साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
इस पृष्ठ पर कोई पठनीय पाठ या श्लोक/सूत्र उपलब्ध नहीं है (पृष्ठ रिक्त है)।
३२ काव्यप्रकाशे जातीत्यादिरूपेण गौश्चतुर्विधा । गौः स्वरूपेण... भिन्नोऽपि, गवान्तरेण नाभिन्नो नापि भिन्नः । द्वित्वापत्तेः स्वरूपेण भिन्नाचेत् = जात्यिति । गौरन्तः प्रवेशाद् गौरिति ज्ञेयः । यत्तु गोत्वं स्वरूपेण न व्यक्तिव्यतिरिक्तं गौरित्यवगतेः । विशेषा- न्तरापेक्षत्वाद्देशाद्यपेक्षत्वाद्वा भेदे हेतुः । द्वित्वादिसङ्ख्यापत्तेश्चेति प्रदीपे स्पष्टम् उक्तम् । तन्न । न हि गौरित्यत्र गोत्वापेक्षया भेदे हेतुत्वं प्रवृत्तेर्हेतुत्वं वा । न च देशभेदाद्गोत्वाद्व्यक्तेर्भेदः, देशान्तरेऽपि गोत्वा- वच्छिन्नोपलम्भात् । तथोक्तं प्रागेव । नाभिनिर्वृत्त्यादेः पूर्वमपि तत्त्वं प्रवृत्तिकालपर्यन्तं यदनियतं तत्प्रत्यक्षविषयः स्यात् ? स्वरूपेण नाभि- र्नो नापि भिन्नोऽपि । द्वित्वापत्तेरित्युक्तम् । न च गोत्वमेव व्यक्तिव्यतिरेकेण न प्रतिभातीति वाच्यम् । तथा सति गवादिष्वप्येवमस्तु । न ह्यन्यः कश्चिद् गौरिति प्रत्येति । कश्चित्तु प्रकृते अवधारणार्थः ... भिन्नोऽपि न भिन्न इति । न च तत्प्रतीत्यर्थम् इत्यर्थः । सर्वोपादानां कौटस्थ्यं प्राप्यते 'तत्तद्भेदेन च भिन्नत्वमुक्तितोऽप्यन्यथा' इति नाङ्गीकृतः । तदुक्तं वाक्यपदीये — 'गोः स्वरूपेण न गौर्नाप्यगौः, गोत्वाभिसम्बन्धात्तु गौः' इति । तथाहि — गौः स्वरूपेण गवादिभिरन्यथा स्वरूपेण नाभिन्नो नापि प्रपञ्चोप्यर्थे इति व्याख्यातम् । 'शब्दार्थरूपं सामान्यमुभयोरपि यत्प्रवृत्तिकारणं गौः' न निष्पन्नमभिधीयते । नाप्यसौ... नापि चाभिन्नः स जात्यन्तराद् यथा गौरश्वादिति । एवं मपि दुग्धदधि शुक्लश्यामनया बालगोवृद्धानां बाल्ययौवनवार्धक्येन विभिन्नमप्यात्म- स्यात् । तस्मात्प्रातिस्विकैर्गुणैर्योगान्नापि चाभिन्नो वा व्यवहाराय नापि भिन्नः । 'अधोः' इत्यत्र 'पोरित्यादिकं' शास्त्रादृते सोऽन्यथा 'न हि गोः शुक्लः' इति रीति- भावान् । गोत्वाभिसम्बन्धाद्दो वस्तुना स्वातन्त्र्योपाधिशब्दितमिति । एवं च स्वाभेदेना- ध्यारस्य गोपिण्डे गोत्वम् अस्त्याध्यासेन ज्ञातो भावः । एवं च नित्यमेकमनेकानुगतं सामान्यं जातिरिति तल्लक्षणो बोध्यम् । गुणं ब्रूतेऽपि शुक्लादिपदप्रतिपाद्यम् । डत्थ- दिना हि लब्धसत्ताकं गवादिकं वस्तु व्यावर्तयन् शाब्दान्वयेन। ततश्च तद्रूप- त्स्य द्रव्यस्य गुणेन पश्चाद् योग इति । एवं चोत्पन्नम् द्रव्यम् क्षणमेकं निर्गुणं स्यात् । जातियुक्तस्यैव द्रव्यस्योत्पत्तिः । 'जन्मना जायते शूद्रः' इत्युक्तेः । गुणजातिगुणयोर्भेदो- भेद इति बहवः । प्रदीपकृतस्तु — 'यद्यपि शुक्लादीनां स्वाश्रयोपगमे गोत्वादिना समना- त्समैव संबन्धित्वम्, तथापि तस्य सम्बन्धः कदाचिदपैत्यपि, न तु गोत्वादेरिति विशेषः' इत्याहुः । कदाचित्पाकाद्यवस्थायाम् । नादिपदेन रचनाद्यवस्थाया घटणम्। पाकेन रूप- नेन च वर्णान्तरसंपादन इति तदर्थः । एवञ्च 'सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतैर्गुणः ॥' इति गुणलक्षणं बोध्यम् । अयमर्थः —द्रव्य- माश्रयते, तत एव च द्रव्यान्निवर्तते, भिन्नजातीयेषु द्रव्येषु दृश्यते यः स गुणः । एतेन जातेर्गुणत्वं वारितम् । सा हि द्रव्ये निविशमाना द्रव्यं न कदाचिञ्जहाति । नच भिन्नजा- तीयानि द्रव्याण्यभिनिविशते । यद्यपि गवाश्वादिषु प्राणित्वमस्ति, तथापि प्राणित्वेन तेषा- मेकजातीयत्वमेव । ननु क्रियायाः पूर्वोक्तलक्षणयोगाद्गुणत्वं प्राप्नोति, सापि हि द्रव्ये निवि-
इस पृष्ठ पर कोई पठनीय पाठ उपलब्ध नहीं है (केवल निचले बाएँ कोने में कुछ अस्पष्ट/कटे हुए अंश दिखाई दे रहे हैं)।
