भारतकोश
संग्रह पर लौटें

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

४ गोलाध्याये गणित शास्त्र की उपपत्तिज्ञान रहित भूग्रहादिकों की यथास्थान स्थिति का तत्त्वज्ञान सूर्यसिद्धान्तादिक ग्रन्थों में संक्षिप्त होने से अनभिज्ञों को कठिनता से बोध होने के कारण उस संक्षिप्त ज्ञान का आचार्य द्वारा यहाँ पर इस ग्रन्थ में विशदीकरण किया जा रहा है। उपपत्तिज्ञान रहित भूग्रहादिकों की यथास्थान स्थिति का तत्त्वज्ञान सूर्यसिद्धान्तादिक ग्रन्थों में संक्षिप्त होने से अनभिज्ञों के लिए कठिनता से सुबोधक होता है, अतः आचार्य द्वारा उक्त संक्षिप्त ज्ञान का यहाँ पर इस ग्रन्थ में विशदीकरण किया जा रहा है। आचार्य ने यहाँ पर अनिर्वचनीय सरस्वती की उपमा नर्तकी स्त्री से की है। साधारण नर्तकी को जो नृत्य भूमि होती है वही यहाँ पर पण्डितों (गणितज्ञों) के मुख को ही नृत्य स्थान माना है। मुख में ही सरस्वती का निवास होने से, जैसे भाग्यवान् पुरुषों के घर के आंगन में कोई नर्तकी नाचती है वैसे ही पण्डितों के मुखरूप आंगन में सरस्वती रूपा नर्तकी नित्यमेव नृत्य करती है ॥१॥ अथ गोलग्रथनकारणमाह— मध्याद्यं द्युसदां यदत्र गणितं तस्योपपत्तिं विना प्रौढिं प्रौढसभासु नैति गणको निःसंशयो न स्वयम्। गोले सा विमला करामलकवत्प्रत्यक्षतो दृश्यते तस्मादस्युपपत्तिबोधविधये गोलप्रबन्धोद्यतः ॥२॥ वा० भा०—स्पष्टार्थम् ॥२॥ मरीचिः—ननु गोलनिरूपणारम्भः प्रयोजनाभावाद्व्यर्थ इत्यतः प्रतिज्ञातं गोलनिरूपणं सप्रयोजनं शार्दूलविक्रीडितेन प्रतिजानीते—मध्येति । तस्मात्कारणात्। अत्र सिद्धान्तग्रन्थ- पूर्वार्धे द्युसदां ग्रहाणां मध्याद्यं मध्यस्पष्टादिशदशविधं गणितं यत्प्रतिपादितं तस्य ग्रहगणित- निरूपकग्रन्थस्योपपत्तिबोधविधये तदुत्पा (पपा) दकयुक्तिरूपपत्तिस्तस्या ज्ञानार्थं यो विधिः प्रकारस्तन्निमित्तं गोलप्रबन्धोद्यतो गोलस्वरूपज्ञानप्रतिपादकग्रन्थसंदर्भार्थं गोलबन्धार्थं वा। अग्रे तद्बन्धस्योक्त (त्वात्)। अत एव पूर्वं गोलनिरूपणस्य प्रतिज्ञातत्वाद्वितीया गोलबन्ध- प्रतिज्ञा युक्ता। अन्यथा प्रतिज्ञायाः पुनरुक्तत्वापत्तेः। प्रवृत्तोऽस्मीति क्रियाबलादहमिति कर्त्राक्षेपः। तथा चोपपत्तिज्ञानं प्रयोजकत्वाद्गोलनिरूपणं व्यर्थं नेति भावः। नतूपपत्तिज्ञानार्थमुपपत्तिर्निरूपणीया न गोल इत्यतः सूचितं कारणमाह—गोल इति। सा उपपत्तिः। गोले निरूपिता गोले विमला निर्दूषणा प्रत्यक्षप्रमाणाद्दृश्यते ज्ञायते गोल- स्वरूपविद्भिर्गणकैरिति