशं यावज्जीवं न संशयः । केशरञ्जनार्थं नील्यादियोगः । नीलीपत्रं भृङ्गराजं त्रिफला कृष्णमायसम् ॥ ५१ ॥ मदनस्य च बीजानि पुष्पं कोरण्टकस्य च । अर्जुनस्य त्वचं चूर्णं नलिनीमूलकर्दमम् ॥ ५२ ॥ सर्वं तुल्यं क्षिपेद्भाण्डे लोहजे तन्निरोधयेत् । पक्षमेकं क्षिपेद्भूभौ भाण्डात्कल्कं समुद्धरेत् ॥ ५३ ॥ कल्काच्चतुर्गुणं तैलं तैलाच्चतुर्गुणं द्रवम् । भृङ्गत्रिफलजं योज्यं पचेत्तैलावशेषकम् ॥ ५४ ॥ परीक्षार्थं क्षिपेत्पक्षं बलाकाया यदा भवेत् । कृष्णवर्णं तदा सिद्धं पात्रे कृष्णायसे क्षिपेत् ॥ ५५ ॥ मासैकं धारयेत्तस्मिंस्ततः केशान् विलेपयेत् । तिष्ठन्ति मासषट्कं तु भ्रमरस्तोमसंनिभाः ॥ ५६ ॥ केशरञ्जनार्थं सीसकादियोगः । वासापलाशचिञ्चोत्थैर्दण्डैर्वाऽश्वत्थजैर्दृढम् । नागं पात्रगतं चाल्यं यावद्भवति मूर्च्छितम् ॥ ५७ ॥ पलैकं तत्समादाय लोहचूर्णं पलद्वयम् । त्रिपलं त्रिफलाचूर्णं दाडिमस्य फलत्वचः ॥ ५८ ॥ शुष्कं चूर्णं पलैकं तत्सर्वेषां काञ्जिकं समम् । भाण्डे सर्वं पचेत्किंचित् क्षिपेल्लोहभाजने ॥ ५९ ॥ भृङ्गराजकुरण्टोत्थद्रवं दत्त्वाऽऽतपे क्षिपेत् । त्रिसप्ताहं प्रयत्नेन द्रवो देयः पुनः पुनः ॥ ६० ॥ ततस्तं रक्षयेत्तेन लेपात्स्यात्केशरञ्जनम् । उक्तानुक्तेषु लेपेषु वेष्ट्यमेरण्डपत्रकैः ॥ ६१ ॥ शिरो रात्रौ दिवा स्नानं युक्तिरेषा प्रशस्यते ।
५.] रस रत्नाकरस्य रसायनखण्डः । ५५ केशशुक्लीकरणयोगाः । वज्रीक्षीरेण सप्ताहं भावयेदभयाफलम् । तच्चूर्णयुक्ततैलस्य लेपाच्छुक्ला भवन्ति हि ॥ ६२ ॥ केशाश्च सर्वरोमाणि शङ्खवर्णा भवन्ति वै । सप्ताहं वज्रदुग्धेन सुश्वेतान् भावयेत्तिलान् ॥ ६३ ॥ तेभ्यस्तैलं गृहीत्वा तल्लेपाच्छुक्ला भवन्ति वै । गौरामलकचूर्णं तु वज्रीक्षीरेण सप्तधा ॥ ६४ ॥ भावयेत्तेन लेपेन शुक्लतां यान्ति मूर्धजाः । सिन्दूरं स्फटिकां श्वेतां जलेन सह लेपयेत् ॥ ६५ ॥ तल्लेपेन तु रोमाणि सुशुक्लानि भवन्ति हि । मासैकं मागधीचूर्णं वज्रीक्षीरेण भावयेत् ॥ ६६ ॥ नराश्वगजवाजीनां शुक्लीकरणमुत्तमम् । इन्द्रगोपं तैलिनी च तालकं रजनीद्वयम् ॥ ६७ ॥ मनःशिला च तुल्यांशं चूर्णं स्नुकूपयसा त्र्यहम् । भावयेदर्कजैः क्षीरैस्त्रिदिनं चातपे खरे ॥ ६८ ॥ ततः कूष्माण्डजैर्द्रवैर्भावयेद्दिनसप्तकम् । कूष्माण्डस्य ततो गर्भे क्षित्वा मासात्समुद्धरेत् ॥ ६९ ॥ तैलेन सर्वरोमाणि केशान् संलेपयेत्त्र्यहम् । वेष्टयेदर्कजैः पत्रैः शुक्लवर्णा भवन्ति च ॥ ७० ॥ स्नाने कृते शुष्ककचेषु रात्रौ लेपे कृते पूर्वदलैस्तु वेष्टयम् । दध्ना तिलैः स्नानमतः प्रभाते कुर्यात्त्र्यहं लेपनमित्थमेव ॥७१॥ इति पार्वतीपुत्रश्रीनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे उद्वर्तनकेशरञ्जनाधिकारो नाम पञ्चमोपदेशः ।