३८ साहित्यदर्पणे 'कलिङ्गः साहसिक' इत्यादौ कलिङ्गादिशब्दो देशविशेषादिरूपे ऽर्थेऽसंभवत्तया शब्दशक्त्या तत्संयुक्तान्पुरुषादीन्प्रत्याययति, यया च 'गङ्गायां घोषः' इत्यादौ गङ्गादिशब्दो जलमयादिरूपार्थवाचकत्वाल्ल- क्षणार्थसंबन्धं सामीप्यादिसंबन्धसंबन्धिनं तटादिं बोधयति, सा सम्बन्धिना साम्प्रतिकेनेरा ईश्वराद्युद्भाविता वा शक्तिर्लक्षणा नाम। पूर्वत्र हेतु रूढिः प्रसिद्धिरत्रे। उत्तरत्र 'गङ्गातटे घोषः' इति प्रतिपाद- नाद् ... 'रामोऽस्मि सर्वं सहे' इति वक्ष्यमाणायां स्वार्थस्यैव दुःखा- तिशयेन बोधनायां रामशब्दलक्षणायामव्याप्त्यापत्तेश्च। अत एव 'कदली कदली' इत्यादौ व्यङ्ग्यान्तरसंक्रमितवाच्यलक्षणाया मूलानेरुदाहरणमपि संग- च्छते। अत्र द्वितीयादि कदलीशब्दानां पौनरुक्त्यात् कदलीत्वादिना अन्वयासम्भ- वेऽपि सौन्दर्यादिना कदल्यादिरूपमुख्यार्थस्यैव बोधकतया लक्षणास्वीकारात्। तथा चोक्तम्- 'अतः परं प्रबोधाय करसङ्कचितां कुरु करद्वयीम्।' अत्र द्वितीयकरपदस्य पूर्वोपात्तार्थसाधारण्येऽपि करविशेषप्रतीतावपि लक्षणा। एवं च अन्यत्राप्येवंरीत्याऽपि लक्षणा संभवति। शक्यतावच्छेदकघटितविशि- ष्टशक्यसंबन्धरूपा लक्षणा स्वीकारात्। यथा 'त्वामस्मि वच्मि'- इत्यादौ द्रष्टव्यम्। सा च रूढिप्रयोजनरूपा, तथा ज्ञानात्। अतो द्वयोरेकतरसद्भावादेव सर्वत्रापि लक्षणाप्रयोजनेनाह। प्रयोजनञ्च शीतपावनत्वादिप्रतीतिः साम्प्रतं न सम्भवति तस्य हेतुत्वमुपगतम्। 'प्रयो- जनवतः' इत्यर्थः। अत्र प्रागुक्तयोर्दृष्टान्तयोरुभयोरेव विवक्षितयोरेव यथोक्तलक्षणासंभवेऽप्युभयोर्द्वैविध्येनोभयत्रोदाहरणं भवतीति ज्ञापनायाय द्वित्रि- प्रयोगेन च तेषां निर्देशः। वस्तुगत्या तु हि लक्षणा। तत्रोभयोस्तु रूपान्तरमेवेति बोध्यम्। तच्च ग्रन्थकारेणैवोक्तम्। 'कलिंग' इत्यादिना साक्षात् संयोगादिना लक्षणाऽनन्तरं देशसंबन्धाल्लक्षणायां मुख्यस्तद्वान्प्रतीय- मानः पुरुषः। मुख्यशक्यस्य कलिङ्गदेशस्य वा प्रत्यक्षानुपलम्भेन देशसंबन्धाल्लक्ष- णाभ्युपगमात्। तत्र चेत्थं मुख्यार्थबाधः। कलिङ्गः साहसिक इत्यादौ मुख्यार्थबाधः कलिङ्ग इति। साहसिकत्वासम्भवे मुख्योऽर्थे कलिङ्गादिशब्द इति। द्वितीयोदाहरणेऽपि तादृशं बाधमाह - गङ्गायामिति। गङ्गापदस्य प्रवाहविशेषे रूढत्वात्प्रवाह- स्याधारत्वेनावस्थितेर्घोषस्याधारत्वं न सम्भवतीत्याह-जलमयेत्यादिना। यत्त्वत्रापि शैत्यपावनत्वादिप्रतीतिर्भवति, तदग्रिमग्रन्थैरेव व्यक्तीभवि- ष्यतीति प्रतिपादयति-इत्यादिना। ननु रूढौ प्रयोजने च कथं लक्षणे- त्याशङ्क्य तयोर्लक्षणं दर्शयति - पूर्वत्रेत्यादिना। पूर्वत्र कलिङ्गादौ रूढिर्हेतुः। रूढिर्नाम प्रसिद्धिरित्यर्थः। उत्तरत्र गङ्गायां घोष इत्यादौ
द्वितीयः परिच्छेदः । ३९ नालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनम्। हेतुं विनापि यस्य कस्यचित्संबन्धिनो लक्षणेऽतिप्रसङ्गः स्यात्, इत्युक्तम्—'रूढेः प्रयोजनाद्वापि' इति । केचित्तु 'कर्मणि कुशल.' इति रूढावुदाहरन्ति। तेषामयमभिप्रायः- कुशाँल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योऽर्थः प्रकृतेऽसंभव- न्विवेचकत्वादिसार्धर्म्यसंबन्धसंबन्धिनं दक्षरूपमर्थं बोधयति। तदन्ये^1 इति । प्रतिपादयतीति प्रतिपादनं वाक्यम्, तदलभ्यस्य । मुख्यशब्दघटितवा- क्येनाप्रतिपाद्यस्येत्यर्थ । तीरस्य विप्रकृष्टतागतशीतत्वापेक्षया सन्निकृष्टतागतशीत- त्वादेराधिक्यमत्रातिशय । एवं च 'अतिशीतेऽतिपावने तीरे घोष' इति व्यञ्जना- जन्यबोधो लाक्षणिकशब्दप्रयोगस्य प्रयोजनमिति भाव । 'कथंचिन्न लक्षयित' इति लक्षणाया निषेध उक्त । अशक्तितो रूढिप्रयोजनविरहात् । यथा—'स्मरो चरणाघातं मुख मुमुखि तेऽकरोत्' । अत्र निर्जितत्व लक्ष्यते । एषा नेयार्थ- लक्षणा दोषतया वक्ष्यते । सा च कविप्रयोगानर्हत्वात् प्रकृतलक्षणस्य लक्ष्या न भवतीति तत्रातिव्याप्तिवारणाय चरमहेतुद्वय न्यस्तम्। तदेव दर्शयति—हेतु- मिति । रूढिप्रयोजनयोरन्यतरमित्यर्थ । संबन्धिनो मुख्यसंबन्धिन । ल- क्षणे लक्षणायाम् । उदाहरन्ति 'काव्यप्रकाशकारादय' इति शेष । लाति गृह्णाति। व्युत्पत्तिः प्रकृतिप्रत्ययविभागकल्पना, ताभ्यस्तत्प्रतिपाद्य । प्रकृते प्रस्तुत- कर्मान्वयेऽसंभवन्वियोग्यतामलभमान. । पदार्थस्यान्वयानुपपत्तिप्रतिसंधानद्वारा लक्षणायामुपयोगित्वमित्यभिप्रायेणेदम् । अन्य इति । स्वपक्षानिप्रायेण दूषय- 1 तदन्य इति। तद्रुचिरमेतत्। अगति बाधनेऽप्यन्तराले रूढिमनुद्धा विवक्षित- पायोगेन मुख्यसदृशं वृत्तमिति प्रत्युक्तत्वात्सन्त्वेव। नित्य प्रयोज्यप्रवृहैकेन प्रकृति- निमित्तहीनेरे यौगिकव्यवहारस्य मुख्यतैव दुर्वारे । यथा कालस्वभावतोत्प्रेक्षा- हेतोरादिकेऽपि निपुणस्य चन्द्रपरस्य इति योगस्य निवृत्तिमन्तमन्तरेण प्रवृत्त- निमित्तं ते मत्वार्थेव गन्धर्वपुरेऽनतिरेवव्यवहारेऽपीति गने त्वात्सम्भवत्येवेति ध्येयम् । अत एव लक्षणादिरूपोऽविधेयोऽपि शब्दः। यथाऽऽहुरन्येषां साविकशब्दानां हि रू- ढिशब्देन यौगिकशब्देषूच्यते । 