भारतकोश
संग्रह पर लौटें

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

४० देवतामूर्तिप्रकरणम् नाडीगतऋक्ष-(नाडीवेध-) विचारः- नाड्यस्तिस्रः; प्राङ्नाडी, मध्यनाडी, पृष्ठनाडी च। प्राङ्नाडीस्थनक्षत्राणि- १ ६ ७ १२ १३ १८ १९ २४ २५ अश्विनी, आर्द्रा, पुनर्वसुः, उत्तरफल्गुनी, हस्ता, ज्येष्ठा, मूला, शतभिषा, पूर्वभाद्रपदश्च। मध्यनाडीस्थनक्षत्राणि- २ ५ ८ ११ १४ १७ २० २३ भरणी, मृगशिराः, पुष्या, पूर्वफल्गुनी, चित्रा, अनुराधा, पूर्वाषाढा, धनिष्ठा, २६ उत्तरभाद्रपदश्च। पृष्ठनाडीस्थनक्षत्राणि- ३ ४ ९ १० १५ १६ २१ २२ २७ कृत्तिका, रोहिणी, अश्लेषा, मघा, स्वाती, विशाखा, उत्तराषाढा, श्रवणा, रेवती च एकं त्रिनाडीचक्रं विलिख्य तत्र नाडीवेधविचारं कुर्यात्। यदि कर्त्तुः कर्मदिनस्य च नक्षत्रमेकनाडीस्थं भवेत्तदा नाडीवेधदोषो भवति। नाडीवेधदोषगते नक्षत्रे प्रतिमाघटनं निषिद्धम्। प्रतिप्रसवः- एकराश्यादियोगे तु नाडीदोषो न विद्यते। कर्त्तुः कर्मदिनस्य च सत्येकराशौ दोषोऽसौ न स्यात्। इत्यादि। त्रिनाडीचक्रम्।

आद्यनाडीमध्यनाडीपृष्ठनाडी
१२१११०
१३१४१५
१८१७१६
१९२०२१
२४२३२२
२५२६२७

प्रथमोऽध्यायः ४१ देवादित्रिकूट( गण- )विचार :— गणस्त्रिविधः, देवगणः, नरगणः, राक्षसगणश्च । जन्मनक्षत्रेण जातकस्य गणो निरूप्यते । तद् यथा— हस्ता, स्वाती, मृगशिराः, अश्विनी, श्रवणा, पुष्या, रेवती, अनुराधा, पुनर्वसुः । एषु जातो देवगणः । आर्द्रा, रोहिणी, उत्तरफल्गुनी, उत्तराषाढा, उत्तरभाद्रपदम्, भरणी, पूर्वफल्गुनी, पूर्वाषाढा पूर्वभाद्रपदम् । एषु जातो नरगणः । ज्येष्ठा, अश्लेषा, विशाखा, मूला, शतभिषा, धनिष्ठा, कृत्तिका, चित्रा, मघा । एषु जातो राक्षसगणः । यस्मिन् नक्षत्रे प्रतिमा निर्मीयते तत् प्रतिमाया जन्मनक्षत्रम् । तेन च नक्षत्रेण प्रतिमाया गणनिरूपणं स्यात् । कर्मकर्तृगणेन सह प्रतिमागणमिलनदिवसे प्रतिमाघटनं कुर्यात् । मिलनञ्च वक्ष्यमाणरीत्या ज्ञेयम् । गणशुभाशुभकथनम् स्वजातौ परमा प्रीतिर्मध्यमा देवमानुषे । देवासुरे विरोधश्च मृत्युर्मानुषराक्षसे ॥ इति देवता—६

द्वितीयोऽध्यायः [ माननिर्णयः ] छाया रेणु(श्र?) बालाग्र-लिख्षा-यूका यवोऽङ्गुलः । क्रमाद्दशगुणं मानं ज(जि?)नसंख्यैः करा(रोऽ?)ङ्गुलैः ॥१॥ १ । छायेति । एतेषां छायाद्यङ्गुलान्तानां सप्तानां पदार्थानां यथोत्तरं दशगुणं मानमित्यर्थः । तथा च—छायाया दशगुणं रेणोर्मानम्, रेणोर्दशगुणं बालाग्रस्य केशकोटेर्मानम्, ततो दशगुणं लिक्षस्य, ततो दशगुणं यूकस्य, ततो दशगुणं यवस्य, ततो दशगुणञ्चाङ्गुलस्य मानमिति स्पष्टार्थः । अत्र छायापदार्थनिर्णयो दुष्करः, कापि तादृशार्थकपाठानुपलब्धेः । बृहत्संहितायाम्— परमाणुरजोबालाग्रलिक्षयूकं यवोऽङ्गुलं चेति । अष्टगुणानि यथोत्तरमङ्गुलमेकं भवति संख्या ॥ ( अ० ५७, २ श्लो० ) इति छायास्थाने परमाणुपदमाह । अन्यत्र परमाणुस्वरूपमुक्तम्— जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः । प्रथमं तत् प्रमाणानां परमाणुं प्रचक्षते ॥ इति । तस्मादत्र छायापदं परमाणुसमानार्थकमिति प्रतीमः । रेणुश्चान्यत्र रजःपदेन व्यपदिष्टस्त्रस- रेणुरूपः । तथा च शिल्परत्नपूर्वभागे मानमधिकृत्य— परमाणुरिति प्रोक्तो योगिनां दृष्टिगोचरः । त्रसरेणुरष्टभिः स्यात्तैरेव परमाणुभिः ॥ तदष्टभिस्तु बालाग्रं लीक्षा बालाग्रकाष्टभिः । इति ( अ० २, १-२ श्लो० ) एतदपि स्मृत्यन्तरविरुद्धम्, 'अणुद्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः' ( स्क-३, अ० ११, श्लो० ५ ) इति भागवतीयात् । यव इति यवोदरम् ; तथा च शब्दकल्पद्रुमधृत-लीलावत्याम्— 'यवोदरैरङ्गुलमष्टसंख्यैर्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः । इति । शिल्परत्नपूर्वभागेऽपि 'यवोदरैः षड्गुणैर्वा' इत्युक्तम् । शब्दकल्पद्रुमे तिथ्यादितत्त्वधृत- कालिकापुराणमपि— यवानां तण्डुलैरेवमङ्गुलं चाष्टभिर्भवेत् । अदीर्घयोजितैः ... ... ॥ इत्याह ।

