भारतकोश
संग्रह पर लौटें

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

षष्ठोऽध्यायः १२६ द्वारे पश्चिमके कार्यः पाण्डुरो वामदक्षिणे ॥ १६३ ॥ इति पश्चिमप्रतीहारौ । मातुलिङ्गं मृणालञ्च खट्वाङ्गं पद्मदण्डकम् । सितश्चैवोत्तरे द्वारे वामे चैव व्यवस्थितः ॥ १६४ ॥ पद्मदण्डञ्च खट्वाङ्गं मृणालं बीजपूरकम् । असि(नो?तो) दक्षिणे भागे उत्तरे द्वार एव च ॥१६५॥ [ इत्युत्तरप्रतीहारौ ] [ वाहनविधानम् ] वाहनं यस्य देवस्य तत्तस्याग्रे प्रकल्पयेत् । एक-द्वि-त्रि-च (तत् ?तुः)पञ्च वा षट्-सप्तपदान्तरे ॥१६६॥ वाहनं मूर्त्तिलिङ्गञ्च मूलप्रासादमानतः । वृषभस्य (विभावन्ते?)लिङ्गे दृष्टां नियोजयेत् । सूर्यस्याग्रे भवेत् सोमस्तनसूत्रसमोद(यं?यः) ॥१६७॥ १६२ । अनेन वक्ष्यमाणयोः पश्चिमप्रतीहारयोरायुधानि प्रतिपादितानीति तत्त्वम् । सर्वेषामेव प्रतीहाराणां चतुर्भुजत्वमनुमीयते प्रहरणचातुर्विध्यात्, इह तु द्वितीयार्धे त्रीण्येव प्रहरणानि प्राप्यन्ते । रूपमण्डने तु—'कपालं डमरुं दण्डं बीजपूरं तथा दधत्' ( अ० ४, श्लो० १०४) इति यथापूर्वं चत्वार्यैवाऽऽयुधानि लभ्यन्ते । १६३ । प्रतिद्वारं द्वौ द्वौ प्रतीहाराविति प्रकृतम्, इह त्वेक एव लभ्यते 'पाण्डुर' इति । रूपमण्डने—'दुर्मुखः पश्चिमे वामे पाण्डुरो दक्षिणे तथा' ( अ० ४, श्लो० १०६ ) इति द्वावेव प्रतीहारौ निर्दिष्टौ । अत्र ग्रन्थकृत्प्रमादादेकः प्रतीहारो लुप्तः किं वा पाण्डुरनामानौ द्वावेव प्रतीहाराविति चिन्तनीयम् । एवञ्च 'पाण्डुरा'विति द्विवचनमेव न्याय्यमुत्पश्यामः । अत्र 'वामदक्षिण' इति युगपदुभयपार्श्वयोरुल्लेखात् पाण्डर इत्येकेनैव नाम्ना निर्दिष्टौ द्वौ प्रतीहाराविति च नायौक्तिकं वक्तुमर्हामः । अपि च पूर्वश्लोके द्विधैवाऽऽयुधानि प्रतिपादितानीत्यपि प्रतीहार- द्वैधं निर्बाधमुपन्यस्यति । १६४-१६५ । उत्तरद्वारप्रतीहारावाह—सितश्चेति । उत्तरे द्वारे वामे सितः दक्षिणे असित इति वर्तुलॊऽर्थः । तदयं संक्षेपः—पूर्वद्वारोभयपार्श्वयोर्नन्दिमहाकालौ, दक्षिणद्वारपार्श्वयोर्हेरम्ब- भृङ्गणौ, पश्चिमद्वारपार्श्वयोः पाण्डुरौ, उत्तरद्वारपार्श्वयोश्च सितासिताविति । देवता—१७

१३० देवतामूर्त्तिकरणम् [ वाहनदृष्टिकथनम् ] पादं जानु कटिं यावन् (मर्जौ?मूर्त्तौ)वाहनदृक् शुभा । स्था(नं?न) नाशं करोत्यूर्ध्वाऽधोदृष्टिश्च प्रजाक्षयम् ॥१६८॥ (धात?धाता) दिवं प्रति(हातः?गतः) कलनेऽस्य रूपं (तत्यादयुग्ममगमदहाशो हरिहरश्च?) । यातौ न पारममरे(ष्वपी?ष्वपि) नंदनी(मा?य-) मव्य(ता?क्त)रूपममराधिपतेश्च पातु ॥ १६६ ॥ इति श्रीक्षेत्रा × × × × विरचिते वास्तुशास्त्रे रूपावतारे रुद्रमूर्त्तिलिङ्गाधिकारो नाम षष्ठमो(?)ऽध्यायः । १६८ । व्याख्यातमिदं प्राक् (पृ० ८८, श्लो० ६६) । १६९ । अन्ते अध्यायान्तर्मुख्यतः प्रतिपाद्यसारं महादेवं स्तौति-धातेति । द्वितीयपादे 'तस्मादयुग्ममगमद् बहुशो हरिश्चे'ति कथञ्चित् स्यात् । तथाचायमर्थः-अस्य रूपं कलने रूपं कलयितुमित्यर्थः, धाता दिवं प्रतिगतः, हरिश्च तस्माद् धातुर्युग्मं पृथगित्यर्थः, बहून् लोकानगमत्, उभावपि यस्य पारमन्तं न यातौ तस्याव्यक्तं रूपं पातु । 'तवैश्वर्यं यत्ताद् यदुपरि विरिञ्चिर्हरिरधः परिच्छेत्तुं यातौ' इत्यादि स्मृतिरत्र मूलमनुसन्धेयम् ।