'रूढिशब्दस्तु' इति ग्रन्थसन्दर्भेण चेदम् । यच्च मान्त्रवर्णिकोऽयं शब्दप्रयोगस्तत्र रूढार्थस्यानुसन्धानमेव केवलं प्रकृत- तीरवृत्तित्वानुवृत्त्यर्थं न तेन दोषम् इत्युक्तं तदेतत् प्रत्युक्तम् । यतोऽत्र ही लक्ष्यार्थः स्वरूपं विनाऽपि रूढिकृतत्वाद् दृश्यते विनाऽनुभवं विना प्रयोजनं विभूतिगुणातिरेकेणैव स्यात् । यि च .... प्रवृत्तिमित्यतः सापि रूढितः प्रवृत्त्यान्यैरुद्भाव्यतेऽतः सप्रयोजनरूढि- रक्तम् । एषा च प्रयोजन रूढौ चापि न तु प्रकृतलक्षणायां गन्धमात्रं लभ्यते नह्यागन्तुकान् द्वितीयाद्यर्थान् लक्षयितुं प्रभवन्तीति—इति ग्रन्थव्याख्यातारः ।
४६ साहित्यदर्पणे रोपा । इयमेव रूपकालंकारस्य बीजम् । रूढावुपादानलक्षणा सारोपा यथा—'अश्वः श्वेतो धावति' । अत्र हि श्वेतगुणवानश्वोऽनिगीर्णस्व- रूपः स्वसमवेतगुणतादात्म्येन प्रतीयते । प्रयोजने यथा—'एते कु- न्ताः प्रविशन्ति' । अत्र सर्वनाम्ना कुन्तधारिपुरुषनिर्देशात्सारोपत्वम् । रूढौ लक्षणलक्षणा सारोपा यथा—'कलिङ्गः पुरुषो युध्यते' । अत्र पुरुषकलिङ्गशब्दयोराधाराधेयभावः संबन्धः । प्रयोजने यथा—'आयु- र्घृतम्' । अत्रायुष्कारणमपि घृतं कार्यकारणभावसंबन्धसंबन्ध्यायुस्तादा- त्म्येन प्रतीयते । अन्यवैलक्षण्येनाव्यभिचारेणायुष्करत्वं प्रयोजनम् । यथा वा—राजकीये पुरुषे गच्छति 'राजासौ गच्छति' इति । अत्र स्वस्वामिभावलक्षणः संबन्धः । यथा वा—अग्रमात्रेऽवयवभागे धावति'. इत्यत्रापि 'धावति' इत्यत्र 'शोभते' इति द्रष्टव्यम् । अन्यथोपादानलक्षणा न स्यादिति प्रागेव दर्शितम् (४३ पृ ) । अत्र निरुक्तारोपमत्त्वमुपपादयति-अत्र हीति । 'लक्षणाजन्यपदार्थोपस्थिते प्राक्काले' इति शेषः । अनिगीर्णस्वरूपः प्रयुक्तशब्देन प्रतिपाद्यः । एते कुन्ता इति । विषयस्य सामान्यवाचिना सर्वनाम्ना निर्देशेऽपि विशेषरूपेणानुपस्थितां साध्यवसाना लक्षणेवेति काव्यप्रकाशकारमतम् । तद्भूतल- मिति प्रतीतिसत्त्वे 'घटाभाववद्भूतलम्' इति प्रतीत्यनुदयात्सर्वनाम्नोऽपि विशेषरू- पेणोपस्थापकत्वं कल्प्यत इत्यभिप्राणये पूर्वमतमङ्गीकृत्य तत्रापि सारोपा लक्षणेति दर्शयति—अत्र सर्वनाम्नेति । आयुर्घृतमिति । अत्र शक्यसंबन्धारोपं च दर्शयति—आयुष्कारणमपीति । अन्यवैलक्षण्येनाव्यभिचारेणेत्यत्र वाकारो बोध्यः । लक्षणाबीजं विविधं शक्यसंबन्धं दर्शयन्बहून्यदाहरणान्याह-राजकीय इति । अत्र राजकर्मातिशयपरिच्छेदातिशयो राजवदलङ्घ्यशासनत्वं वा प्रयोजनम् । अवयवभागे इत्यत्र भागशब्दः स्वरूपार्थः । अत्र प्रयोजनाभावादूढिरेव । हस्त- १. एत इति । 'इदमस्तु सन्निकृष्टं समीपतरवर्त्ति चैतदोरूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥' इति, अवश्यन्तु भूतानवस्थितियुक्तनेनेमपि नियममेकान्ततः श्रद्दधते । तत एव 'पूर्व पश्याभवद्' 'अभूद्भूमिः' 'बभूव रक्षः' इति 'अमुं पुरः पश्यसि' 'अमूं पुरि स्त' इति चैवमादयो. रघुवंशशिशुपालवधप्रयोगाः । २ अग्रेति । अग्रभूत द्रव्यमात्रात्रेऽवयवत्वेने हस्तशब्दो लाक्षणिकः । हस्ताग्रव- १ 'उदाहृ... मागेण इत्यत्र मधुसूने २ कार्यकारणसंबन्धादुत्कृष्टत्वेन' क; 'कार्यकारणभावेन तदन्वयेनेत्यर्थम्' ग. ३ अव्यभिचारेण' इति ग पुस्तके नास्ति ४ 'आयु- र्घृतम्' इत्यत्र सादृश्यसम्बन्धादव्यभिचारेणायुष्प्रदत्वं प्रयोजनम् इत्यपि ग पुस्तके ५ 'यथा च क-ग, ख पुस्तके तु 'यथा' इतिव ६ दुरुपपादं क. ७ अङ्गमात्रे' ग 'हस्ताग्रदर्शने' क-ख पुस्तके तु 'अग्रमात्रे' इति पाठो दृश्यते
द्वितीयः परिच्छेदः । ४७ ‘हस्तोऽयम्’ । अत्रावयवावयविभावलक्षणसंबन्धः । ‘ब्राह्मणोऽपि तक्षा- सौ’ । अत्र तात्कर्म्यलक्षणः । इन्द्रार्थासु स्थूणासु ‘अमी इन्द्राः’ । अत्र तादर्थ्यलक्षणः संबन्धः । एवमन्यत्रापि । निगीर्णस्य पुनर्विषयस्यान्यता- दात्म्यप्रतीतिकृत्साध्यवसाना । अस्याश्चतुर्षु भेदेषु पूर्वोदाहरणान्येव ॥ दन्त्वार्थशान्तिवं प्रयोजनमित्यन्ये । ब्राह्मणोऽपीत्यपिशब्दः क्षत्रियादिनिवृत्त्यर्थः । तक्षा जातिविशेषः । समग्रतक्षकर्मणि नैपुण्यमत्र प्रयोजनम् । इन्द्रार्थामित्यिति । इन्द्रपूजार्थं प्रतिष्ठितास्वित्यर्थः । स्थूणासु स्तम्भेषु । इन्द्रवत्पूज्यमानत्वमत्र प्रयो- जनम् । एतदुदाहरणचतुष्टयमपि सारोपाया एव । ‘-निगीर्णस्य यस्तु नान्येना- न्तरा’ इति कारिकादल(दल) व्याकरोति—निगीर्णस्येति । उत्तर...