शेषः। प्रत्यक्षप्रमाणात्कथं ज्ञायत इत्यतो दृष्टान्तद्वारेणाऽऽह— करामलकवदिति। हस्तस्थितामलकफलं चाक्षुषप्रत्यक्षेण निश्चित्य मम हस्त आमलकोऽ- स्तीति ज्ञानं जा (जा) यते तद्वद्गोलस्वरूपं निश्चित्य तत्र क्षेत्रदर्शनस्य सुशकत्वादुपपत्तिः सुज्ञेया। तस्य गणितपदार्थस्वरूपाश्रयत्वेनोपपत्तिस्वरूपत्वादिति भावः। अत्राऽऽमलक- निदर्शनं गोलस्वरूपावगमार्थमिति ध्येयम्।

गोलप्रशंसाध्यायः ५ ननूपपत्तिज्ञानप्रयोजककालनिरूपणमपि व्यर्थं प्रयोजनस्य प्रयोजनाभावेनोपेक्षाविषय- त्वादित्यत आह—उपपत्तिमिति । गणकः । ग्रहगणितज्ञः । उपपत्तिं विना तदुत्पादनयुक्ति- ज्ञानव्यतिरेकेण । प्रौढसभासु । प्रौढाः सदसत्पदार्थतत्त्वक्षोददक्षाः । तेषां समाजेषु प्रौढिं सदसद्विवेचनदक्षत्वं नैति न प्राप्नोति । यथा च ग्रहणाद्यादेशकर्तुर्गणकस्य तादृशस्य ग्रहणं कुतो भवतीत्यादिपण्डितप्रश्नोत्तरदानसामर्थ्याभावेन लोकमान्यत्वमतस्तदुपपत्तिज्ञस्य तदु- त्तरदानसामर्थ्याल्लोकमान्यत्वमेवोपपत्तिज्ञानप्रयोजनं लोकमान्यत्वे तु तद्वचनप्रामाण्यात्त- दादिष्टसंक्रान्त्यादिपुण्यकाले प्रेक्षावतां स्नानदानाचरणोपपत्तिरन्यथा तदनुपपत्त्या धर्मविलो- पापत्तेरिति भावः । ननु तदुपपत्त्यज्ञा मान्यगणकवचनादपि तद्धर्माचरणोपपत्तिर्ग्रहणाद्यादेश- संवादबलेन तद्वचनप्रामाण्यनिश्चयादित्यत आह—निःसंशय इति । स्वयं ग्रहगणितज्ञस्त- दुपपत्तिज्ञानमन्तरेण निःसंशयो निर्गतः संशयो यस्य निश्चयज्ञानवान्न स्यात् । तथा च केवलग्रहगणितज्ञाने पूर्वग्रन्थानां क्वचिद्भेदे प्रमाणं किमित्येतत्संशयभ्रमस्तत्त्वेन ग्रहणाद्या- देशकत्वासंभवेन धर्मानुष्ठानविलोपापत्त्या तदुपपत्तिज्ञानेन तन्निर्णयज्ञानसंभवादादेश- सामर्थ्याच्च तदादेशवचनाद्धर्मानुष्ठानसंभव इति भावः ॥२॥ केदारदत्तः—गोल रचना का कारण— यहाँ ग्रहों के माध्यमिक स्पष्ट पर्यन्त दशविध गणित की उपपत्ति ज्ञान बिना कोई भी गणितज्ञ खगोलज्ञों की सभा में तथ्यातथ्य विवेचन दक्षता की प्राप्ति नहीं कर सकता । हाथ में स्थित आंवले के फल का चाक्षुष प्रत्यक्ष से "मेरे हाथ में आंवले का फल है" ऐसे निश्चित ज्ञान की तरह ग्रहगोल स्वरूप का निश्चय करने के अनन्तर गणित की उपपत्ति ज्ञान विधि के लिए गोलस्वरूप ज्ञान प्रतिपादक ग्रन्थ निर्माण में आचार्य प्रवृत्त होता है ॥२॥ इदानीं गोलप्रशंसया गोलानभिज्ञगणकोपहासं श्लोकद्वयेनाऽऽह— भोज्यं यथा सर्वरसं विनाऽऽज्यं राज्यं यथा राजविवर्जितं च । सभा न भातीव सुवक्तृहीना गोलानभिज्ञो गणकस्तथाऽत्र ॥