भारतकोश
संग्रह पर लौटें

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

भूमिका । ९ पुरुषस्त्वमेव किल पञ्चविंशकः स्फुटचूलिकार्थवचनैर्निगद्यसे ॥' (हरविजये ६।१८) 'मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः । ख्यातिं च सत्त्वपुरुषान्यताऽधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम् ॥' (शिशु. ४।५५) स्तोत्रटीकाकारोप्येवम्— 'क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । अतस्त्वां संप्रेक्ष्य क्रतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा कृतपरिकरः कर्मसु जनः ॥' शिवाद्वैतेऽपि । 'किं फलितमस्य वेदा धीधितमेतस्य पञ्च सूक्तानि । स्मितमेतस्य शशाङ्कस्तस्य च रूपं मतप्रपञ्चः ॥'

८ साहित्यदर्पणे 'कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्या । संयोग एषां न त्वात्मभावा- दात्माप्यनीशः सुखदुःखहेतोः ॥' ( १।२ )* इति कालस्वभावाद्यवादिन्या श्वेताश्वतराणा मन्त्रोपनिषदा व्यक्ततरमव- सीयते । एवं वाजसनेयिनां ब्राह्मणोपनिषदा—'इतिहासः पुराणं विद्या उप- निषद श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि' इति । एवमेव छान्दो- ग्योपनिषदापि—'इतिहासपुराणं पञ्चमो वेदानां वेदं पित्र्यो राशिर्देवो निधिर्वा- कोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदे- वजनविद्या' इति । साहित्यप्रतिपाद्यं दृश्यकाव्यमधिकृत्य भगवता भरतेन तु स्पष्टमाम्नातम्— 'जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभिनयान्न्रसानाथर्वणादपि ॥' ( नाट्यशा० १।१७ ) आग्नेये तु श्रव्यदृश्ये उभे अपि काव्ये सम्यग् व्युत्पादिते इत्युपरिष्टान्निवेदि- ष्यते । एतेनान्यशास्त्रवत् साहित्यस्यापि वेदोपजीवकत्वम्, तत एव साहित्यमूलस्य वेदाङ्गोपाङ्गसमानकालिकत्वं च प्रतिपत्तव्यम् ॥ तत्रभवतो राजशेखरस्य काव्यमीमांसायां कविरहस्ये तु निरूपितार्थो महदर्थवादेन प्रस्तूयते—"ययोपदिदेश श्रीकण्ठः परमेष्ठिवैकुण्ठादिभ्यश्चतुःषष्टये शिष्येभ्यः । सोऽपि भगवान् स्वयम्भूरिच्छाजन्मभ्यः स्वान्तेवासिभ्यः । तेषु सारस्वतेय तृन्दीयामपि वन्द्यः काव्यपुरुष आसीत् । तं च सर्वसमयविदं दिव्येन चक्षुषा भविष्यदर्थदर्शिनं भूर्भुवःस्वस्त्रितयवर्तिनीषु प्रजासु हितकाम्यया- प्रजापतिः काव्यविद्याप्रवर्तनाथै प्रायुङ्क्त । सोऽष्टादशाधिकरणं दिव्येभ्यः काव्यविद्या- स्नातकेभ्यः सप्रपञ्चं प्रोवाच । तत्र कविरहस्यं सहस्राक्षः समाम्नासीत्, औक्ति- कम्मुक्तिगर्भः, रीतिनिर्णयं सुवर्णनाभः, आनुप्रासिकं प्रचेतायनः, यमकानि-चित्रं चित्राङ्गदः, शब्दश्लेषं शेषः, वास्तवं पुलस्त्यः, औपम्यमौपकायनः, अतिशयं पाराशरः, अर्थश्लेषमुतथ्यः, उभयालङ्कारिकं कुबेरः, वैनोदिकं कामदेवः, रूपक- निरूपणीयं भरतः, रसाधिकारिकं नन्दिकेश्वरः, दोषाधिकरणं धिषणः, गुणौपा- दानिकमुपमन्युः, औपनिषदिकं कुचमार इति । ततस्ते पृथक् पृथक् स्वशास्त्राणि विरचयाञ्चक्रुः । हन्तैवं गुरुभ्यो गिरः पुप्ताः पुराणीः शृणुम स्म, यत्किल धिषणं शिष्याः कथाप्रसङ्गे पप्रच्छुः, कीदृशः पुनरयं सारस्वतेयः काव्यपुरुषो वो गुरुरिति । स तान् बृह- * काल इति कालविदः, स्वभाव इति लोकायतिकाः, नियतिरिति मीमांसकाः, इति निरीश्वराः, भूतानीति क्षणिकत्ववादिनः, योनिरिति प्रकृतिवादिनः, पुरुष इत्यादयो जगतः कारणं प्रतिपेदिरे ॥

भूमिका। ९ तापतिरुचे। पुरा पुत्रीयन्ती सरस्वती तुषारगिरौ (तपस्यामास) प्रीतेन मनसा तां विरिञ्चः प्रोवाच-पुत्रं ते सृजामि। अथैषा काव्यपुरुषं सुषुवे। सोऽभ्युत्थाय नपादोपग्रहं छन्दस्वतीं वाचमुदीचिरत्। यदेतद्वाङ्मयं विश्वमर्थमूर्त्या विवर्तते। सोऽस्मि काव्यपुमानम्ब पादौ वन्देयं तावकौ॥ तामाम्नायहृष्टचरीमुपलभ्य भाषाविषये छन्दोमुद्रां देवीं ससंमदमङ्कपर्यङ्केनादाय तमुदलापयत्। वत्स, सच्छन्दस्काया गिरः प्रणेतः, वाङ्मयमातरमपि मातरं मां विजयसे। प्रशस्यतमं चेदमुदाहरन्ति यदुत 'पुत्रात्पराजयो द्वितीयं पुत्रजन्म' इति। तत्त पूर्वे हि विद्वांसो गद्यं ददृशुर्न पद्यम्। तदुपज्ञमथात छन्दस्बद्धं प्रवर्त्स्यति। अहो श्लाघनीयोऽसि। शब्दार्थौ ते शरीरम् संस्कृतं मुखम्, प्राकृतं बाहु, जघनमपभ्रंश पैशाचं पादौ, उरो मिश्रम्। समः प्रसन्नो मधुर उदार ओजस्वी चासि। उक्तिचूर्णं च ते वच, रस आत्मा रोमाणि छन्दांसि, प्रश्नोत्तर- प्रवह्लिकादिकं च वाकेलि, अनुप्रासोपमादयश्च त्वामलंकुर्वन्ति। भविष्यतोऽर्थ- स्याभिधात्री श्रुतिरपि भवन्तमभिष्टौति- चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्या आ विवेश॥ (ऋ सं. ३ अष्ट. ८ अ. १० व.) 'तथापि संवृणु प्रगल्भस्य पुंस कर्म, बालोचितं चेष्टस्व' इति निगद्य निवेश्य चैनमनोकहाश्रयिणि गण्डशैलतलनल्पे स्नातुमभ्रगङ्गा जगाम। तावच्च कुशान् समिधश्च समाहर्तुं निर्गतो महामुनिरुशनाः परिवृत्ते पूपव्युध्मोपहतं तमद्राक्षीत्। कस्यायमनाथो बाल इति चिन्तयन् स्वाश्रमपदमनेषीत्। क्षणादाश्वस्तश्च स सारस्वतेयस्तस्मै छन्दस्वतीं वाचं समचारयत्। अह्लादिताशयन् स चा- भ्युवाच— या दुग्धापि न दुग्धेव कविदोग्धृभिरन्वहम्। हृदिनः संनिधत्तां सा सूक्तिधेनुः सरस्वती॥ इति। तत्पूर्वकमधेतॄणा च सुमेधस्त्वनादिदेश। तत प्रभृति तमुशनसं मन्त' कवि- रित्याचक्षते। तदुपचाराद्य कवय कवय इति लोकयात्रा कविशब्दश्च 'कॄ वर्ण इत्यस्य धातो. काव्यकर्मणो रुपम्। काव्यैकरुपत्वाच्च सारखतेयोऽपि काव्य- पुरुष इति भक्त्या प्रयुज्यते। ततश्च विनिवृत्त। वाग्देवी तत्र पुत्रमपश्यन्ती मध्येहृदयं चक्रन्द। प्रसङ्गतश्च वाल्मीकिमुनिवेशा सप्रश्रयं तमुदन्तमउदाहृत्य भगवतो भृगुसूतेराश्रमपदमदर्शयत्। सापि प्रस्रुतपयोधरा पुत्रादादापाली ददाना शिरसि च चुम्बन्ती स्वस्तिमता चेतसा प्राचेतसायापि नहर्षये निभृतं सच्छन्दांसि वचांसि प्रायच्छत्। अनुप्रेषितश्च स तया निषादनिहतसहचरीकं क्रौञ्चयुवानं दृष्ट्वाऽ- कार्यानिशं क्रदन्तमुदीक्ष्य शोकाच्छ्लोकमुद्बगाद—

