भारतकोश
संग्रह पर लौटें

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

14 रत्नावली “सर्ब्बस्त्रीभिः पतिर्वाच्य आर्य्यपुत्रेति यौवने” इति नियमात् । नियोगः आदेशः । Beng. Trans. সুতরাং গৃহে যাইয়া গৃহিণীকে ডাকিয়া সঙ্গীতের অনুষ্ঠান করিব। ( ইতস্ততঃ পরিক্রমণ পূর্ব্বক নেপথ্যের দিকে লক্ষ্য করিয়া ) ইহাই আমার গৃহ। প্রবেশ করা যাউক। ( প্রবেশ করিয়া—উচ্চৈঃস্বরে ) আর্য্যে, এইদিকে এস। ( প্রবেশ করিয়া ) নটী—আৰ্য্যপুত্র, এই আসিয়াছি। কি আদেশ পালন করিতে হইবে?—আৰ্য্য আদেশ করুন। Eng Trans : So going home I shall call my wife and then make arrangements for musical performence. (Walking to and fro and then with his face towards the green-room) this is my house , let me enter. (entering—aloud) O my lady, come here. ( Entering ) Actress—O my husband, here I am ; please direct, my lord, what order is to be carried out. सूत्रधारः—आर्ये, रत्नावलीदर्शनसमुत्सुको¹ऽयं राजलोकः । तद् गृह्यतां² नेपथ्यम् । नटी—( सोद्बेगम्³ ) अज्जउत्त, णिञ्चिन्तो दाणिं सि तुमम् । ता कीस ण णच्चसि । मह मन्दभाआए उण एक्का ज्जेव्व दुहिदा। सावि तुए कहिंवि देसन्तरे दिन्ना। कहं एक्क' दूरदेसट्ठिदेण जामादुणा सह से पाणिग्गहणं भविस्सदित्ति इमाए चिन्ताए अप्पावि ण मे पडिभादि, किं उण णच्चिदव्वम् । (क) (क) आर्य्यपुत्र, निश्चिन्त इदानीमसि त्वम्। तत् किमिति न नृत्यसि ! मम मन्दभाग्यायाः पुनरेकैव दुहिता। सापि त्वया कस्मिंश्चिद्देशान्तरे दत्ता। कथमिव दूरदेश-

1 दर्शनीत्सुकः । 2 क्रियताम् । 3 निःश्वस्य सावेगम् ।

प्रस्तावना 15 स्थितेन जामाता सहस्याः पाणिग्रहणं भविष्यतीत्यनया चिन्तया आत्मापि न मे प्रतिभाति, किं पुनर्नर्त्तितव्यम् ॥ आत्मापि न मे प्रतिभाति—"आत्मात्र बुद्धिः, सः अपि न मे प्रतिभाति उदेति । “आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च” इत्यमरः । Beng. Trans. সূত্রধার—রত্নাবলী নাটক দেখিবার নিমিত্ত এই রাজন্যবর্গ অত্যন্ত উৎসুক হইয়া রহিয়াছেন; সুতরাং বেশ রচনা কর। নটী—( উদ্বেগের সহিত ) আর্য্যপুত্র, তুমি এখনও নিশ্চিন্ত হইয়া রহিয়াছ। তা' তুমি নৃত্য করিবে না কেন। মন্দভাগিনী আমার একমাত্র কন্যা, তাহাকেও কোনও এক দেশান্তরে দিবার অভিপ্রায় করিয়াছ। দূরদেশস্থিত সেই জামাতার সহিত কিরূপে পাণিগ্রহণ হইবে এই চিন্তায় আমার বুদ্ধি যোগাইতেছে না, তা নৃত্য কি করিব ? Eng. Trans. Stage-manager—These princes are very eager for enjoying the performance of the Nátiká Ratnávali. So get yourself prepared with dress and make-up. Actress—(with anxiety) Ah my lord, you are even now free from anxieties. And why should you not dance ! My unfortunate self has only one daughter, and she is intended by you to be given away in marriage in some distant country. My intellect does not flash upon me owing to the anxiety as to how her marriage would be possible with the son-in-law who is residing at a distant place ; how then shall I act (or dance) ? सूत्रधारः—आर्ये, दूरस्थेनेत्यलमुद्वेगेन : पश्य¹— द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥६॥ ( नेपथ्ये ) साधु, भरतपुत्र, साधु । एवमेतत् । कः सन्देहः । ( द्वीपात् —॥६ इत्यादि पठति ) ।

16 रत्नावली सूत्रधारः—( आकर्ण्य सहर्षम् ) आर्ये¹, नन्वयं मम यवीयान् भ्राता गृहीतयौगन्धरायणभूमिकः प्राप्त एव। तदेहि। आवामपि नेपथ्यग्रहणाय सज्जीभवावः। ( इति निष्क्रान्तौ ) इति प्रस्तावना सूत्रधारः । अन्यस्माद् अपि द्वीपात् सिंहलद्वीपाद् इति उपक्षेपः। जलनिधेः समुद्रस्य मध्यात् दिशोऽपि अन्तात् । अभिमुखीभूतः अनुकूलः विधिः दैवम् अभिमतम् इष्टजनम् आनीय झटिति शीघ्रं घटयति मेलयति । आर्याऽच्छन्दमिदम् । तल्लक्षणं—"यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या" ॥६॥ अत्र मुखसन्धेः उपक्षेपो नामाङ्गम् । भरतपुत्र, भरतस्य नाट्यशास्त्रकारत्वात् सर्वेषामभिनेतृणां तस्य पुत्रस्थानीयत्वम् इति ज्ञेयम् । गृहीतयौगन्धरायणभूमिकः, यौगन्धरायणस्य भूमिका वेषः ; “भूमिका रचनायां स्यात् वेशान्तरपरिग्रहे” इति मेदिनी । गृहीता यौगन्धरायणस्य भूमिका येन सः । इति निष्क्रान्तौ इति । निष्क्रान्तौ निर्गतौ । तदुक्तं “एषामन्यतमेनार्थं पात्रं वाक्षिप्य सूत्रभृत् । प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपञ्चयेत्” इति ॥ इति प्रस्तावना ।' प्रस्तूयते काव्यार्थः अनया सा प्रस्तावना । तल्लक्षणम् :—“नटो विदूषको वापि पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्व्वते ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥” अत्र कथोद्घातरूपा प्रस्तावना । अन्यद् विश्लेषणं तु छात्रसटीकायां द्रष्टव्यम् । Prose. अन्यस्मादपि द्वीपात्, जलनिधेः अपि मध्यात्, दिशः अपि अन्तात् अभिमतम् आनीय अभिमुखीभूतः विधिः झटिति घटयति ॥६॥ Beng. Trans. सूत्रधार—আর্য্যে, দূরস্থ বলিয়া উদ্বেগের কোনও কারণ নাই। দেখ— 1 आर्ये किमतः परं विलम्बसे ।