५६ आयुर्वेदीयग्रन्थमाला । [उपदेशः अथ षष्ठोपदेशः । येषां रामा रमणकुशला रागसक्ताः प्रगल्भाः कामासक्ता हरिणनयनाश्चन्द्रबिम्बाननाश्च । तेषां वक्ष्ये मदनसुखदां वीर्यवृद्धिं प्रभूतां मेत्ताः सिद्धाः शतमपि दृढास्तादृशास्तोषयन्ति ॥ १ वाजीकरो मकरध्वजरसः । वज्रहेमार्कसृताभ्रलोहभस्म क्रमोत्तरम् । सर्वं कन्याद्रवैर्मर्द्यं शाल्मल्याश्च द्रवैस्त्र्यहम् ॥ २ ॥ तद्रुद्धा काचकुप्यन्तर्वालुकायां त्र्यहं पचेत् । तत्कल्कं मुशलीक्वाथैर्वज्रार्कक्षीरसंयुतैः ॥ ३ ॥ दिनैकं मर्दयेत्खल्वे रुद्ध्वाऽन्तर्भूधरे पुटेत् । यामादुद्धृत्य संचूर्ण्य सिताकृष्णात्रिजातकैः ॥ ४ ॥ २ समैः समं विमिश्र्याथ माषैकं भक्षयेत्सदा । मागधी मुशली यष्टी वानरीबीजकं समम् ॥ ५ ॥ चूर्णं सिताज्यगोक्षीरैः पलार्धं पाययेदनु । कामिनीनां सहस्रैकं रममाणो न मुह्यति । सेवनाद्दृढकायः स्याद्रसोऽयं मकरध्वजः ॥ ६ ॥ वाजीकरो मनोदयरसः । शुद्धसूतं समं गन्धं रक्तोत्पलदलद्रवैः । यामं मर्द्यं पुनर्गन्धं सार्धं तत्र विनिक्षिपेत् ॥ ७ ॥ पूर्वद्रवैर्दिनं मर्द्यं रसार्धं गन्धकं पुनः । दत्त्वा तद्दिनं मर्द्यं काचकूप्यां निरोधयेत् ॥ ८ ॥ दिनैकं वालुकायन्त्रे पक्वमुद्धृत्य चूर्णयेत् । भूकूष्माण्डीकषायेण भावयेद्दिनसप्तकम् ॥ ९ ॥ १ 'यस्यां सिद्धौ शतमपि वनितास्तादृशास्तोषयन्ति' ख. । २ 'द्विदिनं' ख. ।
रसरत्नाकरस्य रसायनखण्डः । ५७ छायायां तत्सितातुल्यं निष्कैकं भक्षयेत्सदा । शणमूलं सबीजं च मुशली शर्करा समम् ॥ १० ॥ गवां क्षीरैः पलार्धं तु अनु रात्रौ सदा पिबेत् । अनन्तं वर्धते वीर्यं रसोऽयं मदनोदयः ॥ ११ ॥ वाजीकरो मदनेश्वररसः । शुद्धसूतसमं गन्धं बदरीचित्रकद्रवैः । मर्द्यं चाङ्गेल्लजैर्द्रवैस्तत्खल्वे दिनत्रयम् ॥ १२ ॥ सद्यो हताजमांसस्य पिण्डे न्यस्तं च सीवयेत् । तत्पिण्डं तिलतैलेन लोहपात्रे शनैः पचेत् ॥ १३ ॥ यावन्मांसं रक्तवर्णं ततः सूतं समुद्धरेत् । त्रिदिनं मुशलीक्वाथैर्भावितं सितया युतम् ॥ १४ ॥ निष्कैकं भक्षयेन्नित्यं रसोऽयं मदनेश्वरः । विदारीकन्दचूर्णं तु क्षीराज्येन पलं पिबेत् ॥ १५ ॥ रमयेत्स्त्रीशतं नित्यं तच्चागादन्धतां व्रजेत् । वाजीकरः कामकलाख्यरसः । मृताभ्रं पारदं स्वर्णं तुल्यं मर्द्यं दिनत्रयम् ॥ १६ ॥ मुशलीत्रिफलाक्वाथैर्वाजिगन्धाकषायकैः । कदलीकन्दजैर्द्रवैस्तद्रोलं चान्धितं पुटेत् ॥ १७ ॥ भूधरे दिनमात्रं तु समुद्धृत्याथ मर्दयेत् । दिनैकं पूर्वजैर्द्रवैस्तद्वद्रुद्धा पुटे पचेत् ॥ १८ ॥ पुनर्मर्द्यं पुनः पाच्यमेवमष्टपुटैः पचेत् । शाल्मलीजातनिर्यासैस्तुल्यं शर्करया सह ॥ १९ ॥ खादेन्निष्कद्वयं नित्यं द्रावयेद्वनिताशतम् । गोक्षीरैर्मर्कटीबीजं पलार्धं पाययेदनु ॥ २० ॥ सर्वाङ्गोद्वर्तनं कुर्यात्सयवैः शाल्मलीद्रवैः । रसः कामकलाख्योऽयं महावीर्यकरो नृणाम् ॥ २१ ॥
