भारतकोश
संग्रह पर लौटें

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

१४० रसार्णवे पाचितं गालितं चैतत् सारणा¹तैलमुच्यते ॥ ८५ ॥ रसतुल्यं यथा बीजं² गतं गर्भद्रुतिं³ प्रिये । व्यापकत्वेन सर्व्वे⁴ च समभागास्तथेष्यते ॥ ८६ ॥ पक्वं श्रेष्ठं समं गर्भे यद्भवेद्द्रञ्जयेच्च तम्⁵ ॥ ८७ ॥ एवमुक्तानि बीजानि जारयेद्धिङ्ग⁶योगतः । तन्ममाचक्ष्व देवेशि⁷ किमन्यच्छ्रोतुमिच्छसि ॥ ८८ ॥ इति श्रीपार्वतीपरमेश्वरसंवादे⁸ रसार्णवे रससंहितायां बीजसाधनो⁹ नाम अष्टमः पटलः ॥८॥

(1) M reads सारणं. (2) K reads यदा बीजं. (3) M reads गर्भद्रुति, which is incorrect. (4) व्येषतर्केण सर्वत्र, a variant in M, which is not intelligible. (5) यद्भवेद्द्रञ्जयेशे, a variant in M, wherein the first term is inc. (6) K reads जारयेद्वीज, which is incorrect. (7) This charaṇa is not found in M. (8) This portion is not found in M. (9) K and M read बीजसाधनं ; but as it qualifies पटलः, which is in masculine gender, it ought to be also in the same gender. The neuter gender may be supported by the rule of विधेय- विशेषण. But in order to keep up the uniformity we have adopted the masculine gender.

नवमः पटलः। ─•(●)•─ श्रीदेव्युवाच ।¹ बीजानां कल्पनं² प्रोक्तं विशेषेण च साधनम्³ । जार्यन्ते⁴ तानि यैः सूते⁵ तान् विडान् वक्तुमर्हसि ॥ १ ॥ श्रीभैरव उवाच ।⁶ काशोसं⁷ सैन्धवं काङ्क्षी⁸ सौवीरं व्योषगन्धकम् । सौवर्चलं सर्जिका च⁹ मालतीनीरसम्भवम्¹⁰ । शिग्रुमूलरसैः¹¹ सिक्तो विड़ोऽयं सर्व्वजारणः ॥ २ ॥ निर्दग्धं शङ्खचूर्णन्तु रविक्षीरशतप्लुतम् । पुटितं¹² बहुशो देवि प्रशस्तो जारणाविड़ः¹³ ॥ ३ ॥ शतशो वा प्लुतं चूर्णं गन्धकस्य गवां जलेः ॥ ४ ॥ निर्दग्धं शङ्खचूर्णं तु¹⁴ शिग्रुमूलाम्बुभावितम् । (1) M reads श्रीदेवी. (2) K reads प्रथमं. (3) K has विशेषरससाधन. (4) K reads जायन्ते. (5) M reads सूता, which is gram. incorrect. (6) M has श्रीभैरवः. (7) M reads कासीसं. (8) K reads साङ्क्षी. (9) K has व्योषका च, which creates a tauto- logy. (10) K reads मालतीरससम्भवः. We find also मालतीतोरसम्भवम् in the medical lexicons. (11) K reads शिग्रुमूलरसैः, which is inc. (12) . K reads erroneously पुटीत. (13) K has प्रशस्तो जारणे विदुः, wherein the first term is gram. inc. (14) M reads शङ्कचुर्ण तु.

यहाँ पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण प्रस्तुत है:

१४२ रसार्णवे शतशो विषसिक्सूत्य¹-संयुतं² वडवामुखम् ॥ ५ ॥ टङ्गणं शतशो देवि भावयेत् किंशुकद्रवैः । विड़ो वह्निमुखाख्योऽयं³ लोहानां जारणे प्रिये ॥ ६ ॥ चूलिका गन्धपाषाणः⁴ कान्तस्य च मुखं प्रिये । एकैकमेव⁵ पर्याप्तं लोहचूर्णस्य जारणे⁶ ॥ ७ ॥ गन्धतालकसिस्यूतं⁷ चूली⁸टङ्कणभूखगम्⁹ । क्षारैर्मूत्रैश्च विपचेदयं¹⁰ ज्वालामुखो विड़ः¹¹ ॥ ८ ॥ एकविंशतिपर्यायं देवदालीदलद्रवैः¹² । भावितो निचुलक्षारः सर्व्वसत्त्वानि जारयेत् ॥ ६ ॥ वास्तुकैरण्डकदली¹³-देवदालीपुनर्नवम्¹⁴ । वासा¹⁵पलाशनिचुलं तिलकाञ्चन¹⁶माक्षिकम् ॥ १० ॥ (1) K reads विषसौधूतं. M reads विषसिख्यतं. (2) K reads सम्भूतं. M reads संयुतं. We have adopted the above reading, after collating the texts. (3) M has वह्नित्रिडाख्योऽयं. (4) K reads पाषाणं, which is gram. incorrect. M reads भवपाषाण. (5) तेष्वेवमेक is the reading in M, wherein the last term is inc. (6) K has an incomplete charaṇa लोहचूर्णजारणे. M has लोहचारणजारणे. (7) M reads सिस्मृत्य (8) K reads चूलि. (9) K has मुखणं or correctly भूषगं. (10) M reads विपचेदव, which is evidently an error. (11) K reads विदुः, which is inc. (12) देवदालिद्रवाद्भवैः, a variant in K. (13 M reads वास्तुकैरण्डकदली, which is not gram correct. (14) K reads पुनर्नवा. M reads देवतालीपुनर्गवम्. (15) M reads वाशा. (16) M reads तिलकाञ्जन.

