रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
१२ रूपमण्डने [ वरुणः ] (१) वरपाशोसलं कुण्डीं हस्तैर्बिभ्रत् क्रमाच्च यः । नक्रारूढः स कर्तव्यो वरुणः पश्चिमाश्रितः ॥ ३५ ॥ [ पवनः ] वरं ध्वजपताकाञ्च कमण्डलुं करैर्दधत् । मृगारूढो हरिद्वर्णः पवनो वायुदिक्पतिः ॥ ३६ ॥ [ कुबेरः ] गदानिधिवीजपूरकमण्डलुधरः करैः । गजारूढः प्रकर्तव्यः (२) सौम्यो यो नरवाहनः ॥ ३७ ॥ [ ईशानः ] वरं तथा त्रिशूलञ्च नागेन्द्रं बीजपूरकम् । बिभ्राणो (३)वृषभारूढो ईशानो धवलद्युतिः ॥ ३८ ॥ इति दिक्पालमूर्तिध्यानम् । इति श्रीसूत्रधारमण्डनविरचिते रूपमण्डने वास्तुशास्त्रे ब्रह्मसूर्यादिग्रहदिक्पाल- मूर्त्यधिकारो नाम द्वितीयोऽध्यायः ॥ २ ॥
तृतीयोऽध्यायः ───:०:─── [ युगभेदेन वर्णभेदेन च विष्णुमूर्तयः ] वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः । श्वेतरक्तपीतकृष्णा(:) क्रमात् (१)कलयुगादिषु ॥ १ ॥ पूज्या द्विजादिभिश्च──────────── [ शिरोविधानम् ] ──────एषां छत्राभं कुक्कुटाण्डवत् । वपुषाभञ्च बालेन्दुरूपं कुर्याच्छिरः क्रमात् ॥ २ ॥ [ वर्णभेदेन विष्णुमूर्तीनां शुभदत्वम् ] नारायणः केशवश्च माधवो मधुसूदनः । पूजिता मूर्त्तयो ह्येता विप्राणां सौख्यदायकाः ॥ ३ ॥ मधुसूदनविष्णू च क्षत्रियाणां फलप्रदौ । त्रिविक्रमो वामनश्च वैश्यानाम् (२)अर्चयेच्छुभा ॥ ४ ॥ पूजिता (३)श्रीधरी मूर्त्तिः शूद्राणां सौख्यदायिनी । चर्मकृद्रजकानाञ्च नटस्य वरटस्य च ॥ ५ ॥ मेदभिल्लकिरातानां हृषीकेशः सुखप्रदः । कुम्भकारवणिग्वेश्या(४)चक्रिकाध्वजिनामपि ॥ ६ ॥ सर्वेषां प्रकृतीनाञ्च पद्मनाभः सुखावहः । दामोदरः सौख्यदः स्याद् (५) ब्रह्मचर्यैकदण्डिनोः ॥ ७ ॥ (६)हरिहरो हिरण्यगर्भो नारसिंहोऽथ वामनः । वराहः सर्ववर्णेषु सौख्यदो हितकारकः ॥ ८ ॥ ────────────────────────────────────────── (१) 'कलि-' इति स्यात् । (२) 'अर्चने शुभौ' इति स्यात् । (३) 'श्रैधरी' इति स्यात् । (४) '-चक्रिक-' इति स्यात् । (५) 'ब्रह्मचार्येक-' इति स्यात् । (६) 'हरि- र्हिरण्यगर्भश्च' इति स्यात् ।
१४ रूपमण्डने [ वासुदेवः ] वासुदेवो (१)गदां शङ्खं चक्रपद्मघरो मतः । [ केशवः ] केशवः कमलं कम्बु धत्ते चक्रं गदामपि ॥ ९ ॥ [ नारायणः ] नारायणः कम्बु(२)पलगदाचक्रधरो भवेत् । [ माधवः ] माधवस्तु गदां चक्रं शङ्खं वहति पङ्कजम् ॥ १० ॥ [ पुरुषोत्तमः ] पुरुषोत्तमस्तु चक्रं पद्मं शङ्खं गदां दधत् । [ अधोक्षजः ] अधोक्षजः सरसिजं गदां शङ्खं सुदर्शनम् ॥ ११ ॥ [ सङ्कर्षणः ] सङ्कर्षणो (३) गदां कम्बुसरसीरुहचक्रभृत् । [ गोविन्दः ] गोविन्दो धरते चक्रं गदां पद्मं च कम्बुना ॥ १२ ॥ [ विष्णुः ] विष्णुः कौमोदकीं पद्मं पाञ्चजन्यं सुदर्शनम् । [ मधुसूदनः ] मधुसूदनस्तु चक्रं शङ्खं सरसिजं गदाम् ॥ १३ ॥ [ अच्युतः ] अच्युतस्तु गदापद्मचक्रशङ्खैः समन्वितः । [ उपेन्द्रः ] उपेन्द्रो वहते शङ्खं गदां चक्रं कुशेशयम् ॥ १४ ॥ (१) ‘गदा-शङ्ख-चक्र-पद्म-’ इति स्यात् । (२) ‘-पद्म-’ इति स्यात् । (३) ‘गदा- कम्बु-’ इति स्यात् ।