५८ आयुर्वेदौयग्रन्थमाला । [उपदेशः वाजीकरः कामदेवरसः । मृतसूतं त्रयो भागा भागैकं हाटकं मृतम् । कदलीकन्दजैर्द्रवैः शाल्मलीजद्रवैर्दिनम् ॥ २२ ॥ गोक्षीरैश्च दिनं मर्द्यं क्षणैकं पाचयेद्घृतैः । तन्मध्ये शर्करां द्राक्षां धात्रीं रम्भाफलं मधु ॥ २३ ॥ गोक्षीरं मुशलीं माषान् कोकिलाक्षस्य बीजकम् । सूताचतुर्गुणं क्षिप्त्वा मर्द्यं शाल्मलिजैर्द्रवैः ॥ २४ ॥ तत्सर्वं दिनमेकं तु कामदेवो रसो भवेत् । निष्कमात्रं सदा भक्ष्यं गवां क्षीरं पिबेदनु ॥ २५ ॥ मैथुने दृढलिङ्गः स्याद्रावयेद्वनिताकुलम् । वाजीकरो रतिकामरसः । प्रारम्भरजसा स्त्रीणां मर्दयेद्वससूतकम् ॥ २६ ॥ . मृतं ताम्रं च तारं च गन्धकं च समं दिनम् । सितामध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ २७ ॥ रतिकामरसो नाम कामिनीरमणे हितः । वानरीमूलगोधूमं कोकिलाक्षस्य बीजकम् ॥ २८ ॥ माषांश्चैक्षुरसैः सर्वं लोडितं पाचयेद्घृतैः । तेनैव वटकाः कार्या नित्यं खादेद्द्वयं द्वयम् ॥ २९ ॥ अनुपानमिदं सिद्धं सेवनाद्रमयेच्छतम् । वाजीकरो मदवर्धनरसः । शुद्धसूतसमं गन्धं त्र्यहं कह्लारजैर्द्रवैः ॥ ३० ॥ मर्दितं चान्धितं पच्याद्यामं वालुकयन्त्रके । रक्तागस्त्यद्रवैर्भाव्यं दिनैकं तु सितायुतम् ॥ ३१ ॥ निष्कमात्रं सदा खादेद्रसोऽयं मदवर्धनः । अजस्य वृषणं क्षीरे पक्वं तिलसितायुतम् ॥ ३२ ॥ यथेष्टं भक्षयेच्चानु रमयेत्कामिनीशतम् ।
३. तृतीय उपदेश: दिव्य रसायन योग, देह-सिद्धि, रसायन-गुटिका एवं उपसंहार
s also an े!
Wait, why are there two slants?
Wait, is the second slant an े?
Look at the line above: तं समुद्धरेत् ।
The द्भू of पच्याद्भूधरे has a ू below it!
Look at द्भू: द् + भ + ू.
The ू of द्भू comes down!
Does the ू reach line 7?
Line 6: पच्याद्भूधरे
Line 7: पिष्ट्वा पञ्चामृतैः खा...
Below पच्या: पिष्ट्वा पञ्चा
Below द्भू: मृतैः!
Below धरे: खा!
Below तं: the letter after खा!
Wait! In line 6, तं has an anusvara.
Then स is above the letter after खा!
Does स have anything hanging down? No.
So the slant on line 7 is NOT from line 6.
Now look at the letters in line 7:
Letter after खा:
It has a द् shape, with a loop?
Wait! Could it be खाद्वेटिकां?