नवमः पटलः । १४३ सर्व्वाङ्गं खण्डगस्विन्नं¹ नातिशुष्कं² शिलातले³ । दग्धकाण्डेस्तिलानां तु पञ्चाङ्गं मूलकस्य च ॥ ११ ॥ प्लावयेन्मूत्रवर्गेण जलं तस्मात् परिस्रुतम्⁴ । लोहपात्रे पचेद्यन्त्रे हंसपाकेऽग्निमानवित्⁵ ॥ १२ ॥ वाप्याणां⁶ बुद्बुदानाञ्च बहुनामुद्गमो यदा । तदा काशीससोराष्ट्रा-क्षारत्रयकटुत्रयम् ॥ १३ ॥ गन्धकञ्च⁷ सितं हिङ्गु लवणानि च षट् तथा । एषां चूर्णं क्षिपेदेष⁸ लोहसम्पुटमध्यगः⁹ । सप्ताहं भूगतः पश्चाद्धान्यस्थः प्रवरो विड़ः ॥ १४ ॥ जम्बीराम्लेन पचनं¹⁰ शिग्रुमूलद्रवेण च । चूलिकागन्धकासिक्तो¹¹ हो विड़ो शतशः क्रमात् ॥ १५ ॥ कोषातकी¹²दलरसैः क्षारैर्वा निचुलोग्निदैः¹³ । (1) खण्डर्गन्स्विन्नं is the incorrect variant in M. (2) M has नातिशुष्कां, which seems to be inc. (3) K reads शिलातल, which is gram. inc. (4) K reads परिस्रुत, which destroys the metre. M has जानिलस्नात् परिस्रुतम्, which has neither grammar nor sense. (5) हंस- पाकाग्निमानवित्, a variant in K. (6) K reads बाष्पाणां, which is incorrect. (7) K and M read गन्धकस्य, which is inc. (8) M reads क्षिपिदेतत्, which is not gram. correct. (9) M reads मध्यगम्, which is not gram. correct. (10) M reads च वन, which is inc. (11) K reads सिक्तो. M reads सिक्ता. Both the readings are not correct. (12) M reads कोषातकी (13) K has क्षारो वा M has क्षारा वा निचुलद्रवै

१४४ रसार्णवे देवदालीशिवावीजं¹ गुञ्जासैन्धवटङ्कणम्² । भावयेदम्लवर्गेण³ विड़ोऽयं हेमजारणः⁴ ॥ १६ ॥ मूलकार्ड्रक⁵चित्राणां क्षारैर्गोमूत्रगालितैः । गन्धकः शतशो भाव्यो विड़ोऽयं हेमजारणे ॥ १७ ॥ हरितालशिलाक्षारो⁶ लवणं शङ्खमृत्तिका⁸ । हंसपाकविपक्वोऽयं विड़ः स्याद्धेमजारणे ॥ १८ ॥ एवं संगृह्य सम्भारान् रसकर्म समाचरेत् । तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ १९ ॥ इति श्रीपार्वतीपरमेश्वरसंवादे⁹ रसार्णवे रससंहितायां विड़कथनो नाम¹⁰ नवमः पटलः ॥ ९ ॥ (1) K reads शिखाबीजं. M reads देवतालीशिवा, which is incomplete. (2) M reads गुञ्जाटङ्कणसैन्धवम्. (3) भावयेदाम्लवर्गेण, a variant in M. (4) विडायां हेमजारणे, a variant in M, wherein the first term is incorrect. (5) M reads erroneously मूलकाद्रुक. (6) K reads क्षारैः. (7) K reads भावन. (8) K has शरमृत्तिका, which destroys the metre. (9) This portion is not found in M. (10) M reads विड़कल्पो नाम.

