भारतकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४५ सत्या वा स्यादसत्या वा न मध्यायाः१ समन्वयः । विद्या२ न भवतीत्येवं तत्तुल्या काचिदापतेत् ॥ ३४ ॥ सत्यैव यदि विद्यानामभावस्तर्हि३ शून्यता । शून्यया बाध्यते चित्रं पश्यन्ती दर्शनात्मिका । ३५ ॥ सत्या सति सत्ये साधुः सती वा स्यादविद्या, असत्या तद्विपरीता वेत्यर्थः । न मध्यायाः संभवः सदासतोः परस्पराभावरूपत्वान् न तृतीय- राशिसंभवो यतः । तथा हि इयमविद्या विद्या न भवति,-इत्येवं विद्यापर्यु- दासेन४ समस्तविश्वात्मतया प्रथमाना न प्रतिषेधमात्ररूपा, अतश्च विद्या- सदृशी काचिद्विश्वात्मिका स्यादविद्या सत्यैव, अतश्च नानिर्वाच्यत्वं, नाप्यद्वयम् । विद्यानां सम्यग्ज्ञानानामभावः प्रसज्यप्रतिषेधोऽपि५ यद्यविद्या, तत् सा शून्यता निवृत्तिमात्रं न किञ्चिदिति यावत् । ततश्च शून्यया नीरूपया पश्यन्ती नाम सम्यग्ज्ञानात्मकः पक्षो बाध्यते इति चित्रम् । सम्यग्दर्शन- १ मध्याया इति--सदसदुभयात्मिकायाः-- ‘असत्त्वे च निषिद्धेऽस्याः सत्त्वमेव बलाद्द्भवेत् । सदसद्व्यतिरिक्तो हि राशिरत्यन्तदुर्लभः ॥’ इति । २ सत्या वासत्या वा इति पक्षद्वयामाशङ्क्य निरस्यति विद्या नेत्यादिना सत्यतापक्षं, यदीत्यादिनासत्यतापक्षम् । ३ प्रतिषेधपक्षमाश्रित्याह-तर्हीति । ४ 'प्राधान्यं तु विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयः क्रिया सह यत्र नञ् ॥' इति पर्युदासलक्षणम् । तथाचान्यत्र ‘नञ्युक्तं यत्, तदन्यस्मिंस्तत्सदृशे संघटते’ यथा-अब्राह्मणमानयेति वाक्ये ब्राह्मणसदृशस्तत्तुल्योदरपाणिपाद- नयन एवानीयते, नाश्वो न वा गर्दभ इति । ५ प्रतिषेधमात्रप्रधानः प्रसज्यप्रतिषेधः । तथाचोक्तं-- ‘अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽसौ यत्रोत्तरपदेन नञ् ॥’ इति । तथा-अश्राद्धभोजी ब्राह्मणः श्राद्धे न भुङ्क्ते इत्यर्थः । उक्तं च वृद्धैः ‘अभावे स्वल्पभावे च सादृश्ये च विपर्यये । कुत्सायामपि नञ् ज्ञेयो रिष्टादौ च शुभोक्तिषु ॥’ इति ।

४६ शिवदृष्टिः [ आ०-२ बाधेनैव द्वैतभ्रान्तिः, अकिञ्चिद्रूपस्य बाधनशक्त्यभावान्न संभवत्येतदित्यर्थः । पश्यन्ती च नेश्वरप्रत्यभिज्ञोक्तन्यायेन शब्दनात्मिका परमेश्वरशक्तिरिष्यते भवद्भिरीश्वरोपगमप्रसङ्गात्१, अपि तु सूक्ष्मो वाच्याभेदेन स्थितो वाचकः शब्द इत्येवं शब्दात्मासौ ॥ ३५ ॥ इन्द्रियत्वाभावेऽपि पाण्यादि२ यथा पार्थिवत्वान्न परमार्थः, तथा वायवी वागपीत्याह-- पाण्यादेश्चेद्धराद्यात्मा३ वाचो वाय्वात्मता न किम् । सिन्धुशब्दादिवच्छब्दो न पश्यन्त्यादिके४ भवेत् ॥ ३६ ॥ न शब्दमात्रं पश्यन्तीमध्यमादौ स्थातुमुत्सहते समुद्रघोषादिरिव तथा तत्रादर्शनात् ॥ ३६ ॥ न पश्यन्त्याः सत्यभूताया अविद्यया बाधनम्५, अपि तु मध्यमाया इत्याह-- अथ मध्यमया बाह्या७ भावा ग्राह्या ह्यविद्यया । तस्या एव हि संयोगो बुद्ध्या संकल्पनात्मना ॥ ३७ ॥ मध्यमाख्यया वाचा बाह्यत्वेन भेदेनाभास्यमाना भावा अविद्यावशात् ग्राह्याः । तस्या एव संकल्पनात्मना अर्थावसायरूपया८ १ भवतां हि नेश्वरोपगमः अविद्यावादकल्पनात् । २ इत्थं वाच इन्द्रियत्वमभ्युपगम्य परवादिमतं निरस्तम् । अथेदानों कारणानुगमतया तदेव निरस्यति पाण्यादेरित्यादिना । ३ धरादितत्त्वं पाण्यादेरात्मा स्वभावो न ब्रह्मतयाभ्युपगम्यते, तथा वागपीति । ४ पश्यन्त्यादित इति पश्यन्ती आदिः प्रधानं यस्येति सार्वविभक्तिकस्तसिल् । ५ अविद्याकर्तृका बाधा न पश्यन्तीविषय इत्यर्थः, ततश्च न पश्यन्त्यां काचित् क्षतिः । ६ तदेवं पश्यन्त्यां न कथंचनापि ह्यविद्यायोग इति समर्थितं द्वैतप्रथा चाभासमाना कथं सिद्धेत्यर्थानुरोधेन यतो द्वैतप्रथा मध्यमायामेवाभासते, ततोऽस्या एव तद्योगे न काचनानुपपत्तिर्नाम, तस्याः स्वरूपज्योतीरूपत्वादस्याश्च स्फुटमेव संजल्परूपत्वादित्याह पूर्वपक्षमा- शङ्कमानत्वेनाथेत्यादि । ७ बाह्यत्वेन भास्यमानाः । ८ पश्यन्त्यां हि स्वरूपज्योतीरूपायां सर्वात्मनार्थोऽपि तन्मय एवेत्यतो मध्यमायां पदार्था- वसायरूपत्वेनान्तःसंजल्पाकारेणावश्यमविद्यायोग इत्यर्थः ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४७ बुद्ध्या सम्बन्धोऽन्तःकरणे प्राणापानपथे तस्या एवावस्थानात्, न तु पश्यन्त्याः१ ॥ ३७ ॥ इतदपि२ नेत्याह— तत्रापि मध्यमा कस्य कार्यं पश्यन्त्यवस्थया। सा जन्या३ हेतुना केन शबलां जनयेदसौ ॥ ३८ ॥ तत्रापि मध्यमाया बुद्धिपदे वेद्यवेदकद्वैतावभासिनि स्थिताया अविद्या- योग इत्यभ्युपगमे मध्यमा४ वाक् कदाचिद्भावात् कार्यभावात्-- 'वाच एव च पूर्वस्याः सा कार्या स्यात्...।' इति न्यायेन अन्यकारणाभावात्५ पश्यन्त्यवस्थयैव६ सा जन्या प्राप्ता७। एवं च सति केन हेतुना तां मध्यमां शबलां भिन्नग्राह्याच्छुरितामसौ८ शुद्धस्वभावा९ सती जनयेत् ॥ ३८ ॥ न कथञ्चित्तज्जननं१० युक्तमित्याह-- नहि तस्या११ निमित्तं वा कारणं समवायि१२ वा। निमित्तत्वे१३ पृथक्त्वं स्यात्समवाये तदात्मता ॥ ३९ ॥ असावित्यनुवर्तते। असौ पश्यन्ती तस्या१४ निमित्तमात्रं१५ कारणं १ नत्विति तदुत्तीर्णस्वरूपायाः। २ इत्थं पश्यन्त्यसमर्थनया संकु- चितेन प्रतिवादिना मध्यमाकृत एवायमविद्यावाद इति गृहीतं, तदसहमान आह एतदपि नेति। ३ व्यतिरिक्तकारणाभावात्। ४ अत्रेत्थं व्याप्तिः- मध्यमा वाक् कादाचित्कावभासमयीत्यात् कार्यैव। यत्किंचित्कादाचित्का- वभासमयं नास्ति, तत्कार्यमपि नास्ति। अस्ति चेयं कादाचित्कावभासा- भावा पश्यन्ती, न ततः कार्यरूपेति। मध्यमा पुनः कादाचित्कावभासा, ततश्च कार्यरूपेत्यर्थः। ५ भवद्भिरपि द्वैतवादाभ्युपगमानभिमतत्वात्। ६ नत्वविद्यया। ७ भवदनभिमतावपि बलादेवायाता। ८ कृतोपरागाम्। ९ शुद्धस्वभाववत्त्वमेवात्राभेदे हेतुः। १० इत्थं तत्कार्यता न कथंचन मध्यमाया युक्ता, तत्कार्यत्वे कारणसदृशं कार्यमिति नीत्या विलक्षण- स्वभावतानुपपत्तिः, तदकार्यत्वे कारणान्तरं कथनीयं, न च तदिष्टं तदभावा- देव, द्वैतापत्तिर्हि तथा स्यादिति। ११ तस्यः-मध्यमायाः। १२ पश्यन्ती। १३ तद्बाधामाह-निमित्तेति। १४ तस्याः-कार्यत्वेन पूर्वप्रक्रान्तायाः। १५ यत्कार्यसिद्धौ बहूपकारकमसंबद्धं च, तन्निमित्ताख्यं कारणं यथा पटोत्पत्तौ वेमादि।

