षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ४३ जगत्तु त्रिविधं प्रोक्तं ब्रह्मविष्णुशिवास्ततः । देवतारूपवत्प्रोक्ता ब्रह्माणीत्थं हरिमंतः ॥ १० ॥ कामचारस्तु लोकेऽस्मिन् ब्रह्मादिभ्यो न चान्यथा । परमानन्दरूपे तु कृष्णे स्वात्मनि निश्चयः ॥ ११ ॥ अतस्तु ब्रह्मवादेन कृष्णे बुद्धिविधीयताम् । उक्तद्विरूपायां गङ्गायामेव देवतारूपा सा तद्भिन्नास्तीत्यर्थः । तत्र मानमाहुः मूर्तिरिति । भक्त्यैव, न तु मर्यादामार्गविधिनोपासनयेत्यर्थः । तदपि कचिदेव, भक्त्युद्रे- कदशायामेव । अथवा । यत्र कचिद्गृहादिष्वपीत्यर्थः । भक्तविशेषे विशेषमाहुः गङ्गाया- मिति । देवतारूपायां गङ्गायां भक्त्युद्रेकेण दृश्यमानप्रवाहादभिन्नत्वेन यस्य बुद्धिस्तस्मै गङ्गायां प्रवाहमध्य एव ( देवतारूपा गङ्गा ) प्रत्यक्षा भवतीत्यर्थः । एतेन प्रपञ्चमध्य एव भगवदाकारभगवद्भक्तयोर्दर्शने भगवति स्नेहातिशयेन तत्र भगवदभेदबुद्धये तत्र भगव- त्प्राकट्यं भवतीति भावः सूच्यते । अग्रिमव्यवस्थामाहुः प्राकाम्यमिति । स्वाभीष्टस्वसर्व- स्वरूपायाः स्थानभूतत्वेन ज्ञानात्तज्जले सर्वत्रानिषिद्धयथेष्टव्यवहारः स्यादित्यर्थः । एवमेवो- क्तप्रकारकभगवद्दर्शने सर्वत्र तद्भावः स्फुरतीति भावः । विहितेति । भक्त्या गङ्गादर्श- श्रीविठ्ठलेशात्मजश्रीवल्लभकृतविवृतिप्रकाशः । उक्तद्विरूपायामिति । आधिभौतिकाध्यात्मिकरूपायाम् । सा गङ्गा । तदिति । उक्तद्विरूपातः । तत्र भेदे । उक्तद्विरूपयोर्मूर्तिमत्त्वाभावादाधिदैविकस्यैव मूर्तिमत्त्वा- दित्याशयेनाहुः मूर्तिरितीति । 'देवतारूपा न तद्भिन्नास्ती'ति पाठे ततो भेदेन न तिष्ठति, तत्रैव तिष्ठतीत्यर्थः । तत्रेति । भेदेनास्थितौ तस्या एव साधिदैविकी मूर्तिरिति मानमित्यर्थः । तदपीति । दर्शनम् । क्वचिदिति । एतत्पदस्य कालवाचकत्वाशयेनाहुः भक्त्युद्रेकेति । देशवाचकत्वाशयेनाहुः गृहादिष्वपीति । प्रत्यक्षा भवतीति । यथा- सम्भवं षड्विधप्रत्यक्षा भवतीत्यर्थः । तथा च दृश्यत इति पूर्वेण न पौनरुक्त्यम् । न सर्वेषामिति । प्रवाहात् भिन्नबुद्धीनामित्यर्थः । यथा गङ्गायामाधिदैविकगङ्गाविर्भावः, न त्वाधिदैविकसरस्वत्यादेः, तथा सर्वत्र तत्तद्वस्तुनि तत्तदाधिदैविकाविर्भाव इति गङ्गादृष्टा- न्तेन सूचितमित्याशयेनाहुः एतेनेति । गङ्गादृष्टान्तकृतेन तत्तद्वस्तुनि तत्तदाविर्भावसू- चनेनेत्यर्थः । प्रपञ्चमध्य एवेति । प्रपञ्चान्तःपातिनोर्भगवदाकारभगवद्भक्तयोर्दर्शने ब्रह्मात्मकत्वेन ज्ञाने तत्र भगवदाकारभगवद्भक्तयोर्भगवता सहाभेदबुद्धिर्यस्य तस्मै तत्र तदाकृतितद्भक्तयोर्भगवत्प्राकट्यमित्यर्थः । आकृतिसाम्यादाकृतेरात्मन्यक्षरब्रह्मात्म(क)- त्वाद्वक्तस्य चाधिदैविको भगवानिति ज्ञेयम् । अग्रिमेति । उक्तविधप्रत्यक्षानन्तरव्य- वस्थामित्यर्थः । स्वाभीष्टेति । तथाभूतगङ्गायाः । स्थानभूतेति । आधिभौतिकाध्या- त्मिकयोरभेदबुद्ध्या तथा ज्ञानात्तथेत्यर्थः । सर्वत्र गृहादिष्वपीत्यर्थः । तत उद्धृतजलादिषु
४४ सिद्धान्तमुक्तावली । नानन्तरं प्रवाहरूपाया अपि दर्शनं विहितात्स्वर्गापवर्गरूपात्फलाद्विशिष्यते । तद्धृदीत्यर्थः । यद्वा । येषां न प्रत्यक्षा, तेषामपि तया देवतारूपया सा तत्रास्तीति तत्सम्बन्धानुभा- वेनैव तज्जले प्राकाम्यं प्रकृष्टकामविषयत्वं श्रद्धाविशेषपूर्वकस्नानादिव्यवहारो भवतीत्यर्थः । किञ्च । पुराणादिषु तज्जलदर्शनादिभिः फलं यदुक्तं तदनुभवेन महतामन्तःकरणप्रतीत्यापि तज्जलमन्येभ्यो जलेभ्यो विशिष्यत इत्यर्थः । एवं येषां हृदि भगवत्सांनिध्यं ते भक्ता अन्येभ्यो विशिष्यन्ते । अत एव ‘मल्लिङ्गमद्भक्तजनदर्शनस्पर्श नार्चन'मिति भगवतोक्तम् । (एवं दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं निरूप्य उक्तमर्थं स्पष्टयन्ति यथा जलमित्यादिना । तत्रापीति । साधर्म्येपि । एतदिति । किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे, दृष्टान्ते त्रिविधत्वाभावात् अत उच्यते ।) जगत्त्विति । त्रिविधं त्रिगुणात्मकं त्रिस्वभावत्वेन प्रकटं, (तुशब्देन जले तथात्वं व्यावर्तितम् । ततस्तस्माद्धेतोः जगतीति वा । रूपवद्यथा जगतो रूपं त्रिविधम्, तथा तत्रत्यत्रिविधानां देवता उपास्याः ब्रह्मादयः त्रयः प्रोक्ताः, तत्तच्छास्त्रे निरूपिताः । देवतेति स्त्रीलिङ्गप्रयोगात् तेषामस्वातंत्र्यं द्योतितम् ।) तेन तद्गुणनियामकत्वेन ब्रह्मादयो भगवतैव कृता इत्यर्थः । (ते तु प्राकृतानामेव नियामकाः, न तु ज्ञानिनामपीत्याहुः ब्रह्मणित्थमिति ।) ब्रह्मैकरूपमिति तन्निष्ठानां नियामको श्रीविट्ठलेशात्मजश्रीवल्लभकृतविवृतिप्रकाशः । वा । एवमेवेति । सर्वत्र प्रपञ्चे इत्यर्थः । प्रवाहरूपाया अपीति । अनेन देवता- रूपायास्तथा दर्शनं तथा भवत्येवेति सूचितम् । तद्धृदीत्यनेन प्रतीत्यापि तथा दर्श- नमुक्तम् । यद्वेति । ग्रन्थार्थस्तु, येषां न प्रत्यक्षा, तेषां का व्यवस्थेत्याकांक्षायामाहुः प्राकाम्यमिति । तेषामपीत्यस्य तथा भवतीत्यनेनान्वयः । अस्मिन्पक्षे विहितादित्यस्यार्थ- माहुः किञ्चेत्यादि । अत एवेति । यतस्ते भक्ता अन्येभ्यो विशिष्यन्ते, अतो हेतोरित्यर्थः । एवं दृष्टान्तेन त्रिरूपत्वमुपपाद्योपसंहरन्ति, मूले यथा जलमिति । सर्वं जगत्, भक्ता तीर्थरूपा, देवी आधिदैविकरूपा मूर्तिमती गङ्गा । तत्रापीति । अहन्ताममतानिवृत्ति- रुभयत्राक्षरत्वेन ज्ञानं चेति चतुर्ष्वपि मध्ये एतद्दृश्यमानप्रकारकं ब्रह्मात्मकत्वेन शाब्दं प्रपञ्च- ज्ञानं इहास्मिन्नेव जन्मन्मपेक्षितत्वेन उच्यते इत्यर्थः । एतदभावे लौकिको भोगो भवेत्, स तु प्रतिबन्धकत्वेनोक्तोस्तीति भावेनाडुः जगदिति । तुशब्देन ब्रह्मात्मकत्वेन ज्ञाते प्रपञ्चे त्रिगुणात्मकत्वं व्यावर्तितम् । तत इति । यतो हेतोस्त्रिगुणात्मकं जगत् । ततो हेतोः । रूपवदिति । यथा जगतो रूपं त्रिविधम्, तथा तद्गुणाभिमानिन्यो देवताः प्रोक्ताः । यदा तु ब्रह्मात्मकत्वेन जगत् ज्ञातम्, तदा ब्रह्मणि इत्थं तदेवत्वेन हरिः पुरुषोत्तमो १. एवं दृष्टान्तदार्ष्टान्तिकयोरुक्तमपि साधर्म्यं यत्र यदंशेन तत्र तथा स्पष्टयन्ति यथा जलं तथा सर्वमिति । तत्राप्येतदिहोच्यत इति । तत्रापि साधर्म्येपि । एतज्जगत् तु त्रिविधमित्यारभ्य न चान्यथेत्यन्तेन वक्ष्यमाणं किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे तदृष्टान्ते गङ्गाजले त्रिविधत्वाभावात् अत उच्यत इत्यर्थः । जगदिति पाठान्तरं पुस्तकद्वये । क्वचित् पाठद्वयमपि मूले नास्ति ।
[Header] श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ४५
हरिरेव । ( तर्हि भक्तानामपि लोकमध्यपातित्वात्तन्नियामकत्वं ब्रह्मादीनां कुतो नेत्यत आहुः कामचार इति । लोके तेभ्य एव कामचारः, त एव नियामका इत्यर्थः । न चान्यथेति । प्रकारान्तरेण नेत्यर्थः । भक्तेषु विशेषमाहुः परमानन्दरूप इति । ) ये तु भगवद्भक्तास्तेषां स्वात्मनि स्वात्मविषये ऐहिके पारलौकिके चार्थे जलादिषु श्रीकृष्ण एव कामचार इत्यर्थः । सर्वत्र नियामकः स एवेति भावः । अथवा । भक्तानां स्नेहातिशयेन स्वात्मत्वेनैव प्रभुः स्फुरतीति सर्वांशेन तत्प्रार्थने शङ्का न भवतीत्यर्थः । ( ब्रह्माद्यपेक्षयात्र विशेषः 'परमानन्दरूप' पदेनोक्तः । एतावदुक्तस्य फलितार्थमाहुः अत इति । अत उक्तरीत्या सर्वापेक्षया श्रीकृष्ण एव भक्तिमार्गे भजनीय इत्युक्तम्, अतो हेतो- स्तत्र बुद्धिविधीयताम् क्रियतामित्यर्थः । ननु कीदृशी बुद्धिरिति चेत्, तत्राहुः ब्रह्मवा- देनेति । ब्रह्मवादे हि परब्रह्मणः साकारत्वं प्रतिपाद्यते, अतस्तदुक्तपरब्रह्मत्वेन श्रीकृष्ण एव बुध्यतामिति भावः । तथात्वं दामोदरलीलायां श्रीशुकेन स्फुटमेवोक्तं, 'न चान्तर्न बहिर्यस्ये'ति 'त्रय्या चोपनिषद्भिश्चे'त्यादिना । तेन ब्रह्मवादो भक्तिमार्गे अनुभवसाक्षिक इति निरूपितं भवति । अत एव तुशब्देन निराकारवादो व्यावर्तितः । ) ॥ ११ ॥ अथ जीवस्वरूपं तन्मुक्तिप्रकारं चाहुः आत्मनीति । आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतनाः ॥ १२ ॥ उपाधिनाशे विज्ञाने ब्रह्मात्मत्वावबोधने । गङ्गातीरस्थितो यद्वद्देवतां तत्र पश्यति ॥ १३ ॥ तथा कृष्णं परं ब्रह्म स्वस्मिन् ज्ञानी प्रपश्यति । संसारी यस्तु भजते स दूरस्थो यथा तथा ॥ १४ ॥ अपेक्षितजलादीनामभावात्तत्र दुःखभाक् । तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ॥ १५ ॥