প্রস্তাবনা 17 “থাকে যদি দ্বীপান্তরে সাগরের মধ্যে কিংবা দিগন্ত-সীমায়। বিধি হলে অনুকূল, যেথায় থাক্ না, আনি মিলন ঘটায়।” (জ্যোতিরিন্দ্রনাথ ঠাকুরের “রত্নাবলী”) (নেপথ্যে) সাধু! ভরতপুত্র! সাধু। ঠিক বলিয়াছ। ইহাতে আর সন্দেহ নাই। (ইহা বলিয়া দ্বীপাৎ ইত্যাদি শ্লোকটী পুনরাবৃত্তি করিল) সূত্রধার—(শুনিয়া আনন্দের সহিত), আর্য্যে, ঐ দেখ আমার কনিষ্ঠ ভ্রাতা যৌগন্ধরায়ণের বেশ ধারণ করিয়া আসিয়া পড়িয়াছেন। অতএব, এস, আমরাও বেশ- পরিগ্রহের জন্য প্রস্তুত হই। (ইহা বলিয়া উভয়েই নিষ্ক্রান্ত হইল) প্রস্তাবনা সমাপ্ত Eng Trans. Stage-manager—Madam, there is no need of anxiety on account of his being in a distant place. Just see— If the fate is propitious then it brings about the in- stantaneous union bringing the desired (person) even from another isle, from the midst of the ocean and from the entreme bounds of the quarters. (Behind the scene) Bravo, son of an actor, well said! you are right, there is no doubt about it. (Repeats the stanza.) Stage-manager (listening with gaiety)—Ah my lady, verily my younger brother assuming the character of Yaugandharayana is nearly come. So come. Let us too be prepared for being attired. (Exeunt) End of the Prologue 2

अथ प्रथमोऽङ्कः ( ततः प्रविशति यथानिर्दिष्टः यौगन्धरायणः ) यौगन्धरायणः—एवमेतत् कः सन्देहः । ( 'दीपात्' इति पुनः पठित्वा ) अन्यथा क्व सिद्धादेशप्रत्यय¹प्रार्थितायाः सिंहलेश्वर- दुहितुः² समुद्रे प्रवहणभङ्गनिमग्नायाः³ फलकासादनम् । क्व च कौशाम्बीयेन वणिजा सिंहलेभ्यः प्रत्यागच्छता तदवस्थायाः सम्भावनम् । रत्नमालाचिह्नायाः प्रत्यभिज्ञानादिहानयनं च । ( सहर्षम् ) सर्व्वथा स्पृशन्ति नः स्वामिनमभ्युदयाः । ( विचिन्त्य ) मयापि चैनां देवीहस्ते सगौरवं निक्षिपता⁴ युक्त- मेवानुष्ठितम् । श्रुतं च मया बाभ्रव्योऽपि कञ्चुकी सिंहले- श्वरामात्येन वसुभूतिना सह कथं कथमपि समुद्रादुत्तीर्य कोशलोच्छित्तये गतवता रुमण्वता मिलित इति । तदेवं निष्पन्नप्रायमपि प्रभुप्रयोजनं न मे धृतिमावहतीति कष्टोऽयं खलु भृत्यभावः । कुतः— प्रस्तावनान्ते पात्रं प्रविशति ततः इति । यौगन्धरायणः । सिद्धादेशप्रत्ययप्रार्थितायाः सिद्धस्य अणिमादिसिद्धि निष्पन्नस्य चादेशः । य एव रत्नावलीं परिणेष्यति स सार्व्वभौमः नरपतिः भविष्यतीति चादेशः । तस्मिन् प्रत्ययः विश्वासः तेन प्रार्थितायाः याचितायाः सिंहलेश्वरदुहितुः विशेषणम् । प्रवहणभङ्गनिमग्नायाः प्रवहणं पोतः “पोतः शिशौ प्रवहणे” । तस्य भङ्गः तेन निमग्नायाः रत्नावल्याः इत्यर्थः । फलकासादनम् काष्ठफलकप्राप्तिः । तदवस्थायाः 1 सिद्धादेशजनित । 2 सुतायाः । 3 यानभङ्गमग्नावस्थितायाः । 4 समर्पयता ।

प्रथमोऽङ्कः 19 सा एव अवस्था यस्याः तस्याः। सम्भावनम् स्वीकरणं प्राप्तिरिति यावत्। अत्र द्वौ शब्दौ कीर्त्तिद्वयस्य मङ्गलपरं सूचयतः। स्पृशन्ति उपतिष्ठन्ति। अभ्युदयाः सौभाग्यातिशयाः। निष्पन्नप्रायमपि समाप्तप्रायमपि प्रभुप्रयोजनं प्रभुमुद्दिश्य कर्त्तव्यम्। धृतिम् सन्तोषम् आवहति आनयति। भृत्यभावः सेवाकार्य्यं प्रभोरित्यर्थः। तत्र हेतुमाह कुतः इति। Beng. Trans. ( তারপর যথানির্দ্দিষ্ট যৌগন্ধরায়ণ প্রবেশ করিলেন ) যৌগন্ধরায়ণ—হাঁ ইহাই ঠিক। এ বিষয়ে আর সন্দেহ কি? ( পুনর্ব্বার 'দ্বীপাদ্দন্য- স্মাৎ' এই শ্লোক পাঠ করিয়া ) তাহা না হইলে সিদ্ধপুরুষের আদেশে বিশ্বাস স্থাপনপূর্ব্বক সিংহলরাজকুমারীকে ( মহারাজের নিমিত্ত ) প্রার্থনা করিলে সমুদ্রে যানভঙ্গনিবন্ধন তিনি ( রাজকুমারী ) জলমগ্ন হইলে তাঁহার কাষ্ঠফলকপ্রাপ্তিই বা কিরূপে হইল? আর সিংহল হইতে প্রত্যাগত কোশাম্বীদেশীয় বণিক্‌ই বা সেই অবস্থায় তাঁ