३॥ वादी व्याकरणं विनैव विदुषां धृष्टः प्रविष्टः सभां जल्पन्नल्पमतिः स्मयात्पटुबटुभ्रूभङ्गवक्रोक्तिभिः । हीनः सन्नुपहासमेति गणको गोलानभिज्ञस्तथा । ज्योतिर्वित्सदसि प्रगल्भगणकप्रश्नप्रपञ्चोक्तिभिः ॥४॥ वा० भा०—स्पष्टार्थम् ॥३॥४॥ मरीचिः—ननु सूर्यसिद्धान्ताद्यार्षसंमतत्वेन मुहुर्ग्रहणाद्यादेशसंवादबलेन च निश्चय- ज्ञानसंपादनादादेशोपजीव्यधर्मानुष्ठानसंभवादुपपत्तिज्ञानवैय्यर्थ्येन गोलनिरूपणं व्यर्थमित्यत

६ . गोलाध्याये उपजातिकयाऽऽह — भोज्यमिति । अत्र सिद्धान्तज्ञेषु गोलानभिज्ञो भूगोलादिस्वरूपज्ञो गणको ग्रहगणितज्ञस्तथा तद्वन्न भाति लोके न चमत्करोति । तथेत्यनेन सूचितं दृष्टान्तमाह — भोज्यमिति । सर्वरसं रसोपलक्षणात्सर्वसामग्र्युपपन्नं भोज्यं घृतव्यतिरेकेण न भाति । ननु भोज्यपदार्थेषु घृतस्य मुख्यत्वं न युक्तम् । मधुररसविवर्जितं च भोज्यमिति लल्लोक्त्या विनिगमनाविरहादित्यस्वरसाद्दृष्टान्तरमाह — राज्यमिति । चो वार्थे । ननु नियन्तारं विना राज्यस्य सोपद्रवत्वसंभवाद्राज्ये राज्ञो मुख्यत्वं, न तथा गणके गोलाभिज्ञत्वं मुख्यम् । आदेशादिव्यवहारस्योक्तरीत्योपपत्तेरिति दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमित्यस्वरसाद् दृष्टा- न्तान्तरमाह — सभेति । सुवक्तृहीना । सुष्ठु वदतीति । समानाधिकरणयुक्तिवचोवद्भिः पण्डितैर्हीना सभा पण्डितसभा । इव यथार्थे । तथा च साधारणपण्डितसभा लोके मनो- हराऽप्यतिपण्डिताश्रयेणातिमनोहरा । तथा केवलग्रहगणितज्ञैर्व्यवहारसिद्धावपि गोलज्ञतयो- पपत्तिज्ञानाधिक्याद् गोलाभिज्ञगणकस्तेभ्योऽधिक इत्यधिकत्वसंपादनाथं गोलनिरूपणमव्यर्थ- मिति भावः ॥३॥ नन्वधिकत्वानपेक्षया तन्निरूपणं व्यर्थमेव । अन्यथा शास्त्रान्तरप्रमेयज्ञानादधिकत्व- सिद्धेस्तस्यापि निरूपणापत्तिरित्यतः शार्दूलविक्रीडितेनाऽऽह — वादीति । गोलानभिज्ञो गणको ज्योतिर्वित्सभायाम् । ज्योतिर्वित्पदेन सर्वे सभासदो गोलाभिज्ञाः । नक्षत्रादीनां गोलाश्रय- त्वात् । अन्यथा नक्षत्रसामान्यज्ञानात्सर्वेषां तत्त्वापत्तेः । प्रगल्भगणकप्रश्नप्रपञ्चोक्तिभिः । प्रगल्भाः कल्पका ये गणका गोलस्वरूपतत्त्वज्ञास्तेषां प्रश्नाः पूर्वपक्षास्तत्सम्बन्धिन्यो याः प्रपञ्चोक्तयो नानाविधभङ्गिभिर्वचनानि । उपहासगर्भितानि तैरित्यर्थः । ह्रीणो लज्जितः । तदुत्तरदानासमर्थत्वात् । सन् साधुः । दुष्टस्य स्वाज्ञानाज्ञातृत्वेन लज्जानुदयात् । उपहासं तथा दृष्टान्तवत्प्राप्नोति । दृष्टान्तमाह — वादीति । तर्कशास्त्रादिवादी । व्याकरणं विना व्याकरणव्यतिरेकेण । विदुषामेव । एवकारान्मूर्खव्यवच्छेदः । सभां धृष्टः सन्प्रविष्टः स्मयाद्गर्वाद्विलपन्नसंगतार्थं पण्डितोपहासपूर्वकं वदन् । अल्पमतिः स्वाज्ञानगोपनासमर्थः । विदुषां पटवो व्याकरणादिशास्त्रकुशला ये बटवो बालकाः शिष्या वा । तेषां भ्रूभङ्गा- स्तैश्चोदिता या वक्रोक्तयः कथमनेन शुद्धं संस्कृतं प्रमेयमुच्यत इत्यादयस्ताभिर्ह्रीणः पण्डितबालका अपि मां मूर्खं ज्ञात्वा वक्रोक्त्योपहसन्तीति । अहमेतादृशो मूर्खोऽस्मीति लज्जितः सन् साधुः स्वदोषज्ञ इति यावत् । उपहासमेति तथा केवलग्रहगणितज्ञस्योपपत्य- ज्ञानात्सर्वज्योतिर्विदुपेक्षितत्वेन तद्वचनप्रामाण्यासंशयादप्रयोजकत्वम् । ज्योतिर्विद्बहिर्भूतत्वं चातस्तदुपपत्तिज्ञानावश्यकत्वेन गोलनिरूपणं न त्वधिकज्ञानार्थमिति न तद्वैयर्थ्यमिति भावः ॥४॥ केदारदत्तः—यहाँ गोल की प्रसंसा के साथ गोलज्ञानरहित ज्योतिषी का उपहास किया जा रहा है—सर्वरस युक्त होते हुए भी घी रहित भोजन, राजा से रहित राज्य और सु वक्ता रहित सभा की तरह गोलज्ञान रहित गणितज्ञ को भी नीरसता की स्थिति होती है ।

गोलप्रशंसाध्यायः ७ प्रौढ पण्डित सभा में प्रविष्ट व्याकरणज्ञानरहित धृष्ट वादो जैसे (अल्पमति अपने अज्ञान के गोपन के लिए असंगत भाषण करने वाले से) व्याकरणादि शास्त्र कुशल बालकों या शिष्यों के भ्रूभंग से द्योतित वक्रोक्तियों से उपहास का पात्र बन जाता है कि “मैं इस प्रकार का मूर्ख हूँ” समझ कर लज्जित हो जाता है इसी प्रकार उपपत्ति ज्ञान रहित ग्रहगणितज्ञ या गोलज्ञान रहित ज्योतिषी भी प्रौढगणितज्ञों के प्रश्नप्रपञ्चोक्तियों से ज्योतिर्विदों की उस सभा में उपहास का पात्र बन जाता है ॥३-४॥ अथ गोलस्वरूपमाह— दृष्टान्त एवावनिभग्रहाणां संस्थानमानप्रतिपादनार्थम् । गोलः स्मृतः क्षेत्रविशेष एष प्राज्ञैरतः स्याद्गणितेन गम्यः॥५॥ वा० भा०—स्पष्टार्थम्—॥५॥ मरीचिः—ननूपपत्तिज्ञानप्रयोजकगोलस्वरूपनिरूपणं सर्वशास्त्रप्रयोजकव्याकरणवत्सि- द्धान्तनिरूपणभिन्नत्वेन युक्तम् । नहि सिद्धान्तपदार्थोपदेश उपपत्तिरप्युद्दिष्टा । येनात्र तन्नि- रूपणं संगतम् । तस्माद्ग्रहगणितप्रतिपादनानन्तरं द्विधागणितप्रतिपादनं तदनन्तरं च सोत्तरप्रश्नप्रतिपादनं ततो भूधिष्ट (ष्ण्य) ग्रहसंस्थितिकथनमित्यादि युक्तमित्यतोऽत्र गोलनि- रूपणसमर्थनच्छलेन प्रतिज्ञातगोलबन्धवशादग्र उक्तगोलबन्धसिद्धगोलस्य प्रयोजनमिन्द्रवज्र- याऽऽह—दृष्टान्त इति। अवनिभग्रहाणां