श्रीविठ्ठलेशात्मजश्रीवल्लभकृतविवृतिप्रकाशः ।
मतः शास्त्र उक्तः । एतन्निरूपणप्रयोजनमाहुः कामचार इति । ब्रह्मादिभ्यो जात- कामानां चारो भोगः अस्मिन् लोके भवति, लौकिको भवतीत्यर्थः । हरिकृतभोगस्वरूपः माहुः परमानन्द इति । एतस्यार्थमाहुष्टीकायां ये त्विति । ब्रह्मात्मकः प्रपञ्चो ज्ञानिनि भक्ते च । तत्र ज्ञानिनः कामाभावात् तद्व्यावर्तनाय तुशब्द उक्तः । स्वात्मविषय इति । स्वात्मपदं स्वात्मीयपरम् । कामचार इति । कामचारनिश्चय इत्यर्थः । लक्षणानङ्गी- कारेण पक्षान्तरमाहुः अथवेति । अस्मिन्पक्षे आत्मपदं कृष्णविशेषणम् । तत्प्रार्थने 'त्वदुच्छिष्टं भोज्य'मित्यादिभगवत्प्रार्थने । यतो हेतोर्ब्रह्मकनिष्ठानामेव व्यवहारो ब्रह्मण्येव पर्यवस्यति, अतो हेतोः सर्वं पुरुषोत्तमाधिष्ठानभूतमक्षरं ब्रह्मैवेति ज्ञात्वा व्यवहर्तव्यमित्यर्थ- माहुः मूले अतस्त्विति । अथेति । अस्य जन्मान्तरीयत्वाय भिन्नः प्रक्रमः । जीवस्वरूपं तन्मुक्ति-
४६ सिद्धान्तमुक्तावली । आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत् । लोकार्थी चेद्भजेत्कृष्णं क्लिष्टो भवति सर्वथा ॥ १६ ॥ क्लिष्टोऽपि चेद्भजेत्कृष्णं लोको नश्यति सर्वथा । आत्मविषय उच्यत इति शेषः । जीवा ह्यणवोऽक्षरात्मकाः, तदात्मकत्वमविद्यया- न्तरायभूतया न विदन्ति । तेन संसारमापद्यन्ते । इदमेवोपाधिरूपत्वं तस्याः, न तु तत्कृतं जीवत्वम् । अणुत्वबोधनार्थं दृष्टान्तः । व्योम्नि यथोपाधिभिः क्षुद्रैः छिद्राणीव प्रतीयन्ते, तथात्मनि क्षुद्रत्वादयो धर्माः प्रतीयन्ते, न तु ब्रह्मधर्मा इति बोधनार्थं च । उपाधिनाश इति । तेषां मध्ये यं जीवं येन प्रकारेण प्रभुरुदिधीर्षुर्भवति, तत्प्रकारकगुरूपदेशादिभिरवि- द्यालक्षणोपाधेर्ब्रह्मात्मकत्वावबोधनप्रतिबन्धकस्याविद्यात्मकस्य नाशे ब्रह्मात्मकत्वावबोधन- लक्षणे विज्ञानेऽनुभवे सम्पन्ने पुरुषोत्तमाविर्भावयोग्यता जातेति तस्मिन् जाते स्वात्मनि तं प्रकर्षेण पश्यतीत्यर्थः । तस्य सर्वस्वरूपो हरिरेवेति न तदतिरिक्तमपेक्षते । भजनोपयोग्यथी- पेक्षायामपि प्रभुणेव सर्वं सम्पद्यत इति न कदाचिद्दुःखी भवति । एतज्ज्ञापनार्थं दृष्टान्तः । ( गङ्गातीरस्थित इति । यद्वद् यथा गङ्गातीरस्थितस्तत्र प्रवाहमध्ये देवतामाधिदैविकीं श्रीविठ्ठलेशात्मजश्रीवल्लभकृतविवृतिप्रकाशः । प्रकारं अहंममतान्निवृत्तिप्रकारं स्वात्मन्यक्षरब्रह्मात्मकत्वे ज्ञानं चाहुरित्यर्थः । चतुर्षु मध्ये प्रपञ्चेऽक्षरत्वेन ज्ञानं पूर्वजन्मन्यपेक्षितत्वेनोक्तमिति भावः । तदात्मकत्वमिति । अक्षरात्मकत्वम् । इदमेवेति । अज्ञानजनकत्वमेवेत्यर्थः । येन प्रकारेणेति । त्रिविधमिश्र- पुष्टिमध्ये येन प्रकारेण । अविद्यालक्षणोपाधेरिति । अविद्याः स्वरूपाज्ञानादिपञ्च- पर्वाणि लक्षणानि वृत्तयो यस्योपाधिर्मूलाविद्यात्मकस्येत्यर्थः । ब्रह्मात्मकत्वेति । येन प्रकारेणोदिधीर्षा, तत्प्रकारक एव गुरूपदेशोपि संपन्नो भवति, तेन ब्रह्मात्मकत्वमपि तत्प्रकारकमेव भवति । यादृशी लीला अनुभावयिता प्रभुर्भवति, तादृशलीलाधिष्ठानत्वं स्वस्मिन्ननुभवतीत्यर्थः । तस्मिन्निति । पुरुषोत्तमाविर्भावे जाते सतीत्यर्थः । स्वात्मनीति । ज्ञानमार्गे गुहायां परमव्योम्नि लीलाविशिष्टपुरुषोत्तमाविर्भावः । भक्तिमार्गे त्वात्मन्येव तदाविर्भाव इति स्वपदम् । अयमेव च प्रकर्षः । तं लीलाविशिष्टं पुरुषोत्तमं पश्यतीत्यर्थः । इदमेव निवेदनाङ्गभूतं दर्शनं ज्ञेयम् । तस्य स्वात्मनि पुरुषोत्तमदर्शनवतः । तदतिरिक्तं भगवदतिरिक्तम् । अर्थापेक्षायां जलाद्यपेक्षायाम् । प्रभुणेव सर्वमिति । अक्षरात्मकाधिष्ठानभूतजलाभावेपि पुरुषोत्तमात्मकलीलासृष्टिस्यजलाविर्भावो भवतीत्यर्था- भावप्रयुक्तं दुःखं कदापि न भवतीत्यर्थः । एतज्ज्ञापनार्थमिति । स्वपदस्य ज्ञानिभक्तवि- भेदसूचकत्वज्ञापनार्थमित्यर्थः । स देवतां तत्र गङ्गायामेव पश्यति, तथायमपि स्वस्मिन्नेव १. न तु ब्रह्मधर्मबाधनार्थमितिपाठः ।
श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ४७ ता पश्यति, तथा ज्ञानी स्वस्मिन् आत्मनि परं ब्रह्म कृष्णं पश्यति, परं भक्त्येति विशेष उभयत्र ज्ञातव्यः । तदभावे तु दर्शनमपि दुर्लभम्, कुतस्तरां भजनमिति भावः । 'भक्त्या या दृश्यते काचि'दिति पूर्वमुक्तत्वात् 'भक्त्याहमेकया ग्राह्य' इति प्रभुवचनाच्च । ननूक्त- प्रकारकज्ञानाभावेपि लोके भजनं दृश्यते, तत् कथमित्यपेक्षायामाहुः संसारेति । ) यस्तु प्रपञ्चासक्तो गुरूपदेशमात्रेण भजते, संसारनिवृत्तिहेतुत्वं ज्ञात्वा भजते, न तु ब्रह्म- भावसम्पत्त्या, पुरुषोत्तमाविर्भावाभावात्, स तु गङ्गातो दूरस्थो यथा तां भजते, तत्रापेक्षि- ततज्जलाप्राप्त्या दुःखी भवति, तथा अयं भक्तिमार्गस्थ इति साक्षात्स्वरूपसम्बन्ध्यर्थापेक्षायां तदप्राप्त्या क्लेशभाग्भवतीत्यर्थः । तथापि न स भजनं त्यजति, अङ्गीकारात्प्रभोः । अनङ्गी- कारे तु मध्ये भजनप्रतिबन्धेपि कृतभजनवैयर्थ्यासम्भवाज्जन्मान्तरे तत्फलिष्यतीति ज्ञेयम्। (तेन प्रवाहभक्तिमार्गीयोऽयं निरूपितः, अन्यथा मध्येऽनङ्गीकारः, तेन भजनप्रतिबन्धादिकं न स्यात् । ननु पुष्टिमार्गं परित्यज्य किं तत्कथनेनेत्याशंक्याहुः तस्मादिति । यस्मात् प्रवा- हस्थभक्तेऽप्येवमङ्गीकारः प्रभोः, यज्जन्मान्तरेपि तं न त्यजति, तस्माद्धेतोः श्रीकृष्णमार्ग- स्थः पुष्टिमार्गस्थः सर्वलोकतोपि मुक्तो भिन्नो विशिष्टश्चेत्यर्थः । सर्वपदात् ज्ञानितः प्रावा- श्रीविठ्ठलेशामजश्रीवल्लभकृतविवृतिप्रकाशः । कृष्णं पश्यतीति मूलार्थः । ज्ञानी स्वस्मिंस्तादृशाक्षरत्वज्ञानवानित्यर्थः । यस्त्विति । तुशब्देन लीला सृष्टि विशिष्ट पुरुषोत्तमाविर्भाववतो व्यावृत्तिः । पुरुषोत्तमाधिष्ठानत्वेन प्रपञ्चज्ञानवान् प्रपञ्चासक्तः । स एव संसारी । न त्विति । तत्राप्येतदिहोच्यत इति संदर्भेणोक्तस्ताव- न्मात्रवान् । अवशिष्टत्रितयरहित इत्यर्थः । स त्विति । इदं पदं 'क्लेशभागभवती'त्यनेन सम्बध्यते । भक्तिमार्गस्थ इति । भजनाकांक्षा प्रतिपादिता । साक्षादिति । सत्य भजनोपयोगिजलाद्यपेक्षायां कदाचित्परीक्षार्थं प्रारब्धभोजनार्थं वा प्रभुश्चेद्विलम्बते तदा तदधिष्ठानभूतजलाद्यभावेन लीलासृष्टिस्थपुरुषोत्तमात्मकजलाद्यप्राप्त्या क्लेशभाक् भव- तीत्यर्थः । ननु सर्वस्यापि सेवोपयोगियावदर्थाप्राप्त्योद्वेगहेतुक्लेशभाक्त्वस्य सिद्धत्वा- त्तेन न सेवानिर्वाह इति चेत्, सत्यमित्याशयेनाहुः तथापीति । अङ्गीकारात् पुष्टि- पुष्टावङ्गीकारात् । अङ्गीकारेण प्रतिबन्धककृतः प्रतिबन्धो न भवतीत्यर्थः । अङ्गीकारे च भजनत्यागाभाव एव मानम् । अनङ्गीकार इति । पुष्ट्यंशे मर्यादास्थिल्या, पुष्टिपुष्टा वनङ्गीकारे तु मध्ये मध्ये प्रतिबन्धककृतौ भजनप्रतिबन्धो भवति, तदा द्वितीयजन्मनि तद्भजनं फलिष्यति । निर्वक्ष्यतीति ज्ञेयमित्यर्थः । कृतभजनेति । भजनस्य फलं भजनमेव । भजननिर्वाह इति यावत् । तदभावासंभवादित्यर्थः । मूले तस्मादिति । यतो हेतोस्त्रितय- रहितस्तत्तदधिष्ठानापेक्षो दुःखभाक् तस्माद् हेतोः शुद्धपुष्टिमार्गस्थः सर्वलोकतो विमुक्त- श्रतुष्टयमपि संपाद्याधिष्ठानापेक्षारहितः तथाविधं कृष्णमेव विशेषेण चिन्तयेदिति संबन्धः । श्रीकृष्णोति । रसात्मकनामोक्तेः । पुष्टीति । पुष्टिमार्गीयभक्तेषु प्रकटिता ये तथाविधा