विजातीयम्१, नापि समवायिकारणं सजातीयतयाविभागेन वा स्थितं, निमित्तमात्रत्वे द्वैतापत्तिः२, समवायित्वे३ तु क्षीरस्येव दध्युपादान- कारणत्वे सति उपादानोपादेययोरेकप्रवाहरूपत्वेनाभिन्नयोगक्षेमता४ प्राप्ता, कालभेदेऽप्यन्यथात्वातथात्वं५ न स्यात् । पटं प्रति तन्तूनामिव वा समवायित्वे पश्यन्तीमध्यमयोस्तन्तुपटवदभिन्नात्मता६ भेदेना- प्रथनात् ॥ ३६ ॥ ततश्च दोषमभिधाय द्वये७ पश्यन्तीतवमप्यनुपपन्नमित्याह-- तथाप्यविद्यया८ योगः पश्यन्त्यात्मानमेव चेत् । अन्धमूकं जगद्बाह्ये सर्वमेव भविष्यति९ ॥ ४० ॥ इन्द्रियादेर्मनोवृत्तेः१० सर्वस्या एव लोपिता । पश्यन्त्या मध्यमाया सहैकयोगक्षेमत्वेन ऐक्येन वा मध्यमाया इवाविद्यायोगदोषः शुद्धताहानेः । अथ शुद्धैव पश्यन्ती यतो न भेदेनार्थान् पश्यति अपि त्वात्मरूपान् ततो नाविद्यायोगदोषस्तस्या इति । एवं सति मध्यमाया अपि तदभेदात्, तथात्वे बाह्ये भिन्नेऽर्थजाते अन्धमज्ञम् अश्रवणाच्च उच्चाराद्यव्युत्पत्तेः मूकमपि सर्वमेव जगत् भविष्यति११ १ कार्येणासदृशम् । २ कार्यकारणयोः पृथक्स्थितत्वात् । ३ यत्कार्योत्पत्तौ नित्यमेव संबद्धं तत् समवायिकारणं-यथा घटोत्पत्तौ मृत्तिका, दध्न वा क्षीरम् । ४ स्वरूपेण स्थितियोगः, अर्थवत्तया स्थितिः क्षेमः । ५ द्वन्द्दान्ते श्रूयमाणः शब्दः प्रत्येकमभिसंबध्यत इति शासनेनान्य- थात्वं तथात्वं न स्यात्, क्षीराद्दध्नो नान्यथात्वं, नापि तथात्वमित्यर्थः । तथा पश्यन्त्या मध्यमाया नान्यथात्वं, नापि तथात्वमित्यर्थः । ६ तन्तु- पटयोरुभयोरऽपि कार्योत्पत्तावपि न स्वरूपान्यथाभावोऽत्र । पूर्वत्र तु कार्योत्पत्तौ स्वरूपान्यथाभावः परिणामभावेनास्त्येवेत्यनयोर्विशेषः । ७ द्वये-पूर्वोक्ते पक्षद्वयेऽपि । ८ तथापीति, समवायित्व इत्यर्थः । तथा च पश्यन्त्याः शुद्धताहानिः । यदि च पश्यन्त्याः शुद्धत्वमेव, तर्हि तेनापि प्रकारेण दोषमाह । ९ भवन्मताश्रयणे । १० प्रत्यक्षबाधामस्यार्थस्याह- इन्द्रियादेरिति । ११ तदेवं पश्यन्तीमध्यमोभयमुख्यगौणभावेन संबन्धो योज्यः, यदि चैक्ये पश्यन्तीमाहात्म्यमेव पोस्फुरीति, तर्ह्यविद्याकालुष्ये भेदप्रथाया- मपि सर्वत्र तज्ज्योतिर्भावात् कथं व्यवहारोपपत्तिः । अथाविद्यामाहात्म्यान्न पश्यन्ती स्वरूपमहो रूपा वरीवर्ति, किंतु मध्यमा, तत्पश्यन्त्याः स्वरूप- प्रच्युतेर्न तथात्वमित्युभयथापि दोषाभ्युच्चयः ।

४८ | शिवदृष्टिः | [ आ०-२

विजातीयम्¹, नापि समवायिकारणं सजातीयतयाविभागेन वा स्थितं, निमित्तमात्रत्वे द्वैतापत्तिः², समवायित्वे³ तु क्षीरस्येव दध्युपादान- कारणत्वे सति उपादानोपादेयोरेकप्रवाहरूपत्वेनाभिन्नयोगक्षेमता४ प्राप्ता, कालभेदेऽप्यन्यथातथात्वं⁵ न स्यात् । पटं प्रति तन्तूनामिव वा समवायित्वे पश्यन्तीमध्यमयोस्तन्तुपटवदभिन्नात्मता⁶ भेदेना- प्रथनात् ॥ ३६ ॥ ततश्च दोषमभिधाय द्वये⁷ पश्यन्तीत्वमप्यनुपपन्नमित्याह-- तथाप्यविद्यया⁸ योगः पश्यन्त्यात्मानमेव चेत् । अन्धमूकं जगद्बाह्ये सर्वमेव भविष्यति⁹ ॥ ४० ॥ इन्द्रियादेर्मनोवृत्तेः¹⁰ सर्वस्या एव लोपिता । पश्यन्त्या मध्यमया सहैकयोगक्षेमत्वेन ऐक्येन वा मध्यमाया इवाविद्यायोगदोषः शुद्धताहानिः । अथ शुद्धैव पश्यन्ती यतो न भेदेनार्थान् पश्यति अपि त्वात्मरूपान् ततो नाविद्यायोगदोषस्तस्या इति । एवं सति मध्यमाया अपि तदभेदात्, तथात्वे बाह्ये भिन्नेऽर्थजाते अन्धमज्ञम् अश्रवणाच्च उच्चाराद्यव्युत्पत्तेः मूकम्पि सर्वमेव जगत् भविष्यति¹¹


१ कार्येणासदृशम् । २ कार्यकारणयोः पृथक्स्थितत्वात् । ३ यत्कार्योत्पत्तौ नित्यमेव संबद्धं तत् समवायिकारणं-यथा घटोत्पत्तौ मृत्तिका, दध्नि वा क्षीरम् । ४ स्वरूपेण स्थितियोगः, अर्थवत्तया स्थितिः क्षेमः । ५ द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकमभिसंबध्यत इति शासनेनान्य- थात्वं तथात्वं न स्यात्, क्षीराद्दध्नो नान्यथात्वं, नापि तथात्वमित्यर्थः । तथा पश्यन्त्या मध्यमाया नान्यथात्वं, नापि तथात्वमित्यर्थः । ६ तन्तु- पटयोरुभयोरऽपि कार्योत्पत्तावपि न स्वरूपान्यथाभावोऽत्र । पूर्वत्र तु कार्योत्पत्तौ स्वरूपान्यथाभावः परिणामभावेनास्त्येवेत्यनयोर्विशेषः । ७ द्वये-पूर्वोक्ते पक्षद्वयेऽपि । ८ तथापीति, समवायित्व इत्यर्थः । तथा च पश्यन्त्याः शुद्धताहानिः । यदि च पश्यन्त्याः शुद्धत्वमेव, तर्हि तेनापि प्रकारेण दोषमाह । ९ भवन्मताश्रयणे । १० प्रत्यक्षबाधामस्यार्थस्याह- इन्द्रियादेरिति । ११ तदेवं पश्यन्तीमध्यमोभयमुख्यगौणभावेन संबन्धो योज्यः, यदि चैक्ये पश्यन्तीमाहात्म्यमेव पोस्फुरीति, तर्ह्यविद्याकालुष्ये भेदप्रथाया- मपि सर्वत्र तज्ज्योतिर्भावात् कथं व्यवहारोपपत्तिः । अथाविद्यामाहात्म्यान्न पश्यन्ती स्वरूपमहो रूपा वरीवर्ति, किंतु मध्यमा, तत्पश्यन्त्याः स्वरूप- प्रच्युतेर्न तथात्वमित्युभयथापि दोषाभ्युच्चयः ।