20 रत्नावली the chief Queen respectfully. And I understand that the chamberlain Babhravya being reascued from the sea with great difficulty along with Vasubhuti the minister of the king of Simhala, has been united with Rumanvan who was marching with a view to destroying the Koshala kingdom. So, though the business of my master is almost finished, yet it cannot bring me satisfaction—which shows that servitude is surely a painful thing. For— प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ दैवेनेत्थं दत्तहस्तावलम्बे । सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाचारी भीत एवास्मि भर्तुः ॥७॥ स्वामिनः प्रभोः उदयनस्य वृद्धिहेतौ रत्नावलीपरिणयेन चक्रवर्त्तित्वप्राप्तिरूपमभ्युदयम् आवहति यस्मिन् प्रारम्भे कार्य्ये इत्थं रत्नावल्याः दैववशात् फलकासादनादिरूपेण प्रकारेण दैवेन दत्तहस्तावलम्बे दत्तः हस्तस्य अवलम्बः आश्रयः यस्मिन् सहायीभूते इत्यर्थः । सिद्धेः कर्मसाफल्यस्य । सिद्धे इति पाठे सिद्धादेशे इत्यर्थः । भ्रान्तिः सन्देहः नास्ति इति सत्यं ; तथापि एवं दैवानुकूल्यसत्त्वे ऽपि स्वेच्छाचारी राज्ञः अनुमतिमन्तरेण कर्म कुर्व्वन् भर्तुः भीतः अस्मि । तस्य हितार्थं क्रियमाणेऽपि अस्मिन् कर्म्मणि तस्य राज्ञः अनुमोदनं स्याद् वा न वा इति भिया मे मनः चाञ्चल्यमवाप्नोति । सर्व्वथा भृत्यस्य स्वातन्त्र्याभावादित्यर्थः । शालिनी वृत्तम् । तल्लक्षणं—“मात्तौ गौ चेच्छालिनी वेदलोकैः” ॥ ७ ॥ Prose. दैवेन इत्थं दत्तहस्तावलम्बे स्वामिनः वृद्धिहेतौ अस्मिन् प्रारम्भे सिद्धेः भ्रान्तिः नास्ति ( इति ) सत्यम्, तथापि स्वेच्छाचारी ( अहम् ) भर्तुः भीत एव अस्मि । ॥ ७ ॥ প্রভুর অভ্যুদয়ের কারণীভূত এইরূপ কার্য্যে দৈব সহায় হওয়ায় কার্য্যের সাফল্য বিষয়ে আর কোনও সন্দেহ নাই সত্য ; কিন্তু তথাপি স্বতঃপ্রবৃত্ত হওয়ায় আমি প্রভুকে ভয় পাইতেছি ॥৭॥

प्रथमोऽङ्कः 21 Eng. Trans. Though in this undertaking which is meant for the elevation of my master's power and in which the fate has extended its helping hand, there is nothing to doubt about its success, yet I am afraid of my master on account of my proceeding at my own will. 7. ( नेपथ्ये कलकलः ) यौगन्धरायणः। ( आकर्ण्य ) अये, मधुर¹मभिहन्यमानमृदु- मृदङ्गानुगतसङ्गीतमधुरः पुरः पौराणां समुच्चरति चर्चरीध्वनिः। तथा तर्कयामि यदेनं मदनमहमहीयांसं पुरजनप्रमोदमवलोक- यितुं प्रासादाभिमुखं प्रस्थितो देवः। य एषः— विश्रान्तविग्रहकथो रतिमान् जनस्य चित्ते वसन् प्रियवसन्तक एव² साक्षात्। पर्युत्सुको निजमहोत्सवदर्शनाय वत्सेश्वरः कुसुमचाप इवाभ्युपैति ॥ ८ ॥ ( ऊर्ध्वमवलोक्य ) अये, कथमधिरूढ एव देवः प्रासादम्। तद् यावद् गृहं गत्वा कार्यशेषं चिन्तयामि³। ( इति निष्क्रान्तः ) इति विष्कम्भकः अभिहन्यमानाः ताड्यमाना मृदवः धीरस्वनाः ये मृदङ्गाः तैः अनुगतम् अनुयातं यद् गीतं तेन मधुरः चर्चरीध्वनिः इत्यस्य विशेषणम्। हस्ततालैः मिश्रीभूतः वाद्यविशेषः समुच्चरति उत्पद्यते। अत्र उत्पूर्वकात् चरधातोः अकर्मकत्वात् 'उदचरः सकर्मात्' इत्यस्य नायं विषयः। तर्कयामि अनुमिनोमि। मदनमहमहीयांसं मदनस्य महः उत्सवः तेन महीयांसं महत्तरम्। पुरजनप्रमोदम् नगरवासिनामानन्दम्। 1 यथायम्। 2 एवः। 3 सम्भावयामि।