४८ सिद्धान्तमुक्तावली । हिकभक्तः, कैमुतिकन्यायेन साधारणलोकतश्चेति ज्ञेयम् । ज्ञानिनः संसाराभावात् संसा- रिणो ज्ञानाभावेन दुःखभाक्त्वम् । पुष्टिमार्गस्यैव प्रभुस्वरूपं ज्ञात्वा सर्वस्वनिवेदनपूर्वकं सर्वा- त्मभावेन भजनं स्वप्नेपि दुर्लभम् । पुष्टिमार्गीयस्य प्रभ्वनुग्रहैकनियम्यत्वात् सर्वमुपपद्यत इति ततो वैशिष्टयम् । एतावत्सर्वं श्रीकृष्णमार्गस्थपदेन द्योतितम् । अतः सर्वमवदातम् । ननु वित्ताद्यभावे पुष्टिमार्गीयस्यापि भजनासंभवे दुःखित्वात् कथमुक्तवैशिष्ट्यमित्यपेक्षायामाहुः ) आत्मानन्दसमुद्रस्थमिति । श्रीकृष्णपदात्पुष्टिमार्गीयभक्तप्रकटितनिरवध्यानन्देषु विहरन्त- मित्यर्थः । ते तु व्रजरूपात्मका इति मन्मतिः । स आनन्दो भगवत्स्वरूपात्मकस्तद्दत्त एव । अत आत्मपदं भगवत्परम् । ( बहिरसंभवेप्यन्तरेवं भजेत् । अतो नोक्तानुपपत्ति- रिति भावः । ननु कश्चिज्जीविकार्थमपि भजते, तस्य का गतिरित्यत आहुः लोकार्थी- ति । लोकपदेन लौकिकोऽर्थ उच्यते, तदर्थी चेत् कृष्णं भजेत्, तदा व्यापारवदर्थे सिद्धे तस्याप्यनर्धरूपत्वेन तत्कृतभजनस्य भक्तित्वाभावात् तत्कृतं सर्वं क्लेशरूपमेव । अतः क्लिष्टो भवतीत्यर्थः । न केवलमैहिकः क्लेशः, किन्तु परलोकोपि नश्यति, निषि- द्धाचरणादिति सर्वथेत्युक्तम् । यस्य स्वल्पमपि ज्ञानम्, स नैवं करोति, सर्वथा तद्रहितः कश्चिदेवं कुर्यादपीति चेदित्युकम् । अत्र मूलनामोक्तिर्भजनकर्तुरभिप्रायेण, अन्यथा तदसंभवात् । तर्हि लोकार्थित्वाभावेपि तद्रहितस्य भजनासंभवात् को विशेष इत्यत आहुः क्लिष्टोपीति । लौकिकार्थिभावेन क्लिष्टोपि गीतायां नवमेऽध्याये 'पत्रं पुष्पं फलं तोय'मिति वचनात् कृष्णं चेत् भजेत्, तदा यथासंभवं भजनमर्थादेव सिध्यति, परं लोको नश्यति । लौकिकं न सिध्यति, न तु स्थितं नश्यति, भजनसिद्धौ न तावता कापि हानि- रिति भावः । भगवतस्तथेच्छेति सर्वथेति निरूपितम् । चेदिति तथा भजनमशक्यमिति ज्ञापनाय ) ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ श्रीविठ्ठलेशात्मजश्रीवल्लभकृतविवृतिप्रकाशः । आनन्दास्तेषु । तद्दत्त इति । भगवद्दत्तः । अत इति । तथाविधानन्दस्य स्वरूपात्मकत्वादेव । अनेन चिन्तनरूप आत्मनिवेदनाङ्गभूतः स्नेह उक्तः । कृष्णमेवेत्येवकारेण मुख्या प्रेमलक्षणा भक्तिरुक्ता । मूले लोकार्थीति । लोकसिद्धा लौकिका येऽर्थास्तद्वान्, प्रपञ्चत्वेनैव प्रपञ्च- ज्ञानवानित्यर्थः । स यदि लौकिकार्थेनैव कृष्णसेवां कुर्यात्, तदा स प्रारब्धाधीन इति तत्तदधिष्ठानाप्राप्त्या सर्वथा क्लिष्टो भवति । तस्य प्रवाहमिश्रत्वे सर्वथा भजनत्यागो भवति, ततो बहुभिर्जन्मभिस्तत्सिद्धिः । पूर्वोक्तः संसारी तु प्रारब्धाधीनः । परीक्षार्थं प्रार- ब्धभोजनार्थं वा प्रभुश्चेद्विलम्बते, तदा तदप्राप्त्या कदाचित् दुःखभाग् भवति । 'स्वस्मिन् ज्ञानी प्रपश्यती'त्युक्तस्तु चतुष्टयवानधिष्ठानानपेक्षः कदाचिदपि दुःखी न भवतीति विभाग इति भावः । पुष्टिमिश्रस्य प्रकारमाहुः क्लिष्टोपीति । तादृशोपि चेद्भजेत्, तदा लोको नश्यति । लोकः स्वत एव दर्शनविषयो न भविष्यतीत्यर्थः । भजनात्यागज्ञापिताङ्गीकारेणैव तत्सिद्धिरिति भावः ।
३. विवेकधैर्याश्रयः, कृष्णाश्रयः, चतुःश्लोकी एवं भक्तवर्धिनी
श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ४९ स्वस्वरूपज्ञानप्रभुस्वरूपज्ञानाभाववान् भक्तोऽपि पुष्टिमर्यादाभेदेन द्विविधः । उभयोश्चित्तचाञ्चल्याभावायाहुः ज्ञानाभाव इति । ज्ञानाभावे पुष्टिमार्गी तिष्ठेत्पूजोत्सवादिषु ॥ १७ ॥ मर्यादास्थस्तु गङ्गायां श्रीभागवततत्परः । अनुग्रहः पुष्टिमार्गे नियामक इति स्थितिः ॥ १८ ॥ उभयोस्तु क्रमेणैव पूर्वोक्तैव फलिष्यति । ज्ञानाधिको भक्तिमार्ग एवं तस्मान्निरूपितः ॥ १९ ॥ (पुष्टिमार्गी पूजोत्सवादिषु तिष्ठेत्, पुष्टिपुष्टिमार्गे पूजापदं तस्य ज्ञानाभावात् प्रथम- प्रवृत्त्यभिप्रायेणोक्तम् । मनसस्तन्निष्ठतायां कृतिरथैव सिध्यतीति तत्कुर्यादित्यनुक्त्वा तत्र तिष्ठेदित्युक्तम् । मर्यादायां प्रकारान्तरमाहुः मर्यादास्थ इति । गङ्गायां गङ्गासमीपे श्रीभागवततत्परस्तिष्ठेदिति पूर्वेण सम्बन्धः । उभयोरन्यतरधर्मव्यावृत्त्यर्थं तुशब्दः । तत्र भेदकं किमित्याकाङ्क्षायां) पुष्टिमार्गीये विशेषमाहुः अनुग्रह इति । तस्य स्थितौ न देशनि- यमः, किन्तु प्रभोरनुग्रह यत्रैव यथा स्थापयति, तत्रैव तिष्ठति तथा । तस्य विधिर्न निया- मक इति भावः । मर्यादास्थावपि ज्ञानिभक्तौ चेदनुगृह्णाति विशेषतः, तदा आदौ पुष्टि- मार्ग प्राप्य तन्मार्गीयां भक्तिं प्राप्नुत इत्याहुः उभयोरिति । यदि मर्यादायामेवाङ्गीकारः, तदोभयोर्मुक्तिरेव फलिष्यतीत्याशयः । एवं निरूपणे तात्पर्यमाहुः ज्ञानाधिक इति । श्रीविट्ठलेशात्मजश्रीवल्लभकृतविवृतिटिप्पणी । टीकायाम् स्वस्वरूपेति । पुरुषोत्तमाधिष्ठानत्वेन स्वस्वरूपज्ञानं, तत्राधि- ष्ठितत्वेन च प्रभुस्वरूपज्ञानं ज्ञेयम् । पूर्वोक्तः संसारीत्यर्थः । पुष्टिमर्यादेति । विशेषणभूतैतद्द्वयभेदेनेत्यर्थः । प्रवाहस्थस्तु लोकार्थीयैर्नोक्त इति भावः । मूले पूजोत्सवादिष्वितौ येषु तेषु भगवद्धर्मेष्वित्यर्थः । मर्यादामिश्रस्तु जन्मान्तरे नित्यभजना- र्हेदेहसिद्ध्यर्थं गङ्गायां तिष्ठेदित्याहुः मर्यादास्थस्त्विति । पुष्टिमिश्रस्य त्वनुग्रहो नियामको नित्यभजनसाधकः, अतो योग्यदेहापेक्षाभावात्स्थितिस्यलानाग्रह इत्याशयेनाहुः अनुग्रह इति । टीकायां मर्यादास्थाविति । मर्यादामिश्रपुष्टिस्थावित्यर्थः । ब्रह्मज्ञानेन पराप्राप्तिमान् ज्ञानी, तद्भिन्नैव तद्वान् भक्त इति ज्ञेयम् । विशेषत इति । मर्यादामशे पुष्ट्यंशं योजये- चेत्, तदादौ योग्यदेहात् पूर्वमेव पुष्टिस्वरूपमार्गप्राप्त्यर्थः । पुष्टिप्तिर्भंगवत्कृततद्धो- जनेन भवतीति भावः । तन्मार्गीयां भक्तिं आत्मनिवेदनाङ्गस्नेहं प्रेमलक्षणां भक्तिं वा । इदमेव मूले पूर्वोक्तपदेन ग्राह्यम् । उभयोरितीति । उभयोर्मर्यादापुष्टिस्थज्ञानिभक्तयोः । मर्यादायामेवेति । मर्यादाभेदेष्वित्यर्थः । एवकारः पुष्टिभेदव्यवच्छेदकः।एवं निरूपण इति । ७ सि० मु०