दशमः पटलः । श्रीदेव्युवाच । रसस्य लक्षणं किंवा रसकर्म च कीदृशम् । तन्न जानामि देवेश वक्तुमर्हसि तत्त्वतः ॥ १ ॥ श्रीभैरव उवाच । प्रागेवोक्ता रसोत्पत्तिस्तल्लक्षणमतः¹ शृणु ॥ २ ॥ तस्य नामसहस्राणि अयुतान्यर्बुदानि च । शक्यते न मया वक्तुं संक्षेपात् कथ्यते शृणु ॥ ३ ॥² रसो रसेन्द्रः सूतश्च पारदश्चाथ मिश्रकः³ ॥ ४ ॥ रसं सिद्धरसं विद्यात् सिद्धक्षेत्रसमाश्रयम् । नाशयेत् सकलान् रोगान् बलीपलितमेव सः⁴ ॥ ५ ॥ देहलोहकरं शुद्धं⁵ रसेन्द्र⁶मधुना शृणु । शरीरे हेम्नि कर्त्ता च जारणे सारणासु च ॥ ६ ॥ (1) K reads रसोत्पत्तिस्तल्लक्षणर्मतः, which is grammatically incorrect. (2) This śloka is not found in M. (3) M reads मिश्रकम्. [Vide र.स.स. Chap. I. v. 68.] (4) K reads बलि. M reads फलितनाशनम्, which is inc. [Vide र.स.स. Chap. I. vs. 69 and 77.] (5) M reads स्थिरं. (6) But vide र.स.स. Chap. I. vs. 70—72 and 78, which state सूतं instead of रसेन्द्र. 10

१४६ रसार्णवे

ईषत्पीतश्च रुक्षाङ्गो दोषयुक्तश्च सूतकः ॥ ६ ॥ (क)¹ यो वाह्याभ्यन्तरे खेतो² बहुलं³ कञ्चुकावृतः । तं विद्यात्⁴ पारदं देवि तारकर्मणि योजयेत् । यथा काञ्जिकसंसर्गात् क्षीरभाण्डं⁵ विनश्यति । तथा हेम शरीरञ्च⁶ पारदेन विनश्यति ॥ ७ ॥ मयूरपत्रिकाभासं⁷ मिश्रकञ्च विदुर्बुधाः । धूम्रवर्णं रसं⁸ दृष्ट्वा विशेषेणोपलभ्यते । मिश्रकन्तु⁹ विजानीयाद्दाहकर्मकारकम्¹⁰ ॥ ८ ॥ एवं पञ्चविधा देवि रसभेदा निरूपिताः ॥ ६ ॥¹¹ स्वेदनं मर्दनं चैव चारणं¹² जारणं तथा ।


(1) After the 6th śloka we do not find in any of our MSS. a śloka, which defines सूत. Hence we have inserted the above hemistich from रस.स. [Chap. I. v. 72] in order to complete the list of 5 different [L

, which is senseless." Wait, look at the characters: It is 'ज' + 'ी' + 'व' + 'ो'? Wait, look at the top: there is an 'ी' (i-matra) going to the right! And an anusvara or au-matra? Wait, look at the word: "जीवोऽण्डदिव" - wait, the second letter is 'ष'? No, look at footnote 10: "M reads..." Wait, is that "जीवोऽण्डदिव"? Let's look at the letter: 'ज' then 'ी' then 'वो' then 'ऽ' then 'ण्ड' then 'दि' then 'व'. Wait, why does it look strange? The typesetter used a damaged 'ज' or 'जीवो'? Wait, look at the letter 'व': it looks like 'ष'? No, 'व' has a loop. Wait, let's look at the verb: "निष्क्रमेत्". Look at 'त्': it has virama, but it looks like a broken character.

Line 10 of footnotes: "(11) सजीवं जीवयेज्जीवं, a variant in M. Cf. रस.स. Chap. I. v. 84 :—स" Line 11 of footnotes: "तांश्च जीवयेज्जीवन्. (12) M reads जीवरसः, which is not correct." Line 12 of footnotes:

