शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
१२ शिवदृष्टिः [ आ०-१ किञ्चित् अख्यातिरूपमात्रत्वात् । न तत्पूर्वस्य कस्यचित्प्रथा१ । विश्वा- त्मत्वं च चिन्मयस्य प्रतिबिम्बानामिव२ दर्पणपरमार्थत्वेन भावानां स्वच्छचिन्मात्रसतत्त्वतयावस्थानात् । एतच्च सर्वमीश्वरप्रत्यभिज्ञाटीकायां निपुणमालोचितम् । सर्गस्थितिप्रलयानु३ग्रहतिरोधानलक्षणपञ्चप्रकारं कृत्यं यस्य तस्योक्तिः पञ्चविधकृत्यो यदुच्यते तच्छेवत्वं ततः निज- कर्मणे तत्त्वादिरूपप्रसरणरूपाय४ प्रवृत्तस्य निमित्तानां५ दयादीनां क्व मार्गणं निमित्तान्वेषणप्रसङ्गस्यैवाभावात् कथमेवं प्रसरतीति न चोद्यमिति तावदकुत्सितविषयमेवौन्मुख्यमिति समर्थितम्६ ॥ ११-१२ ॥ तदिदानीं निदर्शनेन स्फुटीकर्तुमाह— गच्छतो निस्तरङ्गस्य जलस्यातितरङ्गिताम् ॥ १३ ॥ आरम्भे दृष्टिमापात्य तदौन्मुख्यं हि गम्यते । व्रजतो मुष्टितां पाणेः पूर्वं कम्पस्तदेक्ष्यते ॥ १४ ॥ १ प्रथा–प्रसरणम् । २ प्रतिबिम्बेति, यथोक्तमीश्वरप्रत्यभिज्ञायां— ‘स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् । अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥’ ( १।५।१० ) इति । ३ बीजाङ्कुरादौ यो मायीयो व्यवहारो लौकिकदृशा भासते, स तिरोधित्कृतः । यस्तु तत्रापि पारमार्थिकतयैव स्थितः, सोऽनुग्रहशक्ति- कृतः । एतदेव हि अस्यान्यवादिभ्यो विशेषः, यत्सततमेव पञ्चकृत्यविधान- मिति यदुक्तं— ‘मुहुर्मुहुरविश्वान्तस्त्रैलोक्यं कल्पनाशतैः । कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः ॥’ (स्त० चि० ११२ ) इति । ४ सृष्ट्यादिरूपेण तत्त्वादिप्रसरणं, तत्र पारमार्थिककाल्पनिककार्य- कारणभावादौ तिरोध्यनुग्रहशक्ती । ५ निमित्तानामिति । यदाहुरेके ‘ईश्वरः स्वात्मन्यवाप्तसर्वकामः, किमस्य सृष्ट्यादिना फलमिति । सर्वो हि यः कश्चित्प्रवृत्तिकारी प्रयोजनमुद्दिश्यैवाभिमुखीभवति, तच्चास्या- वाप्तकात्वान्न संभाव्यम्’ इति भगवांल्लोकानुग्रहार्थमेव प्रवर्तते इति कथने दुःखमयीं कस्मात् सृष्टिं कुरुते दयालुत्वात्तस्येति दयादीनां निमित्तानां क्वास्मिन्नये पर्येषणा । ६ समर्थितमिति—अशक्यसाधनमपि साधितम् ।
आ०-१ ] उत्पलदेवकृतवृत्त्योपेता १३ बोधस्य स्वात्मनिष्ठस्य रचनां प्रति निर्वृतिः । तदास्थाप्रविकासो यस्तदौन्मुख्यं प्रचक्षते ॥ १५ ॥ किंचिदुच्छूनता सैव महद्भिः कैश्चिदुच्यते । तस्येच्छा कार्यतां यातः यया सेच्छः स जायते ॥ १६ ॥ औन्मुख्यस्य य आभोगः स्थूलः सेच्छा व्यवस्थिता । न चौन्मुख्यप्रसङ्गेन शिवः स्थूलत्वभाक् क्वचित् ॥ १७ ॥ यथा जलस्य पूर्वं निस्तरङ्गस्यातितरङ्गितां गच्छतः सूक्ष्मः पूर्वः कम्प औन्मुख्यरूपः, पाणेश्च मुष्टितां गच्छतः पूर्वः सुसूक्ष्मः कम्प्रो दृश्यते, तथा बोधस्य स्वरूपस्थस्य पूर्णस्य विश्वरचनां प्रति अभिलाषमात्ररचना- योग्यताया यः प्रथमो विकासः प्रवृत्त्यारम्भस्तदौन्मुख्यं प्रचक्षते । प्रवृत्त्या- रम्भश्च निर्वृतावप्यभेदाख्यातिधर्मत्वेन तस्याः १ प्रथनात् । यदेतदौन्मुख्यं, सैव किंचिदुच्छूनता कथ्यते भट्टप्रद्युम्नेन तत्त्वगर्भे । अन्यैरपि तरङ्गो- र्म्यादिशब्दैरपि । तस्यौन्मुख्यस्येच्छा कार्या । तस्य हि योऽसावाभोगो ज्ञानादिकार्योत्पादनसमर्थो विस्तृतो दाढर्यमय उत्तरो भागोऽत एव रचनास्थाविकासदाढर्यात् स्थूलः, सेच्छा व्यवस्थिता । न चोच्छूनतादि- व्यपदेश्यौन्मुख्यप्रसङ्गेन शिवो बीजमिव स्थौल्यभाक् । इच्छाद्य२- सद्भावे वा अन्यत्र क्वचित् वस्तुतो न स्थौल्यं चिदात्मनः प्रतिबिम्ब- कल्पैर्भावैरनाधिक्यात् । नापि तदात्मताप्रथा भ्रान्तिरिति३ सर्वमुक्तं टीकायाम् ॥ १३-१७ ॥ व्यावहारिकोऽपि नास्त्येवमादौ भेदस्तथापरामर्शानिवृत्तेरित्याह— गोः स्तनात्पाततः क्षीरे विकारस्तत एव हि । न च न क्षीरमित्येष व्यपदेशोऽस्ति तत्क्षणम् ॥ १८ ॥ गोः स्तनात् पातात् क्षीरे विकारस्तत एव तदनन्तरमेव । न च तत्क्षणं तत्र न क्षीरपरामर्शो, यावत्परामर्शैक्यं तावत्सर्वदैक्यमेव ॥ १८ ॥ १ तस्या निर्वृतेः । २ निराकाङ्क्षतादशायाम् । ३ आभासमानत्वात् ।
१४ शिवदृष्टिः [ आ०-१ एवमौन्मुख्यमिच्छायां उक्तमिदानीमुपपादयन्नाह-- यत इच्छति तज्ज्ञातुं कर्तुं वाहेच्छया क्रियाम् । तस्याः पूर्वापरौ भागौ कल्पनीयौ पुरा हि या ॥ १९ ॥ तत्कर्मनिवृत्तिप्राप्तिरौन्मुख्यं तद्विकासिता । यस्मादिच्छति ईश्वरो ज्ञातुं वा कर्तुं वा इति यदुच्यते, तदाख्यात- पदमिच्छया इच्छालक्षणां क्रियामाह । तस्या इच्छायाः पूर्वापरौ भागौ कल्पनीयौ पूर्वापरीभूतावयवत्वात् क्रियायाः१ इच्छायाः क्रियात्वाभिधानेन । इच्छादीनामन्योन्यात्मता शक्त्यवस्थायां सुतरां स्यात् । ततश्च परमार्थत एकैव शक्तिः शक्त एवास्तीति प्रतिपादितम् । उत्पत्तिकथायां तु इच्छायाः पुरोभागे या तस्मिन् कर्मणि तत्कर्मनिष्ठा निर्वृत्तिप्राप्तिः, तदौ- न्मुख्यं२, कर्मावच्छिन्ना निर्वृत्तिरौन्मुख्यम्, अनवच्छिन्ना निर्वृत्तिमात्र- मानन्दशक्तिरिति यावत् । तदौन्मुख्यं विकासिता चिदास्थाप्रविकास इत्युक्तम् ॥ १६ ॥ अनन्तरं हि तत्कार्यज्ञानदर्शनशक्तिता ॥ २० ॥ ज्ञानशक्तिस्तदर्थं हि योऽसौ स्थूलः समुद्यमः । सा क्रियाशक्तिरुदिता ततः सर्वं जगत्स्थितम् ॥ २१ ॥ परतस्तस्मिन् विश्वलक्षणे कार्ये यज्ज्ञानं, तत्प्रकाशनशक्तिरूपता चिदात्मनः सर्वप्रतिपत्तॄणामवेद्यमन्तःकरण इव प्रकाशमानं तत् कार्यं यतः- सा ज्ञानशक्तिः । अनन्तरं सर्वप्रमातृवेद्यस्थूलकार्यकारसंपत्तिफलः समुद्यम इच्छाविषय एव क्रियाशक्तिः । तत एव परिसमाप्तिः व्यवहार्यकार्यलाभा- दित्युक्तं ततः सर्वं जगत्स्थितमिति ॥ २०-२१ ॥ न केवलं जगन्निर्माण एवैवं, यावदेकैकघटकरणकालेऽपि एवं शक्ति- रूपतेत्याह-- एवं सर्वसमुत्पत्तिकाले शक्तित्रयात्मता । न निवृत्ता, न चौन्मुख्यं निवृत्तं, नापि निर्वृत्ति ॥ २२ ॥ १ तदुक्तं-- 'गुणभूतेरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥' इति । २ पूर्णानन्दस्वरूपभेदाख्यातिरित्यर्थः ।
आ०-१ ] उत्पलदेवकृतवृत्त्योपेता १५ इच्छाज्ञानक्रियात्मता तावत्सिद्धा१ घटादिकरणकाले । औन्मुख्य- मपि इच्छापूर्वभागोऽस्ति कर्मावच्छिन्नविशिष्टनिर्वृत्तिरूपः । अन्याप्य- नवच्छिन्नानन्दरूपा निर्वृत्तिरनिवृत्ता, तदभावे विशेषनिर्वृत्तेरभावात्२ तथा बोधाभावे विशिष्टघटादिबोधस्य३ । अत एव निर्वृत्तिविशिष्टरूपता- प्राप्तिरिति प्राप्तिग्रहणं पूर्वं४ कृतम् । यदि वा निर्वृत्तिशब्देन पूर्णचिच्छक्ति- रुपात्ता शक्तिपञ्चकाय ॥ २२ ॥ एकशक्त्यभावेऽपि कार्योत्पत्तिर्न स्यादित्याह-- यदेकतरनिर्याणे५ कार्यं जातु न जायते । तस्मात्सर्वपदार्थानां सामरस्यमवस्थितम्६ ॥ २३ ॥ यस्मादेकतरस्य शक्तिभेदस्य निर्याणे अपाये कार्यं न कदाचित् स्यादित्युकतं, तस्मात् सर्वपदार्थानामुत्पत्तिक्राले सर्वतत्त्वमयशिवतत्त्वो- पयोग इति न कदाचनापि शिवरूपसंस्पर्शविरहिता, महासर्गप्रारम्भ इव भावानामेकैकस्य निर्याणेऽपि परमेश्वरस्पर्शोऽखण्डित एवेति सामरस्यम् । कुम्भकारस्यापि घटकरणे सर्वशक्तिशिवात्मता, तद- परिज्ञानात्तु कुम्भकारतेत्यर्थः । एकतरेति तरप्पाठः औन्मुख्यनिर्वृत्ति- द्वित्वापेक्षया ॥ २३ ॥ न केवलं घटादिकरणकाले सर्वशक्तिसंभवः, यावत् ग्रहण- कालेऽपीत्याह-- घटादिग्रहकालेऽपि घटं जानाति सा क्रिया । जानाति ज्ञानमत्रैव निरिच्छोर्वेदनक्षतिः ॥ २४ ॥ औन्मुख्याभावतस्तस्य निवृत्तिर्निर्वृतिं विना । द्वेष्ये प्रवर्तते नैव न च वेत्ति विना चितम् ॥ २५ ॥ घटादिज्ञानकाले यत् घटं जानाति--चिदभेदाख्यातिवैचित्र्य- भिन्नघटदेवदत्तात्मकवेद्यवेदकाभासनं नाम यत् क्रमिकपूर्वं रूपं सा ज्ञान- १ नात्र व्यभिचारः । २ औन्मुख्यरूपायाः । ३ अभावः । ४ तत्कर्म- निर्वृत्तिप्राप्तिरित्यत्र । ५ निर्याणेऽपगतौ । ६ सर्वपदार्थानामुत्पत्तौ शक्ति- मदात्मकं स्थितमेव ।
१६ शिवदृष्टिः [ आ०-१ लक्षणा क्रिया पूर्वापरीभूतावयवा, न तु जानामीति¹ वचनप्रवृत्तिकाल एव । जानातिरूपत्वाज्ज्ञानमत्रैव क्रियात्मनि स्थितम् । निरिच्छोर- वधानरहितस्य वेदनं न भवेत् मनसानधिष्ठानात् । अवधानवद्दर्शनमेव इच्छा । तत्र च इच्छाक्रियापूर्वभाग औन्मुख्यं तत्कर्मनिवृत्तिः । तदौ- न्मुख्याभावतस्तस्य प्रमातुर्वेदनस्य वा निवृत्तिः नहि औन्मुख्यरूपां तत्कर्मनिवृत्तिं विना द्वेष्ये प्रवर्तते । न च चित्तमभेदप्रत्यवमर्शशक्तिरूपां विना पूर्णशुद्धबोधात्मा कर्ता वेत्ति घटादीन् संविन्निष्ठत्वा- द्विषयव्यवस्थितीनाम् । सैव चिच्छक्तिः सामान्या निवृत्तिशक्त्यरा- नन्दरूपा ॥ २४-२५ ॥ ज्ञानकाले शिवत्वाभावमाशङ्कमान आह— बुद्धिं² विना कथं बोधः सा³ बुद्धिः प्रकृतेः प्रजा । न च⁴ तस्य तया योग इति चेदपरस्थितौ⁵ ॥ २६ ॥ सा बुद्धियंतं पुनः सूक्ष्मं⁶ सर्वदिक्कं व्यवस्थितम्⁷ । ज्ञानं बोधमयं तस्य शिवस्य सहजं सदा⁸ ॥ २७ ॥ १ जानामीत्यविच्छिन्नाभासः, जानातीति तु विच्छिन्नाभासः । २ नन्वत्यल्पमिदमुच्यते यज्जानातीत्यपरज्ञानकालेऽभेदाख्यातावपि वेद्यवेदकक्षोभे सर्वशक्तिसंपूर्णपूर्णानन्दविश्रान्तशिवतत्त्वोपयोग इति यावता घटादिग्रहकाल इति ज्ञानमत्रैवेत्युक्तं, तथा च सति कोऽयं घटादिग्रहकालो नामेति । तथा यदि तत्रापि शुद्धमेव ज्ञानं, तर्हि कृतं विषयव्यवस्थाकल्पितेन बुद्ध्यादिना । यदि च तत्राप्यस्त्येव तत्तत्त्वोपयोगः, तर्हि कथं तस्य नैर्मल्येन संभव इति परव्यामोहदलनायाह बुद्धिमित्यादि । यदत्र केचनात्यल्पदृशो विप्रतिपन्नाः—तस्मिन्नपि शुद्धबोधे स्वप्रकाशे यदि स्वात्मोच्छलत्तात्मकं ज्ञानमङ्गीकृतमनुभूयते, तत्बुद्धिव्यापारात्मकत्वात् सर्वथा बुद्धिविलासास्त- मयस्यैव स्वरूपप्राप्तिलक्षणत्वाद्विकल्पनमेव । यत्तु सर्वथा तदभाव एव, स एव सत्यस्वरूपप्राप्त्या परमार्थमोक्ष इति तद्व्यामोहेन मा व्यामुह्येयुरित्या- पूर्वमहानुग्रहपरः श्रीमानाचार्यो बुद्धिं विनेत्यादि । ३ कुत इत्यत्र हेतुमाह सेति । ४ तथापि किमित्यतो न चेति । ५ भेदग्रह एव । ६ सूक्ष्मं बुद्धि- ज्ञानाद्यविषयं तत्र बुद्धिज्ञानात्मनो भेदस्य विगलनात् । ७ व्यवस्थितमित्यनेन विशिष्टस्य प्रमातुः कादाचित्कत्वं ध्वनितम् । ८ अपरपरापरंपरासु ।