५० सिद्धान्तमुक्तावली । लोकेऽधुना भक्तेरपि ज्ञानं फलं, तस्य मुक्तिरेवेति सर्वे वदन्ति । तत्र ज्ञानं हि ब्रह्मात्मैक्य- ज्ञानम् । ब्रह्म चाक्षरात्मकम्, तदात्मकत्वेन सर्वज्ञानं च । एतावतापि पुरुषोत्तमसम्बन्धस्तु दूरतरः । तस्य अक्षरातीतत्वात् । अत एवार्जुनेन पुरुषोत्तमाक्षरभजनयोस्तारतम्यं पृष्टः स्वभजन आधिक्यमाह गीतासु द्वादशेऽध्याये । गङ्गायां च क्षराक्षरपुरुषोत्तमतारतम्यदृष्टान्तः स्पष्टः । न हि देवी तीर्थात्मिका जलात्मिका वा, किन्तु जल एव तीर्थात्मकत्वं जानन् ज्ञानी भवति । तदतीतदेवतात्मकदर्शने भक्तत्वम् । न हि भक्त्या देवतारूपसमः पूर्वी भवति । अत एव पुरुषोत्तमं मां जानन् मामेव सर्वभावेन भजतीति 'यो मामेवमसंमूढ' इत्युपक्रम्य 'भजति मां सर्वभावेने' ति प्रभुरुक्तवान् । अतो ज्ञानमार्गीयस्यापि पुरुषोत्तम- विदोपि भक्तिनिष्ठैव फलमिति किमितोऽधिकं वाच्यम्, अनेकप्रमाणसिद्धत्वादिति विद्वद्भि- र्ज्ञेयम् । ऋग्वेदेपि पठ्यते 'तमु स्तोतारः पूर्व्यं यथाविद ऋतस्य गर्भं जनुषा पिपर्तन । आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ।' हे स्तोतारो भगवदुत्कर्षवर्ण- नपराः पूर्व्यं सर्वकारणकारणरूपं तं लोकवेदप्रसिद्धं पुरुषोत्तमं भवन्तो यथाविद्विदन्ति तत्स्वरू- पमिति तथाभूताः । ऋतस्य सूनृतवाणीरूपस्य वेदस्य गर्भरूपम् । स्वोदरस्थं वेदं विश्वहितार्थं ब्रह्मणे उपदिष्टवानिति तथा । जनुषा स्वजन्मनेव पूर्णेन, न तु क्षणयाममात्रेण । पिपर्तन पूर्तियुक्तं सन्तुष्टं कुरुत । अत्र यथावित्त्वोक्त्या पूर्णज्ञानानां देहेन्द्रियप्राणान्तःकरणजीवां- स्तदर्थमेव तद्भजनार्थमेवोपयुक्तान् कुरुतेति भक्तिमार्गे विनियोगमुपदिशति । तेन स्फुटमेव ज्ञानमार्गाद्भक्तिमार्गस्याधिक्यमवगम्यते । भक्त्या विना न कोपि पुरुषार्थः सिध्यतीति हृदयेनाह्याग्रे देहादिसर्वविनियोगाशक्तौ आसमन्ताज्जानन्तोऽखण्डशब्दब्रह्मरूपं, न तु लौकिकशब्दरूपमिति । नामस्वरूपं जानन्तस्तदेव विवक्तन विशेषेण वदन्तु । अधिकमा- हात्म्याद्यज्ञाने नाममात्रमुत कीर्तयन्तु । एतेनैव भगवत्स्वरूपतन्माहात्म्यादिकं ज्ञातं भवि- ष्यतीत्याशयेनाह नामस्वरूपम् । चिदिति । चिदित्युपलक्षणम् । सच्चिदानन्दात्मकमित्यर्थः । नामस्वरूपाज्ञाने तदुपदेष्टृगुरूपसत्तिः कार्येत्याशयेनाह महस्त इत्यादि । ते त्वत्सम्बन्धिने सुमतिं निर्दोषपूर्णगुणत्वेन भवन्तं जानन्तं भगवद्भक्तं भजामहे । स च स्वतेजसा पराज्ञा- ननिरासक इत्याह मह इति । तेजोरूपमित्यर्थः । स्वहृदि सदा श्रीकृष्णप्राकट्येनोत्सवात्म- कमिति वा । एतेन ज्ञानिनां भक्तिमार्गप्रवेश एवोपदिष्टो भवति । एवमेव 'तद्विष्णोः' 'तद्विप्रास' इत्यादिश्रुतिसहस्रैर्निगद्यत इति सुष्ठूक्तं ज्ञानमार्गादधिको भक्तिमार्ग इति ॥१७॥१८॥१९॥ श्रीविट्ठलेशात्मजश्रीवल्लभकृतविवृतिटिप्पणी । गङ्गादृष्टान्तेन भक्तिमार्गानिरूपणे । तात्पर्यं ज्ञानमार्गाद्भक्तिमार्गस्याधिक्यज्ञापनरूपमाहु- रित्यर्थः । गङ्गायामिति । आधिभौतिकादिभेदेन गङ्गायां क्षरादिदृष्टान्तः स्पष्टः । ननु जल- तीर्थात्मिकैव गङ्गा, न तु तदतिरिक्ता देवतारूपेति कथं गङ्गादृष्टान्त इत्यत आहुः नहीति । किंत्विति । इदं पदं तदतीतेत्यनेन संबध्यते । यद्दर्शने भक्तत्वं भवति सा देवीति भावः ।
श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ५१ गङ्गादृष्टान्तस्य तात्पर्यान्तरमाहुः भक्त्यभाव इति । भक्त्यभावे तु तीरस्थो यथा दुष्टैः स्वकर्मभिः । अन्यथाभावमापन्नस्तस्मात्स्थानाच्च नश्यति ॥ २० ॥ एवं स्वशास्त्रसर्वस्वं मया गुप्तं निरूपितम् । एतद्बुद्ध्वा विमुच्येत पुरुषः सर्वसंशयात् ॥ २१ ॥ इति श्रीवल्लभाचार्यविरचिता सिद्धान्तमुक्तावली सम्पूर्णा ॥ भगवत्सान्निध्यदेशेऽपि स्थितौ भक्त्यभावे तथा भवतीति भावः । एतेन भक्तेरा- वश्यकत्वमुक्तं भवति । ( सप्रयोजनमुक्तमुपसंहरन्ति एवमिति । उक्तप्रकारेण स्वशास्त्र- रूपं स्वशास्त्रस्य वा सिद्धान्तरूपसर्वस्वं गुप्तं स्वल्पेन बहु निरूपितत्वात् गम्भीरतात्पर्यं बहिर्मुखानामज्ञापनीयं वा । किं तेनेत्यत आहुः एतदिति । एतज्ज्ञानेन स्वमार्गसम्बन्धि- सर्वसंशयनिवृत्तिर्भवति, अन्यथा 'संशयात्मा विनश्यती'ति बुद्धिरन्यथा भवेदित्यर्थः ) ॥ २० ॥ २१ ॥ इति श्रीपितृपादाब्जपरागरागरससिक्तहृत् । श्रीविठ्ठलस्तत्सिद्धान्तवाङ्मालां हृदये दधौ ॥ १ ॥ श्रीविठ्ठलेशात्मजश्रीवल्लभकृतविवृतिटिप्पणी । तात्पर्यान्तरमिति । पूर्वं 'ज्ञानाधिक इत्यनेन भक्तेर्ज्ञानाधिक्यरूपं तात्पर्यमुक्तम्। अनेन भक्तेरावश्यकत्वरूपं तात्पर्यमुच्यते । भक्त्यभाव इतीति । तीर्थात्मकत्वेन जानन्नपि तीर- स्थितोपि भक्त्यभावे दुष्टैः कर्मभिः अन्यथा भावं जलत्वेनैव ज्ञानमापन्नस्तस्मात् स्थाना- त्तीर्थत्वज्ञानादपि नश्यतीत्यर्थः । तथाभवतीति । अक्षरब्रह्मात्मकत्वेन ज्ञानवानपि दुष्टैः प्रारब्धैः स्वकर्मभिरन्यथाभावं प्राप्तः प्रपञ्चत्वेनैव जानन् तस्मात् स्थानात् ब्रह्मात्मकत्वज्ञा- नान्नश्यतीत्यथः । न च ज्ञानेन सर्वपापक्षयात् कथमन्यथाभावो वक्तुं शक्य इति शंक्यम् । ज्ञानस्यानारब्धानामेव कर्मणां नाशकत्वात् । प्रारब्धकर्मणां नाशस्तु पुष्ट्यैवेति सिद्धं भक्तेरे- वावश्यकत्वम् । मूले एवमिति । पूर्वोक्तप्रकारेण । स्वशास्त्रेति । स्वशास्त्रस्य सेवाप्रकार- रूपं सिद्धान्तम् । गुप्तं निरूपितमिति । गुप्ततया निरूपितम् । एतदिति । यन्मया गुप्तं निरूपितम् । एतद्बुद्ध्वा विमुच्येत । सर्वसंशयादेतद्ग्रन्थनिवर्त्याद्विमुक्तो भवतीत्यर्थः । पुनः कदापि संशयं न प्राप्नोतीति विशब्दार्थः ॥ इति श्रीविठ्ठलेशात्मजश्रीवल्लभ विरचिता सिद्धान्तमुक्तावलीविवृतिटिप्पणी ।
श्रीकृष्णाय नमः । सिद्धान्तमुक्तावली । श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । प्रणम्य पितृपादाब्जपरागमनुरागतः । कृपया विशदीकुर्मस्तद्वाङ्मुक्ताफलावलीम् ॥१॥ नत्वा हरिं प्रवक्ष्यामि स्वसिद्धान्तविनिश्चयम् । कृष्णसेवा सदा कार्या मानसी सा परा मता ॥ १ ॥ स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैर्बहुभिर्मिथो विरुद्धैः सिद्धान्तैः शास्त्रार्थसन्देहे तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थनिश्चयं वक्ष्यामीत्यर्थः । तमेवाहुः कृष्णसेवेति । श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । श्रीकृष्णाय नमः । प्रणम्येति । अत्र नमने प्रकर्षो भक्तिमार्गीयत्वम्, तच्च सुसे- व्यत्वज्ञानपूर्वकत्वे सति भक्तिकारणकत्वम्, तदेव भक्तिमार्गीयतावच्छेदकद्वयं प्रकटयन्ति पितृपादाब्जेति । पितृपदं भक्त्यनपेक्षपुत्रवात्सल्यबोधकम् । हृदयाविष्टस्य घनीभूता- नन्दरूपपादस्य परागस्तस्मात् स्रुत आनन्दः । भगवच्चरणारविन्दे हृदये समागते य आन- न्दोऽनुभूयते तत्स्वरूप इत्यर्थः । तथा च पितृपादाब्जपरागमित्यनेन सुसेव्यत्वज्ञानरू- पमवच्छेदकमुक्तम् । अनुरागत इत्यनेन भक्तिरूपं द्वितीयमवच्छेदकमुक्तम् । एतादृशन- मनाभिव्यञ्जितपदार्थमाहुः कृपयेति । भगवद्धर्माणां नित्यत्वादभिव्यक्तेरेवाङ्गीकारात् कृपायास्तथात्वमिति मन्तव्यम् । अत एवासाधारणकारणतया तदुक्तिः । तादृशनमनोपकार- सिद्धां तत्कृपामाहुः, नमनस्य करणत्वं तत्क्रियासिद्धौ प्रकृष्टोपकारकत्वादिति भावः । स उपकारः, तत्सिद्धां कृपामित्यर्थः । कृपया ग्रन्थवैशद्यकरणकथनेन स्वपितृचरणानां वागधिपतित्वमप्युक्तम्, तत्कृपाया एव तथाकरणसामर्थ्यात् । नमनजन्यपदार्थमाहुः विशदीकुर्म इति । वैशद्यं स्फुटीभावः । किमित्याकांक्षायामाहुः तदिति । तद्वाङ्गिष्ठमु- क्ताफलरूपार्थराशिमित्यर्थः । मुक्ताफलपदस्य कल्पनाद्वृत्त्यार्थबोधकत्वम् । सादृश्यं च नैर्मल्यसामान्यधर्मेण । नैर्मल्यं चात्र प्रोज्झितकैतवत्वम् । वाच एव मुक्ताफलानीत्ययं पक्षस्तु अन्यार्थस्यैव स्फुटभावं प्राप्तत्वादसंभवग्रस्तः । वाग्वैशद्यं तु व्याकृतावुच्चारणे चैव प्रसिद्धम् । मूले स्वसिद्धान्तेति । स्वसिद्धान्तस्य अयमेव शास्त्रार्थ इति विशेषेण निश्चयो यस्मात् तादृशं ग्रन्थरूपं निश्चायकं वाक्यम् । इदं च प्रतिज्ञावाक्यम् । महावाक्यमाहुः कृष्णसेवेत्यादि । टीकायां अग्र इति । अस्मिन्नेव ग्रन्थे'मायिकं सगुणं कार्य'मित्यादि- भिर्वक्ष्यमाणैः । शास्त्रार्थस्य गीताभागवतार्थस्य । तन्निरासाय शास्त्रार्थसन्देहनिरासाय ।
