सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
५२४ सात्वतसंहिता वेदयत्यन्यथात्मानं योऽन्यस्मिन् योजितं पदे। कृत्वापेक्षां तु हृदये स याति नरकेऽधमः ॥ ६२ ॥ नो भाजनं स्यात् सिद्धीनां क्रमत्यागे कृते सति। स्वमाचारं स्वकां जातिं स्वगोत्रं स्वगुरोर्गृहम् ॥ ६३ ॥ समयिपुत्रकाद्यवरपदस्थोऽपि प्रतिष्ठापेक्षया साधकाचार्यपदारूढत्वेनात्मानं वेद- यति, तस्य महत्तरं दोषमाह—वेदयतीति सार्धेन ॥ ६२-६३ ॥ स्वपदं च स्वसंस्कारं प्राङ्निषिद्धेन वै विना। गोपायत्यचिराद् यो वै पातित्यमुपयाति सः ॥ ६४ ॥ एवं स्वाचारजातिगोत्रादिगोपनेऽपि पातित्यं संभवतीत्याह—एवमिति सार्धेन। प्राङ्निषिद्धेन मन्त्रमुद्रादिनेत्यर्थः, समाक्षिप्तस्तदादेशान्मन्त्रमुद्राद्वयं विना। कीर्त्यर्थं स्वगुरोर्ब्रूयाद् ज्ञातं शास्त्रार्थमुत्तमम् ॥ (२२।३९) इत्यादिभिस्तेषां प्रकाशन(स्य) निषिद्धत्वात्। अतस्त्वहङ्कारादुत्कृष्टत्वकथनं च न कार्यम् ॥ ६३-६४ ॥ क्रमत्याग करने के कारण उसे सिद्धियाँ नही प्राप्त होती । जो अपना आचार, अपनी जाति, अपना गोत्र, अपने गुरु का गृह, अपना पद, अपना संस्कार, अपनी मुद्रा, अपना मन्त्र, नहीं छिपाता वह सिद्धि प्राप्त कर लेता है किन्तु जो उसे छिपाता है वह अवश्य पतित होता है ॥ ६३-६४ ॥ तस्माच्छ्रेयोऽर्थिना नित्यं नाभिमानं न तत्क्षयात्। अधरोत्तरता सम्यग् आचर्त्तव्या च कुत्रचित् ॥ ६५ ॥ वास्तवार्थेकथनं श्रेयस्करमित्याह—तस्मादिति ॥ ६५ ॥ इसलिये साधक को चाहिये कि वह अहङ्कार वश अपने को अपनी अवस्था से उत्कृष्ट की अभिव्यक्ति न करे। ऐसा करने से उसका क्षय निश्चित है ॥ ६५ ॥ सङ्कर्षण उवाच मुद्राचतुष्टयं देव कीदृग्लक्षणलक्षितम्। ज्ञायते यत्परिज्ञानाद् देशिकान्तं चतुष्टयम् ॥ ६६ ॥ पूर्वोक्तसमयिपुत्रकादिज्ञापकतत्तन्मुद्राचतुष्टयलक्षणं पृच्छति सङ्कर्षणः— मुद्रेति ॥ ६६ ॥ भगवान् सङ्कर्षण ने कहा—हे भगवन्! अब मैं पूर्व में कहे गये समयी साधकादि के मुद्रा का लक्षण जानना चाहता हूँ। वह किस लक्षण से लक्षित होता है ॥ ६६ ॥
द्वाविंशः परिच्छेदः ५२५ श्रीभगवानुवाच यत्पूर्वं नृहरेः प्रोक्तं शिरोमुद्रादिपञ्चकम् । तदङ्गुष्ठविनिर्मुक्तं विद्धि न्यूनाङ्गुलैः क्रमात् । चतुष्टयं चतुर्णां तु गुर्वन्तानां यथास्थितम् ॥ ६७ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां अधिकारिमुद्राभेदविधिर्नाम द्वाविंशः परिच्छेदः ॥ २२ ॥ — ❧ — एवं पृष्टो वासुदेवः पूर्वं नृसिंहकल्पोक्त(१७।१०२)शिखामुद्रादिचतुष्टयमेव समयिपुत्रका(णां?दीनां) मुद्राचतुष्टयमित्याह—यदिति सार्धेन ॥ ६७ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये द्वाविंशः परिच्छेदः ॥ २२ ॥ — ❧ — श्री भगवान् के कहा—हे सङ्कर्षण हमने पूर्व में नृसिंह कल्प (सत्रहवें अध्याय) में शिखामुद्रादि चतुष्टय तथा सामयिकादि चतुष्टय का मुद्रा लक्षण वह जिस प्रकार होता है उसे कह दिया है ॥ ६७ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के अधिकारिमुद्राभेदविधि नामक बाइसवें परिच्छेद की हिन्दी समाप्त हुई ॥ २२ ॥ — ❧ —
त्रयोविंशः परिच्छेदः अधिवासदीक्षाविधिः नारद उवाच कामपालेन देवेशस्त्वथ ब्राह्मणसत्तमाः । चोदितो यत् तदधुना कथयामि समासतः ॥ १ ॥ अथ त्रयोविंश परिच्छेदो व्याख्यास्यते । इह सङ्कर्षणेन वासुदेवो यत्पृष्टस्तत् कथयामीत्याह—कामपालेनेति ॥ १ ॥ नारद जी ने कहा—हे श्रेष्ठ ब्राह्मणो ! इतना सुन लेने के अनन्तर सङ्कर्षण द्वारा पूछे जाने पर देवाधिदेव श्रीकृष्ण ने जो कहा उसे संक्षेप में कहता हूँ ॥ १ ॥ सङ्कर्षण उवाच ज्ञातो विभवदेवानां देव बीजगणो मया । अधुना ज्ञातुमिच्छामि तत्पिण्डनिचयो हि यः ॥ २ ॥ प्रश्नप्रकारमाह—ज्ञात इति ॥ २ ॥ सङ्कर्षण ने कहा—हे देव! मैंने विभव देवताओं का बीजगण जान लिया है। अब जो उनके पिण्डमन्त्र हैं, उन्हें जानना चाहता हूँ ॥ २ ॥ श्रीभगवानुवाच यथाक्रमोदितानां च देवानां विनिबोधतु । पिण्डमन्त्रगणं मत्तः सावधानेन चेतसा ॥ ३ ॥ एवं पृष्टो वासुदेवः पिण्डमन्त्रान् शृण्वित्याह—यथेति । यथाक्रमोदितानां देवानां पद्मनाभध्रुवाणामित्यर्थः ॥ ३ ॥ श्री भगवान् ने कहा—पूर्व में यथाक्रम कहे गये पद्मनाभ एवं ध्रुवादि विभव देवताओं के पिण्डमन्त्रगणों को सावधान चित्त होकर सुनिये ॥ ३ ॥ नाभेरष्टमबीजं यत् स्थितं तत् सप्तमोपरि । तदधश्चोत्तरं चाक्षादरान्तेन विभूषयेत् ॥ ४ ॥