२. पटल ६-१०: खनिज-परीक्षण, ज्वाला-वर्ण (Flame tests), धातु-वेधन एवं शोधन

१४८ रसार्णवे चतस्रो गतयो दृश्या अदृश्या¹ पञ्चमी गतिः ॥ १५ ॥ मन्त्रध्यानादिना तस्य चोच्यते² पञ्चमी गतिः ॥ १६ ॥ धूमश्चिटिचिटिश्चैव³ मण्डूकगतिरेव च । चकम्पश्च विकम्पश्च⁴ पञ्चावस्था रसस्य तु ॥ १७ ॥ मध्यमानस्य⁵ कल्केन सम्भवेद्धि गतित्रयम्⁶ । जले गतिर्मलगतिः पुनहँसगतिस्ततः⁷ ॥ १८ ॥ हेम⁸ दत्त्वा ततः शुद्धं तत्तु सम्भवेन्नियामके⁹ । नियामकगणौषध्या¹⁰ रसं दत्त्वा विपाचयेत् ॥ १९ ॥ नियमितो¹¹ न प्रयाति तथा धूमगतिं¹² शिवे ॥ २० ॥ कणिकाचालरहितो बुद्बुदैश्चापवर्जितः¹³ । नियमितो भवल्येष¹⁴ चूलिकाग्निसहस्तथा¹⁵ ॥ २१ ॥ (1) M reads न दृश्या. Cf. रस.स., which exactly agrees with the above. (2) रस.स. reads बध्यते. [Vide Chap. I. v. 85.] (3) K reads धूमश्विटीचिटिश्चैव. M reads घूम instead of धूम. (4) K has सपक्वश्च विपक्वश्च. (5) M reads मद्यमानेन, which appears to be inc. (6) K reads erroneously सम्भवेद्धी गतित्रये. M reads सम्भवेन्ने गतित्रयम्, which is not perfectly correct. (7) M has जलेन विमलगतिस्तथा हंसगतिः पुनः. (8) K reads हंसं. (9) K has तलसत्त्वं नियामयेत्. M has काश्रसत्त्वे नियासके. (10) नियासकगणो, विध्यो, a variant in M. (11) K reads नियमाभीतो, which destroys the metre. All the texts read नियामितो, which is gram. inc. (12) K reads धूमूगतिः. (13) K has बुद्बुदस्यामवर्जितः. M has बुद्बुदद्याघवन्दितः, which is inc. (14) M reads भवत्येव. (15) चूलिकाग्निसण्डलथा, a variant in K.

दशमः पटलः । १४६ अनियम्य यदा¹ सूतं जारयेत् काञ्जिकाग्नये² । जायते निश्चितं भद्रे तदा³ तस्य गतिद्वयम् ॥ २२ ॥ दोलास्वेदेन चावश्यं⁴ स्विदितो हि दिनत्रयम्⁵ । वसुभण्डादिभि⁶र्देवि रसराजो न⁷ हीयते ॥ २३ ॥ प्रक्षीणं तु रसं दृष्ट्वा दद्या⁸ व्योमादिकं ततः । स्वेदनं च⁹ ततः कार्यं दीयमानस्य मर्दनम् ॥ २४ ॥ रसालिङ्गित आहारः¹⁰ पिष्टिकेत्यभिधीयते । तद्द्रुतं रसगर्भे तु जारणं परिकीर्तितम् ॥ २५ ॥ जारणा तन्ममाख्याता तदेवञ्चोपलभ्यते¹¹ । जीर्णान्ते रञ्जनं कार्यं रक्तवर्ग¹²गुणेन च ॥ २६ ॥ जीर्णां जार्णन्तु¹³ संरक्तं¹⁴ समहेम्ना तु सारयेत् । सारणायन्त्रयोगेन बध्यते सारितो¹⁵ रसः ॥ २७ ॥ (1) M reads यथा, which seems to be incorrect. (2) जालयेत् काञ्जिकाशय, a variant in K. (3) M reads यथा, which is not correct. (4) K reads दालास्वेदनतोऽवश्य. M reads डाला in place of दोला. (5) The portion commencing from दिनत्रयम् and ending in रसराजो न ही is wanting in K. (6) M reads वसुभट्टादिभि. (7) M has रसराजेन, which is not accurate. (8) K reads देंया, which is gram. inc. (9) K reads तु. (10) रस लिङ्गीतकाहार, an incorrect variant in K. (11) K has नान्यैव नोपलभ्यते. (12) K reads रक्तवर्णं. (13) M reads जाणौजीर्णे तु. (14) M reads संरक्त (without अनुस्वार). (15) M has सारता, which seems to be the error of the scribe.

” रससार, 1st Patala, v. 5.] (4) K has an incorrect reading—बद्धूपां स्यात्. (5) M reads विषवह्निञ्जलस्तथा, wherein the term जल is incorrect. [Vide रस.स. Chap. XI. v. 14.] (6) K reads द्यात्. M reads विन्दात्. [Vide रस.स. Chap. XI. v. 15.] (7) M reads लक्षा. [रस.स. agrees closely with the texts in vs. 32, 33 and 34. Vide Chap. X. vs. 102–105.] (8) K reads incompletely the whole hemistich thus :—ष···शश्चैव···क्षा स्यात् षड्‌लिखायुगेव च. M reads षूक्ष्मैष षट्- (9) चाकरष रजःसंज्ञा, a variant in M, which seems to be inc.

Wait, check line is a horizontal divider line:
Let's represent it as `---` or directly prefix the footnote lines.
Line markers are ``, ``, etc.