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ५३ फलात्मकनामोक्त्या स्वतःपुरुषार्थत्वेन सेवाकृतिः स्वसिद्धान्तो, न त्वन्यशेषत्वेनेति ज्ञाप्यते । सेवा हि सेवकधर्मः । तदुक्त्या जीवानांमशेषाणां सहजदासत्वं ज्ञापितम् । अत एव न कर्मणीवात्र कालपरिच्छेदोस्तीत्याहुः सदेति । आवश्यकार्ण्यप्रत्यया- न्तकार्यपदोक्त्या तदकरणे प्रत्यवायी भवतीति भावो ज्ञाप्यते । सा च फलरूपा साधनरूपा चास्ते । तत्र मानसी सा परा फलरूपेत्यर्थः । यथा व्रजसीमन्तिनीनाम् । तदेव तत्प्राण- नाथेन गीतं 'ता नाविदन्मय्यनुषङ्गबद्धधियः स्वमात्मानमदस्तथेद' मित्यादिना ॥ १ ॥ श्रीरघुनाथात्मजश्रीब्रजनाथकृतविवृतिटिप्पणी । सन्देहस्वरूपं तु स्वयमेवाग्रे वक्ष्यन्ति स्वेति । एतन्निरूपकशास्त्रार्थस्य निश्चयो यस्मात्त- मित्यर्थः । फलात्मकेति । फलरूपस्य तस्य स्वतः पुरुषार्थत्वधर्मावच्छिन्नसेवाकृतिः स्वसिद्धान्तः । फलसेवनं हि स्वतः पुरुषार्थः इति, अत एव धर्मार्थयोः काममोक्षद्वारा पुरुषार्थता । काममोक्षयोरेव साक्षात् सुखहेतुत्वात् स्वतः पुरुषार्थत्वम्, 'पुंप्रीतिहेतुर्हि पुरुषार्थ' इति जैमिनिसिद्धान्तात् । यथा कामिन्याः । स्वतःपुरुषार्थत्वेन । कामप्रयत्न- योरेकविषयत्वेनेत्यर्थः । ननु एवं 'मानसी सा परे'त्यनेन मानस्याः सेवायाः फलत्वेन वक्ष्यमाणत्वात् तदर्थत्वमेवैतत्सेवायाः सिध्यति, न तु स्वतःपुरुषार्थत्वम्, किन्त्वन्यशे- षत्वमेवेति चेत्, तत्राहुः न त्वन्येति । यत्र विजातीयफलार्थत्वं तत्रैवान्यशेषत्वम्, यथा विजातीयोर्धर्मार्थयोः शेषशेषिभावः, प्रकृते तस्या एव सेवाया अवस्थाभेदेन मानससे- वारूपफलत्वेन विजातीयत्वाभावाददोष इति भावः । नन्वेवं मानससेवारूपमोक्षजनकतया सेवाकृतिरित्यागतम्, तत्र मोक्षजनकता तु भगवत्संबन्धेनैवावच्छिद्यते इति भगवद्विषयकं कामक्रोधादिकं ज्ञानमेव वा तत्साधनमस्तु, किं नूतनसेवाविधानेनेत्यत आहुः सेवा हीति । स्वधर्मत्वात् सेवाकृतिरुचिततरैव । किञ्च, सेवोक्त्या च जीवानां दासत्वं ज्ञापि- तम् । सहजेति । अत्र सहजातमिति विग्रहस्तज्जातपदं सत्तापदं, जीवस्य नित्यत्वेन जनना- संभवात् । तथा च सहसत्ताकमित्यर्थः । यथा जीवसत्ता सार्वदिकी, तथा दासत्वस- त्तापि । अत एव जीवस्य सहजदासत्वेन अत्र सेवायां सहजधर्मत्वादेव । कर्मणीवेति । कर्म न सहजधर्मः, तस्यैव जन्मान्तरे शूद्रदेहेऽनधिकारादिति भावः । कालपरिच्छेदोऽ स्मिन् काले न कर्तव्येतिरूपः । सेवायां कालपरिच्छेदत्वादिधर्माभावेपि प्रत्यवायजनकी- भूता भावप्रतियोगित्वरूपधर्मोस्तीत्याहुः आवश्यकऋण्येति । सा चेति । सा पूर्वोक्तैव सेवा । दास्यधर्मविशिष्टा साधनरूपा, सर्वांशेन कृष्णसंबन्धविशिष्टा फलरूपा । मानसी सेवा । यथेति । यथा यत्प्रकारिका सेवा व्रजसीमन्तिनीनां सिद्धा, सा सेवेति आशयः । तदेव मानससेवायाः स्वरूपमिति । 'मय्यनुषङ्गबद्धधिय' इत्यनेन साधनसेवानुवादपूर्वक- मन्यानुसंधानराहित्यरूपं 'नाविद'न्नित्यनेनोक्तम् । अथवान्यानुसंधानरहितभगवत्येव
५४ सिद्धान्तमुक्तावली । एतदेव सेवास्वरूपमित्याहुः चेत इति । चेतस्तत्प्रवणं सेवा तत्सिद्धयै तनुवित्तजा । ततः संसारदुःखस्य निवृत्तिर्ब्रह्मबोधनम् ॥ २ ॥ उक्तसेवासाधने इतरे इत्याहुस्तदिति । वित्तं दत्वा अन्येन पुरुषेण कृत्वा कारितैका । एतादृशेन पुंसा कृता चापरा । एतादृश्यौ ते तत्साधिके नेत्यभिप्रायज्ञापकं समस्तं पदम् । एतेन भगवदर्थं निरुपधिक्सर्वस्वनिवेदनपूर्वकं तत्रैव स्वदेहविनियोगे प्रेम्णि जाते सा भवतीति भावः । एतादृश्यावान्तरफलं भवतीत्याहुः तत इति । अहन्ताममतात्मकः संसारो, न तु प्रपञ्चात्मकः, तस्य ब्रह्मात्मकत्वात्, तन्निवृत्त्याऽनिष्टनिवृत्तिरुक्ता । इष्टप्राप्ति- माहुरग्रे । स्वात्मनि प्रपञ्चे चाक्षरब्रह्मात्मकत्वेन ज्ञानम् । भगवत्सेवायामभिनिविष्टस्य यद्यप्यनभिलषिते ते, तथापि वस्तुस्वभावाद्भवत इति भावः ॥ २ ॥ श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । निष्ठत्वरूपम् । एतदेव वक्ष्यमाणे उक्तसेवेति । उक्तसेवा मानसी सेवा । इतरे तनु- वित्तजे । एकेति । वित्तजेत्यर्थः । एतादृशेन । वित्तगृहीत्रा पुरुषेण । अपरा तनुजा । तत्साधिके इति । फलरूपसेवासाधिके । तथा चैककर्तृक एव ते तत्साधिके इति भग- वदपेक्षितयावद्द्रव्यसमर्पणरूपसेवा शरीरजभगवद्यावत्सेवा च तत्साधिकेत्यागतम् । तच्च भगवदपेक्षितयावद्द्रव्याभावात्तादृश तनुसामर्थ्याभावाच्चासम्भावितमिव भातीति चेत्, तत्राहुः एतेनेति । एवं सेवाकथनेन । फलाकांक्षारहितयावत्स्वीयद्रव्यादिनिवेदनपूर्वकं कार्यान्तर- विनियोगरहितभगवदर्थस्वदेहविनियोगे भगवत्सेवाकरणे क्रमप्राप्तेप्रेम्णि जाते सा मानसी सेवा । क्रमस्त्वग्रे विवेच्यः । एतादृशस्येति । निवेदितस्वीयसर्वस्वस्य भगवत्सेवाविनियु- क्तस्य पुरुषस्य । तत इतीति । उक्तसाधनरूपसेवाद्ध्वयतः । तन्निवृत्त्येति । संसारनि- वृत्त्या । अनिष्टेति । फलप्रतिबन्धकत्वात् संसारस्यानिष्टत्वम् । ( मूले संसारो दुःखो दुःखजनक इत्यर्थो ज्ञेयः । ) इष्टेति । फलसाधकत्वात् ब्रह्मज्ञानसेष्टत्वम् । स्वात्मनीति । आत्मनि देहेन्द्रियप्राणान्तःकरणेषु । अक्षरब्रह्मात्मकत्वेन ज्ञानमहन्तानिवृत्तौ, प्रपञ्चे चाक्षरब्रह्मात्मकत्वेन ज्ञानं ममतानिवृत्ताविति विभागः । ( भक्त्याक्षरज्ञानं पुरुषोत्तमा- धिष्ठानत्वेन भवतीति तृतीयाध्याये तृतीयचरणे व्युत्पादितम् । तथा चाक्षरब्रह्मात्मकत्वेन ज्ञानं पुरुषोत्तमाधिष्ठानत्वेन ज्ञानमित्यर्थः । स्वात्मनि प्रपञ्चे च भगवदीयत्वेन ज्ञानमिति यावत् । पुरुषोत्तमाधिष्ठानत्वमनुपदमेव विवेक्ष्यते । ) ननु तादृशज्ञानहेतुत्वात् सेवायाः स्वतःपुरुषार्थत्वव्याहतिरितयत आहुः भगवत्सेवायामिति । ते इति । उक्तब्रह्मात्मकत्वज्ञाने । वस्तुत आत्मसमर्पणस्य खभावात् । स्नेहो हि भक्तिः। स च दर्शनं विनान भवतीति नि- बन्धे निरूपितम् । अतः श्रवणं दर्शनं स्नेह इति त्रयं मिलितं एका श्रवणभक्तिर्भवति । ध्यानं तु फलान्तरीय़कत्वात् फलमध्यपाल्येव । एवं नवस्वपि । तथा च ब्रह्मबोधनस्य वक्ष्य- माणरीत्यात्मनिवेदनाङ्गदर्शनयोग्यतासम्पादकत्वात् तत्स्वभावादेव ते ज्ञाने भवत इत्यर्थः ।
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ५५ इदमेव परं ब्रह्मेति न ज्ञेयमित्याहुः परं ब्रह्म त्विति । परं ब्रह्म तु कृष्णो हि सच्चिदानन्दकं बृहत् । द्विरूपं तद्धि सर्वं स्यादेकं तस्माद्विलक्षणम् ॥ ३ ॥ यशोदोत्सङ्गलालितो, न त्वन्य इति ज्ञापनाय मूलनामोक्तम् । अत्र भेदकं रूपमाहुः सच्चिदिति । एते हि भगवद्धर्मात्मकाः, प्रकटतत्रितयात्मकमक्षरं ब्रह्म । अत एव प्रपञ्चस्त- दात्मक इति सच्चिदानन्दात्मकत्वं तस्मिन्नुच्यते । एतावान्परं विशेषो, जडे सदंशः प्रकटः, इतरावाच्छन्नौ; जीवे त्वाद्यौ प्रकटौ, आनन्दांशस्तिरोहितः; परमात्मनि त्रयं स्फुटमिति । कप्रत्ययेन गणितानन्दत्वमेव, न तु पुरुषोत्तमवत् पूर्णानन्दत्वमिति ज्ञाप्यते । कृष्णशब्देनैव पुरुषोत्तमस्वरूपं निरूपितमित्यक्षरस्वरूपं निरूपयन्ति द्विरूपमिति । तत् अक्षरं ब्रह्म । तदेव रूपद्वयं विशदयन्ति सर्वं स्यादिति । प्रपञ्चरूपेणाविर्भूतमेकमित्यर्थः । एकं रूपं तस्मात् प्रपञ्चरूपात् एकरूपत्वेन श्रुतिप्रतिपाद्यत्वेन ज्ञान्युपास्यत्वेन तन्मुक्तिस्थानत्वेन पुरुषोत्तमाधिष्ठानत्वादिभिर्विलक्षणमित्यर्थः । न च विरुद्धधर्मैर्भेदोत्र शङ्कनीयः । उभयो- धर्मयोरेकत्र प्रमाणसिद्धत्वेन विरोधाभावात् । विरुद्धधर्माश्रयत्वस्य ब्रह्मणि 'तदेजति श्रीरघुनाथात्मजश्रीब्रजनाथकृतविवृतिटिप्पणी । पूर्वोक्तज्ञानविषयीभूतमेव परं ब्रह्मेति कस्यचिच्छङ्का स्यादिति तां वारयितुमाहुः इदमेवेति । इदं पूर्वोक्तज्ञानविषयमक्षरं ब्रह्म । अत्रेति । अक्षरे ब्रह्मणि । रूपं धर्मः । ननु सच्चिदानन्दकत्वस्य पुरुषोत्तमेपि सत्त्वात् कथं तस्य भेदकत्वं तत्राहुः एते हीति । सच्चिदानन्दाः । तत्रितयं सच्चिदानन्दत्रयम् । अत एव अक्षरस्य सच्चिदानन्दात्मक- त्वादेव । तदात्मक अक्षरब्रह्मात्मकः । तस्मिन् प्रपञ्चे । अत एवेत्यस्य उच्यत इत्यने- नान्वयः । तथा च यतो हेतोरक्षरस्य सर्वकारणरूपस्य तन्नितयात्मकत्वम्, अतस्तत्कार्य- रूपप्रपञ्चस्यापि तत्रितयात्मकत्वमित्यर्थः । एतावानिति । अक्षरब्रह्मणः सकाशात्प्रपञ्चे विशेषः । तमेवाहुः जड इति । इतरौ चिदानन्दौ । आद्यौ सच्चितौ । परमात्मनि अन्तर्यामिणि । ननु भगवद्धर्मीणामपि 'प्रकाशाश्रयवद्वा तेजस्त्वा'दिति न्यायेन भगवत्त्व- मेवेति न भेदसिद्धिरिति चेत्, तत्राहुः कप्रत्ययेनेति । कप्रत्ययस्य हीनार्थकत्वादित्यर्थः । पुरुषोत्तमवदिति । प्रजापतिवद्गणितानन्दत्वम् । कृष्णेति । कृष्णशब्दस्य परब्रह्मवाच- कत्वात् तत्स्वरूपं तेनैव निरूपितम् । इतीति । पुरुषोत्तमस्वरूपनिरूपणाकांक्षानिवृत्ति- पूर्विकाक्षरनिरूपणाकांक्षारूपाद्धेतोः । एतावद्रूपकमक्षरं ब्रह्मेत्यक्षरस्वरूपं निरूपयन्ती- त्यर्थः । द्विरूपमितीति । अत्रैकपदं देहलीदीपकन्यायेनोभयत्रान्वेति । एकरूपत्वेनेति । प्रपञ्चरूपस्य तस्यानेकरूपत्वं तद्भिन्नरूपस्यैकरूपत्वम् । श्रुतिप्रतिपाद्यत्वेनेति । प्रपञ्च- कारणत्वेन । पुरुषोत्तमाधिष्ठानत्वादिभिरिति । लीलाविशिष्टपुरुषोत्तमाधिष्ठानत्वमि-
५६ सिद्धान्तमुक्तावली । तन्नैजती'त्यादिश्रुतिभिर्निरूप्यमाणत्वात् । लोक एव विरोधः शङ्कनीयो, नत्वलौकिके ब्रह्मणि । इदं यथा तथा ब्रह्मसूत्रभाष्ये निरूपितमिति नात्र प्रपञ्च्यते ॥ ३ ॥ विरोधपरिहाराय स्वसिद्धान्तं वक्तुं परमतान्याहुः अपरमिति । अपरं तत्र पूर्वस्मिन् वादिनो बहुधा जगुः । मायिकं सगुणं कार्यं स्वतन्त्रं चेति नैकधा ॥ ४ ॥ वेदमतादपरं भिन्नं मतम् । पूर्वस्मिन् प्रपञ्चरूपेणाविर्भूते । तत्र अक्षरे ब्रह्मणीत्यर्थः । मायिकमिति हि मायावादिनः । सगुणं गुणकार्यमिति साङ्ख्याः । कार्यं द्व्यणुकादि- क्रमेणेश्वरकार्यमिति नैयायिकाः । स्वतन्त्रं न कदाचिदनीदृशं जगदिति मीमांसकाः । चकारेण वेदबाह्यमतानि सङ्गृह्यन्ते ॥ ४ ॥ तानि मतानि श्रुतिबलेनैव निराकृतानि सन्तीति नात्र पार्थक्येन निराकरणीयानि, स्वमतनिरूपणेनैव निराकरणसम्भवादित्याशयेन स्वसिद्धान्तमाहुः तदेवेति । तदेवैतत्प्रकारेण भवतीति श्रुतेर्मतम् । द्विरूपं चापि गङ्गावज्ज्ञेयं सा जलरूपिणी ॥ ५ ॥ माहात्म्यसंयुता नॄणां सेवतां भुक्तिमुक्तिदा । मर्यादामार्गविधिना तथा ब्रह्मापि बुध्यताम् ॥ ६ ॥ ‘स हैतावानास’, ‘सर्वं खल्विदं ब्रह्म, तज्जला’नित्यादिश्रुतिभ्यः तथेत्यर्थः । एक- स्यैवाक्षरस्योक्तं द्विरूपत्वं दृष्टान्तेनोपपादयन्ति द्विरूपमिति । प्रपञ्चतद्भिन्नरूपाभ्यां द्विरूपं तद्ब्रह्म गङ्गावज्ज्ञेयम् । अस्ति गङ्गायां त्रिरूपत्वम् । आधिभौतिकं जलरूपमेकम्, यद्वृष्ट्यातपाभ्यां वृद्धिह्रासौ भजते, सर्वव्यवहारयोग्यत्वं च । अग्रिमा द्वितीयाध्यात्मिकी तीर्थरूपा, योद्धृतजलाविशेषेऽपि मर्यादामार्गसम्बन्धी यो विधिस्तेन तत्रैव स्नानपूजा- दिभिः फलदा। एवमेव प्रपञ्चतद्भिन्नरूपमप्येकमेव तदक्षरं ब्रह्मेति तथा बुध्यतामित्यर्थः ॥५।६॥ श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । त्यर्थः । आदिशब्देन पादत्वादयो धर्मा ग्राह्याः । तत्रायं विवेकः । आधिभौतिकजलस्या- क्षरत्वेन ज्ञाने तस्याक्षरत्वात् तत्र सेवोपयोगिलीलासृष्टिस्थपुरुषोत्तमात्मकजलाधिष्ठानत्वम्, एवमक्षरात्मके भगवदाकारादौ पुरुषोत्तमस्वरूपाधिष्ठानत्वमिति । अत्रेति । प्रपञ्चाक्षरयोः । विरोधेति । भिन्नधर्मत्वात् ब्रह्म कथं जगद्रूपं भवितुमर्हतीत्याकारको विरोधः भेदः तत्परिहारायेत्यर्थः । स्वतन्त्रमिति । स्वभावत एवोत्पत्त्यादिविशिष्टम्, न कदेति नतु परतः तथाभू- तम् । द्विरूपत्वमिति । प्रपञ्चतद्भिन्नरूपत्वम् । उद्धृतजले जलत्वाविशेषेपि मर्यादा- स्वस्थाने एव फलदा । एवमेवेति । यथाधिभौतिकी जलरूपा, आध्यात्मिकी तीर्थरूपाप्येकैव गङ्गा । एतत्प्रकारेणैव प्रपञ्चतद्भिन्नप्रपञ्चभिन्नज्ञान्युपास्यादिरूपमेकमेवाक्षरं ब्रह्म ।
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ५७ आधिदैविकं रूपमाहुः तत्रैवेति । तत्रैव देवतामूर्तिर्भक्त्या या दृश्यते कचित् । गङ्गायां च विशेषेण प्रवाहाभेदबुद्धये ॥ ७ ॥ प्रत्यक्षा सा न सर्वेषां प्राकाम्यं स्यात्तया जले । विहिताच्च फलात्तद्धि प्रतीत्यापि विशिष्यते ॥ ८ ॥ यथा जलं तथा सर्वं यथा शक्ता तथा बृहत् । यथा देवी तथा कृष्णस्तत्राप्येतदिहोच्यते ॥ ९ ॥ जगत्तु त्रिविधं प्रोक्तं ब्रह्मविष्णुशिवास्ततः । देवतारूपवत्प्रोक्ता ब्रह्मणीत्थं हरिमंतः ॥ १० ॥ कामचारस्तु लोकेऽस्मिन् ब्रह्मादिभ्यो न चान्यथा । परमानन्दरूपे तु कृष्णे स्वात्मनि निश्चयः ॥ ११ ॥ अतस्तु ब्रह्मवादेन कृष्णे बुद्धिर्विधीयताम् । उक्तद्विरूपायां गङ्गायामेव देवतारूपा सा तद्भिन्नास्तीत्यर्थः । तत्र मानमाहुः मूर्तिरिति । भक्त्यैव, न तु मर्यादामार्गविधिनोपासनयेत्यर्थः । तदपि कचिदेव, भक्त्युद्रे- कदशायामेव । अथवा । यत्र कचिद्गृहादिष्वपीत्यर्थः । भक्तविशेषे विशेषमाहुः गङ्गाया- मिति । देवतारूपायां गङ्गायां भक्त्युद्रेकेण दृश्यमानप्रवाहादभिन्नत्वेन यस्य बुद्धिस्तस्मै गङ्गायां प्रवाहमध्य एव ( देवतारूपा गङ्गा ) प्रत्यक्षा भवतीत्यर्थः । एतेन प्रपञ्चमध्य एव भगवदाकारभगवद्भक्तयोर्दर्शने भगवति स्नेहातिशयेन तत्र भगवदभेदबुद्धये तत्र भगव- त्प्राकट्यं भवतीति भावः सूच्यते । अग्रिमव्यवस्थामाहुः प्राकाम्यमिति । स्वाभीष्टस्वसर्व- श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । उक्तद्विरूपायामिति । आधिभौतिकाध्यात्मिकरूपायाम् । सा गङ्गा । तदिति । उक्तद्विरूपातः । तत्र भेदे । उक्तद्विरूपयोर्मूर्तिमत्त्वाभावादाधिदैविकस्यैव मूर्तिमत्त्वादि- त्याशयेनाहुः मूर्तिरीतीति । तदपीति । दर्शनम् । कचिदिति । एतत्पदस्य कालवा- चकत्वाशयेनाहुः भक्त्युद्रेकेति । देशवाचकत्वाशयेनाहुः गृहादिष्वपीति । प्रत्यक्षा भवतीति । यथासम्भवं षड्विधप्रत्यक्षा भवतीत्यर्थः । तथा च दृश्यत इति पूर्वेण न पौन- रुक्त्यम् । न सर्वेषामिति । प्रवाहात् भिन्नबुद्धीनामित्यर्थः । ( यथा गङ्गायामाधिदैवि- वगङ्गाविर्भावः, न त्वाधिदैविकसरस्त्व्यादेः, तथा सर्वत्र तत्तद्वस्तुनि तत्तदाधिदैविका- विर्भाव इति गङ्गादृष्टान्तेन सूचितमित्याशयेनाहुः ) एतेनेति । ( गङ्गादृष्टान्तकृतेन तत्तद्व- स्तुनि तत्तदाविर्भावसूचनेनेत्यर्थः ) । भक्तविशेषे तथाविधप्रत्यक्षकथनेन । प्रपञ्चमध्य एवेति । प्रपञ्चान्तःपातिनोर्भगवदाकारभगवद्भक्तयोर्दर्शने ब्रह्मात्मकत्वेन ज्ञाने । तत्र भग- वदाकारभगवद्भक्तयोर्भगवता सहाभेदबुद्धिर्यस्य तस्मै । तत्र तदाकृतितद्भक्तयोः । अग्रि- ८ सि० मु०
५८ सिद्धान्तमुक्तावली ।