त्रयोविंशः परिच्छेदः ५२७ अथोत्तरं चाक्षदेशादादाय तदधो न्यसेत्। बीजं नेमेर्द्वितीयं यन्मध्यान्मध्यं तदासने ॥ ५ ॥ आधारषष्ठसंरूढं कुर्याद् वै नाभिसप्तकम्। अष्टमं च तदूर्ध्वे तु एतद् विद्धि तृतीयकम् ॥ ६ ॥ नाभ्यष्टममथादाय अरात् षष्ठासनस्थितम्। ततो नाभिद्वितीयस्य क्रमेणाधो निवेश्य च ॥ ७ ॥ तदुद्देशात् तृतीयं च सप्तमं तुर्यमेव च। अथादाय च नेमेः प्राक् तदधो नाभिसप्तमम् ॥ ८ ॥ तस्याप्यधस्तदुद्देशात् तृतीयं विनिवेश्य च। ततस्तु नवमं नाभेस्तस्योर्ध्वाधोगतं न्यसेत् ॥ ९ ॥ तत्रैव यद् द्वितीयं तु तत्पिण्डं विद्धि सप्तमम्। अरात् षष्ठस्य चोर्ध्वे तु नाभिपूर्वं तु विन्यसेत् ॥ १० ॥ सप्तमं चाष्टमं चापि ह्युपर्युपरि वै क्रमात्। अथाष्टमं नाभिदेशादारूढं सप्तमोपरि ॥ ११ ॥ तदधो मध्यगं चाक्षान्नवमं परिकीर्तितम्। भूयोऽरात् पञ्चमस्योर्ध्वे दद्यान्नाभितृतीयकम् ॥ १२ ॥ बाह्यात् तृतीयं तन्मूर्ध्ना पिण्डोऽयं दशमः स्मृतः। द्वितीयं नाभिदेशाच्च तत्तृतीयं तदूर्ध्वगम् ॥ १३ ॥ नेमेराद्यन्तमूर्ध्वं तु स्मृतमेकादशं त्विदम्। अथो नाभिचतुर्थस्य सप्तमं विनिवेश्य च ॥ १४ ॥ तदधो नेमिपूर्वं तु एतद् द्वादशमं स्मृतम्। नेमेस्त्रिदशमादाय तदधो योजयेत् क्रमात् ॥ १५ ॥ सप्तमं च चतुर्थं च पूर्वं नाभेर्महामते। अरषष्ठासनाः सर्वे पिण्डमेतत् त्रयोदशम् ॥ १६ ॥ नाभेेश्चतुर्थमादाय तदूर्ध्वे सप्तमं न्यसेत्। नवमं चापि तन्मूर्ध्नि एतद्विद्धि चतुर्दशम् ॥ १७ ॥ नेमेश्चतुर्थसंख्यस्य ऊर्ध्वाधोभ्यां निवेश्य च। वर्णं नाभिद्वितीयं यत् तत्पञ्चदशमं स्मृतम् ॥ १८ ॥ यद्विंशसंख्यकं बाह्यादादायाराख्यमण्डलात्। सान्तिमेन च षष्ठेन युक्तं कुर्यादनन्तरम् ॥ १९ ॥ नेमेः सप्तमवर्णस्य ऊर्ध्वाधोभ्यां निवेश्य च।
५२८ सात्वतसंहिता नाभिदेशाद् द्वितीयं यद् विद्धि सप्तदशं तु तत् ॥ २० ॥ नवमं नाभिदेशाच्च सप्तमस्योपरि न्यसेत् । अथाष्टमं नाभिदेशात् कुर्यात् सप्तममूर्ध्वगम् ॥ २१ ॥ द्वितीयमपि तस्याधस्तस्माद् वै नाभिमण्डलात् । अरात् त्रयोदशादूर्ध्वं न्यूनविंशतिमं तु तत् ॥ २२ ॥ नाभेश्चतुर्थं तस्योर्ध्वे तत्तृतीयं तदूर्ध्वगम् । तत्रैव सप्तमं यद् वै विद्धि विंशतिमं त्विदम् ॥ २३ ॥ द्वितीयस्याष्टमं नाभेर्वर्णस्योर्ध्वे नियोज्य च । अरात् षष्ठं च तस्याधः कुर्यात् तदनु लाङ्गलिन् ॥ २४ ॥ नवमं नाभिदेशाच्च तृतीयस्योपरि न्यसेत् । द्वितीयं तदधः कुर्यात् त्रयोविंशतिमं शृणु ॥ २५ ॥ अष्टमं सप्तमं नाभेर्द्वितीयं प्रथमं ततः । क्रमेण योजयेच्चैव अरात् षष्ठस्य मूर्धनि ॥ २६ ॥ नेमेः सप्तममादाय तदधो नाभिसप्तमम् । तत्तृतीयं च तस्याधश्चतुर्विंशतिमं स्मृतम् ॥ २७ ॥ नाभेस्तृतीयं तस्योर्ध्वे द्वितीयं तस्य चोपरि । निवेश्य नेमिपूर्वं तु षड्विंशमधुनोच्यते ॥ २८ ॥ अरात् षष्ठासनं कुर्याद् वर्णं नाभितृतीयकम् । तदूर्ध्वे सप्तमं चैव अतोऽन्यमवधारय ॥ २९ ॥ न्यूनं षड्विंशतिं नेमेस्तस्योर्ध्वाधोगतं न्यसेत् । सप्तमं नाभिवर्णेभ्यस्त्वरवर्गाच्च पञ्चमम् ॥ ३० ॥ नेमेराद्यद्वितीयं च आदाय तदधो न्यसेत् । मध्यमक्षान्महाबुद्धेरष्टाविंशतिमं स्मृतम् ॥ ३१ ॥ नवमं सप्तमं नाभेस्तृतीयं च तृतीयकम् । अथोत्तरस्थमक्षाच्च आदाय तदधो न्यसेत् ॥ ३२ ॥ तृतीयं च द्वितीयं च नाभिदेशादनन्तरम् । नाभिद्वितीयमादाय सप्तमं तुर्यमेव च ॥ ३३ ॥ तृतीयस्याथ वै नाभेर्बाहादाद्यं तु मूर्धगम् । ततस्तु नवमं नाभेरक्षमध्यस्थमूर्ध्वगम् ॥ ३४ ॥ अष्टमस्याथ वै नाभेरथ ऊर्ध्वे द्वितीयकम् ।
त्रयोविंशः परिच्छेदः ५२९ दद्यात् तदन्वरात् षष्ठं तस्यैवाधोगतं तु वै ॥ ३५ ॥ अरात् षष्ठस्य चोर्ध्वं तु नाभिपूर्वं च तत्परम् । विनिवेश्याष्टमं चापि षट्त्रिंशमवधारय ॥ ३६ ॥ सप्तमं च तृतीयं च चतुर्थं नाभिमण्डलात् । योजयित्वा तदूर्ध्वं चाप्यराणां त्रिदशं न्यसेत् ॥ ३७ ॥ अथवा नवमं नाभेस्तृतीयं च द्वितीयकम् । तत्सप्तत्रिंशकं विद्धि नाभिदेशादथाहरेत् ॥ ३८ ॥ अरात् षष्ठासनं पूर्वं द्वितीयं च तदूर्ध्वतः । नवमं चापि तस्योर्ध्वं पिण्डास्त्वद्यादिमं विना ॥ ३९ ॥ आरान्ताद्येन वै मूर्ध्ना सर्वे कार्या ह्यलङ्कृताः । नमोऽन्ताः प्रणवाद्याश्च युक्ताः संज्ञापदैः स्वकैः ॥ ४० ॥ तेषामुद्धारक्रममाह—नाभेरष्टमबीजं यदित्यारभ्य नमोऽन्ताः प्रणवाद्याश्च युक्ताः संज्ञापदैः स्वकैरित्यन्तम् । नाभेरष्टमबीजं यद् हकारं तत्सप्तमोपरि सकारोपरि स्थितं कृत्वा तदधः सकारस्याधस्ताद् अक्षरादुत्तरं नकारं संयोज्य अरान्तेन विसर्गेण भूषयेत् । पद्मनाभस्य पिण्डाक्षरमिदम् । उत्तरत्राप्येवं रीत्या बोध्यम् । तथा चैषां प्रयोगः—ह्स्र्नः, न्ख्मं, ह्स्यूं, हूं, ल्स्वं, क्स्लं, क्षं, ह्सयूूं, ह्समं, ग्लुं, क्स्त्रं, ख्स्कं, क्स्व्थं, क्स्वं, श्वं, ग्रं, भुं, द्भ्रं, क्ष्सं, स्त्रों, स्ल्र्वं, ह्धूं, क्ष्लं, ह्स्यूं, जुस्वं, क्यं, स्त्र्यूं, स्वूं, क्ख्भं, ह्लं, न्रं, स्वं, क्षं, क्ष्मं, ह्धं, ह्वां, स्ल्र्वां, क्षरुं, क्ष्रूूं । इत्यष्टत्रिंशत् पिण्डमन्त्राः । अत्राद्यं पिण्डं विनाऽन्ये सर्वेऽप्यनुस्वारेण योज्याः, प्रणवादिनमोन्ताश्च चतुर्थ्यन्तपद्मनाभादिसंज्ञायुक्ताश्च कार्याः ॥ ४-४० ॥ पद्मनाभादि अड़तीस विभवदेवताओं के नाम इस प्रकार हैं— १. पद्मनाभ, २. ध्रुव, ३. शक्त्यात्मा, ४. मधुसूदन, ५. विद्याधिदेव, ६. कपिल, ७. विश्वरूप, ८. विहङ्गम, ९. क्रोडात्मा, १०. बड़वावक्त्र, ११. धर्म, १२. वागीश्वर, १३. देव एकावर्णवशाय, १४. पातालधारककूर्म्म, १५. वाराह, १६. नरसिंह, १७. अमृतातहरण, १८. दिव्यदेह श्रीपति, १९. अमृतधारक कान्तात्मा, २०. राहुजित्, २१. कालनेमिघ्न, २२. महान् परिजातहर, २३. शान्तात्मा लोकनाथ, २४. महाप्रभु दत्तात्रेय, २५. भगवान् न्यग्रोधशायी, २६. एक शृङ्ग, २७. दिव्य वामनै, २८. सर्वव्यापी त्रिविक्रम, २९. नर, ३०. नारायण, ३१. हरि, ३२. कृष्ण, ३३. ज्वलत्परशुधुकराम, ३४. धनुर्धर राम, ३५. वेदवित् भगवान्, ३६. कल्की, ३७. पातालशयन, ३८. प्रभु । नाभि का अष्टमबीज हकार उसको उससे सप्तम सकार पर स्थापित करे । उस सकार से उत्तर नकार को संयुक्त करे । उसके बाद उसे अरान्त (विसर्ग) से भूषित करे । उसके आदि में ॐ लगावे और अन्त में नमः लगावे । फिर उसकी
५३० सात्वतसंहिता संज्ञा से संयुक्त करे—यथा 'ॐ हसूनः नमः पद्मनाभाय' इसी प्रकार अन्य पिण्ड मन्त्रों को समझे । ३८ विभवदेवताओं के पिण्ड-मन्त्र इस प्रकार हैं—हसूनः, न्खमं, हस्यूं, हूं, ल्स्वं, क्स्लं, श्वं, हसूमं, ग्लुं, क्स्त्रं, ख्स्कं, क्स्वं, क्ष्स्वं, श्वं, घ्रं, ध्रुं, द्ध्रं, क्ष्सं, स्त्रों, स्ल्वं, हूं, क्ष्तुं, हस्यूं, ज्स्वं, क्यं, स्त्र्यूं, स्सूं, क्ख्खं, हस्र्लं, न्त्रं, स्वं, क्षं, क्ष्मं, हूं, हूं, स्ल्वों, क्षूं, क्ष्रूं । यहाँ प्रथम पिण्ड को विसर्ग से संयुक्त करे और शेष ३७ पिण्ड मन्त्रों को अनुस्वार से युक्त करे ॥ ४-४० ॥ अरान्ताद्यं विना यस्य य ऊर्ध्वे वर्तते स्वरः । अधो वा नाभिपूर्वेण सह वा केवलं हि तम् ॥ ४१ ॥ अपास्य च ततः कुर्यात् सर्वेषां पूजनाय च । स्वेन स्वेन तु पिण्डेन सिंहवच्चाङ्गकल्पनम् ॥ ४२ ॥ नमः प्रणवसंज्ञाऽस्या जातिः कर्मवशात् पुनः । आ तदुक्तात् तु यजनाद् मोक्षनिष्ठः समाचरेत् ॥ ४३ ॥ बीजपिण्डपदोत्थानां विनियोगं तु चाखिलम् । किन्त्वेषां वैभवी मुद्रा देयाऽऽराधनकर्मणि ॥ ४४ ॥ तदङ्गमुद्राश्चाङ्गानां योज्या मन्त्रैः स्वकैः सह । अथ तत्तत्पिण्डं विहायाकारादिस्वरैः पूर्वोक्तविश्वत्रातृनृसिंहमन्त्रवद् हृदयाद्यङ्ग- कल्पनां सर्वेषां मन्त्राणामप्यविशेषेण दशमपरिच्छेदोक्त(१०।४८) वैभवमुद्राप्रदर्शनं हृदयादीनां नृसिंहकल्पोक्त(१७।९७-१०६)तत्तन्मुद्राप्रदर्शनं नृसिंहमन्त्रवदेव तेषामपि दीक्षापूर्वमर्चनादिभिश्चतुर्विधपुरुषार्थसाधनं चाह—अरान्ताद्यं विना यस्येत्यारभ्य चतु- र्वर्गं हि साधनमित्यन्तम् ॥ ४१-४६ ॥ तत्तत् पिण्ड को छोड़कर केवल अकारादि स्वर से पूर्वोक्त विश्वमान् नृसिंह मन्त्र के समान उसी से हृदयादि अङ्ग की कल्पना कर सभी मन्त्रों की सामान्यतः वैभवमुद्रा, जैसा कि दशम परिच्छेद (१०.४८) में कही गयी है, उसी प्रकार करे । हृदयादि मुद्रा नृसिंह कल्पोक्त (द्र. १७.९७-१०६) की भाँति करे ॥ ४१-४५ ॥ सर्वं साधारणमुद्दिष्टं सैंहमन्त्रोदितं मया ॥ ४५ ॥ दीक्षापूर्वं हि मन्त्राणां चतुर्वर्गं हि साधनम् । भगवान् कहते हैं—यहाँ तक हमने साधार सभी बातें नृसिंह मन्त्र में कह दी हैं । दीक्षापूर्वक अर्चनादि से चतुर्विध पुरुषार्थ की सिद्धि होती है । लक्षणं पदमन्त्राणामथेदानीं निबोधतु ॥ ४६ ॥
त्रयोविंशः परिच्छेदः ५३१ यैर्विना लब्धसत्तानामर्चनं हि न जायते । विश्वातीताय विमलं पदं विद्याविधायिने ॥ ४७ ॥ पद्मनाभाय वै विश्वव्यापिने तदनन्तरम् । चतुर्विंशाक्षरं विद्धि एतत्संख्यं परं शृणु ॥ ४८ ॥ अथ पदमन्त्रानाह—लक्षणं पदमन्त्राणामित्यारभ्य भक्त्या सत्कर्मणां भुवीत्य- न्तम् । तथा चैषां प्रयोगः— ॐविश्वातीताय विमलविद्याविधायिने पद्मनाभाय विश्वव्यापिने नमः । ॐज्योती- रूपाय गगनमूर्तये ध्रुवाय परमपदप्राप्तिहेतवे नमः । ॐअनन्तायाऽपरिमित्याय सर्वा- श्रयाय धृतशक्तये नमः । ॐनमो भगवते वासुदेवाय सर्वशक्त्यात्मनेऽनन्तमूर्तये नमः । ॐवीर्यात्मने महापुरुषाय मोहमायाविध्वंसिने सदोदिताय सर्वशक्तये नमः । ॐवेदविदे विश्वरञ्जकाय विश्वपतये परमात्मने नमः । ॐज्ञानात्मने संवित्प्रकाशाशयाय शान्त- रूपाय नमः । ॐअनन्तशक्तये सर्वव्यापिने जगन्मयाय विश्वरूपाय नमः । ॐसतसत्त्व- गुहा(शया)य परहंसाय मानसचारिणे नमः । ॐयज्ञमूर्तये विश्वान्तर्वर्तिने भुवनवराहाय विभूतिस्वामिने नमः । ॐनमो भगवते वडवाग्नये जगज्जलेन्धनप्रदीप्तवीर्याय फट् नमः । ॐसर्वान्तश्चारिणे प्रसन्नमूर्तये धर्मात्मने नमः । ॐसर्वविद्येश्वराय वाक्पतये वद वद वाग्विभवं नमः । ॐयोगैश्वर्यप्रदाय योगनिद्रारसाय नीरदाय भगवज्जलशायिने नमः । ॐभगवदनन्तबलशक्तये तेजोमयाय भुवनधृते कच्छपात्मने नमः । ॐयज्ञाङ्ग- देहाय महावराहाय पुराणपुरुषाय प्रजापतये नमः । ॐनमो भगवते नारसिंहाय तेजोनिधये हन हन विकर्मजात्यं दुष्कृतं नमः । ॐअमृतमूर्ते ज्ञानबलात्मने सर्वेश्वराय भगवन्नमः । ॐपुण्डरीकाक्ष परमेश्वर सकलसुखसौभाग्यनिधे वाञ्छितसिद्धिप्रदा- खिलदुःखशमनाग्नये आनन्दसुन्दरलक्ष्मीपतये नमः । ॐसदसन्मूर्तये विश्वोत्तमायामृत- निधये नमः । ॐपुरुषोत्तमायाप्रतिहतशक्तये सर्वेश्वराय समग्रोग्रभयनिवारणाय नमः । ॐनियन्त्रे विश्वहेतवे परब्रह्मसेतवे ॐ नमः । ॐअप्रतिमप्रभावमहाविभूते महामाया- दर्शकतालकेतवे नमः । ॐशान्तात्मने यमनियमाश्रयाय परमर्धिप्रदाय नारायणाय नमः । ॐभवभङ्गकारिणे भगवते दत्तात्रेयाय वर्णाश्रमधर्मपरिग्रहाय ॐ नमः । ॐसर्वज्ञाय विश्वात्मने विमलसर्वेश्वराय न्यग्रोधशयनाय नमः । ॐभूतभावनाय विश्वात्मने विमलनिकेतनाय कन्थराय नमः । ॐविष्णवे निरस्तास्त्राय ब्रह्ममयाय जटिने दण्डिने विदितविभवाय नमः । ॐसर्वव्यापिने सहस्रार्चिषे त्रिविक्रमायाऽपरिमित- प्रभावाय नमः । ॐनरनाथाय पुरुषप्रवराय आत्मध्यानपरायणाय नमः । ॐनारायणाय निरतिशयानन्दमयाय निरभिमानपदासक्ताय नमः । ॐपराय परमात्मने योगेश्वराय हरये नमः । ॐनमः परमात्मने कृष्णाय कमलदलविततनेत्राय ब्रह्मिष्ठाय ब्रह्मणे नमः । ॐभगवन् युगान्तदहनदीप्तये संसारबन्धविच्छेदकर्त्रे नमः । ॐचतुर्मूर्तये चतुर्गतमयाय शरशाङ्गभृते शरदिन्दीवरत्विषे भगवतेऽभिरामशरीराय नमः । ॐविशदपरमार्थवेद- विदे विदुषे व्यापकाय स्वामिन् नमः । ॐगरुडवाहन सर्वशस्त्रास्त्रोद्यत शमयाऽशुभं धुन धुन कर्मबन्धान् धर्मं पाहि जहाधर्मं नमः । ॐसंहारमूर्तये कालवैश्वानरार्चिषे पाताल- शयनाय अज्ञाननिगडनिचयं हन हन ॐनमः । इत्यष्टत्रिंशत्पदमन्त्राः ॥ ४६-११३ ॥
५३२ सात्वतसंहिता अब हे सङ्कर्षण! पद मन्त्रों के लक्षण सुनिये । जिसके बिना सत्ता (अधिकार) प्राप्त होने पर भी अर्चन संभव नहीं होता ॥ ४६-४७ ॥ १. ॐ विश्वातीताय विमलविद्याविधायिने पद्मनाभाय विश्वव्यापिने नमः ॥ ४७-४८ ॥ ज्योतीरूपाय पञ्चार्णं पदं गगनमूर्तये । ध्रुवाय दद्यात् तदनु परमं त्र्यक्षरं ततः ॥ ४९ ॥ पदप्राप्तिचतुर्वर्णं हेतवे त्र्यक्षरं त्विति । अनन्ताय पदं दद्यात् ततोऽपरिमिताय च ॥ ५० ॥ २. ॐ ज्योतीरूपाय गगनमूर्त्तये ध्रुवाय परमपदप्राप्तिहेतवे नमः ॥ ४९-५० ॥ सर्वाश्रयाय तदनु तदन्ते धृतशक्तये । एतद्विंशतिसंख्यं च द्वाविंशार्णमतः शृणु ॥ ५१ ॥ ३. ॐ अनन्तायाऽपरिमिताय सर्वाश्रयाय धृतशक्तये नमः ॥ ५१ ॥ नमो भगवते कृत्वा वासुदेवाय वै ततः । सर्वशक्त्यात्मनेऽनन्तमूर्तये तु पदं त्विति ॥ ५२ ॥ ४. ॐ नमो भगवते वासुदेवाय सर्वशक्त्यात्मनेऽनन्तमूर्तये नमः ॥ ५२ ॥ वीर्यात्मने महाशब्दं पुरुषाय पदं ततः । मोहमायापदं चैव ततो विध्वंसिने तु वै ॥ ५३ ॥ सदोदिताय शब्दं तु सर्वशक्तिपदं ततः । नियोक्तव्यं चतुर्वर्णं सप्तविंशाक्षरं स्मृतम् ॥ ५४ ॥ ५. ॐ वीर्यात्मने महापुरुषाय मोहमायाविध्वंसिने सदोदिताय सर्वशक्तये नमः ॥ ५३-५४ ॥ पदं वेदविदे विश्वरञ्जकाय ततो भवेत् । तदन्ते विश्वपतये ततो वै परमात्मने ॥ ५५ ॥ ६. ॐ वेदविदे विश्वरञ्जकाय विश्वपतये परमात्मने नमः ॥ ५५ ॥ एष विंशतिभिर्वर्णैः शृणु सप्तदशाक्षरम् । ज्ञानात्मने पदं कुर्यात् संविच्छब्दमतः परम् ॥ ५६ ॥ पदं प्रकाशाशयाय शान्तरूपाय वै ततः । अनन्तशक्तये सर्वव्यापिने तदनन्तरम् ॥ ५७ ॥ जगन्मयाय तदनु विश्वरूपाय वै पदम् । एकविंशतिभिर्वर्णैरयमुक्तोऽपरं शृणु ॥ ५८ ॥