आ०-१ ] शिवदृष्टिः १७ न्यायादिभिर्न १ तुल्यत्वं तैर्हि या प्राकृती मतिः । तस्या एवात्मधर्मत्वमिष्टं न परबोधके ॥ २८ ॥ एष २ एव हि विज्ञेयो न्याय इच्छां प्रति स्फुटम् । ननु जानातीति ज्ञानं बोधो बुद्धिवृत्तिः ३ कथं वृत्तिमर्तो ४ बुद्धिं विना स्यात् । बुद्धिश्च प्रकृतेः प्रजाता जडा । न च ५ तया तस्य सर्वशक्तेः शिवतत्त्वस्य निर्मलस्य संबन्ध इत्येवं चेत्, तन्न । अपरावस्थायामभेदा- ख्यातावेकरसायां पुर्यष्टकप्रमातृणां सा बुद्धिः । यत्पुनः पूर्णतायां परा- वस्थस्य अत एव सूक्ष्ममभिन्नं वेद्यतामनुपयानमत एव सर्वदिक्कं ६ दिक्का- लाखण्डितं ज्ञानं बोधमात्रमबोध्यरूपं ७, तत्तस्य शिवस्य सहजं ८ सदा ९ प्राकृतबुद्ध्युल्लासेऽपि तत्सद्भावात् तद्विना १० तदभावात् । ननु एवमपि न्यायवैशेषिकादिसाम्यमायाति ज्ञानस्य शिवाश्रितत्वोप- गमे, ज्ञानं हि तेषामात्मसमवेतमिष्टं ११ शिवश्चात्मरूप इत्युक्तं १ लब्धावकाशं वितण्डावादिनं प्रतिवादिनं प्रत्याह न्यायादि- भिरिति । २ इच्छां मनोधर्म इति वैशेषिकमतमाशङ्क्याह एष इति । ३ अविगलितस्वरूपसतत्त्वस्यैव भावस्य धर्मकल्परूपान्तरच्छायाधारणं घटस्येवोदकाहरणं चैत्रस्येव गमनं वृत्तिरुच्यते । तथा तद्वृत्तिभेदान्न वृत्तिभेदो भवति तेनैव रूपेणाबाधितप्रत्यभिज्ञाविषयत्वात् । ४ तत्त्वभेदाभावात् । ५ नन्वस्तु तस्या जाड्यं, यथा तत्र विषयः प्रतिबिम्बमर्पयति, तथा पुंस्प्रकाशोऽपि समर्पयति अन्यथा विषयव्यवस्थापि तथा न सिद्धयेत् तथा च चैतन्यं, न चेति चकारेणैतत्परिहरति । ६ सर्वासु दिक्षु वर्तमानं न तु तेनावच्छिन्नं, तथा च व्यापकत्वं विघटेत, उपलक्षणमेतत् तेन सार्वकालिक- मित्यपि बोध्यं, तदाह दिक्कालेति । ७ बोधमयमत्र प्रकृत्यर्थे मयट् बोधस्वभावमित्यर्थः, तदाह बोधमात्रमिति । तदेव बोधमात्रत्वं यदन्या- विषयत्वं, तदाहाबोध्यरूपमिति । ८ सहजं स्वरूपप्रत्यवमर्शस्वभावं नान्यत् । ९ तदेव स्वाभाविकत्वं यत् तत्प्रच्युतावपि भेदावभासे न तद्धानिरित्याह सदेति । १० विशेषस्य क्षोभाकारस्य सामान्यं विनास्थितेः । ११ तेषां न्यायवादिनाम् । २
१८ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ः न्यायादिभिरिति१, तैर्न तुल्यत्वं प्राकृत्यां भेददशायां बुद्धियोगात्मनो ज्ञानस्य तथाभिधानात्, न त्वीश्वरे पररूपे ज्ञातरि, तदुक्तम् एष एव न्याय इच्छां प्रति स्फुटं ज्ञेयः । इच्छा चितेः प्रत्यगात्माश्रिता भेदमय्येव उक्ता यान्यैर्मनःसंकल्परूपा२, न तु परमेश्वरस्वभावभूता परापरा- वस्थास्थिता वा ॥ २६-२८ ॥ सर्वतत्त्वमयतया३ शिवतत्त्वावस्थानमाह-- तदेवं प्रसृतो देवः कदाचिच्छक्तिमात्रके ॥ २९ ॥ बिभर्ति रूपमिच्छात्तः कदाचिज्ज्ञानशक्तितः । सदाशिवत्वमुद्रेकात्कदाचिदैश्वरीं४ स्थितिम् ॥ ३० ॥ क्रियाशक्तिसमाभोगात्कदाचित्स्थूलवेदनात् । विद्यात्वविद्येशानत्वमन्त्रमन्त्रेश्वरात्मताम् ॥ ३१ ॥ १ 'न चास्य बाह्यकरणैः सिद्ध्यन्ति सकलाः क्रियाः । नहि स्मृतिसुखेच्छादौ चक्षुरादीनि साधनम् ॥' 'तेनेच्छास्मृतिसुखदुःखवेदनाना- माधारो न खलु मनो नचैन्द्रियाणि । देहोऽपि व्रजति न तत्समाश्रयत्वं तेभ्योऽन्यं पुरुषमतः प्रकल्पयामः ॥' सूत्रकारश्च--'इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्' इति । २ न्यायवादिभिः । ३ सर्वतत्त्वमयतयेति, यथोक्तं 'यदिदं किञ्चिद्गर्भीकृतानन्तविचित्रभोक्तृभोग्यं विभवात्मकं भुवनजातमुक्तं तत्र यदनुगतं महाप्रकाशरूपं, तन्महासामान्यकल्पं शिवतत्त्वमिति ।' उक्तं च तन्त्रालोके- 'यान्युक्तानि पुराण्यमूनि विविधैर्भेदैर्यदेष्वन्वितं रूपं भाति परप्रकाशनिबिडं देवः स एकः शिवः । तत्स्वातन्त्र्यरसान्पुनः शिवपदादूर्ध्वे विभाते परं यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने ॥' ( ९।२ ) इति । ४ ज्ञानशक्तेरुद्रेकात् ।
आ०-१ ] शिवदृष्टिः १६ आत्मप्रच्छादनक्रीडां१ कुर्वतो वा कथंचन२ । मायारूपमितीत्यादि षट्त्रिंशत्तत्त्वरूपताम् ॥ ३२ ॥ बिभ्रद्विभर्ति३ रूपाणि तावता व्यवहारतः । यावत्स्थूलं जडाभासं संहृतं पार्थिवं घनम् ॥ ३३ ॥ तस्मादेवमुक्तेन क्रमेण स्वरूपानुप्रविष्टचिन्निर्वृतिरूपशक्तिद्वयः प्रकाशानन्दमयः पूर्णः परमेश्वरः शिवः प्रसृतः कदाचित् प्रथमतः४ । शक्तिमात्रक औन्मुख्ये विषयाननुष्वक्ते निर्वृतिमये इच्छापूर्वभागे परापरा- वस्थारम्भदशायां तदनुरूपं रूपं५ बिभर्ति ध्यायिनां ध्येयम् । कदाचिदि- च्छात्ः६ इच्छाशक्तिरूपत्वात् निमित्तात् । अथवा इच्छारूपमासाद्य७ तदनुरूपं पूर्ववद्रूपं८ बिभर्ति । कदाचित्पुनः ज्ञानशक्तिरूपत्वात् सदाशिव- रूपं बिभर्ति । क्रियातो ज्ञाने तु प्रागुक्तनयेनाधिक्यात्९ । ऐश्वरीं तु स्थितिं कदाचित्क्रियाशक्तेः समाभोगात् पर्यन्तप्राप्तविस्तारात् बिभर्ति । कदा- चित् परापरावस्थान्तरभिन्नशेषवेद्यवेदकरूपबोधात्मप्रमात्रवस्थया१० मन्त्रादिरूपतां बिभर्ति । एकान्तभिन्नतैव वेद्यस्य विश्वस्य स्थूलत्वम् । १ शिवादिमन्त्रमहेशान्तात्मत्वेनेदन्ताभासस्याहमात्मन्येव विश्रान्तेर्न किञ्चन स्वरूपान्यथाभाव इति द्योतयितुमात्मप्रच्छादनेत्यादि माया- रूपमित्युक्तम् । २ केनापि गणनानईेण रूपेणेत्यर्थः । ३ बिभ्रद्विभर्तीत्यनेन एतादृक्स्वरूपाभासनायामपि न तेषां स्वात्मनि किञ्चन् स्वातन्त्र्यमिति द्योतनार्थम्, अथवा शक्तिमच्छक्तिरूपतोभयविधत्वमागमेष्वेषां सूचितमेव । ४ उत्तरतत्त्वापेक्षयात्रापि क्रमः । ५ रूपमधिष्ठातृस्वरूपम् । ६ इच्छात् इति निमित्तपञ्चमी । ७ इच्छारूपमित्यर्थे ल्यब्लोपे पञ्चमी । ८ ध्यायिनां ध्येयमित्यर्थः । ९ अन्तःकरण इव वेद्यमिति नयेन । १० परापरावस्थायां सदाशिवेश्वररूपत्वेऽन्तरभेदेनैव केवलमिच्छाद्य- नुगुणविशेषविशिष्टं वेद्यवेदकरूपं बोधात्मैव भासते, तत्रैव सर्वस्मिन्प्रमात्रु- न्मीलनेन मन्त्रादिरूपता, तत्रापि चानुन्मीलितोन्मीलितन्यायेन विशेषः । ननु च किमिदमत्र स्थूलवेदनं नाम, तत्राह एकान्तभिन्नतेति । सा च प्रमात्र- भिनिवेशेनेति बोध्यम् ।
२० उत्पलदेवकृतवृत्त्योपेता [ आ०-१ प्रमातृणां च बोधात्मत्वेऽपि शिवेच्छातो१ भेदापत्तेः स्थूलत्वम्। अतो२ वेदनस्यापि स्थूलत्वम्३, इदं तु विद्यात्वम्। अन्ये चैनां विद्यां भेदो- ल्लासात् महामायामिच्छन्ति४ । कदाचिदात्म५प्रच्छादनात्मकाभेदा६- ख्यातिमयीं संसाररूपां भ्रान्तिं७ क्रीडामेव कथंचन तथास्वभावत्वात् कुर्वतो मायाशक्तिपरावस्था बीजभूता रूपमिति८ चोक्तानि तत्त्वानि आदिभूतानि येषां षट्त्रिंशत्तस्तत्त्वानां, तद्रूपतां९ सामान्येन बिभ्रत् तद्विशेष- रूपाण्यपि बिभर्ति तावता प्रसिद्धव्यवहारनिष्पत्तेः। अप्रसिद्ध१०व्यवहारा- न्तरमस्तु ईश्वरस्य कार्याणामनियमात्११, तदात्मता तु तेषामपि१२ युक्ति- युक्ता न बाधितुं शक्या। इत्येतावत् प्रतिजानीमहे१३ षट्त्रिंशत्संख्या पूर्यते यावत्१४ पार्थिवं तत्त्वम्, तदनन्तरं नोपलभ्यतेऽत्र तथा। पार्थिवं तत्त्वं स्थूलत्वात् पर्यन्तवर्ति। अनेकसहकारिसंपाद्यविशेषं कारणात्कार्यं स्थूलं
१ ननु चास्या वेद्यवेदकबोधात्मकप्रमात्रवस्थाया अविशेषात् कथं तत्रानेकप्रमातृतैतत्याह शिवेच्छात इति। २ अतः-—प्रमाणप्रमेययोरधीन- त्वात्। ३ विद्यात्वविद्येशानत्वमन्त्रमन्त्रेश्वरेश्वरत्मकम्। ४ मायायां हि भेद उल्लसितोऽत्र तु तदुल्लास एवेति। यदुक्तमागमे-- ‘मायोपरि महामाया।’ इति। तेनात्र पर्यायभेद एव न परमार्थभेद इति। ५ स्वातन्त्र्यघनस्यात्मनः प्रकर्षेणाच्छादनं तद्धानिरूपणम्। ६ अभेदस्याप्यख्यातिरात्मनोऽप्याच्छादम्। ७ भ्रान्तिम्, पुनःपुनर्लौकिकया जननमरणस्वरूपां न तु व्यतिरेकेणाभासनात् व्यतिरिक्ताम्। ८ अपरैव रूपं रूपप्रसारः। ९ कतिपयकतिपयभेदानुगतं रूपं तत्त्वम्। ननु किमेतान्येव तत्त्वानि उतापराण्यपि सन्तीत्याह तद्विशेषरूपा- णीति। १० ननु यदि अन्यान्यपि सन्ति तत्किमिति नोपदिष्टानि इत्याह तावतेति। अप्रसिद्धेति, सामान्यलोकाविषयम्। 'परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम्। जडाद्विलक्षणो बोधो यतो न परिमीयते॥’ इति नीत्यापरिच्छिन्नत्वमेव, यत्पुनः षट्त्रिंशत्तत्त्वरूपतां बिभ्रदित्युक्तं तन्नियमनमव्यवस्था मा भूदिति। ११ 'अपरिच्छिन्नशक्तेः कः कुर्याच्छक्ति- परिच्छेदम्।' इति नीत्या। १२ कार्याणाम्। १३ प्रतिज्ञां कुर्महे। १४ यावच्छब्दस्यावाधारणावधिवाचकत्वादिति भावः।
आ०-१ ] शिवदृष्टिः २१ भवति व्यक्ततरत्वात् १ न तु सूक्ष्मम् । महत्तत्त्वेऽपि २ प्रधानादेः कारणस्य सौक्ष्म्यमेव ३ । तथा चिन्मयत्वात् सर्वस्य यावत्प्रकाशान्वयः । सत्त्वा- त्प्रभृति जलतत्त्वेऽपि शुक्लप्रकाशवर्णं तावत्कारणता संभाव्या । पार्थि- वेऽपि तु यावत् तदस्ति चित्रप्रकाशैक्याख्यातिमात्रात् पृथक् ४ प्रकाशा- त्मत्वेऽपि । तदुक्तम् जडाभासं ५ कार्ष्ण्यात् जडोऽप्रकाश आभासो ६ रूपमस्येति तत् । आकाशादिमहाभूतमयन्तन्मात्र ७ पञ्चक ८ व्यूहनात्मतया संहतम् ९, अनन्तरं संपर्कान्तरासंभवादन्त्यकार्यम्, अत एव बहूनां संघा- ताद्घनं स्वदेशान्तरप्रतिबन्धकम् अत्यन्तपरसंमिश्रणासहं १० परिपुष्टद्वैत- दृष्टिपर्यन्तनिविष्टम् ॥ २६-३३ ॥ अत ११ ऊर्ध्वं यानि भुवनादीनि कार्याणि, तान्येवामेव भूतानां विभवभूतानि अपरिसंख्येयानि स एव निर्मिमीत इत्याह-- तथा नानाशरीराणि १२ भुवनानि तथा तथा । विसृज्य रूपं १३ गृह्णाति प्रोत्कृष्टाधममध्यमम् १४ ॥ ३४ ॥ १ पञ्चत्रिंशत्तत्त्वकारणं हि पार्थिवं तत्त्वं, तथा च तत्तत्सहकारि- कारणोपस्कृतत्वात्कारणादपि कार्यस्य व्यक्ततरत्वात्स्थूलत्वं कार्यस्य कारणेऽन्तर्भावात् । २ सर्वानुस्यूतत्वात् । ३ अव्यक्ततरत्वात् । ४ तत् पार्थिवं तत्त्वं 'नाप्रकाशः प्रकाशते' इति न्यायेन प्रकाशात्मत्वेऽपि चित्रप्र- काशैक्याख्यातिमात्रात्पृथगेवास्ति । ५ पार्थिवं तत्त्वम् । ६ जलेऽपि शुक्ल- वर्णाभासादस्त्येव प्रकाशान्वयः, पार्थिवे कार्ष्ण्याभासान्नास्तीत्यर्थः । ७ विशेषाणां सामान्यमूलत्वात्सामान्यकारं तन्मात्रपञ्चकम् । ८ व्यूहनं विशेष- रचना । ९ संहतं निविडं मिलितम् । शब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यो व्यूढेभ्यः पार्थिवं तत्त्वमिति । १० जलादिषु ह्येतानि सर्वाण्यसंभाव्यानि । तानि ह्यन्यसंपर्कसहनशक्तानि, अघनानि, स्वदेशान्तराप्रतिबन्धकानि अत्यन्तपरसंमिश्रणासहानि, अत एव न द्वैतदृष्टिपरिपोषकाणि । ११ ननु किमिदं षट्त्रिंशत्तत्त्वरूपतां बिभ्रदित्युच्यते यावदन्यदपि विभवात्मकं भुवनजातमस्त्येवेत्याशङ्कयाह अत इत्यादि । १२ भोगसाधनानि शरीराणि । भुवनानि भोग्यानि । १३ भोक्तारं देवतिर्यङ्मनुष्यरूपम् । १४ अयमत्र तात्पर्यार्थः-आदौ ह्यपूर्णम्मन्यतारूपः परिस्पन्दोऽकर्मकमभिलाष- मात्रं भविष्यदवच्छेदयोग्यतेति । ततोऽपि रागः कर्माविच्छिन्नोऽभिलाषः । कर्म तु तत्र कर्ममात्रं, ततोऽपि कर्मभेदविचित्रो बुद्धिधर्मो राग इति । तदिदं
२२ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ एवं यथा विश्वप्रपञ्चतननक्षमं तत्त्वरूपं षट्त्रिंशत्संख्यं कार्यं रूपेण बिभर्ति, तथा तैरेव तत्त्वैर्जनकसंसारिपुरुषरूपेण निर्वर्तनीयानि न तु साक्षात् विधातुर्देवादिशरीराणि¹ कार्याणि, केवलं प्रत्यभिज्ञोक्तनीत्या² परस्या- किंचित्करत्वात्³ स एव स्वकमातापितृभूतादिरूपेण देवादीन् भुवनानि च तन्निवासरूपाणि विसृज्य, प्रोत्कृष्टादिदेवमनुष्यतिर्यग्योनिरूपं⁴ गृह्णाति ॥ ३४ ॥ शरीरभुवनवासना अन्योन्यानुरूपा गृह्णाति--इत्याह-- स्थानानुरूपतो देहान्देहाकारेण भावनाः । आददत्तेन तेनैव रूपेण प्रविभाव्यते ॥ ३५ ॥ अन्योन्यानुरूप्येणैवेषां देवादीनां विलक्षणव्यवहारनिर्वृत्तिः । स च शरीरादि आददत् तेनैव मायीयेनैव रूपेण उपलक्ष्यते प्रसिद्धः ॥ ३५ ॥ स्वस्वरूपाख्यातेर्नरकादावपि स एवास्तीत्याह-- क्रीडया⁵ दुःखवेद्यानि कर्मकारीणि तत्फलैः । संभत्स्यमानानि तथा नरकार्णवगह्वरे ॥ ३६ ॥ मलोपोद्वलितं कर्म संसारवैचित्र्यभोगे निमित्तमिति तद्भोगवास नानु- विद्धानामणूनां भोगसाधनार्थं शरीराणि स एव सूयत इत्युक्तं तथा नानेत्यादि । शरीरस्य भोगसाधनार्थं तानि तान्यनेकविधानि वासनानुसारेण भुवनानि, तदनुसारेण च भोगभुक्त्यन्तं तद्रूपतापरिग्रह इत्युक्तं प्रोत्कृष्टेति । १ परमेश्वरस्य सर्वकर्तुः । २ संवेदनस्वातन्त्र्यस्वभावः परमेश्वर एव विश्वभावशरीरः परमार्थतः सर्वजनकः । कथं तर्हि मातापित्रादेस्तदभिमान इति चेत्, इदं वक्तव्यं किं शरीरेन्द्रियाणां तत्सामर्थ्यमुत तद्व्यतिरिक्त- स्यान्यस्य कस्यचित् । शरीरेन्द्रियाणि हि जडस्वरूपत्वाद्ग्रावराशिमध्य एव निक्षिप्तानि कथं तेषामुत्पत्त्यभिमानः । या पुनस्तद्व्यतिरिक्ता संविन्नाम, तस्याश्च परमेश्वरसंविदोऽनधिकत्वमिति निर्णेष्यामः । तस्माद्यदत्र केचन शरणं सामग्रीवादमभ्युपागमन्सोऽपि परमेश्वरस्यैव कर्तृतोपोद्वलक इति । ३ तत्तत्प्रमातुः कर्तुश्च । ४ 'अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्ग ॥' इति तत्तदवान्तरभेदेऽपि त्रिविधत्वमेवेति बोधयन् । ५ उक्तमिदं यत्किंचि- देतद्भासते, तत्सर्वं परमाद्वयनयोपदेशेन परस्वभावमयमेवेति । तत्र मा
आ०-१ ] शिवदृष्टिः २३ निवासीनि शरीराणि गृह्णाति परमेश्वरः । विश्वरचनामयक्रीडास्वभावेन, दुःखरूपतया वेदयिष्यमाणानि नरके, अथवा दुःखं वेदयिष्यमाणं नरके येषु तानि मायात्मकनियतिशक्तिवशात् पापकर्मकारीणि इह शरीराणि गृह्णाति, तथा नरक एवार्णवः तत्कुक्षा- वगाधभीषणे निवासीनि सन्ति तत्कर्मफलैः संबन्धमागमिष्यन्ति । परमेश्वरो नरकेऽपि स एवास्ते, न तु तदतिरिक्तः कश्चिदस्तीत्यैक्यमेव स्थिरीकृतम् ॥ ३६ ॥ एतदेव लौकिकदृष्टान्तेनाह-- यथा नृपः सार्वभौमः प्रभावामोदभावितः ॥ ३७ ॥ क्रीडन्करोति पादातधर्मांस्तद्धर्मधर्मतः । तथा प्रभुः प्रमोदात्मा क्रीडत्येवं तथा तथा ॥ ३८ ॥ यथैश्वर्यचमत्कारवासितः सार्वभौमो राजा निरर्गलतया क्रीडया तल्लक्षणस्वभावापत्तेः पदातिसम्बन्धिचेष्टितानि आचरति, तथा परमेश्वरः पूर्णत्वात् स्वत आनन्दघूर्णितैस्तैर्भूतभेदात्मभिः प्रकारैरेवमेतत्सदृशं क्रीडति । हर्षानुसारी स्पन्दः क्रीडा ॥ ३७-३८ ॥ पूर्वोक्तशक्त्यादितत्त्वमुपसंहर्तुमाह-- इत्थं १ शिवो बोधमयः स एव परानिवृतिः २ । सैव ३ चोन्मुखतां याति सेच्छाज्ञानक्रियात्मताम् ४ ॥ ३९ ॥ सैव ५ शाक्तशरीरादिनारकान्तं ६ हि भूतता । प्रसूयते स्वचिद्रूपप्रमुखं पार्थिवान्तकम् ॥ ४० ॥ पदार्थत्वेन भगवान्सर्वत्रैव तदात्मता । कश्चिद्देवं निषिद्धाचरणेन स्वात्मानमज्ञानी नरके निमज्जयेदित्यतः क्रीड- येति । अज्ञानी हि चर्यैकायत्तभोगमोक्षोऽतस्तदुल्लङ्घनेनावश्यं नरकपात- मर्हतीति, तथा परमानन्दघनोऽपि कथं नरकादावास्त इति यत्केचन भ्रान्तास्तान्प्रत्यद्वयप्रतिपत्तिदार्थ्यार्थमाह क्रीडयेति । १ 'आत्मैव सर्वभावेषु' इति नयेन । २ निर्वृतचिदित्यादिना । ३ यदा तु तस्येत्यादिना । ४ तस्येच्छेत्यादिना । ५ कदाचित्स्थूलवेदनात् विद्यात्वे- त्यादिना । ६ क्रीडयेत्यादिना ।