Let's double-check all

दशमः पटलः । १५१ षड्रजः सर्षपः साक्षात्¹ सिद्धार्थः स च कीर्त्तितः² । षट्सिद्धार्थैश्च देवेशि यवस्त्वेकः प्रकीर्त्तितः ॥ ३३ ॥³ षड्यवैरेकगुञ्जा स्यात्⁴ पञ्चगुञ्जैश्चैकमाषकः । माषा द्वादश तोलः स्यात्⁵ षष्टी तोलाः पलं भवेत्⁶ ॥३४॥ द्वात्रिंशत्पलकं देवि शुभ्रम्भु⁷ परिकीर्त्तितम् । शुभ्रस्य तु सहस्त्रे द्वे भार एकः प्रकीर्त्तितः ॥ ३५ ॥ द्वे सहस्त्रे पलानान्तु सहस्त्रं शतमिव वा । अष्टाविंशत् पलानान्तु दश पञ्चकमेव वा ॥ ३६ ॥⁸ पलार्द्धेनैव⁹ संस्कारः कर्त्तव्यः सूतकस्य तु ॥ ३७ ॥ महाबला नागबला मेघनादा-पुनर्नवम्¹⁰ । मेषशृङ्गी¹¹ च तक्षारैः¹² नवसारसमन्वितम्¹³ ।


(1) M reads षड्रकः, which is an error of the scribe. रस.स. reads स स्यात्. (2) K has सिद्धार्थः स च प्रकीर्त्तितः, wherein प्र is redundant. (3) This hemistich is wanting in K. रस.स. reads षट्सिद्धार्थेण. (4) रस.स. has तु instead of स्यात्. After this charaṇa we find in रस.स. “त्रिगुञ्जा वल्ल उच्यते। षड्भिरेव तु गुञ्जाभिर्माष एकः प्रकीर्त्तितः ।” (5) माष- द्वादश तोला स्यात्, a variant in K. (6) K has सप्ततुभिः पलं भवेत्, thus differing from other texts as well as from रस.स. [Vide Chap. X. v. 105.] (7) K reads शुभ्रन्तु. M reads शुभ्रस्तु. (8) This śloka nearly agrees with रस.स. [Vide Chap. XI. v. 21.] (9) M reads पलादूनं न. (10) K reads पुनर्णवा. (11) K reads मेषशृङ्गा. (12) K reads तक्षारै. (13) M reads एव सारसमन्वितम्, which appears to be incorrect.

१५२ रसार्णवे पारदं देवदेवेशि स्वेदयेद्दिवसत्रयम् ॥ ३८ ॥ ॥ इत्योषधस्वेदनम् ॥¹ गिरिकर्णी च मोनाक्षी सहदेवो पुनर्णवा । उरगा त्रिफला कान्ता² लवुपर्णी³ शतावरौ ॥ ३९ ॥ तुषवर्जे तु धान्याम्ले⁴ सर्व्वं संक्षुभ्य⁵ निक्षिपेत् । एकादशगुणे⁶ऽम्लेऽस्मिन् षोड़शांशैर्विमर्द्दितम् ॥ ४० ॥ आसुरोलवणव्योष चित्रकार्द्रकमूलकैः⁷ । दोलायां⁸ स्वेदयेद्देवि त्रिदिनं मृदुनाग्निना ॥ ४१ ॥ ॥ इति सन्धानाम्लस्वेदनम् ॥ अङ्कोलस्तु⁹ विषं हन्ति वङ्घ्रि¹⁰मारग्वधः प्रिये । (1) K has इत्योषधिखेदन तु कथितं तव सुव्रते । After this we find in K the following verses, which we have rejected, as these seemed to us incongruous, incorrect and