त्रयोविंशः परिच्छेदः ५३३ ७. ॐ ज्ञानात्मने संवित्प्रकाशाशयाय शान्तरूपाय नमः । ८. ॐ अनन्तशक्तये सर्वव्यापिने जगन्मयाय विश्वरूपाय नमः ।। ५७-५८ ।। सत्सत्त्वपदमादाय गुहाशयपदं ततः । ततः परमहंसाय ततो मानसचारिणे ।। ५९ ।। ९. ॐ सत्सत्त्वगुहाशयाय परमहंसाय मानसचारिणे नमः ।। ५९ ।। न्यूनविंशत्यक्षरश्चैवाथातो यज्ञमूर्तये । पदमादाय तदनु विश्वान्तर्वर्तिने तु वै ।। ६० ।। ततो भुवनशब्दं तु वराहाय पदं त्वथ । विभूतिस्वामिने चेति चतुर्विंशाक्षरस्त्वयम् ।। ६१ ।। १०. ॐ यज्ञमूर्तये विश्वान्तर्वर्तिने भुवनवराहाय विभूतिस्वामिने नमः ।। ६०-६१ ।। नमो भगवते दद्यात् ततो वै वाडवाग्नये । जगज्जलेन्धनपदं प्रदीप्तपदमेव तु ।। ६२ ।। वीर्याय फट् तदन्ते तु एतत्संख्यस्त्वयंस्मृतः । ११. ॐ नमो भगवते वडवाग्नये जगज्जलेन्धनप्रदीप्तवीर्याय फट् नमः ।।६२।। सर्वान्तश्चारिणे दद्यात् प्रसन्नपदमेव च ।। ६३ ।। मूर्तयेऽथ तदन्ते वै दद्याद् धर्मात्मने पदम् । षोडशाक्षरमेतद् वै अतो गुह्यतमं शृणु ।। ६४ ।। १२. ॐ सर्वान्तश्चारिणे प्रसन्नमूर्तये धर्मात्मने नमः ।। ६३ ।। सर्वविद्येश्वरायाथ दद्यात् वाक्पतये ततः । पदं वद वदादाय ततो वाग्विभवं त्विति ।। ६५ ।। न्यूनविंशाक्षरो ह्येष त्वपरं कथयामि ते । १३. ॐ सर्वविद्येश्वराय वाक्पतये वद वद वाग्विभवं नमः ।। ६४-६५ ।। योगैश्वर्यप्रदायाथ योगनिद्रारसाय वै ।। ६६ ।। निरताय पदं दद्याद् भगवज्जलशायिने । त्रिराष्टवर्णसंख्यश्च अयमेकाधिकस्तु वै ।। ६७ ।। १४. ॐ योगैश्वर्यप्रदाय योगनिद्रारसाय नीरदाय भगवज्जलशायिने नमः ।। ६७ ।। भगवत्पदमादाय अनन्तबलशक्तये । तेजोमयाय भुवनभृतेऽथ द्व्यक्षरं पदम् ।। ६८ ।।
५३४ सात्वतसंहिता तदन्ते विनियोक्तव्यं पदं वै कच्छपात्मने । षड्विंशार्णमिमं विद्धि मन्त्रं मन्त्रविदांवर ॥ ६९ ॥ १५. ॐ भगवदनन्तबलशक्तये तेजोमयाय भुवनधृते कच्छपात्मने नमः ॥ ६८-६९ ॥ यज्ञाङ्गदेहायाद्याय महापदमत्ः परम् । वराहाय ततो दद्यात् पुराणपुरुषाय वै ॥ ७० ॥ दद्यात् ततः प्रजाशब्दं तदन्ते पतये पदम् । चतुर्विंशाक्षरं मन्त्रमेतन्मन्त्रविदांवर ॥ ७१ ॥ १६. ॐ यज्ञाङ्गदेहाय महावराहाय पुराणपुरुषाय प्रजापतये नमः ॥ ७०-७१॥ नमो भगवते कृत्वा नारसिंहाय वै ततः । तेजोनिधे पदं दद्यात् पदं हन हनेति च ॥ ७२ ॥ ततो विकर्मजाद्यं वै शब्दं पञ्चाक्षरं भवेत् । दुष्कृतं हि तदन्ते वै सप्तविंशाक्षरस्त्वयम् ॥ ७३ ॥ आदायामृतमूर्ते वै ततो ज्ञानबलात्मने । सर्वेश्वराय भगवन्न्यूनविंशाक्षरस्त्वयम् ॥ ७४ ॥ १७. ॐ नमो भगवते नारसिंहाय तेजोनिधये हन हन विकर्मजात्यं दुष्कृतं नमः ॥ ७२-७३ ॥ १८. ॐ अमृतमूर्ते ज्ञानबलात्मने सर्वेश्वराय भगवन्नमः ॥ ७३-७४ ॥ आदाय पुण्डरीकाक्षपदं वै परमेश्वर । ततः सकलशब्दं तु सुखसौभाग्य वै पदम् ॥ ७५ ॥ निधे वाञ्छितशब्दं तु ततः सिद्धिप्रदेति वै । पदं चाखिलदुःखेति ततस्तु शमनाग्नये ॥ ७६ ॥ आनन्दसुन्दरपदं ततो लक्ष्मीपदं न्यसेत् । पतये शब्दमुच्चार्य पञ्चाशार्णस्त्रिरुज्झितः ॥ ७७ ॥ १९. ॐ पुण्डरीकाक्ष परमेश्वर सकलसुख सौभाग्यनिधे वाञ्छित सिद्धि- प्रदाखिलदुःखशमनाग्नये आनन्दसुन्दरलक्ष्मीपतये नमः ॥ ७५-७७ ॥ सदसत्पदमादाय मूर्तये तदनन्तरम् । विश्वोत्तमाय तदनु ततोऽमृतनिधे तु वै ॥ ७८ ॥ षोडशार्णस्त्वयं मन्त्र उक्तः कान्तात्मनोविभोः । २०. ॐ सदसन्मूर्तये विश्वोत्तमायामृतनिधये नमः ॥ ७८-७९ ॥
त्रयोविंशः परिच्छेदः ५३५ पुरुषोत्तमाय शब्दं तु ततोऽप्रतिहतेति च ॥ ७९ ॥ शक्तयेऽथ पदं दद्यात् सर्वेश्वरपदं ततः । समग्रोग्रभयेत्यत्र निवारणपदं ततः ॥ ८० ॥ सप्तविंशाक्षरो मन्त्र उक्तश्चातः परं शृणु । नियन्त्रे पदमुद्धृत्य तदन्ते विश्वहेतवे ॥ ८१ ॥ परब्रह्मसमेतं च सेतवे ओमनन्तरम् । मन्त्रो द्विरष्टवर्णश्च कथितो वक्ष्यतः परम् ॥ ८२ ॥ २१. ॐ पुरुषोत्तमायाप्रतिहतशक्तये सर्वेश्वराय समग्रोग्रभयनिवारणाय नमः ॥ ७९-८१ ॥ २२. ॐ नियन्त्रे विश्वहेतवे परब्रह्मसेतवे ॐ नमः ॥ ८१-८२ ॥ पदमप्रतिमेत्यादौ प्रभावं तदनन्तरम् । महाविभूते तदनु महामायापदं ततः ॥ ८३ ॥ अथ दर्शकिशब्दं तु तदन्ते तालकेतवे । चतुर्विंशाक्षरो मन्त्रस्त्वयमुक्तः समासतः ॥ ८४ ॥ २३. ॐ अप्रतिमप्रभाव महाविभूते महामायादर्शकितालकेतवे नमः ॥८३-८४॥ शान्तात्मने पदं दद्यात् तदन्ते यम विन्यसेत् । नियमाश्रयाय दद्यात् परमर्धिप्रदाय च ॥ ८५ ॥ नारायणाय शब्दं तु पूर्वसंख्यासमं स्मृतम् । भवभङ्गपदं चैव कारिणे तदनन्तरम् ॥ ८६ ॥ २४. ॐ शान्तात्मने यमनियमाश्रयाय परमर्धिप्रदाय नारायणाय नमः ॥ ८५-८६ ॥ ततो भगवते शब्दं दत्तात्रेयाय वै ततः । वर्णाश्रमपदं चाथ धर्मशब्दमतः परम् ॥ ८७ ॥ परिग्रहाय प्रणवमष्टाविंशाक्षरः स्मृतः । सर्वलोकमयायेति सर्वज्ञाय पदं ततः ॥ ८८ ॥ सर्वेश्वराय न्यग्रोधशयनाय पदं त्वथ । त्रयोविंशत्यक्षरश्च त्वयमन्यं निबोधतु ॥ ८९ ॥ २५. ॐ भवभङ्गकारिणे भगवते दत्तात्रेयाय वर्णाश्रमधर्म परिग्रहाय ॐ नमः ॥ ८७-८८ ॥