क्रमाद्दशगुणमिति । एतच्चिन्त्यम्, पूर्वोद्धृतबृहत्संहितादिवचनेष्वष्टभिः परमाणुभी रज इत्यादिक्रमेणाष्टगुणवृद्धेरेव श्रवणात् । शिल्परत्नपूर्वभागे— यवोदरैः षड्गुणैर्वा सप्तभिर्वाऽधमादिकम् । क्रमादष्टगुणैर्वाऽथ मानाङ्गुलमिति स्मृतम् ॥ (अ० २, ३ श्लो०) इति मानविकल्पमुपदर्शयताऽपि तद्ग्रन्थकृता दशगुणस्यानुल्लेखात् । एतेनैतन्मतसम्मतश्चतुर्विंश- त्यङ्गुलकः करः क्रमादष्टगुणमानस्वीकर्तृ मते षडङ्गुलेनाधिको भवतीति ज्ञेयम् । तथा च एकस्मि- न्नङ्गुले यवद्वयवृद्ध्या चतुर्विंशत्यामङ्गुलेषु अष्टचत्वारिंशद्यववृद्धिनियता, ते चाष्टचत्वारिंशद् यवाः षडङ्गुलम् इति तेन सह मिलनात्त्रिंशदङ्गुलः करो भवति । सत्यपि प्रकारविरोधे नेदमपि करमानमप्रमाणम्, तथा च शिल्परत्नपूर्वभागे— अङ्गुलत्रितया मुष्टिर्वितस्तिर्द्वादशाङ्गुलिः । तद्द्वयं हस्तमुद्दिष्टं तच्च किष्कुरिति स्मृतम् । एकैकाङ्गुलवृद्ध्याऽतो भवन्त्यष्टौ कराः स्फुटम् ॥ प्राजापत्यं धनुर्मुष्टिश्चाप्रग्रहमतः परम् । प्राच्यां वैदेहकं नाम्ना वैपुल्यञ्च प्रकीर्त्तितम् । इत्थमेकोत्तरत्रिंशदङ्गुलान्ताः कराः स्मृताः ॥ (अ० २, ९-११ श्लो०) इत्येकत्रिंशदङ्गुलान्तमपि करमाह । तस्मान्मतान्तरमिदम् इति ज्ञेयम् । जिनसंख्यैरिति । जिनाश्चतुर्विंशतिः, चतुर्विंशत्याऽङ्गुलैः करो हस्त इत्यर्थः । तथा च बृहत्संहितायाम् (अ० ५७, २ श्लो०) उत्पलभट्टधृतवचनम्— तस्माद् रजः कचाग्रञ्च लिक्षा यूका यवोऽङ्गुलम् । क्रमादष्टगुणं ज्ञेयं जिनसंख्याङ्गुलैः करः ॥ इति । तस्मादिति परमाणोः, तस्यैव तत्र प्रकृतत्वात् । अङ्गुलस्य च मानाङ्गुलं मात्राङ्गुलम् इति द्वौ भेदौ । अधस्ताद् यदुक्तं तन्मानाङ्गुलम् । मात्राङ्गुलमुक्तं शिल्परत्नपूर्वभागे— तज्जन्तुर्दक्षिणकरमध्यमामध्यपर्वणः । दैर्घ्यं मात्राङ्गुलं श्रेष्ठं नीचं तद्व्याससम्मितम् ॥ इति (अ० २, ८ श्लो०) अस्यार्थः—कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलेर्मध्यपर्वणो यद् दैर्घ्यं तच्छ्रेष्ठं मात्राङ्गुलम्, तस्यैव मध्यपर्वणो विस्तारसम्मितञ्च कनिष्ठं मात्राङ्गुलम् इति । अनयोश्च कर्मभेदे विनियोगभेदमाह तत्रैव— मानाङ्गुलैः केवलमेव कुर्याद् देवालयादीनि गृहाणि वा नृणाम् । कुण्डादिकानामथ मण्डलानां सर्वत्र मात्राङ्गुलमिष्यते बुधैः ॥ इति (अ० २,१७ श्लो०) अत्र 'देवालयादीनि' इत्यादिपदाद्देवप्रतिमानामपि ग्रहणम् । काश्यपशिल्पेऽपि— 'मानाङ्गुलन्तु वा प्रोक्तं पुरप्रासादमानकम्' (अ० ५०, ३७ श्लो०) इत्युक्तम् ।

४४ देवतामूर्तिप्रकरणम् तस्याङ्गुलप्रमाणेन द्व्यङ्गुलं गोलकं भवेत् । कला च तत्समा प्रोक्ता द्वाभ्यां तु भागमे(ए?)व च ॥ २ ॥ [ तालमानकथनम् ] एभिरेव त्रिभिर्भागैस्तालमानं प्रकीर्तितम् । एकतालादि वक्ष्यामि यथा भवति नान्यथा ॥ ३ ॥ क्वचिच्च मानाङ्गुलं प्रतिमापरिमाणेनापि निर्णीयते । तथा च- ‘स्वैरङ्गुलप्रमाणैर्द्वादश विस्तीर्णमायतञ्च मुखम्’ (अ० ५७, ४ श्लो०) इत्यादिबृहत्संहितावचने ‘स्वै’रित्यस्य विवरणप्रसङ्गेनोक्तमुत्पलभट्टैः-“यस्मात् काष्ठात् पाषाणादिकाद्वा प्रतिमा क्रियते तद्दर्ध्यं पीठप्रमाणविवर्जितं द्वादशभागविभक्तं कृत्वा तत्रैको भागो नवधा कार्यः, सोऽङ्गुलसंज्ञा भवति । यस्मादष्टाधिकमङ्गुलशतं प्रतिमाप्रमाणं वक्ष्यति (अ० ५७, ३० श्लो०) । प्रतिमायाः ‘स्वैरात्मीयैरङ्गुलप्रमाणैः’ इत्यलं प्रसङ्गादागतस्य प्रपञ्चनेन । २। तस्येति । असमर्थमपीदं पदमगतिकतया ‘अङ्गुलप्रमाणेने’त्यस्यैकदेशेनाङ्गुलपदेन सामा- नाधिकरण्येनान्वीयते । तथा च तस्य प्रक्रान्तस्याङ्गुलस्य प्रमाणेनेत्यर्थः । तत्समेति गोलकसमा इति । द्व्यङ्गुलमानेत्यर्थः । द्वाभ्यामिति कलाभ्यां गोलकाभ्यां वा भागो भवति, अतस्तस्य चतुरङ्गुलं मानमित्यर्थः । तदुक्तं समराङ्गणसूत्रधारे- द्व्यङ्गुलो गोलको ज्ञेयः कलां वा तां प्रचक्षते । द्वे कले गोलकौ ( वाहौ ? वा द्वौ ) भागो मानेन तेन तु ॥ (अ० ७५, ३ श्लो०) ३ । एभिरिति । एतादृशैर्भागैस्तालमानम् एकतालस्य परिमाणं भवतीति शेषः । एवञ्च द्वादशभिरङ्गुलैरेकतालो भवतीत्यर्थः । तदुक्तं शुक्रनीतिसारे- स्वस्वमुष्टेश्चतुर्थोऽशो ह्यङ्गुलं परिकीर्त्तितम् । तदङ्गुलैर्द्वादशभिर्वेत्तालस्य दीर्घता ॥ इति । (अ० ४, प्र० ४, ८२ श्लो०) इदमत्र विवेचनीयम्-द्वादशाङ्गुलं तालस्य परिमाणमिति स्थिते दशतालप्रतिमा विंशत्यधिक- शताङ्गुलपरिमाणा भवति । दशतालप्रतिमा च- दशतालः स्मृतो रामो बलिवैरोचनिस्तथा । वराहो नारसिंहश्च ... ... ... ॥ (अ० २५९, १-२ श्लो०) इत्यनेन मत्स्यपुराणे उक्ता, ग्रन्थकृता चोपरिष्टात्- दशतालैर्भवेद्रामो बलिवैरोचन(नि ?)स्तथा । सिद्धाश्चैव जितेन्द्राश्च ऊर्ध्वांस्ते च प्रकीर्त्तिताः ॥ (अ० २, ९ श्लो०) इत्यनेन वक्ष्यते । एषामङ्गुलीसंख्याऽप्युक्ता बृहत्संहितायाम्- दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम् । द्वादशहान्या शेषाः प्रवरसमन्यूनपरिमाणाः ॥ इति (अ० ५७, ३० श्लो०)