22 रत्नावली य एषः इति।—( राजपक्षे )—विश्रान्तविग्रहकथः विश्रान्ता निवृत्ता विग्रहस्य युद्धस्य कथा यस्य सः सर्व्वेषामरीणां समूलघातं निहतत्वात् इत्यर्थः । रतिमान् प्रजासु अनुरागवान् राजा वत्सेश्वरः । जनस्य चित्ते वसन् लोकचित्तहारी प्रकृतिप्रियत्वात् प्रियवसन्तकः प्रियः वसन्तकः तन्नामा विदूषकः यस्य सः साक्षात् एव निजमहोत्सवदर्शनाय निजः आत्मीयः स्वकः आत्मना प्रवर्त्तितत्वात्, यः महोत्सवः कामदेवोत्सवः तस्य दर्शनाय वत्सेश्वरः कुसुमचापः कामदेव इव अभ्युपैति आगच्छति । ( कुसुमचापपक्षे )—विश्रान्ता विग्रहस्य शरीरस्य कथा यस्य कामदेवस्य, तस्य शिवरोषानले भस्मीभूतत्वात् अनङ्गत्वम् । रतिमान् रतिः कामदेवस्य स्त्री विद्यते अस्य इति । जनस्य चित्ते वसन् कामदेवस्य मनोभवत्वात् मनसिजत्वात् इति यावत् । प्रियवसन्तकः प्रियः वसन्तः वसन्तर्तुः यस्य सः ‘शेषाद् विभाषा’ इति समासान्त-कप् । साक्षात् एव शरीरं परिगृह्णन् एव निजमहोत्सवदर्शनाय मदनमहोत्- सवदर्शनाय अभ्युपैति आगच्छति । वसन्ततिलकं वृत्तम् । तल्लक्षणम्—‘ज्ञेयं वसन्ततिलकं तभजा जगौ गः ।’ श्लेषानुप्राणितोपमालङ्कारः । साक्षात् एव इत्यादी उत्प्रेक्षालङ्कारश्च । तयोः संसृष्टिः ॥ ८ ॥ विष्कम्भकः । तल्लक्षणम् दशरूपके—‘‘वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः’’ इत्यादि । Prose. विश्रान्तविग्रहकथः रतिमान् जनस्य चित्ते वसन् प्रियवसन्तकः साक्षात् एव निजमहोत्सवदर्शनाय पर्युत्सुकः वत्सेश्वरः कुसुमचाप इव अभ्युपैति ॥ ८ ॥ Beng. Trans. ( यवनिकामध्ये कोलाहलशब्द ) ( श्रवण করিয়া ) অহো মৃদঙ্গের মৃদুমধুর তাড়নের সহিত অনুগত সঙ্গীত দ্বারা মনোরম চর্চ্চরীধ্বনি ( মিশ্রী- কৃতবাদ্য ) উত্থিত হইতেছে। তাহাতে আমার বিবেচনা হইতেছে যে মদন- মহোৎসবের দ্বারা মহীয়ান্ পৌরজনের আনন্দ দেখিবার জন্য প্রাসাদের দিকে মহারাজ গিয়াছেন। (রাজপক্ষে—বৎসেশ্বর) যুদ্ধাদির কথা নিবৃত্ত হওয়ায় প্রকৃতিপুঞ্জে অনুরাগবান্ হইয়া লোকের চিত্ত আকর্ষণ করতঃ বয়স্য বসন্তকের সহিত নিজের অনুষ্ঠিত মদনোৎসব দেখিবার জন্য উৎসুক হইয়া কামদেবের ন্যায় আসিতেছেন। [ ( মদনপক্ষে ) কামদেব শরীরের কথা ভুলিয়া ( অর্থাৎ অনঙ্গরূপে ) রতিদেবীর সহিত জনগণের চিত্তে বসতি লাভ করতঃ প্রিয় সখা বসন্তঋতুর সহিত যেন সশরীরে নিজের মহোৎসব দর্শন করিবার জন্য উৎসুক হইয়া আগমন করিতেছেন ]। ৮।

প্রথমোঽঙ্কঃ 23 ( ঊর্দ্ধে অবলোকন করিয়া ), অহো, এই যে মহারাজ প্রাসাদে অধিরোহণ করিয়াছেন অতএব গৃহে যাইয়া অবশিষ্ট কার্য্য চিন্তা করিব। ( প্রস্থান ) বিষ্কম্ভক সমাপ্ত Eng. Trans. (A tumultuous noise behind the scenes) Oh, as there arises the hum of merriment of the people of the city sweetened by a song accompanied by a tabor gently beaten, so I think that the king has started towards the palace to enjoy the merriment of the citizens accentuated by the spring- festival as arranged by himself. Eager as it were to see his own festival, verily the lord of Vatsa comes forth like the flower-bowed deity himself setting at rest all tales of war ( or of body ), full of joy ( or accompanied by his consort Rati ) dwelling in the hearts of the people and attended by his favourite Vasantaka (or Spring). 8 ( Looking up ) Ah, now his Majesty has already ascended the palace-top. So, now I will go home and think out wha remains to be done. Here ends the Prelude.

(ततः प्रविशत्यासनस्थो गृहीतवसन्तोत्सववेषो राजा विदूषकश्च) राजा—( सगर्वमवलोक्य ) सखे वसन्तक ! विदूषकः—आणावेदु भवं । (क) राजा—राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः । प्रद्योतस्य सुता वसन्तसमयस्त्वं चेति नाम्ना धृतिं कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः ॥८॥ (क) आज्ञापयतु भवान् । राज्यम् इति । राज्यं निर्जितशत्रु, निर्जिताः शत्रवः यस्य तत् राज्यमित्यस्य विशेषणम् । योग्यसचिवे यौगन्धरायणे समस्तः भरः न्यस्तः दत्तः । प्रजाः प्रकृतयः प्रशमिताशेषोपसर्गाः प्रशमिताः दूरीकृताः अशेषाः उपसर्गाः उपप्लवाः यासां ताः, एवं सम्यक्पालनेन लालिताः संवर्द्धिताः भवन्ति । प्रद्योतस्य अवन्तीश्वरस्य सुता वासवदत्ता मत्पत्नी रमणीयगुणसम्पन्ना इत्यर्थः । त्वं विदूषकः इत्यर्थः । वसन्तसमयश्च अयम् । युवयोः उभौ वसन्तविदूषकौ परमानन्द- प्रदौ इत्यभिप्रायः । कामः मदनः नाम्ना मदनोत्सव इति निजनाम्ना उत्सवस्य अनुष्ठितत्वात् कामं पर्याप्तं धृतिं सन्तोषं उपैतु प्राप्नोतु, उत्सवस्य तन्नामभावेन एव तस्य चानन्दो भवतु । अहं मन्ये, मम पुनः अयं महान् उत्सवः प्रजानामुपद्रवादिविहीनत्वात् । एतेन राज्ञः उदयनस्य लोकप्रियत्वं व्यज्यते । शार्दूलविक्रीड़ितं वृत्तम् । राज्ञः महोत्सवं प्रति पूर्व्व- पूर्व्वपदानां हेतुतया काव्यलिङ्गमलङ्कारः । महोत्सवोपभोगे कामदेवापेक्षया राज्ञः उत्कर्षे व्यज्यमाने व्यतिरेकालङ्कारध्वनिः । अत्र श्लोके नायकस्य धीरललितत्वम् उक्तम् ॥८॥ Prose. राज्यं निर्जितशत्रु ( भवति ), योग्यसचिवे समस्तः भरः न्यस्तः । प्रजाः प्रशमिताशेषोपसर्गाः (सत्यः ) सम्यक्पालनलालिताः (भवन्ति)। प्रद्योतस्य सुता, वसन्त- समयः त्वं च ;—इति नाम्ना कामः कामं धृतिमुपैतु, मम पुनः अयं महान् उत्सवः ( इति ) मन्ये ॥८॥