२. तृतीय-चतुर्थ आह्निक: शक्ति-विमर्श, शब्द-ब्रह्म एवं व्याकरण-दर्शन मत निराकरण

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४६ यदि तन्मतमाश्रयिष्यति, न तु¹ इदानीमेवमस्तीति प्रत्यक्षविरुद्धता- मस्योपगम्याह--चक्षुरादि² इन्द्रियमादिः प्रवर्त्तको यस्यास्तस्या मनोवृत्तेः सर्वस्याश्चक्षुरादिसहिताया³ भिन्नार्थविषयाया विलोपिता अनुपयोगिता च प्रत्यक्षविरुद्धापि भविष्यति ॥ ४० ॥ पुनरन्यत्पर्यालोचयन्नाह⁴-- पश्यन्ती किं शरीरेऽन्तर्बहिः सर्वत्र वा स्थिता ॥ ४१ ॥ अन्तरव्यापिता तस्या बाह्ये किं मध्यमादिना⁵ । पश्यन्ती किं शरीरेऽन्तरहन्ताभूमौ, किंवा बहिरपीति सर्वत्र स्थिता । पूर्वस्मिन्कल्पे⁶ परिमितत्वं, द्वितीयस्मिन् मध्यमायां कक्ष्या- यामिदन्तावेद्यमध्यमपि व्याप्त्यवस्थानात्⁷ किं मध्यमावैखरीरूप- वाक्प्रभेदेन ॥ ४१ ॥ प्रसरेन्नादबिन्द्वादिसापेक्षा चेदनीश्वरी⁸ ॥ ४२ ॥ पश्यन्ती अनुवर्तमाना प्राणापानरूपबिन्दुनादसापेक्षा चेत् सर्गसंहारयोः प्रसरेत्, तर्हि तथापि न व्यापिका नाप्यद्वया स्यात् । एतदनीश्वरत्वम् ॥ ४२ ॥ प्रतिदेहं पृथक्किं सा सर्वत्रैक्येन वा स्थिता । १ प्रत्यक्षावभासे अन्धमूकबधिरम् । २ चक्षुरादिना दृष्टमेव हि मनसा संकल्पगोचरीकरोति । ३ 'कादीनि व्यञ्जनानि' इतिवत् तद्गुण- संविज्ञानबहुव्रीह्याश्रयेण चक्षुषोऽपि ग्रहणम् । ४ इत्थमविद्यावादकथन- निरासपूर्वं मध्यमायास्तत्कार्यत्वं निवार्य, इदानीं पश्यन्तीमेव-- 'अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तःसूक्ष्मा वागनपायिनी ॥' इति लक्षणे यदेतत्स्वरूपज्योतिरेवान्त इति भागद्वयं, तत्र दोषोद्भावनाया- वतारयति पुनरन्यदित्यादिना । ५ तस्यापि तत्स्वरूपत्वेनाप्रच्युतेः । ६ कल्पे-प्रकारे । ७ अन्यत्राप्यनुसरणं व्याप्तिरिति । ८ ननु सत्यमेवैतन्मध्य- मादिष्वपि पश्यन्तीव्याप्तिरस्तीति, संजल्पादिसापेक्षत्वात्पश्यन्त्या अपि परं मध्यमादिव्यपदेशः, अत एवास्याः सापेक्षत्वाद्धेतोर्मध्यमेति निर्देशः न तु स्वरूपेण, पश्यन्त्यां तु स्वरूपेण स्फुटमस्त्येवेति शंकापूर्वं निरस्यति अनी- श्वरीत्यादिना । ४

५० शिवदृष्टिः [ आ०-२ नानात्वं तत्पृथक्त्वेन तदैक्यात्समशब्दता १ ।। ४३ ।। शरीरैः प्रविभागश्चेत्तान्यसत्यानि ते स्थितिः २ । सा च पश्यन्ती प्रतिदेहं पृथग्भूता वा स्यात् सर्वदेहेष्वेकैव वा। पृथक्त्वे बह्व्यः पश्यन्त्यः स्युः, ततश्च नाद्वैतम्, ऐक्ये सति सर्वदेहि- नामेकपश्यन्तीयोगादेकत्रापि वक्तरि तत्पूर्वकप्रयत्नप्रेरितप्राणाभिहत- स्थानोत्थितः शब्दविशेषो यः, स एव सर्वेष्वपि तूष्णीमासीनेष्वपि उच्च- रितः स्यात्, अन्यथा क्वचित्तादृशकार्याकरणात् तस्य स्वभावभेदापत्ते- रैक्यं न स्यात् । अथैकत्वेऽपि शरीरोपाश्रयः प्रविभागः स्फटिकस्येवेति ३ । तन्न, तान्यसत्यानि इति तव दर्शने ४ व्यवस्था । न चासत्यमकिंचिद्रूपं क्वचिदुपयोगि भवतीत यावत् ।। ४३ ।। अविभागेत्यादिकेन ५ लक्षणेन सुलक्षिता ।। ४४ ।। पश्यन्ती यदि वर्ण्येत लक्षणं तद्विलक्षणम् । पश्यन्ती च-- 'अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।।' इत्यादिना लक्षणेन सुष्ठु अव्याप्त्यतिव्याप्तिपरिहारेण ६ लक्षिता यदि उच्येत, तल्लक्षणमेतद्विलक्षणमतिशोभनमित्युपहासः ७, यतो विलक्षणं लक्ष- णस्य यल्लक्षणं तद्विग्मात् ।। तदाह-- अविभागा कथं सा स्याद्यतः पश्यन्त्यसौ स्मृता । ४५ ।।


१ सत्यमेवैतदैक्यमेव परमार्थतः, समशब्दताभावश्च शरीरभेदेनेति भावः । २ स्थितिः--शास्त्रनियमः । ३ यथा स्फटिकरत्नं स्वरूपत एकमपि तत्तद्रागोपरागेण भेदेनावभासते, तथा पश्यन्त्यपीत्यर्थः-- ४ 'विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ।' इतिनयेन । ५ ननु क एवमाह पृथक्त्वे बह्व्य इति, ऐक्ये वा समशब्दता यतोऽविभागैव पश्यन्ती, तथा च किमिदं पृथक्त्वं नाम, ऐक्यं नाम वेति, न कोऽपि दोषकण इति पूर्वपक्षप्रत्यवस्थानात्पूर्वमाचष्टे अविभागेत्यादि । ६ लक्ष्ये लक्षणैकदेशपतनमव्याप्तिः, अलक्ष्ये लक्षणपतनमतिव्याप्तिः । ७ विलक्षणं विशिष्ठलक्षणमुपहासेन, तथा परमार्थतो विरुद्धलक्षणं तथा विलक्षणं लज्जावहमिति च ।।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता यत एव पश्यन्ती असौ विभक्तदृश्यार्थोन्मुखी स्मृता, ततः कथम- विभागा स्यात् यतो लक्ष्यलक्षणपदयोरन्योन्यविरहः ॥ ४५ ॥ तथाहि— यानि¹ पश्यति किं स्वाक्यरूपदिक्कालभागशः । अतथा यदि पश्यन्ती मिथ्या पश्यन्त्युदाहृता ॥ ४६ ॥ यथारूपेण² पश्यन्ती निर्विभागा कथं भवेत् । स्वकेन³ स्वकेन रूपदिक्कालभागेन किं दृश्यवस्तूनि पश्यति यानि द्रष्टुं प्रवृत्तेत्यध्याहारः । युक्तं⁴ ह्येतत्, यदि पुनरतथा विपर्ययेण⁵ पश्यन्ती भवति, तन्मिथ्या⁶ अज्ञानरूपा पश्यन्ती अथवा मिथ्या पश्यन्त्यु- दाहृता पश्यन्तीत्यर्थः । अविभक्ता तु तदा⁷ स्यात् भिन्नदृश्यवस्तव⁸- भावात् । पश्यन्तीत्वानुरोधात्तु यथास्थितरूपेण स्वरूपानतिक्रमेण वा पश्यन्ती विभक्तदृश्यवस्तुयुक्ता निर्विभागा कथं भवेदित्युक्तम् । स्वकमेव स्वाक्यम्९ ॥ १ यदुक्तं लक्ष्यलक्षणपदयोर्विरहः, लक्ष्यपदं पश्यन्ती, लक्षण- पदमविभागेत्यादि लक्षणं हि लक्ष्यसिद्धये प्रयुज्यते तद्विरहात्प्रत्युत विरोधावहं, तदाह यानि पश्यतीति । पश्यन्ती सकर्मकत्वाद्धि किंचित्कर्माक्षिपेत्येव । तच्च कर्मरूपं दृश्यं यदि तद्दृश्यवस्तुस्वरूपतद्देश- तत्कालभागमवलम्बते, तर्हि तस्य दृश्यस्य सम्यग्ज्ञानरूपत्वाद्भवदभ्युपगता पश्यन्ती युक्तैवः परंतु तत्र लक्षणविगमः तत्तद्दृश्यदेशकालस्वरूपत्वेन सविभागत्वान्निर्विभागा कथं संभसतीत्यर्थः । लक्षणव्यवस्थार्थं पुनराह अतथेति, न स्वकस्वरूपदेशकालसहितानि वस्तूनि पश्यति येन निर्विभागता- पवादः, किंतु तत्तद्देशकालरहितमेवेति चेत्तर्हि लक्षणाविगमेऽपि लक्ष्यस्यैवा- संभवादलं तेन । तथाहि स्वरूपदेशकालरहितं हि मिथ्याज्ञानं, तदुपादा- नात्सापि मिथ्येत्यर्थः । २ पश्यन्तीति निर्देशात् । ३ तत्तद्दृश्यस्य । ४ सम्यग्ज्ञानस्यैव युक्तात्वात् । ५ न स्वकेन रूपदेशकालेन । ६ प्रथमे नियमे मिथ्येति पृथक्पदन्, द्वितीये समुदायेन । तत्र द्वितीयस्य पश्यन्तीशब्दस्याध्या- हारः कर्तव्यः । ७ तदेति तत्तद्दृश्यानामस्वीयरूपादिग्रहणकाल इत्यर्थः । ८ पश्यन्ती हि ज्योतिरूपत्वान्न मिथ्याज्ञानप्रत्यवमर्शात्मिकेति । ९ स्वाक्य- मित्यत्र स्वार्थे ष्यञ्प्रत्ययः ।

