भारतकोश
संग्रह पर लौटें

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

२६ श्रीयमुनाष्टकम्। श्रीहरिरायप्रणीतं टिप्पणम्। यमयातनाभावहेतुत्वं क्वचिदपि लोके सिद्धमित्याशङ्कयाऽऽहुर्यमोऽपीति मूले। श्रीयमुना हि यमभगिनी, सूर्यापत्यत्वात्। तत्राऽपि कनिष्ठा, यमोत्पत्त्यनन्तरं तद्दो- षपरिहाराय रविणा पश्चादुत्पादितत्वात्। अतो यमसन्माननीया। तस्याः पयःपाने तत्सुतत्वम्। पयःशब्दस्य श्लिष्टार्थकत्वात्। वस्तुतोऽपि पयःपानेन तत् सुत- त्वम्। पञ्च महाभूता तदपेक्षया जलस्यैव मुख्यत्वं, पयसैव देहोत्पत्तेः। भूतान्तरापेक्षया पयस एव विशेषतो देहोत्पादकत्वात्। "पञ्च- म्यामाहुतावापः पुरुषवचसो भवन्ती"ति श्रुतेः। तादृशेषु दोषसत्त्वेऽपि भागिनेय- त्वेनाऽतिमान्यत्वात्स्वत एव कथं यमस्ताँस्तथा करोतीत्यर्थः। एवं दोषनिवारक- मद्भुतचरित्रमुक्त्वा फलसम्पादकमद्भुतचरित्रमाहुः प्रियो भवतीति मूले। भग- वदङ्गीकृतानां भगवदुक्तसाधनैर्भगवति प्रीतिसिद्धिर्भगवच्छास्त्रसिद्धा, न तु भगवतो जीवेषु प्रीतिः, तेषामविद्यादिदोषग्रस्तत्वात्। न हि निर्दोषः सदोषेषु रमते प्रीणाति च। तव पुष्टिमार्गीयायाः सेवनात्सर्वभावेन चेतसस्त्वदधीनत्वकरणात्त्वदीयत्वे सम्पन्ने स्वसम्बन्धिसम्बन्धाद्धरेः सर्वदुःखहर्तुस्तादृक्स्वभावस्य स सेवकस्तदीयः प्रियो भव- तीत्यर्थः। इदमपि तवाऽद्भुतचरित्रम्, शास्त्रासिद्धत्वात्, लोकेऽपीतरतोषहेतुकृते- रितरतोषासाधकत्वाच्च। ननु किं प्रमाणमत्र कुत्राऽप्येवं फलस्याऽदृष्टत्वादित्याशङ्क्य दृष्टान्तमाहुर्यथा गोपिका इति मूले। यथा व्रतप्रसङ्गे फलप्रकरणीयगुणगानप्रसङ्गे च तव सेवनाद् गोपिका हरेस्तथा जाताः। तथाऽन्योऽपि भगवत्सेवकस्तथा भव- तीति भावः। अथवा। यथा गोपिका इति दृष्टान्तेन न प्रीतिमात्रं किन्तु यथा ताः सर्वभावेन प्रीतिविषया भगवतस्तथाऽयमपि भवतीति भावः॥ ६॥

श्रीपुरुषोत्तमप्रणीता विवृतिः। प्रियत्वे उदाहरणम्। अन्यथा बहुषु भक्तेषु सत्स्वप्येकादशे तास्वेवैतानत्वेन प्रियत्वं न वदेदतस्तथेत्यर्थः। प्रियभवने दृष्टान्तश्चाऽयम्। सेवनस्य हेतोस्तुल्यत्वात्। तेन ब्रह्मत्वेन सेवने "रसो यः परमाधार"इति तथा सेवकस्य प्रियत्वं युक्तमेव। अतः प्रतिबन्धकनिवृत्तिरर्थादेव सिद्ध्यतीति भावः। एतावदन्तं व्याख्यानं प्रभूणाम्। अग्रे तदाज्ञप्तश्रीगोकुलनाथानाम्। अत्राऽपि स्वसेवनाद्गोपिकावद्भगवत्प्रियत्वसम्पाद- कत्वरूपं षष्ठमैश्वर्यं स्पष्टम्॥ ६॥


१ स्वसेवकस्तदीय इति च. २ प्रतीतिमात्रमिति च.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २७ ममाऽस्तु तव सन्निधौ तनुनवत्वमेतावता न दुर्लभतमा रतिर्मुररिपौ मुकुन्दप्रिये । श्रीगोकुलनाथचरणानाम् विवृतिः । आवश्यकदैहिकधर्मेऽपि त्वत्सम्बन्धे मुक्त्यधिकभक्तिप्राप्तिर्यत्र, तत्र का शङ्का यमयातनाभाव इत्याहुर्ममाऽस्त्विति । तव सन्निधौ तनोर्नवत्वं लीलोपयोगिनूतनदेहसम्पत्तिरस्तु । एतेन पूर्वदेहनिवृत्तिः सूचिता । इद- मपि त्वत्कृतमेव भवति न त्वन्यथेति ज्ञापनार्थं प्रार्थनमस्त्विति । एतावता श्रीहरिरायप्रणीतं टिप्पणम् । आवश्यक्येति । देहस्य देहान्तरारम्भकत्वमावश्यको दैहिको धर्मः “प्रज्ञया शरीरं समारुह्ये”१त्यादिश्रुतेः । किं बहुना । मुक्तावपि भगवच्छास्त्रे सेवोपयोगि वैकुण्ठादिषु देहान्तरम् । अत एवोक्तमाचार्यैः सेवाफलग्रन्थे—“सेवोपयोगिदेहो वैकुण्ठादिष्वि”ति । तस्मिन्नपि त्वत्सम्बन्धे सान्निध्यसम्पादिते दै२शिकेऽपि सम्ब- न्धे यत्र तथाविधभक्तिसिद्धिस्तत्र तत्र जातानां यमयातनाभावे का शङ्केति कैमुतिक- न्यायो निरूप्यत इत्यर्थः । तव सन्निधाविति । एतेन दुष्टसन्निधानकृतत्वच्चिरो- भावाभावस्थल एव तथात्वमित्याशयो ज्ञेय इति बोधितम् । पूर्वदेहनिवृत्तिरिति । घटस्य पाकेन३ मृत्त्वनिवृत्तिवन्निवृत्तिरत्र वाच्या । अन्यथा पूर्वतनोर्नवत्वमिति न व्याख्यातं स्यादिति भावः । श्रीपुरुषोत्तमप्रणीता विवृतिः । तत्र च, एवमनेन स्वरूपसामर्थ्यं निश्चाययित्वा प्रियत्वोपयोगि यदभिप्रेतं तत्रार्थयितुमग्रिमः श्लोक इत्याशयेन तमवतारयन्त्यावश्यकेत्यादि, आवश्यक- दैहिकधर्मपदेन तीरवासात्मकं सेवनं पानं चेत्युभयमपि सङ्गृह्यते । पूर्वत्र सेवनपानयोः फलस्योपपादितत्वेऽपि व्याख्यानाभावादत्राऽनुवादः । तथाच तीरवासात्मकत्वत्सेवन- त्वज्जलपानरूपावश्यकदैहिकधर्मेऽपि त्वत्सम्बन्धे यत्र मुक्त्यधिकभक्तिप्राप्तिस्तत्र का आशङ्का यमयातनाभाव इत्याशयेन पूर्वं प्रार्थनमाहुरित्यर्थः । तद्व्याकुर्वन्ति तवेत्यादि । तवे आधिदैविक्याः सन्निधौ भौतिकीमध्ये सन्निधाने तनोर्नवत्वं सिद्धिरूपलीलोपयो- गिनूतनदेहसम्पत्तिरस्तु । अत्र तनुनवत्वं नैतच्छरीरेऽतिशयाधानमात्रपर्यवसायि, किन्तु, पूर्वशरीरनिवृत्तिपूर्वकाभीष्टदेहान्तरप्राप्तिपर्यन्तमित्याशयं स्फुटीकुर्वन्ति एतेने- त्यादि । एतेन नवत्वस्य नूतनदेहसम्पत्तिपर्यन्तत्वकथनेन पूर्वशरीरनिवृत्तिः सूचिता, १ शरीरमारुह्येति ख. २ दैहिकेऽपीति ग. युक्तन्तु यथानिवेशमिति न प्रस्मार्थ्यम् । ३ परिपाके नामरूप- निवृत्तिवद् इति पाठः अ.