तृतीयोऽध्यायः १५ [ प्रद्युम्नः ] प्रद्युम्नश्च (१)चक्रशङ्खं गदाम्भोजानि पाणिभिः । [ त्रिविक्रमः ] त्रिविक्रमस्त्रिषु गदाचक्रशङ्खान् बिभर्त्ति यः ॥ १५ ॥ [ नरसिंहः ] नरसिंहस्तु चक्राब्जगदाकम्बुविराजितः । [ जनार्दनः ] जनार्दनोऽम्बुजं चक्रं कम्बुं कौमोदकीं दधौ ॥ १६ ॥ [ वामनः ] वामनस्तु शङ्खचक्रगदापद्मलसत्करः । [ श्रीधरः ] श्रीधरो वारिजं चक्रं गदाशङ्खं दधाति च ॥ १७ ॥ [ अनिरुद्धः ] अनिरुद्धो लसच्चक्रगदाशङ्खारविन्दवान् । [ हृषीकेशः ] हृषीकेशो गदां चक्रं पद्मशङ्खं च धारयन् ॥ १८ ॥ [ पद्मनाभः ] पद्मनाभः पाञ्चजन्यं पद्मं चक्रं गदामपि । [ दामोदरः ] दामोदरोऽम्बुजं शङ्खं गदां धत्ते सुदर्शनम् ॥ १९ ॥ [ हरिः ] हरिर्धारयते कम्बुं चक्रं पद्मं तथा गदाम् । [ कृष्णः ] कृष्णः करैः पाञ्चजन्यं गदां पद्मं सुदर्शनम् ॥ २० ॥ एताः सुमूर्त्तयो ज्ञेया दक्षिणाधःकरक्रमात् । (वासुदेवादिर्वाणाः स्युः षंडेते तददादयः ?) ॥ २१ ॥ (१) 'चक्रशङ्खगदाम्भोजानि' इति स्यात् ।
१६ रूपमण्डने सकृष्णः कार्त्तिकेयोऽब्जशक्तिखेटककम्बुभिः । गरुडध्वजस्तार्क्ष्यस्थोऽब्जशङ्खध्वजचिह्नवान् ॥ २२ ॥ जयन्तोऽक्षचक्रदण्डपद्मैर्वादित्रसंवृतः । गोवर्धनो लसचक्रशङ्खपद्मैर्गदां (१)हि तत् ॥ २३ ॥ इति श्रीहरेश्चतुर्विंशतिमूर्त्तयः । मत्स्यकूर्मी स्वस्वरूपौ नृवराहो गदाम्बुजम् । (२) बिभृत्स्यामो वराहास्यो दंष्ट्राग्रे तु धृता धरा ॥ २४ ॥ [ इति मत्स्यकूर्मवराहाः ] नृसिंहः सिंहवक्त्रोऽतिदंष्ट्रालः कुटिलोरुकः । हिरण्योरस्थलासक्तविदारणकरद्वयः ॥ २५ ॥ [ इति नृसिंहः ] वामनः सशिखः श्यामो दण्डी (३)पीताम्बुपात्रवान् । (४) जटीलीनधरो रामो भार्गवः परशुं दधत् ॥ २६ ॥ [ इति वामनपरशुरामौ ] रामः शरेषुधृक् श्यामः सशीरमुशलो बलः । [ इति रामबलरामौ ] (५) बद्धपद्मासनो रक्तस्त्यक्ताभरणमूर्धजः ॥ २७ ॥ कषायवस्त्रो ध्यानस्थो द्विभुजोऽङ्कोर्ध्वपाणिकः । [ इति बुद्धः ] कल्की सखड्गोऽश्वारूढो हरेरवतरा इमे ॥ २८ ॥ [ इति कल्की ] इति दशावताराः। (६)सुप्तरूपं शेषतल्पे (७)दक्षो दण्डभुजोऽस्य तु । शिरोधरो वा वामस्तु सपुष्पोऽयं जलेशयः ॥ २९ ॥
(१) ‘दधत्’ इति स्यात् । (२) ‘विभ्रन् श्यामो’ इति स्यात् । (३) ‘छत्राम्बु- पात्रवान्’ इति स्यात् । (४) ‘जटी बाणधरो’ इति स्यात् । (५) ‘बुद्धः पद्मासनो’ इति स्यात् । (६) ‘सुप्तरूपः’ इति स्यात् । (७) ‘दक्षे दण्डो भुजेऽस्य तु’ इति स्यात् ।
तृतीयोऽध्यायः १७ तन्नाभिपङ्कजे धाता ( श्रीभूमिवशिरोन्थिगे ? ) । निध्यक्षादिस्वरूपाणि पार्श्वयोर्मधुकैटभौ ॥ ३० ॥ इति जलशयनः । अथ शालिग्रामपरीक्षा [ पूज्यशिलालक्षणम् ] नागभोगसमाकारा शिला सूक्ष्मा च या भवेत् । पूजनीया प्रयत्नेन स्थिरा स्निग्धा सुवर्तुला ॥ ३१ ॥ तत्राप्यामलकीमानात् सूक्ष्मा चातीव या भवेत् । तस्यामेव सदा कृष्णः श्रिया सह वसत्यसौ ॥ ३२ ॥ यथा यथा शिला सूक्ष्मा तथा तथा महत् फलम् । तस्मात्तां पूजयेन्नित्यं धर्मकामार्थमुक्तये ॥ ३३ ॥ [ त्याज्यशिलालक्षणम् ] कपिला कर्बुरा भग्ना सूक्ष्मा(१)छिन्नाकुला च या । रेखाकुलाऽस्थिरा स्थूला बहुचक्रैकचक्रिका ॥ ३४ ॥ बृहन्मुखी बृहच्चक्रा बद्धचक्रा च या पुनः । (२)बद्धचक्राऽथ वा स्याद् भिन्नचक्रा त्वधोमुखी ॥ ३५ ॥ दग्धा सुरक्ता चापूज्या भीषणा पङ्क्तिचक्रिका । पूजयेद् यः प्रमादेन दुःखमेव लभेत् सदा ॥ ३६ ॥ [ तत्र मतान्तरम् ] खण्डिता स्फुटिता भिन्ना पार्श्वभिन्ना प्रभेदिता । शालिग्रामसमुद्भूता शिला दोषावहा नहि ॥ ३७ ॥ [ वर्णभेदात् फलविशेषकथनम् ] स्निग्धा सिद्धिकरी मुद्रा कृष्णा कीर्तिप्रदायका । पाण्डुरा पापदहना (३)पिता पुत्रप्रदायका ॥ ३८ ॥ नीला दिशति (४)लक्ष्मी च रक्तभोगप्रदायिनी । [ चक्रविशेषे वर्णभेदः ] कपिलं नारसिंहञ्च वामनं (५)चातसन्निभम् ॥ ३९ ॥ (१) ‘छिद्राकुला’ इति स्यात् । ‘-च्छिन्नाकुला’ इति वा कथञ्चित् सङ्गच्छत एव । (२) ‘लग्नचक्राऽथ वा या स्याद्’ इति स्यात् । (३) ‘पीता’ इति स्यात् । (४) ‘लक्ष्मीं च रक्ता’ इति स्यात् । (५) ‘पीतसन्निभम्’ इति स्यात् । रूप—३