द्वितीयाऽध्यायः ४५ एवञ्च रामादीनां प्रमाणं दश तालास्ते च विंशत्यधिकं शतमङ्गुल्य इत्यायातम् । एतेन— 'उत्तमं दशतालं स्याच्चतुर्विंशच्छताङ्गुलम्' ( शि० उ० ४ अ० ३७ श्लो०, काश्यप० ९० अ० ७७ श्लो० ) इति यच्छिल्परत्न-काश्यपशिल्पयोरुक्तं तच्चिन्त्यम् । एतन्मते तालादीनामुत्तममध्यमाधमभेदेन त्रैविध्यमुक्तम्, तथा च काश्यपशिल्पे पूर्वोद्धृतादर्द्धात् परम्— मध्यमं दशतालं स्याद् भानुषङ्क्त्यङ्गुलं भवेत् । कलाधिकशताङ्गुल्यमधमं दशतालकम् । सद्वादशशतं भागं नवतालोत्तमं भवेत् ॥ अष्टोत्तरशतांशन्तु मध्यमं नवतालकम् । कन्यसं नवतालं स्याद् द्वेधा( स्याद्भेदा )धिकशतं भवेत् ॥ तालं प्रत्येवमेवं तु क्रमाद् वेदाङ्गुलं हरम् ( अ० ९०, ७७-८० श्लो० ) इत्युक्तम् । शिल्परत्नोत्तरभागेऽपि यथोक्ताच्छ्लोकादर्द्धत्रितयात् परम्— 'तालं प्रत्येवमेवन्तु क्रमाद् वेदांशहानितः' ( अ० ४, ३८ श्लो० ) इत्युक्त्वा सर्वेषामेव तालानां चतुश्चतुरङ्गुलहान्या उत्तममध्यमाधमत्वं प्रतिपादितम् । तन्न मत्स्यपुराणे यद्दशतालप्रमाणत्वमुक्तं रामादीनां तन्मध्यमं दशतालमादायैवेत्यभ्युपगमेन जातेऽपि कथञ्चित् समाधाने, बृहत्संहितायां 'द्वादशहान्ये' (अ० ५७, ३० श्लो० )त्यादि यदुक्तं तेन त्वसामञ्जस्यं दुष्परिहरमेव । 'द्वादशहान्ये'त्यादिपरार्द्धस्य त्वयमर्थः—शेषा अन्याः प्रतिमा द्वादशहान्या द्वादशकद्वादशकहीनत्वेन प्रवरसमन्यूनपरिमाणा भवन्ति । विंशत्यधिकाङ्गुल- शताद् द्वादशाङ्गुलान्यपास्याष्टाधिकं शतमङ्गुलानां प्रतिमा प्रधाना भवति । ततोऽपि द्वादशक- मपास्य षण्णवत्यङ्गुलसमा मध्यमा प्रतिमा, ततोऽपि द्वादशकमपास्य चतुरशीत्यङ्गुला न्यूनपरिमाणा प्रतिमा भवतीत्यर्थः, एवमेवोत्पलभट्टाः । एतच्च परिमाणं काश्यपशिल्पादिमते मध्यमनवतालादि- सप्ततालान्तप्रतिमाया इति ज्ञेयम्, मध्यमनवतालस्याष्टाधिकशताङ्गुलत्वादन्ते सप्ततालस्य चतुर- शीत्यङ्गुलत्वाच्च । परं सप्तभिस्तालैर्देवप्रतिमाया विधानं नोपलभ्यते, तैः 'पिशाचाः सप्तमेन तु' ( अ० ९०, ८७ श्लो० ) इत्यादिना पिशाचानामेव काश्यपशिल्पे कर्तन्यतोपदेशात् । समराङ्गण- सूत्रधारेऽपि— देवादीनां शरीरं स्याद् विस्तारेणाष्टभागिकम् । त्रिंशद्भागायतं चैतद् विदध्याच्चित्रशास्त्रवित् ॥ इति भागमानेन यत् प्रतिमाया मानमुक्तम्, तेनाऽपि विंशत्यधिकशताङ्गुलमेव प्रतिमायाः परिमाणं भवति, भागस्य चातुराङ्गुल्याभिधानात्, बृहत्संहितायाञ्च देवप्रतिमाया एव चतुरशीत्यङ्गुल- मानायाः कनीयस्त्वकथनाच्च ।

४६ देवतामूर्त्तिप्रकरणम् [ तालमानेन मूर्त्तीनां कर्तव्यता ] कीर्ति(कूर्म?)मुखं त(ता?)लमुखं द्वाभ्यां प्रोक्ता विहङ्गमाः । त्रितालैः कुञ्जरा ज्ञेया वेदतालैस्तुरङ्गमाः ॥ ४ ॥ यच्च शिल्परत्न-काश्यपशिल्पयोः 'क्रमाद् वेदाङ्गुलं हर्म्यं' 'क्रमाद् वेदांशहानितः' इत्यादिना सर्वत्रैव ताले चतुरङ्गुलहान्या प्रतिमाया उत्तमादित्वमतिदिष्टम्, तदपि नवतालविश्रान्तमिति प्रतीयते । नव- तालस्यैव कण्ठत उत्तमादित्वकथनात् । कियद्भिर्वा किग्विधैर्वा उत्तमादिभेदभिन्नैस्तालैः कस्य प्रतिमा कार्येत्यपेक्षायामपि त्रिधा भिन्नैर्नवतालैः प्रतिमाविधानस्योक्तत्वाद् अष्टतालैः पुनरेकविधैरेव तद्विधानस्याभिहितत्वाच्च । किञ्च—यद्येवं सर्वत्र ताले वेदांशहान्योत्तमादिभेदः कल्प्येत तदैकतालेऽपि तथात्वप्राप्तेर्मध्यमेकतालमष्टाङ्गुलम् अधमञ्चैकतालं चतुरङ्गुलं भवेदिति पूर्वोक्तम्— 'तदङ्गुलैर्द्वादशभिर्भवेत्तालस्य दीर्घता' इति वचनं व्यर्थमेव स्यात् । न चैतदप्युत्तमेकतालपरमिति कल्पने नार्थक्षतिरिति वाच्यम्, तादृशकल्पने मानाभावात् । न च 'वेदांशहानितः' इत्यादिवचनमेव तत्र मानमित्यपि वाच्यम्, तस्य नवतालपर्यन्तिकत्वस्वीकारेऽपि क्षत्यभावादिति दिक् । ४ । कीर्तीति । तालमुखमिति तालानां मुखम् आद्यावयव एकताल इत्यर्थः, यत्र तथाभूतं कूर्ममुखं भवेदित्यर्थः । 'एकतालन्तु कूर्मकम्' इति काश्यपशिल्पे ( अ० ५०, ८९ श्लो० ), 'तालात् कूर्माकृतिर्हरि'रिति शिल्परत्नोत्तरभागे च ( अ० ४, ९० श्लो० ) अविशेषेण कूर्मस्यैव विधानादत्राङ्गविशेषकल्पना निष्प्रमाणान्तराऽपि युक्तिसहेति 'कूर्ममुख'मिति पाठान्तरं कल्पितम् । तथा हि यदत्र प्रकरणे तालेन प्रमाणमभिहितं तद् दैर्घ्यमभिप्रेत्य, आयामस्तु ग्रन्थान्तरादवगम्यते । तथा च समराङ्गणसूत्रधारे दशतालमूर्त्तिं प्रकृत्य भागमानेनोक्तम्— देवादीनां शरीरं स्याद् विस्तारेणाष्टभागिकम् । त्रिंशद्भागायतं चैतद् विदध्याच्चित्रशास्त्रवित् ॥ ( अ० ७५, ४-५ श्लो० ) । इति । भागश्चतुरङ्गुलम् । एवञ्च गोलाकृतेः कूर्मस्य तालेन दैर्घ्यकथनापेक्षया दीर्घाकृते- स्तनमुखस्य तदुक्तिर्युक्तिबाहुल्यं भजत इति साध्वियं पाठकल्पना । यद्वा—कूर्मस्य मुखमिव मुखं यस्येति विग्रहात् कूर्मावतारी हरिरित्यर्थः पूर्वोद्धृतशिल्परत्नवचनप्रामाण्यादवसेयः । न च— 'कूर्मावतारिणं देवं कमठाकृतिमालिखेत्' ( अ० २९, १२३ श्लो० ) इति शिल्परत्नोत्तरभागीयपद्यदर्शनात् कूर्मावतारस्य हरेः सर्वाण्येवाङ्गानि कूर्मसदृशानीति कथं मुख- मेव कूर्माकृतीत्युच्यते इति वाच्यम्, अत्र सामान्येन विशेषो लक्षणीयः, तथा च मुखपदमत्रावयव- सामान्ये लाक्षणिकमिति न काचिदनुपपत्तिः । अत्र मूले बिन्दू अपि प्रामादिकाविति ज्ञेयम्, प्रक्रमात्