२८ श्रीयमुनाष्टकम् । अतोऽस्तु तव लालना सुरधुनी परं सङ्गमात् तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥ ७ ॥ शरीरपरिवर्त्तमात्रेणैव मुररिपौ रतिर्दुर्लभतमा न भवतीत्यर्थः । किन्तु तनु- नवत्वेन सुलभव । कदाचित्प्रतिबन्धके विद्यमानेऽपि यथा जलदोषरूपमुरस्य निवारकस्तथा त्वत्सम्बन्धात्सर्वदोषनिवारकत्वं मुररिपुपदेनोक्तम् । अतः कारणाद्यावदाधुनिकशरीरनिवृत्तिस्तावत्तव लालना स्तुतिरूपा अस्तु । साऽपि श्रीहरिरायप्रणीतं टिप्पणम् । दुर्लभतमा नेति । त्वत्सम्बन्धस्यैव दुर्लभत्वेन सा भगवति दुर्लभा तु भवत्येवेति तमप्प्रत्ययाशयो बोध्यः । प्रतिबन्धक इति । भक्त्युत्पत्तावित्यर्थः । त्वत्सम्बन्धादिति । यथा नरकासुरनिरुद्धकन्याऽनुग्रहाय तत्सम्बन्धाज्जलदोष- रूपमुरस्य निवारकस्तथा त्वत्सम्बन्धात्तदीयसर्वसेवकदोषनिवारक इति भावः । एतेन त्वत्सम्बन्धिनां भगवद्रतिप्रतिबन्धनिरसनायाऽपि यत्नो न विधेय इत्युक्तम् । मुकुन्दप्रिय इति मूले । पदतात्पर्यं तु-भगवान् मुकुन्दो मोक्षदाता गृह एव चतुर्विधपुरुषार्थं भावेन स्वयमाविर्भूयाऽनुभावयन् तादृशसमाजसत्यसम्पादनेन स्वतन्त्रभक्त्या भगवदीयत्वसम्पादकस्तादृशस्य प्रियात्वेन तद्धर्मवत्त्वात् भगवदीयत्व- सम्पादकत्वमस्या इति स्वतन्त्रभक्तिदायिकात्वेन परमोत्कर्षो निरूपितो भवतीति तथा सम्बोधनमिति । अतः कारणादिति । यतो यथाकथञ्चित्त्वत्सम्बन्धे प्रतिबन्ध- निवृत्तिपूर्वकभक्तिप्राप्तिसौलभ्यमतः कारणादित्यर्थः । यावदाधुनिकेति । नवीने श्रीपुरुषोत्तमप्रणीता विवृत्तिः । अर्थबलादेव बोधितेत्यर्थः । इदमिति । पूर्वोक्तमुभयम् । ननु किमिति द्वयं प्रार्थ्यते एतस्य शरीरस्यैव कुतो नवत्वं न प्रार्थ्यत इत्यत आहुरेतावतेत्यादि । शरीरस्य यः परिवर्त्तः पूर्वधर्मनिवृत्तिपूर्विका धर्मान्तरवत्ता, तन्मात्रेणैव मुररिपौ दोषनिवर्त्तके भगवति रतिर्दुर्लभतमा न भवति, तथापि लीला तु दुर्लभतमा भवत्येव । अतो न प्रार्थ्यत इत्यर्थः । तदेतत्स्फुटीकुर्वन्ति कदाचिदित्यादि उक्तमित्यन्तम् । श्रीहरि- रायास्तु लीलोपयोगिदेहप्राप्तिं परमभक्तिप्राप्तिमात्रसाध्यां मन्वानाः पूर्वदेहनिवृत्तिं मृद्धटपाकदृष्टान्तेनैतद्देहेऽतिशयाधानमात्रपर्यवसितामङ्गीकुर्वन्ति । तदपि पूर्वपक्षावि- श्रान्तमिति न विरोधः । मुकुन्दप्रिय इति तु न व्याख्यातम् । मोक्षदातृत्वस्य १ दुर्लभा न भवत्येवेति ग, २ चतुर्विधपुरुषार्थभावेनेति ख, ३ स्वतन्त्रभक्तदायकत्वेनेति ख च,

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २९ त्वत्कृपयैव नाऽन्यथेति प्रार्थ्यतेऽस्त्विति । गङ्गाया अपि फलसाधकत्वं त्वत्सम्बन्धादेवेत्यत आहुः, सुरधुनी तव सङ्गमात् परं अत्यर्थं भुवि की- र्तिता स्तुतेत्यर्थः, न तु कदापि त्वद्रहिताऽपीत्यर्थः । ननु क्वचित्पुराणादौ केवलाया अपि स्तुतिर्दृश्यत इति स्तुतौ विशेषमाहुः पुष्टिस्थितैरिति । मर्यादा- मार्गीयैः केवलाऽपि स्तूयते त्वत्स्वरूपाज्ञानात् । पुष्टिमार्गीयास्तु त्वत्स्वरूपं जानन्तीति त्वत्सम्बन्धादेव स्तुवन्तीत्याहुः पुष्टिस्थितैरिति ॥ ७ ॥ श्रीहरिरायप्रणीतं टिप्पणम् । अलौकिके तु शरीरान्तरे सम्पन्ने लीलारसानुभव एव त्वत्तीरे भवेदिति भावः । लालना स्तुतिरूपेति । यथा जननी लालनसमये प्रेम्णा बालकं स्तौति । सा स्तुतिरपि लालनैव न तु गुणकीर्त्तनम् । लालनमध्यपातित्वात् । तथैषाऽपि स्तुति- र्लालनैवेति स्तुतिरूपेत्युक्तमित्यर्थः । फलसाधकत्वमिति, पुष्टिमार्गीयफलसाधकत्व- मित्यर्थः । पुष्टिमार्गीयं फलं तु साक्षात्पुरुषोत्तमलीलासम्बन्धोऽलौकिकदेहसिद्ध्या, तत्सम्पादकत्वं तु गङ्गायास्त्वत्सम्बन्धादेव । अन्यथा "स्रोतसामस्मि जाह्नवी"ति वाक्येन तस्या विभूतिरूपत्वेन निरूपणादेतत्फलसाधकत्वमुच्यमानं बाधितं स्यात् । श्रीपुरुषोत्तमप्रणीता विवृतिः । स्वाभाविकत्वेऽपि भवदनुरोधेनाऽलौकिकं देहं दास्यतीत्याशयस्य प्रियापदादेव स्फुटं स्फुरणात् । प्रियत्वं तु तत्रैव "विष्णुदयिते"ति नाम्नोक्तम् । अतःकारणादिति । यतो भवती प्रिया । तथाच तदवधि लालनारूपं तदनुकूलमिदं द्वितीयं प्रार्थितं देय- मिति भावः। ननु तनुभवत्वरूपं फलमन्यथा सिद्धं गङ्गायाऽपि सम्भवादतस्तदर्थं तत्स्तु- तिरेव कार्येत्याशङ्कायां तन्निरासाय श्लोकशेष इत्याशयेन तमवतारयन्ति गङ्गाया इत्यादि । इदमपि "सितासिते"इति मन्त्रोत्तराद्धू एव सिद्धम् । अस्याऽपि मन्त्रस्य- कृत्वेन "गोप्यो गावः ऋचस्तस्ये"ति श्रुत्यन्तरे तासां गोपीत्वेन पुष्टिस्थितत्वात्केव- लगङ्गाया एव माहात्म्यस्य तत्राऽस्फुटत्वाच्च । अत्र पुष्टिस्थितपदेन तदुक्तिराधिदैविक- सङ्ग्रहाय । व्रजस्थकृतस्य केवलगङ्गाकीर्त्तनस्य श्रीभागवते अदर्शनादिति । आहु- रिति । स्वपूर्वोक्तेऽर्थेऽभियुक्तसंमतिमाहुरित्यर्थः । व्याख्यानं तूत्तानार्थम् । इदं चाऽ- र्थादेव सिद्धम् । पुष्टिमार्गीयाणां भजनानन्दाभिलाषुकत्वेन तदुपयोगिन एव स्तुत्य- त्वात् । लोकादपि तथा निश्चयात् । योजना तु—सुरधुनी भुवि कीर्तिता, परं तवैव १ तत्तीरे इति क-ग-घ-ङ-च.