३८ रूपमण्डने वासुदेवं सितं ज्ञेयं रक्तं सङ्कर्षणं मतम् । दामोदरं तु नीलाभमनिरुद्धं तथैव च ॥ ४० ॥ श्यामं नारायणं ज्ञेयं वैष्णवं कृष्णवर्णकम् । बहुवर्णमनन्ताख्यं श्रीधरं पीतमुच्यते ॥ ४१ ॥ [ उत्तमादिचक्रप्रमाणम् ] वृत्त(१)सूत्रेऽष्टमो भाग उत्तमं (२)वक्तृलक्षणम् । मध्यमञ्च चतुर्भागं कनीयस्तु त्रिभागकम् ॥ ४२ ॥ [ त्रिचक्रलक्ष्मीनारायणः ] लक्ष्मीनारायणो देवस्त्रिभिश्चक्रैर्व्यवस्थितः । पूजनीयः प्रयत्नेन भुक्तिमुक्तिफलप्रदः ॥ ४३ ॥ [ शालग्रामस्य प्रतिष्ठानिषेधः ] अहं ब्रह्मादयो देवाः सर्वभूतानि केशवः । सदा सन्निहितस्तत्र प्रतिष्ठाकर्म नास्त्यतः ॥ ४४ ॥ [ शालग्रामप्रशंसा ] शालग्रामशिलाग्रे तु यो जुहोति हुताशनम् । एकाहुतिर्हुता सम्यक् कल्पकोटिगुणोत्तरा ॥ ४५ ॥ इति शालिग्रामपरीक्षा । [ अथ मूर्त्तिविशेषाः ] तार्क्ष्यो (३)मकङ्कतः पक्षः कौशिकाकारनासिकः । चतुर्भुजस्तु कर्तव्यो वृत्तनेत्रमुखस्तथा ॥ ४६ ॥ गृध्रोरुजानुचरणः पक्षद्वयविभूषितः । प्रभासंस्थानसौवर्णः कलापेन विभूषितः ॥ ४७ ॥ छत्रञ्च पूर्णकुम्भञ्च करयोस्तस्य कारयेत् । करद्वयञ्च कर्त्तव्यं तथा विरचिताञ्जलि ॥ ४८ ॥ नवतालः प्रकर्त्तव्यो गरुडो मानसूत्रतः । (४)पादजानुकटियांवदर्च्चायां वाहनस्य दृक् ॥ ४९ ॥ यदुश्च भगवान् पृष्ठे छत्रकुम्भधरौ करौ । किञ्चिल्लम्बोदरः कार्यः सर्वाभरणभूषितः ॥ ५० ॥ (१) '-सूत्राष्टमो' इति स्यात् । (२) 'चक्र-' इति स्यात् । (३) 'मरकत- प्रख्यः' इति स्यात् । (४) 'पादं जानु कटिं यावदर्चायां' इति स्यात् ।
तृतीयोऽध्यायः १६ (१)वामाग्रे कुञ्चितः पश्चादन्यपादस्तु जानुना । पृथिवीं संस्थितो यत्र गारुडं स्यात्तदासनम् ॥ ५१ ॥ इति (२)गारुडः । वैकुण्ठञ्च प्रवक्ष्यामि सोऽष्टबाहुर्महाबलः । तार्क्ष्यासनश्चतुर्वक्त्रः कर्त्तव्यः शान्तिमिच्छता ॥ ५२ ॥ गदां खड्गं चक्रशरं दक्षिणे च चतुष्टयम् । शङ्खं खेटं धनुः पद्मं वामे दद्याच्चतुष्टयम् ॥ ५३ ॥ अग्रतः पुरुषाकारं नारसिंहं च दक्षिणे । अपरं स्त्रीमुखाकारं वाराहास्यं तथोत्तरम् ॥ ५४ ॥ इति वैकुण्ठः । विंशत्या हस्तकैर्युक्तो विश्वरूपश्चतुर्मुखः । पताका हलशङ्खौ च वज्राङ्कुश(३)शरांस्तथा ॥ ५५ ॥, चक्रञ्च (४)बीजपूरञ्च वरो दक्षिणबाहुषु । पताका दण्डपाशौ च गदाशार्ङ्गोत्पलानि च । शृङ्गी मुशलमक्षञ्च क्रमात् स्युर्वामबाहुषु ॥ ५६ ॥ हस्तद्वये योगमुद्रा वैनतेयोपरि स्थितः । क्रमान्नर-नृसिंह-स्त्री-वराह-मुखवन्मुखः ॥ ५७ ॥ इति (५)विश्वमुखः । अनन्तोऽनन्तरूपस्तु हस्तैर्द्वादशभिर्युतः । अनन्तशक्तिसंवीतो गरुडस्थश्चतुर्मुखः ॥ ५८ ॥ दक्षिणे तु गदाखड्गौ चक्रं वज्राङ्कुशौ शरः । शङ्खः खेटं धनुः पद्मं दण्डपाशौ च वामतः ॥ ५९ ॥ इत्यनन्तः । मुखानि पूर्ववत्तस्याप्यल त्रैलोक्यमोहनः । स षोडशभुजस्तार्क्ष्यारूढः प्राग्वच्चतुर्मुखैः ॥ ६० ॥ गदाचक्राङ्कुशौ (६)बाणं शक्तिश्चक्रं वरः क्रमात् । दक्षेषु मुद्गरः पाशः शार्ङ्गशङ्खाब्जकुण्डिका(ः) ॥ ६१ ॥ (१) 'वामोऽग्रे' इति स्यात् । (२) 'गरुडः' इति स्यात् । (३) '-शरास्तथा' इति स्यात् । (४) 'बीजपूरश्च' इति स्यात् । (५) 'विश्वरूपः' इति स्यात् । (६) 'बाणः' इति स्यात् ।