१८ साहित्यदर्पणे
**सादृश्येतरसंबन्धाः शुद्धास्ताः सकला अपि ॥ ९ ॥**
**सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ।**
ताः पूर्वोक्ता अष्टभेदा लक्षणाः । सादृश्येतरसंबन्धाः कार्यकारण- भावादयः । अत्र शुद्धानां पूर्वोदाहरणान्येव । रूढावुपादानलक्षणा सा- रोपा गौणी यथा—‘एतानि तैलानि हेमन्ते सुखानि’ । अत्र तैल- शब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिषु स्नेहेषु वर्तते³ ।
दिना प्रतीयमानस्य विषयस्य निरुक्ताध्यवसानविशेष्यस्य । पूर्वोदाहरणान्येवेति । श्वेतो धावति । कुन्ताः प्रविशन्ति । कलिङ्गः साहसिकः । गङ्गायां घोषः प्रतिव- संतीति । एतानीत्यर्थ । एवञ्चादीना विशेष्याणां शब्दं विनैव प्रतीयमानत्वाद् ‘गङ्गायाम्’ इत्यादौ तीर विशेष्यम् । तच्च शब्दं विनैव प्रतीयते । पुनरपि लक्ष- णाया द्वैविध्यमाह—सादृश्येतेरेति । सादृश्यादितरे संबन्धा हेतवो यस्या इति समासः । ‘सादृश्यात्संबन्धात्’ इति शेषः । सादृश्यसंबन्धहेतुका लक्षणा गौण्य इत्यर्थः । तेन निरुक्तैर्द्वैविध्येन पूर्वोदाहरणान्येवेति । ‘अश्व श्वेतो धावति’ इत्यादी- न्येवेत्यर्थ । एतानीति । हेमन्ते हि तैलाद्यभावादत्यन्तं दुःखमुत्पद्यते । तन्नि- राकरणेन तैलानामनुपकारित्वमिति सूचनाय ‘हेमन्ते’ इत्युक्तम् । उपादानेन अपरित्यज्यैव । सार्षपादि स्नेहेषु वर्तत इति घृतादिविलक्षणद्रवत्वरूपैकधर्मसंब- न्धेन सर्षपादिस्नेहान्प्रतिपादयतीत्यर्थ । ‘छत्रिणो यान्ति’ इतिवत्तिलस्नेहस्यापि
- गौण्य इति । गुणेभ्य आगता गौण्य इति विग्रहः । ‘तत आगतः’ इत्यनेन ‘द्विगोः’ इति ङीप् ॥
१ ‘तत्र’ ग. २ ग पुस्तके तु ‘एव’ इत्यस्याने ‘सादृश्येतर-’ इत्यादि दृष्ट्वा दृश्यते, तत्र तत्रे “आदित्यो यूपोऽग्निर्माणी भूष्ण इन्द्र सादृश्यं' क्षणात् । क्वचिदन्वयान्निमित्तत्वात् ‘राजकीय पुरुषो राजा’ इति । क्वचित्तात्स्थ्यात् ‘मञ्चाः क्रोशन्ति’ इति । क्वचिद्वयवहारनियमाद् ‘सप्तशतेऽभ्युदये हस्त्योभ्यम्’ इति । क्वचित्साहचर्यात् ‘छत्रिणो यान्ति’ इति । एवमन्यान्युदाहरणान्युक्तानि । एवञ्च षट्प्यर्था इति वचनात् । सादृश्यसंबन्धात्तु ता एवाष्टधा लक्षणा गौण्यो भवन्ति।” इति पाठान्तरं वर्तते ३ ‘नेयं प्रयोजनवती । नासिकेरादिस्नेहव्यावृत्त्या सार्षपस्नेहादिनातीय एव प्रसिद्धा नियमिन्नत्वाद् इति ग-पुस्तकेऽधिका पाठ ४ ‘इति’ पुस्तकान्तरे नास्ति ५ क्वचित् ‘एषु यथापद्येनेन्द्रा द्विपदनमध्याहार्यम् । तेनेन लक्षणावावच्छेदेन सारोपात्वाध्यवसानाभ्यामन्तरधर्मद्वौविध्यं समूहन- संपन्नम् । वस्तुतस्तु त्वामनि वनि विठ्ठला ममवायोश्च विठ्ठनि' इत्यादौ ‘उपविशति कनिनीन’ इत्यादौ चाध्याहारेणापि समानविभक्तिपदसमंभावाद् ‘बदती वदती दरम् कल्प' इत्यादौ ‘रागोऽग्नि सर्वसहे’ इत्यादौ च शब्दयोरभेदाभावात्सतिसारेपाध्यवसानासंभवानाद्दशनिदमस्य व्यभिचारः । इत्य- ङ्क शान्त्यप्रसादाशये ‘सारोपाना तु यत्रोक्तौ विषयी विषयस्तथा । विषयन्य तुनैग्लन्निरुपान्तरान्या
- सिताः' इति व्याख्यातम् । अन्योपादानलक्षणामन्तर्गतत्वादित्युक्तत्वाद्गौणीत्वेन लक्षणेऽन्तर-
- विनापि शब्दस्यैवोपपद्यते । एतेन उपलक्षितेनार्थेन सारोपात्वमध्यवसानत्वञ्च च मन्यन्ते । न तु शाब्दीना लक्षणानाम् । एव च ‘गङ्गायां घोष' इत्यादाविदनादिपदस्याप्य- ऽध्याहारः संगच्छते ।' इत्यादिक दृश्यते.
द्वितीयः परिच्छेदः । ४९ प्रयोजने यथा—राजकुमारेषु तत्सदृशेषु च गच्छत्सु 'एते राजकुमारा गच्छन्ति' । रूढावुपादानलक्षणा साध्यवसाना गौणी यथा—'तैलानि हेमन्ते सुखानि' । प्रयोजने यथा—'राजकुमारा गच्छन्ति' । रूढौ लक्षणलक्षणा सारोपा गौणी यथा—'राजा गौडेन्द्रं कण्टकं शोधयति'। प्रयोजने यथा—'गौर्वाहीकः' रूढौ लक्षणलक्षणा साध्यवसाना गौणी यथा—'राजा कण्टकं शोधयति' । प्रयोजने यथा—'गौर्जल्पति' । यत्र केचिदाहुः—गोसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यन्ते । ते च गोशब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्ति । तदयुक्तम् ।
५० साहित्यदर्पणे गोशब्दाद्गृहीतसंकेतं वाहीकार्थमभिधातुमशक्यत्वाद् गोशब्दार्थमात्र- बोधनाच्च । अभिधाया विरतत्वाद् विरतायाश्च पुनरुत्थानाभावात् । अन्ये च पुनर्गोशब्देन वाहीकार्थो नाभिधीयते । किंतु स्वार्थ- सहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते । तदप्यन्ये न मन्यन्ते । तथाहि—अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, न वा आद्ये गोशब्दादेव वा । लक्षिताद्वा गुणाद् । अविनाभावाद्वा।^१ तत्र, न ... तादृशमपि बोधयत्येवेत्यत आह—गोशब्दार्थमात्रबोधना- द्येति। विरतत्वात् प्रतीत्योग्यताविरहेण नष्टप्रायत्वात्। सद्दूढशब्दिमलब्य नियम तद्दर्शनगोचरत्वनियमादित्यभिप्रायः । नन्वस्य नियमस्य श्रेष्ठादौ व्यभि- चारदर्शनाच्छब्दस्य पुनरपि प्रतीतियोंग्यता कल्पनीयेत्यत आह—विरताया श्चेति। उत्थानाभावान्न प्रतीतिजननौन्मुखीभावविरहात्। श्रेष्ठादौ धर्मान्तरे गृही- तसंकेतस्यान्यार्थान्तरं बोधयतु। प्रकृते तु गोत्वे गृहीता शक्तिर्गोव्याधर्यं बोधयति यदि तदा तादृशमपि बोधयेत्तदानिश्चयेव लक्ष्यार्थबोधसम्भवेन लक्षणैव नाङ्गीक्रियेतेति भावः। स्वार्थेति। स्वार्थो गोत्वम् । तत्समानाधिकरणेत्यर्थे । गुणसाजा- त्येनेति । लक्ष्यत्वगुणानां गव्यार्थसहचारित्वासंभव इति भावः। आद्ये प्रती- तिरिति । न प्रथमः, न गोशब्दजन्यप्रत्यक्षतः । असंकेतितत्वाद् गोशब्दार्थ- ... भवतु । न तृतीयः, अविनाभावजन्यप्रत्यक्षः। शाब्देऽन्वयेऽ- संभवात् शाब्दबोधविषयत्वानभवात् । अत्र हेतुमाह—शाब्दीति । एव- म्... मन्मथिष्योच्यम् । अर्थापत्त्यादिना मीमांसकानां मते ... शाब्दी विषयवत्तार्थाकार्थतद्वृत्त्याम् । अन्यथापत्ति- ... न स्यात् । न च लक्ष्यार्थेन तत्र को- ... । तद्विशेषेणान्वयस्य लक्षणाया अर्थमत्त्वात्। न च ... त्पादकमिति वाच्यम् । लक्ष्यार्थेऽनन्वितत्वप्रसङ्गेनैतद्- ... । गोशब्दात् ... । लक्ष्यार्थे प्रयोगसामर्थ्यवत् ... ... ... ... १. ... २. ...