स्वरूपायाः स्थानभूतत्वेन ज्ञानात्तज्जले सर्वत्रानिषिद्धयथेष्टव्यवहारः स्यादित्यर्थः । एवमेवो- क्तप्रकारकभगवद्दर्शने सर्वत्र तद्भावः स्फुरतीति भावः । विहितेति । भक्त्या गङ्गादर्श- नानन्तरं प्रवाहरूपाया अपि दर्शनं विहितात्स्वर्गापवर्गरूपात्फलाद्विशिष्यते । तद्धृदीत्यर्थः । यद्वा । येषां न प्रत्यक्षा, तेषामपि तया देवतारूपया सा तत्रास्तीति तत्सम्बन्धानुभा- वेनैव तज्जले प्राकाम्यं प्रकृष्टकामविषयत्वं श्रद्धाविशेषपूर्वकस्नानादिव्यवहारो भवतीत्यर्थः । किञ्च । पुराणादिषु तज्जलदर्शनादिभिः फलं यदुक्तं तदनुभवेन महतामन्तःकरणप्रतीत्यापि तज्जलमन्थेभ्यो जलेभ्यो विशिष्यत इत्यर्थः । एवं येषां हृदि भगवत्सांनिध्यं ते भक्ता अन्येभ्यो विशिष्यन्ते । अत एव 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शणार्चन'मिति भगवतोक्तम् । (एवं दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं निरूप्य उक्तमर्थं स्पष्टयन्ति यथा जलमित्यादिना । तत्रापीति । साधर्म्येपि । एतदिति । किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे, दृष्टान्ते त्रिविधत्वाभावात् अत उच्यते ।) जगत्त्विति । त्रिविधं त्रिगुणात्मकं त्रिस्वभावत्वेन प्रकटं, (तुशब्देन जले तथात्वं व्यावर्तितम् । ततस्तस्माद्धेतोः जगतीति वा । रूपवद्यथा
श्रीरघुनाथआत्मजश्रीव्रजनाथकृतविवृतिटिप्पणी ।
मेति । उक्तविधप्रत्यक्षानन्तरव्यवस्थामित्यर्थः । स्वाभीष्टेति । तथाभूतगङ्गायाः । स्थान- भूतेति । आधिभौतिकाध्यात्मिकयोरभेदबुद्ध्या तथा ज्ञानात्तथेत्यर्थः । सर्वत्र गृहादि- ष्वपीत्यर्थः । तत उद्धृतजलादिषु वा । एवमेवेति । तथाभूतगङ्गायाः प्रवाहरूपाया- स्तथा दर्शनं तथा भवत्येवेति सूचितम् । तद्धृदीत्यनेन प्रतीत्यापि तथा दर्शनमुक्तम् । ग्रन्थस्वारस्यात्पक्षान्तरमाहुः यद्वेति । ग्रन्थस्वरसस्तु, येषां न प्रत्यक्षा, तेषां का व्यव- स्थेत्याकांक्षायामाहुः प्राकाम्यमिति । तेषामपीत्यस्य तथा भवतीत्यनेनान्वयः । अस्मिन्पक्षे विहितादित्यस्यार्थमाहुः किञ्चेत्यादि । अत एवेति । यतस्ते भक्ता अन्येभ्यो विशिष्यन्ते, अतो हेतोरित्यर्थः । एवं दृष्टान्तेन त्रिरूपत्वमुपपाद्योपसंहरन्ति, यथा जलमिति । सर्वं जगत्, शक्ता तीर्थरूपा, देवी आधिदैविकरूपा मूर्तिमती गङ्गा । ननु साधनरूपसे- वाद्द्वयतः संसाररूपादहन्ताममतात्मकदुःखस्य निवृत्तिरनभिलषितमप्युभयविधब्रह्मात्मकत्वेन ज्ञानं स्वत एव भविष्यतीति किं सोपपत्तिकोपपादनेनेत्यत आहुः तत्रापीति । उक्तोभ- यविधज्ञानेपि । एतद्वक्ष्यमाणप्रकारकं ब्रह्मात्मकत्वेन शाब्दं प्रपञ्चज्ञानम् । इहेति । निमित्तस- प्तमीयम् । तथा चैतज्जन्मार्थं निरूप्यत इत्यर्थः । जगदितीति । तुशब्देन ब्रह्मात्मकत्वेन ज्ञाते प्रपञ्चे त्रिगुणात्मकत्वं व्यावर्तितम् । तत इति । यतो हेतोस्त्रिगुणात्मकं जगत् ।
१. एवं दृष्टान्तदार्ष्टान्तिकयोरुक्तमपि साधर्म्यं यत्र यद्दर्शनं तत्र तथा स्पष्टयन्ति यथा जलं तथा सर्वमिति । तत्राप्येतदिहोच्यत इति । तत्रापि साधर्म्येपि । एतज्जगत् तु त्रिविधमित्यारभ्य न चान्यथेत्यन्तेन वक्ष्यमाणं किञ्चित्तारतम्यम् । इह प्रपञ्चरूपे तद्दृष्टान्ते गङ्गाजले त्रिविधत्वाभावात् अत उच्यत इत्यर्थः । जगदिति पाठान्तरं पुस्तकद्वये । क्वचित् पाठद्वयमपि मूले नास्ति ।
श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ५९ जगतो रूपं त्रिविधम्, तथा तत्रत्यत्रिविधानां देवता उपास्याः ब्रह्मादयः त्रयः प्रोक्ताः, तत्तच्छास्त्रे निरूपिताः । देवतेति स्त्रीलिङ्गप्रयोगात् तेषामस्वातंत्र्यं द्योतितम् ।) तेन तद्गुणनियामकत्वेन ब्रह्मादयो भगवतैव कृता इत्यर्थः । (ते तु प्राकृतानामेव नियामकाः, न तु ज्ञानिनामपीत्याहुः ब्रह्मणीत्थमिति ।) ब्रह्मैकरूपमिति तन्निष्ठानां नियमको हरिरेव । (तर्हि भक्तानामपि लोकमध्यपातित्वात्तन्नियामकत्वं ब्रह्मादीनां कुतो नेत्यत आहुः कामचार इति । लोके तेभ्य एव कामचारः, त एव नियामका इत्यर्थः । न चान्यथेति । प्रकारान्तरेण नेत्यर्थः । भक्तेषु विशेषमाहुः परमानन्दरूप इति ।) ये तु भगवद्भक्तास्तेषां स्वात्मनि स्वात्मविषये ऐहिके पारलौकिके चार्थे जलादिषु श्रीकृष्ण एव कामचार इत्यर्थः । सर्वत्र नियामकः स एवेति भावः । अथवा । भक्तानां स्नेहातिशयेन आत्मत्वेनैव प्रभुः स्फुरतीति सर्वांशेन तत्प्रार्थने शङ्का न भवतीत्यर्थः । (ब्रह्माद्यपेक्षयाऽत्र विशेषः 'परमानन्दरूप'पदेनोक्तः । एतावदुक्तस्य फलितार्थमाहुः अत इति । अत उक्तरीत्या सर्वापेक्षया श्रीकृष्ण एव भक्तिमार्गे भजनीय इत्युक्तम्, अतो हेतो- स्तत्र बुद्धिर्विधीयताम् क्रियतामित्यर्थः । ननु कीदृशी बुद्धिरिति चेत्, तत्राहुः ब्रह्मवा- देनति । ब्रह्मवादे हि परब्रह्मणः साकारत्वं प्रतिपाद्यते, अतस्तदुक्तपरब्रह्मत्वेन श्रीकृष्ण एव बुध्यतामिति भावः । तथात्वं दामोदरलीलायां श्रीशुकेन स्फुटमेवोक्तं, 'न चान्तर्न बहिर्यस्ये'ति 'त्रय्या चोपनिषद्भिश्चे'त्यादिना । तेन ब्रह्मवादो भक्तिमार्गे अनुभवसाक्षिक इति निरूपितं भवति । अत एव तुशब्देन निराकारवादो व्यावर्तितः) ॥ ११ ॥ श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । ततो हेतोः । रूपवदिति । यथा जगतो रूपं त्रिविधम्, तथा तद्गुणाभिमानिन्यो देवताः तिस्रः प्रोक्ताः । यदा तु ब्रह्मात्मकत्वेन जगत् ज्ञातम्, तदा ब्रह्मणि इत्थं तद्देवत्वेन हरिः पुरुषोत्तमो मतः शास्त्र उक्तः । इति मूलव्याख्या । त्रिस्वभावत्वेनेति । राजसा- दिक्स्वभावत्वेन । तेन त्रिस्वभावत्वेन हेतुना । ब्रह्मणीयस्यार्थमाहुः ब्रह्मेति । तन्निष्ठानां ब्रह्मैकनिष्ठानाम् । एतन्निरूपणफलमाहुः मूले कामचार इति । अस्मिन् लोके कामचारः, स ब्रह्मादिभ्य एव, न प्रकारान्तरेणेति लोकनिष्ठानां व्यवस्था, भगवन्निष्ठानां व्यवस्थामाहुः परमानन्द इति । एतस्यार्थमाहुष्टीकायां ये त्विति । स्वात्मविषय इति । स्वात्मपदस्य स्वात्मीयपरत्वम् । कामचार इति । कामचारनिश्चय इत्यर्थः । लक्षणानङ्गीकारेण पक्षा- न्तरमाहुः अथवेति । अस्मिन्पक्षे आत्मपदं कृष्णविशेषणम् । तत्प्रार्थने 'त्वदुच्छिष्टं भोज्य'मित्यादिभगवत्प्रार्थने । यतो हेतोर्ब्रह्मैकनिष्ठानामेव व्यवहारो ब्रह्मण्येव पर्यवस्यति, अतो हेतोः सर्वं पुरुषोत्तमाधिष्ठानभूतमक्षरं ब्रह्मैवेति ज्ञात्वा व्यवहर्त्तव्यमित्यर्थमाहुः मूले अतस्त्विति ।
६० सिद्धान्तमुक्तावली ।
अथ जीवस्वरूपं तन्मुक्तिप्रकारं चाहुः आत्मनीति । आत्मनि ब्रह्मरूपे तु छिद्रा व्योम्नीव चेतनाः ॥ १२ ॥ उपाधिनाशे विज्ञाने ब्रह्मात्मत्वावबोधने । गङ्गातीरस्थितो यद्वद्देवतां तत्र पश्यति ॥ १३ ॥ तथा कृष्णं परं ब्रह्म स्वस्मिन् ज्ञानी प्रपश्यति । संसारी यस्तु भजते स दूरस्थो यथा तथा ॥ १४ ॥ अपेक्षितजलादीनामभावात्तत्र दुःखभाक् । तस्माच्छ्रीकृष्णमार्गस्थो विमुक्तः सर्वलोकतः ॥ १५ ॥ आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत् । लोकार्थी चेद्भजेत्कृष्णं क्लिष्टो भवति सर्वथा ॥ १६ ॥ क्लिष्टोऽपि चेद्भजेत्कृष्णं लोको नश्यति सर्वथा । आत्मविषय उच्यत इति शेषः । जीवा ह्यणवोऽक्षरात्मकाः, तदात्मकत्वमविद्यया- न्तरायभूतया न विदन्ति । तेन संसारमापद्यन्ते । इदमेवोपाधिरूपत्वं तस्याः, न तु तत्कृतं जीवत्वम् । अणुत्वबोधनार्थं दृष्टान्तः । व्योम्नि यथोपाधिभिः क्षुद्रैः छिद्राणीव प्रतीयन्ते, तथात्मनि क्षुद्रत्वादयो धर्माः प्रतीयन्ते, न तु ब्रह्मधर्मा इति बोधनार्थं च । उपाधिनाश इति । तेषां मध्ये यं जीवं येन प्रकारेण प्रभुरुदिधीर्षुर्भवति, तत्कारकगुरूपदेशादिभिरवि- द्यालक्षणोपाधेर्ब्रह्मात्मकत्वावबोधनप्रतिबन्धकस्याविद्यात्मकस्य नाशे ब्रह्मात्मकत्वावबोधन- लक्षणे विज्ञानेऽनुभवे सम्पन्ने पुरुषोत्तमाविर्भावयोग्यता जातेति तस्मिन् जाते स्वात्मनि तं श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । अथेति । ब्रह्मावबोधप्रकारनिरूपणानन्तरं प्रसङ्गसंगत्या जीवस्वरूपं तन्मुक्तिप्र- कारं अहंममतानिवृत्तिप्रकारं च निरूप्यते, पूर्वं तु प्रपञ्चस्वरूपं ममतानिवृत्तिप्रकारश्चोक्तः । तदात्मकत्वमिति । अक्षरात्मकत्वम् । इदमेवेति । अज्ञानजनकत्वमेवेत्यर्थः । तत्कृत- मिति । अविद्यया जीवत्वं ब्रह्मणि जन्यत इति नार्थः । चित्प्रधानब्रह्मांशतया जीव- स्यावच्छेदत्वात् । येन प्रकारेणेति । कर्मज्ञानभक्तिमार्गोक्तप्रकारेण । अविद्यालक्ष- णोपाधेरिति । स्वरूपाज्ञानादिपञ्च मूलाविद्याकार्यभूताविद्यालक्षणमभिज्ञापकं यस्य । अविद्यात्मकस्य मूलाविद्यात्मकस्य । तथा कृष्णमित्याद्यर्थमाहुः तस्मिन्निति । पुरुषोत्तमाविर्भावे जाते सतीत्यर्थः । तं लीलाविशिष्टं पुरुषोत्तमं पश्यतीत्यर्थः । इदमेव निवेदनाङ्गमूतं दर्शनं ज्ञेयम् । तस्य विज्ञाने जाते स्वात्मनि पुरुषोत्तमदर्शनवतः । १. न तु ब्रह्मधर्मबाधनार्थमितिपाठः ।