दशमः पटलः । १५३ चित्रकस्तु^1 मलं हन्यात् कुमारी सप्तकञ्चुकम् ॥ ४२ ॥^2 लक्षादेभिः समोपेतै^3र्मर्दयेत् पातयेद्बुधः^4 ॥ ४३ ॥ विद्याधरेण यन्त्रेण भावयेद्दोषवर्जितम्^5 । ततस्त्रिगुणवस्त्रस्थं^6 तं रसं देवि गालितम्^7 ॥ ४४ ॥ त्रिफलांबङ्घ्रिमूलत्वात्^8 गृहकन्या^9रसान्वितम् । निबद्वारे^10 तु पाषाणे मर्दयेत् पातयेत् पुनः ॥ ४५ ॥ धूमसारगुड़^11व्योष-रजनोसित^12सर्षपैः । इष्टिकाकाक्षिकोर्णाभिः^13 त्रिदिनं मर्दयेत्ततः^14 ॥ ४६ ॥ निर्मलो जायते सूतः^15 सप्तभावं प्रकाशयेत्^16 ॥ ४७ ॥ बासकेन^17 विभौतेन मर्दयेत् पातयेत् पुनः । नागवङ्गादिका दोषा यान्ति नाशमुपाधिजाः^18 ॥ ४८ ॥ (1) M reads चित्रकश्च. (2) But compare रसै.स. Chap. XI. v. 28, which differs from the above in certain points. (3) K reads समोत्पेतै, which is incorrect. M reads तक्षादितत्. (4) K reads पुनः. After this śloka we find नागशुद्धिः in the MS. M. (5) K has वर्जितः, which is gram. erroneous. (6) K has ततस्त्रीगुणचेतस्त्रं, which is partly inc. [शैव=वस्त्र.] (7) M reads भावितम्. (8) त्रि- फलामूषवङ्घ्रिक्लात्, a variant in K. (9) K reads erroneously गृहकन्या. (10) K reads निद्वारे, which has no clear sense. (11) K has गुड़ा. M has गुड़. (12) K reads श्वेत. (13) K reads इष्टका. M reads काक्षिकोषीभिः. (14) K has मर्दितं ततः. (15) K and M read सृतं. (16) M reads चात्मभामात् प्रकारयेत्. (17) M reads वासकेन. (18) K reads नाम्नमुपाधिजा. M reads नाम्नगुपाधिकाः. 20

१५४ रसार्णवे सप्तवारं काकमाच्या गतदोषं¹ विमर्दयेत् । पातयेत्² सप्तवारं च गिरिदोषं त्यजेद्रसः³ ॥ ४९ ॥ क्षेत्रदोषं त्यजेद्देवि गोकर्णरसमूर्च्छितः ॥ ५० ॥ कार्पास⁴पत्रनिर्यासे खिन्नस्त्रिकटुकान्विते⁵ । सप्तकञ्चुक⁶निर्मुक्तः सप्ताहाज्जायते रसः ॥ ५१ ॥ काकमाची⁷ जया ब्राह्मी⁸ गाङ्गेरो⁹ रक्तचित्रकः¹⁰ । मण्डूकी¹¹ मुद्गपर्णी च शृङ्गवेरं रसाङ्कुशः¹² ॥ ५२ ॥ देवदाली¹³ शङ्खपुष्पी काकजङ्घा शतावरी । कुमारो भृङ्गराजश्च निर्गुण्डी ग्रीष्मसुन्दरः¹⁴ ॥ ५३ ॥ शूलिनो शूर्पपर्णी च¹⁵ गोजिह्वा चोर¹⁶कञ्चुकः । तद्रसैर्मर्दितः¹⁷ पात्यः¹⁸ सप्तधा निर्मलो भवेत् ॥ ५४ ॥ ताम्रेण¹⁹ पिष्टिकां कृत्वा पातयेदूर्ध्वपातने²⁰ ।

(1) K has गप्तदोषं, which has no clear sense. (2) M reads पाचयेत्. (3) M reads व्यजेद्रसः. (4) K reads कर्पास. (5) K reads चिकटुकान्वितः. खिन्नं खिकरकान्विते, a variant in M. (6) M reads काञ्चुकि. (7) K reads काकमाचि. (8) M reads ब्रह्मी. (9) K reads मार्जारी. (10) M reads रक्तचित्रकम्. (11) K reads मण्डुका. M reads मण्डाको. (12) K has ससांकुशः. M has शृङ्गि वेर. (13) देवताली is the reading in M. (14) ग्रीष्मसुन्दरम् is the variant in M. (15) च is wanting in K. M reads शूर्पपाली च. (16) K reads चिर, which is inc. (17) K reads सर्वतः. M reads मर्दितं, which is gram. inc. (18) K reads पाल्यं. M reads पात्य. Both are gram. inc. (19) K reads रामेण. रस.स. reads शुल्वेन. (20) K reads उर्द्धपातने, which is an error of the scribe. But रस.स. reads ऊर्ध्वभाजने.