द्वितीयः परिच्छेदः । ५१
प्रथमः । वाहीकार्थस्यासंकेतितत्वात् । न द्वितीयः । गोगवयचन्द्रमु- खादिशब्दद्वन्द्वानामलवयवप्रसादादिसाम्येऽप्यन्योन्यस्यान्यतमशब्दार्थानभि- धायकत्वात् । न तृतीयः । अविनाभावलभ्यार्थस्य शाब्देऽन्वये प्रवेशासंभवात् । शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते । न द्वितीयः । यदि हि गोशब्दाद्वाहीकार्थो न प्रतीयेत, तदास्य वाहीक- शब्दस्य च सामानाधिकरण्यमसङ्गतं स्यात् । तस्मादत्र गोशब्दो मुख्यया वृत्त्या वाहीकशब्देन सहान्वयम ल- भमानोऽज्ञत्वादिसाधर्म्यसम्बन्धाद्वाहीकार्थं लक्षयति । वाहीकस्याज्ञत्वा- द्यतिशयबोधनं प्रयोजनम् । इयं च गुणयोगाद्गौणीत्युच्यते । पूर्वा तूपचारामिश्रणाच्छुद्धा । उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम् । यथा—
संदिप्रवर्तात्' इति जैमिनिसूत्रोक्तं न स्यात् । आक्षेपापेक्षया लक्षणाया मुख्यार्थबा- धादिप्रतिसंधानसापेक्षत्वेन विलम्बार्थोपस्थापकत्वात् समवाये विरोधेऽविप्रक- र्षाद्विलम्बोपस्थापकत्वात् । 'श्रुतिर्द्वितीया क्षमता च त्रिं वाक्यं पदान्येव तु सहतानि । सा प्रतिज्ञायाः प्रथमित्यपेक्षामानं श्रुतो योगदलं समेना ॥' इति कारिका सूत्रार्थव्याख्या । न द्वितीयः, न प्रतीतिरित्युभयपक्ष । अस्य गोश- ब्दस्य, वाहीकशब्देत्यनन्तर चकारो योज्यः । सामानाधिकरण्यमेकार्थप्रति- पादकत्वम् । फलितमाह—तस्मादिति । तस्मादुपदर्शितभङ्गी दोषगणैः । अन्वयमिति । अभेदान्वयेनेत्यर्थि । अज्ञत्वादीति । व्यश्मिन्वेऽपि शुचि- गयोरूपसंमिलनिश्चयमेदं निर्वचनम् । अन्यथा शुक्यदनयोरूपमेचगच्छान्वयो न संभवति । प्रयोजनमिति । अज्ञताद्यभेदप्रतीति प्रयोजनमिति काव्यप्रका- शकारः । इयं चेति । गुणस्य साधारणधर्मस्य योगात् संनिधानाज्जाता गौणी- त्यर्थः । तदुक्तम्—'तद्गुणानुगुण्येन प्रवृत्तेरिति च गौणः' इति । लक्षणान्तरं ब्रूते—उपचारानङ्गीकृतपदभिन्नसम्बन्धहेतुर्लक्षणा । पूर्वा गङ्गायामित्युदा- हृतनिदर्शना । शुद्धायास्तयोर्भेदशेषत्वेन औचित्यदाह—तथा चेति 'गुणः पदः' रसवादि विनाशेण उपचारमिवात्युक्त्वा न सादृश्यात् प्रकारान्तरेण पदान्तरं निर्दिश—अत्यन्तमिति । उपचारविशेषणं चास्य भेदाभाव- यभेदरूपत्वेनान्वयेि । विशकलितेत्यायुक्ते सादृश्याविनाभावेन सम्बन्धस्येदमेवमिश्रभावेन भेदप्रतीतेरपलापरूपम् उपचारम् । भेद- हेतित्वां यान्य च स्वरूपत्वे साधकत्वम्—इति यथा युक्तं च
- जैमिनि......
५४ साहित्यदर्पणे 'स्निग्धश्यामलकन्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' द्वैविध्यमाह—धर्मीति । धर्मी लक्ष्यः । तद्वृत्तिपदार्थो धर्मः । स्निग्धश्याम- लेति । तिर्यग्ण श्रीरामस्योक्तिरियम् । लिप्तेति । व्याप्तेत्यर्थः । वेल्लद्वलाका सच- ञ्चलबलाका इत्यर्थः । पयोदसुहृदा मयूराणामानन्दजनिका आनन्दजनिता वा केकाशब्दविशेषः ।
- स्निग्धश्यामलेति । व्याख्यातोऽयं श्लोकः चमत्कारातिशयलाभाय पुनर्व्या- ख्यायते—अत्र रामशब्दोऽतिरस्कृतः । तथाहि—स्निग्धया सहृदयहृदयरम्यया श्यामल्या प्रसिद्धनीलनिभविशेषया कान्त्या कान्तिगुण विशिष्टया लिप्तमिव व्याप्तमिव वियन्नभो येः । वेल्लन्त्यो वायुवशाच्चञ्चला नवत्वेन परमाग्रतया प्रकर्षवशाच्च बलाकाः सितपक्षिविशेषा येषु ते तादृशा घनाः । एव नभस्यानुद्गामेक वर्णने । द्वितीयोऽपि दुःसहाः । यतः सूक्ष्मतरे- ण शीकरेणोपेता वाता इति मन्दमन्दत्वमेषामनियतदिग्भागगमनं च बहुवचनेन सूचितम् अतिदुःसहदुश्चिकित्स्यव्यसनधिया आह—पयोदो मेघः, सुहृत् केकानामनुकूलप्रद आनन्दं येषां केका केकशब्दानि तान्येवतानामानन्देन हर्षेण केका शब्दविशेषाः त ... ... । तादृशं तु यद् पयोदसुहृत् तेन म्नाय्यन्ति । मय च दुःसहा इति भाव ... ... ... ... ... वियोगम् । पञ्चमप्रतिष्ठानवाटने । विधाताना माषाग् ... ... ... ... प्रियतमा हृदये निधाय महत्तमाह—काममिति । दृढं ... ... । कठोरहृदय इति । गमशब्दाच्यतिशिकेपात्रकाष्ठादानाय कठोरहृदयपद- ... ... विहितं रामोऽस्मि विप्रलम्भिनि इति । अन्यथा गाढम् दृढतरवपुर्हृदयप्रकर्षेणः ... ... ... ... ... यद् दुर्वारवेदनाभिधानं तदप्यलम्भो न व्यथयेदिति । स एव ... ... ... ... प्रसिद्धम् । अत एव संयुक्तसंयोगविभाषनान्वेति तत्र । प्रकृष्टदुःखसहेन । अतीवक्लेशं विगलनामात्म्यम् । तेन हि सर्वसहे ... ... भवन्त्येवम् प्रकृष्टव्यथितप्रकृतेर् दृढनिरूढा प्रिया नागतावती ... ... ... ... ... वैदेहीति नामग्रहणाद्—इयमिति । विदुः ... तुषा ... ... । यत्र तादृशाशब्देनोद्देश्यत्वं विवक्षयाऽमृत देवेति धन्या भूयात्, यतो देव्या विशुद्धिरभिरूप्या ईश्वरेण सम्भाषिता पूर्णा, । देवेति" महतो यादृशी कश्चिन्माहात्म्यगुणयुक्तः सन्, तद्दर्शयति महिम्ने । अतिविस्मयरमणीयः प्रसिद्ध- महामहिमेति विवृत्तम्—हा हा हेति खेदद्वैगुण्येण द्विरुक्तिः, अनुकम्पायां वा, ... ... ... ... ... ... धीरा भव ... दुःखसहिष्णुर्भव, धैर्यमवलम्बस्वेत्यर्थः ... ... ... ... ... ... ... तु दुःखसहिष्णुर्न भवति, ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ...