द्वितीयोऽध्यायः ४७ कुब्जाश्च पञ्चभिस्तालैरुपविष्टो जनस्तथा । उपविष्टाः प्रकर्तव्या ब्रह्मविष्णुशिवा वृषः ॥ ५ ॥ शूकरं पञ्चतालैश्च षट्तालं स्याद् विनायकम् । मध्यमं शूकरं ज्ञेयं वृषभश्च तथैव हि । मनुजाः सप्तभिस्तालैर्वृषभं शूकरन्तथा ॥ ६ ॥ अष्टाभिः पार्वती प्रोक्ता मातरश्च तथैव हि । दुर्गा लीला महालक्ष्मील(र्ल?)दमीर्या तु सरस्वती ॥७॥ कालिन्दी चैव सावित्री नदा(नन्दा?) पद्मावती तथा । कात्यायनी समाख्याता भगवत्यष्टकाल(ताल?)का ॥८॥ नवतालैर्भवेद् विष्णुर्ब्रह्मात्मा देवतास्तथा । कर्मणि प्रत्ययस्यैव स्वारसिकत्वेन 'कीर्त्तिमुखस्तालमुखो' इति पाठस्यैव मान्यत्वात्। एवमिहाहमहमिकयैव बिन्दुविसर्गयोर्व्यत्ययस्तत्र तत्र समुल्लसन् पाठकः स्वयं विचार्यः। रूपमण्डने तालमधिकृत्य- 'ग्रासवक्त्रमेकभागे द्वौ पक्षी कुञ्जराद्ययः' इत्येतत्समानार्थं पद्यमाह। अत्र कियद्भिस्तालैः के के कर्त्तव्या इत्यत्र शिल्पशास्त्रकृतां बहवो मतभेदा दृश्यन्ते, ते च प्रभूत- स्थानसव्यपेक्षा इति सर्वमनुद्धृत्याष्टतालत एकतालान्ता विलोमेन काश्यपशिल्पादुद्ध्रियन्ते, एतेषामेवान्नाधिक्येनोपयोगित्वात्। अत्र चादर्शप्राप्तमशुद्धं पाठमपहाय सम्पादकैः कृतशुद्धयः पाठा उद्ध्रियन्ते— अष्टतालेन साध्यांस्तु पिशाचाः सप्तमेन तु । रसतालेन कुब्जांस्तु कारयेद्देशिकोत्तमः ॥ पञ्चतालोक्तमानेन वित्तेशं कारयेद् बुधः । तन्मध्यमाधमेनैव सर्वभूतगणान् कुरु ॥ बालन्तु वेदतालेन त्रितालेनैव कारयेत् । द्वितालं किन्नरञ्चैव एकतालन्तु कूर्मकम् ॥ इति । (अ० ६०, ८७-८९ श्लो०) ६। मध्यममिति । प्रथमार्द्धे पञ्चतालकर्त्तव्यत्वेन यः शूकर उद्दिष्टः स मध्यम इति ज्ञेयः नोत्तमो नापि वाऽधमः। एवं तृतीयार्द्धे सप्ततालकर्त्तव्यत्वेन यो वृषभ उद्दिष्टः सोऽपि मध्यम एवेत्यर्थः । सप्ततालकर्त्तव्यस्तृतीयशूकरश्च मध्यमेतर इति व्याख्येयम्, अन्यथा पौनरुक्त्यापत्तेः । वृषभशूकरयोः साप्ततालिकत्वकथनं मतान्तरेणेति ज्ञेयम् ।

४८ देवतामूर्तिप्रकरणम् दशतालैर्भवेद्रामो बलिवैरोचन(नि?)स्तथा । सिद्धाश्चैव जितेन्द्राश्च ऊर्द्वांस्ते च प्रकीर्तिताः ॥ ९ ॥ ताला एकादश स्कन्दो हनुमांश्चण्डिका तथा । भूतानाञ्च समस्तानामेष तालः प्रकीर्तितः ॥ १० ॥ ताला द्वादश वेताला राक्षसाश्च त्रयोदश । पिशाचाः क्रूरकर्माणः शस्यन्ते मुकुटैर्विना ॥ ११ ॥ तालाश्चतुर्दश प्रोक्ता दैत्येन्द्रा मुकुटैर्युताः । तिथ्या समानतालैश्च भृगुरूपं प्रकारयेत् ॥ १२ ॥ अत ऊर्ध्वं न कर्तव्यं प्रमाणं कथयाम्यतः । [ तालानुसारेणावयवमानम्, तत्र सप्ततालेऽवयवमाननिरूपणम् ] सप्ततालं प्रवक्ष्यामि केशान्ते च त्रिमात्रकम् ॥ १३ ॥ १०–१२। एकादशादिपञ्चदशान्तास्ताला नान्यत्रोपलभ्यन्ते । रूपमण्डने तु— 'कलांशाः क्रूरदेवाः स्युरत ऊर्ध्वं न कारयेत्' । ( अ० १, २३ श्लो० ) इत्यनेन षोडश तालाः क्रूरदेवानां मानमित्युक्तम् । यच्च काश्यपशिल्पे— एकादिनवहस्तान्तं नवधा हस्तमानकम् । तालादिनवतालान्तं तथा नवविधं भवेत् ॥ ( अ० ५०, ३४ श्लो० ) इति नवतालान्तं तालमानमुक्तं तत्तु सामान्यत इति ज्ञेयम् । एवञ्च सत्यामपि पूर्वार्द्धे हस्त- मानस्य नवधात्वोक्तौ यत् पूर्वम्— दशादिकरवृद्ध्या तु षट्त्रिंशत् प्रतिमाः पृथक् । बाणवेदकरान् यावच्चतुष्क्यां पूजयेत् सुधीः ॥ ( अ० १, १९ श्लो० ) इत्युक्तम्, तस्यापि विशेषान्तःपातान्नासामञ्जस्यमिति ध्येयम् । १३। इदानीं कियत्तालानां प्रतिमानां कियन्त्यङ्गमानानीति वक्तुमादौ सप्ततालप्रतिमाया अङ्गमानमाह—सप्ततालमिति । रूपमण्डने तु षट्तालप्रतिमाया अप्यङ्गविभाग उक्तः ; तथा च— मुखं तालद्वयं तस्य जठरं तत्समं भवेत् । गुह्यं वेदाङ्गुलम् ऊरू सप्त जङ्घा च तत्समा ॥