सप्तमोऽध्यायः —:*:— [ अथ चतुर्विंशतितीर्थङ्कराः ] (१)ऋषभाश्चा(२)जितश्चैव ((३)सम्भवैश्या?सम्भवश्चा)(४)भिनन्दनः । (५)सुमतिः (६)पद्मनाभश्च ((७)सूर्याश्चे?सुपार्श्वः) सप्तमानतः ॥१॥ (८)(चन्द्रः?चन्द्र) प्रभः (६)पुष्पद(न्त ? न्तः) (१०)शीत(ला ? लो) दशमो मतः । (११)श्रेयांसो (१२)वासपत्न्यश्च (१३)विमलो(१४)ऽनन्त((१५)तद्गकः ? धर्मकौ) ॥ २ ॥ (१६)शान्तिश्च(१७-१८)( पुथारु ? कुन्थनाथार ) (१६)मल्ल्यो (२०)मुनिसुव्रतः । (नाभि या ? (२१)नमि (२२)नेमि-पा(२३)र्श्वनाथो(२४)वर्धमान- स्ततः परम् । चतुर्विंशतिरित्येते मतास्तीर्थङ्करा बुधैः ॥ ३ ॥ १-३ । यावद् दैवतमूर्त्तिं कर्तुकामः सम्प्रदायविशेषाणामेव तामभिधाय यद्यन्तरा विरमे- त्तदाऽवशिष्टाऽपि जैनदेवतानां मूर्त्तिः किमनेनाज्ञानादवज्ञानाद्वापेक्षितेति शिष्याणां भ्रमो मा भूदिति जिनानां मूर्त्तिमाह—ऋषभ इति । जिनाश्च सर्व एव समानाकृतयश्च इति तेषां मूर्त्तौ विशेषमनभिधाय विशेषवतीस्तत्तच्छासनदेवतानां मूर्त्तीरेवाग्रे लक्षयिष्यतीति ज्ञेयम् । जैनानां समये उत्सर्पिण्यवसर्पिणीति द्विधा युगानि भिद्यन्ते । तत्रावसर्पिण्यां जना उन्नताः क्रमेणावनतिं प्रपद्यन्ते, उत्सर्पिण्याञ्चावनता जनाः क्रमेणोन्नतिं लभन्ते । अवसर्पिणी अतीत- युगस्य उत्सर्पिणी वर्त्तमानयुगस्य संज्ञा । अवसर्पिण्याख्ये व्यतीतयुगे चतुर्विंशतितीर्थङ्करा विलीनाः, वर्त्तमाने उत्सर्पिण्याख्ये युगे पुनश्चतुर्विंशतिरुद्बभूवुः । तेषामेवायमधिकारः कालः, त एव च जैनैर्देवाधिकत्वेन पूज्यन्ते मन्यते च देवा अप्येतानर्चयन्तीति । अत्र च वर्त्तमान- युगीयतीर्थङ्कराणामेव मूर्त्तिः क्रमेणोल्लिखितेति ज्ञेयम् । रूपमण्डने पुनः—'एतस्या(मिव ? मव ) सर्पिण्या ( ऋ ? ष् ) षभो ( जिन ? ऽजित ) सम्भवः' (अ० ६, श्लो०) इत्युपक्रमो दृश्यते ।

१३२ देवतामूर्त्तिप्रकरणम् [ जिनानां वर्णाः ] रक्तौ च पद्मप्रभवासपूज्यौ शुक्लौ च चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमिमुनी च नीलौ श्रीमल्लि(पार्श्वे ? पार्श्वौ) कन(कत्विषा ? कत्विषोऽ) न्ये ॥ ४ । ऋषभ इति अस्याऽऽदिनाथ इति नामान्तरम् । (६)पद्मनाभस्यापि पद्मप्रभ इति नामान्तरं रूपमण्डने (अ० ६, श्लो० १), शीलरत्नसूरिकृते चतुर्विंशतिजिनस्तुतिसंग्रहाख्ये ग्रन्थे चोपलभ्यते । ग्रन्थकृताऽप्युत्तरत्र वर्णनिर्णयावसरे 'पद्मप्रभ' इत्येव नाम धृतमिति द्वयमपि साधु । सप्तमान्त इति सुपार्श्वः सप्तम इत्यर्थः । (८)चन्द्रप्रभ इति, चन्द्रप्रभुरिति जिनस्तुतौ सूचनायामुपलभ्यते । मूलग्रन्थे पुनः— ‘चन्द्रप्रभ त्रिभुवनाधिपते प्रसीद सौभाग्यसुन्दरविभो कुशलाचलीद’ इति यथोक्तमेव नाम दृश्यते । यच्च जैनपद्मपुराणे ‘शशिभृत्प्रभुः’ (पर्व० २० श्लो० ८) इत्युपलभ्यते, तत्र ‘शशभृत्प्रभः’ ‘शशभृत्प्रभु’र्वा भविष्यतीति सम्भावयामः। (९) पुष्पदन्त इत्यस्य रूपमण्डने (अ० ६, श्लो० २), जिनस्तुतौ, पद्मपुराणे च ‘सुविधि’रिति नाम । यद्यपि ‘तक्षक’ इत्यत्र लिपिकृतप्रमादबुद्ध्या ‘धर्मक’ इति कल्पनमतिसाहसं तथाऽपि यथार्थपाठोद्धारे बद्धपरिकराणामस्माकं न केवलं लिपिकृतप्रमादोच्छेदे तात्पर्यं सङ्कोचनीयम्, दर्शितमेतदर्वाग् दर्शयिष्यते चेत ऊर्ध्वमपि । उपलभ्यते च ‘धर्मक’ इति नाम जैनपद्मपुराणादौ रूपमण्डने च (अ० ६, श्लो० ३१)। एवञ्च ‘पुष्पदन्त’ इत्यत्राप्यपेक्षिता शुद्धिर्न कृतेति न्यूनतां छन्दस्या- सञ्जयता कथञ्चित् सुखमनुभूयते । यद्वा उभयत्राप्यनपेक्षिता शुद्धिस्तन्त्रान्तरे तथाविधाभिधानस्य सम्भवादिति दिक् । नमीति । नाथपदस्य सर्वत्रैवान्वयः, नमिनाथो नेमिनाथः पार्श्वनाथश्चेति । किञ्च ऋषभ इत्यादीनि सर्वाण्येव नामानि नार्थान्तानीति ज्ञेयम् । वर्धमान इत्यस्य महावीर इति नामान्तरम् अस्यैवायं शासनकालः । तथाच—‘पश्चिमो वीरो शासनं यस्य वर्त्तते’ इति (जै० प० २०।१०) ४। जिनानां वर्णानह—रक्तौ चेति । जैनपद्मपुराणे पुनरन्यथैव वर्णनिर्देशः । तथाच— चन्द्राभश्चन्द्रसंकाशः पुष्पदन्तश्च कीर्त्तितः । प्रियङ्गुमञ्जरीवर्णः सुपार्श्वो जिनसत्तमः ॥ अपक्वशालिसङ्काशः पार्श्वो नागाधिपस्तुतः । पद्मगर्भसमच्छायः पद्मप्रभजिनोत्तमः ॥ किंशुकोत्करसंकाशो वासुपूज्यः प्रकीर्त्तितः । नीलाञ्जनगिरिच्छायो मुनिसुव्रततीर्थकृत् ॥ मयूरकण्ठसंकाशो जिनो यादवपुङ्गवः । द्युतसत्काञ्चनच्छायाः शेषा जिनवराः स्मृताः ॥ इति (पर्व० २० श्लो० ६३—६६) ।