The provided image is completely blank and contains no text to transcribe.
६८ साहित्यदर्पणे विजनत्वम्, अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नका- मुकं प्रत्युच्यते। अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम्। 'भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते' इत्युक्तप्रकारायाः काको- र्भेदा आकरेभ्यो ज्ञातव्याः। एतद्वैशिष्ट्ये यथा— गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम्। अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ॥' अत्र नैष्यति, अपि तर्हि एष्यत्येवेति काका व्यज्यते। चेष्टावैशिष्ट्ये यथा— ^३ 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम्॥' अत्र संध्या संकेतकाल इति पद्मनिमीलनादिचेष्टया कयाचिद्व्यो- त्यते। संनिधिः सामानाधिकरण्यम्, तस्य प्रच्छन्नकामुकनिरूपितत्वं वैशिष्ट्यम्, उच्यते व्यज्यते। अत्रैव अस्मिन्नुदाहरण एव निर्जनत्वातिशयो वैशिष्ट्यं प्रयोजनं तृतीयव्य- ज्ञ्जनायाः कारणम्॥ भिन्नेति। शोकहर्षभयादिकृतेत्यर्थः। आकरेभ्य उपजीव्यभर- तादिग्रन्थेष्व॥ सुरभिसमये वसन्तकाले। अपि तर्हीति। अपि खल्वर्थः॥ संकेतेति। विटमुपपतिम्। हसत्प्रफुल्लम्। नेत्राभ्यामर्पितमाकूतमात्माभिप्रायो यत्र तथ्या स्यात्तथा निमीलितमित्यर्थ । यद्वा, हसदिति नेत्रविशेषणम्। एतदेव पद्म- निमीलनस्य नेत्रार्पिताकूतत्वं वैशिष्ट्यम्। चेष्टादिकस्येत्यादिपदाच्चेष्टाविरहादिग्रह। १. उच्यत इति। व्यञ्जनया प्रतिपाद्यते इत्यर्थः॥ २. काकुरिति। कायत्यर्थान्तरमिति काकुः। यद्वा काकुर्जिह्वेति पस्पशायां भाष्य- कारः। तद्व्यापारविशेषसद्भावत्वाच्छोकहर्षभयादिभिर्ध्वनेर्विकारः काकु। तथा चोक्तम्- 'वाक्यामभिधेयमानेऽर्थे येनान्य प्रतिपद्यते। भिन्नकण्ठध्वनिर्धीरैः स काकुरिति कथ्यते॥' इति॥ ३. संकेतेति। संकेतकाले मनो यस्य। त जिज्ञासुमिल्पर्थः। अत एव हसद्भ्या नेत्राभ्यामर्पितं सूचितमाकूत रहस्यं येन। हसदिति भिन्न प्रफुल्लमित्यर्थक पद्मनिशेषणं वा। शेषं व्यक्तम्। इह नेत्रेङ्गितेन लक्षितो गूढाभिप्रायः कामिन्या निशासूचकेन पद्मनि- मीलनेन प्रकाशित.॥ १. '-व्यङ्ग्यार्थ-' स-च २ 'प्रयोजकम्' र-न; ग पुस्तके तु 'अत्रैव-' इति नास्ति। ३ 'इत्थं' क.
द्वितीयः परिच्छेदः । ६९ एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् । त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥ १७ ॥ अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः । तत्र वाच्यार्थस्य व्यञ्जना यथा—'कालो मधु-’ इत्यादि । लक्ष्यार्थस्य यथा—‘निःशेषच्युतचन्दनं-’ इत्यादि । व्य- ङ्ग्यार्थस्य यथा—'उअ णिच्चल-' इत्यादि । प्रकृतिप्रत्ययादिव्यञ्ज- कत्वं तु प्रपञ्चयिष्यते । शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः । एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥ १८ ॥ यतः शब्दो व्यञ्जकत्वेऽप्यर्थान्तरमपेक्षते, अर्थोऽपि शब्दम्, तदे- कस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या । अभिधादित्रयोपाधिवैशिष्ट्यात्त्रिविधो मतः । शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥ १९ ॥ तद्वैशिष्ट्ये यथा—‘नादत्ते भूषणं दत्तं नाहूता चिरमृच्छति । मृगाक्षी न क्षिपत्यक्षि सादरं मयि पश्यति ॥’ अत्र चेष्टाविरहेण कोपो व्यज्यते । तस्य च कान्तापराधरा- गीनत्वं वैशिष्ट्यम् । व्यस्तानां प्रत्येकं समस्तानां द्वित्र्यादिसन्निधीनाम् ॥ त्रैविध्या- दिति । इयं व्यञ्जना ॥ प्रपञ्चयिष्यते । ‘असंलक्ष्यक्रमव्यङ्ग्यव्यङ्ग्यादुदाहरणे’ इति शेषः ॥ ननु शाब्द्या व्यञ्जनायामर्थस्यार्थ्यायामपि शब्दस्योपयोगित्वनसत्त्वेव तन्मीलना- नन्योभेदवारणमत आह—शब्दबोध्य इति । अर्थान्तराश्रयः अर्थान्तरगम्या- यकः । ‘व्यनक्ति’ इत्यनुषज्यते । इत्यनुपपत्तिदर्शनानन्तरमुपपत्तिमाह—एकस्येति । सहकारिता अप्रधानकारणत्वम् । अप्रधानत्वं च व्यवहितोपपादित्वेन । एवं च यत्र यस्याव्यवहितोपपादित्वेन प्रधानत्वं तत्र तत्प्राधान्येनैव तस्या व्यवहार इति भावः । ननु शब्दार्थौ देशान्वितादिरपि व्यङ्ग्यत्वेनोद्देन व्यञ्जकप्रतिपादनमयुक्तमिति चेत् । न । तमपि द्योपायित्वाभिद्यैव व्यञ्जकत्वान्निर्वाहात् । देशान्वितादिषु यद्- विशेषादिरूपप्रकरणाद्युपपादकत्वं शब्दार्थेऽपि देशान्वितादीनां प्रयोजकत्वेन शब्दव्यवहारः । अत एव वक्ष्यति—'पदं देशान्वितादिषु ईर्ष्यादिरोषविशेष- युक्तिः । प्रकरणं नियतमुद्देशं रूपं देशान्विताद्यूहम् ।' इति । अभिधा- दित्रयोपाधिवैशिष्ट्यादित्येतत्प्रपञ्चयितुमाह—अभिधेति । उपा- १. ‘...’ २. ‘...’ ... ...