३० श्रीयमुनाष्टकम् । स्तुतिं तव करोति कः कमलजासपत्नि प्रिये यत्र त्वत्सम्बन्धात्सर्ववन्द्यगङ्गास्तुतिस्तत्र त्वत्स्तुतौ को वा समर्थ इत्याहुः स्तुतिं तवेति । अशक्यस्तुतित्वे हेतुमाहुः कमलजासपत्नीति । श्रीहरिरायप्रणीतं टिप्पणम् । अत एव पुष्टिस्थितैरित्युक्तम्, अन्येषामेतन्माहात्म्यानवगतेः । पद्यपदलापनिका तु, पुष्टिस्थितैः निःसाधनानुग्रहमार्गनिष्ठैः सुरधुनी लोकान्तरनदी भुवि तु पुनर्न कदाऽपि कीर्त्तिता तादृक्पुष्टिमार्गीयफलसाधकत्वेनेति । परं किन्तु सर्वदैव तवैव सङ्गमात् सा तथा कीर्त्तिता। अतः सर्वदा तव लालना पूर्वोक्तरूपाऽस्त्विति सम्बन्धो ज्ञेयः ॥७॥ अशक्यस्तुतित्व इति। वाग्गोचरमाहात्म्यसत्त्वाद्यथा रसस्वरूपानन्देऽशक्य- स्तुतित्वम् । “यतो वाच” इति श्रुतेः । तथाऽत्राऽपीति भावः । कमलजासपत्नीति हेतुनिरूपणम् । सपत्नीत्वेन लक्ष्मीविरुद्धस्वभावत्वादित्यर्थः । अयमभिप्रायः । लक्ष्मीर्हि प्रमाणसिद्धब्रह्मानन्दस्वरूपा । अतः प्रमाणभूतैर्वेदादिवाक्यैर्लक्ष्मीमाहात्म्य- निरूपणमुपपद्येताऽपि । त्वं तु पुष्टिलीलास्थत्वेन तदतीताप्रमेयानन्दरूपेति 'यतो वाच' श्रीपुरुषोत्तमप्रणीता विवृतिः । सङ्गमात् । तत्र गमकं, पुष्टिस्थितैस्तु कदापि नेति । केवला न कीर्त्तितेत्यर्थ इति समीची भाति। तथाच सेवोपयोगिदेहसम्पादकत्वं गङ्गाया अस्ति, परं नाऽभीष्टसेवो- पयोगिदेहसम्पादकत्वम् । तेन नाऽन्यथा सिद्धिः । यदि तया सा स्यादभियुक्तैः साऽपि स्तूयेत । तदभावा'द्यया चरणपङ्कजे'त्यर्द्धेनोक्तोऽर्थ उपपन्नतर इति भावः । अत्राऽपि तनुभवत्वरूपं सप्तमैश्वर्यं स्पष्टमेव ॥ ७ ॥ नन्वस्तु गङ्गापेक्षया स्तुत्यत्वम् । सम्बन्धाधिक्यात्, न तु लक्ष्म्यपेक्षयाऽपि । तथा सति तनुभवत्वार्थं सैव स्तोतव्या । यत्पुनस्तया सदृशतामित्यर्द्धेनोक्तमतिप्रियत्वं तत्तु भक्तमानापनोदकेषु गुणातीतभक्तान्तरेष्वपि । कलिनिवारकत्वधर्मस्य साधारणत्वान्न तेनाऽनुमातुं शक्यमिति मानाभावान्नोपपन्नमित्याशङ्कायां, लक्ष्म्यपेक्षया जीवोप- कारकत्वं गङ्गायां सुप्रसिद्धमिति । तत आधिक्ये लक्ष्म्यपेक्षयोपकाराधिक्यं कैमुतिकादेव सिद्ध्यतीति न लक्ष्म्यास्तदर्थं स्तोतव्यत्वमित्याशयेनाऽष्टमश्लोकमव- तारयन्ति यत्रेत्यादि । उक्तार्थसूचनायाऽत्र सर्ववन्द्यपदम् । अतः परं कार्येणाऽतिप्रियत्व- साधकोऽग्रिमग्रन्थ उक्तेऽर्थे हेतुत्वमपि भजत इत्याशयेन तमवतारयन्त्यशक्यैत्यादि । १ सा पूर्वोक्तरूपेति ग-घ. २ रसरूपेति ख. ३ ब्रह्मानन्दरूपेति च.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३१ हरेर्यदनुसेवया भवति सौख्यमामोक्षतः । सर्वत्र स्तुत्यत्वं भगवत्सम्बन्धात् । स सर्वत्र लक्ष्म्यपेक्षया न्यून एव । त्वं तु तस्या अपि सपत्नी तत्समानसौभाग्यवती । ननु लक्ष्मीस्तुतिस्तु लोके दृश्यते । तर्हि तत्साम्यं चेत्कथं स्तुतिरशक्येत्याहुः प्रिये इति । साम्यमात्रे कर्त्तुं शक्यत एव । अत्र तु ततोऽप्यधिकं प्रियत्वमस्तीति स्तुतिकरणमशक्यम्। ननु कथं ज्ञायते लक्ष्म्यपेक्षयाऽऽधिक्यमस्तीति, तत्र हेतुमाहुर्हरेर्यदनुसेवयेति । श्रीहरिरायप्रणीतं टिप्पणम् । इति श्रुतेरशक्यस्तवेति विरुद्धस्वभावत्वात्सपत्नीति । लक्ष्म्याः स्तुत्यत्वमुपपादय- न्ति सर्वत्रेति । लोके वेदे च स्तुत्यत्वं भगवत्सम्बन्धात् । तदभावे निन्द्यत्वमेव । “ मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिमि”ति वचनात् । सम्बन्धतारतम्येन स्तुत्यत्वतारतम्यम् । तथाच सम्बन्धस्तु लक्ष्म्या निरतिशय एव, उरसि सर्वदा निवासात् । अतः स्तुत्यत्वं तत्रोपपन्नमिति भावः । तत्समानसौभाग्यवतीति । अन्यासां भगवत्पत्नीनां लक्ष्म्यंशत्वेन तदधीनत्वम् । तव तु तत्समानसौभाग्यवत्त्वेन लक्ष्मीवत्स्वातन्त्र्यमिति भावः । ननु लक्ष्मीस्तुतिस्त्विति । स्वातन्त्र्येऽपि साम्य- सत्वे लक्ष्मीस्तुतिरिव कथमेतत्स्तुतिरशक्येत्याक्षेपार्थ इत्यर्थः । प्रिय इति सम्बोध- नम् । स्वातन्त्र्येण साम्येऽपि प्रियत्वेन ततोऽप्याधिक्यसत्वान्न लक्ष्मीदृष्टान्तेन शक्य- स्तुतित्वमस्या उपपद्येतेति भावः । अत एव “ श्रियं चाऽऽत्यन्तिकीं ब्रह्मन् येषां गतिरहं परे”ति दुर्वाससं प्रति प्रभुरेवैतादृशानां ततोऽपि प्रियत्वमाहेत्याधिक्यं प्रमाणसिद्धमेव । फलतोऽप्याधिक्यं वक्तुमाहुर्हरेर्यदनुसेवयेति । हरेः सम्बन्धिनी या यदनुसेवा हरिसाहित्येन तत्रापि अनु पश्चाद्भगवत्सेवां विधाय गौणभावेन यस्याः सेवा तया मोक्षं पुरुषोत्तमसायुज्यं मर्यादीकृत्य सालोक्यादिसुखं भवति । पुरुषोत्तम- सायुज्यस्य भक्तिमार्गेण केवलभगवत्सेवासाध्यत्वात् । अत एवोक्तमाचार्यवर्यैः— “ आदिमूर्त्तिः कृष्ण एव सेव्यः सायुज्यकाम्यये”ति निबन्धे । तत्रापि कृष्णपदेन भक्तिप्राप्यः प्रभुरेवकारेण इतरनिरासश्चोक्तः । मोक्षप्राप्तिर्भवतीति । सालोक्या- दिमोक्षप्राप्तिर्भवतीत्यर्थः । अत एव वैकुण्ठे लक्ष्मीसखीनां सालोक्यादिसुखं, न १ तत्स्वातन्त्र्येऽपीति ख. २ प्रमाणप्रसिद्धमेवेति क. ग. घ. ङ. च. ३ केवलमिति ख.

३२ श्रीयमुनाष्टकम् । इयं तव कथाऽधिका सकलगोपिकासङ्गम- स्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमः ॥ ८ ॥ हरेरनु पश्चाच्चर्याः सेवया मोक्षं मर्यादीकृत्य सुखं भवति । मोक्षप्राप्तिर्भवती- त्यर्थः । न तु ततोऽप्यधिकं भजनानन्दाख्यं सुखं भवति । तदपि भगव- त्सहिततद्भजनेन न तु केवलायाः, केवलाया मोक्षविघातकत्वात् । अनुशब्दा- न्मुख्यतया भगवद्भजनम् । तदनुगुणत्वेन लक्ष्म्याः । कालिन्द्युत्कर्षमाहुरियं तव कथेति । इयमग्रत उच्यमाना तव कथाऽपि सर्वमुक्त्यपेक्षयाऽधिका । अत एवैतत्कथारसिकानां न मोक्षेच्छागन्धोऽपि । तदेवोक्तं पञ्चमस्कन्धे— “अथ ह वा व तव महिमामृतसमुद्रविप्रुषा सकृल्लीढया विस्मारितदृष्टश्रुत- श्रीहरिरायप्रणीतं टिप्पणम् । लक्ष्मीवत्पुरुषोत्तमनित्यसंयोगरूपसायुज्यम्, तस्य लक्ष्मीमात्रभोग्यत्वात् । न हि स्वभोग्यमन्येभ्यः कोऽपि दातुमीष्टे । अत एवोक्तं बालबोधे—“लोकेऽपि यत्प्रभु- भुंङ्क्ते तन्न यच्छति कर्हिचिदि”ति । न तु ततोऽपीति । सायुज्यादप्यधिकमित्यर्थः । हरेरि- त्यस्य पञ्चम्यन्तपदस्य सम्बन्धिवोधकस्य तात्पर्यमाहुस्तदपीति मोक्षसुखमपीत्यर्थः।केव- लाया मोक्षविघातकत्वादिति। केवला भगवतः पुरुषोत्तमाद्भेदेन स्थिता विभूतिरूपा भजनेन धनादिसम्पत्प्रदा तस्या विषयासक्तिहेतुत्वेन वैराग्यंविघातद्वारा मोक्षविघातक- त्वमित्यर्थः । कालिन्द्युत्कर्षमिति, भजनानन्दरूपफलसाधकत्वेन लक्ष्मीत उत्कर्ष- मित्यर्थः । सर्वमुक्त्यपेक्षयेति, लक्ष्मीतत्सेवकफलरूपसायुज्यसालोक्यादिमुक्त्यपे- क्षयेत्यर्थः । अत एवेति, यतो मुक्त्यपेक्षयैतत्कथाया आधिक्यमित्यर्थः । एत- त्कथारसिकानामिति । मोक्षे हि न भेदेन स्थितिरिति सर्वात्मभावलभ्यरसकथा- श्रीपुरुषोत्तमप्रणीता विवृत्तिः । अनुशब्दोक्तस्य पश्चात्त्वस्य सापेक्षत्वादवधिं बोधयितुं हरेर्यदन्वित्येवं प्रतीकं तद्व्या- ख्यानं चेति ज्ञेयम् । तेन न दोषः । शेषं स्फुटम् । एवं लक्ष्म्यपेक्षया गङ्गापेक्षया चा- ऽऽधिक्यं साधयित्वा तत्र हेतुमुत्तरार्द्धेन वदन्तीत्याशयेन तमवतारयन्ति व्याकुर्वन्ति च कालिन्द्यामित्यादि, इयमित्यादि च । सकलेत्यादि, इदमपि यमुनामाहात्म्ये “केलि- १ सर्वत्र मुक्त्यपेक्षयेति ख. २ वैराग्यविघ्नद्वारेति च.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३३ सुखलेशाभासाः परमभागवता एकान्तिन" इति। सा केत्याकाङ्क्षायामाहुः सकलगोपिकेति । सकलगोपिकासङ्गमेन स्मरसम्बन्धी यः श्रमस्तेन जनिता ये स्वेदजलाणवः सकलगात्रजास्तैः सङ्गमो यस्याः । एते जलाणवो न श्रम- स्वेदरूपाः किन्तु विविधसङ्गरसस्य सर्वावयवपूर्णस्याऽन्युच्छलनेन बहि- रागतस्यैव बिन्दवो न तु केवलजलमात्रस्य । अत एवोक्तं सकलगात्रजै- रिति। एभिर्विशेषणैः परमकाष्ठापन्नपुष्टिपुष्टिमार्गान्तरङ्गभक्तत्वं सर्वदैतद्रस- पूर्णत्वमन्तरङ्गभक्तानुगुणत्वमेतल्लीलामध्यपातित्वादिकं सूचितम् । स्वस्यै- तद्रसपूर्णत्वेन केवलैतद्भजनकर्तुरप्येतद्रसं ददातीति स्पष्टमेव वैल- क्षण्यम् ॥८॥