५२ शिवदृष्टिः [ आ०-२ भविष्यन्तं¹ वर्तमानं कथं पश्यन्त्यनागतम् ॥ ४७ ॥ अन्यदिग्देशगेनान्यदिग्देशे सत्यदर्शनम् । योग्यदेशस्थवर्तमानार्थानुभवितृत्वेन तावत् सर्वप्रमातॄणां स्वा- त्मन्यनुभवः । तत्र भविष्यन्तमर्थं तदनागतमप्राप्तमेव कथं वर्तमानं वर्तमानत्वे पश्यन्ती स्यात् सम्यग्रूपेत्यर्थः । तथा अन्ययोग्यदेशस्थितेऽ- न्ययोग्यदेशस्थेन सत्यदर्शनं सम्यग्दर्शनरूपा पश्यन्तीत्यर्थः³ । तथान्य- दिग्देशकालगतेन ज्ञानेनान्यदिक्कालगते सति विद्यमानेऽर्थे न दर्शनम् । ततश्च कथं वर्तमानं योग्यदेशस्थमेव पश्यन्ती भविष्यन्तमनागतमसंप्राप्त- मन्यदेशस्थितं च पश्यन्ती स्यात् । सर्वदर्शिनी चेष्यते सा, देशकालावत्र⁴ परस्परोपलक्षणे ॥ अथ⁵ साधारणं ज्ञानं तादृक्किंचन⁶ पश्यति ॥ ४८ ॥ तथापि⁷ तद्विभेदेन भेदता तदभेदतः । न किंचन गृहीतं स्यात्तथान्या संहृतक्रमा ॥ ४९ ॥ १ इदानीं यत्पूर्वमुक्तं— 'वर्तमानसमारूढा क्रिया पश्यन्त्युदाहृता ॥ ' इति, तत् समर्थयति । तथा यदुक्तं स्वस्वरूपादिग्रहणे कथं निर्विभागेति यतो भविष्यन्तमेवार्थं वर्तमानत्वेन गृह्णाति, ततश्च दृश्यस्य स्वरूपाद्युत्तीर्णत्वेनैव भासनात्तल्लग्नत्वाच्च न सविभागत्वं नापि मिथ्याज्ञानवत्त्वमिति दोषद्वय- रहितं पश्यन्तीस्वरूपं सेत्स्यति, अलमनेन मिथ्यामिथ्यात्वकथनेनेति यदुच्यते तदपि निर्दलयति भविष्यन्तमित्यादिना २ अप्राप्तस्य वर्तमानत्वे दर्शनं भ्रान्तिरित्यर्थः । ३ नेति पदमत्रापि योज्यम् । ४ तेन भविष्यन्तं वर्तमान- मित्यत्र कालनिर्देशोऽपि तथैव देशोऽपि बोध्यः । अन्यदिग्देशग इत्यत्र देशनिर्देशे च कालनिर्देशोऽपित्यर्थः । ५ अत्राह विशेषज्ञानं हीदं यदत्र भविष्यदादि- कालव्यपदेशः, पश्यन्ती तु सामान्यरूपा, न तत्र भविष्यदादिव्यपदेशोऽपि संभवतीत्यकालकलितत्वान्न सत्यदर्शनमज्ञातपराशयस्योन्मत्तभाषणमित्या- शङ्क्याह अथ साधारणमिति । ६ अत्र यत्तच्छब्दयोरध्याहारः, यदीदृशं ज्ञानं तदेव पश्यतीति । ७ नीलपीतादिविशेषरहितं नियमरहितं सर्वव्यापकं ज्ञान- मित्यस्मिन्नपि पक्षे दोषोद्भावनं करोति तथापीत्यादिना । एतद्धि सत्यमेव साधारणं ज्ञानमस्तीति, तथापि दृश्यमत्र विशिष्टमेवेत्याह तथापीति ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ५३ देशकालभिन्नार्थग्राहीणि भिन्नान्येव ज्ञानानि सा पश्यन्ती, तेषु¹ साधारणमेकं तादृक्सर्वतज्ज्ञानप्रपञ्चनव्यापारक्षमं किंचनानियतं² परि- दृश्यमाननीलपीतादिनियतज्ञानोत्तरमस्ति, तत्पश्यति सर्वं पश्यन्तीत्यर्थः । तथापि³ असाधारणनीलादिनियतज्ञानानां भेदात् तस्यापि भेदता भिद्यमानता स्यात्, न तु सामान्यता तेभ्यस्तस्याभेदात्⁴ । तथा⁵ च सति न किंचनानागतादि गृहीतं स्यात्, अनागतार्थज्ञानाविभिन्ना पश्यन्ती तदानीमेव तं ग्रहीष्यतीति । अथवा⁶ नीलपीतादिज्ञानवत् भेदता अस्याः पश्यन्त्याः, तस्या अपि नीलादिकभविष्यद्वर्तमानार्थशबलीकृतत्वात् । अथ तस्या न भविष्यदादिशबलता, अपि तु बोधमात्ररूपत्वेनाविभेद एव, ततस्तदभेदतो न किंचन नीलादि तथा गृहीतं, ततः कथं⁷ पश्यन्ती स्यादिति । अथान्या लक्षणान्तरभेदिता तैः⁸ पश्यन्ती संहृतक्रमेति ॥ ४६ ॥ संहृतः क्रम इत्यस्यां संहर्ता¹⁰ जायते परः । यया क्रमः संहृतो वा किमात्मन्यपरत्र¹¹ वा ॥ ५० ॥ १ भिन्नज्ञानेषु । २ विशिष्टत्वाभावाद्यपदेशानर्हम् । ३ तथापीति, भव- त्वेतत्साधारणमेव किंचन सर्वं सहं व्यापकं च अत्र पश्यन्तीस्वरूपनिरूपणमेव सर्वथा संपाद्यं, तच्च कर्मसापेक्षत्वादवश्यं स्वसिद्धये कर्म दृश्यरूपमाक्षिपति, तस्यां हि विशेषरूपत्वेनैव दर्शनसंभवात्तेषामित्यर्थः । ४ तेभ्यो विशेषेभ्यः, तस्य सामान्यस्य । ५ तदभेदत इत्यर्थभागं विवृणोति तथातेति । अयं भावः--विशिष्टज्ञानोदये यदि सा साधारणी तर्हि तदभेदतो विशिष्ट- ज्ञानोदयेऽप्यतीतानागतादिविशेषाभावात्, ततश्च नानागतावेक्षणमिति किमत्र दृश्यं नामेति । ६ 'तथापि तद्भेदेन' इत्यादि 'नकिंचन गृहीतं स्यात्' इत्यन्तं द्वितीयार्थेन संगमयति अथवेत्यादिना । ७ कर्माभावादित्यर्थः । ८ शब्दब्रह्मवादिभिः । ९ ननु च पश्यन्ती संहृतक्रमेति ह्यास्याः क्रमसंहार एव निर्विभागत्वे हेतुः, ततश्च केयं कल्पना नीलादिविशिष्टनियतासाधारणज्ञानानां भेदात् तस्या अपि भेदतेति तन्निर्दलयितुमाह । १० त्रितयाधीनं हि संहरणं कर्तृकरणाधिकरणेष्विति तदेव क्रमेणामाह संहर्तेति । केनेत्यपेक्षयावश्यं परेण भाव्यम् । ११ कस्मिन्नित्यपेक्षायाम् ।