सप्तमोऽध्यायः १३३ [ जिनानां ध्वजाः ] (१)वृषो (२)गजोऽ(३)श्वः (४)प्लवगः (५)क्रौञ्चो (ज्वं ? (६)ऽब्जं) (७)स्वस्तिकः (८)शशः । (६)मकरः (१०)श्रीवत्स(षट्भि ? (११)खड्गी) (१२)महिषः (१३) शूकरस्तथा ॥ ५ ॥ (१४)श्येनो (१४)वज्र(१६)मृग(१७)च्छागा (नद्या ? (१८)नन्द्या) वर्त्तो (१६)घटोऽपि च । (२०)कूर्मो (२१)नीलोत्पलं (२२)शंखः (२३)फणी (षिह्नो ? (२४)सिंहो) ऽर्हतां ध्वजाः ॥ ६ ॥ [ जिनानां जन्मभानि ] (१)उत्तराषाढ(२)रोहिण्यौ (३)मृगशीर्षं (४)पुनर्वसुः ।

३६४ देवतामूर्त्तिप्रकरणम् [ जिनानां जन्मराशयः ] (१)धनु(२)वृषोऽथ (३)मिथुनं (४)मिथुनं (५)सिंह(६)कन्यके । (७)तुला(८)वृश्चिक(९)चापनि (१०)धनु(११)मर्कर(१२)कुम्भकौ ॥ १० ॥ (१३)मीनो (१४)मीनः ( कर्म ? (१५)कर्क ) (१६)मेषौ (१७)वृषो (१८)मीनश्च (१६)मेषकः । (२०)मकरो (२१)मेष(२२)कन्ये च (२३)तुला (२४)कन्येति राशयः ॥ ११ ॥ [ जिनोपासकयक्षनामानि ] स्याद् (१)गोमु(ख्ये ? खो) (२)महायक्ष(३)त्रिमुखो (४)यक्षनायकः । (५)तुम्बरः (६)कुसुमश्चापि (७)मातङ्गो (८)विजयो ( (६)

सप्तमोऽध्यायः १३५ (२०)नरदत्ता च (२१)गान्धार्य्(२२)धिका (२३)पद्मावती तथा । (२४)सिद्धायका चेति जैन्यः क्रमाच् शासनदेवताः ॥ १६ ॥ [ अथ यक्षाणां मूर्त्तिलक्षणम् ] अथातः संप्रवक्ष्यामि यक्षिणीयक्षमूर्त्तयः । ऋषभ(भो ? भे) गोमुखो यक्षो हेमवर्णो गजासनः ॥ १७ ॥ वराक्षसूत्रं पाशञ्च बीजपू(रं) करेषु च ॥ १८ ॥ [ इति गोमुखः १ ] चक्रेश्वरी हेमवर्णा तार्क्ष्यारूढाऽष्टबाहुका । वरं बाणं चक्रपाशांकुश(वक्ता ? शक्त्य)शनिर्धनुः ॥१९॥ [ इति चक्रेश्वरी १ ] अ(ति ? जि)तस्य महायक्षो (हर्मा ? हंसा)रूढश्चतुर्मुखः । वरमुद्गरा(शा ? शनि)पाशाङ्कुशशक्त्यभयानि बीजपूरं च ॥ (?) २०॥ [ इति महायक्षः २ ] चतुर्भुजा गौरवर्णा गोधारूढाऽपराजिता । वरं चैव तथा पाशमङ्कुशं बीजपूरकम् ॥ २१ ॥ [ इत्यपराजिता ? अनितबला २ ] सम्भवे त्रिमुखो यक्षः श्यामो मयूरवाहनः । नकुलगदाभयाक्षं नागञ्च बीजपूरकम् ॥ २२ ॥ [ इति त्रिमुखः ३ ] १७ । इदानीं यस्य तीर्थङ्करस्य यो यक्ष उपासकः, या च शासनदेवता तान् क्रमेण वक्तुमाह—अथात इति । तत्र एकेन श्लोकेन यक्षमूर्त्तिरन्येन शासनदेवतामूर्त्तिर्वक्ति । एवमेव चतुर्विंशतितीर्थङ्कराणाम् उपासकान् शासनदेवताश्च प्रतिपादयतीति द्रष्टव्यम् । २० । बाहुबाहुल्यादायुधबाहुल्यं ततश्चाक्षरबाहुल्यं छन्दस इति सोढव्यमेव तत् ।