द्वितीयोग्ध्यायः ४१ वक्त्रं तालप्रमाणञ्च ग्रीवा स्यादङ्गुलद्वयम्। सार्द्धसप्ताङ्गुलं वक्षो मध्यं नवभिरङ्गुलैः ॥ १४ ॥ सप्तसार्द्धं( ?)नाभिमेढ्रमूरू अष्टादश स्मृताः। जान्वङ्गुलद्वयं प्रोक्तं जङ्घे अष्टादशाङ्गुले । पादोत्सेधन्वि(स्त्रि ?)मात्रन्तु(स्तु ?) मनुजाः सप्ततालये(के ?)॥१५॥ [ मध्यमसप्ततालेऽवयवमाननिरूपणम् ] सप्तसार्द्धं प्रवक्ष्यामि तालं मङ्गल-शुक्रयोः । बुधसौर्योस्तथा ज्ञेयं केशान्तञ्च त्रिमात्रकम् ॥ १६ ॥ वक्त्रं द्वादशमात्रन्तु ग्रीवा चैव त्रिमात्र(त्रि ?)का । दशमात्रं भवेद् वक्षो नाभिमेढ्रं तथोदरम् ॥ १७ ॥ अष्टादश भवेदूरू(रुः ?) जानु मात्राद्वयं स्मृतम् । अष्टादशाङ्गुलौ ग्रन्थी ग्रहाणामङ्गुलो पदौ ॥ १८ ॥ [ अष्टतालेऽवयवमानम् ] अष्टतालं प्रवक्ष्यामि देव्याश्चण्डस्य(ण्ड्याश्च ?) लक्षणम् । मात्रात्रयं स्यात् केशान्तं वक्त्रञ्च द्वादशाङ्गुलम् ॥ १९ ॥ ग्रीवा च अ(त्र्य ?)ङ्गुला कार्या हृदयं नवभिस्तथा । मध्यं द्वादशमात्रं स्यान्नाभिमेढ्रे नवाङ्गुले ॥ २० ॥ एकविंशद् भवेदूरू(रुः ?) जानु चैव गुणाङ्गुलम् । जङ्घाऽङ्गुलैकविंशत्या पादमूलं गुणाङ्गुलम् ॥ २१ ॥ गुणाङ्गुलं भवेज्जानु पादः कार्यो गुणाङ्गुलः । रसतालमिति प्रोक्तम्............ ॥ इति ( अ० १, २४-२५ श्लो० ) शिल्परत्नोत्तरभागे च दशादिवितस्ततालान्तप्रतिमाया अङ्गविभागः प्रदर्शित इति विशेषः । १६ । सप्तसार्द्धमिति मध्यमसप्ततालमित्यर्थः ; तत्प्रमाणञ्चैतन्मते नवत्यङ्गुलम्, मतान्तरे त्वष्टाशीत्यङ्गुलमिति ज्ञेयम् । प्रकरणेऽस्मिन् मात्राभागादिशब्दोऽङ्गुलमानबोधकः । देवता-७

५० देवतामूर्त्तिप्रकरणम् [ मध्यमाष्टतालेऽवयवमानम् ] अष्टसार्द्धं प्रवक्ष्यामि गीष्पतेस्ताललक्षणम् । केशान्तश्च त्रिमात्रन्तु वक्त्रं स्याद्द्वादशाङ्गुलम् ॥२२॥ ग्रीवा च अ(त्र्य?)ङ्गुला कार्या हृदयं नवभिस्तथा । त्रयोदश भवेन्मध्यं तालेन नाभिमेढ्रके ॥२३॥ द्वाविंशत्या भवेदूरूर्जानु चैव त्रिमात्रकम् । जङ्घे ऊरुसमे प्रोक्ते त्र्यङ्गुलः पाद एव च ॥२४॥ [ नवमतालेऽवयवमानम् ] नवतालं प्रवक्ष्यामि ब्रह्माद्या देवता यथा । केशान्तश्च त्रिमात्रन्तु कर्तव्यं देवरूपकम् ॥२५॥ यावन्मानो भवेत्तालो विभजेद्भवविभागकैः । सूर्य(१२)राम(२)दशा(२०)र्का(१२)ब्धि (४)वसु(८)जैन(२४) युगा(४)र्हताः(२४) ॥२६॥ वेदा(४) वक्त्रगलौ वक्षो नाभिस्तूदरगुह्यकम् । तथोरू जानुनी जङ्घे चरणौ च यथाक्रमे(क्रमम्) ॥२७॥ विस्तरस्तेन(विस्तारः स्तन)गर्भे च द्वादशाङ्गुलमीरितम् । तद्बाह्ये वेदवेदांशे कक्षे एकान्तरे ततः ॥२८॥ सप्तसप्ताङ्गुलौ बाहू दीर्घ(दैर्घ्ये) स्यात् षोडशाङ्गुलौ । करोऽष्टादशमात्रे(त्रः?) च विस्तरे(विस्तारो)ऽग्रे गुणाङ्गुलः ॥२९॥ दीर्घे सूर्याङ्गुलः पाणिविस्तरे पञ्चमात्रकः । नाभिः सूर्याङ्गुलो व्यासे कटिः प्रोक्ता जिनाङ्गुला ॥३०॥ २८-२९। स्तनगर्भे स्तनयोरन्तरे । ईरितं कथितम् । तद्बाह्ये स्तनगर्भाद् बहिः कक्षे कक्षद्वयं वेदवेदांशे अष्टाङ्गुले । तत एकान्तरे एकमात्रव्यवधाने बाहू सप्तसप्ताङ्गुलौ विस्तारे एकः सप्ताङ्गुलस्तथा अन्यश्च सप्ताङ्गुलः । करमानान्तरमाह-करोऽष्टादशमात्रः, अग्रे अग्रस्य विस्तारः गुणाङ्गुलः षडङ्गुलः ।

द्वितीयोऽध्यायः ५१ मूल एकादशोरू स्याद् जङ्घा प्रान्ते युगाङ्गुला । चतुर्दशाङ्गुलः पादस्ततोऽर्द्धे(स्तदूर्ध्वे) च युगाङ्गुलः ॥३१॥ कक्षः स्कन्धस्तदूर्द्धे तु कर्त्तव्यश्चाष्टमात्रकः । ग्रीवा चाष्टाङ्गुला व्यासे पादः प्रोक्तः षडङ्गुलः ॥३२॥ जानाति नानाविधरूपभावं श्रीविश्वकर्मा सुरसूत्रधारः । ऊर्द्धाण्डजस्वेदजरायुजाढ्यं स विश्वरूपं सुखहेतवेऽस्तु ॥३३॥ इति श्रीक्षेत्रात्मजसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे रूपावतारे देवतामूर्त्तिप्रकरणे प्रतिमातालनिर्णयाधिकारो नाम द्वितीयोऽध्यायः ॥ २ ॥ ३० । पुनरपि करमानान्तरमाह—दीर्घ इति । पाणिदैर्घ्ये सूर्याङ्गुलः द्वादशाङ्गुलः, विस्तारे पञ्चमात्रकः पञ्चाङ्गुलः । व्यासे विस्तारे जिनाङ्गुला चतुर्विंशत्यङ्गुला । ३१-३२ । ऊरुप्रमाणमाह—मूल इति । ऊरुमूलमेकादशाङ्गुलं स्यादित्यर्थः । जङ्घा प्रान्ते युगाङ्गुला चतुरङ्गुला । पादश्चतुर्दशाङ्गुलः, तदूर्द्धे युगाङ्गुलः, कक्षश्च युगाङ्गुलः । तदूर्द्धं तु अष्टमात्रकः स्कन्धः कर्त्तव्यः । ३४ । अत्र य इत्यध्याहार्यम् , नानाविधरूपभावम् ऊर्द्धाण्डजस्वेदजरायुजाढ्यं विश्वस्य रूपं यो जानाति स सुखहेतवेऽस्त्वित्यन्वयः । ऊर्द्धं उपरिस्था उद्भिद् इत्यर्थः, ते च अण्डानि च तेभ्यो जायन्ते इत्यूर्द्धाण्डजाः ; 'द्वन्द्वात् पूर्वं परं वा यत् श्रूयते तल्लभते प्रत्येकमभिसम्बन्धमिति न्यायाद् उद्भिजा अण्डजाश्चेत्यर्थः ।