२० रूपमण्डने शृङ्गी वामेषु हस्तेषु योगमुद्रा (१)करद्वयम् । नरञ्च नारसिंहञ्च शूकरं कपिलाननम् ॥ ६२ ॥ इति त्रैलोक्यमोहनः । दक्षिणे पुण्डरीकाक्षः पूर्वे नारायणः स्मृतः । गोविन्दः पश्चिमे स्थाप्य उत्तरे मधुसूदनः ॥ ६३ ॥ ईशाने स्थापयेद् विष्णुमाग्नेय्यां तु जनार्दनम् । नैर्ऋत्ये पद्मनाभञ्च वायव्ये माधवं तथा ॥ ६४ ॥ केशवो मध्यतः स्थाप्यो वासुदेवोऽथवा बुधैः । सङ्कर्षणो वा प्रद्युम्नोऽनिरुद्धो वा यथाविधि ॥ ६५ ॥ दशावतारसंयुक्तः प्रोक्तो जलशयोऽथवा । अग्रतः शूकरः स्थाप्यः सर्वदेवमयः शुभः ॥ ६६ ॥ इति विष्ण्वायतनम् । प्रतिहारांस्ततो वक्ष्ये चतसृणां दिशां क्रमात् । वामनाकाररूपास्ते कर्तव्याः सर्वतः शुभाः ॥ ६७ ॥ (२)तर्जनी शङ्खचक्रे च चण्डो दण्डं दधत् क्रमात् । वामे स्थाने प्रचण्डोऽस्यापसव्ये दक्षिणे शुभः ॥ ६८ ॥ पद्मं खड्गं खेटकञ्च क्रमाद् बिभ्रद् गदां (३)च यः । (४)विलोमे पद्मगदयोर्विजयस्तौ (५)क्रमाल्लिखेन्न्यसेत् ॥ ६९ ॥ (६)तर्जनी बाणचापौ च गदां धाता च सृष्टितः । (७)मुदापसव्ये तैरस्त्रैर्विधाता वाम-दक्षयोः ॥ ७० ॥ तर्जनीकमलं शङ्खं गदां भद्रः क्रमाद् दधत् । (८)शस्त्रापसव्ययोगेन सुभद्रस्तौ क्रमान्न्यसेत् ॥ ७१ ॥ इति विष्णुप्रतीहाराः । इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्रे रूपमण्डने विष्णुमू(र्त्या?र्त्त्य)धिकारस्तृतीयोऽध्यायः ॥ ३ ॥ (१) 'करद्वये' इति स्यात् । (२) 'तर्जनीं' इति स्यात् । (३) 'जयः' इति स्यात् । (४) 'विलोमैः' इति स्यात् । (५) 'क्रमाल्लिखेत्' इति 'क्रमान्न्यसेत्' इति वा स्यात् । (६) 'तर्जनीं' इति स्यात् । (७) 'सव्येऽपसव्ये' इति स्यात् । (८) 'सव्यापसव्य-' इति स्यात् ।
[ शिवमूर्त्तिशिवलिङ्गलक्षणाधिकाराख्यः ] चतुर्थोऽध्यायः अथ शिवमूर्त्तयः [ द्वादश शिवमूर्त्तयः ] शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् । जटाभारयुतं कुर्याद् बालेन्दुकृतशेखरम् ॥ १ ॥ त्रिलोचनं सौम्यमुखं कुण्डलाभ्यामलङ्कृतम् । सद्योजातं महोत्साहं वरदाभयपाणिनम् ॥ २ ॥ इति सद्योजातः [१] । रक्ताम्बरधरं देवं रक्तयज्ञोपवीतिनम् । रक्तोष्णीषं रक्तनेत्रं रक्तमाल्यानुलेपनम् ॥ ३ ॥ जटाचन्द्रधरं कुर्यात्त्रिनेत्रं तुङ्गनासिकम् । वामदेवं महाबाहुं खड्गखेटकधारिणम् ॥ ४ ॥ इति वामदेवः [२] । दंष्ट्राकरालवदनं सर्पशीर्षं त्रिलोचनम् । रुण्डमालाधरं देवं सर्पकुण्डलमण्डितम् ॥ ५ ॥ भुजङ्गकेयूरधरं सर्पहारोपवीतिनम् । योनसं(?) कटिसूत्रेण गले वृश्चिकमालिकम् ॥ ६ ॥ नीलोत्पलदलश्याममतसीपुष्पसन्निभम् । पिङ्गभ्रूपिङ्गजटिलं शशाङ्ककृतशेखरम् ॥ ७ ॥ (१)तक्षकं मुष्टिकञ्चैव पादयोस्तस्य नूपुरौ । अघोररूपकं कुर्यात् कालरूपमिवापरम् ॥ ८ ॥ (१) 'तक्षको मुष्टिकश्चैव' इति स्यात् ।
⌜२२ रूपमण्डने महावीर्यं महोत्साहमष्टबाहुं महाबलम् । शमयन्तं रिपोः (१) संघं निवेशो यल भूतले ॥ ९ ॥ खट्वाङ्गञ्च कपालञ्च खेटकं पात्रमेव च । वामहस्तेषु कर्तव्यमेतच्छस्त्रचतुष्टयम् ॥ १० ॥ त्रिशूलं परशुः (२) खड्गं दण्डश्चैवारिमर्दनः । शस्त्राण्येतानि चत्वारि दक्षिणेषु करेषु च ॥ ११ ॥ इत्यघोरः [३] । पीताम्बरस्तत्पुरुषः पीतयज्ञोपवीतवान् । मातुलिङ्गं करे वामेऽक्षमाला दक्षिणे तथा ॥ १२ ॥ इति तत्पुरुषः [४] । (३)शुद्धः स्फटिकसंकाशो जटाचन्द्रविभूषितः । (४)अक्षस्त्रिशूलहस्तौ च कपालं वामतः शुभम् ॥ १३ ॥* [ इतीशः ५ ] कपालमालि-सुश्वेतं शशाङ्ककृतशेखरम् । व्याघ्रचर्मधरं मृत्युञ्जयं नागेन्द्रभूषितम् ॥ १४ ॥ त्रिशूलं चाक्षमाला च दक्षयोः करयोः स्मृतौ । कपालं कुण्डिका वामे योगमुद्रा (५)करद्वयम् ॥ १५ ॥ इति मृत्युञ्जयः [६] । चतुर्भुजो महाबाहुः शुक्लपादाक्षिपाणिकः । पुस्तकाभयहस्तोऽसौ (६)सच काक्षस्त्रिलोचनः ॥ १६ ॥ इति किरणाक्षः [७] ।