७० साहित्यदर्पणे अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोप- धिको व्यञ्जकः । किं च— तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयवोधने । तात्पर्यार्थं तदर्थं च वाक्यं तद्बोधकं परे ॥ २० ॥ अभिधाया एकैकपदार्थबोधनविरमाद्वाक्यार्थरूपस्य पदार्थान्वयस्य धिर्व्यापार । अभिधया लक्षणया वा शब्दैः प्रत्येकमुपस्थापितानां पदार्थानां संसर्गो- वाक्याद्भासमानस्तात्पर्याख्या वृत्तिमपेक्षत इति प्राचीननैयायिकमतमाह—किं चेति । मतान्तरसूचनाय 'आहुः' इति । 'परे' इति परेणान्वय । इयमेवाधुनिकैः संसर्गमर्यादोच्यते । अभिधाया इति लक्षणाया उपलक्षणम् । अभिहितानामभि- धया लक्षणया वा पदोपस्थापितानामन्वयबोधवादिना प्राचीननैयायिकानामित्यर्थ ।
- तात्पर्येति । एतदुक्त भवति—लाघवात्पदाना पदार्थमात्रे शक्तिः, नत्वन्वयांशे- ऽपि । गौरवादनन्यलभ्यत्वाच्च । तदृशो हि तात्पर्यार्थो वाच्यार्थवैलक्षणशरीर आकाङ्क्षा- योग्यतामत्तिवशादपदार्थोऽपि प्रतीयते । न चापदार्थविषयस्यापि शाब्दबोधविषयत्वे कथं- चिदुपस्थितस्य गगनादेरपि तद्विषयत्वापत्तिरिति वाच्यम् । अपदार्थनिषयस्य शाब्दबोध- विषयतायामप्रयोजकत्वात् । इत्यभिहितान्वयवादिनो नैयायिक-भाट्ट-मीमांसकाः । तेषा- मयमभिप्रायः—'घट करोति' इत्यादौ घटवृत्तिकर्मत्वानुकूला कृतिरित्पर्यो बोध्यते । तत्र घटपदस्य घटोऽर्थः, अम्प्रत्ययस्य च कर्मता, वृत्तिना तु न कस्यापि, इत्यपदार्थोऽपि वृत्तित्ता तात्पर्यवशादनयो. संसर्गविधया भासते । अन्विताभिधानवादिन. प्राभाक- रास्तु—'अन्वयरूपे वाक्यार्थेऽपि पदाना शक्ति. । व्यवहारेणान्वितस्यैवोपस्थापनाच्चैवेव शक्तिग्रहात् । तथाहि—'देवदत्त, गामानय' इत्युत्तमवृद्धप्रयोगात्सास्नादिमन्तं व्यक्तिं मध्यमवृद्धे सञ्चारयति, तच्चेष्टया तस्य वाक्यस्य तदर्थबोधकतामनुमाय पश्चात् 'गा नय, अश्वमानय' इति प्रयोगे गवापसरणमश्वाहरण च दृष्ट्वान्त्रयव्यतिरेकाभ्या क्रिया- पदार्थान्विते कारके कारकपदस्य, कारकपदार्थान्विताया क्रियाया च क्रियापदस्य शक्ति बालोऽवधारयति । तत. प्रयोगकाले तस्य प्रथमत एवान्वितबुद्धिर्जायते । न च गौरवेणान्वयांशपरिहार. । प्रथमगृहीतान्वयशक्तेरुपजीव्यत्वेन तदपरित्यागात् । शाब्द- बोधे तु आकाङ्क्षादिवशाद्वृत्तितादिविशेषरूपमेण भासत इति नापदार्थो वाक्यार्थ.' इति वदन्ति । अत्रारुचिबीज तु—'अन्वितत्वेन शक्तावपि अन्वयविशेपावगमाय आकाङ्क्षादिक कारणमवश्यमङ्गीकार्यम् । एव च विशेषाकारेण अशक्यस्यैव भानमिति तैरप्यवश्यमभ्यु- पेयम्' इति ॥ १. 'पदार्थमात्रबोधविरमात्पदार्थानामन्वयप्रतिपादिका तात्पर्याख्या शक्ति' ग. २ 'पदाना क', ' ' स.
द्वितीयः परिच्छेदः । ७१ बोधिका तात्पर्य नाम वृत्तिः । १ तदर्थश्च तात्पर्यार्थः । तद्बोधकं च वाक्यमित्यभिहितान्वयवादिनां मतम् ॥ इति साहित्यदर्पणे वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः । अत्र मूलकारिका = २० । पूर्वानि. सह २३ । उदाहरणश्लोका = ९ । पूर्वैः सह १५ । अन्विताभिधानवादिनो मीमांसकगुरवस्तु—'क्रियाकारकयोः प्रथमत एवान्व- यबोधो जायते, ततः शक्तिग्रहः, पदविशेषसन्निहारात्तु विशेषस्मृतिरिति । किं तात्पर्याख्यवृत्तिस्वीकारेण' इत्याहुः ॥ इति श्रीरामचरणतर्कवागीशभट्टाचार्यविरचितायां साहित्यदर्पणविवृतौ द्वितीय प्रकाश । १. अभिहितेति । अभिहितानां स्वस्ववृत्त्या पदैरुपस्थितानामर्थानामान्वय इति ये वदन्ति तेऽभिहितान्वयवादिन इत्यन्वर्थमभिधानम् ॥ २ अन्वितेति । पदान्यन्वितानि भूत्वानन्तरं विशिष्टमर्थं बोधयन्तीति ये वदन्ति तेऽन्विताभिधानवादिन इत्यन्वर्थं नाम ॥ १. 'तदर्थं च तात्पर्यार्थ' घ
७८ साहित्यदर्पणे . 'रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते' । इत्युक्तप्रकारो बाह्य- मेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् । तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः । तत्र हेतुस्तथाविधालौकिककाव्यार्थपरिशीलनम् । अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः । अत्र हेतुं वक्ष्यामः स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्या । चिन्मय इति स्वरूपार्थे मयट् । चमत्कारश्चित्तविस्ताररूपो विस्मयापरपर्यायः । तत्प्राणत्वं चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीम- न्नारायणपादैरुक्तम् । तदाह धर्मदत्तः स्वग्रन्थे— 'रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः । तस्मादद्भुतमेवाह कृती नारायणो रसम् ॥' इति । चमत्कारसारः । स्वाकारवदिति । यथा स्वस्माद्भिन्नोऽपि देहोऽहं स्थूल इत्यादि- भेदोल्लेखाभावेन प्रतीयते, तथा रसोऽपि ज्ञातृज्ञानभेदोल्लेखाभावेनास्वाद्यत इत्यर्थः । घटादिज्ञाने जाते वेद्मीति यथा ज्ञातृज्ञानभेदः प्रतीयते तथात्र नेति भावः । यद्वा स्वाकारवत्स्वविषयवत् । परिणामवादिभिर्ज्ञानज्ञेययोर्भेदानीकारादिति भावः । कामलोभादिबीजभूतौ मनोदोषौ रजस्तमसी, ताभ्यामस्पृष्टं स्वकार्यजननेऽसंसृष्टं मनो मनोधर्मः । विवृणोति—इत्युक्त