यहाँ पृष्ठ की पाठ्य सामग्री का देवनागरी में लिप्यंतरण है:

१२ साहित्यदर्पणे —न् वेदान् प्रहिणोत् । तमात्मदेवं शरणं प्रपद्ये संसारसागरनिमज्जनत्रासत्रम् ... । आचार्यदेवो योगदर्शने—'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः' (१।२४) इत्येवं लक्षयन् सूत्रितं पुनर्व्याचिख्यासायां— ... 'सत्त्वोत्कर्षतश्चैवोत्कर्षात्' (१।२६) इत्यनेन गुणप्राधान्यविभक्तं ... सूत्रयते । इयं च 'हिरण्यगर्भः समवर्त्तताग्रे—' (ऋ. सं. ८ ... ) इति श्रुत्यनुगुणीतया 'स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्त्तत ॥' इति स्मृत्या प्रथमशरीरिणो ब्रह्मणो ... इति प्रतीयते । तत्र पूर्वे द्वितीयस्य शरीरिणः श्रवणस्मरणा- दयस्तन्मुखे साम्प्रतं ब्रह्मणो हृदि वेदाः प्रादुर्बभूवुरिति । तत एव 'तेने ब्रह्म हृदा य आदिकवये' इत्यादि स्मर्यते गोप्यादिकालो ब्रह्मद्वारको वेदानां प्रकाश इति । तथा चाम्नायते—'यज्ञेन वाचः पदवीयमायन्तामन्व- विन्दन्नृषिषु प्रविष्टाम्' (ऋ. सं. ८. २. २३) इति । 'युगान्तेऽन्तर्हितान्वे- दानितिहासांश्च सर्वशः । भेजिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा ॥' इति । ... युगमात् सृष्ट्यादिरपि तत्प्रणयनकालो न भवितु- मर्हति । तथा हि स्म—'वाचा विरूप नित्यया' (ऋ. सं. ६. ५. २५) ... चाम्नायते । एतदेवाकलथ्य भगवता जैमिनिना पूर्वमी- मांसादर्शने—'कर्मैकेषां चाकर्तत्वात्' (१।१।१६) इत्यादिद्वादशसूत्रैरनित्यतां वेदानां निरस्य 'उक्तं च नित्यत्वम् परमैश्वर्यात्' (१।१।१८) इत्यादि ... । उत्तरमीमांसायामपि भगवता पाराशर्येण बादरायणेन वेदानामनित्यतां सूत्रयतापि । 'अत एव च नित्यत्वम्' (१।३।२९) इति वेदनित्यत्वमप्यवधारितम् । अथ यदि मन्त्राणां द्रष्टार एव ऋषयः प्रतीयन्ते—'उतासि मैत्रावरुणो वसि- ष्ठोर्बश्या ब्राह्मणो मनसोऽधि जातः । द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वेदेवाः पुष्करे त्वाऽददन्त' (ऋ. सं. ५. ३. १६) इति । एतदुपक्रम्य निरुक्तम् (५ अ. ४ पा. २ ख.) (ऋ. सं. ५ अ. ३ प्रपा. ४ अनु. २२ वं.) इति च, तद्व्याख्यानं निघण्टौ (२ अ. २-३) इत्येवमादयोऽन्येऽपि म- न्त्रा दृश्यन्ते । तत्र कथं तेषामनपौरुषेयत्वमित्याशङ्क्योच्यते— ... पूर्वकल्पादौ तादृशानेव मन्त्रानृषिषु द्युममाणान् स्वात्मनि साक्षात्कृत्य ऋषयो महर्षयः ... पुनःपुनरुद्घोषय- न्तीति द्रष्टृत्वमात्रमेव ऋषीणां प्रामाण्यमिति । अत एव पुराणेष्विति- हासादिषु च 'ऋषिः' इति शब्दव्युत्पत्तिरेवमादर्शिता, 'ऋषेर्दर्शनात्' इति ... ग्रन्थेषु दृष्टव्यः । ... शब्दप्रमाणागमस्यौत्पत्तिकता ज्ञान- साधनत्वञ्च सुप्रसिद्धम् । अतस्तत्साधनं वेद- रूपं साहित्यमुपादेयं न वेत्यभ्युपगन्तव्यदृष्ट्या मध्य- ममार्गेण शास्त्रस्यास्य प्रामाण्यमुपपादयन् मध्य-

भूमिका । १३

मुपलभ्यन्ते । तथा हि—छान्दोग्ये “यो ह वै वसिष्ठं वेद, वसिष्ठो ह स्वानां भवति, वाग्वाव वसिष्टः” इति वसिष्ठपदार्थव्युत्पादनम् । एवमन्येषामपि व्यङ्ग्या द्रष्टव्या । निरुक्ते “—इन्द्रशत्रुः तत्को वृत्रो मेघ इति नैरुक्ताः, त्वाष्ट्रोऽ सुर इत्यैतिहासिका अपां च ज्योतिषो च मिश्रीभावकर्मणो वर्षकर्म जायते तत्रो- पमार्थेन युद्धवर्णा भवन्ति, अहिवत्तु खलु मन्त्रवर्णा ब्राह्मणवादाश्च—” ( २. ५. २) इति वृत्रवृत्तान्तत्वम् । एवं प्रजापतेः सुतानुगमनम्, इन्द्रस्य अहल्या- भिगमनम्, इत्यादि नियतार्थतया नीयमानमुपलभ्यते । श्रूयते हि ऋक्संहिता- यां 'सूर्य सुभद्रा उपसो न जार—' ( १. ५. १३) इति । 'उपो न जार पृथुपाजो—' ( ५ २ १३ ) इति च । एतदेव पुनर्कृक्संहितायां ऐतरेये ब्राह्मणे—'प्रजापतिर्वै स्वा दुहितरमभ्यध्यायद् दिवमित्यन्य आहुरुषसमित्यन्ये ताम्ऋश्यो भूत्वा रोहित भूतामभ्यैत्— इति कथारूपेण निरूपितम् । अत्र जैमि- निसूनभाष्यवार्तिककारा —'प्रजापतिस्तावत्प्रजापालनाधिकारादादित्य एवोच्यते। न चारुणोदयवेलायामुषसमुद्यन्नभ्यैत् । सा तदागमनादेवोपजायत इति तद्दुहितृ- त्वेन व्यपदिश्यते । तस्या चारुचदिरणाद्बीजनिक्षेपात्स्त्रीपुरुषसंयोगवदुपचार- न्त्याहुः । यथोक्तं 'प्रजानाथ नाम प्रथमममिव सा दुहितर मचं रोहिता रिरक्षयिषुरभवद् वपुषा । बहुष्यापेयांत दिवमपि सपत्राकृतममुं दन्वन्तं तेऽद्यापि तदभित्त ऋक्षवापरभत ॥' इति नक्षत्रपुरुषसंनिवेशदर्शितं मन्त्रान्तवर्ध- मपि द्रष्टव्यम् । एवमेव ऋक्संहितायां 'उदीरय पितरा जारमभगं—' ( ३. ६ १० ) इति । एतत्पदमालम्व्य तैत्तिरीयारण्यके —'—वै राम्बन्धित्, अहल्यायै जार, धै विश्वामित्र, गौतमब्रुवाण—' ( १. १२ ) इति पाणिनि- सूत्रीय शब्दव्याख्यानाद् ( ६ । १ । २७ ) तथा शतपथब्राह्मणे ( ३. ३. ४. १८ ) । परमेतावताऽप्यत्र वाल्मीकीये रामायणे किञ्चित् ( १ ४८-४९ ) उक्तं निरुक्तकारा —'आदित्योऽत्र जार उच्यते रात्रेरितरः—' ( ३. ३ ४) । वार्तिककारा अपि—'एवं सहस्राक्षस्य परमेश्वर्यनिमित्तेन्द्रशब्दस्य सतो द्य महतो रात्रिनाशस्य रात्रेरहल्याशब्दवाच्यायाः क्षयात्मकत्वात् हेतुत- याऽतः तस्यां दोषे निवृत्ते रात्रिरादित्याज्जारेत्युच्यते, न तु परमार्थिक- एव इति धियः । एतेनैव पिता मेधा इति सिद्धम् ॥ सङ्घ पुरुपसूक्ते— 'यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥' (ऋ. सं. १०. ९०. १६, य. सं. ३१. १६, अथर्व. सं. ७. ९९ आदि) इति । ऐतरेये—'अग्निना वै देवा अग्निमयजन्त— अग्निहोत्रेणैवैते प्रायश्चित्तिमकल्पयन्' (१. ४. ७) इति । स्कन्दस्वामिनापि— अग्निमुद्दिश्याग्निसाधनेन कर्मणा देवा यजनमकुर्वन् । पूर्वेण दर्शपूर्णमासशब्देन प्रधानमुच्यते' (ऋ. सं.) इत्यर्थविवृतिदर्शनेनैतदवगम्यते यद् बहुशाखासम्प्रतिपन्नं तदपि मन्त्रव्याख्यानं मूलतः प्रा- चीनपरम्परयाऽनादित्वमेव सिद्धं वेदस्यानवधार्य्यम् । तस्मात् पूर्वोक्तयु- क्तिभिरेवापि वैदिकशब्दानां नित्यत्वं प्रतिपादितं भवति । तत्र दिङ्मात्रं दृश्यते शब्दार्थ सम्बन्धा- र्थानामनित्यत्वप्रतिपादने । तथाच सूत्रकारेणोक्तम्— 'यथा लौकिकेषु प्रयोगेषु' २ अ० सू० २

The provided image is completely blank and contains no text.