Wait, look at the two characters:
One has `
६० आयुर्वेदीयग्रन्थमाला । [उपदेशः उद्धृत्य बन्धयेद्वस्त्रे दृढे चैव चतुर्गुणे । क्षुद्रशम्बूकमांसात्तच्छागीरक्तगतं पचेत् ॥ ४५ ॥ दोलायन्त्रे त्र्यहं यावद्देयं रक्तं पुनः पुनः । गुडूच्या गजपिप्पल्या कदल्या कोकिलाक्षकैः ॥ ४६ ॥ गोक्षुरीवानरीमूलजातीमूलस्य च द्रवैः । पाचयेत्तत्कषायैर्वा दोलायन्त्रे दिनत्रयम् ॥ ४७ ॥ ततः क्षीरे सितायुक्ते तद्वत्पच्यादिनावधि । उद्धृत्य मुशलीक्वाथैर्मर्द्यं यामचतुष्टयम् ॥ ४८ ॥ रसः पूर्णेन्दुनामाऽयं खादेन्मांसं सितायुतम् । गोक्षुरो वानरीबीजं गुडूची गजपिप्पली ॥ ४९ ॥ कोकिलाक्षस्य बीजानि मज्जा कार्पासबीजजा । शतावरी च रम्भायाः फलं सर्वं समं भवेत् ॥ ५० ॥ सर्वतुल्या सिता योज्या मधुना लोडितं लिहेत् । पलार्धमनुपानं स्यात्ततः पेयं गवां पयः ॥ ५१ ॥ कामिनीनां सहस्रैकं रमते कामदेववत् । वाजीकरो मदनकामो रसः । पद्मबीजं कसेरुं च कन्दं नालं च कर्णिकाम् ॥ ५२ ॥ मुशली भृङ्गराद् द्राक्षा पक्वं श्लेष्मातकं फलम् । विजया मर्कटी माषाः शणबीजानि वै तिलाः ॥ ५३ ॥ कोकिलाक्षस्य बीजानि भूकूष्माण्डी शतावरी । शृङ्गाटं चिर्भिटं फञ्जीबीजानि चाश्वगन्धिका ॥ ५४ ॥ एतत्सर्वं समं चूर्ण्य पादांशं चाहरेत्पृथक् । पादांशस्याष्टमांशेन शुद्धं सूतं विमिश्रयेत् ॥ ५५ ॥ पारदादष्टमांशं च कर्पूरं तत्र निक्षिपेत् । चातुर्जातकमेकैकं कर्पूराद्विगुणं भवेत् ॥ ५६ ॥ सूततुल्या सिता योज्या मर्द्यं रम्भाद्रवैर्दिनम् । तद्गोलं डामरे यन्त्रे क्रमवृद्धाग्निना पचेत् ॥ ५७ ॥
६.] रसरत्नाकरस्य रसायनखण्डः । ६१ दिनान्ते चोर्ध्वलग्नं तद्ग्राह्यं रम्भाद्रवैर्दृढम् । मर्दितं सितया तुल्यं माषकं भक्षयेत्सदा ॥ ५८ ॥ रसो मदनकामोऽयं बलवीर्यविवर्धनः । दिव्यरूपो भजेद्रामाः कामाकुलकलान्विताः ॥ ५९ ॥ भागत्रयं तु यत्पूर्वं पृथक्चूर्णं सुरक्षितम् । कुलीरमांसच्छागाण्डचटकाण्डानि वै पृथक् ॥ ६० ॥ प्रत्येकं चूर्णयेत्तुल्यं सर्वतुल्यं गवां पयः । तत्सर्वं चालयन् पच्याद्यावत्पिण्डत्वमागतम् ॥ ६१ ॥ प्रसार्य काष्ठपात्रान्तश्छायाशुष्कं विचूर्णयेत् । अस्य चूर्णस्य कर्पूरं चतुःषष्ठ्यंशकं क्षिपेत् ॥ ६२ ॥ चातुर्जातकचूर्णं तु क्षिपेद्द्वात्रिंशदंशतः । सर्वतुल्या सिता योज्या रक्षयेन्नूतने घटे ॥ ६३ ॥ कर्षद्वयं गवां क्षीरैरनुपानैः सदा पिबेत् । वाजीकरा अभ्रकयोगाः । निष्कैकं मारितं चाभ्रं खादेच्छर्करया समम् ॥ ६४ ॥ शाल्मलीमूलचूर्णं तु भृङ्गराजस्य मूलकम् । पलैकं सितया चानु सेवेत कामिनीशतम् ॥ ६५ ॥ वानरीकोकिलाक्षस्य बीजानि तिलमाषकाः । वासागोक्षुरयोर्मूलं सर्वं चूर्णं समं भवेत् ॥ ६६ ॥ चूर्णतुल्यं मृतं चाभ्रं सर्वतुल्या तु शर्करा । एतत्कर्षं गवां क्षीरैः पिबेत् कामाङ्गनायकः ॥ ६७ ॥ तैलेन पक्वं चटकं खादेत्पूर्वं तु भोजनात् । भोजनान्ते पिबेत्क्षीरं रामाणां रमयेच्छतम् ॥ ६८ ॥ अश्वगन्धाशतावर्योः शाल्मल्याश्चित्रकस्य च । मूलं मुशलिजं कन्दं कोकिलाक्षस्य बीजकम् ॥ ६९ ॥ ६