दशमः पटलः । १५५ वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ॥ ५५ ॥¹ मर्दितस्त्रिफलाशिग्रुराजिका³पटुचित्रकैः । ऊर्द्धभाण्डगतः पाच्यः प्रदीप्तैरुपलैरधः⁴ ॥ ५६ ॥ सृष्ट्याम्बुजनिरोधिन लब्धापायो भवेद्रसः । कर्कोटो⁵कञ्चुकाबिम्बो सर्पाख्यम्बुजसंयुतम् ॥ ५७ ॥ रसं नियामके दद्यात् तेजस्वी निर्मलो भवेत् । एवं विशोधितः सूतो भद्राष्टांशविशोषितः ॥ ५८ ॥⁶ क्षुद्राम्ललवणक्षार⁷-भूखगोषणशिग्रुभिः⁸ । राजिकाटङ्कणयुतैरारनाले⁹ दिनत्रयम् । स्वेदनाद्दीपतो देवि ग्रासार्थी¹⁰ जायते रसः ॥ ५९ ॥¹¹ व्योमसत्त्वादिवोजानि रसजारणशोधने¹² । तन्ममाचक्ष्व देवेशि¹³ किमन्यच्छ्रोतुमिच्छसि ॥ ६० ॥ (1) This hemistich closely agrees with रस.स. (vide Chap. XI. v. 31.) (2) M reads मर्दित, which is gram. inc. (3) M reads रासका. (4) प्रदीप्तवरुपलैरध, a variant in M, which appears to be inc. (5) M reads कर्कटो. [Vide रस.स. Chap. XI. vs. 41 and 42.] (6) The ślokas 57 and 58 are not found in K. (7) चौद्र- स्रलेवणक्षारः, a variant in M. (8) यूषगोषणशिग्रुभिः, a variant in K. (9) K reads भारनालैः. (10) K reads ग्रासार्थि, which is gram. inc. M reads ग्रासार्थी. (11) The 43rd śloka in रस.स. Chap. XI. mostly agrees with the 59th śloka of this text. (12) रसे जारण- शोधने, a variant in K. रसो जारय शोधिते, a variant in M. Both of these readings do not convey a clear sense. (13) This charana is not found in M.

१५६ रसार्णवे इति श्रीपार्वतीपरमेश्वरसंवादे¹ रसार्णवे रससंहिताया रसशोधनो नाम² दशमः पटलः ॥१०॥ — एकादशः पटलः ॥ ❖ श्रीदेव्युवाच¹ । लक्षणं शोधनं चैव पारदस्य श्रुतं मया । चारणं जारणं चैव श्रोतुमिच्छामि भैरव ॥ १ ॥ श्रीभैरव उवाच² । सर्व्वपापक्षये जाते³ प्राप्यते रसजारणा⁴ । तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं⁵ मुक्तिकारकम् ॥ २ ॥ मोक्षाभिव्यञ्जकं⁶ देवि जारणं साधकस्य तु । यावन्न जार्य्यते⁷ सूतः तावत्तु न च निर्वृतिः⁸ ॥ ३ ॥ (1) This is wanting in M. (2) K and M read रसशोधनं नाम. — (1) M has only देवी. (2) M has only भैरवः. (3) K reads सर्व्वपापक्षयं तस्य. (4) K reads रसजारणात्. (5) M has. विज्ञानां. (6) M reads मोक्षाभिव्यञ्जनं. (7) यावत् सुजीर्य्यते, a variant in K. यावन्न जायते, a variant in M. (8) K has an in- complete charana—तावन्न च तिष्ठति,.

एकादशः पटलः । १५७ खल्लस्तु पीठिका देवी रसेन्द्रो लिङ्गमुच्यते । मर्दनं वन्दनं² तस्य ग्रासः पूजा विधीयते ॥ ४ ॥ यावद्दिनानि वह्निस्यो जाय्यते धार्यते रसः । तावद्युगसहस्राणि शिवलोके महीयते ॥ ५ ॥ दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् । द्रवान्ति तस्य पापानि कुर्व्वन्नपि न लिप्यते ॥ ६ ॥ जारणा द्विविधा बाल-जारणा बज्रजारणा' । तत्रादौ परमेशानि वक्ष्यते बालजारणा ॥ ७ ॥ गगनं जारयेदादौ सर्व्वसत्त्वमतः परम् । ततो माक्षिकशुद्धं च सुवर्णं तदनन्तरम् ॥ ८ ॥ गर्भस्थं द्रावयित्वा तु १० ततो वाह्यद्रुतिं द्रवेत् । (1) K reads खल्लं तु पिंठिका. M reads खल्लन्तु. (2) M has चन्दनं, which is incorrect. (3) K reads पूजी, which is incorrect. (4) M reads जारणा, which seems to be gram, inc. (5) M has सिताशनम्, which has no clear sense. (6) Kreads बाला, M reads विविधा बाल. (7) K reads जारणादभ्रगुपासना, which is unintelligible. बज्रजारणा will be explained in the 13th Patala. (8) This hemistich is not found in M. [Vide रस. स. Chap. VIII. vs. 65 and 66, which state जारणा first as विरुपा, and next as विविधा.] (9) K has माक्षिकाशुद्धे च. We do not find this charana and the next in M. (10) गर्भं संद्रावयित्वा तु, a variant in K, which is gram. inc. (11) M reads क्षययुतिं, which seems to be inc. [Vide रस.स. Chap. VIII. v. 72, wherein वाह्यद्रुति is explained.]