५४ शिवदृष्टिः [ आ०-२ आत्मनः सक्रमत्वं स्यादन्यत्रापरसंगमः । किं पूर्वं सक्रमाभूत्सा रूपद्वित्वं प्रसज्यते ॥ ५१ ॥ संहृतः क्रमोऽस्यामिति । एवमितिशब्दो भिन्नक्रमो योज्यः१। एवं यदि सप्तम्यर्थे पश्यन्त्यात्मनि बहुव्रीहिस्तदा संहर्तान्योऽर्थोऽपेक्षणीयोऽत्रेति व्याहतम्२ । अथवा तृतीयार्थे३ यया क्रमः संहृतः पश्यन्त्या सा तथा । एवं चाधिकरणापेक्षायां किमात्मनि संहृतोऽथापरत्रेति विकल्पः । तथा- त्मनि क्रमस्य संहरणे योजने सति तस्य सक्रमत्वं स्यात् । अथान्यत्र, तद्- द्वितीयवस्तुसंबन्धः ततश्च द्वैतापत्तिः । अथात्मन्येव पूर्वं सक्रमया भूतया पश्चात् क्रमः संहृतो निवारितो नत्वन्यत्र द्वैतापत्तेः, तथापि तस्याः सक्रमा- क्रमरूपद्वित्वप्रसङ्गः ॥ ५१ ॥ ‘अविभागा कथं सा स्याद्यतः पश्यन्त्यसौ स्मृता ।’ इत्यत्र पश्यन्तीत्वादेव दर्शनक्रियाकरणापेक्षया निर्विभागत्वं दूषितं समर्थ्यमानं परेणाशङ्कते४— अथात्मना सा स्वात्मानं पश्यन्ती निर्विभागशः । भागे करणरूपत्वात्पारतन्त्र्यं जडात्मता ॥ ५२ ॥ आत्मनेवात्मानमेव च पश्यन्ती सा स्थिता निर्विभागशः विशिष्टा- दत्यन्तपृथग्भूताद्भागान्निष्क्रान्ता कर्मकरणादिशक्तिमात्रेण स्थितेत्यर्थः । तत्रापि भागे द्वितीये कारकवशक्त्यात्मनि करणादिरूपत्वात् तस्या एव पारतन्त्र्यं जडता च प्राप्नोति स्वातन्त्र्यादेव चिद्रूपस्येति । एतदीश्वर- प्रत्यभिज्ञायां परीक्ष्यम् ॥ ५२ ॥ पर आह— आत्मानमात्मना हन्ति देवदत्तो यथा तथा । भविष्यत्यत्र तत्रास्य स्वांगैरेव विभागिता ॥ ५३ ॥ हस्तादेः करणत्वं हि मस्तकादेश्च कर्मता । कर्ता मनःस्वावयवी नामूर्ताया इदं पुनः ॥ ५४ ॥ १ अस्यामित्यनन्तरं योज्यः । २ स्ववचनविरोधो व्याघातः । ३ तृतीयार्थे बहुव्रीह्याश्रयणे । ४ निर्विभागत्वमविभागेत्यादिना दूषितं ‘पश्यन्तीत्वमेव तत् यत्स्वयमेव कर्मकरणादिरूपत्वम्' इति परेण समर्थ्य- मानमाशङ्कते ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता। ५५ देवदत्तात्मनि यथा कर्मादिभेदस्तथात्र स्यात्, —इत्येतन्न, देवदत्तस्य मूर्तत्वेन वितताकारस्य स्वाङ्गैरैव बहुभिरुपगृहीतात्मशब्दाभिधायकै- विभागः। तथाहि हस्तस्यान्यस्य वावयवस्य शस्त्रादियुजः करणता, मस्त- कस्य हृदयादेर्वा हन्यमानस्य कर्मता, कर्ता मनोयुक्तः स्व आत्मा स एव हस्तादिसंबद्धोऽवयवीत्युक्तो यत एव तावत्यात्मभावः। पश्यन्त्याः पुन- श्चिन्मात्ररूपत्वेनामूर्तया वैतत्याभावात्रावयवापेक्षोऽयं व्यवहारः, ततस्तस्या एव भागे करणादित्वेन जडतापत्तिरेव ॥ ५४ ॥ पश्यन्त्यदृष्टमात्मानं१ दृष्टं वा दृष्टता२ कथम् । पश्यन्त्या दर्शनं दृष्टे३ न च वा ह्युपपद्यते ॥ ५५ ॥ आत्मानं च पश्यन्ती किमदृष्टपूर्वं पश्यति अथ दृष्टम् ? तद्द्वयमपि न युक्तं यतः पश्यन्त्याः प्रकाशरूपाया अदृष्टत्वमप्रकाशता४ नैव, दृष्टे५ चात्मनि न पुनः दर्शनक्रियाप्रवृत्तिर्युक्ता६। न७ च पश्यन्त्या आत्मा प्रति- क्षणमन्यो येन प्रतिक्षणमेव दर्शनक्रियाया उपयोगेन वर्तमानता स्यात्, नापि८ तस्या आत्मनो दिक्कालावच्छेदः ॥ ५५ ॥ पश्यन्तं९ सा किमात्मानं पश्यन्ती जडमेव वा । जडे जडत्वमेवास्याः पश्यतो ह्यनवस्थता ॥ ५६ ॥ १ तदेवं ‘अथात्मना सा स्वात्मानम्’ इत्यत्रात्मनेति भागे पारतन्त्र्या- ज्जडतामुपपाद्य आत्मानमिति कर्मभागं विकल्पति। आत्मानमिति निजमेव स्वरूपं कर्मरूपशक्तिमात्रेण स्थितं पश्यन्ती कर्तृरूपशक्तिस्थिता पश्यति येन दर्शनक्रियार्थोऽस्याः घटते। अत्र पश्यन्त्या इति देहलीदीपन्यायेनोभयत्रापि योज्यम्। तत्र पश्यन्त्या दर्शनं दृष्टता तत्कर्मिकेत्यर्थः, द्वितीये पुनः पश्यन्त्या दर्शनं पश्यन्तीकर्तृकमित्यर्थः। २ निजरूपस्यैव कर्मशक्तिरूपत्वाद्दृष्टता दर्शन- क्रियाराहित्यमप्रकाशत्वं कथमित्यर्थः। ३ प्रकाशिते। ‘च वा’ शब्दावत्रानुक्त- समुच्चयार्थौ। ४ अदृष्ट एव हि दर्शनं युक्तं, अदृष्टत्वं च पश्यन्त्या अयुक्तं पश्यन्तीत्वात्। ५ अथ दृष्टतैव पश्यन्त्युपरोधादित्याशङ्क्याह दृष्ट इति। ६ अनवस्था हि तथा स्यात्। ७ च शब्दसूचितमनुक्तसमुच्चयार्थत्वं चाह तच्च यदुक्तं ‘वर्तमानसमारूढा’ इति तं वर्तमानभागमपि विकल्पयति न चेति। ८ वाशब्दसमुच्चितमाह—नापीति। ९ पूर्वश्लोके दृष्टता दर्शन- क्रियायोग्यता, सा च स्वयमचैतन्येऽपि संभवति, इह पुनश्चैतन्यमेवोपौद्-

५६ शिवदृष्टिः [ आ०-२ सा चात्मानं प्रकाशरूपत्वात् पश्यन्त्यात्मकत्वाच्च किं पश्यन्तं पश्यति उताप्रकाशरूपं जडम् ? जडे तस्मिन् सापि जडा स्यात् अथात्मापि अस्याः प्रकाशात्मत्वात् पश्यति, न च भिन्नं पश्यति अपित्वात्मानमेव, ततस्तस्यापि पूर्वविकल्प१योगादनवस्था२, अवस्थानस्य दर्शनविश्रान्तेर- भावात् ॥ ५६ ॥ किञ्चित्पश्यति३ वा सूक्ष्मं४ तदस्मद्दर्शनान्वयः५ । कर्मत्वे पारतन्त्र्यं स्यात्तस्या एव निजात्मनि ॥ ५७ ॥ यदि वा भवद्भिर्नान्यनीलपीतादि स्थूलं विभक्तस्वरूपं दृश्यं पश्यति अपि तु दृश्यभुवमनापन्नं द्रष्टारमेव किंचिदविकल्प्यं सूक्ष्ममपृथ- ग्रूपं पश्यति, न च६ पश्यति दृश्यार्थमयदृष्टृरूपैव सती प्रकाशते पश्यन्ती इति कथ्यते । ततोऽस्मदीयदर्शनानुगमः७ स्यात् पश्यन्त्यर्थः८ क्रियाकर्तृ- कर्मकालविभागात्मा त्यक्तो भवेत् । वास्तवे तु कर्मत्वेऽभ्युपगम्यमाने तदीयसूक्ष्मद्रष्टृरूपात्माधिकरणे सति तस्मिन्नेवैकात्मनि द्रष्टृत्वात् स्वतन्त्रे दृश्यतया पारतन्त्र्यं स्याद्विरुद्धम् ॥ ५७ ॥ स्फोट९ एव हि पश्यन्ती तदन्या वा द्वयं भवेत् । तदन्यत्वे तदैक्ये वा तदङ्गुल्यग्ररूपया ॥ ५८ ॥ बलनार्थं शङ्क्यमानत्वेन दर्शयति पश्यन्तं सेति, तदेतदाह प्रकाशरूप- त्वात्पश्यन्त्यात्मत्वाच्चेति । १ दृष्टे दर्शनमिति न्यायेन । २ सा च मूलक्षति- कारिणीत्युक्तमेव । ३ ननु चात्मानं पश्यन्तं सूक्ष्मं विकल्पकलङ्काकलुषितं पश्यति यतः तत्किमिति ह्यनवस्था, दर्शनं चानुज्झितद्रष्टृभावस्यैव तत्क्रिया- त्मकं ततोऽपि न किंचनानुपपन्नं नामेति किं दोषाविर्भाविनेत्यतः आह किंचिदिति । किंचिदिति इदन्ताव्यपदेशानर्हत्वात्स्वरूपत्वादेवानियतम् । ४ सर्वग्राह्यग्राहकताविभागरहितम् । ५ अन्वयः, अभ्युपगमः । ६ ननु च यतः पश्यन्तीत्युच्यते तत एव सकर्मकत्वादस्य स्फुटं पूर्ववदेव दृश्यत्वमापन्नं तत्किमिति तत्र न दोष इत्यत आह न चेत्यादि । ७ ततश्चैवं सति न कश्चिद्विरोध इत्यर्थः । ८ न चैतद्भवतामिष्टमित्याह पश्यन्तीति । ९ स्फोटात्मैव शब्दोऽर्थप्रतिपादकः । तथा चोक्तम्—