भूनक्षत्रग्रहाणां संस्थानं स्थितिः। तस्यां मानं प्रत्यक्षादिप्रमाणं युक्तिभिः स्थितिस্বরূপनिर्णय इत्यर्थः । तत्प्रतिपादनार्थं तन्निरूपणार्थम् । गोलः । वक्ष्यमाणगोलबन्धप्रकारसिद्धत्वादिवंशादिवृत्तजनितगोलः । दृष्टान्त एव । एव- कारान्न वस्तुरूपः । प्राज्ञैः प्रज्ञावद्भिर्गोलस्वरूपतत्त्वज्ञैः । स्मृतः प्रोक्तः । तथा चोपपत्ति- ज्ञानार्थं गोलस्वरूपनिरूपणं विना दृष्टान्तं सुज्ञेयं न भवतीति गोलबन्धविधिना दृष्टान्तः सिद्धः कृतः । अत्रैव भूधिष्ण्यग्रहसंस्थितिज्ञानात्सिद्धान्तपदार्थस्यैव निरूपणम् । नातिरिक्त निरूपणमुपपत्तेस्तदन्तर्गतत्वादिति भावः । एतस्य दृष्टान्तत्वे किं मानमत आह—क्षेत्र- विशेष इति । गोलस्वरूपनिरूपणे यानि क्षेत्राणि जात्यशास्त्राणि ज्ञातानि तान्यत्र वंशादि- वृत्तगोले प्रत्यक्षाणि । तिर्यगूर्ध्वाधरसूत्रवृत्तादिसंबन्धेन गोलस्य क्षेत्रात्मकत्वेन क्षेत्रविशेष- त्वाम्युपगमादिति । ग्रहबिम्बानाश्रयत्वं न दृष्टान्तत्वमिति भावः । ननु ग्रहचारनिरूपणा- व्यवहितानन्तर्येण तन्निरूपणं युक्तम् । न द्विविधगणितनिरूपणव्यवहिततदानन्तर्येण । अन्यथोद्देशक्रमेण सोत्तरं प्रश्नाध्यायानन्तरं गोलयन्त्रयोर्निरूपणापत्तेरित्यत आह—एष इति । अतः क्षेत्रविशेषात्मकत्वात् । एष गोलः । गणितेन पाटीगणितेन । गम्यो ज्ञेयः स्यात् । तथा च क्षेत्रसंबद्धभुजकोटिकर्णानां ज्ञानं विना क्षेत्रव्यवहारो न भवतीति तस्य पाटीगणितान्तर्गतत्वं न पाटीगणितव्यतिरेकेण तज्ज्ञानासम्भवाद्व्यक्ताव्यक्तद्विविधगणित- निरूपणानन्तरं गोलनिरूपणं युक्तमिति भावः । प्रश्नानामानन्त्यात्तदुत्तराणामुपपत्तिज्ञतया कल्पितत्वनियमादनुक्तप्रश्नोत्तरज्ञानसूचकप्रश्नाध्यायस्य प्रतिपादनं गोलनिरूपणात्पूर्वमनु-

चितम् । प्रश्नास्तथा सोत्तरा इति । पूर्वोद्देशस्तुल्यद्य (ध्रु) वाद्गोलप्रश्नोद्देशसिद्धयर्थ- मिति ध्येयम् ॥५॥ केदारदत्तः—यहां युक्तियों से गोल स्वरूप बताया जा रहा है—प्रत्यक्षादि प्रमाण से भू नक्षत्र और ग्रहों की स्थिति स्वरूप निर्णय निरूपण के लिए प्राज्ञगणितज्ञों से बाँस आदि शलाकाओं से निर्मित यह दृष्टान्तीभूत गोल रचना के गोलज्ञान से क्षेत्र व्यवहार, बीजगणित त्रैकोणमितिक प्रभृति गणितों से यह ग्रहगोल ज्ञेय होता है या जाना जा सकता है ॥५॥ इदानीं गणितप्रशंसामाह— ज्योतिःशास्त्रफलं पुराणगणकैरादेश इत्युच्यते नूनं लग्नबलाश्रितः पुनरयं तत्स्पष्टखेटाश्रयम् । ते गोलाश्रयिणोऽन्तरेण गणितं गोलोऽपि न ज्ञायते तस्माद्यो गणितं न वेत्ति स कथं गोलादिकं ज्ञास्यति ॥