প্রথমোঽঙ্কঃ 25 Beng. Trans. ( তারপর বসন্তোৎসবের বেশ ধারণ করিয়া আসনোপবিষ্ট রাজা ও বিদূষক প্রবেশ করিলেন ) রাজা ( আনন্দের সহিত অবলোকন করিয়া )—সখে বসন্তক ! বিদূ—মহারাজ আদেশ করুন। রাজা—রাজ্য শত্রুশূন্য হইয়াছে, যোগ্য অমাত্যের উপর সমস্ত ভার ন্যস্ত করা হইয়াছে। নানাপ্রকার উপদ্রব দূরীভূত হওয়ায় প্রজাগণ সম্যগ্রূপে পরিপালিত হইতেছে। মহারাজ প্রদ্যোতের কন্যা ( আমার স্ত্রী বাসবদত্তা ), তুমি এবং এই বসন্তকাল ( রহিয়াছ ) ; ইহাতে মদনদেব উৎসবের নামমাত্রেই সন্তোষলাভ করুন ; কিন্তু আমি মনে করি, ইহা আমার পক্ষে একটা মহান্ উৎসব ॥৯॥ Eng. Trans. ( Then enter the king and the jester attired in the costume of the Spring-festival and seated on seats) King. ( Looking with joy ) My dear Vasantaka ! Jester. What does your Majesty command ? King. My kingdom is bereft of enemies ; the charge has been laid upon a worthy minister. The subjects have been duly looked after on occount of all of their troubles being removed. Here are the daughter of Pradyota, the spring season and yourself. Let the god of love attain satisfaction as much as he can from the mere name of the festival ; but I think it is a great festival to me. 9. Eng. Expl. Here the king Udayana attending the Spring- festival refers to the self-complacence which he has got, in course of his speech with the jester. As a dutiful king he has purged the state of all disturbing elements; he has relieved his own people of all troubles that often visited them; he has confidently laid all the charges of the kingdom over his faithful and worthy minister Yaugandharáyana. He has got a qualified wife like Vāsavadattá the daughter of king Pradyota. The ever-gay jester Vasantaka was there ; the time was the charming spring season. Considering all these favourable and joyful circumstances the king says that under the collocation of these circumstances he

26 रत्नावली feels a unique joy ; but as regards the god of love, he merely attains satisfaction by the festivity being celebrated in his name only. This shows how king Udayana was a dutiful king and much light is thrown on his character by this stanza. विदूषकः—( सहर्षम् ) भो वयस्स, एव्वं णेदं। अहं उण जानामि ण भबदो ण कामदेवस्स मम ज्जेब्ब एक्कस्स बह्मणस्स¹ अयं मअणमहुस्सबो जेण² पियवयस्सेण एव्वं मन्तोअदि। ( विलोक्य ) ता किं उण इमिणा। पेक्ख दाव इमस्स महुमत्त- कामिणीजणसअंगाहग्गहिदसिङ्गकजलप्पहारणच्चन्तणाअरजणज- णिदकोदूहलस्स समन्तदो सुब्बत्त³महल्लुद्दामचच्चरीसद्दमुहर- रच्छामुहसोहिणो पइण्णपड़वासपुञ्जपिञ्जरिज्जन्त⁴दिसामुहस्स सिरिअं⁵ मअण-महुस्सबस्स। (क) राजा—( सहर्षं समन्तादवलोक्य ) अहो, परां कोटिमधिरोहति प्रमोदः पौराणाम्। (क) भो वयस्य, एवं न्विदम्। अहं पुनर्ज्ञानामि न भवतः न कामदेवस्य मम एव एकस्य ब्राह्मणस्य मदनमहोत्सवो येन प्रियवयस्येन एवं मन्यते। तत् किं पुनरनेन। प्रेक्षस्व तावत् अस्य मधुमत्तकामिनीजनस्वयंग्राहगृहीतशृङ्गकजलप्रहारनृत्यन्नागरजनजनितकौतूहलस्य समन्ततः सुवृत्तमहल्लोद्दामचर्चरीशब्दमुखररथ्यामुखशोभिनः प्रकीर्णपट-वासपुञ्जपिञ्जरीकृत- दिशामुखस्य श्रियं मदनमहोत्सवस्य। भो वयस्य इति। वयस्य इति राजानमुद्दिश्य सम्बुद्धिः। 'वयस्य राजन्निति भवेद् वाच्यो महीपतिः'—इति भरते। अयमेव उत्सवः अस्य ब्राह्मणस्य न वायं तव न वा कामदेवस्य। मधुना वसन्तोत्सवेन मत्तः कामिनीजनः तस्य स्वयं ग्राहः स्वेच्छया ग्रहणं तेन गृहीतानि यानि शृङ्गकानि (पिचकारीति भाषा ) तन्निर्गतं जलं तस्य प्रहारः तेन नृत्यन्तः पौराः ये जनाः तैः जनितं कौतूहलं यस्मिन् तस्य मदनमहोत्सवस्य 1 बह्मणस्स अयं। 2 जह्म। 3 सुब्भन्त। 4 दइ। 5 ससिरिचदं।