भूमिका । १५ श्रौतस्मार्त्तप्रवृत्तिरपि समनोभियोगं विवेचनीयात्र । अतो नित्या वेदा इत्येव स्थितम् ॥ यत्त्वत्र साम्प्रतिका वेदवाचस्पतयो दयानन्दस्वामिन ऋग्वेदादिभाष्यभूमि- कायां वेदानां नित्यत्वमभिलप्यापि तदुत्पत्तिगणनात्कार्ष्ण्येन त्रेधा भ्रमोऽजनि । नित्यस्योत्पत्तिकालप्रदर्शने प्रथमो भ्रम । उत्पत्तिकालप्रदर्शने साग्रंबुदाश्विन- मनूनां सन्धिकाल्स ( १९७२९६००० ) एतावद्वर्षसङ्ख्यस्य परिगणने द्वितीयो भ्रम । यत्सादृशनानाविकल्पमला महायुगैरहो मनु ब्रह्मणो दिने तु चतुर्दश मन्व एवं पदनं महत् संप्रदिनं भवति ७१ x १४ = ९९४ । तन्मूले सन्धिकार- णोजनं निरस्यान्ते उत्पत्तिकालोऽपि यदि वस्तुस्वस्तर्हि ब्राह्मवत्सारारम्भ इति तृ- तीयो भ्रमः । परं नहि ब्रह्मणो नित्यभावे वेदमीलने सङ्घटते । क्षेत्रेय गण- नपद्धति - मानुषयुगानि । दैवयुगानि । १२०००० = ( ३६० x १२०००० ) = ४३२००००० ब्र. दि = १००० x १२०००० = ( १००० x ४३२०००० ) = ४३२००००००० अथवा, एवमगुणान् चतुर्दशगुणं ४२९४०८०००० खसप्ति- तेन २५९२०००० = ५७५९७२८००० वृत्तं प्रकारेण भवति । अत्रारिणणनद कालम् - ७१। मनु ४३२०००० = ३०६७२०००० ६। ३०६७२०००० = १८४०३२०००० ७४ युगल. ९२०९६००० = ९२०९६००० २७। ४३२०००० = ११९६३२०००० कृतम् = १७२८००० त्रेता = १२९६००० द्वापरम् = ८६४००० इयादे गताब्दि = ५०७९

  • वर्षस्य ने एतावदि गताब्द् = १९५२९५४०७९-८ दयानन्द- मनुसङ्ख्यं गतान्यपि दैवीयुगानि सन्त्यथ सम्प्रति कल्पेऽस्मिन् विंशतितमो वैवस्वतस्यैष एकोनत्रिंशत्तमो द्वापरान्तः प्राप्नोति । तत्र द्वापरान्ते हि भगवान् कृष्णद्वैपायनाख्येन व्यासमुनिना समुपदिष्टान् वेदान् दृष्ट्वा ततो द्वापरान्ते वेदा- नुत्पत्तिरित्याशङ्कितुं प्राप्यम् । द्वापरान्ते हि वेदान् विभज्य विस्तारयति द्वित्रींश्चार चतुरश्चेत्यादिपुराणोक्तेर्व्यासस्य वेदविभागकर्त्तृत्वं युज्यते न तु अन्यथा सर्वस्य सर्वथा निरपानात् सर्वदाऽपि वेदानां कर्त्तव्यैवेति स्वामिदयानन्दस्य निरसनं युक्तियुक्तमेवाऽऽह ।

यहाँ पृष्ठ पर अंकित पाठ का पंक्तिबद्ध लिप्यन्तरण प्रस्तुत है:

साहित्यदर्पणे न च वेदविहारोऽयं संश्राव्यः शूद्रजातिषु । तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥ एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च । सस्मार चतुरो वेदान् योगमास्थाय तत्त्ववित् ॥ धर्म्यमर्थ्यं यशस्यं च सोपदेशं ससंग्रहम् । भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ॥ सर्वशास्त्रार्थसंपन्नं सर्वशिल्पप्रवर्तकम् । नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥ संकल्प्य भगवान्नेवं सर्वान्वेदाननुस्मरन् । नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसंभवम् ॥' ( १ अ. २—१६ श्लो ) एतेन वैवस्वताह्वयस्य सप्तमस्य मनो. कस्मिंश्चित्त्रेतायुगे राज्ञो नहुषस्य राज- काले, यद्वा सांप्रतिकाद् गतकाले प्राग् द्वापरयुगे प्रोक्तेभ्यः पुराणेभ्यः पूर्वं त्रेता- युगे नाट्यशास्त्रस्य प्रणयनमिति व्यक्तम् । तत्र प्रथमकोटावन्यो नहुषो द्वितीयको- टावन्य इत्यपि सुभवन् पन्था । नहुषश्च आयुपः पुत्रो ययातेः पितेति महाभारतम् ( आदिपर्व. ९५ अध्या ७ ग. ) ॥ यन्न मनुष्यस्य यावदायु संभाव्यते तावतो बह्वधिकनिबन्धनादिदानींतना इति- हासपुराणेषु प्रसिद्धानानान्यान्यथाऽन्यथा गमयन्तोऽपि वस्तुतो न विश्रान्तिं संध- दधते । उच्यते चनन् । यद् यथोत्पादितं तत् तथैव परीक्षितं स्वरूपप्रतिष्ठितं भवति । इतरथा परीक्ष्यमाणं तु स्वरूपाप्रतिष्ठितमेव । नहि मृद्व्यतिरेकेण विभा- व्यमानो घटट स्वरूपप्रतिष्ठितीति । एवमस्माकमार्यावर्तभुवामितिहास पुराणं वापि न केवलमुत्तानावगमात्रमनिष्टकल्पनवैने, किंतु पातञ्जलादिप्रख्यातयोगवि- द्वद्भिरुपलब्धा (यो. द. वि. पा. ) तत्रतत्र विप्रकृष्टदेशकालपात्रघटितमपि वस्तु पश्यदन् । अत एव भगवता वेदव्यासेन— 'इतिहासपुराणाभ्यां वेदं समुपवृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ ( म. भा. आदिप. १ अ. ३६७ श्लो.) इत्येतिहासिकपुराणस्य वेदौपबृंहणं निर्णीतम् । न स्याद्यद्येवमादरभूरिति- हास पुराणं चेत्, तर्हि कथं कथमपि लोकवृत्तान्तं प्रवर्तमानं सिध्येत् । नैवं कृतं कुशाग्रे ग्रन्थविस्तारबाहुल्येन । अत एव चात्र प्रसंख्यानावबोधेन कुतर्कीन्धा- नर्थान् 'नैनं व्यामोहमगधो यदेनमन्धो न पश्यति' इत्यनेन परिह्रियते । तस्माद्यैस्तैः वस्तु यावत्प्रत्यक्षवद् बुद्धिविशेषयोगेन सुम्मानपात्रकल्पितं तादृगेव सर्वमनुसंधेयम् विहितप्रसाधिनमवसेयम् । ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰

भूमिका । २१ यदि चात्र सांप्रतिकपर्यालोचनदृष्ट्या कालसंकोचचिकीर्षया मीमासकानां सहस्रसंवत्सरशब्दस्य सहस्रदिनपरताधिकरणन्यायोऽवतार्येत (जैमिनिदृ. ६ अ- ७ पा. १३ अधि.). तदापि विसंवादाधिस्तदवस्थ एवाभिलक्ष्यते । यतस्तत्र साधारण्येनाधिकारिचिन्तायां ब्राह्मणानुगृहीतः कालसंकोच आश्रीयते; इह पुनर्- विशेषेण कालकलनायां गमकाननुगृहीतः कालसंकोचो विकासो वा कथमाश्री- येत । या च शतायुःश्रुतिः, सापि युगपरतया मन्वादिभिः स्मर्यते ( म. स्मृ. १ अ. ८१-८४ श्लो. ), इत्य सेतिहासपुराणाभ्यामेव किमपराद्धम् । यत्तदुक्तजातं गमकानुपलम्भेऽप्यन्यथा नीयते । एतेन हि भगवन्तं रामभद्रं तत्पितरं तत्र- भवन्तं दशरथं चाभिलक्षीकृत्य प्रवृत्तम्— 'दशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥' रा. वा. का. १. स. ९७ श्लो. 'षष्टिवर्षसहस्राणि जातस्य मम कौशिक ।' ( रा. वा. का. २० स. १० श्लो. ) इत्यादिवाक्यं नासगतं मन्तव्यम् । बलादन्यथानयने तु सौरमानेन '११०००/३६५ = २८८/३६५ इति ६००००/३६५=१६४६/३६५ इति तयोः कालावागच्छतः । अत्र द्वितीयस- श्रद्धेयत्वेऽपि प्रथमः सर्वथाऽनुपपन्न एव । तथा तत्रैव रामायणे 'ऊनषोडश- वर्षों मे रामो राजीवलोचनः' इत्येवमादिरुक्तकालो दिनत्वेन परिणममानोऽति- तराम्रनुपपन्नो द्रष्टव्यः । नैवमत्रैवानुपपत्त्या पराक्रम्यते । यानि पुनर्ज्योतिषे होरा- स्कन्धे नानाप्रकाराणि योगोत्थितानि पुरुषायूंषाणि पठितानि तत्रापि विसंवाद- गलप्रहारं मुञ्चामहे । जैमिनीयन्यायोऽपि स्वातन्त्र्येणावतार्यमाणः कालकलनासु प्रमाणपदवीं नाधिरोहतीत्यपि दर्शितमेव । देशकालद्विपयविप्रकृष्टनामभेरखराला- पोऽपि दूरदर्शिभिरेकहेल्याऽवहेलयितुमशक्यः । प्रक्षेपोऽपि सजात्यान्न विशिष्य मूलात्स्कन्दीत्यादि रूपेहत्य परीक्षणीयम् । तस्माद् वेदेष्विव तदुपोद्घातेष्वपि यद् यथा स्मर्यते व्यवस्थाप्यते वा तन् तथैव नीयमानं पूर्वोपन्नं भवितुमर्हतीति स्थितम् ॥ इदमपि पुरातत्त्वं प्रकृत पर्यालोच्यम्— 'श्रुतौ शतायुः पुरुषः प्रदिष्टो बहुत्वयोगी शतशब्दशक्यः । रामादिकानामधिकायुराप्तौ युक्तं प्रतीमः फलितेऽमितायुः ॥' इति । बहु च चात्र रूढ्यानुसारेण प्रतिपत्तव्यम् । दृष्टं च जैमिनीयव्याख्यानदर्शने पुनरिदमपि पर्यालोच्यमेव— 'तं वार्षिकं वासरिको भवञ्च ( भवृत्त )- भोगो भवेद् भास्करसंधयेन ।

२२ साहित्यदर्पणे तत्रापरं ( न्तिमं ) ब्राह्मणगौरवेण ( दर्शनेन ) स स्वीचकारेति विरोधभङ्गः ॥' इति । अथवा भवृत्तीयापरभोगस्य प्रथमान्तत्वे । महर्षिणाग्राहि ( ऽमानि ) विरोध- शान्त्यै' इत्येवं चरमपाद पठनीयः ॥ प्रास्तावयं च प्राक् ( भूमि. १८ पृ. ) साहित्यस्य प्रबन्धा बन्धकाश्च क इति । तत्रावशिष्यते पौराणिकी कोटि । यत्र सूक्ष्मेक्षिकया निरीक्षणायामनेके वैज्ञा- निका विषया पुरस्कृत्यन्ते । इदानी तु प्रस्तुतमुपक्षिप्यते यत्पुराणेष्वन्यतम- माग्नेयमिति । इह विषयान्तरवत् साहित्यविषयोऽपि भामहादिग्रन्थेभ्यस्तत्पूर्व- भ्यो वा संक्रामित , आहोस्वित् वेदार्थोपबृंहकेभ्य आग्नेयादिभ्य एव भामहादि- ग्रन्था व्यधायिषत । तत्राद्यकोटिर्विशीर्यते वृहत्कथारघुवंशादिपर्यालोचनेन तत्क- तृकालेऽपि कविकर्मपद्धतेरवश्यंभावाद्, यत्प्रयातान्येतानि गुणाढ्यकालिदासा- दिमूर्द्धान्यस्माकमवलम्बनानीति । आलंकारिकेषु भामहवर्जं नान्य कश्चन चिरत- नत्वेन संप्रति सभावनारूढ इति बहव । भामहग्रन्थस्तदुपज्ञमित्यपि न सिद्ध्यति । यस्मात्तन्मादेव— 'रूपकादिरलंकारस्तथान्यैर्बहुधोदितः । न कान्तमपि निर्भूषं विभाति वनिताननम् ॥ १३ ॥ रूपकादिमलंकारं बाह्यमाचक्षते परे । सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ॥ १४ ॥ तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी । शब्दाभिधेयालंकारभेद्मिष्टं द्वयं तु नः ॥ १५ ॥' ( १ परिच्छे ) इत्येतेन, तथा— 'इति निगदितास्तास्ता वाचामलंकृतयो मया बहुविधकृतीर्दृष्ट्वान्येषां स्वयं परितर्क्य च । प्रथितवचसः सन्तोऽभिज्ञाः प्रमाणमिहापरे गहनधियामस्ताराथं मनोऽकृतबुद्धिभिः ॥ १६ ॥ ( १५ परिच्छे ) इत्येवमादिना च वशीयेन मूकेन प्राचां काव्यानुशासनाना ज्ञापनम् । नाट्य- शास्त्रे हि— 'उपमा दीपकं चैव रूपकं यमकं तथा । काव्यस्यैते ह्यलंकाराश्चत्वारः परिकीर्तिताः ॥' ( १६ अ ४१ श्लो. ) इत्येवमंकारमुद्दिश्य लक्षयित्वा दृथ— गूढार्थमर्थान्तरमर्थहीनं भिन्नार्थमेकार्थमभिलुतार्थम् । ...दृष्टम् ।'

२३ भूमिका । न्यायादपेतं विषमं विसंधि शब्दच्युतं वै दशकाव्यदोषाः ॥* ( १६ अ. ८४ श्लो.) श्लेषः प्रसादः समता समाधि- र्माधुर्यमोजः पदसौकुमार्यम् । अर्थस्य च व्यक्तिरुदारता च कान्तिश्च काव्यर्थगुणा दशैते ॥* ( १६ अ ९२ श्लो. ) इत्येव दश दोषानपवदन्तो गुणा उद्दिष्टा यथोद्देशं लक्षिताश्च । एत एव काव्या- लंकारसूत्रे—'ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिशान्तयो बन्धगुणा' ( २ अधिकरण १ अध्या ४ सू ) इति वामनेनोक्ता 'मा- धुर्याजःप्रसादख्यास्त्रयो न पुनर्दश इति प्रकाशकारादिभिः प्रद्युम्न व्यपदे- शृन्निर्माणरीत्या स्थापिताश्चेति । परमेते (दश गुणा ) वामनात प्राग्त्वेन रसा- दितस्य दण्डिनः काव्यादर्शेऽपि सन्ति । दण्डिवामनयोर्मन्यतो गुणगणे भर- तानुसन्ध न दृश्यते । भरतेन दृष्टानां स्वातिनारदपुष्पकरैर्गद्य-ग्रन्थेषु दण्डेन दा व एतेऽक्षिप्रा वा गान्धर्वापरविद्या इति को नियमयेद् । २- 'पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः । कर्मन्दकृशाश्वाभिनि' (४।२।११०-१११) इति पाणिनिसूत्रभ्यां शिलालिक्कृशाश्वप्रणीतानां वेदाङ्गतटसूत्राणां गन्ध- र्वाणां गन्धर्वगानवेदोऽप्यनुदितप्रसरः । दण्डिनः प्राग्त्वेन टङ्कविहितो भामहस्य वाच्यादयो रं तु भरतेनोक्तो दोषगुणेश्यो दण्डिद्य एव दर्शिताः । एवं गुणग- व्यानदर्शनमभिप्रेत्य वै मन्येतो भरत सर्व इत्यापद्यन्ते सन्तो न दृश्यते सर्वे गान्धर्वनिर्मितो ज्ञेयः सर्वविज्ञानापन्न इति, विमलोदयमपि तथा गन्ध- वान्धर्वशास्त्रसम्पादनं तु प्रागभिहितमिति मन्यामहे । नाट्यशास्त्रार्थेऽप्यभिनिवेश कि व्यर्थः, प्रतिपन्नानाम् एव गान्धर्वेषु ततो नैवास्ति विचार्यते, तथैव पुनर् एषा प्रसिद्धे नानुवर्तते न पद- तदेवान्तरेण सोऽपि संगीतं कुटिलवार्ता रङ्गप्रस्थापनं, नाट्यवेदो- प्यन्याय्यम्, व्याख्यानान्तरदोषेण संगीतिकोऽपि न विशिष्यते न वृद्धानुरूपं ते व रङ्गान्तरं प्रकाशकम् । इत्येतेषामुभयविधयुक्- तेष्वपि परिणम्य विदार्य चाभ्युपपादनाय कृताश्लोकावतारोकेन दृश्य- न वैपरीत्यम् । सर्वो गुणः प्रत्युत एको नास्तीति दर्शयन्ती स्वातन्त्र्य- दुःस्थाने । गान्धर्वशास्त्रसम्पादने तु प्रागभिहितमिति मन्यामहे । इत्येवं सर्वं मन्यामहे स्वपरकीयं मतम् उद्भाव्य काव्येषु दोषाविष्कारेण गुण- रूपता प्रतिपाद्यते साहित्यविमर्शेनेति प्रतिभाति । नीचे फुटनोट—