तृतीयोऽध्यायः ❦॥❧ [ अथ देवतापदस्थानम् ] त्रिःसप्तांशे कृते माने ब्रह्मांशे सूत्रमध्यमे । कृत्वा षडंशकं तच्च चामेध्वंशं (वामे द्वयं शं ?) व्यपोह्य च ॥१॥ तन्मानमग्रतो नीत्वा प्रागुद्गग्रात् (प्रागुद्ग्गत ?) सूत्रकम् । तद् ब्रह्मसूत्रमित्युक्तं तत् सूत्रं शिवमद्ध्यगम् ॥२॥ १-२। इदानीं देवतापदस्थानं वक्तुं लिङ्गस्थानोपयोगि ब्रह्मसूत्रमाह—त्रिःसप्तांश इति द्वाभ्याम् । सूत्रमध्यमे वास्तुमध्यभागे ब्रह्मांशे तदंशमाश्रित्येत्यर्थः, माने द्वारमाने त्रिःसप्तांशे कृते एकविंशत्या भागैर्विभक्ते भागफलं यन्मानं भवतीत्यर्थः, तत् षडंशकं कृत्वा वामे वामतो द्व्यंशं व्यपोह्य परित्यज्य, अग्रतो दक्षिणत इत्यर्थः तत् तादृशं मानं द्व्यंशमिति यावत्ः, नीत्वा अपनीय प्रागुद्ग्गतसूत्रकं पूर्वदिग्गतसूत्रम् उत्तरदिग्गतसूत्रं वा यद् वर्त्तते तद् ब्रह्मसूत्रमित्यर्थः । तथा च मयमते— त्रिःसप्तांशे कृते द्वारे ब्राह्मेऽंशे मध्यमे भवेत् । कृत्वा षडंशकं तच्च वामे द्व्यंशं व्यपोह्य च ॥ तदंशमग्रं नीत्वा तु प्रागुद्ग्गतसूत्रकम् । तद् ब्रह्मसूत्रमित्युक्तं तत् सूत्रं शिवमद्ध्यमम् ॥ (अ० ३३, ३८-४० श्लो०) इति । मत्स्यपुराणे तु—द्वारमानमेकविंशत्या विभज्य विभक्तानामेकविंशतिभागानामर्द्धं पुनस्त्रिधा विभजेत्; ततस्तस्य भागत्रयस्य वामदक्षिणयोर्भागद्वयं विहाय मध्यभागे ब्रह्मस्थानं कल्पये- दित्युक्तम् । तथा च— द्वारं विभज्य पूर्वन्तु एकविंशतिभागिकम् । ततो मध्यगतं ज्ञात्वा ब्रह्मसूत्रं प्रकल्पयेत् ॥ तस्यार्द्धन्तु त्रिधा कृत्वा भागञ्चोत्तरतस्त्यजेत् । एवं दक्षिणतस्त्यक्त्वा ब्रह्मस्थानं प्रकल्पयेत् ॥ ( अ० २६३, ५-६ श्लो० ) इति। ततश्च मयमतीयपाठदर्शनाद् यदस्माभि'र्वामे द्व्यंशम्' इति पाठः शुद्धत्वेन कल्पितस्तन्मता- न्तरमिति कृत्वेति ज्ञातव्यम् । 'वामे चांशम्' इति पाठस्त्वक्षरसंवादाभावात् स्वसमानतन्त्रान्तरा- सम्मतेश्च न गृहीतः । अन्यच्च—मत्स्यपुराणे ब्रह्मसूत्रस्य हेयांशयोश्च यन्मानमुक्तम् अत्र च तेषां तद्द्विगुणं मानमुक्तमिति दृश्यते । तच्च 'वामे द्व्यंशम्' इति पाठ एवोपपन्नं भवति, न तु

तृतीयोऽध्यायः ५३ मध्ये यद् ब्रह्मणः सूत्रं तस्य वामे शिवस्य च । तन्मध्ये वैष्णवं सूत्रं तत्सूत्रे(लं ?) सार्वदैवतम् ॥३॥ मध्ये वि(वै ?)पुरुषे रुद्र आदौ ब्रह्माऽन्तगो हरिः । क्रमेण सौख्यदा एत्र विपरीता भयावहाः ॥४॥ रुद्रः हरिरुद्धः............................. । तत्तुल्या च उमा देवी सुखदा सर्वकामदा ॥५॥ भाग एकोनपञ्चाशद् गर्भाद्धं मितितो भजेत् । गर्भाशो ब्रह्मसंस्थान(नं ?) दैवं भागाष्टकं ततः ॥६॥ 'वामे चांशम्' इति पाठे । तथा हि—मत्स्यपुराणोक्तक्रमेण एकविंशतिधा विभक्तस्य द्वारस्यार्द्धे त्रिधा कृते सार्द्धत्रयो भागा भवन्ति, एवं प्रकृतग्रन्थोक्तक्रमेण—एकविंशतिधाऽशितस्य द्वारस्य समग्रस्य षड्भिर्विभागेऽपि त एवांशा भवन्ति । ततश्चार्द्धात् सार्द्धत्रिभागं त्यजतः समग्रात् ससांश- त्यागो गणितागमानुगत्या नार्थान्तरकोटिमारोहतीति, मूले द्वंशत्यागो मात्स्ये चैकांशत्यागो वस्तुगत्या एक एवेति न काचिद् विप्रतिपत्तिः । एवं ब्रह्मस्थानेऽपि द्वैगुण्यादि ज्ञेयम् । तत् सूत्रमिति । तद् ब्रह्मसूत्रम् , शिवमध्यगम्—शिवो मध्यगो यस्य तादृशम्, तन्मध्ये लिङ्गं स्थापयेदित्यर्थः, वक्ष्यति च स्वयमेव 'ब्रह्मांशे लिङ्गमैश्वरम्' (५४ पृ० ८ श्लो०) इति । ३। मध्य इति । मध्ये यद् ब्रह्मणः सूत्रं पूर्वमुक्तम् , तस्य वामे वामभागे व्यपोहितद्व्यंशे इत्यर्थः, शिवस्य सूत्रं भवेत् , तन्मध्ये दक्षिणे इत्यर्थः, वैष्णवं सूत्रं भवेत् , तत् सूत्रञ्च सार्वदैवतं सर्वदेवतास्थानम् । वक्ष्यति च—'दैवांशे ब्रह्मविष्णुवंशाः सर्वे देवाश्च' (७ श्लो०) इति । ४। मध्य इति । त्रैपुरुषे ब्रह्मविष्णुरुद्राणामाश्रयभूते सूत्रे, यद्वा त्रिषु पुरुषेषु मध्ये, रुद्र- स्तत्सूत्रस्य मध्ये भवेत् , आदौ ब्रह्मा भवेत् , हरिश्चान्तगो भवेत् । क्रमेणेति । एवंक्रमेण वर्त्तमाना एते सौख्यदा भवन्ति, विपरीताश्च भयमावहन्तीत्यर्थः । तथा च समराङ्गणसूत्रधारे— स्थापयेत् ( पुरुषत्रया ? ) शि ( वा ? वं ) मध्ये निवेशयेत् । ब्रह्माणं दक्षिणेनास्य वामतः पुरुषोत्तमम् ॥ अन्यथा स्थापनादेषां प्रत्यवायो महान् भवेत् । ( अ० ७०, १४१-१४२ श्लो० ) इति । अस्फुटार्थाऽपीयमर्द्धत्रयी प्रकृतोपयोगिनीत्यत्र नास्ति नः स्तोकोऽपि संशयः । ५। रुद्र इत्यादि । खण्डितत्वाद् दुर्ज्ञेयोऽस्यार्थः । ६-८। गर्भमानेन देवानां स्थानमाह—भाग इति । अत्र च भागा इत्युचितोऽपि पाठो