२४ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ अनेनोक्तप्रकारेण शिवो भगवान् बोधमात्ररूपः पूर्णो निरपेक्षः आनन्दात्मा सदैव । तथा मायाशक्तिवशादात्माख्यातिः आनन्दातिरिक्त इव तत्त्वतामेति जगन्निर्माणेच्छाशिरूपेण स्थातुम् । तस्याः१ क्रियात्वात् तत्पूर्वभागात्मकोन्मुखतां याति । सा च क्रमेण इच्छाज्ञानक्रियात्मतां याति । एतावता निर्मातृत्वेन शाक्तशरीरप्रभृतिनारकशरीरान्तरूपं प्रसूयते२ स एव जायते । सा च भूतता भूतसर्गः । निजचिन्मात्ररूपशिवतत्त्वादिपार्थिव- तत्त्वान्तं रूपं पदार्थत्वेन तैस्तैरुच्यमानं भगवान् प्रसूयते । अतः सर्वत्रैव तदात्मता । युक्तिश्च वक्ष्यते ॥ ४० ॥ भूतसर्गे प्रमातृपञ्चकं निदर्शयन्नाह-- स्वशिवत्वमिवाजानन्पश्चात्मव्यपदेशतः ॥ ४१ ॥ तद्रूपत्वेन३ वा पश्यन्स्थितः शान्त४ इव क्वचित् । केवलेशदृढत्वेन५ क्वचित्केवलशंभुता ॥ ४२ ॥ अप्रबुद्धो६ निष्कलश्च क्वचित्प्रलयकेवली७ । आत्मबोधो विकलवत्क्वचिद्विज्ञानकेवली८ ॥ ४३ ॥ स्वशिवत्वमजानन्निव पश्चात्मव्यपदेशमासाद्य स्थितः । स्वरूपभेदा ख्यातिरेव हि मायाशक्तिकृता ग्राह्यग्राहकरूपसंसारात्मतया अवतिष्ठते । तत्र ग्राहकः पशुः पुर्यष्टकावच्छिन्नं चैतन्यम् । स एव परिमितत्वादणुः चैतन्यात्मतया नित्योऽमूर्तश्च९, विश्वात्मतात्यागेनाज्ञः, अस्वातन्त्र्यात् क्रियागुणरहितोऽनीश्वरश्च वेद्यपुर्यष्टकात्मनि भिन्न इव रागितया भोगोपायविचिन्तको, मायाकृतत्वात्१० मायोदरान्तःस्थः । स्वशिवत्वाज्ञानं १ तस्या इच्छायाः । २ स एव तादृशो जायते । ३ शुद्धशिवत्वेन । ४ ग्राह्यग्राहकक्षोभरहितः । ५ तत्तन्निर्माणचतुरस्तत्तदुपादाननिमित्तकारणा- न्युपादाय स्वतन्त्रं चतुर्दशविधभूतसृष्टिकारी क्लेशकर्मविपाकाशयैः स्वयम- परामृष्टोऽन्यांश्च तत्र योजयन् स्वकर्मानुसारेण फलदाता पुरुषविशेष ईश्वर इति । ६ स्वरूपबोधेन हि पशुत्वम्लानिः, तदभावे भिन्नग्राह्यशून्यतायामपि न पाशच्छेदः । ७ प्रलयाकलः कार्मणमलद्वयभाजनं, विज्ञानकलः स्वातन्त्र्यहानिरूपाणवमलभाजनम् । ८ स्वातन्त्र्यहान्या । ९ पशुर्नाम किल चिदचिद्रूपावभास एव। अचिद्रूपत्वं पुनर्मल- लक्षणम्, तद्रूपमप्याह अज्ञ इत्यादि । १० • अनेनास्या द्विरूपता साधिता । तथाहि तस्य च सृजतः परमेश्वरेच्छामयं, तत एव च नित्यं स्रक्ष्यमाणवस्तु-
आ०-१ ] शिवदृष्टिः २५ शिवभट्टारकस्यायुक्तं नित्यनिर्मलस्वभावत्वात् तद्विना १ मलानामेवा- नुतपत्तेस्तदधिष्ठानात्तेषाम् २ । ततस्तदज्ञानभागणुः तदैव मायाशक्तिवशात् उत्तिष्ठतीत्याणवमायामलद्वयोद्भवः ३ । कार्ममलश्च तत्प्रभवः ४ । स्वशिव- त्वमिवेति इवग्रहणं व्यपदेशग्रहणं च अज्ञानात्मकमेतत् न वस्तुतः कश्चित् ग्राह्यग्राहकभेद इति वक्तुम् । एतच्च ईश्वरप्रत्यभिज्ञायां निपुणं विवेचितम् । क्वचिन्महामायापर्यायविद्याशक्तिवशात्तद्रूपत्वेन ५ आत्मानं पश्यन् सर्वथा विश्वात्मतामनुगतः शान्त इव । अत्रापि इवशब्दो ज्ञानविशेषेण शान्तता, न तु वस्तुतः सार्वात्म्यविरह इति वक्तुम् । उत्तरत्रापीवशब्दस्तदर्थं योजनीयः । विद्याशक्तितारतम्यतश्च भेदात् क्वचिद्वैशेषिकादिमत- केवलेश्वरमात्रदृढाभिमानेन स्थितः, क्वचित् केवलशंभुसंज्ञा शिवभेदेन, क्वाप्यवस्थाभेदावस्थितविज्ञानमय एवाम्लानपशुभावः मायाख्यमलोप- स्थापितभिन्नग्राह्यशून्यः प्रलयकेवली भवति । अन्यत्र आत्मबोधी न तु पुर्यष्टकस्थः, प्रलयाकवलच्च ग्राह्यरहितः, कार्ममलास्पर्शी विज्ञान- केवलिरूपः ॥ ४३ ॥ इच्छावशेनैवमवस्थानमिति बहुतरवाद्युपेतदृष्टान्तमाह ६-- योगिनामिच्छया यद्वन्नानारूपोपपत्तित्ता । न चास्ति साधनं किंचिन्मृदादीच्छां विना प्रभोः ॥ ४४ ॥ गतस्य रूपस्य जडतयाभासयिष्यमाणत्वाज्जडं, सकलकार्यव्यापारादि- रूपत्वाच्च व्यापकं मायाख्यं तत्त्वमुपादानकारणं, तदवभासकारिणी च परमेश्वरस्य मायाशक्तिस्ततोऽन्यैवेत्याचार्य्याभिनवगुप्तपादाः । १ न च मलसम्बन्धेनेत्याह, तद्विनेति । २ परमेशेच्छामयत्वात् । ३ तदुक्तमीश्वर- प्रत्यभिज्ञायां-- 'स्वातन्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता । द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥ भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् । कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् ॥' इति । ४ मायोद्भवः । ५ शिवत्वेन । ६ बहुतरवादीति-- 'न दृश्यते त्वत्प्रतिभासशक्तेः स्वप्नेऽर्थवैचित्र्यनिमित्तमन्यत् । तद्वदृष्टसामर्थ्यतया सदैव विश्वप्रपञ्चप्रथनेकहेतुः ॥'