प्रथमोऽङ्कः 27 इत्यस्य विशेषणम् । सुवृत्तं सुवर्त्तुलं सुनिषादितं वा, क्षुभ्यन्त इति पाठे शब्दायमानम्, यत् मद्दलं वाद्ययन्त्रविशेषः तेन या उद्दामा चर्चरी गीतमिश्रवाद्यविशेषः तस्याः शब्दः तेन मुखरा शब्दायमाना या रथ्या राजपथः तस्य मुखानि तैः शोभते तस्य । प्रकीर्णाः विक्षिप्ताः ये पटवासाः पिष्टातकाः (आबिर इति भाषा) । तेषां पुञ्जं तेन पिञ्जरीकृतानि दिशामुखानि दिक्मण्डलानि यस्मिन् तथाविधस्य । परां कोटिं परां काष्ठाम् । अधिरोहति आरोहति । Beng. Trans. বিদূষক (সহর্ষে)—হে বয়স্য, ঠিক তাই। আমি কিন্তু জানি যে এই মদনোৎসব আপনারও নয়, কামদেবেরও নয়, ইহা কেবল একা এই ব্রাহ্মণের জন্যই যাহার জন্য প্রিয় বয়স্য এইরূপ বলিতেছেন। যাক্, এই দেখুন যে মদনমহোৎসবে মদ্য- পানে মত্ত কামিনীগণ নিজ নিজ শৃঙ্গক (অর্থাৎ পিচকারী) স্বহস্তে ধরিয়া জলক্ষেপণ করায় নৃত্যশীল নাগরিক পুরুষগণ কৌতূহলের সৃষ্টি করিতেছে, যাহাতে চতুর্দ্দিকে সুবর্ত্তুল মদ্দল- যোগে উদ্দাম গীতধ্বনি দ্বারা মুখর রাজপথসমূহ শোভা পাইতেছে এবং যাহাতে সমস্ত দিগ্মণ্ডল উৎক্ষিপ্ত পটবাস (অর্থাৎ আবিরচূর্ণ) দ্বারা পিঙ্গল বর্ণ ধারণ করিয়াছে সেই মদন- মহোৎসবের শোভা সন্দর্শন করুন। রাজা—(আনন্দের সহিত চতুর্দ্দিকে অবলোকন করিয়া) অহো, পৌরজনগণের আনন্দ পরা কাষ্ঠা লাভ করিয়াছে। Eng. Trans. Jester ( Joyfully )—O friend, it is so. But I know that this Cupid festivity is not meant for you nor for the god of love but only for this Brahmana (or Brahmana-lad—diff. read.) of whom my dear friend has spoken thus. What is the use of this talk? Now, observe the beauty of this great festival of Cupid,—in which much curiosity (gaiety) has been created by the citizens (males) dancing—as they are struck by showers of water issuing out of the syringes taken of their own accord by the women drunken with wine,—which is beautified by the openings of the streets being resounded with songs (or clappings of hands) accompanied by the sounds of the round tabors beaten on all sides,—and in which the quarters have been coloured by heaps of red powders ( patavasa ) scattered all round. King (Joyfully looking around )—Ah! the pleasure of the citizens is attaining its climax.

28 रत्नावली तथाहि— कीर्णैः पिष्टातकौघैः कृतदिवसमुखैः कुङ्कुमक्षोदगौरै¹- र्हेमालङ्कारभाभिर्भरनमितशिरः²शेखरैः कैङ्किरातैः । एषा वेषाभिलक्ष्यस्वविभवविजिताशेषवित्तेशकोशा कौशाम्बी शातकुम्भद्रवखचितजनेवैकपीता विभाति ॥१०॥ अपिच— धारायन्त्रविमुक्तसन्ततपयःपूरैः स्नुते³ सर्व्वतः सद्यः सान्द्रविमर्दकर्द्दमकृतक्रोड़े क्षणं प्राङ्गणे । उद्दामप्रमदाकपोलनिपतत्सिन्दूररागारुणैः⁴ सैन्दूरीक्रियते जनेन⁵ चरणन्यासैः पुरः कुट्टिमम् ॥११॥ विदूषकः । (विलोक्य) एव्वं पि सुविअद्ध-जणजलभरि- दसिङ्गकजलप्पहारमुक्कसिक्कारमणोहरं बारविलासिणीजणविल- सिदं आलोएदु पियवयस्सो । (क) (क) एवमपि सुविदग्धजनजलभरितशृङ्गकजलप्रहारमुक्तसीत्कारमनोहरं वार- विलासिनीजनविलसितमालोकयतु प्रियवयस्यः । तथाहि । कीर्णैः उत्क्षिप्तैः कुङ्कुमक्षोदगौरैः कुङ्कुमस्य चूर्णवत् गौरैः अरुणैः ‘गौरोऽरुणे’ इत्यमरः । कृतदिवसमुखैः कृतं दिवसस्य मुखं प्रत्यूष इत्यर्थः, यैः उत्कीर्णारुण- पटवासैः निखिलदिवसं प्रत्यूष इव विभातीत्याशयः । तद्वत् पिष्टातकौघैः पटवास- पुञ्जौः हेमालङ्कारभाभिः सुवर्णालङ्कारदीप्तिभिः । कैङ्किरातैः किङ्किराताः अशोकाः तेषां विकारैः पुष्पैरित्यर्थः । भरेण नमितम् आनतं शिरसः शेखराणि येषां तैरशोकपुष्पैः अरुण- वर्णैः, भरनमितशिखैः इति पाठे शेखरैः इत्यस्य विशेषणत्वम् । वेषेण वस्त्रादिना 1 क्षोदवासैः । 2 नमितशिखैः । 3 प्लुते । 4 विकसत्सिन्दूरसान्द्रारुणम् । 5 जनस्य ।