भागेषु न कदाचन । ( अ० ६०, १-२ श्लो० )Wait, in line 21:( अ० ६०, १-२ श्लो० )or(अ० ६०, १-२ श्लो० )? There is a space: ( अ० ६०, १-२ श्लो० )`.

इत्यविशेषेण ब्रह्मभागे प्रतिमास्थापनं देवादिभागानाञ्च तत्कर्मणि निन्दनीयत्वमुक्तम् । अत्र च देवादिषु कस्य कियन्तो भागा इति न विशिष्योक्तम् । यदि च 'सप्तधे'त्यस्य वीप्सार्थत्वमङ्गीकृत्य एकोनपञ्चाशादित्यर्थलाभाय 'सप्तसप्तधे'ति व्याक्रियेत, तदा प्रकृतग्रन्थानुगृहीता विभागरीति- स्तत्राप्यादरणीया स्यादिति विभावनीयम् । इति देवतापदस्थानव्याख्या । ९ । देवानां दृष्टिस्थानं वक्तुं द्वारविभागमाह—द्वारादय इति । अत्राऽऽदिपदग्राह्यं किमिति `जानाति तत्रभवान् सूत्रभृन्मण्डन एव । चतुःषष्टिविभागेषु मध्ये विषमेषु भागेषु दृशो दृष्टयः शु

तृतीयोऽध्यायः ५५ त्रयोविंशतिपर्यन्तमेकादि विषमांशके। स्थाप्या उ(न्यु ?)दुम्बरादूर्ध्वं शिवलिङ्गानि धीमता ॥१०॥ पञ्चविंशे मुखं लिङ्गं द्वेऽ(द्व्य ?)धिके जलशायिनः। धनदस्य द्वयाधिक्ये मातृणां तद्वयाधिके ॥११॥ वृ(य ?)क्षाणां दृक् त्रयस्त्रिंशे पञ्चत्रिंशे वराहदृक्। सप्तत्रिंश उमेशस्य बौद्धस्य तद्वयाधिके ॥१२॥ एकाधिकचत्वारिंशे तु स(ा ?)वित्र्या ब्रह्मणो दृशः। दुर्वाससो द्वयाधिक्ये नारदागस्त्ययोरपि ॥१३॥ पञ्चवेदपदांशे तु लक्ष्मीनारायणस्य च। द्वयाधिक्ये विधेर्धातुः सरस्वत्या द्वयाधिके ॥१४॥ सारदांशे गणेशस्य द्व्यधिकेऽब्जासनस्य च। हरसिद्धिस्त्रिपञ्चांशे कर्तव्या सर्वकामदः (दा ?) ॥१५॥ ऊर्द्ध्व

५६ देवतामूर्त्तिप्रकरणम् चण्ड्या एकोनषष्ट्यंशे भैरवी तद्व्यधिके । वेतालस्य विषष्ट्यंशे पदं शून्यं तदूर्द्ध(दूर्ध्वं ?)तः ॥ १७ ॥ लिङ्गाग्रे नैव कर्त्तव्या ह्यर्चारूपेण देवताः । प्रभानष्टा नभोगा य(श्र?) यथा तारा दिवाकरे ॥ १८ ॥ शिवस्याग्रे शिवं कुर्याद् ब्रह्माणं ब्रह्मणोऽग्रतः । विष्णौ विष्णुः(ष्णुं ?) जिने जैनं सूर्ये सूर्यमनुक्रमात् ॥ १६॥ मातरश्चण्डिकाग्रे स्युर्यक्षाः क्षेत्रादिभैरवः । स्वे स्वे स्थाने सुराः स्थाप्या ये यस्यापि हितावहाः ॥ २० ॥ ब्रह्मविष्णोरेकनाभिर्जि(जि?)ने दोषो न विद्यते । शिवाग्रे चान्यदेवस्य दृष्टिवेधे महद् भयम् ॥ २१ ॥ ब्रह्मा विष्णुः शशी सूर्य इन्द्रः स्कन्दो हुताशनः । दिक्पाला लोकपालाश्च ग्रहा मातृगण(णा?)स्तथा ॥२२॥ १७। भैरवीति भैरवस्य दृष्टिः । पदमिति । तदूर्द्धतः त्रिषष्ट्यंशान् परतः शून्यं पदं दृष्टि- स्थानं भवति, विषमद्वारांशस्य त्रिषष्ट्यंश एव निःशेषितत्वात् । १८। लिङ्गाग्र इति । लिङ्गाग्रे शिवलिङ्गाग्रे अर्चारूपेण प्रतिमारूपेण देवता न स्थाप्याः । एतच्च, 'शिवस्याग्रे शिवं कुर्यात्' इति वक्ष्यमाणविधेरपवादकम्, लिङ्गाग्रे शिवप्रतिमामपि न कुर्यादित्यर्थः । एवञ्च शिवस्याग्रे शिवं कुर्यादित्यस्यायमर्थः—शिवस्य लिङ्गस्याग्रे शिवं शिव- लिङ्गम्, शिवस्य प्रतिमाया अग्रे च शिवप्रतिमां कुर्यादिति । प्रभानष्टेति । लिङ्गाग्रे अर्चारूपेण देवताः कृताश्चेत् प्रभानष्टा नष्टप्रभा भवन्ति । अत्र दृष्टान्त- माह—नभोग इति । यथा दिवाकरे उदिते नभोगा नभःस्थास्तारा नष्टप्रभा भवन्ति तद्वदित्यर्थः । २०-२१। पूर्वं 'ब्रह्माणं ब्रह्मणोऽग्रतः' इति 'विष्णौ विष्णुं जिने जैनम्' इत्युक्तम्, इदानीं तदपवादमाह—ये यस्यापीति ब्रह्मविष्णोरिति च । यस्य देवस्य ये हितावहा हितकारका भवन्ति तेऽपि तदग्रतः स्थाप्या इत्यर्थः । ब्रह्मेत्यादि । एकनाभिः सनाभिः सपिण्डस्तुल्यो वा, तादृशे जिने सम्मुखवर्तिनीत्यर्थः, दोषो न विद्यते, ब्रह्मणो विष्णोश्चाग्रे स्थापितो जिनो दोषाय न भवतीत्यर्थः । एवञ्च जिनस्या- प्यग्रे ब्रह्मणि विष्णौ वा स्थापिते दोषो न भवतीति लभ्यते न्यायसाम्यात् ।