५३६ सात्वतसंहिता २६. ॐ सर्वज्ञाय विश्वात्मने विमलसर्वेश्वराय न्यग्रोधशयनाय नमः ॥८८-८९॥ भूतशब्दमथादाय भावनाय पदं ततः । शब्दं विश्वात्मने चाथ विमलेतिपदं ततः ॥ ९० ॥ निकेतनाय तदनु कन्थराय पदं ततः । अयं विंशतिभिर्वर्णैर्द्वयधिकैर्मन्त्रराट् स्मृतः ॥ ९१ ॥ विष्णवे पदमादाय निरस्तास्त्राय वै ततः । पदं ब्रह्ममयायाऽथ जटिने दण्डिने ततः ॥ ९२ ॥ २७. ॐ भूतभावनाय विश्वात्मने विमलनिकेतनाय कन्थराय नमः ॥९०-९२॥ दद्याद् विदितशब्दं वै तदन्ते विभवाय च । षड्विंशार्णस्त्वयं मन्त्रः परमस्मान्निबोधतु ॥ ९३ ॥ २८. ॐ विष्णवे निरस्तास्त्राय ब्रह्ममयाय जटिने दण्डिने विदितविभवाय नमः ॥ ९३ ॥ सर्वशब्दमथादाय व्यापिने तदनन्तरम् । पदं सहस्रार्चिषे तु दद्यात् पञ्चाक्षरं शुभम् ॥ ९४ ॥ त्रिविक्रमायाथ पदं ततोऽपरिमितेति च । प्रभावाय पदं दद्यात् त्रयोविंशाक्षरः स्मृतः ॥ ९५ ॥ २९. ॐ सर्वव्यापिने सहस्रार्चिषे त्रिविक्रमाया परिमितप्रभावाय नमः ॥९४-९५॥ नरनाथाय शब्दं तु पुरुषप्रवराय वै । आत्मध्यानपरायेति णाय वै द्व्यक्षरं ततः ॥ ९६ ॥ ३०. ॐ नरनाथाय पुरुषप्रवराय आत्मध्यानपरायणाय नमः ॥ ९६ ॥ एकविंशाक्षरो मन्त्रस्त्वतोऽन्यमवधारय । नारायणाय शब्दं तु दद्यान्निरति वै पदम् ॥ ९७ ॥ शयानन्दमयायेति पदं निरभिमान वै । पदासक्ताय तदनु पञ्चविंशाक्षरस्त्वयम् ॥ ९८ ॥ ३१. ॐ नारायणाय निरतिशयानन्दमयाय निरभिमानपदासक्ताय नमः ॥९७-९८॥ पराय पदमादाय ततो वै परमात्मने । योगेश्वराय हरये मन्त्रोऽयं षोडशाक्षरः ॥ ९९ ॥ ३२. ॐ पराय परमात्मने योगेश्वराय हरये नमः ॥ ९९ ॥
त्रयोविंशः परिच्छेदः ५३७ सप्ताणं पदमादाय प्राङ्नमः परमात्मने । कृष्णाय शब्दं तदनु कमलं त्र्यक्षरं ततः ॥ १०० ॥ दलशब्दं तु विततनेत्राय तदनन्तरम् । ब्रह्मिष्ठाय ब्रह्मणे वै अष्टाविंशाक्षरस्ततः ॥ १०१ ॥ ३३. ॐ नमः परमात्मने कृष्णाय कमलदलविततनेत्राय ब्रह्मिष्ठाय ब्रह्मणे नमः ॥ १००-१०१ ॥ भगवन् पदमादाय युगान्तदहनेति च । दीप्तयेऽथ पदं दद्यात् संसारपदमेव हि ॥ १०२ ॥ बन्धविच्छेदकर्त्रे वै द्वाविंशार्णस्त्वयं स्मृतः । ३४. ॐ भगवन् युगान्तदहनदीप्तये संसारबन्धविच्छेदकर्त्रे नमः ॥ १०२ ॥ पदं चतुर्मूर्तये वै चतुर्गतिमयाय च ॥ १०३ ॥ शरशार्ङ्गभृते दद्याच्छरदिन्दीवरत्विषे । ततो भगवते दद्यादभिरामपदं ततः ॥ १०४ ॥ शरीराय पदं चैव त्वष्टत्रिंशाक्षरः स्मृतः । ३५. ॐ चतुर्मूर्तये चतुर्गतिमयाय शरशार्ङ्गभृते शरदिन्दीवरत्विषे भगवतेऽ- भिरामशरीराय नमः ॥ १०३-१०४ ॥ दद्याद् विशदशब्दं वै परमार्थपदं ततः ॥ १०५ ॥ ततो वेदविदे शब्दं विदुषे व्यापकाय च । स्वामिंस्तदनु वै दद्याद् द्व्यक्षरं चापरं पदम् ॥ १०६ ॥ अयं विंशतिभिर्वर्णैरुक्तस्त्वन्यमतः शृणु । ३६. ॐ विशदपरमार्थवेदविदे विदुषे व्यापकाय स्वामिन् नमः ॥ १०६ ॥ दद्याद् गरुडशब्दं तु तदन्ते वाहनेति च ॥ १०७ ॥ सर्वशस्त्रास्त्रोद्यतेति शमयाऽशुभमेव च । ततो धुन धुनादाय कर्मबन्धांस्ततो वदेत् ॥ १०८ ॥ धर्मं पाहि ततो दद्याद् जह्यधर्मं ततो वदेत् । चतुस्त्रिंशाक्षरो मन्त्र एष वक्ष्याम्यतः परम् ॥ १०९ ॥ ३७. ॐ गरुडवाहन सर्वशस्त्रास्त्रोद्यत शमयाऽशुभं धुन धुन कर्मबन्धान् धर्मं पाहि जह्यधर्मं नमः ॥ १०७-१०९ ॥ संहारमूर्तये शब्दं कालवैश्वानरार्चिषे । सा० सं० - ३८
५३८ सात्वतसंहिता पातालशयनायेति त्वज्ञाननिगडेति वै ॥ ११० ॥ निचयं हन वीप्सातः प्रणवं तदनन्तरम् । पञ्चत्रिंशाक्षरो ह्येष सर्वसिद्धिकरः स्मृतः ॥ १११ ॥ ३८. ॐ संहारमूर्तये कालवैश्वानरार्चिषे पातालशयनाय अज्ञान निगड निचयं हन हन ॐ नमः ॥ ११०-१११ ॥ प्रणवालङ्कृताः सर्वे नमस्कारविभूषिताः । संस्मृताः पूजिताश्चैव ध्याता जप्ता विशेषतः ॥ ११२ ॥ तन्नास्ति यन्न यच्छन्ति भक्त्या सत्कर्मणां भुवि । ये सभी मन्त्र प्रणव (ॐ) से अलङ्कृत हैं । सभी अन्त में नमस्कार से विभूषित हैं । इन मन्त्रों का स्मरण करने से, पूजा करने से, ध्यान करने से तथा जप करने से इस भूलोक में ऐसी कोई वस्तु नहीं है जो सत्कर्म परायण भक्तों को ये मन्त्र न दे सकें ॥ ११२-११३ ॥ किरीटादिलाञ्छनमन्त्रोद्धारः अथ लाञ्छनमन्त्राणां सास्त्राणां लक्षणं शृणु ॥ ११३ ॥ सहस्त्रदीधितिपदं दद्याच्छुरित वै ततः । विग्रहाय दशार्णं च त्र्यधिकं मकुटस्य च ॥ ११४ ॥ आदाय वाञ्छितपदं ततः सिद्धिप्रदाय वै । महाचिन्तापदं दद्यान्मणये तदनन्तरम् ॥ ११५ ॥ विद्धि पञ्चदशार्णं च दशार्णमपरं शृणु । सर्वलक्षणशब्दं तु ततः सम्पत्प्रदाय वै ॥ ११६ ॥ अथ तेषां किरीटादिलाञ्छनमन्त्रान् (वराहमन्त्रं ?) चक्राद्यायुधमन्त्रांश्चाह—अथ लाञ्छनमन्त्राणामित्यारभ्य यावत् परिच्छेदपरिसमाप्ति । तथा चैषां प्रयोगः—ॐ- सहस्त्रदीधितिच्छुरितविग्रहाय किरीटाय नमः । ॐ वाञ्छितसिद्धिप्रदाय महाचिन्तामणये कौस्तुभाय नमः । ॐ सर्वलक्षणसम्पत्प्रदाय श्रीवत्साय नमः । ॐ सौभाग्यजननि सर्व- प्रदे वनमालायै नमः । ॐ प्राणात्मने सत्याय नमः । ॐ कालकत्रे चक्राय फट् । ॐ विश्वात्मने विश्वप्रदाय पद्माय फट् । ॐ विद्ये विद्येश्वरार्चिते गदायै फट् । ॐ शब्दमूर्तये शङ्खाय फट् । ॐ रसनिधे भीमभीषणाय लाङ्गलाय फट् । ॐ भुवना- धिपतये स्तम्भभूताय मुसलाय फट् । ॐ इन्द्रियकोशाय इष्वस्त्राय फट् । ॐ कल्पान्तानिलघोषाय विद्युल्लसितप्रभाय शार्ङ्गाय फट् । ॐ महामायाबन्धध्वंसिने खड्गाय फट् । ॐ सर्वस्त्रिग्रसनपराय खेटकाय फट् । ॐ सन्तापकाय दर्पविध्वंसिने दण्डाय फट् । ॐ अज्ञानखण्डनपराय परशवे फट् । ॐ त्रैलोक्यमोहनमूर्तये पाशाय फट् । ॐ सर्वाकर्षकपरमहामायामयाय अङ्कुशाय फट् । ॐ अखण्डितपराक्रमाय मुद्ग-
त्रयोविंशः परिच्छेदः ५३९ राय फट् । ॐदर्पप्रशमकर्त्रे वज्राय फट् । ॐतेजोमालिनि शक्त्यै फट् । इति च द्वाविंशतिमन्त्राः ॥ ११३-१३२ ॥ ॥ इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये त्रयोविंशः परिच्छेदः ॥ २३ ॥ — ❧ ❁ ❧ — अब उनके किरीटादि चिह्न वाले मन्त्रों को तथा चक्रायुधादि मन्त्रों को कहते हैं—१. ॐ सहस्रदीधितिच्छुरितविग्रहाय(१३) किरीटाय नमः ॥ ११४ ॥ २. ॐ वाञ्छितसिद्धिप्रदाय महाचिन्तामणये(१५) कौस्तुभाय नमः ॥११५॥ ३. ॐ सर्वलक्षणसम्पत्प्रदाय(१०) श्रीवत्साय नमः ॥ ११६ ॥ सौभाग्यशब्दमादाय जननि त्र्यक्षरं ततः । सर्वप्रदे तु तदनु अयमेव दशाक्षरः ॥ ११७ ॥ प्राणात्मनेऽथ सत्याय विद्धि सप्ताक्षरं त्विदम् । कालकर्त्रेऽथ चक्राय फडष्टाणर्ः प्रकीर्तितः ॥ ११८ ॥ ४. ॐ सौभाग्यजननि सर्वप्रदे वनमालायै नमः ॥ ११७ ॥ ५. ॐ प्राणात्मने सत्याय नमः ॥ ११८ ॥ यहाँ तक लाञ्छन (भूषण) मन्त्र कहे गये, अब अस्त्र मन्त्रों को कहते हैं— १. ॐ कालकर्त्रे चक्राय फट् ॥ ११८ ॥ विश्वात्मने पदं दद्यात् ततो विश्वप्रदाय च । नवाक्षरमिदं विद्धि परमष्टाक्षरं शृणु ॥ ११९ ॥ २. ॐ विश्वात्मने विश्वप्रदाय पद्माय फट् ॥ ११९ ॥ समादायपदं विद्ये ततो विद्येश्वरार्चिते । प्राक् शब्दमूर्तये कुर्याच्छङ्खायाष्टाक्षरः स्मृतः ॥ १२० ॥ ३. ॐ विद्ये विद्येश्वरार्चिते गदायै फट् ॥ १२० ॥ ४. ॐ शब्दमूर्तये शङ्खाय फट् ॥ १२० ॥ पदं रसनिधे कुर्यात् भीमशब्दमतः परम् । भीषणाय तदन्ते वै दशाक्षरमिदं स्मृतम् ॥ १२१ ॥
५४० सात्वतसंहिता ५. ॐ रसनिधे भीमभीषणाय लाङ्गलाय फट् ॥ १२१ ॥ प्राग् भुवनाधिपतये स्तम्भभूताय वै पदम् । त्रयोदशाक्षरं विद्धि ततोऽन्यमवधारय ॥ १२२ ॥ ६. ॐ भुवनाधिपतये स्तम्भभूताय मुसलाय फट् ॥ १२२ ॥ पदमिन्द्रियकोशाय इष्वस्त्राय दशाक्षरम् । कल्पान्तानिलघोषाय विद्युल्लसित वै पदम् ॥ १२३ ॥ प्रभाय षोडशार्णं तु नवाक्षरमतः शृणु । ७. ॐ इन्द्रियकोशाय इष्वस्त्राय फट् ॥ १२३ ॥ ८. ॐ कल्पान्तानिलघोषाय विद्युल्लसितप्रभाय शार्ङ्गाय फट् ॥ १२३ ॥ महामायापदं दद्याद् बन्धवर्णद्वयं ततः ॥ १२४ ॥ ध्वंसिने पदमादाय एतत्संख्यं पदं शृणु । ९. ॐ महामायाबन्धध्वंसिने खड्गाय फट् ॥ १२४ ॥ सर्वास्त्रिग्रसनादाय पराय तदनन्तरम् ॥ १२५ ॥ १०. ॐ सर्वास्त्रिग्रसनपराय खेटकाय फट् ॥ १२५ ॥ सन्तापकाय शब्दं तु दर्पविध्वंसिने ततः । एकादशाक्षरं विद्धि नवाक्षरमथोच्यते ॥ १२६ ॥ ११. ॐ सन्तापकाय दर्पविध्वंसिने दण्डाय फट् ॥ १२६ ॥ अज्ञानखण्डनपदं पराय तदनन्तरम् । त्रैलोक्यमोहनपदं मूर्तये तु नवाक्षरम् ॥ १२७ ॥ १२. ॐ अज्ञानखण्डनपराय परशवे फट् ॥ १२७ ॥ १३. ॐ त्रैलोक्यमोहनमूर्तये पाशाय फट् ॥ १२७ ॥ सर्वाकर्षकपदं महामायामयेति वै । द्वादशाक्षरसंख्यस्तु नवाक्षरमथोद्धरेत् ॥ १२८ ॥ १४. ॐ सर्वाकर्षकपरमहामायामयाय अङ्कुशाय फट् ॥ १२८ ॥ प्रागखण्डितशब्दं तु तदन्ते विनियोज्य च । पराक्रमाय शब्दं तु सप्ताक्षरमतः शृणु ॥ १२९ ॥ १५. ॐ अखण्डितपराक्रमाय मुद्गराय फट् ॥ १२९ ॥
त्रयोविंशः परिच्छेदः ५४१ दर्पप्रशमकर्त्रे तु पञ्चार्णं विनिबोध वै । तेजोमालिनि चेत्येतद् द्वाविंशत्यनुकीर्तिताः ॥ १३० ॥ १६. ॐ दर्पप्रशमकर्त्रे वज्राय फट् ॥ १३० ॥ १७. ॐ तेजोमालिनि शक्त्यै फट् ॥ १३० ॥ प्राग्वदाद्यन्तसंरुद्धाः स्वनामपदभूषिताः । संख्यानिष्ठाक्षरस्यान्ते दद्यात् संज्ञापदं सदा ॥ १३१ ॥ चक्रवच्चास्त्रमन्त्राणां कुर्यान्नामावसानकम् । क्रमाच्चतुर्दशानां तु शक्त्यन्तानां च फट्पदम् ॥ १३२ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां अधिवासदीक्षाविधिर्नाम त्रयोविंशः परिच्छेदः ॥ २३ ॥ — 𑁍 — यहाँ तक कुल २२ मन्त्र कहे गये । इन मन्त्रों में पूर्व की भाँति पहले 'ॐ', अन्त में नमः पद, मध्य में चतुर्थ्यन्त नाम लगाकर चक्र से लेकर शक्ति पर्यन्त १७ अस्त्र मन्त्रों के अन्त में फट् लगावे ॥ १३१-१३२ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के अधिवासदीक्षाविधि नामक तेइसवें परिच्छेद की हिन्दी समाप्त हुई ॥ २३ ॥ — 𑁍 —