वर्षाणां द्वादशशती षष्टिः षड्भिश्च संयुता । भूभुजां कालसंख्यायां तद्द्वापञ्चाशतो मता ॥' इत्ययं द्वापञ्चाशतो राज्ञा काल = १२६६ स च न सवदति । एतदुक्तं भवति- यदि नाम प्रकृतोपयुक्ता सप्तर्षीणां गतिर्नोपलभ्यते, तर्हि तया युधिष्ठिरकालानिर्ण- योऽशक्यः । अत्र सिद्धान्ततत्वविवेके कमलाकरभट्टाः । 'अद्यापि कैरपि नरैर्गतिराश्चर्य्य- रूपा न या च कथिता किल संहितासु । तत्काव्यमेव हि पुराणवदत्र तज्ज्ञा- स्तेनैव तत्त्वविषयं गदितुं प्रवृत्ताः ॥" ( भग्रह. ३१ ) इत्यादि निर्णयन्ति । तथा सिद्धान्तदर्पणे चन्द्रशेखराचार्या अपि- 'सप्तर्षीणां ध्रुवः प्राग्भिनौकः संचारसंभवात् । तथाप्यनुभवात्तेषां व्यवस्था क्रियतेऽधुना ॥ पूर्वार्ग्रं शकटाकारमुदक्स्थमुडुसप्तकम्। सप्तर्षिमण्डलं प्रोक्तं व्यक्तं विश्वनमस्कृतम् ॥ तत्पूर्वोत्तररेखाग्रे मरीचिः पश्चिमे ततः । वसिष्ठोऽरुन्धतीयुक्तस्तत्पश्चादङ्गिराः स्थितः ॥ तत्पश्चाच्चतुरस्रस्य शम्भुदिक्स्थशिरस्य तु । पुलस्त्यो दक्षिणे तस्य पश्चिमे पुलहः स्थितः ॥ क्रतुस्तदुत्तरस्थानस्तत्रोक्तौ पुलहक्रतू । ध्रुवसूत्रेण यल्लग्नौ तद्दक्षस्या महर्षयः ॥ कथ्यन्ते सांप्रतं (४९७०) सिंहे भूभुजां (२१) शान्तगौ हि तौ। कालांशैस्त्रिंशकैः १३ प्राच्यां पुलस्त्यो वर्तते ततः ॥ तनम्रैः सार्धकैः (५.) रात्रिरङ्गिरा नवमि(९)स्ततः ॥ ततोऽष्टाभि(८) र्वसिष्ठोऽस्मान्मरीचिर्वर्ततेऽष्टभिः(८) ॥' इत्येवमादि संक्षेपसूक्त्यान्ते- 'प्रत्यक्षं प्राग्गतिः प्रोक्ता पुराणैरप्यितिनिश्चिकाः । तेषां नो निश्चिता पूर्वानुभवादद्दर्शनान्मया ॥' इत्युपसंहृतम् । एतेन स्वयंदर्शनाभावात् ६५३ एतावत्कालसङ्ख्यानं तदानीं प्रमाणीकृतमेव । ततो हि कवेः ४० वर्षानन्तरमेव ६५३ वर्षानन्तरमपि प्रमाणसङ्ख्यानैव दत्त एव सूर्यांशकवत् ( लौकिकसंवत् ) इव कलियुगसंवत् ( यु- धिष्ठिरस्य राज्यारम्भसमये ) इत्येवं कथनम्पि अप्रमेयमेव । नहि ३१७५- २५२२=६५३ एतावत्संवत्सरेण धर्मराज्यारूढवत्सतायाउद्य, वा भारतसंग्रामस्य, सिद्धिश्चाशक्यैव, वा सप्तर्षिसमानकालस्य सङ्कलनैर्वाऽशक्यस्य युधिष्ठि- रस्य राजगद्द्यध्यारोहणसंवत्सरज्ञानं बोद्धेभ्यः प्र चक्रते । तस्मात्-

भारतं द्वापरान्तेऽभूद्वार्तयेति विमोहिताः । केचिदेतां मृषा तेषां कालसंख्यां प्रचक्रिरे ॥' इत्यन्यथा परिणतां महामल्लचणकचमूनोः कल्हणस्य कृतिमुपेक्ष्यात्रायं भ्रष्ट- नृपावलौ ६५३ एतावन्ति वर्षाणि संकल्य ३१७९ एतावदेव सर्वसमत्या कलि- गतं (कलियुगसंवत्) शकारम्भसमये मन्तव्यम् । एवमप्यत्र नीलमुनिरात्मन काश्मीरिकपुराणमतं न जहातीति परीक्षणीयम् । इत्थंच पूर्वदत्तसंहितावाक्ये युधिष्ठिर इत्यत्र लक्षणया कस्मिंश्चित्तत्संताने नृपतौ पृथ्वीं शासतीत्युन्नेयम् । किंवा, यथार्थानुगार्थे 'गोद्रिष्टृगाइत्रियुतः' इति पाठश्च स्यादिति संक्षेपः ॥ अथात्र किंचिदैतिहासिकदृष्ट्यापि विविच्यते—राज्ञः शांतनोर्गङ्गानो गाङ्गेयो भीष्मो जज्ञे (म. भा. आदिप. १०० अ.) । कृपे पराशरात् सत्यवत्यां पारा- शर्यो व्यासः कानीनश्च (म. भा. आदिप. १०५ अ.) शांतनुर्विवाहितायां सत्यवत्यां चित्राङ्गदविचित्रवीर्यौ जनयामास । तत्र विचित्रवीर्योऽम्बिकाम्ब- लिके काशिराजसुते उपयेमे । ततश्च— 'ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः । विचित्रवीर्यस्तरुणो यक्ष्मणा समगृह्यत ॥ सुहृदां यतमानानामाप्तैः सह चिकित्सकैः । जगामास्तमिवादित्यः (म. भा. आदि प. १०२ अ) । मातुः सत्यवत्या आज्ञया पाराशर्यो विचित्रवी- र्यस्य क्षेत्रेऽम्बिकायां धृतराष्ट्रं तथाम्बालिकायां पाण्डुमुत्पादयामास (म. भा. आदिप. १०६ अ.) । पाण्डोर्युधिष्ठिरादयः (म. भा. आदिप. १२३ अ.) तत्रा- र्जुनाद् अभिमन्युः, अभिमन्योः परीक्षित्, परीक्षितो जनमेजयश्च । एवमर्जुन- स्य प्रपौत्रो जनमेजयः, येन पृष्टः पाराशर्यो महाभारतं (जगौ) चक्रे (म. भा. आदि- प. १ अ.) । हरिवंशेऽपि राज्ञो जनमेजयस्य वयः ३६ वर्षाणि बभूवेति, तदा— 'आकर्णपलितः श्यामो वयसाशीतिकोऽभवत् (८०) रणे पर्यचरद् द्रोणो वृद्धः षोडशवर्षवत् ।' (म. भा. द्रोणप. १२५ अ. ७२ श्लो.) इत्यनेन, तथा— 'वयः प्राप्य परीक्षित्तु दैवमन्वगमत्परम् । ६३ । शृङ्गारशृङ्गताम्भूयः सर्वशास्त्रमुपागमत् । विदित्वा परमात्मानमपि क्षत्रधर्ममते स्थितः । ६४ । षष्टिं (६०) वर्षाणि धर्मात्मा वसुधां पर्यपालयत् ।' (म. भा. सौप्तिकप. ९६ अ.) इति वासुदेववचनेन ८०+६०+३६=१७६ एतावतो वर्षाणि भारत-सङ्ग्रामस्य महाभारतोक्तेर्भवेयुः सुस्पष्टम् । अतः द्रौणिना कृतस्य उपनिषद्ग्रन्थस्य तु — 'चत्वारि चैव संवत्सरसहस्राणि विनिर्दिशेत् । शतत्रयं तथा चैवमेतावन्तोऽब्दसंख्यया ।' (म. भा. सौप्तिक ३ अ.) इत्यनेनापि ३३०० वर्षाणि गतानि ...