इति । उक्तस्वरूप इत्यर्थः । बाह्यं बहि- र्भवम् । लौकिकमिति यावत् । मेयं वस्तु । विमुखता ज्ञानानुकूलव्यापाराभावः । तस्यापादकः प्रयोजकः । ज्ञानानुकूलव्यापारश्चात्र दृङ्मनोयोगः । अभिभूय स्वका- र्याक्षमे कृत्वा । आविर्भावः प्रतिबन्धकाभावेन स्वकार्यक्षमत्वेनावस्थानम् । तस्य सत्त्वोद्रेके । अलौकिको यः काव्यार्थो विभावादिः तस्य परिशीलनमसन्नाभि- निवेशः । प्रकाशः संवित् । ननु मिलिता विभावादयो रसस्तत्कथमस्याखण्डत्वमत आह—अत्रेति । अखण्डतायामित्यर्थः । हेतुमिति । समुद्राल्लम्बनज्ञानादान्म्यमेव हेतुर्वक्ष्यते । स्वप्रकाशत्वाद्यपीत्यादिना सुखनादान्त्यपरिग्रहः । स्वरूपार्थ इति । न त्वन्नमयो यज्ञ इतिवत्प्राचुर्यार्थे । लोकातीतार्थाकलनेन किमेतदिति तन्मयतयार्जनेन चित्तस्य दीर्घप्रायत्वं विस्तारः । दृष्टहेतुभ्योऽप्रभवित्वज्ञानेन हेत्वन्वेषणे मनोव्यापारमेव चित्तविस्तार इत्यपरे । विस्मयो विस्मयशब्देन गृह्यमाणो वस्तुचमत्कार उच्यते सः । यद्वा अपरपर्यायोऽभिन्नः । तत्प्राणत्वं चमत्कारसारत्वम् । रस विभावः । सर्वत्र शृङ्गारादौ । चमत्कारसारत्वे १ 'इत्युक्तप्रकारत्वात्' ग. म. २ इदं पदं ख. पुस्तके नास्ति ३ 'अस्य' ग. ४ 'यद्वा' इति नास्ति ख. पुस्तके ५ 'अत्र इति नास्ति पुस्तकान्तरे ६ 'प्रकृष्ट'
७९ तृतीयः परिच्छेदः । कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तम्- 'पुण्यवन्तः प्रमिण्वन्ति योगिवद्रमसन्ततिम् ।' इति । यद्यपि 'स्वादः काव्यार्थसभेदाद्वात्मानन्दसमुद्भवः ।' इत्युक्तदिशा रसास्वादनातिरिक्तत्वम्, तथापि 'रसः स्वाद्यते' इति काल्पनिकं भेदमुरीकृत्य कर्मकर्तरि वा प्रयोगः । तदुक्तम्- 'रस्यमानतामात्रा- त्स्वात्मकाशरीरादनन्य एव हि रस' इति । एवमन्यत्राप्येवंविध- स्थलेषूपचारेण प्रयोगो ज्ञेयः । नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवति । व्यञ्जनाव्यापारविष- यत्वाद् द्वयोरेक्यमापतितम् । तत्तश्च-
वक्तव्यस्येत्याद्यन्वये । रस्यास्वादयोर्भेदमाशंक्याह- सूक्ष्मदृष्टेति यद्यद्यपि स्वादोऽस्तितन्मूलकश्च व्यङ्ग्यः स न रसः । इति प्राक्तनेति । ऐतिह्यमुच्चार्योत्तरे दृष्टान्तमाह-पुण्येति । श्लोकेन रसो दर्शितः । यद्यपीति । काव्यार्थभेदात्प्रतिपादितः । रसो ऽपि, आत्मानन्दं प्रति नो गृह्यते तथा काल्पनिकभेदविशिष्ट- म्भवेपि इति । प्रयोग इति कर्मकर्तरि वा । काल्पनिकभेदविशिष्ट- रस एव । रस्यास्वादयो भेदन नोपपद्यते भेदप्राप्त्यावेव प्रयोगो- ऽयं । तत्र प्रमाणमाह-रस्यमानेति-कर्मकर्तरि वेति । स्वात्म- कादिति प्रतीतेराद्यन्तशून्य एव रसः । तस्मात् स्वात्मका- रस्यमानतेति । सात्मकात् प्रतीतेराद्यन्तशून्य एव रसः प्रतीतिराद्यन्तशून्यात् । प्रभाशरीरात् व्यतिरिक्तो रसः । एव रसत्वे नास्ति तस्मादुच्यते कर्मकर्तरि वेति । द्विगुणादिके समानाधिकरणे प्रयोगः । न्यूनार्थाद्वा ज्ञेयः । नन्वेतावता रसस्यैवाज्ञेयत्वमुक्तम् । रसस्यैवेति भावः । रसास्वादयोर्भेदमाशङ्क्याह-व्यञ्जनाव्यापारेति । आक्षेपं वारयति-द्वयोरिति । प्रतिपाद्योऽपि । रसेनैवेत्यर्थेति ।
९८ साहित्यदर्पणे अथ धीरोद्धतः— मायापरः प्रचण्डश्चपलोऽहंकारदर्पभूयिष्ठः । आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥ ३३ ॥ यथा—भीमसेनादिः । अथ धीरललितः— निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् । कला नृत्यादिका । यथा—रत्नावल्यादौ वत्सराजादिः । अथ धीरप्रशान्तः— सामान्यगुणैर्भूयान्द्विजादिको धीरशान्तः स्यात् ॥ ३४ ॥ यथा—मालतीमाधवादौ माधवादिः । एषां च शृङ्गारादिरूपत्वे भेदानाह— एभिर्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा । तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोड- शप्रकारो नायकः । एषु त्वनेकमहिलासमुरागो दक्षिणः कथितः ॥ ३५ ॥ द्वयोस्त्रिचतुःप्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः । यथा— स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसु- र्द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याद्य च । अहंकारः अह महानिति ज्ञानविशेष । दर्प शौर्यवीर्याद्यतिशय । मृदुः अप्र- चण्डचरित. ॥ सामान्यगुणैर्नायकसामान्यगुणै. । धीरोदात्तादित्रितयभिन्नो नायको धीरप्रशान्त इत्यभिप्राय ॥ एषां धीरोदात्तादीनाम् । षोडशधेति । शृङ्गारे षोडशप्रकारो नायको भवति रसान्तरे तु चतुष्प्रकार इत्यवधेयम् ॥ स्नाता ऋतुस्नाता । वार सुरतार्थ नियमितदिवस । जिता जयेनात्मसुरतार्थ प्राप्ता । देवी कृताभिषेका राजपत्नी । देवेन राज्ञा । अप्रतिपत्त्या कर्तव्यनिश्चयेन मूढं व्याकुलम्
- एभिरिति । दक्षिणधीरोदात्त , दक्षिणधीरोद्धत, दक्षिणधीरललितः, दक्षिणधीर- प्रशान्तः, एव धृष्टादिपदयोजनेन षोडशप्रकारका नायका इत्यवधेयम् ॥ १ ग पुस्तके 'कला नृत्यादिका यथा' नास्ति, घ पुस्तके तु 'यथा रत्नावल्यां' इति पाठ. २ 'धीरप्रशान्त' ३ 'महत्सु' घ. ४ 'नायिकासु' इति घ पुस्तके नास्ति. ५ 'नायक' इति नास्ति ग पुस्तके