चतुर्विंशः परिच्छेदः प्रतिमापीठप्रासादलक्षणम् श्रीनारद उवाच विप्रप्रधानाः श्रुत्वैवं मन्त्राणां लक्षणं स्फुटम्। चोदयामास भगवान् पुनः स तालकेतुना ॥ १ ॥ अथ चतुर्विंशतिपरिच्छेदो व्याख्यास्यते । इह पुनः सङ्कर्षणेन वासुदेवश्चोदित इत्याह—विप्रेति । अत्र दिव्यत्वादात्मनेपदस्थाने परस्मैपदं प्रयुक्तम् । यद्वा स ताल- केतुनेति प्रथमैकवचनम् । स तालकेतुर्ना पुरुषः सङ्कर्षण इति यावत् ॥ १ ॥ श्री नारद जी ने कहा—हे ब्राह्मणो ! श्री सङ्कर्षण जी ने मन्त्रों के इस प्रकार के लक्षण को सुनकर पुनः श्री भगवान् से कहा ॥ १ ॥ सङ्कर्षण उवाच ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भगवन्मयः । नित्याराधनकामस्तु यदि मन्त्रमयं वपुः ॥ २ ॥ कर्तुमिच्छति लक्ष्यार्थं तत्र किंलक्षणो विधिः । चोदनाप्रकारमाह—ब्राह्मण इति सार्धेन ॥ २-३ ॥ सङ्कर्षण ने कहा—ब्राह्मण, क्षत्रिय, वैश्य, शूद्र अथवा भगवान् का भक्त यदि नित्य आराधना की कामना से मन्त्रमय शरीर बनाना चाहे, तो उस लक्ष्य की प्राप्ति के लिये उसे किस विधान का पालन करना चाहिये ॥ २-३ ॥ श्रीभगवानुवाच चित्रमृत्काष्ठशैलोत्थं सल्लोहमयमेव वा ॥ ३ ॥ भेदभिन्नं द्विजातीनां हितं बिम्बं फलार्थिनाम् । तदभिन्नमकामानां प्राप्तं चाप्यविरोधकृत् ॥ ४ ॥ अत्र चित्रमयं विद्धि भित्तिकाष्ठाम्बराश्रितम् । पुनः वर्णक्रमेणैव चतुर्धा चाम्बरोत्थितम् ॥ ५ ॥ तच्च कार्पासकौशेयक्षौमशाणमयं तु वै ।
चतुर्विंशः परिच्छेदः ५४३ एवं चोदितो वासुदेवः प्रथमं चित्रमृत्काष्ठशिलालोहमयत्वेन पञ्चविधानां बिम्बानां प्रत्येकं ब्राह्मणादिवर्णक्रमेण चातुर्विध्यम्, एवं तत्तद्वर्णानुसारेण तत्तद्- द्रव्यमयबिम्बग्रहणस्य सकामविषयत्वं बिम्बसामान्यग्रहणस्य निष्कामविषयत्वं चाह— चित्रमृत्काष्ठशैलोत्यमित्यारभ्य लाभालाभवशात् पुनरित्यन्तम् ॥ ३-११ ॥ इस प्रकार पूछे जाने पर श्री भगवान् के कहा—१. चित्र, २. मिट्टी, ३. काष्ठ, ४. शिला और ५. लोहे के भेद से पाँच प्रकार के बिम्ब होते हैं। उसके ब्राह्मणादि वर्ण क्रम से प्रत्येक के चार-चार भेद होते हैं। तत्तद् वर्णानुसार तत्तद् द्रव्य का बना हुआ बिम्ब ग्रहण सकाम विषय कहा गया है। बिम्ब का सामान्य ग्रहण बिम्ब का निष्काम विषय कहा गया है। भीत, काष्ठ और कपड़े पर निर्माण किया गया बिम्ब चित्तमय-बिम्ब कहा जाता है। इसके बाद वर्णक्रम के अनुसार कपड़े का बिम्ब कार्पास, कौशेय, क्षौम और सन के भेद से बनाया गया बिम्ब अम्बरोत्थित बिम्ब कहा जाता है ॥ ३-६ ॥ मृज्जमेवं सिताद्युत्थं वार्क्षं विविधमेव च ॥ ६ ॥ आश्वत्थं ब्रह्मवृक्षोत्थं श्रीपर्णीसुरदारुजम् । सालतालमयं चैव शाशवन्तीन्दुसारजम् ॥ ७ ॥ एवं द्वयं द्वयं विद्धि द्विजादीनां यथाक्रमम् । अतोऽन्ये दृढमूलाश्च सारवन्तो हि याज्ञिकाः ॥ ८ ॥ साधारणाश्चतुर्णां तु प्रतिमाद्ये च कर्मणि । सामान्यं भुक्तिमुक्त्यर्थमश्ममृण्मयवत् स्मृतम् ॥ ९ ॥ तारहाटकताम्रोत्थम् आरकूटमयं तथा । एवं हि भूमयो वस्त्रपाषाणा धातवो द्रुमाः ॥ १० ॥ वज्रादयोऽखिला रत्नाः सितरक्तादिलक्षणाः । असामान्याः फलेप्सूनां लाभालाभवशात् पुनः ॥ ११ ॥ इसी प्रकार श्वेत, नील, पीत और श्याम वर्ण की मिट्टी से निर्मित बिम्ब मृज्ज बिम्ब कहा जाता है। वृक्षों से बना हुआ बिम्ब अनेक प्रकार का होता है— अश्वत्थ बिम्ब, ब्रह्मवृक्ष (पलाश) बिम्ब, श्रीपर्णी बिम्ब, सुरदारुज बिम्ब, सालत्य बिम्ब, ताल बिम्ब, शशवन्ती बिम्ब, इन्द्रसारन बिम्ब। ये ८ बिम्ब वार्क्षज कहते हैं। इन्हें दो-दो के भेद से द्विजातियों का बिम्ब कहा गया है। इसके अतिरिक्त दृढ़मूल वाले मजबूत एवं याज्ञिक वृक्षों से बनी हुई जो प्रतिमायें हैं, वे प्रतिमादि, कर्म के विचार से चारों वर्णों के लिये साधारण हैं। इस प्रकार की सामान्य प्रतिमायें भोग और मोक्ष के लिये पत्थर और मिट्टी के समान कही गई हैं। तार, हाटक (सुवर्ण) और ताँबे की बनी हुई एवं पीतल की बनी हुई इसी प्रकार श्वेत, लाल वर्ण वाले भूमि, वस्त्र, पाषाण, धातु, वृक्ष, वज्रादि एवं समस्त रत्न भी