३६ साहित्यदर्पणे

र्थात् ३१००—४८७=२६१३ कलिगतम् । एष च—'यदुदुम्बरवर्णानां मण्डलं महत् । पीतं न गमयेत्स्वर्गं तत्किं क्रतुगतं नयेत् ॥' इत्येवमुक्तवान् शायाम्—'प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणम्' इत्येवं भट्ट- भाष्यकारेण प्रत्युच्यते । यद्युक्तो बुद्धनिर्वाणकालः सर्ववादिसंमतः स्यात्तदापि । तीर्थंकर-महावीरसत्ताकालो व्यक्त एव, यतो वीरनिर्वाणसंवत्—५२७ सं० ऊर्ध्वम् अर्थात् कलिगतम् २५७३। 'चन्द्रगुप्तसभा' इति प्रत्युदाहरणं तु स्वा० महाभाष्ये काशिकायामपि न दृश्यते, केवलं सिद्धान्तकौमुद्याम् । चन्द्रगुप्तसमवि- तया संभाव्यमानः पुष्यमित्रो वर्तमाने लड्सूत्रभाष्ये—'इह पुष्यमित्रं याजयामः ( ३।२।१२३ ) इत्येवं स्मृतोऽपि कुशकाशावलम्बनायितः । नहि देवदत्तेन्द्रकर्ण- न्द्रपालितप्रायैरुदाहरणै ( ८।२।८३ ) केचन नियता व्यक्तिविशेषा भाष्यकाराभि- मता भवितुमर्हा इति दिक् । अथ किंचिद्दर्शनान्तरमुपक्षिप्य भूयः प्रकृतप्रघट्टकफलं दर्शयिष्यते । दर्शनेष्वनु- योगितया प्रतियोगितया वा परस्परस्य परस्परं प्रवेशो लक्ष्यते । सोऽयं शब्दतो- ऽर्थत इति यथोत्तर भूयान् प्रेक्षाविषयः । तद्बीजं तु—'कालः स्वभावो नियतिर्य- दृच्छाभूतानि योनि —' पृ. ८ ) इत्येवं जातीया भगवती श्रुतिरेव । नह्येषा श्रुतिरुपालभ्या, तदनुवर्तिप्रमातृणां प्रवृत्तिर्वा, यदेष प्रमेयस्य प्राकृतिको दोषः स्वभावो वा यथायं विचारं सहते, तयागत्या तैर्थिकैर्नीयत इति । अत्रेदं स्थूलतः पर्यालोचनम्— वैशेषिकं न्यायश्चेति द्वये दर्शने समानतन्त्रे तत्र उलूकापरनाम्ना महर्षिणा कणादेन विशेषं पञ्चमं पदार्थभेदमधिकृत्य कृतो ग्रन्थो वैशेषिकम् । विशेषश्च साधर्म्येतरेभ्यो व्यावर्तनाय प्रभवतीति वैशेषिकस्तत्प्रमाता । तथाचोक्तमौलूक्य- दर्शने माधवाचार्यैः—'द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः ॥' इह भूतात्मपुरस्कारेण पदार्थानां साधर्म्य- वैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसपर्यन्तिनी परमात्मचिन्ता । अत्र दश अध्यायाः । प्रत्यध्यायं द्वे आह्निके । सर्वसूत्राणि ३८०। एवं न्यायदर्शनं गोतमेन प्रणीतं षोडश पदार्था-

चार-’ ( १।२।४५-५० ) इत्यादिना पञ्चाप्युपदिष्टाः । एतेन पूर्वं त्रय एव हेत्वाभासा आसंस्ततः, पश्चात् पञ्चत्वमुपनीता इति व्यक्तम् । अत्र ‘विरुद्धासिद्धसं- दिग्धमलिङ्गं काश्यपोऽब्रवीत्’ इति वैशेषिक-पदार्थधर्मसंग्रहकारः प्रशस्तपाद- चार्योऽपि संवादी । एवं वृत्तौ जयनारायण-तर्कपञ्चाननोऽपि । तदेतन्महामहो- पाध्याय-चन्द्रकान्ततर्काचार्य्य स्वभाष्यभूमिकायां स्पष्टमुक्तवान् । किञ्च, न्याय- सूत्रापेक्षया वैशेषिकसूत्राणां प्रणयनशैलीसारल्यमपि तत्प्राचीनतामवगमयतीति प्रत्यक्षं परीक्षकाणाम् । यद्यपि न्यायकोशभूमिकायां महामहोपाध्यायभीमा- चार्येण विपरीतमुच्यते तन्न हृदयारोहीति द्रष्टव्यम् । प्रमाणैः प्रमेयपरीक्षणं न्यायः, नीयते प्रमेयसिद्धिरनेनेति वा । एषोऽक्षपादा- परनामा महामुनिना गोतमेन न्यरूपि । दृष्टान्तद्वारपुरस्कारेण पदार्थतत्त्वज्ञान- न्निःश्रेयसात्यन्तिकी परमात्मचिन्ता । अत्र पञ्च अध्यायाः । प्रत्यध्यायमाह्निकद्व- यम् । सर्वसूत्राणि ५३९ । भगवतो गौतमस्य समये आयुर्वेद इव मन्त्रकाण्डोऽपि दृष्टप्रत्यय आसीत्, तत एव दृष्टान्तविधया द्वयोरप्युपादानं वेदप्रामाण्यादरे कृ- तम्—‘मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् २।१।६८’ इति। सारसा- न्त्रिकोपगता मन्त्रा वदन्ते। आगमश्च-‘आगतं शिववक्त्रेभ्यो गतं च गिरिजामुखे । मतं श्रीवासुदेवस्य तस्मादागममुच्यते ॥’ इति शब्दार्थचिन्तामणौ निरस्तम् । तत्रापि-तत्पुरुषा घोर-सद्योजात-वामदेवे-शानेशाने पूर्वदक्षिणदिनेऽन्तर्बहिर्- पाणि पद्य । तत्पुरुषादिसंप्रतिपादका मन्त्रास्तु तैत्तिरीये आरण्यके दशमप्रपा- ठके श्रूयन्ते ॥ सांख्यं योगश्चेति समानतन्त्रे । तत्र तत्त्वानां संख्यानं यत्र स तत्त्वज्ञानं कपिलापरनामा नारायणांशेन देवहूतिगर्भेण महर्षिणा कपिलेनोपदिष्टम् । तद्यथोक्तम्—‘पञ्चमे कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम् ॥’ इति भागवते ( १ । ३ । ३ ह. १० श्लो. ) । तच्चेह सांख्यं निष्णातेरित्यादितदवशिष्टभूता सांख्यप्रवचनी तु देवहूत्यादनन्तरे महर्षिणा कपिलेनोपदिष्टा । तद्यथोक्तम्—‘सप्तम्यामष्टमे चैव विविधे हरिर- नघम् । दत्त्वात्म सम्पदं तत्र धौम्य निभृतः । यदि सांख्यं द्वयः प्रादुर्वभूव ददा । इति स कपिलो नाम सांख्यप्रवर्तकः । इति भारते विनिर्णयानुसारेण ज्ञायते । तदस्य प्रवृत्तेः शत प्रकृते र्न प्रकाशास्ते बहुदिवसावतीर्णेन कालान्तरेण प्रकीर्णः । इदानीं सांख्यप्रवचनोक्तमेव एतेन तत्त्वमाहात्म्यं सांख्यशास्त्रमिति ज्ञेयं न तु वार्ष्णगण्योपदिष्टम् । तत्र षड- ध्यायीग्रन्थः, द्वितीये तृतीयेऽध्याये षष्टिस्तन्त्राख्या विषयाः कथिताः— “तं षष्टिविषयं शास्त्रम्” इति दिङ्नागेन स्मरणात् । तत्र पञ्चविंशतितत्त्वप्रतीति- घाटतः ‘ईश्वरनिषेधश्चैतत् ५ । ८० ’ इति सांख्यप्रवचनोक्तरीत्या पञ्चविं- शतितत्त्वे तु ईश्वरः सुतराम् । १. न्यायसू. २।१।६८ । २. तैत्ति० आ० १०।२७।१ । १० । ४० । ४

The provided image is completely blank and contains no text to transcribe.