तृतीयोऽध्यायः ५७ एते शिवाश्रये स्थाप्या दृष्टिवेधविवर्जिताः । दृष्टियाताहितं यच्च पुराघं न प्ररोहति ॥२३॥ [ देवतास्थापने दिङ्निर्णयः ] पूर्वापरास्यं देवानां मुखं नो दक्षिणोत्तरम् । ब्रह्मा विष्णुः शिवार्केन्द्रा गुहः पूर्वपराङ्मुखः ॥२४॥ नगराभिमुखाः श्रेष्ठा मध्ये बाह्ये च देवताः । शिवब्रह्मजिना विष्णुः सर्वाशाभिमुखाः शुभाः ॥२५॥ गणेशो भैरवश्चण्डी नकुलीशो ग्रहास्तथा । भूताद्या धनदाश्चैव दक्षिणास्याः शुभाः स्मृताः ॥२६॥ मातृणां सदनं कार्यं दक्षिणोत्तरदिङ्मुखम् । हनुमान् वानरश्रेष्ठो नैर्ऋतास्यो विदिङ्मुखः ॥२७॥ २३ । एत इति । दृष्टिवेधविवर्जिता इति ब्रह्मविष्ण्वादीनां परस्परदृष्टिवेधेन हीनाः, शिव- दृष्टिवेधेन वा । 'दृष्टियाताहितं यच्च' इत्यत्र 'दृष्टिपातहिता यन्न' इति स्यात् । तथा सति यन्न देवा दृष्टिपातवशाद् हितास्तत्र स्थाने पुराघं नगरस्य पापम् अमङ्गलमित्यर्थः, न प्ररोहति न प्रोद्भवतीत्यर्थः । २४ । देवानां मुखं पूर्वापरास्यं पूर्वदिक्स्थं पश्चिमदिक्स्थं वा कुर्यादिति शेषः । दक्षिणो- त्तरं दक्षिणोत्तरदिक्स्थं न कुर्यात् । अत्र पूर्वादिशब्दो दिग्द्वये लाक्षणिकः । ब्रह्मेति । एतच्च विशेषाभिधानं मतान्तर इति ज्ञेयम् । मत्स्यपुराणे पूर्वोत्तरमुखत्वस्योक्तत्वात् । तथा च— वास्तुदेवादिप्रतिमालक्षणं प्रवदामि ते । प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननाम् ॥ इति ( अ० ५४, १ श्लो० ) यथा तथा वा भवतु सर्वथा विसंष्ठुलोऽयं श्लोकः । अस्य प्रकृतपाठोऽनुसन्धेयः । २५ । नगरेति । मध्ये वास्तुमध्ये, बाह्ये वास्तुबहिर्भागे च प्रतिष्ठाप्या देवता नगराभि- मुखाः प्रशस्यन्ते । पूर्वापरास्यमिति यदुक्तं तत्र मतान्तरं दर्शयति—शिवेत्यादि । सर्वाशाभि- मुखाः सर्वदिङ्मुखाः । अत्र पूर्वं पूर्वपराङ्मुखत्वकथनाद् ब्रह्मविष्णुशिवग्रहणं मतान्तरद्योत- नार्थम्, जिनग्रहणन्तु न तथा, पूर्वमनुल्लेखेन कस्मिन्नपि मते तस्य सर्वाशाभिमुखत्वस्याप्राप्ते- र्विधित्वाव्याघातात् । २७ । मातृणामिति । एतेन मातरो दक्षिणदिङ्मुखा उत्तरदिङ्मुखा वा कार्या इति [

५८ देवतामूर्तिप्रकरणम् ज्ञात्वा सर्वं स्थापि(ता?)येन रीत्या देवा दैत्या मानुषाद्याश्च सर्वे । दृष्ट्वात्मानं व्यापकं सृष्टिकारं स्थायी दृष्ट्वा विश्वकर्मांश(र्मा स?)वन्द्याः(वन्द्यः?) ॥२८॥ इति श्रीक्षेत्रात्मजसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे देवतामूर्तिप्रकरणे प्रतिमापदस्थानदृष्टिस्थानाधिकारो नाम तृतीयोऽध्यायः ॥ ३ ॥ फलितम् । हनुमान् इति । नैर्ऋतास्य इति मतान्तरेणोक्तम् । स्वमतमाह—विदिक्मुख इति । न केवलं नैर्ऋतास्यः सर्वान्तरालदिगास्योऽपीत्यर्थः । २८ । दुष्करोऽस्य पाठोद्धारोऽर्थग्रहश्च ।

चतुर्थोऽध्यायः —:०:— अक्षसूत्रं पुस्तकञ्च कमण्डलुवरान्वितः । विश्वकर्मा चतुर्हस्तस्त्रिनेत्रश्चन्द्रशेखरः ॥ १ ॥ इति विश्वकर्मा । ऋग्वेदादिप्रभेदोक्ता( देन ? ) कृतादियुगभेदतः । विप्रादिवर्णभेदेन चतुर्वक्त्रं चतुर्भुजम् ॥ २ ॥ अक्षसूत्रं करे दत्ते शुचिस्तस्या ( स्यो ? )र्द्धतः स्थिता । स्याद् वामे पुस्तकं हस्ते तस्या(स्यो ?)र्द्धे च कमण्डलुः ॥३ कमलासननामानं (माद्यं ? ) सर्ववर्णे हितप्रदः । कर्तृकारापकैः(?) सार्द्धं लोहितः कमलासनः ॥ ४ ॥ इति कमलासनः । १ । अयमध्यायो ब्रह्मादीनां देवानामायुधवर्णवाहनादिनिर्णयार्थं प्रवृत्त इति ज्ञायते एतद्ग्रन्थकृत्कृत्यन्तराद्रूपमण्डनात् । तथा च— ब्रह्मादीनाञ्च देवानां देवीनाञ्च यथाक्रमम् । आयुधानि तथा वर्णं वाहनं कथयाम्यथ ॥ ( इति अ० २,९ श्लो०) अस्य ग्रन्थस्य शिल्पशास्त्रत्वात् तत्कर्त्तृत्वेनाभ्यर्हितस्याऽऽदौ विश्वकर्मणो रूपं निर्दिशति—अक्ष- सूत्रमिति । अस्मदुपलब्धेषु शिल्पशास्त्रेषु ऋते रूपमण्डनमृते च प्रकृतग्रन्थं न विश्वकर्मणो रूपमुपनिबद्धमुपलब्धम् । रूपमण्डने पुनः किञ्चिदु विलक्षणमेव लक्षणमस्माद् ग्रन्थात् । तथा च— विश्वकर्मा चतुर्बाहुरक्षमालाञ्च पुस्तकम् । कम्बां (कम्बुं ? ) कमण्डलुं धत्ते त्रिनेत्रो हंसवाहनः ॥ इति । ( अ० २, १० श्लो० ) २-४ । एकस्यैव ब्रह्मणो नामभेदेन चत्वारि रूपाणि निरूपयिष्यन्नादौ कमलासनं वक्तुं