१३६ देवतामूर्त्तिप्रकरणम् दुरितारिगौरवर्णा यक्षिणी महिषासना । वरदं चाक्षसूत्र(ञ्च ? ञ्चा)भयञ्च बीजपूरकम् ॥ २३ ॥ [ इति दुरितारिः ३ ] श्यामव(र्णा ? र्णो) गजारू(ढा ? ढ) ईश्वर- (श्वा ? श्चा)भिनन्दने । मातुलिङ्गाक्षसूत्रञ्च अङ्कुशं नकुलं तथा ॥ २४ ॥ [ इति यक्षनायकः ४ ] कालिका श्यामवर्णा स्या(त्) पद्मारूढा चतुर्भुजा । वरं पाशाङ्कुशं नागं दक्षिणा( खश्च ? धश्च ) सृष्टितः ॥२५॥ [ इति कालिका ४ ] तार्क्ष्यस्थं (वरदं ? तुम्बरं) श्वेतं सुमतौ तु चतुर्भुजम् । वरदं च तथा शक्तिनागपाशं गदा(धरे ? करे) ॥ २६ ॥ [ इति तुम्बरः ५ ] महाकाली ( महे ? हेम )वर्णा पद्मारूढा चतुर्भुजा । वरदं नागपाशं चाङ्कुशं स्याद् बीजपूरकम् ॥ २७ ॥ [ इति महाकाली ५ ] ( पद्मपन्नत्र ? पद्मनाभस्य ) कुसु ( मे ? मो ) नीलो हरिणवाहनः । बीजपूराभयं चैवाक्षसूत्रं नकुलं तथा ॥ २८ ॥ [ इति कुसुमः ६ ] २४। ईश्वर इति यक्षनायक इत्यर्थः । २५। दक्षिणाधश्च सृष्टित इति सृष्टिक्रमेण अनुलोमेनेत्यर्थः । दक्षिणाधश्च इति दक्षिणयोर्हस्तयोरधःक्रमेण । २८। यद्यपि ‘पद्मपन्नत्र’ इत्यत्र ‘पद्मप्रभस्य’ इत्येव शुद्धिः स्वाभाविकी पद्मप्रभश्च नामान्तरमित्युक्तम्, तथाऽपि मूले तथाविधपाठानुपलम्भादियं शुद्धिरस्माभिः कृता ।

सप्तमोऽध्यायः १३७ श्यामा च श्यामवर्णा स्यान्नरारूढा चतुर्भुजा । वरं बाणाभयं चापं तस्या हस्तेषु च क्रमात् ॥ २६ ॥ [ इति श्यामा ६ ] सुपार्श्वे नीलवर्णः स्यान्मा ( तङ्गे ? तङ्गो ) गजवाहनः । हस्तेषु (निल? शूलं) पाशं चाङ्कुशं च नकुलं तथा ॥ ३० ॥ [ इति मातङ्गः ७ ] शान्ता [ भवेत् ] सुवर्णास्या गजारूढा चतुर्भुजा । वरदं चाक्षसूत्रं चाभयं तस्मात्त्रिशूलकम् ॥ ३१ ॥ [ इति शान्ता ७ ] चन्द्रप्रभस्य विजयो त्रिनेत्रो हंसवाहनः । द्विभुजो नीलवर्णः स्याच्चक्रं च मुद्गरं क्रमात् ॥ ३२ ॥ [ इति विजयः ८ ] भृकुटिः पीतवर्णा स्यात् सिंहारूढा चतुर्भुजा । खड्गं तथा मुद्गरञ्च परशुं खेटकं क्रमात् ॥ ३३ ॥

.... Wait, why would it be त्तम? Because in manuscript transcription, an unclosed क्षis frequently misread by the pandit/scribe asत्त! (In Śāradā, Devanagari, Nandinagari, etc., क्षandत्तoften look similar or scribes confuse them). The editor printed what the manuscript had:पाशात्तमभयाङ्कुशखेटकम्! Wait, let's keep पाशात्तमभयाङ्कुशखेटकम्orपाशाक्षमभयाङ्कुशखेटकम्? Let's look very carefully at that letter. Wait, let's look at पाशात्तमभयाङ्कुशखेटकम्: Yes, it is spelled पाशात्तमभयाङ्कुशखेटकम्`.

Check L22: मातुलुङ्गः, अम्लरसः फलविशेषोऽयम् । Yes, अम्लरसः is clearly legible now.

Check L16: मातुलिङ्गञ्च बाणञ्च धनुर्र्नकुलमेव च ॥ ४० ॥ Wait, धनुर्र्नकुलमेव: ध न ु र्र्न क ु ल मे व. Yes!

Everything is solid and precise.१३८ देवतामूर्त्तिप्रकरणम् शीतले नाथे [स्याद्]

सप्तमोऽध्यायः १३६ धनुश्चक्रञ्च नकुलं दक्षिणाधःकरक्रमात् । [ इति षण्मुखः १३ ] पद्मस्था विदिता पीता बाणपाशाहिकामुर्कम् ॥ ४१ ॥ [ इति विदिता १३ ] पाताल ( त्रि ? स्त्र्रि ) मु ( खा ? खो ऽ ) नन्ते र(क्ता ? क्तो) मकरवाहनः । पद्मखड्गं तथा पाशमक्षं खेटञ्च नाकुलम् ॥ ४२ ॥ [ इति पातालः १४ ] अङ्कुशी गौरवर्णा स्यात् पद्मारूढा चतुर्भुजा । खड्ग ( स्त ? न्त ) था नागपाशमङ्कुशं खेटकं तथा ॥४३॥ [ इत्यङ्कुशी १४ ] किन्नरस्त्रिमुखो धर्मे लोहि( ते ? तः ) कूर्मवाहनः । बीजपूरं गदां चाभयाक्षमा [ ला ] ब्जनाकुलम् ॥ ४४ ॥ [ इति किन्नरः १५ ] कन्दर्पा गौरवर्णा स्यान्मत्स्यारूढा चतुर्भुजा । उत्पलं चाङ्कुशं हस्तेऽभयं पद्मं क्रमाद् भवेत् ॥ ४५ ॥ [ इति कन्दर्पा १५ ] गरुडः शान्तिनाथस्य श्यामः शूकरवाहनः । वाराहवदनो बीजपूरपद्माक्षनाकुलैः ॥ ४६ ॥ [ इति गरुडः १६ ] निर्वाणो गौरवर्णा स्यात् पद्मारूढा चतुर्भुजा । पुस्तकं चोत्पलं पद्मं कमण्डलुः क्रमाद् भवेत् ॥ ४७ ॥ [ इति निर्वाणी १६ ] ४१ । बहुबाहुरयं षण्मुख इति सम्भाव्यते आयुधबाहुल्यदर्शनात् । ४२ । त्रिमुखत्वात् पातालः षड्भुज इति षडेवाऽऽयुधानि । ४४ । किन्नरोऽपि त्रिमुख त्वात् षड्भुजः ।