भूमिका। ५३ नैरंगुनि । नैयंगिनिमेशद् द्विधा त्रिधा भूरिशो भवति ॥ द्रव्यात्पृथग्भूतो भवति गुणो नियतनिन्द्रियग्राह्यः । तावत्तत्तात्पर्य्याऽव्यभिचारिभावादिभेषादय त्रेधा ॥ नित्यं क्रियानुमेया द्रव्यविभागेन भवति मातर्थ । साऽरम्भाद्वा द्वेधा सकर्मिकाऽकर्मिका चेति ॥ नियतिविशुणेष्वपि बहुषु द्रव्येषु विन्दमानेषु । एकाकारा बुद्धिर्भवति यत सा भवेज्जाति ॥” इत्येवं शब्दविभागः । एष एवालंकारिकाणामनिमो जातिगुण- क्रियाद्रव्याणामुल्लेखकृत्येव निदर्शनतान् । शब्दोऽर्थो रसश्च मुख्यः । शब्दो वाच्यः, लाक्षणिकव्यंग्यसम्भा प्रागुपस्थानात्; अर्थो वाच्यः, लक्ष्यव्यंग्य- तात्पर्येभ्यः प्रागवगमनात्, मुख्यतुल्य इति व्यपदिश्यते । रसस्तु सर्ववादि- नामादरास्पदं मुख्य एव । रसादिशब्दस्य रसादिप्रत्यायने संकेताभावानाभिधा- व्यापारः प्रभवति । अत एवानिषेयेन व्यभिनामूतस्य प्रतीतिराहित्याल्लक्षणापि नाक्रमते । अभिधापूर्वरो हि लक्षणाव्यापार इति । अतएव च "साक्षात्सकेत- विषयो मुख्यः ॥ मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः । मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः ॥” इति सूत्र्यते । अथ तात्पर्याख्या वृत्तिरपि संसर्गमात्रे विरतव्यापारा । इत्यगत्या अभिधादिपथातिशायिनी तुरीया व्यञ्जनावृत्तौ रसादिवोधने स्फोटायनगतानुसारिभिरलंकारिकैरङ्गीकृता । यद्यपि रसो न केनापि निह्नोतुं पार्यते तथापि तस्य बोधनव्यापारे वैमत्याद् विकल्पाः । व्यञ्जनावृत्तिप्रतिपाद्यो व्यङ्ग्यो हि वस्त्वलंकाररसादिलक्षणः, स तावत्प्रतीयमान एव (छा० २३८ पृ०) । अन्येनाप्यन्ववाचि—'मुख्यादव्यतिरिक्तः प्रतीयमानो व्यङ्गो ध्वनिः ।' ध्वनति, ध्वन्यते, ध्वननं चेति यथायोगमवधातव्यम् । अस्य व्यतिरेकविधा, यथा खलु ध्वनिकारेण अङ्कुरिता, आलोककारेण पल्लविता; लोचनकारेण पुष्पिता, तथैव प्रकाशकारेण फलिता, नान्येन केनापि कोऽपि विशेषोऽद्यावधि वस्तुतोऽत्र प्राकाशि ॥ अथ प्रतीयमानो व्यङ्ग्यो ध्वनिरित्यपि रसादिवेदनभङ्गिमात्रम्, न प्रत्येक- मर्थान्तरम् । यथा खलु व्यवहारभूमौ वाच्यस्तात्पर्यार्थो लक्ष्यो वेति । 'विभावानु- भावव्यभिचारिसंयोगाद् रसनिष्पत्तिः' (छा० ७२ पृ०) इति सर्ववादिसमता भारतीया रसनीवी । एतदुक्तं भवति—कारणादीनां विभावनाव्यापारवत्त्वाद् विभावादिपदाभिधाने दृष्टान्तमर्य्यादया विभावादिविभागलाभः । संयोगादिति सौत्र- पञ्चम्या विभावानुभावव्यभिचारिणः समूहलम्बनतया रसं प्रति हेतुता प्रतिपन्नाः । तत्र शब्दोपहितरूपाणां विभावादीनां व्यापाराद् उत्पाद्योत्पादक-गम्यगमक-पोष्य- पोषक-व्यङ्ग्यव्यञ्जकरूपा भावा वादिमिरादृताः । रसबोधने निरूपितदृशा अभि- धातात्पर्ये निरस्ते अपि पुनर्मामासकमतेन लोल्लटादिभिरुत्प्रेक्ष्यमाणोऽभिधाया दीर्घदीर्घतरो व्यापारो रसस्यानुकार्यगतत्वं च निरस्यते (सा. द. ८९ पृ० २५३ पृ०) “भट्टलोल्लटादयस्तु—रसस्य व्यङ्ग्यत्वमेवाङ्गीकुर्वन्ति” इति विवृत्तिग्रन्थस्तू- पेक्ष्यः (८० पृ०) एव संयोगादिति बुद्धौ रसस्य विभावादेश्च उत्त । रकालिकः सुदूरं निरस्तो मन्तव्यः । लक्षणापि निरस्तैव, यत्पुनस्तार्किकंमन्यैः र्थ रा महिमभट्टप्रभृतिभी रसोऽनुमाप्य इत्यास्थीयते, तदपि तस्यानुकर्तृगतत्वेन

५६ साहित्यदर्पणे

स्यात्काव्यगतत्वं, न रूपिता ॥ शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः ॥ द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यधी- र्भवेत् । अभिधा भावता चान्या तद्भोगीकृतिरेव च ॥ अभिधाधामता याते शब्दार्थालंकृती ततः । भावनाभाव्य एषोऽपि शृङ्गारादिगणो मतः ॥ तद्भोगीकृति- रूपेण व्याप्यते सिद्धिमान्नरः । दृश्यमानाधवा नोङ्गे यात्वङ्गत्वमियं स्फुटम् ॥” इति । तदित्थमन्यथान्यथा प्रतीयमानो नीत इत्यपि द्रष्टव्यम् । इति शब्दा- र्थीयम् ॥ अथ श्रव्यदृश्यीयस्य शब्दार्थीयस्य च विभावनाद् व्याकरणनिशायीवार्थ- वाचकत्वाश्रयणान्मीमांसादिसमयातिक्रान्तस्फोटवादाभ्युपगमान्न्यायादिविसंवादि- व्यञ्जनारोहणाच्च साहित्यमलङ्कारशास्त्रं काव्यानुशासनं न कस्याप्यनुयायि पुच्छलग्नं वा भवितुमर्हति, किंतु— 'प्रसत्तेर्यः पात्रं, तिलकमति'यं सूक्तरचना, य आद्यः साधूनां श्रुतिचुलुकलेह्येन मधुना । यदात्मानो विद्याः, परिणमति यश्चार्थवपुषा, स गुम्फो वाणीनां कविनृपनिषेव्यो विजयते ॥' इत्येवमादिनिरूपितलिङ्गबलेन प्रधानमङ्गीति सिध्यति । अत एव मयाप्यवोचि— 'शब्दार्थयोरुक्तिविशेषसत्त्वे लक्ष्येषु काव्यव्यवहारयोगात् । न्यायादिवद् दर्शनकोटिमाप्तं साहित्यमङ्गीति वदन्ति विज्ञाः ॥ साहित्यस्य भामहालङ्कारादयः कतिपये प्रबन्धा. प्रागुक्ताः, ( भू० ४४ पृ० ) टीकाप्रबन्धा मम्मटसमयदर्शने निर्दिष्टा, अन्येऽपि यत्र तत्र प्रसङ्गादुपात्ता । केचिदिह लक्ष्यभूता निरूप्यन्ते— तत्र ध्वनिग्रन्थाः । (१) ध्वनिकारिका । (२) आलोकः । (३) लोचनम् । (४) हृदयदर्पण. । (५) व्यक्तिविवेकः । एते पञ्चापि कश्मीरजन्मानोऽत्यन्तप्रौढाः । वृत्तिप्रकरणानि । (१) कश्मीरवास्तव्यस्य भट्टकल्लटसूनोर्मुकुलस्य अभिधावृत्तिमातृका । (२) सुप्रसिद्धराजानक—मम्मटस्य शब्दव्यापारविचारः । (३) दाक्षिणात्यस्य अप्पयदीक्षितस्य वृत्तिवार्तिकम् । अस्यैव शिष्यः प्रतीहारेन्दुराज उद्भटालंकारवृत्तिकर्त्ता, य आत्मानं कौङ्कणं ते स्म.