[Page Header: श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ६१]
प्रकर्षेण पश्यतीत्यर्थः । तस्य सर्वस्वरूपो हरिरेवेति न तदतिरिक्तमपेक्षते । भजनोपयोग्यर्था- पेक्षायामपि प्रभुणेव सर्वं सम्पद्यत इति न कदाचिद्दुःखी भवति । एतज्ज्ञापनार्थं दृष्टान्तः । ( गङ्गातीरस्थित इति । यद्वद् यथा गङ्गातीरस्थितस्तत्र प्रवाहमध्ये देवतामाधिदैविकीं तां पश्यति, तथा ज्ञानी स्वस्मिन् आत्मनि परं ब्रह्म कृष्णं पश्यति, परं भक्त्येति विशेष उभयत्र ज्ञातव्यः । तदभावे तु दर्शनमपि दुर्लभम्, कुतस्तरां भजनमिति भावः । 'भक्त्या या दृश्यते क्वचि'दिति पूर्वमुक्तत्वात् 'भक्त्याहमेकया ग्राह्य' इति प्रभुवचनाच्च । ननूक्त- प्रकारकज्ञानाभावेपि लोके भजनं दृश्यते, तत् कथमित्यपेक्षायामाहुः संसारेति । ) यस्तु प्रपञ्चासक्तो गुरूपदेशमात्रेण भजते, संसारनिवृत्तिहेतुत्वं ज्ञात्वा भजते, न तु ब्रह्म- भावसम्पत्त्या, पुरुषोत्तमाविर्भावाभावात्, स तु गङ्गातो दूरस्थो यथा तां भजते, तत्रापेक्षि- ततज्जलाप्राप्त्या दुःखी भवति, तथा अयं भक्तिमार्गस्थ इति साक्षात्स्वरूपसम्बन्ध्यर्थापेक्षायां तदप्राप्त्या क्लेशभागभवतीत्यर्थः । तथापि न स भजनं त्यजति, अङ्गीकारात्प्रभोः । अनङ्गी- कारे तु मध्ये भजनप्रतिबन्धेपि कृतभजनवैयर्थ्यासम्भवाज्जन्मान्तरे तत्फलिष्यतीति ज्ञेयम् । (तेन प्रवाहभक्तिमार्गीयोऽयं निरूपितः, अन्यथा मध्येऽनङ्गीकारः, तेन भजनप्रतिबन्धादिकं न स्यात् । ननु पुष्टिमार्गं परित्यज्य किं तत्कथनेनेत्याशंक्याहुः तस्मादिति । यस्मात् प्रवा- हस्थभक्तेऽप्येवमङ्गीकारः प्रभोः, यज्जन्मान्तरेपि तं न त्यजति, तस्माद्धेतोः श्रीकृष्णमार्ग- स्थः पुष्टिमार्गस्थः सर्वलोकतोपि मुक्तो भिन्नो विशिष्टश्चेत्यर्थः । सर्वपदात् ज्ञानितः प्रावा-
श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी ।
तदतिरिक्तं भगवदतिरिक्तम् व्यवहार्यं वस्तु । अर्थापेक्षायां जलाद्यपेक्षायाम् । प्रभुणेव प्रभुरेव लीलासृष्टिविशिष्टप्रचुरलीलासृष्टिस्थपदार्थान् प्रकटयतीत्यर्थः । अक्षरात्मकाधिष्ठान- भूतजलाभावेपि पुरुषोत्तमात्मकलीलासृष्टिस्थजलाविर्भावो भवतीत्यर्थाभावप्रयुक्तं दुःखं कदापि न भवतीत्यर्थः । एतदिति । वक्ष्यमाणैतद्विभागज्ञापनाय संसारी यस्त्विति दृष्टान्तः । यस्त्विति । तुशब्देन लीलासृष्टिविशिष्टपुरुषोत्तमाविर्भाववतो व्यावृत्तिः । पुरु- षोत्तमाधिष्ठानत्वेन अक्षरत्वेन च प्रपञ्चज्ञानवान् प्रपञ्चासक्तः । स त्विति । इदं पदं 'क्लेशभागभवती'त्यनेन सम्बध्यते । भक्तिमार्गस्थ इति । भजनाकांक्षा प्रतिपादिता । साक्षादिति । सत्यां भजनोपयोगिजलाद्यपेक्षायां कदाचिदधिष्ठानभूताक्षरात्मकजलाद्य- भावेन पुरुषोत्तमात्मकजलाप्राप्त्या क्लेशभाक् भवतीत्यर्थः । ननु ब्रह्मभावसंपत्तिर्हि पूर्वा- वस्था, सा च सर्वेषां समाना, तत्र च सर्वस्यापि सेवोपयोगियावदर्थाप्राप्त्योद्वेगहेतुक्लेशभा- कत्वस्य सिद्धत्वात्तेन न सेवासिद्धिः इति चेत्, सत्यमित्याशयेनाहुः तथापीति । अङ्गी- कारात् पुष्ट्यावङ्गीकारात् । अङ्गीकार एव शीघ्रं सर्वफलसाधक इत्यदोषः । अङ्गीकारे च भजनत्यागाभाव एव मानम् । अनङ्गीकार इति । केवलपुष्टावनङ्गीकारे । मूले तस्मादिति । यतो हेतोरङ्गीकृत एव न दुःखभाक् तस्माद् हेतोः शुद्धपुष्टिमार्गस्थः तद-
६२ सिद्धान्तमुक्तावली । हिकभक्तः, कैमुतिकन्यायेन साधारणलोकतश्चेति ज्ञेयम् । ज्ञानिनः संसाराभावात् संसा- रिणो ज्ञानाभावेन दुःखभाक्त्वम् । पुष्टिमार्गस्येव प्रभुस्वरूपं ज्ञात्वा सर्वस्वनिवेदनपूर्वकं सर्वा- त्मभावेन भजनं स्वप्नेपि दुर्लभम् । पुष्टिमार्गीयस्य प्रभ्वनुग्रहैकनियम्यत्वात् सर्वमुपपद्यत इति ततो वैशिष्ट्यम् । एतावत्सर्वं श्रीकृष्णमार्गस्थपदेन द्योतितम् । अतः सर्वमवदातम् । ननु वित्ताद्यभावे पुष्टिमार्गीयस्यापि भजनासंभवे दुःखित्वात् कथमुक्तवैशिष्ट्यमित्यपेक्षायामाहुः ) आत्मानन्दसमुद्रस्थमिति । श्रीकृष्णपदात्पुष्टिमार्गीयभक्तप्रकटितनिरवध्यानन्देषु विहरन्त- मित्यर्थः । ते तु व्रजरूपात्मका इति मन्मतिः । स आनन्दो भगवत्स्वरूपात्मकस्तद्दत्त एव । अत आत्मपदं भगवत्परम् । ( बहिरसंभवेप्यन्तरेवं भजेत् । अतो नोक्तानुपपत्ति- रिति भावः । ननु कश्चिज्जीविकार्यमपि भजते, तस्य का गतिरित्यत आहुः लोकार्थी- ति । लोकपदेन लौकिकोऽर्थ उच्यते, तदर्थी चेत् कृष्णं भजेत्, तदा व्यापारवदर्थे सिद्धे तस्याप्यनर्यरूपत्वेन तत्कृतभजनस्य भक्तित्वाभावात् तत्कृतं सर्वं क्लेशरूपमेव । अतः क्लिष्टो भवतीत्यर्थः । न केवलमैहिकः क्लेशः, किन्तु परलोकोपि नश्यति, निषि- द्धाचरणादिति सर्वथेत्युक्तम् । यस्य स्वल्पमपि ज्ञानम्, स नैवं करोति, सर्वथा तद्रहितः कश्चिदेवं कुर्यादपीति चेदित्युक्तम् । अत्र मूलनामोक्तिर्भजनकर्तुरभिप्रायेण, अन्यथा तदसंभवात् । तर्हि लोकार्थित्वाभावेपि तद्रहितस्य भजनासंभवात् को विशेष इत्यत आहुः क्लिष्टोपीति । लौकिकार्थाभावेन क्लिष्टोपि गीतायां नवमेऽध्याये 'पत्रं पुष्पं फलं तोय'मिति वचनात् कृष्णं चेत् भजेत्, तदा यथासंभवं भजनमर्थादेव सिध्यति, परं लोको नश्यति । लौकिकं न सिध्यति, न तु स्थितं नश्यति, भजनसिद्धौ न तावता कापि हानि- रिति भावः । भगवतस्तथेच्छेति सर्वथेति निरूपितम् । चेदिति तथा भजनमशक्यमिति ज्ञापनाय ) ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ स्वस्वरूपज्ञानप्रभुस्वरूपज्ञानाभाववान् भक्तोऽपि पुष्टिमर्यादाभेदेन द्विविधः । श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । धिष्ठानापेक्षारहितः तथाविधं कृष्णमेव विशेषेण चिन्तयेदिति संबन्धः । श्रीकृष्णेति । रसात्मकनामोक्तेः । पुष्टीति । पुष्टिमार्गीयभक्तेषु प्रकटिता ये स्वरूपात्मकास्तथाविधा आनन्दास्तेषु भक्तेषु प्रकटितः । तद्दत्त इति । भगवद्दत्तः । अत इति । तथाविधान- न्दस्य स्वरूपात्मकत्वादेव । ज्ञानमार्गे एव जीवानन्दसंभवात् । अनेन चिन्तनरूप आत्म- निवेदनाङ्गभूतः स्नेह उक्तः । मूले लोकार्थीति । प्रपञ्चत्वेनैव प्रपञ्चज्ञानवान् लोकार्थी- त्यर्थः । स यदि लौकिकार्थेनैव कृष्णसेवा कुर्यात्, तदा सेवाया असिद्ध्या तथा भव- तीति । तादृशोपि चेद्भजेत्, तदा लोको नश्यति । लोकः अक्षरत्वेन ज्ञातो भविष्यतीत्यर्थः । स्वस्वरूपेति । पुरुषोत्तमाधिष्ठानत्वेन स्वस्वरूपाज्ञानं, तत्राधिष्ठितत्वेन च प्रभुस्व- रूपाज्ञानं ज्ञेयम् । पुष्टिमर्यादेति । अत्र पुष्टौ मर्यादांशः । स्वल्पमर्यादायां च पुष्ट्यं-