(१) 'सङ्गं' इति स्यात् । (२) 'खड्गो' इति स्यात् । (३) 'शुद्धस्फटिक-' इति स्यात् । (४) 'व्यक्षस्त्रिशूलहस्तश्च' इति, 'दक्षे त्रिशूलं हस्ते च' इति वा स्यात् । (५) 'करद्वये' इति स्यात् । (६) 'स-चक्राक्ष-' इति ['किरणाक्ष-' इति वा ?] स्यात् ।
- पद्यमिदं मूर्त्यन्तरस्य लक्षकं न तु मृत्युञ्जयमूर्तेः, द्विरायुधनिर्देशात् । भवति च मृत्युञ्जयलक्षकत्वेन भ्रान्तिरन्तरा पुष्पिकान्तरविरहात् । देवतामूर्त्तौ 'ईश'लक्षणत्वेनेदं निर्दिष्टम् (देव० ६।१४) ; तदनुगत्याऽस्माभिरपि पुष्पिकैका कल्पिता ; एवञ्चाग्रे 'इति द्वादश रुद्रा' इति पुष्पिकाऽपि नानृतभाषिणी स्यात् ।
चतुर्थोऽध्यायः २३ चित्रवस्त्रधरं कुर्याच्चित्रयज्ञोपवीतिनम् । चित्ररूपं महेशानं चित्रैश्वर्यसमन्वितम् ॥ १७ ॥ चतुर्बाहुं चैक(१)वस्त्रं सर्वालङ्कारभूषितम् । खड्गं धनुः शरं खेटं श्रीकण्ठं बिभ्रतं भुजैः ॥ १८ ॥ इति श्रीकण्ठस्वरूपम् [८] । अहिर्बुध्नो गदासर्पं चक्रं डमरु-मुद्गरौ । शूलाङ्कुशाक्ष(२)माला च दक्षोर्ध्वाधःक्रमाद्दधत् ॥ १९ ॥ तोमरं पट्टिशं चर्म कपालं तर्जनीघटौ । (३)शक्तिः परशुकं वामहस्ते सन्धारयत्यसौ ॥ २० ॥ इत्यहिर्बुध्नः [९] । विरूपाक्षस्ततः खड्गं शूलं डमरुमङ्कुशम् । सर्पञ्चक्रं गदामक्षसूत्रं बिभ्रत् कराष्टकैः ॥ २१ ॥ खेटं खट्वाङ्गशक्तिञ्च परशुं तर्जनीघटम् । घण्टाकपालकं चेति वामोर्ध्वादिकराष्टकैः ॥ २२ ॥ इति विरूपाक्षः [१०] । बहुरूपो दधद् दक्षे डमरुं च सुदर्शनम् । सर्पं शूलाङ्कुशौ कुम्भं कौमुदीजपमालिकाम् ॥ २३ ॥ घण्टाकपालखट्वाङ्गतर्जनीकुण्डिकां धनुः । परशुं (४)पट्टिकं चेति वामोर्ध्वादिक्रमेण हि ॥ २४ ॥ इति बहुरूपी सदाशिवः [११] । त्र्यम्बकोऽथ दधच्चक्रं डमरुं मुद्गरं शरम् । (५)शूलाङ्कुशान्यक्षसूत्रं दक्षोर्ध्वादिक्रमेण हि ॥ २५ ॥ (१) '-वक्त्रं' इति स्यात् । (२) '-मालाश्च' इति स्यात् । (३) 'शक्तिं' इति स्यात् । (४) 'पट्टिशं' इति स्यात् । (५) 'शूलाङ्कुशावक्षसूत्रं' इति स्यात् ।
२४ रूपमण्डने गदाखट्वाङ्गपालाणि कार्मुकं तर्जनीघटौ । परशुं पट्टिशं चेति (१)वामार्धादिकराष्टके ॥ २६ ॥ इति त्र्यम्बकः [१२] । इति द्वादश रुद्राः । उमामहेश्वरं वक्ष्ये उमया सह शङ्करः । (२)मातुलिङ्गं त्रिशूलञ्च धरते दक्षिणे करे ॥ २७ ॥ आलिङ्गितो वामहस्ते (३)नागेन्द्रं द्वितीये करे । हरस्कन्ध उमाहस्ते दर्पणो द्वितीये करे ॥ २८ ॥ अधस्ताद् वृषभं कुर्यात् कुमारञ्च गणेश्वरम् । भृङ्गिरीटं तथा(४)कुर्यान्निर्मंसिन्नृत्यसंस्थितम् ॥ २९ ॥ इति उमामहेश्वरः । कार्यो (५)हरिहरस्यापि दक्षिणार्धे शिवः सदा । हृषीकेशश्च वामार्धे श्वेतनीलाकृती क्रमात् ॥ ३० ॥ वरं त्रिशूलचक्राब्जधारिणो बाहुकाः क्रमात् । दक्षिणे वृषभः पार्श्वे वामे विहगराडिति ॥ ३१ ॥ इति हरिहरमूर्त्तिः । एकपीठसमारूढमेकदेहनिवासिनम् । षड्भुजञ्च चतुर्वक्त्रं सर्वलक्षणसंयुतम् ॥ ३२ ॥ अक्षमालां त्रिशूलञ्च गदां कुर्याच्च दक्षिणे । कमण्डलुञ्च खट्वाङ्गं चक्रं वामभुजे तथा ॥ ३३ ॥ इति हरपितामहः । उमाञ्च द्विभुजां (६)कुर्याल्लक्ष्मीर्नारायणाश्रिता । देवं शस्त्रैः स्वकीयैश्च गरुडोपरि संस्थितम् ॥ ३४ ॥ (१) 'वामोर्ध्वादि-' इति स्यात् । (२) 'मातुलुङ्गं' इति स्यात् । (३) 'नागेन्द्रो' इति स्यात् । (४) 'कुर्यान्निर्मांसं नृत्य-' इति स्यात् । (५) 'हरिहरश्चापि' इति स्यात् । (६) 'कुर्याल्लक्ष्मीं नारायणाश्रिताम्' इति स्यात् ।
॥ ४२ ॥` All clear.