१४० देवतामूर्त्तिप्रकरणम् कुन्थनाथस्य गन्ध(र्वो हिंस ? र्वः सिंह) स्थः श्यामवर्णभाक् वरदं नागपाशं चाङ्कुशं वै बीजपूरकम् ॥ ४८ ॥ [ इति गन्धर्वः १७ ] गौरवर्णा मयूरस्था बीजपूरत्रिशूलने । ( पद्ममुषंधिका ? ) चैव स्याद् बला नाम यक्षिणी ॥४६॥ [ इति बला १७ ] अरुनाथस्य यक्षेन्द्रस्त्रिनेत्रः शेषवाहनः । षण्मुखः श्यामवर्णा(स्या ? स्यो) मातुलिङ्गं शिरस्तथा ॥५०॥ खड्गं मुद्गरपाशौ चाभयाक्षाङ्कुशशूलकम् । खेटं धनुश्च नकुलं भुजा द्वादश कीर्त्तिताः ॥ ५१ ॥ [ इति यक्षेट् १८ ] धारिणी यक्षिणी नीलपद्मवर्णासनस्थिता । मातुलिङ्गोत्पलं चाक्षमालापद्मं करेषु च ॥ ५२ ॥ [ इति धारिणी १८ ] मल्लो (सुतः?सितः) (कुषोरोह?कुबेरोऽथ) रथारूढश्चतुर्मुखः। वरपर्शुंलमभया मुद्गरं शक्तिलुङ्गकम् ॥ ५३ ॥ [ इति कुबेरः १९ ] कृष्णवर्णा चतुर्हस्ता पद्मस्था धरणप्रिया । वरदं चाक्षसूत्रञ्च शक्तिर्वै मातुलिङ्गकम् ॥ ५४ ॥ [ इति धरणप्रिया १९ ] त्रिनेत्रो वरुणो यक्षो धवलो मुनिसुव्रते । वृषवाहश्चतुर्वक्त्रो जटामुकुटमण्डितः ॥ ५५ ॥ ५३ । पर्शुं लमिति वरदमित्यादिवद् बाहुविशेषणम् ; पर्शुः परशुपर्यायः ।

मातुलिङ्गं गदाबाणं शक्तिः पाशं धनुस्तथा । पद्मं च नकुलं चेति दक्षिणाधःकरक्रमात् ॥ ५६ ॥ [ इति वरुणः २० ] वरदन्ता गौरवर्णा सिंहारूढा सुशोभना । वरदं चाक्षसूत्रं त्रिशूलं च बीजपूरकम् ॥ ५७ ॥ [ इति वरदन्ता २० ] भृकुटि(नेंमि ? र्नमि)नाथस्य पीतस्त्र्यक्षश्चतुर्मुखः । वृषवाहो मातुलिङ्गं शक्तिश्च मुद्गराभयौ ॥ ५८ ॥ [ इति भृकुटिः २१ ] अक्षं वज्रं परशुलं नकुलं ( माथातस्तु? ) । गान्धारी वरखड्गं खेटं लुङ्गं हंसारूढा सिता ( प्रोक्तकायो ? ) ॥ ५६ ॥ [ इति गान्धारी २१ ] नेमिनाथस्य गोमेधो नर(स्थास्रिमूषर ? स्थस्त्रिमुखः) सितः । बीजपूरं पर्शु चक्रं शक्तिशूलं च नाकुलम् ॥ ६० ॥ [ इति गोमेधः २२ ] सिंहारूढाऽम्बिका(याश्च लुं वीर्नागयाकुलम् ? ) । अङ्कुशं च तथा (पु?पवं) त(था?स्या) हस्तेषु कारयेत् ॥६१॥ [ इति अम्बिका २२ ] ५९ । अक्षमिति । अर्धमिदं किं भृकुटेरायुधप्रतिपादनपरमाहो गान्धार्या इति न निश्चिनुमः । द्वाभ्यां द्वाभ्यामर्धाभ्यामेकैकस्य लक्षणसमाप्तिरित्यस्मिन् प्रकरणे दृश्यते, तत्क्रमादरे तु गान्धार्या आयुधप्रतिपादनपरमिदमर्धमिति भवति । अक्षवज्रपरशुनकुलं(मथातुस्तु ?) गान्धारी यक्षिणी । वरखड्गखेटलुङ्गं हंसारूढा(स्सिता कायो?) ॥ इति रूपावतारे एतन्मतप्रतिपादकम् अपरित्यक्तमूलदोषविषमं पद्यम् । ६१। 'सिंहारूढाम्बि(क?का)का(यं?यीं) उमनागपाशकम्' इति रूपावतारपाठपर्या- लोचनया 'सिंहारूढाम्बिका मातुलिङ्गञ्च नागपाशकम्' इति पूर्वार्धे पाठः सम्भाव्यते ।