श्रीहरिरायप्रणीतं टिप्पणम्। रसिकानां तत्र तदभावान्न तदिच्छागन्धोऽपीत्यर्थः । "अथ ह वावे"त्यादिना प्रमाणोपन्यासः । सा केति । कथेत्यर्थः । यस्या इति पञ्चमी षष्ठी च व्याख्येया । पञ्चमीपक्षे—यस्याः सकाशादन्येषामेतत्सम्बन्धिनामपि तत्सङ्गमः । षष्ठीपक्षे— श्रीयमुनायास्तत्सङ्गमः। तदाऽपि कृपया तद्रसदातृत्वमित्यर्थः । एभिर्विशेषणै- रिति । एतत्कथायां सकलगोपिकास्तत्सङ्गमः, सोऽपि रसावेशजनितो येन श्रमः तेनोद्गतं स्वेदजलं तदीया अणवोऽतिसूक्ष्मबिन्दवस्तैः सङ्गमः, एतावन्ति कथा- विशेषणानि तैरित्यर्थः । एतादृशी एतत्कथेत्यस्यामपि परमकाष्ठेत्याद्युक्तसकलधर्म- वत्त्वं सूचितमित्यभिहितमिति भावः । केवलैतद्भजनकर्तुरपीति । अनन्यभजन- कर्तुरित्यर्थः ॥ ८ ॥

श्रीपुरुषोत्तमप्रणीता विवृतिः । सलिले"ति नाम्नि प्रसिद्धम् । केलिः सलिले यस्या इति तदर्थात् । किञ्च । "ब्रह्म- विद्यासुधावहा" इति नाम्न्यपि भगवतस्तरणलीलायां प्रवाहे गण्डूषपाताद्ब्रह्मविद्यारूप- भगवन्मुखसुधां वहतीत्यपि स्फुटति । यद्यपि श्रमजलगण्डूषजलसम्बन्धो लीलासमय एव, तथापि श्रीयमुनायाः सप्तसागरान् भित्त्वा सूर्यमण्डलाद् रङ्गवत्पुनःपुनरत्रागम- नेन इदानीमपि सोऽस्तीति न किञ्चिदनुपपन्नम् । अत्रापि लीलाससायिकप्रभुश्रम- जलकणसम्बन्धसम्पादकत्वरूपमष्टममैश्वर्यं स्पष्टमेव ॥ ८ ॥

१ पराकाष्ठापनेति क-ख. ५

३४ श्रीयमुनाष्टकम् ।

तवाष्टकमिदं मुदा पठति सूरसूते सदा* समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः।

एवं कालिन्दीं स्तुत्वैतत्स्तोत्रपाठफलमाहुस्तवाष्टकमिति । यद्य- प्यन्यकृतान्यपि स्तोत्राणि सन्ति तथापि वक्ष्यमाणं फलमेतत्स्तोत्रपाठेनैव भवति, नाऽन्येथेति ज्ञापनायेदमित्युक्तम् । अन्यकृतस्तोत्रेष्वेवंविधस्वरूप- निरूपणाभावात् । इदं तवाष्टकं यः पठति तस्य पूर्वं समस्तदुरितक्षयो भवति । तदनन्तरं मोक्षदातार्यपि स्नेहो भवति । अत एवोक्तं, "नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायत" इति । मुकुन्दपदाद्यद्यपि मोक्षमेव साधारण्येन सर्वेभ्यो ददाति तथापि त्वत्स्तुतिपाठात्प्रसन्नो भक्तिमेव ददाति न तु मोक्षमपीति भगवत्स्वभावपरावर्त्तकत्वमुक्तम् । ततः किमिति तत्राऽऽहुः। तया सकलसिद्धयः पूर्वोक्ताः सर्वात्मभावादयो भवन्तीति शेषः । ननु प्रति-

श्रीहरिरायप्रणीतं टिप्पणम् । वक्ष्यमाणमिति । अनुपद्मेवाऽत्र पद्ये वक्ष्यमाणमित्यर्थः । समस्तेति ब्रह्मसम्बन्धवदेकहेलया अखिलपापक्षय एतत्स्तोत्रपाठेन बोधितः। तदनन्तरमिति। भक्तिप्रतिबन्धकसमस्तदुरितक्षयानन्तरमित्यर्थः । अन्यथा दुरितानामनन्तत्वेनैकदा तन्निवृत्तौ रत्युत्पत्तेरनवसरपराहतिः स्यात् । अत एवेत्यादिना प्रमाणोपन्यासपुर- स्सरं समस्तपापाभावस्य भगवद्भक्त्युत्पत्तौ हेतुता निरूपिता । यद्यपि "ज्ञानाग्निः सर्वकर्माणी"ति वाक्याज्ज्ञानेनाऽपि सर्वकर्मनिवृत्तिः । परन्तु तत्र ज्ञानसाधने क्लेशभूयस्त्वमत्र तु पाठमात्रेणैतत्स्तोत्रस्य सा भवतीत्यनायासेन तत्साधकत्वं पाठ- स्येति तदुत्कर्षो ज्ञेयः । प्रसन्न इति । यथा लीला सृष्टिस्थेभ्यस्त्वत्साक्षात्कारात् त्वत्सम्बन्धेन प्रसन्नस्तथा आधुनिकेभ्यः परोक्षे त्वत्स्तुतिपाठादेव प्रसन्नो भवती- त्यर्थः । भक्तिमेवेति निश्चयवाचकं "वा" इत्यव्ययपदप्रयोगतात्पर्यं ज्ञेयम् । भगव- त्स्वभावपरावर्त्तकत्वमिति । एतत्स्तोत्रपाठस्येत्यर्थः । अत्राऽयं भावः । भगवत्स्व- भावः स्वामिनीभ्यो देयं फलमन्येभ्यो न प्रयच्छति । अन्यथानु कम्पापात्रमुद्धवं व्रजे न प्रेषयेत् । स्वयमेव तादृग्भावं दद्यात् । एतत्स्तोत्रपाठे तु तत्कर्त्तरि श्रीयमुनासम्बन्धावगमेन स्वामिनीभ्य इव स्वयमेव तादृग्भावं प्रयच्छतीति तथेति भावः । ततः किमिति । ततो भगवद्भावाद्ग्रे किं भवतीत्यर्थः ।

  • अत्र श्रीपुरुषोत्तमचरणानां व्याख्यानं किञ्चिदस्ति तत् श्लोकान्ते निवेशितम् ।

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । ३५

तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति स्वभावविजयो भवेद्वदति वल्लभः श्रीहरेः ॥ ९ ॥ श्रीयमुनाष्टकस्तोत्रं सम्पूर्णम् ।

बन्धके विद्यमाने सति कथमेतत्स्तोत्रमात्रादेतावद्भवतीति चेत्तत्राऽऽहुर्मुररि- पुश्च सन्तुष्यतीति । यथा दोषरूपं तन्निरुद्धकन्यासुखप्राप्तिप्रतिबन्धकं निरा- कृत्य ता अङ्गीकृतवानेवमेतत्पाठनाऽपि प्रतिबन्धं निवार्य तमप्यङ्गीकरोती- त्यपि ज्ञापनाय मुररिपुपदम् । फलान्तरमाहुः स्वभावविजयो भवेदिति । स्वभावस्य विजयः परावृत्तिर्भवति । सवासनेति व्युपसर्गार्थः । दुष्टस्वभा- वोऽप्युत्तमस्वभावो भवतीत्यर्थः । नन्विदमनकेतपःसाध्यं कथमेतत्पाठमात्रा- दिति चेत्तत्राऽऽहुर्वदति वल्लभ इति । तेनाऽऽप्तवाक्यत्वेन प्रामाण्यमुक्तम् । नन्वितः पूर्वं केनाऽप्यनुक्तत्वाद्वद्भवदुक्तिमात्रेण कथं प्रामाण्यमिति चेत्तत्रा- ऽऽहुः श्रीहरेरिति । साक्षाच्छ्रीपुरुषोत्तमसम्बन्धी यतः, अहमतो वदामीत्यर्थः ।