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ५७ वाक्यगत्यात्र सत्यत्वं लभ्यते न विशेषतः । 'एको नित्यः क्रमविरहितः कल्पितासत्यभागो वाक्यस्फोटो जनयति मतिं तादृशि स्वाभिधेये । वर्णास्त्वेते प्रकृतिलघवः कल्पनेकप्रतिष्ठा— स्तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः ॥' तथा हीत्याहुः कुतो वर्णानामर्थप्रत्यायकत्वम् । ते हि वर्णा गकारा- दयोऽर्थं प्रतिपादयन्तः समस्ता वा व्यस्ताः । न तावत् व्यस्ताः, एकैकवर्णा- कर्णने सति चार्थप्रतीतेरनुत्पादात् । सामस्त्यं पुनर्वर्णानां न संभवत्येव । तद्धि सत्त्या स्यात्, सा चायुक्ता । तथा हि, वर्णप्रयोक्तॄणां प्रयत्नस्थानकरण- क्रमापरित्यागादवश्यंभावी क्रमः । क्रमे च सति ह्येकैकवर्णकारणिकार्थ- प्रतीतिः प्राप्नोति, सा च न दृश्यते इति व्यस्तसमस्तविकल्पानुपपत्तेर्न वर्णा वाचकाः । वर्णविषया अपि बुद्धयस्तथैव कल्प्याः, ता अपि युगपन्न संभवन्ति । क्रमे च सत्येकैकवर्णबुद्धेरर्थसंप्रत्ययः प्रसज्यत इति तस्मान्न वर्णा वाचकाः । यदि च स्युस्तद्विपरीतक्रमप्रयुक्ता अपि तमर्थमवगमयेयुः । अस्ति चेयं शब्दा- दुच्चारितात्तदर्थावगतिः । न चेयमकारणिकैव भवितुमर्हति, तदस्याः कारणं स्फोट इति सर्वार्थप्रतीतिलक्षणकार्यवशात्कल्प्यमानं तत्कारणं स्फोट इत्युच्यते । स च निरवयवो नित्य एको निष्क्रमक इति । तस्माद्वर्णाभि- व्यक्तः स्फोटोऽर्थे प्रतिपत्तिमादधाति । भ्राम्यति जनो वर्णैरियमर्थप्रतीति- रुत्पादितेति । न च वाच्यं स्फोटव्यक्तावपि ते व्यस्तसमस्तविकल्पाः सन्तीति, न स्फोटव्यक्तौ विकल्पाः । तथा हि एके तावदाचक्षते, प्रथमवर्णश्रवणवेलायां स्फोटोऽभिव्यक्तः । न च द्वितीयादिवर्णवैकल्यं तदनुगतेरेवातिशयकारणात्, यथा रत्नपरीक्षायां प्रथमदर्शनं रत्नममलं प्रकाशमानमपि पुनः पुनः परीक्षायां निरवद्यं रत्नतत्त्वं चकास्ति । एवं प्रथमवर्णश्रुत्या व्यक्तेऽपि स्फोटे स्फुटतरप्रतीतयै वर्णान्तराणि प्रयोक्ष्यन्ते इति । अपरे त्वाहुः ध्वनय एव स्फोटस्य व्यंजकाः तैश्च मरुद्भिरनवयव एष स्फोटोऽभिव्यज्यमानस्ता- ल्वादिस्थानकरणसंयोगोपाधिवशोपप्लवमाननानाकारगकारादिभागयोगीव प्रतिभासते । मरुतां चञ्चलत्वादुच्चारितप्रध्वंसिनस्ते काल्पनिक भागा भासन्ते । दृष्टं हि नादात्मको हि शब्दो वीणावेणुमृदङ्गपटहादिव्यंजकभेदेन नानात्वमुपगच्छति । तस्माद्वाक्ये पदानामसत्त्वात्तदर्थे च पदार्थानां निर- वयवी वाक्यवाक्यार्थौ इति । बाधकं चात्रावयवकल्पनायां यथा वाक्यस्या- वयवाः पदानि पदानामवयवा वर्णा एवं वर्णानामप्यवयवैर्भवितव्यं, तदवय-

५८ शिवदृष्टिः [ आ०-२ आप्तानाप्तविचारो वा सर्वथैव निवर्तते ॥ ५९ ॥ भवद्भिः स्फोटः पश्यन्ती च नित्यत्वेनाभ्युपगतौ, ततः स्फोट एव वा पश्यन्ती स्यात् शब्दमात्रभेदात्, ततो वान्द्या, तत्र द्वैतं स्यात् । अन्यत्वपक्षे ऐक्ये वाभ्युपगते तत्पश्यन्त्याः संबन्धि सत्यार्थदर्शित्वं लभ्येत । 'अंगुल्यग्रे हस्तियूथशतमास्ते' इत्यनयाः वाक्यस्फोटप्रतीत्यात्र लोके न तु पश्यन्ती- संज्ञसत्यदर्शनरूपत्वेन सर्वस्य स्फोटस्य सत्याभिमतद्वाक्यात् विशिष्यमाणता लभ्यते । अन्यत्वपक्षे तु स्फोटस्य सत्यस्यापि असत्यार्थत्वं न दोषः१, पश्यन्त्यात्मनस्तु शुद्धसंविद्रूपस्य मिथ्यात्वं दोष एव पश्यन्त्यैक्येन स्फोट- सत्यार्थत्वात् । आप्तप्रणीतानाप्तप्रणीतत्वविचारो२ वा सर्वथा तदा निवर्तते सर्वेषामविशेषेण सम्यरूपत्वात्, पूर्वोक्तपश्यन्तीबहुत्ववन्नित्यस्फोटबहुत्वं ततश्चाद्वयहानिरित्येतदप्यत्र सूचितम् ॥ ५६ ॥ स्फोटस्य सत्यरूपैर्हि पदार्थैर्व्यङ्ग्यता कथम् । पश्यन्त्याः सत्यरूपाया असत्यैर्व्यङ्ग्यता न च ॥ ६० ॥ ताहग्व्यञ्जनसापेक्षा सा न किंचन जायते । स्फोटस्य च कूटस्थनित्यस्य सत्यस्य पदवर्णध्वनिभिरुपप्लुतैरकिं- चित्स्वरूपैरशक्तैरत्यन्तविजातीयैः कथं व्यंग्यता सत्यप्रकाशनसामर्थ्यं तेषां वानामप्यवयावान्तरैरित्यानन्त्यात् का व्यवस्था स्यात् । वर्णान्प्राप्य तु यद्यवयवकल्पनातो विरन्तव्यं तद्वाक्य एव निरम्यताम् । एवं पानकादि- वत्पदार्थेभ्योऽन्य एव वाक्यार्थरूपः स्फोट इति । यथा हि पानकं फाणितनारि- केलमरिचादिभ्योऽर्थान्तरमेव यथा च सिन्दूरलाक्षाहरितालादिभ्योऽर्थान्तर- मेव चित्रमिति सिद्धमेतत् । तत्र तयोः स्फोटशब्दब्रह्मणोरुभयोर्भेदे द्वैतापत्तिः । अभेदमेवमाहुः, यथा पदे वर्णा न सन्ति, वाक्येषु, पदानि न सन्ति तथा महावाक्येष्ववान्तरवाक्यान्यपि न स्युः, ततोऽपि महावाक्यान्यपि प्रकरणा- पेक्षया न स्युः, ततोऽपि प्रकरणान्यपि शास्त्रापेक्षया न स्युः, ततश्चैकमेवेदं शास्त्रतत्त्वमविभागमद्वयमापतति । इत्याक्षिप्ते तथाहूः । सत्यमेतत्, शब्द- ब्रह्मैवेदमद्वयमनाद्यविद्यावासनोपप्लवमानभेदमर्थभेदेन विवर्तते । न तु वाच- काद्भिभवतं वाच्यमपि नाम किञ्चनास्ति । तस्मात्काल्पनिक एवायं वाच्य- वाचकविभाग इति स्फोटवादः । तदनुपपत्तिं दर्शयति तदैक्येति वेति । १ अविद्योपगमात् । २ आप्तप्रणीतत्वेन हि शब्दस्य प्रामाण्यं स्फोटस्य च नित्यत्वेनाप्तप्रणीतत्वम् । अतश्चानित्यत्वं वर्णात्मनः शब्दस्य, नासावर्थ-