Line 22:
ताम्रजं पुष्परागस्य स्फटिकस्य तु (७)राजितम् ।
Footnote (७): (७) 'राजतम्' इति स्यात् ।
Text has (७)राजितम् ।
Line 23:
ताम्रजं मौक्तिकस्यापि शेषाणां हेमजं मतम् ॥ ४३ ॥
All clear.
Line 24:
[ इति पीठविधिः ]
All clear.
Let's check the footnotes at the bottom:
Divider line:
────────────────────────────────────────
(१) 'रजतञ्चैव राज्यदम्' इति स्यात् । (२) 'राङ्गं ताम्रमायुःप्रवर्धनम्' इत्याकरे ।
(३) 'विद्वेष-' इति स्यात् । (४) 'वंशकृल्लिङ्ग-' इति स्यात् । (५) 'रिपु-' इति
स्यात् । (६) '-वहम्' इति स्यात् । (७) 'राजतम्' इति स्यात् ।
रूप—४
Wait, let's verify footnote (२):
(२) 'राङ्गं ताम्रमायुःप्रवर्धनम्' इत्याकरे ।
Yes, perfectly matches!
Wait, let's verify footnote
२६ रूपमण्डने समस्तमणिजातीनां (१)दीप्तसान्निध्यकारकम् । ( मनोन्मानं प्रमाणानि तेषु ग्राह्यं नवाम्बुदैः ? ) ॥ ४४ ॥* [ इति लिङ्गोचिता मणयः ] शैलेयं भोगदं लिङ्गं मृन्मयं सर्वकामदम् । दारुजं वसुसिद्ध्यर्थं सर्वमेतच्चलाचलम् ॥ ४५ ॥ [ इति चलाचललिङ्गम् ] एकाङ्गुलादिपञ्चान्तं चललिङ्गञ्च कन्यसम् । षट्पर्वादिदशान्तञ्च मध्यमेकादशादितः ॥ ४६ ॥ [ इति चललिङ्गम् ] नैकहस्तादधो(२)वाद्यं प्रासादे स्थिरतां नयेत् । स्थिरं तत् स्थापयेद् गेहे (३)गृण्यां हे दूरकृद् यतः ॥ ४७ ॥ [ इति स्थिरलिङ्गम् ] (४)वाणलक्षणहीनेऽपि यत्न वै रोचते मनः । तत्र पूजां प्रकुर्वीत धर्मकामार्थमोक्षदम् ॥ ४८ ॥ [ इति लक्षणादिहीनस्यापि पूज्यत्वम् ] रत्नमेकाङ्गुलं लिङ्गमङ्गुलाङ्गुलवृद्धितः । नवान्तं नवलिङ्गञ्च वृद्धिर्वा मुद्गमानिका ॥ ४९ ॥ [ इति रत्नलिङ्गमानम् ] धातोरष्टाङ्गुलं पूर्वमष्टाष्टाङ्गुलवर्धनात् । त्रिहस्तान्तं नवैव स्युर्लिङ्गानि च यथाक्रमम् ॥ ५० ॥ [ इति धातुलिङ्गमानम् ] दृढकाष्ठमयं लिङ्गं कर्तव्यं षोडशाङ्गुलम् । षोडशाङ्गुलिका वृद्धिः षट्करान्तं नवैव हि ॥ ५१ ॥ [ इति दारुवलिङ्गमानम् ] (१) ‘दीप्तिः सान्निध्यकारणम्’ इति स्यात् । (२) ‘लिङ्गं’ इति स्यात् । (३) ‘गृहांहोदूरकृद्’ इति स्यात् । (४) ‘वर्ण-’ इति स्यात् ।
- अत्राऽऽदर्श चतुश्चत्वारिंशसंख्याबोधकोऽङ्को नोपलभ्यते, तत्संख्याकः श्लोकः पतितो न वेति चिन्तनीयम् । अस्माभिस्तु यथाक्रममेवाङ्का निवेशिताः ।
चतुर्थोऽध्यायः २७ हस्तादिनवहस्तान्तं शैलं लिङ्गं विधीयते । हस्तवृद्ध्या नवैव स्युर्मध्ये वृद्धिर्यदृच्छया ॥ ५२ ॥ [ इति शैललिङ्गमानम् ] मृद्दारुलोहशैलानां दैर्घ्ये भक्ते जिनांशकैः [२४] । कुर्यात् षट्सार्धसप्ताष्टनवांशै(१)स्तरं शुभम् ॥ ५३ ॥ [ इति लिङ्गमानम् ] श्रीपर्णी (२)शिंशपाशोकशिरीषः (३)खादिनोऽर्जुनः । चन्दनः श्रीफलो निम्बो रक्तचन्दनबीजकौ ॥ ५४ ॥ कर्पूरो देवदारुश्च चन्दनः पारिजातकः । चम्पको मधुवृक्षश्च हिन्तालश्चागुरुः शुभाः ॥ ५५ ॥ [ इति लिङ्गवृक्षाः ] (४)निर्व्रणाः × × × सर्वे लिङ्गार्थे सौख्यदायकाः । ग्रन्थिकोटरसंयुक्तान् शाखोद्भूतान् परित्यजेत् ॥ ५६ ॥ [ इति वृक्षलक्षणम् ] निलयं दारुलिङ्गानामिष्टकादारुजं शुभम् । शैलजं धातुरत्नानां स्वरूपं चाधिकं शुभम् ॥ ५७ ॥ [ इति दार्वादिलिङ्गोचिताः प्रासादाः ] धातुजे रत्नजे बाणे दारुजे च स्वयम्भुवि । (५)गृह्नूनाधिकं वाऽपि (६)वक्तृलिङ्गिषु पार्थिवः ॥ ५८ ॥ हस्तमानं भवेल्लिङ्गं वेदहस्ते सुरालये । (७)ज्येष्ठलिङ्गे तु वेदांशं षट्त्रिंशं नवहस्तकम् ॥ ५९ ॥ पञ्चादिभूतवेदांशे प्रासादे हस्तसंख्यया । मध्यमं पञ्चमांशेन हस्तादिनवहस्तकम् ॥ ६० ॥ (१) '-र्विस्तरं' इति स्यात् । (२) 'शिंशपाऽशोकः' 'शिशुकाऽशोकः' इति वा स्यात् । (३) 'खादिरो-' इति स्यात् । (४) 'निर्व्रणाः' इत्यनन्तरं 'सुदृढा' इति त्रुटितं स्यात् । (५) 'गृहं न्यूनाधिकं' इति स्यात् । (६) 'वक्त्रलिङ्गेषु पार्थिवे' इति स्यात् । (७) 'ज्येष्ठलिङ्गन्तु वेदांशे षट्त्रिंशे' इति स्यात् ।