श्रीहरिरायप्रणीतं टिप्पणम् ।

सन्तुष्यतीति । भगवत्प्रियात्वाद्यमुनायास्तत्स्तुतौ भगवत्तोषस्तत्रापि सम्यक्तोषो यथा गोपिकासु । अत एव "प्रियो भवति सेवनात्तव हरेरि"ति पूर्वमुक्तम् । चकारेण स्वामि- न्योऽपि तुष्यन्तीत्यर्थः । लोकेऽपि स्वस्तवनापेक्षया स्वप्रियस्तवनस्याऽतितोषहेतुत्वा- दिति भावः। फलान्तरमिति । प्रथममेकं फलं समस्तदुरितक्षयपूर्वकसकलसिद्धिसहित- भगवद्भावप्राप्तिरूपं निरूपितमित्यर्थः । स्वभावविजय इति । "काममयोऽयं पुरुष" इति श्रुतेः स्वभावस्य कामभावरूपजीवस्वभावस्य परावृत्तिः सर्वात्मभावसिद्ध्या भवतीत्यर्थः । यद्वा । स्वभावस्य सात्त्विकादिस्वभावस्य विजयः स्वाधीनीकरणं लीलामात्रोपयोगितया प्रवर्त्तनरूपं स्वरूपतो गुणातीतत्वसिद्ध्या भवतीत्यर्थः । अथवा । स्वभावस्य भगवद्धर्मप्रवेशजन्यमानादिस्वभावस्य दैन्यभावसिद्ध्या परावृत्ति- र्भवतीत्यर्थः । दुष्टस्वभाव इति । शुद्धपुष्टिमार्गविचारेण पूर्वोक्तरूपस्वभावस्य दुष्ट- त्वमित्यर्थः । आप्तवाक्यत्वेनेति । यथार्थार्थवादित्वेनाऽऽप्तत्वम् । तच्चाऽऽचार्यचरणे- ष्वेव सम्भवति । लीलास्सृष्टिसम्बन्धित्वेन लीलास्थभक्तजनफलजननदर्शनात् । अत एतदाप्तत्वमेतेष्वेवेत्येतद्विषये स्वोक्तमेव प्रमाणमिति बोधनाय स्वनामोक्तिरिति भावः । नन्वित्यादिना आप्तत्वसंशयमादाय पूर्वपक्षो ज्ञेयः । साक्षादित्यादिनिरूप- णस्याऽयमभिप्रायः । हरिपदेन निःसाधनगजराजोद्धृतये तद्देन्येन प्रादुर्भूतः पुरुषो- त्तम उच्यते । स च पुष्टिमार्गीयप्रभुरेव । सर्वसाधनराहित्ये केवलदैन्येन प्रादुर्भूत-

१ पूर्वकमिति क. ग. घ. ङ.

३६ श्रीयमुनाष्टकम् । अत्राऽयमाशयः । साक्षात्स्वरूपसम्बन्धिनां स्वरूपं साक्षात्तत्सम्बन्धिन एव जानन्ति न त्वन्ये । श्रीकालिन्द्याः साक्षात्तत्सम्बन्धित्वं पूर्वं प्रकटमेवोपपा- दितम् । स्वातिरिक्तानां साक्षाच्छ्रीगोकुलेशसम्बन्धाभावात्साक्षात्तत्सम्ब- न्धिन्याः स्वरूपाज्ञानात्तदकथनम् । स्वस्य तु साक्षात्तादृशत्वात्तत्स्वरूपज्ञाना- त्तत्कथनमिति नाऽनुपपत्तिः काचित् । इति श्रीविट्ठलेश्वरविरचिता श्रीयमुनाष्टकविवृतिः सम्पूर्णा । श्रीहरिरायप्रणीतं टिप्पणम् । त्वात् । अत एवाऽग्रे साक्षादित्युक्तम् । पुष्टिमार्गीयातिरिक्तेषु साक्षात्सम्बन्धाभावेन साक्षात्स्वरूपप्रादुर्भावाभावात् । तत्र तु पुरुषोत्तमस्य विशुद्धसत्त्वव्यूहादिव्यवधानमेव । अत एव श्रीपदम् । सौन्दर्यादिरसानुभावकधर्मप्राकट्यस्य पुष्टिमार्ग एव सम्भवात् । तादृशस्य वल्लभत्वेन सम्बन्धीति मदुक्तौ नाऽस्त्वसंशयः पुष्टिपथानुगृहीतैरस्म- दीयैर्विधेय इति दिक् । इति श्रीमन्निजाचार्यकृपया परया युतः । हरिदासश्चकारेदं टिप्पणं विवृतौ प्रभोः ॥ १ ॥ प्रसीदन्तु निजाचार्याः स्वदासे निजवंशगे । प्रयच्छन्तु स्वतो भावं यमुनासहिते हरौ ॥ २ ॥ इति श्रीमद्वल्लभाचार्यचरणतामरसपरागभिलाषिहरिदासप्रणीतं श्रीयमुनाष्टकविवृतिटिप्पणं सम्पूर्णम् । श्रीपुरुषोत्तमप्रणीता विवृत्तिः । नवमश्लोकतद्विवरणं चोक्तानार्थम् । तत्राऽपि मुदा सदेति पदाभ्यां स्वस्या- स्तवोक्त्या चाऽऽनन्दस्य प्रत्यहमविच्छेदस्य स्वस्मिन्विश्वासस्य च पाठाङ्गत्वं श्रीम- दाचार्यैर्दर्शितमिति बोध्यम् ॥ ९ ॥ श्रीयमुनाष्टकविवृतिः प्रभुचरणकृपाबलेन विवृतेयम् । यदि ह्रस्वमतिजदोषादसदुक्तं तत् क्षमन्तां मे ॥ १ ॥ इति श्रीमत्प्रभुचरणकृपाभिलाषुकतत्तद्दासपुरुषोत्तमविरचिता श्रीयमुनाष्टकविवृतेर्विवृत्तिः समाप्ता ।

श्रीकृष्णाय नमः । श्रीत्रिभङ्गीरायो जयति । श्रीगोपीजनवल्लभाय नमः । श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतं श्रीयमुनाष्टकम् । श्रीमत्प्रभुचरणविनिर्मितया टीकया गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन च समलङ्कृतम् । मूलम्—नमामि यमुनामहं सकलसिद्धिहेतुं मुदा गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् । नत्वा श्रीवल्लभाचार्यान्करुणारसपूरितान् । श्रीविठ्ठलेशांश्च विभून्निजेभ्यो बुद्धिदायकान् ॥ १ ॥ श्रीमदाचार्यचरणाः स्वीयानां भक्तिसिद्धये । अकार्षुः षोडशग्रन्थान्स्वसिद्धान्तार्थबोधकान् ॥ २ ॥ तद्व्याख्यानं कृतं पूर्वैः प्रभुभिश्च पृथक्कचित् । यमुनाष्टकमारभ्य सेवाफलमुदाहृताः ॥ ३ ॥ स्वगुरूनन्मथुरानाथान् गङ्गां च स्वीयमातरम् । हेतुः षोडशग्रन्थानां टीकानां च मयोच्यते ॥ ४ ॥ तत्र गोस्वामिप्रभूणां कृतीनां गणना— यमुनाष्टकसिद्धान्तमुक्तावल्योस्तथा पुनः । नवरत्ने प्रकाशश्च त्रयं स्वैः प्रभुभिः कृतम् ॥ १ ॥ तट्टिप्पणं तु बहुभिर्वंशीयैर्बालकैः कृतम् । तत्कृपाबलमाश्रित्य तद्ग्रन्थान्विवृणोम्यहम् ॥ २ ॥ ५॥