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ५६ सत्यतापत्तेः । पश्यन्त्यात्मत्वेऽपि च स्फोटस्यासत्यव्यञ्जकता तथैव न युक्ता, असत्येनाविद्यात्मनाव्यज्यमानालोकेन रूपमिव स्वयं प्रकाशनशक्त्या न किंचिदेवाविद्यैव सा स्यात् तावत्प्रपञ्चरूपैव अविद्येति कृत्वा १ ॥ पश्यन्ती २ वा प्रमाणेन केनासौ प्रतिपाद्यते ३ ॥ ६१ ॥ प्रत्यक्षस्यागोचरत्वादत्नुमानं प्रदूषितम् । भवद्भिरेव नाप्तस्याननुभूतार्थवक्तृता ४ ॥ ६२ ॥ प्रमाणेन वा केन पश्यन्ती भवद्भिर्व्यवस्थाप्यते । प्रत्यक्षं तावदत्र ५ चक्षुरादिमनोगोचरातिक्रमान्नास्ति । अवस्थेत्यादिना भवद्भिरेव तस्य दूषणाच्चानुमानं न सम्यगवबोधकम् । आप्तस्यापि नाननुभूतार्थवक्तृता, तदपि ६ न प्रमाणम् ॥ अथ ७ स्वानुभवेनैव पश्यन्तीं पश्य युक्तितः । एवं तर्ह्यपरस्यासौ पश्यन्ती कर्मतां गता ॥ ६३ ॥ यो हि पश्यति पश्यन्तीं स देवः परमो मतः । अथ भवन्तो ८ मामाहुः-स्वगतेनानुभवेन प्रमाणेन पश्यन्तीं युक्तितो योगात्समाधेरवधानात् पश्येति । एवं तर्हि अपरस्य स्वानुभवसंज्ञकस्य प्रमाणस्य पश्यन्ती कर्मत्वं प्राप्ता, ततश्च सा परमार्थत्वेनोपगता ९ न तथा स्यात् । यस्मात् स १० एव तदानीं पराकाष्ठाप्राप्तो देवत्वेन सर्वोत्कर्षेण भवतां मतः स्यात् यस्तामपि ११ सर्वदर्शिनीं पश्यति, ततश्च दर्शनत्यागः ॥ प्रतीतिहेतुरतो न प्रमाणम् । यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्दस्तस्य नानित्यत्वं, न चाप्तप्रणीतत्वमिति सर्वथा व्यवस्थाप्तानाप्तभाषणे नश्येदेव स्फोटाभ्युपगमे । १ इत्यनेन विचारेण । २ प्रमाणव्यवस्थापितं हि वस्त्वस्तु, स्वरूपलक्षणाभ्यां मास्तु, तेनैव प्रमाणेन तस्य दृढं व्यवस्थापितत्वादिति प्रमाणमेव तावद्विकल्पयति पश्यन्ती वेत्यादिना । ३ दृढीक्रियते । ४ अनुभूतमेवार्थमाप्तोपि वक्तीत्यर्थः । ५ अत्र पश्यन्तीविवेके । ६ तदाप्त- वचनमपि । ७ ननु चानुभवाख्यसुदृढप्रमाणरक्षिते वस्तुन्यलमन्थेन प्रत्यक्षा- दिना प्रमाणेन बाह्यार्थनिष्ठेनान्तःस्वरूपेऽनभिज्ञातवार्तालेशेनापि इति समर्थयति अथ स्वानुभवेत्यादि । ८ पूर्वपक्षवादिनो मामुत्तरपक्षवादिनम् । ९ उपगता अंगीकृता तथा परमार्थभूता । १० स एव स्वानुभवः । ११ सर्वो- त्कर्षतामेवास्य दर्शयति यस्तामिति ।

६० शिवदृष्टिः [ आ०-२ प्रतिभा¹ कथिता या वा सानुमानं न तच्च ते ॥ ६४॥ न चापि प्रतिपाद्यस्य कादाचित्कप्रतीक्षणम् । अथ पश्यन्त्यां प्रतिभा प्रमाणं² तत्प्रतिभाप्रभासनं निर्निमित्तमस्ति, कूपे जलमित्यादिवन्न प्रमाणम् । अथात्मस्थितिरेव³ विलक्षणा ममैवं शंसतीति प्रतिभा, तदात्मस्थितेर्विशिष्टायाः साध्याव्यभिचारनिश्चयेनार्था- न्तरावगमेऽनुमानतैव⁴, तच्च भवतामनिष्टम्, अव्यभिचारानिश्चये त्वनव- गमकत्वं, युक्तिवशाच्चानुभवः कदाचिद्भावी⁵ प्रतिभा वा भवेत्, पश्यन्ती⁶ १ तत्र केचित्प्रतिभाप्रत्यक्षं प्रमाणमित्याहुः । तथा च-- 'अस्ति चानागतं ज्ञानमस्मदादेरपि क्वचित्, प्रमाणं प्रातिभं ह्यो मे भ्रातागन्तेति दृश्यते ॥ नानर्थजं न संदिग्धं न बाधविधुरीकृतम् । न दृष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥ क्वचिद्बाधकयोगश्चेदस्तु तस्याप्रमाणता । यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥' तदेतच्छिथिलयितुमाह 'प्रतिभा कथिता या वा' इति । अत्र वाशब्दोऽस्य स्फुटं प्रत्यक्षानुभवाग्राह्यतां द्योतयति । तथा चानर्थजमिदं ज्ञानं भ्रातुस्तज्जनकस्य तदानीमसत्त्वात् । अथोच्यते भावितयैनं गृह्णाति । तत्र भावितया ग्रहणं ह्यघटमानं भावित्वं नाम प्रागभावः, अभावस्य च भावेन कः संबन्ध इति । यदि मन्यसे अस्ति कूपे जलमिति प्रतिभा, तथा च नानागतानर्थजत्वशङ्का ततश्च प्रमाणमेवेत्यपि निरस्यति निर्निमित्तमिति । तच्च संशयात्मकत्वादस्य यद्युच्यते सोऽपि तदा नानुभूयते । यथा किमिदं रजतमुतारजतमिति । अपि तु रजतमिति प्रतीतिः । न हि संशयानाः प्रवर्तन्ते लौकिकाः, किं तु निश्चिन्वन्त एव विषयमिति किमनुभूयमान एवारोप्यते संशयः, एकतरग्राह्यपि चायं प्रत्ययः तन्निश्चयोपायविरहात्संशय- कोटिपतित एव भवतीति निर्निमित्तमेव । २ यदि हि प्रमाणतयाऽसौ गृह्यते कथं क्वचिद्विसंवदेत् । अप्रमाणतया तु गृह्यमाणः कथं पुमांसं प्रवर्तयेत् । ३ प्रत्यक्षतायां बाधमुक्त्वाऽनुमानवादी समर्थयति अथेति । ४ अयं भावः । यथा हि पर्वतादौ धूमदर्शनाद्धूमाव्यभिचारादग्न्यर्थन्तरनिश्चयः हृदादौ व्यभिचारदर्शनात् नार्थविगमः, तथा विलक्षणयात्मस्थित्या पश्यन्त्यर्थ- साध्याव्यभिचार इति प्रतिभानुमानपक्षे कैश्चिन्निक्षिप्ता । ५ कादाचित्को- ऽनुभवः प्रतिभेत्यन्य इत्यर्थः । ६ पश्यन्ती हि भवद्भिः सदा प्रकाशमानता-