२६ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ तथा भगवदिच्छैव तथात्वेन प्रजायते । योगिनामिच्छामात्रेण¹ नानागृहादिरूपाणामुपपत्तिता क्रियात्मत्व- मासाद्यते इति शेषः । न च मृत्काष्ठादि तेषां तक्षादीनामिव किंचित्साधन- मस्ति परमेश्वरेच्छातिरिक्तम् । तद्रूपतापत्त्या हि ते² निर्मिमते । तथा भगवदिच्छामात्रमेव विश्वरूपत्वं संपद्यते ॥ ४४ ॥ दृष्टमुदाहरणमाह³-- दृश्यन्तेऽत्र तदिच्छातो भावाः कामादियोगतः ॥ ४५ ॥ तत्र मिथ्यास्वरूपं चेत्स्थाप्याग्रे सत्यतेदृशाम् । कामशोकभयादियोगाच्च ते ते भावाः पुरः⁴ स्फुरन्तो दृश्यन्ते । तत्र भगवदिच्छैव⁵ कारणं तावत्यंशे भावनावशादीश्वरतावेशात् । न च तत्र चौरादयो मिथ्यारूपा भान्ति-यतोऽग्रे सत्यत्वमीदृशानामवश्यं स्थाप- नीयम् ॥ ४५ ॥ इति भट्टदिवाकरवत्सोक्तनयेन यद्यपि स्वप्नसंकल्पकामशोकादिविषयपरि- दृष्टभावाभासनिर्माणसामर्थ्यं संविद एवानुभूयते, तथापि घटादेः प्रसिद्ध- मृदादिकारणपरम्परापराकरणेन तदत्रासत्यं घटादीति केचन विप्रति- पन्नास्तान्प्रति योगिदृष्टान्तेनेच्छानिर्माणं समर्थयति । १ योगी हि पुरसेनादि- निर्माणमिच्छावशादेव करोतीति सिद्धम् । तत्र हि तदिच्छया झटिति संघटिताः परमाणव उपादानमित्युच्यमाने यदि प्रसिद्धो घटसंपादकः समस्तकर्मशिक्षाधर्माधर्मदण्डादिसहकारिसहितः स्वोपादानोचितः कपालादि- कारणकलापोऽभ्युपेयते, तत्कुलालविशेष एवायं योगीत्यायातम् । अहो तर्हि तस्य योगिनो योगित्वमिति तत्र तदुल्लङ्घनमेवेत्याह इच्छामात्रेणोपपत्तिता क्रियात्मत्वमासाद्यत इति । २ योगिनश्च शरीरप्राणाद्यारूपितमपि चैतन्यं तावन्नैर्मल्यान्निर्मातृ स्वशरीरप्राणादिसहितप्रमात्रन्तरापेक्षया बाह्यत्वेन तस्यार्थस्य चित्तत्त्वमेव सर्वत्र निर्मातृ । ३ प्रत्यक्षसिद्धम् । ४ प्रत्यक्षत एवार्थक्रियाकारित्वात् । ५ भगवदिच्छेति, चित्तत्त्वं यतः स्वात्मरूपमहमित्यनन्यापेक्षप्रकाशविमर्शं ततस्तस्य यदाभासनं, तत्तावदुपपन्नं न प्रयत्नसाध्यं तदभेदिनश्च भावराशेः प्रकाशात्मकत्वादुपपन्नमाभासनमित्यर्थः ।
आ०-१ ] शिवदृष्टि: २७ एवमेतदप्यग्रे वक्ष्यते इत्याह-- एवं सर्वेषु भावेषु यथा सा शिवरूपता ॥ ४६ ॥ नीरूपता निर्वृतिर्वा शक्तित्रितययोगिता । सच्चित्त्वं संस्थितं नित्यं कथनीयं तथाग्रतः ॥ ४७ ॥ उक्तं तावत्-- 'पदार्थत्वेन भगवान्.........।' (४१) इत्यादिना तत्त्वभूतमुखेन सर्वस्य शिवरूपत्वम् । इदानीं यथा घटपटादिष्वपि भावेषु शिवता, तद्रूपत्वाच्च १ परिमितरूपैर्नीरूपत्वं, निर्वृति:२, इच्छादि- योगिता, सच्चित्त्वमजडत्वं च सम्यगेव स्थितमुपपन्नम् ३, तथाग्रतोऽवश्यं कथनीयम् ॥ ४७ ॥ एवं स्थिते ४ यद्ब्रूवति, तदाह-- एवं सर्वपदार्थानां समैव शिवता स्थिता । परापरादिभेदोऽत्र ५ श्रद्धानैरुदाहृतः ॥ ४८ ॥ परमशिवात्प्रभृति घटाद्यन्तानामपि पदार्थानां समैवान्यूना अनति- रिक्ता च शिवता पूर्णचिद्रूपानतिरेकान्नियता ६ सर्वेषां तथा सामरस्या- सादनात् कापि स्थिति: ७ स्यादित्यर्थः । एवं च सर्वस्य शिवरूपसामरस्यात् तदख्यातिमयशुद्धयशुद्धिरूपपरापरादिभेदो भावानामुक्तः । तत्र श्रद्धा- मात्रेणोपपत्तिरहितेन जन्तूनां, न तु वस्तूनां शुद्धिरशुद्धिर्वा काचित् ॥ ४८ ॥ एवं सर्वेषां सत्यत्वमाह--
१ तत्र सर्वेषां भावानां तथा शिवता भवति, यदि तद्धर्मयोगस्तत्रापि भवति, नान्यथा,-इत्यतः सर्वं तत्समर्थकं समर्थयति तद्रूपत्वादिति । २ कर्माविच्छिन्ना औन्मुख्यरूपा । ३ युक्त्यानुभूतम् । ४ सर्वपदार्थानां सर्व- शक्तिसंपूर्णशिवत्वे स्थिते । ५ ननु यदि संपूर्णैव तेष्वपि शिवता, तत्कि- मित्यागमेषु परापरादिभेदो नियमेन कथ्यत इत्याशङ्क्याह परापरेत्यादि । ६ सर्वस्य पदार्थजातस्यावश्यंभाविनी । ७ ननु च भवतु सर्वत्र पूर्णशिव- तत्त्वोपयोगस्तथापि स्वात्मनि स्थितत्वात्कश्चमत्कारातिशय इत्यत आह स्थितिरिति । योगिनो हीदृशी यदि स्थितिस्तदा सर्वचमत्कार एवेत्यर्थः ।
२८ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ एवं भेदात्मकं नित्यं शिवतत्त्वमनन्तकम् । तथा तस्य व्यवस्थानान्नानाऽरूपेऽपि सत्यता ॥ ४९ ॥ उक्तक्रमेण १ भेदात्मकं, न तु २ भावभेदपृथग्भूतम् । भेदा अपि तदात्मकाः ३, अत एव तदनन्तकं भिन्नार्थसद्भावे सति अन्तः स्यात् तद्रूपाना- क्रमणात् । एवं व्यवस्थानात्स्वभावत्वात् तस्य परमेश्वरस्य नानारूपेऽपि विश्वस्मिन् सत्यतैवेति ॥ ४६ ॥ इति श्रीशिवदृष्टौ श्रीमदुत्पलदेवप्रभुपादनिर्मितायां वृत्तौ प्रथममाह्निकम् १ रूपप्रसाररसत् इत्यादिना । २ अनेन न तेषां स्वकीयं रूपं किंचिदिति द्योतितम् । ३ ननु भेदोऽपि भाति, किं चात्र शरणमित्याह तदात्मका इति ।
अथ द्वितीयमाह्निकम् ईश्वराद्वयवाद¹ एव युक्तियुक्तो², न तु शब्दपरब्रह्माद्वयवाद इति वक्तुं, वैयाकरणोपेतशब्दाद्वैतं तावन्निराकर्तुमुपक्रममाण आह-- अथास्माकं³ ज्ञानशक्तिर्या सदाशिवरूपता । वैयाकरणसाधूनां पश्यन्ती सा परा स्थितिः ॥ १ ॥ पश्यन्ती यद्यपि⁴ नादरूपतया विश्वमामृशन्ती क्रियाशक्तिरूपतया समन्विता, तथापि पश्यन्ती इति दर्शनप्राधान्यात् उपचारिज्ज्ञानशक्ति- रूपत्वेऽप्याश्रीयमाणे⁵ परमशिवरूपताया अत्यन्तदूरवर्तिनी न तु पर्यन्त- १ तदेवमियता सर्वशासनार्थसंक्षेपार्थसूचकेन पीठिकाबन्धरूपेणो- पोद्घातपरेणानेन प्रथमाह्निकेन परमेश्वर एक एव तावत् स्वरूपप्रसारेण परापरादिरूपतया भासते, तथात्वेऽपि न खण्डितव्यपदेशव्यवहार्यः । तथाहि-परावस्थायां तावत्पूर्णानन्दस्वभाव एव, परापरायामपि रूपप्रसार- रसादेव न काचन विकल्पकलङ्ककल्पना, अपरावस्थायां पुनः प्राकृतप्रजा- यामपि च तस्य सहजप्रकाशबोधोऽस्तीत्यपि समर्थितम्। तदेतत्त्रिधात्व- मप्यन्यवादिमतेऽनुपपत्त्या समर्थितमपि शिथिलितमिव भाति । तस्मिन् हि निरसिते सर्वमिदं मेघावरणविगमेनेव स्वप्रकाशभानुकिरणवृन्दमत्यन्तस्वच्छं भासते नान्यथा, पांसुपातेन हि न मणेर्महार्घतापगच्छति, परं मलिनो भाति । तत्र प्राधान्येनेह परब्रह्माद्वयवाद एव निरसनीयः, प्रसङ्गागतस्य च शब्दब्रह्माद्वयवादस्य निरसनं तावत्तण्डुलशुद्धाविव कणनिरसनमिति तन्निरा- सनायाह न शब्दब्रह्मेत्यादि । २ अनुभवानुवर्ती सत्तर्कप्रकारो युक्तिः । ३ अथेति स्वसिद्धान्तकथनानन्तरं परप्रक्रियारम्भे । ४ ज्ञानशक्तौ हीच्छायां यद्बीजतयावस्थितं तदेव विकसितं, ततश्चात्रामर्शासंभवात् कथं ज्ञान- शक्तित्वमिहाप्युक्तं ज्ञानदर्शनयोग्यतेत्यत्र योग्यतेति, ततश्च कथमुक्तं ज्ञान- शक्तिः पश्यन्तीति मत्वाह् यद्यपीति । ५ अपिशब्दोऽत्रोपरोधेनैव ज्ञान- शक्तित्वं न तु वस्तुत इति द्योतयति ।
३० उत्पलदेवकृतवृत्त्योपेता [ आ०-२ दशासौ ज्ञानशक्तेः सदाशिवरूपत्वात् परापरव्यवस्थात्र । तेषां पुनः सा परावस्था मता । सदाशिवरूपत्वे¹ च क्रियाशक्तिरपि न परित्यक्ता । यदुक्तं-- 'ज्ञानक्रिये सादाख्यम्' इति । शक्तिशक्तिमतोरभेदात्² ज्ञानशक्तिमान् सदाशिवः, उद्रिक्तक्रिया- शक्तिरीश्वर इति । अत³ एवेच्छाशक्तिमयः शिवो यावच्चित्स्वातन्त्र्य- शक्तिमान् पर्यन्ते परमशिवः । अत्रान्तरे चौन्मुख्यनिवृत्त्यपेक्षयाधिकतत्त्व- संभवः । तदस्तु, मा वा भूत्, नैतदिह मुख्यवृत्त्या प्रतिपाद्यम्, अत एवाधिकशक्तिप्रदर्शने कृतेऽप्युक्तं 'षट्त्रिंशत्तत्त्वरूपतां बिभ्रत्' इति । शिवभेदतात्पर्यं⁴ तु न खण्ड्यत इति नियमः । मायोत्तीर्णेऽप्यध्वनि⁵ विद्योन्मेषेऽपि कार्ममलानुल्लासात् संसारासंपर्केऽपि परमेश्वरऽभेदाख्यातेः सर्वथैवाविच्छेदादागमावगतेश्वरेच्छावशोत्यपरापरदशाव्यपदेश्योक्ततत्त्वोप - गमः⁶ । वैयाकरणसाधूनामिति साधुग्रहणमेषां⁷ जाड्यख्यापनाय । परमपि हि रूपं यदि पश्यन्त्याः यदुक्तं-- 'प्रतिलब्धसमाधाना⁸ च ।' इति, 'विशुद्धा९ च ।' १ ननु यदि भवद्भिः पश्यन्त्या नादशक्तिरूपतया क्रियाशक्तिरेवाभ्यु- पगता येन यद्यपीत्याद्युक्तं, सूत्रकारेण कथं ज्ञानशक्तिः सदाशिवरूपतेति महानयं स्वकटकक्षोभः संपन्न इत्याशङ्क्याह सादाशिवरूपत्वे चेतिः ज्ञान- शक्तियोग्यता क्रियाशक्तिप्रारम्भः सदाशिवत्वमित्यर्थः । २ ननु ज्ञानशक्तिः सदाशिवतेति कोऽयं निर्देश इत्यत आह शक्तीति । ३ प्रसङ्गागतमाह अत एवेति । ४ ननु किं तर्हि अत्र प्रतिपाद्यं सर्वथा हि निःशेषतः कथिते प्रकृतं साध्यं सिद्ध्यत्यत आह शिवाभेद इति, सर्वथा हि शिवाभेदतात्पर्यमिह साध्य- मिति नियमः । तच्च, अस्तु वाधिक्यं मास्तु वा, न खण्ड्यत इत्यर्थः । ५ ननु व सर्वत्र हि मायाया उच्छेद एवाङ्गीकृतः, स च ज्ञानशक्ता- वप्यस्ति ततोऽलमनेन ज्ञानशक्तिरस्माकं तेषां परा स्थितिरिति शङ्कित्वाह मायोत्तीर्ण इति । ६ तेन नात्र परतत्त्वस्थितिरित्यर्थः । ७ यथा लौकिकेऽपि अत्यन्तमूर्खेऽपि साधुरयमिति । ८ केवलशब्दार्थरहितस्वरूपसमाहितिः । ९ ग्राह्यग्राहककल्लोलरहिता ।
आ०-२ ] शिवदृष्टिः ३१ इति, 'प्रशान्तप्रत्यवभासा १ च ।' इति, अन्यद्वा अपि अतोऽधिकतरं प्रकृष्टरूपमस्याः स्यात्; तथापि सरो २ रस इति मध्यमायामुन्मिषतः क्रमस्य कारणभूतायां तत्क्रमशक्तिरस्त्येव । यदुक्तं-- 'प्रतिसंहृतक्रमाप्यन्तः सत्यपि अभेदे समाविष्टक्रमशक्तिः पश्यन्ती ।' इति । ततो न सा पूर्णा ३ पर्यन्तदशेति कथं तस्याः परस्थितिरूपता, परब्रह्मरूपता, शब्दब्रह्मरूपता ॥ १ ॥ तथा ४ च त एवमाहुरित्याह-- इत्याहुस्ते परं ब्रह्म यदनादि तथाक्षयम् ५ । तदक्षरं ६ शब्दरूपं सा पश्यन्ती परा ७ हि वाक् ॥ २ ॥ यदनादि अनन्तं च परं ब्रह्म चिद्रूपं तदक्षरं निर्विकारं शब्दरूपम् । सैव च पश्यन्तीसंज्ञा परा वाक् । वाग्रूपतां ८ विना परब्रह्माख्यश्चित्प्रकाशो- ऽपि न प्रकाशेत । सा हि प्रत्यवमर्शिनी । प्रत्यवमर्शनमेव ९ च प्रकाशन- मुच्यत इत्याहुस्ते ॥ २ ॥
१ गलितबाह्यविकल्पावभासा । २ तथापीति मूलभूतत्वात्तस्या यदि तस्यां सूक्ष्मक्रमकलना न स्यात् तर्हि सरो रस इत्यत्र क्रमस्मरणे निमित्ताभावादुत्क्रमेण स्मरणं मन्तव्यं, तत्र हि एकस्मृत्यूपारूढानां वर्णानामर्थावबोधकत्वमुक्तं, तच्च सति कारणे तादृक्प्रतिभासे भवति नान्यथेत्यर्थः । ३ अन्तःसमाविष्टक्रमत्वात् । ४ ननु च पश्यन्ती तादृश्यस्तु तस्याः कथं तत्र विवादः, ततोऽन्यापि काचिदस्त्यक्रमा इत्यत आह एवमिति, पश्यन्त्या एव परब्रह्मशब्दब्रह्मरूपतेत्यर्थः । ५ अक्षयमन्तरहितम् । ६ अक्षरं- कल्पनोज्झितम् । ७ सर्वतः पूर्णत्वात्सूक्ष्मा । ८ ननु वाचः प्राणस्पन्दात्मक- त्वात्कथं शब्दरूपमेव परं ब्रह्मेत्यत आह वाग्रूपतामिति । 'वाग्रूपता चेदुत्क्रामेद्वोधस्य शाश्वती । नप्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥' इति भर्तृहरिपादाः । ९ यद्यपि परं ब्रह्म चित्प्रकाश एवाभ्युपगतस्तथा चात्र कथं शब्द- रूपता, तथात्वे हि तत्प्रकाशतैव न कथंचन सिध्यति इति कैवोक्तिर्वाग्रूपतां