भूमिका। ५७ अलंकारग्रन्थाः । (१) काश्मीरकस्य राजानक—रुय्य(च्च)कस्य अलंकारसर्वस्वम् । (२) काश्मी- रकस्य राजानक—जेयरथस्य अलंकारविमर्शिनी । (३) काश्मीरकस्य भट्टशोभाकर- मित्रस्य अलंकाररत्नाकरः । (४) दाक्षिणात्यस्य अप्पय्यदीक्षितस्य चित्रमीमांसा । (५) दाक्षिणात्यस्य पण्डितराज—जगन्नाथस्य चित्रमीमांसाखण्डनम् । नायिकारसप्रकरणानि । (१) रुद्रटस्य शृङ्गारतिलकम् । मैथिलस्य भानुदत्तमिश्रस्य (२-३) रसमञ्जरी- रसतरङ्गिण्यौ । (४) शिवरामतत्रिपाठिनो रसरत्नहारः । कतिपयविचारप्रकरणानि । (१) काश्मीरकस्य राजानक—य्यकस्य सहृदयलीला । (२-४) काश्मीरक- स्य व्यासदासापरनाम्नः क्षेमेन्द्रस्य कविकण्ठाभरणसुवृत्ततिलकाचित्यविचारचर्चाः । (५) राजशेखरस्य काव्यमीमांसा । (६) जैनयोररिसिंहामरचन्द्रयोः काव्यकल्प- लतावृत्ती । (७) देवेश्वरस्य कविकल्पलता । (८) पर्वतीयस्य विश्वेश्वरपण्डिते- न्द्रस्य कवीन्द्रकर्णाभरणम् । साहित्यग्रन्थाः । (१) धारापतेर्भोजदेवस्य सरस्वतीकण्ठाभरणम् । (२) महामाहेश्वरस्य एकावलीशास्त्रम् । (३) दाक्षिणात्यस्य विद्यानाथस्य प्रतापरुद्रीयम् । (४) केशव- १. अस्यैव महापण्डितस्य शिष्यो राजानक-मङ्खक-महाकविरिखितेन कृतस्य श्रीकण्ठचरितस्य पञ्चविंशतित्सर्गाद् व्यज्यत्. २. अयमेव जयरथ आचार्याभि- नवगुप्तकृतस्य श्रीतन्त्रालोकमहार्णवस्य कर्णधारो जज्ञे. ३. अयं महानुभावो वेदान्त- कल्पतरु-परिमलादिकर्त्ता । उक्तं चानेन-‘कणभक्षपदक्षपक्षपरिकरणक्षणपत्नत्वादक्ष- गिरम् । अनिकेशतर्कशतक्षुभितक्षमितक्षपणक्षमणक्षमपदन् ॥ कपिलोक्तिनिराकरणप्रवणं कृतपनगसूक्तिपरिकरणम् । नयमौक्तिकभूषितभट्टमतं विमलादयचित्तुखनमथियम् ॥ महतामपि मान्यतमं विदुषां विनिवेद्य गुरुं (श्रीरङ्गराजदीक्षित) हृदि वैश्वजितम् । नयसङ्गतिशालिनि कल्पतरौ विवृतश्चरणः प्रथमः प्रथितः ॥' इत्यादि. ४. अनेनैव सिद्धान्तकौमुदीव्याख्यायाः प्रौढमनोरमायाः खण्डनरूपं मनोरमाकुचमर्दनं निरमायि । उक्तं च तदारम्भे-‘लक्ष्मीकान्तपदाम्भोजमानम्य श्रेयसां पदम् । पण्डितेन्द्रो जगन्नाथः सति गर्वं गुरुद्रुहा (भट्टोजिदीक्षितानाम्)’ इत्यादि. ५. काव्यकल्पलता-कविकल्पलते श्लोकरचनाप्रकारदर्शिके. ६. कवीन्द्रकर्णाभरणं बौद्धस्य धर्मदासस्य विदग्धमुखमण्डन- मप्यतिशेते. ७. अस्यैकावलीनाम्नोऽलंकारशास्त्रस्योपरि सुप्रतिष्ठाना कोलाचलमल्लिनाथ- सूरीणां तरलाख्या व्याख्या वर्त्तते । अत्रोदाहरणनायकः कलिङ्गेश्वरो नृसिंहभूपः । नृसिंहवर्णन श्लोका अत्रत्याश्चित्रमीमांसायामुदाहृताः. ८. कोलाचलमल्लिनाथसूरीसूनुना कुमारस्वामिसोमपीथिना कृता प्रतापरुद्रीयस्य रत्नापणाख्या व्याख्या । अत्रोदाहरणनायकः काकतीयकुलोत्तंसो रुद्रभूपालः प्रसिद्धः.

५८ साहित्यदर्पणे मिश्रस्य अलंकारशेखरः । (५) जैनस्य आचार्यहेमचन्द्रस्य सोपज्ञालंकार- चूडामणिवृत्तिसहितं काव्यानुशासनम् । (६) जैनस्य वाग्भटस्य काव्यानु- शासनम् । (७) जैनस्य वाग्भटस्य वाग्भटालंकारः । (८) दाक्षिणात्यस्य अच्युतराजस्य खोपज्ञसरसामोदसहितः साहित्यसारः । (९) दाक्षिणात्यस्य कृष्णकवेर्मन्दारमरन्दः । रूपकप्रकरणानि । धनंजयस्य दशरूपकं धनिककृतालोकसवलितम् । भारतीयस्य नाट्यशास्त्रस्य अष्टादश एकोनविंशो विंशश्चतुस्त्रिंशश्चाध्यायाः । अनेके रूपकग्रन्थाः सर्वतन्त्र- स्वतन्त्रस्य राघवभट्टपादस्य अभिज्ञानशाकुन्तलार्थद्योतनिकातोऽवधेया इति । अथ प्रसङ्गात्साहित्यस्य लक्ष्यभूताः प्राच्योदीच्यप्रतीच्यदाक्षिणात्याः कवीन्द्रा कविकर्मणः श्रव्यदृश्यग्रन्था निरूप्यन्ते— तत्र काव्यग्रन्थाः । (१-३) कालिदासस्य रघुवंश-कुमारसम्भव-मेघदूतानि । (४) छत्र-भारवेः किरातार्जुनीयम् । (५) घण्टा-माघस्य शिशुपालवधम् । (६) श्रीहर्षस्य नैषधीयचरितम् । (काव्यशास्त्रम् ) (७) काश्मीरकस्य तालरत्नाकरस्य हरवि- जयम् । (८) काश्मीरकस्य विह्लणस्य विक्रमाङ्कदेवचरितम् । (९) काश्मीरकस्य जगद्धरस्य स्तुतिकुसुमाञ्जलिः । (१०) शालिवाहनस्य गाथासप्तशती (गाहा- सत्तसई) । (११) प्रवरसेनस्य सेतुबन्धम् (दहमुहवहो) । (१२) वाक्पति- १. काव्यानुशासनं काव्यप्रकाशानुसारि । वाग्भटीयं काव्यानुशासनं तु प्राचीन- शैलीकम्. २. एते हालसाहिवै. समुद्रिते दशरूपकपुस्तके संक्षेपिताः. ३. दक्षिणा- पथे गोदावरीतीरे कुन्तलेषु प्रतिष्ठानं नाम नगरमासीत् । यत्स्वामी हालसात- वाहनादिनामा शकप्रवर्तकः शालिवाहनः । येन च गाथासप्तशती संकलिता । इयं बाणस्य हर्षचरिते कोषतया नुता । गोवर्धनाचार्यस्य आर्यासप्तशत्या—'वाणी प्राकृतसमुचितरसा बलेनैव सरङ्ग नीता । निर्गतान्तरूपनीरा कलिन्दकन्येव गगनतलन् ॥' इत्येवं स्मृता । सरस्वतीकण्ठाभरणे तु द्वितीयपरिच्छेदे 'केऽभूवन्नाढ्यराज्यस्य राज्ये प्राकृतभाषिणः । काले श्रीसाहसाङ्कस्य के न सस्कृतभाषिण ॥' इत्युक्तम् । तत्र आढ्यराजः शालिवाहनः; साहसाङ्को विक्रमादित्य इति तट्टीकाकृतो रत्नेश्वरमिश्राः । शालिवाहनस्यैव सभायां भूतभाषामयवृहत्कथानिर्मातृ-गुणाढ्य-कालापव्याकरणकर्तृ- शर्ववर्मप्रभृतयो महाविद्वास आसन् । अतः शकप्रवृत्तेरासन्नकाले गाथासप्तशती- संकलनकालो भवितुमर्हतीति दिक्. ४. राजतरङ्गिणीगणनया एकः प्रवरसेनः ३१८४ कलिगतेऽभूत् । अस्यैव पौत्रो द्वितीयः प्रवरसेनः । एतत्समये उज्जयिन्यां ० ना विक्रमादित्योऽप्यभूत् । उक्तप्रवरसेनयोरन्यतरेण सेतुबन्धापरनामधेयं ० प्रणीतं स्यात् । अकब्बरजहाल्तीन्द्र (अबुलमुजफ्फरजलालुद्दीनमहम्मद ) सचिवो रामदासभूपतिस्तत् स्वकृतसेतुबन्धटीकाप्रारम्भे—'महाराजप्रवरसेनेननिमित्तं