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६१ पश्येत्याप्तेन प्रतिपाद्यमानस्य न तु सदा, ततश्च तस्या१ विच्छिन्नं दर्शनं स्यात्, न सदा प्रकाशमानता, न चैतत् तत्कालप्रतीक्षणं मतम् ॥ स्वात्मनात्मानमथ चेत्पश्यन्ती सा भविष्यति ॥ ६५ ॥ तदानीं२ प्रतिपाद्यस्य किमायातं स्ववीक्षणात्३ । वक्तव्यमेव४ तस्यापि पश्यन्तीं पश्य या स्वयम् ॥ ६६ ॥ आत्मानमेव जानाति तथाप्यस्यास्ति कर्मता । नानुभवादिना पश्यन्तीदर्शनमपि तु सा स्वात्मना५ न व्यतिरिक्ते- नानुभवेन स्वमात्मानं पश्यन्ती भविष्यतीति यदि मतं, तदेवं सति प्रति- पाद्यस्य भवद्भिरुपदेष्टृभिः किमपूर्वं कार्यं स्वयमेव तस्याः प्रथनात् । एवं तु अवश्यवक्तव्यं भवद्भिः प्रतिपादकैः६ सद्भिः प्रतिपाद्यस्य७ पश्यन्ती- मदृष्टपूर्वां८ त्वं पश्य या स्वयमेवात्मानं पश्यति । तथापि चास्याः९ प्रतिपाद्यसंबन्ध्यनुभवं प्रति पूर्ववत् कर्मतास्त्येव१०, प्रतिपाद्येन११ परिमित- त्वात् पराभिमतायाः पश्यन्त्याश्च्युतत्वात्, परिमितेनैव द्वैतदशोचिते- नानुभवेन सा दृश्या स्यात्, न तु तदा प्रतिपाद्यप्रतिपादकपश्यन्तीनामैक्यं येन कर्मतापत्तिर्न भवेत् । एवं च कर्मतापत्तौ तस्याः स्वयं प्रकाशता- स्वभावाभ्युपगतेति विरोधः । १ तस्याः पश्यन्त्याः । २ ननु नास्माभिः कादाचित्केनानुभवेन प्रतिपाद्या पश्यन्ती अभ्युपगता, येन कादाचित्क- त्वात्पश्यन्त्या विच्छिन्नदर्शनेऽनित्यत्वादिदोषप्रसङ्गः । अपि तु स्वात्मना प्रकाशमानेनानुभवितृत्वेनानुभवविषयमेव प्रकाशमानं पश्यन्ती पश्यति । एवं च सततं प्रकाशमानतैवेत्यपि निराकरोति तदानीमित्यादिना । तथा स्वात्मनात्मानमेव सा प्रत्यवमृशति परन्तु पश्यन्तीव्यपदेशस्तूपदेश्यजनापेक्ष- यैव न स्वतः कर्मव्यपदेशोऽत्रेति च समर्थयति । ३ तस्याः स्वयंप्रथनात् । ४ उपदेशो ह्यवश्यवक्तव्यत्वाद्विधिलक्षणः, स चाज्ञातज्ञापनलक्षणः । स्वयमेव ज्ञातेऽलमन्योपदेशकथावर्णनया । ५ यदुक्तं 'अथ स्वानुभवेनैव पश्यन्ती पश्य युक्तितः' इत्यस्यैवोऽभिप्रायो यदिष्टः । ६ अन्योपदेशकैः । ७ उपदेश्यस्य । ८ उपदेशो हि न दृष्टे प्रवर्तते । ९ पश्यन्त्याः । १० त्वं पश्यन्तीं पश्य स्वानुभवेन तां लक्षयस्वेति स्फुटमेव पश्यन्त्याः कर्मत्वमायातम् । ११ ननु पश्यन्त्याः स्वयमात्मदर्शनरूपाया न कथंचन कर्मताणुसंस्कारलेशमप्य-

६२ शिवदृष्टिः [ आ०-२ क्षतिरिति पुनरपि तत्प्रकाशकमेव प्रधानं भवेत् । अव्यतिरिक्तोऽपि¹ प्रकाशस्तस्या आत्मानमात्मना पश्यन्तीं पश्येति विवर्तभूम्यालिङ्गनात्² अशुद्धतापन्नः । अस्यातीति पश्यन्तीस्वरूपस्य ।। असत्यः³ प्रतिपाद्योऽस्मिन्नसत्यः प्रतिपादकः ।। ६७ ।। असत्यस्योपदेशत्वमसत्येन परीक्ष्यते । पश्यन्त्यतिरिक्तः⁴ सर्व एव प्रतिपाद्यादिप्रपञ्चोऽस्मिन् दर्शनेऽसत्यः⁵, तत् कुतः पश्यन्त्याः सिद्धिः कस्य वा केन वा प्रमाणेन ।। येन सा वा प्रमाणेन स्थाप्यते तस्य सत्यता ।। ६८ ।। तत्सत्यत्वे⁶ द्विसत्यत्वमसत्यत्वे न किंचन । यदि वा येन प्रमाणेन सा व्यवस्थाप्यते तस्य सत्यता इष्टा, तत् द्वयोः पश्यन्तीतत्प्रमाणयोः सत्यता प्राप्ता⁷, प्रमाणस्यासत्यत्वे न किंचन स्थितं स्यात् ।। साधुशब्दसमुच्चारात्कस्य स्वर्गादियोगिता ।। ६९ ।। पश्यन्त्याश्चेदविद्यात्वं तद्भोगोन्मुख्ययोगतः । मध्यमादेर्जडायाः किं भोगेन शबलात्मना ।। ७० ।। तस्मादसाधुः साधुः स्याच्छब्दविद्याफलप्रदः । एवं व्याकरणस्यापि समुच्छेद उपैति ते ।। ७१ ।।

स्पृशन्त्याः कथं पूर्ववत्कर्मेति । तत्र हि पारतन्त्र्यं कर्मताऽत्र तु स्वतन्त्रैवेत्यत आह प्रतिपाद्येनेत्यादि । १ अथ प्रकारान्तरेणापि । अथ स्वानुभवेनैव पश्यन्तीं पश्येति युनक्ति अव्यतिरिक्त इत्यादिना । २ त्वं तस्या आत्मान- मात्मना पश्येति तथा च न कर्मता नापि चोपदेशानार्थकयमित्येतदपि सम- र्थयति विवर्तभूम्यालिङ्गनात् इत्यादिना । ३ ननु च यः प्रतिपाद्यः सोऽपि पश्यन्ती, योऽपि प्रतिपादकः सोऽप्यसत्यः पश्यन्त्येव, योऽप्युपदेशः सोऽप्य- सत्यः पश्यन्त्येव, योऽपि तत्स्वरूपे परीक्षकः सोऽप्यसत्यः पश्यन्त्येवेति किमत्र परस्य कथनीयमिति चेत्, एतदेव पुनरपि समर्थनार्थं कथनीयमसत्यमेव हि सर्वं तर्ह्येतत्संपन्नमित्यलं भवद्वाक्प्रलापेनेत्यर्थः । ४ विशेषप्रतिषेधे सामान्या- भ्यनुज्ञानमिति नयेनाह पश्यन्त्यतिरिक्त इति । ५ पश्यन्तीविचारे । ६ तस्य प्रमाणस्य । ७ तदप्यनिष्टमेव ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६३ वैयाकरणैः साधुशब्दप्रयोगः स्वर्गापवर्गफल उक्तः । 'एकः शब्दः शास्त्रपूर्व प्रयुक्तः स्वर्गे लोके कामधुग्भवति' इति । तथा— 'साध्वी१ वाग्भूयसी येषु पुरुषेषु व्यवस्थिता । अधिकं वर्तते तेषु पुण्यरूपं प्रजापतेः ॥ प्राजापत्यं महत्तेजस्तन्मात्रैरेव२ संवृतम् । शरीरभेदे३ विदुषां स्वां योनिमुपधावति ॥' इति । तत्फलं स्वर्गाख्यं तावत्कस्य स्यात् यः शब्दप्रयोगस्य कर्तेति तत्फला- र्थितया पश्यन्त्याः कर्तृत्वे स्वर्गभोगोन्मुख्यात् अविद्यासंपर्केणाशुद्धता स्यात् । मध्यमावैखरीदशायामिष्टानिष्टोपलम्भभाजिप्राप्तिपरिहारोन्मुख्येन प्रवृत्तिः । तन्न, पारमार्थिकप्रमातृनिष्ठा हि विषयव्यवस्थितिः, तन्मध्यमादेः सवि- भागत्वेन द्वैतावस्थाने सति अविद्याशबलरूपतया जडत्वान्न परमार्थपद- प्रतिष्ठेने किञ्चिद्भोगेेन, भोग एवासौ न भवेदित्यर्थः । तस्मात्साधुशब्दः प्रयुक्तः शब्दविद्याफलस्य भोगादेर्दाता, प्रत्युत पश्यन्त्या अशुद्ध्यापादनेना- साधुरशुभः स्यात् । एवं चाशुभकारित्वाद्यथावर्णितफलं व्याकरणमपि त्वदीयं समुच्छिन्नं हेयमेव स्यात् ॥ ७१ ॥ वैयाकरणतां त्यक्त्वा विज्ञानान्वेषणेन४ किम् । भवतामप्रस्तुतेन५ न केवलमिहोदितम्६ ॥ ७२ ॥ विज्ञानाभासनं यावत्समीक्षायामुदाहृतम्७ । १ साध्वी व्याकरणव्युत्पत्तिसंस्कारसहिता । २ तैरेव केवलं संवृतं गोपितम् । ३ मरणक्षणे । ४ सम्यग्ज्ञानवेषणया । ५ प्रस्तावनानर्हेण । ६ ननु साधुशब्दानुशासनत्वमेव प्रधानं प्रयोजनं व्याकरणस्य व्यवस्थापितं प्रसङ्गागतं तत्र विज्ञानाभासनं व्यवस्थापितमिति कात्र हानिरिति समर्थयति न केवलमित्यादिना । ७ अनेन तेषामत्र सिद्धान्तप्रतीतिरस्तीति ध्वनितम् ।