१४२ देवतामूर्त्तिप्रकरणम् पार्श्वः श्रीपार्श्वनाथस्य कूर्मारूढो गजाननः । बीजपूरोरगं नागं नकुलं श्यामवर्णभृत् ॥ ६२ ॥ [ इति पार्श्वः २३ ] पद्मावती रक्तवर्णा (कुकुं?कुक्कु)टस्था चतुर्भुजा । पद्मं पाशाङ्कुशं बीजपूरं हस्तेषु कारयेत् ॥ ६३ ॥ [ इति पद्मावती २३ ] महावीरस्य मातङ्गः श्यामः स्याद् गजवाहनः । दक्षिणे नकुलं हस्ते वामे स्याद् बीजपूरकम् ॥ ६४ ॥ [ इति मातङ्गः २४ ] सिद्धायका नीलवर्णा सिंहारूढा चतुर्भुजा । पुस्तकं चाभयं चैव बाणं स्यान्मातुलिङ्गकम् ॥ ६५ ॥ [ इति सिद्धायका २४ ] [ इति जिनानां यक्षयक्षिणीमूर्त्तयः ] अथ द्वितीयभेदेन चक्रे ( श्वरी ) द्वादशभुजाष्टचक्रे वज्रयोर्द्वयमेव च । मातुलिङ्गाभयं चैव पद्मस्था ग(रलो ? रुडो)परि ॥ ६६ ॥ कैलासमोशरणाब्जसिद्धावर्त्तिसदाशिवम् । सिंहासनं धर्मचक्रमुपरीह छललयम् ॥ ६७ ॥ ६६ । एतेषां जिनानां शासनदेवतानाञ्च मध्ये चत्वारो मुख्या इति रूपमण्डनपर्या- लोचनया प्राप्यते । तथा च रूपमण्डने— जिनस्य मूर्त्तयोऽनन्ताः पूजिताः ( सौख्यसर्व ? सर्वसौख्य )दा । चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः ॥ श्रीआदिनाथो नेमिश्च ( पर्वे ? पार्श्वो ) वीर (चतु ? श्रुतु)र्थकः । चक्रे ( चर्या ? श्वर्य )म्बिका पद्मावती सिद्धायकेति च ॥ इति ( अ० ६, श्लो० २५-२६ ) । ६७ । कैलासं सोमशरणं ( सिधि ? सिद्धि ) वर्त्तसदाशिवम् । सिंहासनं धर्मचक्रमुपरोन्द्रातपत्रकम् ॥ इति रूपमण्डने (अ० ६, श्लो० २७) ।

सप्तमोऽध्यायः १४३

श्रीवत्सश्च तथाऽशोकं वृषा वृश्चिकदुन्दुभिः । [ प्रतीहाराः ] इन्द्र इन्द्रजयश्चैव माहेन्द्रो (वी ? वि) जयस्तथा ॥ ६८ ॥ धरणेन्द्रो पद्मकश्च सुनाभः सुरदुन्दुभिः । इत्यष्टौ च प्रतीहारा (वि ? वी) तरागे तु शान्तिदाः ॥६९॥ [ प्रतीहाराणां स्वरूपम् ] फलवज्राङ्कुशं दण्डमिन्द्रसव्ये (ध्वज?जय)स्तथा । द्वौ वज्रौ फलदण्डन्तु माहेन्द्रसव्ये विजयस्तथा ॥ ७० ॥ (यदायूथयोगोद्भवा विपञ्चफणतोऽर्द्धगाः ?) । धरणेन्द्र(ः) पद्मकश्च सर्वशान्तिकरौ स्मृतौ ॥ ७१ ॥ यक्षरूपाधिका(रं च? राश्च) निधिहस्ताः शुभो(दराः? दयाः) । सुना(भं ? भो) दुन्दुभिश्चैव सर्वे शान्तिप्रदायकाः ॥७२॥ इत्यष्टौ च प्रतीहारा जिनेन्द्रस्य च शान्ति(दः ? दाः ) । नगरादिपुरग्रामे सर्वविघ्नप्रणाशनाः ॥ ७३ ॥ मुक्त्यर्थे विश्वमेतद् भ्रमति च बहुधा देवदैत्याः पिशाचा रक्षो गन्धर्वयक्षो नरमृगपशवो नैव मुक्तिं विजग्मुः । एकः श्रीवीतरागः परमपदसुखे मुक्ति(र्ना?मार्गे)विलीनो

  • वन्द्यस्तेना(ग?द्य)जैनः सुरगण(म)नुजैः सर्वसौख्यस्य हेतुः ॥ ७४ ॥ इति श्रीक्षेत्रात्मज (सूत्र) भृन्मण्डनविरचिते वास्तुशास्त्रे रूपावतारे जिनमूर्त्तिचतुर्विंशतियक्षयक्षिण्यधिकारो नाम सप्तमोऽध्यायः ॥ ७ ॥

अष्टमोऽध्यायः ———•——— अथ गौरीं प्रवक्ष्यामि प्रमाणं मूर्त्तिलक्षणम् । चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता । गोधासनोपरिस्था च कर्त्तव्या सर्वकामदा ॥ १ ॥ [ इति गौरीमूर्त्तीनां सामान्यलक्षणम् ] ( उत्तमा?उमा च ) पार्वती गौरी ललिता च श्रिया तथा । कृष्णा च हिम( वन्ति ? वन्ती ) च रम्भा च सावित्री तथा । त्रिखण्डा तोतला चैव त्रिपुरा द्वादशोदिताः ॥ २ ॥ [ इति गौरीनामानि ] अक्षसू( त्रा?त्रं ) च कमलं दर्पणञ्च कमण्ड( लु ? लुं ) । उमाना( म्नि?नी ) भवेन्मूर्त्तिः पूजिता त्रिदशैरपि ॥ ३ ॥ [ इत्युमा ] अक्षसूत्रं शिवं देवं गणाध्यक्षं कमण्डलुम् । अग्निकुण्डोभये पक्षे पार्वती पर्वतोद्भवा ॥ ४ ॥ [ इति पार्वती ] ───────────────────────────────────────────────────────────── १ । पञ्चमाध्याये वैष्णवप्रकरणे शिलाचक्रलक्षणं विष्णोर्मूत्त्यन्तराणि च प्रतिपादितानि । षष्ठे शैवे शिवमूत्तिः शिवलिङ्गानि प्रसङ्गतो मण्डपविषये विशेषाश्च प्रतिपादिताः । अन्तरा सप्तमे जैनाधिकारे जिनतदुपासकतच्छासनदेवताः सलक्षणाः साभिधानाः प्रतिपाद्याष्टमे शाक्ताधिकारे शक्तीनां मूर्त्तीर्वक्तुमासां गौर्यशतया मूलीभूतां गौरीं लक्षयति—अथेति । 'चतु- र्भुजा त्रिनेत्रा च सर्वाभरणभूषिते'ति अविशेषेण सर्वासागेव गौरीमूर्त्तीनां लक्षणम् ; अत एव प्रत्येक- लक्षणे भुजनेत्रादीनामुल्लेखो न कृतः । 'गौर्याः प्रवक्ष्यामी'ति रूपमण्डने पाठः । (५।१) । २ । कास्तावद् गौर्या मूर्त्तय इत्यपेक्षायामाह—उमा चेति । अयमासाम् उद्देशः । रूप- मण्डने अयमुद्देशनिर्देशो नास्ति । तत्र 'अथ गौर्याः प्रवक्ष्यामी'त्युपक्रम्यैव क्रमेणाऽऽसां लक्षणानि लिखितानि । ४ । 'अग्निकुण्डोभये पक्षे' इत्यत्र 'पक्षद्वयेऽग्निकुण्डञ्च' इति रूपमण्डने (५।२) ऋज्वर्थः पाठः ।