प्रथमोऽङ्कः । २९ अभिलक्ष्यः अनुमेयः स्वविभवः स्वकीयैश्वर्य्यं तेन विजिताः अशेषस्य विशेषस्य कुवेरस्य कोशाः वित्तसञ्चयाः यया सा कौशाम्बी नगरी शातकुम्भं सुवर्णं 'तपनीयं शातकुम्भम्' इत्यमरः तस्य द्रवः तेन खचिताः अलङ्कृताः जनाः यस्यां सा । सर्व्ववारुणवर्णदर्शनादेवमुत्प्रेक्षा । किञ्च एकः प्रधानः पीतवर्णः यस्याः सा विभाति शोभते । कौशाम्बी नगरी सर्व्वथा पीत- वर्णा परिलक्ष्यते जनैः । स्रग्धरावृत्तम् । उत्प्रेक्षालङ्कारः । कौशाम्ब्याञ्च मदनोत्- सवे लोकातिशयसम्पत्तिवर्णनादुदात्तालङ्कारः ॥ १० ॥ अपिच—धारायन्त्र इति । धारायन्त्रैः शृङ्गकैः नलिकाभिर्वा विमुक्तं सन्ततं निरवच्छिन्नं यत् पयःपूरं जलप्रवाहः तेन प्लुते व्याप्ते सद्यः सान्द्राः निविड़ाः ये विमर्द्दाः पादैः निष्पेषाः तैः यः कर्द्दमः तस्मिन् क्रीडा यस्मिन् प्राङ्गणे चत्वरे उद्दामानाम् अप्रतिबन्धं नृत्यन्तीनां क्रीडन्तीनां वा प्रमदानां कपोलेभ्यः निपतत् यत् सिन्दूरं तस्य रागेण लौहित्येन अरुणैः रक्तवर्णैः चरणन्यासैः पदविन्यासैः पुरः, पुनः इति पाठो वा । कुट्टिमं बद्धभूमिः जनेन सेन्दूरीक्रियते अरुणीक्रियते सिन्दूरं क्रियते इति वा पाठः । शार्दू'लविक्रीड़ितं वृत्तम् । ॥११॥ सुविदग्धाः क्रीड़ाविषये अभिज्ञाः 'छेकी विदग्ध इति । सीत्कारः जलपतनशैत्यात् सीत् इति शब्दाः । वारस्य समूहस्य विलासिन्यः सर्व्वसामान्याः स्त्रियः गणिकाः । Prose. कीदृशैः कुङ्कुमक्षोदगौरैः कृतदिवसमुखैः पिष्टातकौघैः हेमालङ्कारभाभिः भरनमितशिखरैः कैङ्किरातैः ( अथवा भरनमितशिखैः कैङ्किरातैः शेखरैः—इति पाठः ) वेशाभिलक्ष्यस्वविभवविजिताशेषवित्तेशाकीशा एषा कौशाम्बी शातकुम्भद्रवखचितजना इव एकपीता विभाति ॥ १० ॥ सर्व्वतः धारायन्त्रविमुक्तसन्ततपयःपूरप्लुते सद्यः सान्द्रविमर्द्दकर्द्दमलसत्क्रीड़ प्राङ्गणे चत्वम् उद्दामप्रमदाकपोलनिपतत्सिन्दूररागारुणैः चरणन्यासैः जनेन पुरः कुट्टिमं सेन्दूरीक्रियते ( अथवा, पाठान्तरे सिन्दूरं क्रियते ) ॥ ११ ॥ Beng. Trans. দেখ, কুঙ্কুমচূর্ণের ন্যায় অরুণবর্ণ ও ইতস্ততঃ উৎক্ষিপ্ত যে আবীরচূর্ণ ( সকল সময়ে ) প্রত্যূষের সৃষ্টি করিয়াছে, সেই আবীরচূর্ণ ও স্বর্ণালঙ্কারের দীপ্তি, এবং ভারাবনত অশোকপুষ্পের শিখরসমূহ দ্বারা কৌশাম্বীনগরী নিরবচ্ছিন্ন পীতবর্ণ ধারণ করিয়াছে ও ইহার জনসমূহ গলিতসুবর্ণ দ্বারা খচিত বলিয়া মনে হইতেছে ; এবং এই নগরীর বস্ত্রালঙ্কারাদি দর্শনে মনে হইতেছে যে ইহা স্বকীয় বিভব দ্বারা কুবেরের সমস্ত বিত্তসঞ্চয়কে পরাজিত করিয়াছে ॥১০॥

30 রত্নাবলী পুনশ্চ—ধারাযন্ত্রবিমুক্ত অবিচ্ছিন্ন জলপ্রবাহ দ্বারা সমগ্র প্রাঙ্গণ পরিপ্লুত হইলে তথায় জনসমূহ পদনিক্ষেপের দ্বারা সদ্যঃ সমুখিত কর্দ্দমে ক্রীড়া করিতেছে ; এবং উদ্দাম রমণীগণের কপোলস্থল হইতে বিচ্যুত সিন্দূররাগের দ্বারা অরুণিত চরণবিক্ষেপের দ্বারা এই প্রাঙ্গণের দৃঢ়বদ্ধ ভূমিতল ( কুট্টিম ) কিছুক্ষণের জন্য রক্তবর্ণ ধারণ করিতেছে। ১১। Since— Eng. Trans. The city of Kaushambi whose own riches displayed by the garments have surpassed the entire treasury of the lord of wealth, glitters yellow everywhere as if its people are all covered with liquid yellow gold with the scattered heaps of Pistataka (red powder), as red as saffron- powder, imparting the spectacle of day-break ( down ),— and with Ashoka flowers, having their tops bent down under their weight and with the brilliance of golden ornaments. Again,— In the courtyard which has been all through flooded with showers of water continuously issuing from artificial fountains ( or syringes ) the people are playing in the mud created afresh by the heavy tread of feet, ; and the paved floor is rendered red by the people with their foot-prints that are red on account of the vermilion-powders falling from the brow of the boisterous ladies. 11. Jester (Looking)—O dear friend, behold the sporting of the courtesans charming on account of the hissing sound (Sitkara) uttered by them owing to their being struck with the showers of water issuing from the syringes filled with water by the gallants. राजा—( विलोक्य ) वयस्य, सम्यग् दृष्टं भवता¹ । कुतः— अस्मिन् प्रकीर्णपटवासकृतान्धकारे दृष्टो मनाङ् मणिविभूषणरश्मिजालैः । पातालमुद्यतफणाकृतिमङ्गकोऽयं मामद्य संस्मारयतीव² भुजङ्गलोकः ॥१२॥ 1 ख्या। 2 तौव।

प्रथमोऽङ्कः 31 विदूषकः :—( विलोक्य¹ ) भो वयस्स, पेक्ख पेक्ख । एसा क्खु मदणिआ मदणबसबिसंट्ठु लं बसन्ताभिणअं² णच्चन्ती चूअलदिआए सह इदो ज्जेब्ब आगच्छदित्ति अबलोएदु³ पिअबअस्सो ॥ (क) (क) भो वयस्य, प्रेक्षस्व प्रेक्षस्व । एषा खलु मदनिका मदनवशविसंष्ठुलं वसन्ता- भिनयं नृत्यन्ती चूतलतिकया सह इत एवागच्छतीत्यवलोकयतु प्रियवयस्यः । अस्मिन् मदनमहोत्सवे प्रकीर्णः यः पटवासः पिष्टातकः तेन कृतः अन्धकारः अतिप्रभूतपिष्टातकपटेन सूर्यकिरणाव्यवधानात्, तस्मिन् । मणिमयानि विभूषणानि तेषां रश्मिजालैः । ( सर्पपक्षे ) मणयः एव विभूषणानि तेषां रश्मिजालैः । मनाक् ईषत् दृष्टः उद्यताः उत्थिताः फणा इव आकृति