२८ रूपमण्डने (कृत्वादियुगल्त्वान्तं ?) हस्तसंख्ये शिवालये । षष्ठांशेन प्रकर्त्तव्यं हस्तादिनवहस्तकम् ॥ ६१ ॥ (१) कनिष्ठाज्येष्ठलिङ्गेषु मध्यममध्यमेषु च । प्रासादाः कन्यसे ज्येष्ठाः सीमामानमिदं स्मृतम् ॥ ६२ ॥ गर्भे पञ्चांशके ल्यंशो ज्येष्ठलिङ्गं तु मध्यमम् । नवांशं पञ्चभागं स्याद् गर्भार्धं कन्यसोदयम् ॥ ६३ ॥ [ इति प्रासादमानेन लिङ्गमानम् ] पद्मं शङ्खो ध्वजा छत्रं (२) खड्गशक्तिरुचामरे । वज्रं (३)दण्डोर्ध्वभागञ्च चक्रं मत्स्यौ घटः शुभः ॥ ६४ ॥ सौख्यदं चिह्न(४)मित्याद्यामावर्त्तो दक्षिणेऽपि यः । श्वेतरक्ता पीतकृष्णा रेखा वर्णेषु सौख्यदा ॥ ६५ ॥ [ इति लिङ्गे शुभचिह्नानि ] ब्रह्मांशश्चतुरस्रोऽधो मध्येऽष्टास्रस्तु वैष्णवः । पूजाभागः सुवृत्त(:) स्यात् पीठोर्ध्वं शङ्करस्य च ॥ ६६ ॥ [ इति लिङ्गे ब्रह्मादिभागाः ] पूजायामे कलांशे च (५)लिङ्गचित्रं दशांशकैः । पीठस्यार्धे द्विभागे च रेखा कार्या प्रदक्षिणे ॥ ६७ ॥ (मस्तकं मानमध्ये तु बाह्येऽङ्गे राष्ट्रविभ्रमः ।?) (६)छत्राभमष्टमांशेन (७)सार्धे द्वयंशषडङ्गके ॥ ६८ ॥ त्रपुषाभं विस्तारार्धं कुक्कुटाण्डं शिरो मतम् । त्रिभागे लिङ्गविस्तारे एकांशोनार्धचन्द्रकम् ॥ ६९ ॥ सार्धव्यंशेन तुल्यं स्यादष्टांशे बुद्बुदाकृति(?): । ऊर्ध्वाधोमध्यहीनं यल्लिङ्गं नाशकरं भवेत् ॥ ७० ॥ [ इति लिङ्गस्योर्ध्वादिभागाः ] (१) 'कनिष्ठ-' इति स्यात् । (२) 'खड्गः' इति स्यात् । (३) 'दण्डोऽर्ध-चन्द्रश्च' इत्यन्यत्र । (४) '-मित्याद्यमावर्त्तो' इति स्यात् । (५) 'लिङ्गं चिह्नं' इति स्यात् । (६) 'छत्राभमि'ति स्यात् । (७) 'सार्धद्व्यंशे षडंशके' इति स्यात् ।
चतुर्थोऽध्यायः २६ दीर्घे वा सन्धिरेखाभिर्युक्तकाकपदाकृति(:?) । लिङ्गं नान्याश्रितं लिङ्गमाश्रिताः सर्वदेवताः । स्थापयेन्मुख्यदेवस्य (१)स्कन्दमेढ्रान्तरे सुरान् ॥ ७१ ॥ इति घटितरत्नलिङ्गलक्षणम् । वाराणस्यां प्रयागे च गङ्गायाः सङ्गमेषु च । कुरुक्षेत्रे सरस्वत्यां बाणलिङ्गं सुखावहम् ॥ ७२ ॥ यानि वै नर्मदायाञ्च अन्तर्वेद्याञ्च सङ्गमे । केदारे च प्रभासे च बाणलिङ्गं सुखावहम् ॥ ७३ ॥ [ इति बाणोत्पत्तिस्थानम् ] त्रिपञ्चवारं यस्यैव तुलासाम्यं न जायते । तदा बाणः समाख्यातः शेषं पाषाणसम्भवम् ॥ ७४ ॥ [ इति बाणपरीक्षा ] स्थूलं (२)खण्डञ्च दीर्घञ्च स्फुटितं छिद्रसंयुतम् । बिन्दुयुक्तं च शूलाग्रं कृष्णं च चिपिटं तथा ॥ ७५ ॥ (३)चक्रञ्च मध्यहीनञ्च बहुवर्णञ्च यद् भवेत् । वर्जयेन्मतिमाँल्लिङ्गं सर्वदोषकरं यतः ॥ ७६ ॥ [ इति वर्ज्यलिङ्गानि ] ग्रन्थान्तरे ;— महानदीसमुद्(४)भूतसिद्धक्षेत्रादिसम्भवम् । पाषाणं परया भक्त्या लिङ्गवत् पूजयेत् सुधीः ॥ ७७ ॥ सदोषं गुणसंयुक्तं बाणं पूज्यं हि नित्यशः । बलालक्ष्मीं समाकृष्य भुज्यते बाणलिङ्गतः ॥ ७८ ॥ (५) सर्वं व्रततपो दानं तीर्थे देवेषु यत् फलम् । तत् फलं कोटिगुणितं प्राप्यते लिङ्गपूजनात् ॥ ७९ ॥