३८ श्रीयमुनाष्टकम् । तत्र ग्रन्थक्रमः पूर्वमुच्यते— यमुनाष्टकमादौ तु श्रीकृष्णास्यं हि निर्ममे । मुकुन्दरतिसिद्ध्यर्थं दुरितक्षयपूर्वतः ॥ ३ ॥ स्वभावविजयार्थं च सुरस्योरेश्च तुष्टये । (जीवैस्तु नमनाधिक्यं नैव कर्तुं हि शक्यते ।) नमनादतिरिक्तं तु कर्तुं जीवैर्न शक्यते ॥ ४ ॥ कृष्णस्य निरपेक्षत्वादिति स्वान्ते विचार्य हि । अधिकारस्य सिद्ध्यर्थं यमुनाष्टकमुज्जगौ ॥ ५ ॥ अग्रेऽधिकारसिद्धेस्तु कर्तव्यज्ञापनाय वै । सुपुरुषार्थसङ्क्षेपं बालबोधे न्यरूपयत् ॥ ६ ॥ पुरुषार्थपरिज्ञाने साध्यसाधनभावतः । सिद्धान्तमुक्तावल्यां तु सेवारूपं न्यदर्शयत् ॥ ७ ॥ तत्र— सेवा च द्विविधा प्रोक्ता बाह्याभ्यन्तरभेदतः । तन्निर्वाहाय सिद्धान्तरहस्यं प्रभुरुक्तवान् ॥ ८ ॥ तत्र बाह्यपदार्थानी शुद्धिम्क्ता समर्पणे । आन्तराणां तु शुद्ध्यर्थं नवरत्नं तथा पुनः ॥ ९ ॥ अन्तःकरणसम्बोधं प्रकटीकृतवान्स्वयम् । बाह्याभ्यन्तरयोः शुद्धिमेवमुत्पाद्य मत्प्रभुः ॥ १० ॥ तन्निर्वाहार्थं विवेकधैर्याश्रयमरीरचत् । तत्राश्रयश्चित्तदोषान्न स्थिरो भवतीति हि ॥ ११ ॥ विचार्य कृष्णाश्रयाख्यं ग्रन्थं सूक्ष्मं न्यरूपयत् । आश्रये तु स्थिरे सिद्धे स्वकीयार्थप्रसिद्धये ॥ १२ ॥ चतुःश्लोकीं चकाराग्निरुद्दिश्य स्वमनः प्रति । ततो मार्गत्रयस्यापि बोधनार्थं कृपानिधिः ॥ १३ ॥ पुष्टिप्रवाहमर्यादाग्रन्थं गूढमचीकरत् । एवं भक्तिप्रकरणं महाकारुणिकस्ततः ॥ १४ ॥ दृढीकृत्य प्रवृद्ध्यर्थमकरोद्भक्तिवर्द्धिनीम् । एवं भक्तिं वर्धयित्वा जलभेदमिषेण तु ॥ १५ ॥ भक्तानां लक्षणं प्राह सर्ववादिनिरासकृत् । पद्यानि च तदर्थे हि प्रोवाच निखिलेष्टदः ॥ १६ ॥

गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ३९ उक्तश्च भक्तिवर्द्धिन्यां त्यागो भक्तिविवर्द्धनः । अतस्तस्य विवेकार्थे संन्यासे निर्णयं जगौ ॥ १७ ॥ भावसिद्धौ भावनैव साधनं त्वपरं न हि । निरोधलक्षणे भावं व्रजस्थानामतश्चकौ ॥ १८ ॥ इत्थं पञ्चदशग्रन्थैर्भावं संसाध्य कारणम् । उद्वेगप्रतिबन्धानां साधनैर्वारणैः सह ॥ १९ ॥ फलं स कथयाँश्चक्रे सेवाफलनिरूपणम् । तस्याप्यतिदुरुहत्वाद्विवृतिं चाकरोद्विभुः ॥ २० ॥ एवं षोडशभिर्ग्रन्थैः पुरुषोत्तमसेवनम् । प्रतिपाद्य फलत्वेन चक्रे जीवोद्धृतिं विभुः ॥ २१ ॥ अवतारदशायां तु उद्धृती रूपदर्शनात् । इह नामात्मकैर्ग्रन्थैः स्वदासानां सदोद्धृतिः ॥ २२ ॥ तस्मात्सर्वप्रयत्नेन दैवैः कर्त्तव्यमेव हि । सेवनं श्रीव्रजेशस्य तद्ग्रन्थानां च पाठनम् ॥ २३ ॥ इति सिद्धं तथापीह लोके जीवा बहिर्मुखाः । कृता भगवदाज्ञप्तै रुद्रांशैर्ब्राह्मणैस्ततः ॥ २४ ॥ तेषां साम्मुख्यसिद्ध्यर्थमर्थज्ञानमपेक्षितम् । तदर्थं ग्रन्थटीकास्तु प्रभुप्रभृतिभिः कृताः ॥ २५ ॥ तासां मतं समालोक्य सर्वकर्तृकृपावलात् । मयापि क्रियते ह्येषा सुगमान्वयबोधिनी ॥ २६ ॥ श्रीमदाचार्यचरणान्नमस्कृत्य पुनःपुनः । गोपीनाथांश्च सुखदान् सत्सूनुयुतान्प्रभून् ॥ २७ ॥ श्रीदामोदरसञ्ज्ञं तत्पुत्रं विठ्ठलरायकम् । श्रीवल्लभं गिरिधरं तत्सूनुं विठ्ठलेश्वरम् ॥ २८ ॥ द्वारिकेशं गिरिधरं मथुरानाथसञ्ज्ञकम् । हरिरायनरश्रेष्ठौ स्मृत्वा तट्टिप्पणीकृतौ ॥ २९ ॥ यमुनाष्टकटीकायाष्टिप्पणं विलिखाम्यहम् । तत्र बुद्धिं प्रयच्छन्तु श्रीमदाचार्यवंशजाः ॥ ३० ॥

४० श्रीयमुनाष्टकम् । मुरारिपदपङ्कजस्फुरदमन्दरेणूत्कटाम् । श्रीमत्प्रभुचरणविरचितविवरणम् । विश्वोद्धारार्थमेवाऽऽविर्भूतवृन्दावनप्रियाः । कृपयन्तु सदा तातचरणा मयि विठ्ठले ॥ १ ॥ विविधलीलोपयोगिनीं कालिंदीं स्तोतुकामाः अग्रेगोकुलेशे यथा जीवै- र्नमनातिरिक्तं न कर्तुं शक्यं, तथा कालिन्द्यामपीत्याशयेनाऽऽदौ नम- नमेवाऽऽहुर्नमामीति । भगवताऽष्टविधैश्वर्यं कालिन्द्यै दत्तमितिज्ञाप- गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् । अथ श्रीमदाचार्यनन्दनाः श्रीयमुनाष्टकं व्याचिख्यासवः श्रीमदाचार्य- श्रीयमुनाश्रीगोवर्द्धनधराणां स्वरूपैक्यस्य बोधं कुर्वन्तस्तत्कृपां प्रार्थयन्ति विश्वेति । विशन्ति लयसमये भगवतीति विश्वे, दैवजीवास्तेषामुद्धारो ब्रह्मसम्बन्धकारणात्, संसारान्विमुच्य स्वस्वरूपानन्ददानम् ( इति ) । तदर्थमेव एवकारोत्रान्यो- गव्यवच्छेदकः । वृन्दावनं प्रियं येषां ते च ते आविर्भूताश्च तथोक्ताः । यद्वा । लीलार्थमाविर्भूतं यद्वृन्दावनं तत्प्रियं येषां ते पितृचरणा मयि विठ्ठले ज्ञानशून्या- नुग्राहके सदा कृपां कुर्वन्तु । एतेन निजाचार्यस्वरूपनिरूपणस्वस्वरूपनिरूपण- श्रीयमुनास्वरूपनिरूपणश्रीगोवर्द्धनधरस्वरूपनिरूपणपूर्वकं कृपाबलं सम्प्रार्थ्य प्रथम- श्लोकमवतारयन्ति विविधेति । अहं सर्वभवनसमर्थः । (यमु उपरमे । यमयति जीवान्भगवत्समीपे रमयति) अनेका या लीलास्तासां उपयोगिनीं समीपसम्बन्धसम्पादनकर्त्रीम्। अत एव कालिन्दीम्, कलेर्दोषस्य खण्डनक- र्त्रीम्, श्रीयमुनां स्तोतुकामा इति स्तुतेरपि ग्रहत्वे शब्दे च ग्रहत्वं कायिकी नतिः जयज- यशब्दोच्चारपूर्विका । इच्छाविषयत्वं तत्कृपाधीनत्वात् श्रीभिर्युक्तस्य गोकुलस्य स्वामिनि जीवैस्तदंशत्वात्तदधीनः गमनाभावान्नमनाधिकार इतिन्यायेन नमनमेवादौ, अग्रे तु नमनेन दैन्याविष्कृतौ प्रभुकृपया विशेषाधिकारे सम्पन्ने स्तुतिप्रार्थने अपि कर्तुं शक्ये भविष्यतः । एवकारेणाग्रे करणीयायाः 'मम मनः सुखं भावये'ति 'तनुमवत्वमस्त्व'- त्यादिरूपप्रार्थनाया अस्फूर्तिः सूचिता। श्लोकसङ्गट्याकारणमाहुः भगवतेति । 'रसो वै स' इतिश्रुत्या स्वयं रसोत्मा रमणार्थमाविर्भूतः । स्वस्य रसात्मत्वसिद्धयै सर्वात्मभाव- वद्भक्ताधीनो जातः । तथा सन् सर्वलीलोपयुक्तस्वामिन्यां श्रीयमुनायां स्वस्याष्ट- विधं पुष्टिमार्गीयमैश्वर्यं स्थापितवान् । तत्स्वरूपं श्रीहरिराया आहुः, सकलसिद्धि- हेतुत्वम् १, भगवद्भाववर्द्धकत्वम् २, भगवत्सम्बन्धप्रतिबन्धकनिराकरणेन तदतु-

गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ४१ तटस्थनवकाननप्रकटमोदपुष्पाम्बुना सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम् ॥ १ ॥ नायाष्टभिः श्लोकैः स्तुवन्ति । साक्षाद्भगवत्सेवोपयोगिदेहासितल्लीला- वलोकनतद्रसानुभवसर्वात्मभावादयः सकलसिद्धयो ज्ञेयाः । अत एव नमनं मुदेति । जलदोषात्मकसुरस्याऽरेः पदपङ्कजयोः स्फुरन्तः सेवोपयोगि- देहादिसम्पादनोन्मुखा ये रेणवोऽमन्दा व्रजसुन्दरीवृन्दचरणरेणुसाहि- गो०श्रीद्वारिकेशचरणविरचितं टिप्पणम् । भवयोग्यताहेतुशुद्धिसम्पादकरूपं भुवनपावनीत्वम् ३, भगवत्समानधर्मवत्त्वेऽप्यना- यासेन तत्सम्बन्धसम्पादकत्वम् ४, भगवत्प्रियकलिनिवारकत्वम् ५, भगवदीयो- त्कर्षाधायकत्वम् ६, भगवत्प्रियत्वसम्पादकत्वम् ७, तनुनवत्वसम्पादकत्वम् ८, सकलः कलासहितः पुरुषोत्तमः तस्य सिद्धिः वश्यत्वेनावाप्तिः । इदं च लीला सृष्टि- स्थेष्वेव ज्ञेयमिति सकलेति । विवृण्वन्ति साक्षादिति । आवरणानवच्छिन्नावरोकम्, तद्रसानुभवसर्वात्मभावादयः सकलसिद्धयो ज्ञेयाः । अत एव नमनं, आवरणान- वच्छिन्नभगवत्सेवनयोग्यदेहप्राप्तिरूपा १, तादृशस्य लीलादर्शनरूपा २, तस्यैव रसस्य स्वेन्द्रियविषयीभूतकरणरूपा ३, सर्वत्र भगवद्भावरूपा ४, आदिपदेन भग- वदाविष्टदेहाप्तिः ५, परावृत्तचक्षुषान्तराविर्भूतलीलावलोकनसिद्धिः ६, भावात्मक- स्वरूपेण तदात्मकतद्रसानुभवः ७, विरहसामयिकसर्वात्मभावसिद्धिः ८, इति.श्रीहरि- रायाः । अत इति, यतोऽष्टविधैश्वर्यवत्सकलसिद्धिहेतुभूतश्रीयमुनायाः प्राकट्यमलभ्य- लाभः । अतो नमनं मुदा हर्षेण । सुरारिपदपङ्कजेति विवृण्वन्ति जलेति । जले दोषो मुर एव । मुरदैत्यसम्बन्धादेव षोडशसहस्रनायिकानां भगवत्प्राप्तौ प्रति- बन्धकम् । मुरनाशे तु भगवत्प्राप्तिरनायासेन । तत्सम्बन्धादेव जलं भगवत्प्राप्तौ प्रतिबन्धकं भवति । अत्र तु तन्नाशकस्य भगवतः पदपङ्कजसम्बन्धिनः सेवायोग्य- देहकरणतत्पराः श्रीरेणवोऽधिकाः सन्ति । तेन मूलेऽपि लीलोपयोगिनीत्वं सूचि- तम् । जलाधिक्ये तु क्रीडायां निमज्जनभयं मकरादिभयमपि भवेत् । अत एव दशमस्कन्धीयपञ्चदशाध्याये अगाधतोयह्रदिनीत्युक्तिः । तटस्थेति मूले तीरस्थानां नवानां वनानां प्रकटो यो मोदः गन्धः पुष्पाणि च तत्सहितेन जलेन । स्मारकत्वं जलस्य अमरगीते 'सरिच्छैलवनाद्देशो गावो वेणुरवा इमे । पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत' । मोदः सत्वरूपः, पुष्पाणि रजोरूपाणि, काननानि तमोरूपाणि ।

प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः । तरङ्गभुजकङ्कणप्रकटमुक्तिकावालुका- नितम्बतटसुन्दरीं नमत कृष्णतुर्यप्रियाम् ॥ ३ ॥ अनन्तगुणभूषिते शिवविरञ्चिदेवस्तुते अनेकस्वनैरिति शुकादिविशेषणम् । एतेन विभावादिसामग्र्युक्ता । यत्र यथोचितं तत्र तथा कुर्वन्तीति प्रियापदम् । तीरस्य चाकचक्यवत्सिकता- कृतशोभां तत्स्वरूपमप्याहुस्तरङ्गेति । यदा तरङ्गास्तीरमागत्य प्रसृता भवन्ति तदा तीरसिकता मुक्तावद्भासन्ते । ता न सिकताः। लोकप्रतीतिः परं तथा । किन्तु तरङ्गा एव भुजास्तत्र यानि कङ्कणानि तत्र प्रकटा या मुक्तिका मुक्ताफलानि तान्येव वालुकावत्प्रतीयमानानि तद्युक्तो यो नितम्ब एवोच्चदेशात्मकनतटस्तेन तादृशीम् । भगवति स्नेहातिशयो विशेषणेनोक्तः॥३॥ भगवत्समानधर्मत्वं ज्ञापयितुं तथा विशेषणैराहुरनन्तेति । प्रभौ गो० श्रीद्वारकेशचरणविरचितं टिप्पणम् । रस्य दुरितक्षयपूर्वकं भगवद्भावदानेन पावनकर्त्रीत्वं स्नेहातिशय इति । (श्रीपुरुषो- त्तमास्तु पाविनीमिति पेठुः) । * अप्राकृताखिलभूषणभूषितकथनेनाप्राकृताखिलभूषण- भूषितेन भगवता स्नेहातिशयो युक्त एव । समानशीलव्यसनेषु सख्यमिति निय- मात् । भगवतोऽप्राकृतभूषणभूषितत्वम् । 'उदामकाञ्ची'त्यत्र स्फुटतरमस्ति । मूले कृष्णतुर्य्यप्रियामिति । व्रजे भगवद्भोग्याश्चतस्रः स्वामिन्यो मुख्याः। श्रीराधिकायूथ- स्थास्तामस्यः । श्रीचन्द्रावलीयूथस्था राजस्यः । कुमारिकायूथस्थाः सात्त्विक्याः । श्रीयमुनायूथस्था गुणातीताः तुर्याः । तासु इयं तुर्य्यात्तस्तथाकथनमिति । “कालि- न्दीतिसमाख्याता वसामि यमुनाजले” इति वाक्येनास्याः कालिन्दीभिन्नत्वेपि प्रियात्वमुपपन्नम् । शुको वाचिकीसेवा करोति । मयूरः कायिकीं, हंसो मानसीं, आदिपदेन पारावतकोकिलसारसचक्रवाकेदात्यूहादयो गृहीताः । अन्वयस्तु, भुवन- पाविनीं, ध्रुवमधिगतां, प्रियाभिरिव स्थितैः अनेकस्वनैः शुकमयूरहंसादिभिः सेवितां, तरङ्गभुजकङ्कणप्रकटमुक्तिकावालुकानितम्बतटसुन्दरीम्, कृष्णतुर्यप्रियाम्, यूयं नमत, इति दैवीजीवान्प्रति विधिः । अत्र भगवत्सम्बन्धप्रतिबन्धकनिराकरणेन तदनुभव- योग्यताहेतुशुद्धिसम्पादकरूपं भुवनपावनीत्वं तृतीयमैश्वर्यं दर्शितम् ॥ ३ ॥ अग्रिममवतारयन्ति भगवत्समानधर्मत्वमिति । यथा भगवानेश्वर्यादिभिः

  • तरङ्गादीनां भुजादित्वं हरिवंशे सूपपादितम् ।

गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम्। ४५ घनाघननिभे सदा ध्रुवपराशराभीष्टदे । सप्तम्यन्तानि विशेषणानि । तत्प्रियायां सम्बुद्धिरूपाणि । घनाघनशब्दो निपातरूपो घनसमुदायं वदति । श्यामे । तादृशीति वा । ध्रुवादेस्तत्तीर गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् । षड्भिर्गुणैः सहितः स्वयं धर्मी, तथेयमपीति सप्तभिर्विशेषणैः स्तुवन्ति । मूले अनन्तेति । अत्र पक्षद्वयमाहुः प्रभौ सप्तम्यन्तानि विशेषणानि श्रीयमुनायां सम्बुद्ध्यन्तानि । सम्बुद्धिरूपाणीति । आद्ये पक्षे अनन्ता अपारा येऽलौकिका गुणास्तैर्भूषितेऽलङ्कृते । द्वितीये अनन्तस्य भगवतो भक्तमनोरथपूरकादयो गुणास्तैर्भूषिते । एतेन विशेषणेन 'गुणाः सर्वत्र पूज्यन्ते' इति वाक्याद्गुणानां पूज्यत्वात्, 'ईश्वरः पूज्यते लोकैर्मूढैरपि यदा कदा । निरुपाधिकमैश्वर्यं वर्णयन्ति मनीषिण' इति वाक्योक्तमैश्वर्यं निरूपितम् । शिवविरञ्चिदेवस्तुते इतिविशेषणेन 'वीर्यं देवेषु तत्रापि स्त्रीषु तत्रापि कामतः।सान्निध्ये पुरुषाणां च मूर्छा तेन ततो महत्' इत्यत्रोक्तं वीर्यमुभयत्र निरूपितम् । घनाघनेति विशेषणेन उभयत्रापि स्वरूपसौन्दर्यं सर्वाविसारकं विश्वजीवनत्वादिकं च निरूपि- तम् । तेन 'यशो यदि विमूढानां प्रत्यक्षासक्तिवारणात् । स्वधर्मं योजयेत्तेषु तदा भवति नान्यथा' इत्यत्रोक्तं यशो निरूपितम् । ध्रुवपराशराभीष्टदे अनेन स्वसेवकानासभी- ष्टदानेन 'श्रीयो हि परमाकाष्ठासेवकास्तादृशा यदी'तिपद्योक्ता श्रीर्निरूपितोभयत्र । विशुद्धा मथुरेति मथुराया विशुद्धत्वं तु 'मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः' इति भगवत्सान्निध्यात् । तत्रापि श्रीयमुनातटसत्त्वेन लीलास्थानत्वम् । तेन 'ज्ञानोत्कर्षस्तदैव स्यात्स्वभावविजयो यदी'त्यत्रोक्तं ज्ञानं निरूपितम् । सकलेतीतिविशेषणेन गोपाश्च गोप्यश्च सततं गृहादिकं त्यक्त्वा एतत्तट एव तिष्ठन्ति, पूर्वं तत्रैवानन्दस्यानुभूतत्वात् । यद्वा, सकलगोपगोपीभिरन्त- स्थैर्वृता—आवृता । यद्वा, सकलगोपगोपीभिर्वृता भगवतो याचिता सम्भक्ता वा । सा च भक्तानां सर्वात्मभावदानेन मानादिदोषनिवारकत्वेन च प्रभोः प्रीति- वर्द्धिनी, तेन 'हरेश्चरणयोः प्रीतिः स्वसर्वस्वनिवेदनात्' । 'उत्कर्षश्चापि वैराग्ये हरे- रपि हरैर्यदि' इत्यत्रोक्तं वैराग्यं निरूपितम् । एवं षड्भिर्विशेषणैर्धर्मान्निरूप्य धर्मि- स्वरूपं निरूपयन्ति कृपाजलधिसंश्रितेति । यद्यपि भगवतः सर्वे धर्मा नित्याः, तथापि कार्ये प्रकटा भवन्ति । करुणा तु नित्यमेव प्रकटा । तेन तज्जलधिरूपो भग- वान् । अस्मिन् सम्यङ्मुख्यस्वामिनीवत् श्रिता मिलिता तेन, षड्गुणैश्वर्ययुक्तभगवति ६