१५८ रसार्णवे सितं सितेन द्रव्येण रक्तं रक्तेन रञ्जयेत् ॥ ९ ॥ सारणं क्रामणं ज्ञात्वा ततो वेधं प्रयोजयेत् ॥ १० ॥¹ ॥ चारणाजारणामन्त्रः ॥ ॐ नमोऽमृतलोहाय परामृततसोद्भवाय हुं स्वाहा ॥ ११ ॥ सर्व्वसत्त्वोपकाराय भगवन् त्वदनुज्ञया । जारणं कर्तुमिच्छामि ग्रासं गृह्ण² मम प्रभो ॥ १२ ॥ कुरुष्वेति शिवेनोक्तं ग्राह्यमेव³ सुबुद्धिना ॥ १३ ॥ शृणु देवि प्रवक्ष्यामि व्योमजारणमुत्तमम् । पत्राभ्र⁴जारणं सत्त्वजारणञ्चेति तद्विधा⁵ ॥ १४ ॥ निर्मुखं समुखं⁶ चैव बासनामुखमेव च । एकैकं त्रिविधं तच्च तद्वक्ष्याम्यानुपूर्व्वशः⁷ ॥ १५ ॥ वैक्रान्त⁸वज्रसंस्पर्शात्⁹ दिव्यौषधिबलेन वा । निर्मुखो भक्षयेद्देवि¹⁰ क्षणेन गगनं रसः¹¹ ॥ १६ ॥


(1) This hemistich is wanting in M. (2) K reads ग्राह्य. M reads गृह्णां. Both the readings are gram. inc. [गृह्ण is generally used by Rishis, though the correct form is गृहाण.] (3) भावमेव सुबुद्धिमान्, a variant in K. वाह्यमेव, a variant in M. (4) M reads पत्राभ्रू, which appears to be incorrect. (5) K reads erroneously तद्दिधा. (6) K has निमुख. M has सम्मुखं. रस. स. reads—"समुखा निर्मुखा चेति जारणा द्विविधा पुनः ॥" "इयं हि सम्मुखा प्रोक्ता जारणा मृगचारिणा ॥" (Chap. VIII, vs. 66 and 69.) (7) K and M read तद्वक्ष्याम्यनुपूर्व्वशः. (8) M reads बैक्रान्तं, which is inc. (9) K and M read संस्पर्श (without any suffix), which seems to be inc. (10) लघयेद्देवि, a reading in K. (11) M reads रसम्, which is gram. erroneous.

एकादशः पटलः । १५६ हेमकर्मणि हेमैव तारे तारो मुखं¹ भवेत् ॥ १७ ॥ तप्तखल्लकृता पिष्टिः² सूक्ष्म³मल्पल्पमभ्रकम् । अम्लवेतस⁴जम्बीरवोजपूराम्लभूखगैः⁵ । मर्दितं⁶ चरते देवि सेयं संमुखजारणा⁷ ॥ १८ ॥ क्षारत्रयं⁸ पञ्चपटु⁹ काचो¹⁰-कासीसगन्धकम् । माक्षिकं चाम्लसंयुक्तं ताम्रपात्रे तु जारयेत्¹¹ ॥ १९ ॥ एतन्नाभिषवाद्¹²दिव्यं कारयित्वा विचक्षणः । जारणार्थञ्च बीजानां¹³ वज्राणाञ्च विशेषतः ॥ २० ॥ तन्मिश्रावर्त्तितं नागं वङ्गं¹⁴ वा सुरवन्दिते । निषेचयेच्छतं वारं न रसायनकर्मणि ॥ २१ ॥ अनेन सकलं देवि¹⁵ चारणावस्तु भावयेत्¹⁶ । क्षाराम्ले¹⁷ भावितं व्योम रजसा प्रथमेन च ॥ २२ ॥


(1) रस.स. defines मुख thus :—“मुखं स्वर्णं च रूप्यं च बीजमित्यभिधीयते ॥ ६० ॥ चतुःषष्टांशतो बीजप्रक्षेपो मुखमुच्यते । ५८ ।” (Chap. VIII.) (2) तत्र खल्ले कृतापिष्ट, a variant in K. M reads कृताविष्टि. (3) K reads सूक्ष्म. (4) M reads चाम्लवेतस. (5) K has बीजपूजास्मभूषगै, which is gram. inc. (6) M reads मृदित. (7) K has जारणात्. M has सम्मुखजारणा. (8) K reads क्षारद्वयं. (9) K reads पञ्चलवण. M reads पञ्चवटुः, which seems to be incorrect. (10) K has कांजि. M has काचि. (11) K reads सारयेत्. (12) एतन्नामिषय, a variant in K. (13) जारणार्थे तु बीजानि, a variant in K. (14) M reads वङ्गं. (15) अनेन स चारणां यस्तु, a variant in K. (16) भावये शङ्खिचूर्णतः, a variant in K. (17) K reads क्षाराम्ब.