अष्टमोऽध्यायः १४५ अक्षसू( तोभय?त्राभये) पद्मं तस्योर्द्ध्वे तु कमण्डलुम् । गौर्या( या?श्च ) मूर्त्तिरित्युक्ता कर्त्तव्या शिवशासिनी ॥ ५ ॥ [ इति गौरी ] अक्षसूत्रं च वीणे द्वे कमण्डलु ( : ) करेषु च । ललिता च तदा नाम सिद्ध( चामर ? चारण )सेविता ॥ ६ ॥ [ इति ललिता ] गोधासनाक्षसूत्रा च ( म ? अ )भयं वरदं करम् । श्रिया मूर्त्तिस्तदा नाम (ग्रहे?गृहे) पूज्या (श्रियोपमा?श्रिये सदा) ॥ [ इति श्रिया ] अक्षसूत्रं कमण्डलुं हृदये च पुटाञ्जलि ( : ? ) । पञ्चा (ग्रवश्च?ग्नयश्च ) कुण्डेषु कृष्णा नाम सुशोभना ॥ ८॥ [ इति कृष्णा ] हिमवन्ती शैलराजी ( शब्दवस्यात् परीसुता ? ) । (पद्मदर्पणोभवा ?) तु वीवाहे तु माहेश्वरी ॥ ६ ॥ [ इति हिमवन्ती ] कमण्डल्वक्षवज्राङ्कुशं गजासनसंस्थिता । (अ?सा)प्रतीतोद्भव(वा ? वद्)रूपा रम्भा च सर्वकामदा ॥१०॥ [ इति रम्भा ] ६। ललिता रूपमण्डने नास्ति । 'सिद्धचामरसेविते'त्यस्य 'सिद्धामरनिषेविते'त्यर्थे तात्पर्यं वा कृतशुद्धौ पाठे तात्पर्यं वेति चिन्तनीयम् । ८। पञ्चाग्नयश्च कुण्डेष्विति उभयतः पार्श्वयोरग्निकुण्डपञ्चकान्वितेत्यर्थः । अत्र 'पक्ष- द्वयेऽग्निकुण्डङ्गे'ति पार्वतीवदेव पाठो भवेन्न वेति चिन्तनीयम् । इयमपि रूपमण्डने नास्ति । ९। हिमवन्त्या लक्षणं पाठविकाराद् दुरुन्नेयम् । इयमपि रूपमण्डने नास्ति । १०। सा रम्भा प्रतीतोद्भववद्रूपा प्रतीतँ ख्यातम् उद्भववद् रूपं यस्याः तादृशी, यस्या रूपं प्रतिक्षणमेव नवनवीभूतं सत् प्रख्यायते इत्यर्थः । सोपसर्गेण भवतिना वर्त्तमानकाल- वाचिना शत्रा च रूपस्य प्रतिक्षणोत्पद्यमानत्वं लभ्यते । रूपमण्डने—

१४६ देवतामूर्त्तिप्रकरणम् अक्षसूत्रं पुस्तकञ्च धत्ते पद्मं कमण्डलुम् । चतुर्वक्त्रा तु सा(वि ? त्री) श्रोत्रियाणां गृहे हिता ॥ ११ ॥ [ इति सावित्री ] अक्षसूत्रं वज्र(शक्ति?शक्ती) तस्याधश्च कमण्डलुः । ( त्रिखण्ड?ण्डां ) पूजयेन्नित्यं सर्वकामफलप्र(दा?दाम् ) ॥१२॥ [ इति त्रिखण्डा ] शूलाक्षसूत्रं दण्डञ्च (श्वेतचामकरे?श्वेतचामरकं ) तथा । श्वेतदेहा भवे (देही?देवी ) तोतला पापनाशिनी ॥ १३ ॥ [ इति तोतला ] पाशाङ्कुशाभयवरं चतुर्हस्तेष्वनुक्रमात् । त्रिपुरा नाम संपूज्या वन्दिता त्रिदशैरपि ॥ १४ ॥ [ इति त्रिपुरा ] इति द्वादश गौर्यः वक्ष्यामि गौर्यायत (नं ? न) देवतानामनुक्रमम् । वामे (स्याद्धि?सिद्धिः) श्रिया सौम्ये सावित्री चैव पश्चिमे ॥१५॥ ( पृष्टिः?पृष्ठे ) कर्णे तथा द्वाभ्यां भगवती सरस्वती । ईशाने च गणेशः स्यात् कुमार(म? श्चा)ग्निकोणके ॥ १६ ॥ कमण्डल्वक्षसूत्रञ्च बिभ्राणा वज्रमङ्कुशम् । गजासनस्थिता रम्भा कर्त्तव्या सर्वकामदा ॥ (अ० ५, श्लो० ५) इति रम्भालक्षणमुपलभ्यते । १२। त्रिखण्डा रूपमण्डनं न मण्डयति । १३। शूलाक्षसूत्रं दण्डञ्च बिभ्राणा चैव चामरम् । तोतला कथिता चेयं सर्व( कोप ? पाप )प्रणाशिनी ॥ इति निःसन्दिग्धार्थः पाठो रूपमण्डने ( अ० ५, श्लो० ६ ) । १५-१७। गौर्यायतनं लक्षयति—वक्ष्यामीत्यादिना । वामे इति दक्षिणस्यां दिशि,