(१) 'स्कन्ध-' इति स्यात् । (२) 'खर्वञ्च' इति स्यात् । (३) 'वक्रञ्च' इति स्यात् । (४) '-भूतमि'ति स्यात् । (५) 'सर्वव्रततपोदानतीर्थदेवेषु' इति स्यात् ।
३० रूपमण्डने शतवारं कुरुक्षेत्रे सहस्रं जाह्नवीजले । लक्षवारं नर्मदायां कोटिं च कुरुजाङ्गले ॥ ८० ॥ कृत्वा स्नानं तथा पिण्डं होमं दानं च भोजनम् । (१)गुणिते कोटिवारञ्च सर्वपुण्यं लभेन्नरः ॥ ८१ ॥ (२) पद्मे वै शतहस्तेषु (३)बाणेषु च शतेषु च । स्वयम्भुवि सहस्रान्तं शिवतीर्थोदकं स्मृतम् ॥ ८२ ॥ [ इति बाणलिङ्गप्रशंसा ] लिङ्गायामसमं दैर्घ्ये उच्छ्रायः पीठिकासमः । (४)समभागयतो वृष(:)पञ्चभागोन्नतो भवेत् ॥ ८३ ॥ बाणलिङ्गे वृषं कुर्यात् (५)स्वयम्भूर्मुखमृन्मये । शते सहस्रलिङ्गे च वृषं न्यूनाधिकं विदुः ॥ ८४ ॥ [ इति वाहनविधिः ] विस्तारस्य विभागेन प्रणालं चाधिकं मतम् । (६)तदर्धे नम्रविस्तारं त्रिभागो जलवाहकः ॥ ८५ ॥ इति लिङ्गानि । पृथुत्वं पीठिकायास्तु लिङ्गायामसमं भवेत् । उदयो विष्णुभागान्ते उमावत् पीठिका स्मृता ॥ ८६ ॥ जात्यैकया विधातव्यं (७)नित्यमन्यन्योसंकुलम् । आहुः शैलद्रुमे केचित् पीठं पक्केष्टकामयम् ॥ ८७ ॥ उपर्युपरि पीठानां सन्धिरङ्गावसानके । (८)जालस्य मध्यमध्ये च कर्णे सन्धि न सन्धयेत् ॥ ८८ ॥ चतुरस्रादिवृत्तान्ता पीठिका दशधा स्मृता । उन्नता दर्पणाकारा बाह्ये मेखलयाऽन्विता ॥ ८९ ॥ (१) ‘गुणितं’ इति स्यात् । (२) ‘धातवे’ इति ‘घटे वै’ इति वा स्यात् । (३) ‘बाणे पञ्चशतेषु च’ इति स्यात् । (४) ‘समभागायतो वृषः’ इति स्यात् । (५) ‘स्वयम्भूमुख-’ इति स्यात् । (६) ‘तदर्धेनाग्रविस्तारं’ इति स्यात् । (७) ‘नेष्टमन्योन्य-’ इति स्यात् । (८) ‘नालस्य’ इति स्यात् ।
चतुर्थोऽध्यायः ३१ (१)त्रिंशोदंशस्तु पिण्ड्याश्च जगत्याश्च परिक्षिपेत् । ऊर्द्धाधो (जाड्यकुम्भस्य ?) तन्मध्ये कनकं भवेत् ॥ ९० ॥ (अर्द्धा ?) दैर्घ्यसमा दैर्घ्ये लिङ्गायामयता भवेत् । यस्य देवस्य या पत्नी पीठे तां परिकल्पयेत् ॥ ९१ ॥ इति पीठिका । मुखलिङ्गं त्रिवक्त्रं वा एकवक्त्रञ्चतुर्मुखम् । सम्मुखं चैकवक्त्रं स्यात्त्रिवक्त्रे पृष्ठतो नहि ॥ ९२ ॥ पश्चिमास्यं स्थितं शुभ्रं कुङ्कुमाभं तथोत्तरम् । याम्यं कृष्णं करालं स्यात् प्राच्यां दीप्ताग्निसन्निभम् ॥ ९३ ॥ सद्यो वामं तथाऽघोरं तत्पुरुषं चतुर्थकम् । पञ्चमञ्च तथेशानं योगिना(२)मथ गोचरम् ॥ ९४ ॥ इति मुखलिङ्गम् । वामे गणाधिपः स्थाप्यो दक्षिणे पार्वती तथा । नैर्ऋत्ये भास्करं विद्याद् वायव्ये च जनार्दनम् ॥ ९५ ॥ मातृभिर्मातृकास्थानं कारयेद्दक्षिणां दिशम् । सौम्ये शान्तिगृहं कुर्याद् यक्षाधीशांस्तु पश्चिमे ॥ ९६ ॥ इत्येकद्वारशिवायतनम् । (३) वामहस्ते गृहं कुर्याद् यशोध्वारञ्च दक्षिणे । मध्ये रुद्रः प्रतिष्ठाप्यो मातृस्थानञ्च दक्षिणे ॥ ९७ ॥ वामे देवी महालक्ष्मीरुमा (४) × भैरवस्तथा । (५)ब्रह्मविष्णुस्तथा रुद्रः पृष्ठदेशे तु कारयेत् ॥ ९८ ॥ इन्द्रादित्यौ च (६)कर्णौ च आग्नेयां स्कन्द एव च । ईशाने (७)विघ्नराजस्य धूम्र ईशानगोचरे ॥ ९९ ॥ इति चतुर्मुखशिवायतनम् । (१) 'त्रिंशदंशन्तु पिण्ड्याञ्च' इति स्यात् । (२) '-मध्यगोचरम्' इत्यन्यत्र । (३) 'वामे स्नानगृहं' इति स्यात् । (४) त्रुटितस्थाने 'च' 'वै' वा स्यात् । (५) 'ब्रह्मविष्णू तथा रुद्रं' इति स्यात् । (६) 'कर्णे च आग्नेय्यां' इति स्यात् । (७) 'विघ्नराजोऽस्य' इति स्यात् ।