४६ श्रीयमुनाष्टकम् । विशुद्धमथुरातटे सकलगोपगोपीवृते कृपाजलधिसंश्रिते मम मनस्सुखं भावय ॥ ४ ॥ यया चरणपद्मजा मुररिपोः प्रियम्भावुका एव प्रभुप्राकट्यात्तथा । विशुद्धा मधुरा तटे यस्याः । सा निकटे वा यस्य । निरवधिकृपायुक्तो हरिस्तस्मिन् । अन्या नदी लौकिकं जलधिं सङ्गता भवति । इयं तु तादृशं श्रीव्रजेशं संश्रिता । एतेन त्वत्सङ्गतो भगवत्सङ्गतो भवतीतिभावः सूचितः ॥ ४ ॥ अथ भगवदीयानामप्युत्कर्षाधायिका या तदुत्कर्षं को वक्तुं शक्त इति भावेनाऽऽहुर्ययेति । चरणपद्मजा गङ्गा । तेन भक्तिमार्गीया । गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम्। मिलिता यास्ते सर्वेपि गुणा द्योतिताः। एतेन धर्मिरूपत्वमस्या निरूपितम् । प्रभुपक्षे चत्वारि तु स्फुटानि एव। विशुद्धा मथुरा तटे निकटे यस्य, तत्र निरन्तरं सान्निध्यात् । सकलेति स्फुटम् । कृपेति कृपा एव जलधिः, तेन संश्रितो मिलितः, अपारकृपा- युक्त इति भावः । यथा समुद्रगामिन्यां नद्यां पतितं तृणादिकं स्वत एव समुद्रे प्रप- तति, तथा अपारकरुणायुते कृष्णे मिलितायां यमुनायामाश्रिता अपि एतद्वेगेनैव तत्र गमिष्यन्तीति भावः । ममेति । प्रभुपक्षे सम्बोधनान्तं श्रीयमुने इत्यध्याहृत्य योज- नीयम् । एतादृग्धर्मवति हरौ मम मनः सुखं यथा स्यात्तथोपायं कुरु। श्रीयमुनापक्षे भो एतादृग्धर्मवति ! मम मनसि यत्सुखं तत्त्वं भावय स्वमनस्यानय । त्वया मन- स्यानीते मम सुखानुभवो भविष्यति नत्वन्यथा । भगवताष्टविधैश्वर्यस्य त्वयि स्थापितत्वात् । अस्मिन् पद्ये भगवत्समानधर्मवत्वेपि अनायासेन भगवत्सम्बन्धस- म्पादकत्वं चतुर्थमैश्वर्यं प्रदर्शितम् । अन्वयस्तु पक्षद्वयेप्युक्त एव ॥ ४ ॥ अथेत्यर्थान्तरारम्भे । चतुर्भिः पदैरुत्कर्षवर्णनद्वारा संस्तुत्य चतुर्भिरुत्कर्षवर्ण- नस्याशक्यत्वं निरूपयन्तः संस्तुवन्ति यथेति । भगवदीयानामिति बहुवचनेन लक्ष्मीगङ्गासरस्वतीतुलस्यो ज्ञेयाः । तत्र लक्ष्मीः पद्मजा, गङ्गाचरणपद्मजा, तथा तुलस्यपि, सरस्वती मुखपद्मजा । भगवदीयाः सर्वत उत्कृष्टाः, महाराजसेवकवत्, तेष्वप्युत्कर्ष एतयाऽऽधीयते, 'स्वलक्षणा प्रादुरभूत्कि- लाक्षतः इति वाक्यतः सर्वांसामुत्कर्षः श्रीयमुनाकृतः। अत एतदुत्कर्षवर्णनस्याशक्यत्वं

गो० श्रीद्वारकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम्। ४७ समागमनतोऽभवत्सकलसिद्धिदा सेवताम् । तया सदृशतामियात्कमलजा सपत्नीव य- निर्दोषपूर्णगुणाऽपि यया त्वया सह समागमनतो मिलनतो हरेस्तथाऽभवत् । सेवतां च तथा । पूर्वं गङ्गाया अन्यसङ्गतिजनितमुत्कर्षमुक्त्वा भगव- त्सङ्गतिजनित उत्कर्षः पठितः । “सा राजन् दर्शनादेव ब्रह्महत्यापहा- रिणी”त्यादिरूपः । एतादृश्या त्वया सह सदृशतां किं काऽपीयादिति गो० श्रीद्वारकेशचरणविरचितं टिप्पणम्। युक्तमेव । तेनेति चरणपद्मजात्वेन, 'कारणगुणाः कार्यगुणानां समारम्भका' इति न्यायाद्भगवच्चरणतुल्यगुणवत्यपि । तथाभवदिति, प्रियत्वं भावयन्त्यभवत् । सेव- तामिति त्वया मिलितायाः सेवनं कुर्वताम् । तथेति । पूर्वोक्तसकलसिद्धिदा अभ- वत् । सह कलाभिर्वर्तते सकलः पुरुषोत्तमस्तस्य सिद्धिः प्राप्तिस्तस्या दात्री । मूले सेवेतामित्यत्र चक्षिङोङित्करणादनुदात्तत्वप्रयुक्तस्यात्मनेपदस्यानित्यत्वाच्छतृ- प्रत्ययो बोध्यः । पूर्वमिति पुराणेषु । अन्येति सरस्वतीसमागमनज उत्कर्षः । अत्र केचित्कमलजासपत्नीव यदिति प्रिये इति वा पठन्ति, तत्र मूलं मृग्यम्, एतादृश्येति । स्वसम्बन्धेन स्वसमानगुणसम्पादनकर्त्या । तत्रापीति पत्नीत्वेपि । त्वं तु प्रिया इति तथा सम्बोधनम् । इव यदिति पाठे, लक्ष्मीर्भवत्याः सपत्नी इव । त्वद्वत्पुष्टि- मार्गीयालीलास्थभक्तानुगुणत्वसम्पादिकात्वाभावात । त्वं तु सर्वदुःखहर्तृर्भगवतः प्रियाणां कलेः खण्डनकर्त्रीति महद्वैलक्षण्यम् । तेन न कापि त्वत्सदृशीति भावः सूचितः । यतस्त्वं भक्तानुगुणा अतः प्रार्थ्यते । मम मनसि सदा स्थितिं कुरु, मनसि म इति मूले । मनसि त्वयि स्थितौ मनसः शुद्धत्वं सेत्स्यति । तस्मिन्सति सकलेन्द्रियाणां निर्दुष्टत्वमेव । अतश्चैकादशे भिक्षुगीतायां 'मनः परं कारणमामन- न्ती'ति । 'मनोवशेन्ये ह्यभवं स्म देवा मनश्च नान्यस्य वशं समेति । भीष्मो हि देवः सहसः सहीयान्युञ्ज्याद्वशे तं स हि देवदेवः' । श्रुतिरपि तृतीयाष्टकब्राह्मणेऽन्तिमे प्रश्ने नवमानुवाके 'मनसो वशे सर्वमिदं बभूव । नान्यस्य मनो वशमन्वियाय, भीष्मो हि देवः सहसः सहीयान् स नो जुषाण उपयज्ञमागात् ' आकृतीनामोधेपर्ति चेतसां च सङ्कल्पजूतिं देवं, विपश्चितम्, मनो राजानमिह वर्द्धयन्तः । उपहवेस्य सुमतौ स्याम । स्मृतिश्च, 'मन एव मनुष्यस्य पूर्वरूपाणि शंसति' 'असंशयं महाबाहो मनो दुर्निग्रहं चलमि'ति एतादृशि मनसि निर्दोषपूर्ण- १ भवतीत्सङ्गति० पाठः ।