अष्टमोऽध्यायः १४७ कुण्डलाभ्यामलङ्कृता सर्वाभरणभूषिता । मध्ये देवी प्रतिष्ठा(प्य?प्या) चेश्वरस्य सदा प्रिया ॥ १७ ॥ [ इति गौर्यायतनम् ] अभयाङ्कुशपाशं दण्डं जया चैव तु पूर्वतः । सव्यापसव्ययोगेन (न ? वि) जया नाम सा भवेत् ॥ १८ ॥ अभयाङ्कुशपाशदण्डम् अजितासव्येऽपराजिता । अभयवज्राङ्कुशदण्डं विभक्ताङ्कुशापसव्ये मङ्गला । अभ(या?यं) शङ्खपद्मदण्डं मोहिन्य(पि सव्ये सभिनी?पसव्ये स्तम्भिनी) ॥ १६ ॥ जया च विजया चैव अजिता चापराजिता । विभक्ता मङ्गला चैव मोहिनी स्तम्भिनी तथा । गौर्यायतने शस्ता (च?श्व) अष्ट (स्याद्?स्युः)द्वारपालिकाः ॥२०॥ [ इति गौर्याः प्रतीहाराः ] सौम्य इत्युत्तरस्याम्, एतेन पश्चिमास्या प्रतिमेति ग्रन्थकर्तुरभिप्रायः प्रतिभाति। पृष्ठे कर्णे तथा द्वाभ्यामिति— 'पृष्ठकर्णद्वये कार्या भगवती सरस्वती' इति रूपमण्डने (अ० ५, श्लो० ९] संस्कारशुद्धः पाठः । अत्र ऐशानाग्नेययोर्वक्ष्यमाणत्वात् 'पृष्ठकर्णद्वय'पदेन वायुनैर्ऋतकोणद्वयं बोध्यम्। एवञ्च—मध्यवर्त्तिन्यां प्रतिमायां पूर्वाश्यायां सत्यामेव वायुनैर्ऋतकोणद्वयं पृष्ठतः स्यादिति पूर्वं पश्चिमास्यपरतामवलम्ब्य यद् व्याख्यातं तद् व्याहृतमित्यन्यथा व्याख्यायते—वामे वामभागे पूर्वास्थ्यत्वादुत्तरस्यां दिशीत्यर्थः, सौम्ये दक्षिणे भागे दक्षिणस्यां दिशीत्यर्थः । अत्र गौर्यायतने पूर्वस्यां दिशि मूर्त्तिविशेषाश्रवणात् 'लिङ्गस्याग्रे न कर्त्तव्या ह्यर्चारूपेण देवता' (अ० ३, श्लो०—) इतिवदत्रापि गौर्यग्रे मूर्त्तिर्न विधेयेत्यायाति, तत्र लिङ्गपदस्योपलक्षण- परत्वव्याख्यानाद्वा। १८-१९। इदानीं गौर्याश्रतस्रुषु द्वार्वषु चतस्रो द्वारपालिका आह—अभयेति । पूर्वाद्दितः प्रादक्षिण्वेन (पूर्व-दक्षिण-पश्चिमोत्तरक्रमेण) प्रतिद्वारं द्वे द्वे द्वारपालिके वामदक्षिणोदुम्बरयोः

१४८ देवतामूर्त्तिप्रकरणम् दण्डञ्च परशुं पद्मं मोदकञ्च गजाननम् । गणेशं मूषकारूढं सिद्धिदं सर्वकामदम् ॥ २१ ॥ [ इति गणेशः ] क्रमेण कार्ये इति वर्त्तुलार्थः । तत्र पूर्वे द्वारे वामोडुम्बरे जया दक्षिणोडुम्बरे विजया, एवं दक्षिणे अजितापराजिते, पश्चिमे विभक्ता-मङ्गले, उत्तरे मोहिनी-स्तम्भिन्यौ इति ज्ञेयम् । अत्र 'विजया नाम सा भवेत्' ( १८ ) इत्यत्र 'विजया तामसा भवेत्' इति रूपमण्डने ( अ० ५, श्लो० ११ ) प्रामादिकः पाठः, प्रतिद्वारं द्वारपालिकानां यथाश्रुतद्वित्वभङ्गप्रसङ्गात्, अनूद्देशश्लोके तामसाया अपाठाच्च । सुखबोधार्थं चित्रे गौर्या आयतनदेवताः प्रतीहाराश्च निवेश्यन्ते— [ गौर्यायतनम् ] मोहिनी स्तम्भिनी भगवती गणेशः श्रिया मङ्गला सावित्री गौरी जया सिद्धिः विभक्ता सरस्वती कार्त्तिकेयः विजया अपराजिता अजिता [ कोष्ठमध्ये यथोक्ता आयतनदेवताः । कोष्ठाद् बहिर्द्वयोर्द्वयोर्द्वारोडुम्बरयोः पूर्वादिक्रमेण यथोक्ता जयाविजयादिद्वारदेवताश्च ] २१ । अथ गणेशमूर्त्तिंराह—दण्डञ्चेति । अत्राऽऽदर्शे श्लोकत्रयानन्तरम् 'इति हेरम्बः'