32 রত্নাবলী অস্পষ্টভাবে দেখা যাইতেছে যে, কামুকগণ সর্পফণাকৃতি পিচকারিগুলি উত্তোলিত করিতেছে। শিরোমণির কিরণসমূহ দ্বারা ঈষৎ দৃষ্ট সর্পগণ শৃঙ্গকাকৃতি ফণা উত্তোলন করিয়া (যে পাতালপুরীতে অবস্থান করে)—ইহা যেন আজ আমাকে সেই পাতালপুরী স্মরণ করাইয়া দিতেছে॥১২॥ বিদূষক—(অবলোকন করিয়া) বয়স্য, দেখুন দেখুন—এই সেই মদনিকা মদনাবেশে ব্যাকুল হইয়া বসন্তকালোচিত নৃত্য করিতে করিতে চূতলতিকার সহিত এইদিকে আসিতেছে। Eng. Trans. King (Looking)—My friend, you have marked well ; for, in this darkness created by the clouds of Patavāsa dust, the host of dissolute people lifting up their syringes shaped like the hoods of snakes, (or snakes lifting up their syringe-like hoods), dimly perceptible through masses of rays of jewel-ornaments (or hood-gems) reminds me of the subterranean world. 12. Jester—Behold, my friend, how this Madaniká accompanied by Chutalatiká is coming towards this direction dancing the Spring-dance (or the dance in the manner suited to the spring season), completety overcome with the influence of the passion of love. ( ततः प्रविशति मदनलीलां नाटयन्त्यौ द्विपदीखण्डं गायन्त्यौ चेट्यौ ) मदनिका¹ ( गायति ) कुसुमाउहपिअदूओ मउलोकिदबहुचूओ। सिढिलिअमाणमहत्थो वाअदि दाहिणपवणओ ॥१३॥ (क) ²विअसिअबउलासोओ ³उक्कण्ठिअपिअमेलओ। पडिवालनअसमत्थो तम्मइ जुवईसत्यओ ॥१४॥ (ख) (क) कुसुमायुधप्रियदूतको मुकुलायितबहुचूतकः। शिथिलितमानमहत्त्वको वाति दक्षिणपवनकः ॥१३॥ (ख) विकसितबकुलाशोक उत्कण्ठितप्रियमेलकः। प्रतिपालनसमर्थस्ताम्यति युवतिसार्थकः ॥१४॥ 1 चेट्यौ। 2 विरलविसट्ठिअ, विअसिअबउलामोअओ। 3 उक्कंठिअपिअजणओ।

प्रथमोऽङ्कः ३३ अथवा— इह पढमं मधुमासो जणस्स हिअआइं कुणइ मिउलाइं । पच्छा बिज्झइ कामो लद्धपसरेहिं कुसुमबाणेहिं ॥१५॥ (ग) (ग) अथवा, इह प्रथमं मधुमासः जनस्य हृदयानि करोति मृदुलानि । पश्चात् विध्यति कामी लब्धप्रसरैः कुसुमबाणैः ॥१५॥ द्विपदी छन्दोविशेषः प्राकृतपैङ्गले उक्तः, कुसुमायुधेति । कुसुमायुधस्य प्रियः दूतः समासान्तः कपप्रत्ययः । दक्षिणपवनस्य कामोद्दीपकत्वाद् इत्यर्थः । मुकुलानि सञ्जातानि एषाम् इति मुकुलायितानि । शिथिलितं शिथिलं कृतं मानस्य अभिमानस्य ग्रन्थणं यस्मिन् इति समासान्त-कप् । दक्षिणपवने प्रवहति मानिनीनां मानशैथिल्यं जायते इत्यर्थः ॥ १३ ॥ विकसितेति ॥ वसन्ते बकुलाशोकानां पुष्पोद्गमः जायते युवतीनां पादताड़नात् मधुगण्डूषदानेन च । उत्कण्ठितः विरहाद् इत्यर्थः, यः प्रियजनः तस्य मेलकः सङ्गमयिता ; वसन्तसमागमे दक्षिणपवने प्रवाति रागातिशयात् अभिमतजनानां परस्परं 'मिलनं सञ्जायते मानापगमात् । प्रतिपालने प्रतीक्षायां असमर्थः । युवतीसार्थकः युवतीसमूहः ताम्यति म्लायति ॥ १४ ॥ इहेति । लब्धप्रसरैः लब्धावकाशैः ॥ १५ ॥ Prose. कुसुमायुधप्रियदूतकः मुकुलायितबहुचूतकः शिथिलितमानग्रन्थकः दक्षिणपवनकः वाति ॥ विकसितवकुलाशोककः उत्कण्ठितप्रियमेलकः प्रतिपालनासमर्थकः युवतीसार्थकः ताम्यति ॥ इह प्रथमं मधुमासः जनस्य हृदयानि मृदुलानि करोति । पश्चात् कामः लब्धप्रसरैः कुसुमबाणैः विध्यति ॥ १३, १४, १५ ॥ Beng. Trans. (অনন্তর মদনাবেশ অভিনয় ও দ্বিপদীখণ্ড নামক সঙ্গীত গান করিতে করিতে দুইজন দাসীর প্রবেশ) মদনিকা—(গান করিতে লাগিল) পুষ্পবাণ মদনের প্রিয়দূত দক্ষিণপবন আম্রতরুসমূহকে মুকুলিত করিয়া মানিনী- গণের মানগ্রন্থি শিথিল করতঃ প্রবাহিত হইতেছে ।১৩। (মুখগণ্ডূষ ও পদতাড়নের দ্বারা) বকুল ও অশোকবৃক্ষকে পুষ্পিত করিয়া উৎকণ্ঠিত 3