६॥ वा० भा०—स्पष्टार्थम् ॥६॥ मरीचिः—नन्वेवं ग्रहगणितनिरूपणात्पूर्वमेव द्विधागणितनिरूपणपूर्वकं गोलनिरूपणा- पत्तिः । गोलस्थपदार्थज्ञानादेव ग्रहानयनाद्युत्पत्तेर्ग्रहगणितस्य संकलनादिषड्विधसापेक्षत्वा- त्पाटीगणितं बिना तदनुपपत्तेश्चेत्यतः शार्दूलविक्रीडितेनाऽऽह—ज्योतिरिति । पुराणगणकैः प्राचीनज्योतिर्विद्वद्वरवराहमिहिरादिभिर्ज्योतिःशास्त्रस्य संहिताजातक- गणितस्कन्धत्रयात्मकस्य फलं प्रयोजनमादेशो वर्तमानभूतभविष्यशुभाशुभकथनमिति तच्छा- स्त्रेण तन्निरूपणनिश्चयाद्धेतोरित्यर्थः । उच्यते । अङ्गीक्रियते । पुनर्वाक्यालंकारे । असा- वादेशः । नूनं निश्चयेन । लग्नबलाश्रितः । व्यवहारैर्जातकादेशो लग्नकुण्डलिकाग्रहसंस्थान- बलाधीन इत्यर्थः । तत्तत्कुण्डलिकाग्रहसंस्थानबलं स्पष्टग्रहाधीनम् । ग्रहणशृङ्गोन्नत्यादि- गणितस्कन्धादेशस्य साक्षादेव स्पष्टग्रहाधीनत्वमिति । तस्माज्ज्योतिःशास्त्रप्रतिपाद्यादेशाः साक्षात्परम्परया वा स्पष्टग्रहज्ञानाधीना इति सिद्धान्ते स्पष्टग्रहागोलाश्रयिणो गोलस्थितत्वेन प्रत्यक्षाः । गोलस्थित्यवगमनोपपत्तिसिद्धं तज्ज्ञानं गोलनिरूपणाधीनमित्यर्थः । गणितमन्तरेण ग्रहगणितव्यतिरेकेण गोलो न ज्ञायते । अपिशब्दात्स्पष्टग्रहास्तदुपजीव्यग्रहणादिकं च न ज्ञायते । गोलावगमार्थं यथाश्रुतग्रहगणितपदार्थज्ञानमतिप्रयोजकं तत्तु तद्गणितनिरूपण- साध्यमित्यर्थः । तथा च गणितज्ञानाधीनगोलज्ञानात्तदनन्तरं निरूपणं युक्तमिति भावः । ननु गोलनिरूपण एव तत्पदार्थस्य सामान्यतो ज्ञानसिद्धेर्न गोलज्ञाने ग्रहगणितज्ञानापेक्षेत्यत उपसंहारव्याजेन तदुत्तरमाह—तस्मादिति । तस्मादुक्तहेतोर्यो गोलाध्यायपिपठिषुर्गणितं ग्रहगणितं न वेत्ति न जानाति स पिपठिषुर्गोलादिकं गोलयन्त्रं प्रश्नोत्तरं कथं केन प्रकारेण ज्ञास्यति न ज्ञास्यतीत्यर्थः । तथा च बिना ग्रहगणितज्ञानं गोलज्ञानं सम्यङ् न जायते ।

गोलप्रशंसाध्यायः ९ तदाभासज्ञानं भवत्यतो ग्रहगणितं प्रथमं निरूप्य गोलनिरूपणं कृतमिति भावः । एतेन सिद्धान्तसुन्दरे गोलाध्यायानन्तरं ग्रहगणितनिरूपणं कृतं तदपास्तम् ॥६॥ केदारदत्तः—ज्योतिषशास्त्र का प्रयोजन—आर्यभट्ट, वराहमिहिर, ब्रह्मगुप्त-प्रभृति प्राचीन ज्योतिर्विदों ने संहिता, जातक, गणित स्कन्धत्रयात्मक ज्योतिषशास्त्र का प्रयोजन, भूत भविष्य और वर्तमान का शुभाशुभ कथन रूप आदेश बताया है। किसी जातक का फल का आदेश लग्नकुण्डलिका में स्थापित ग्रहस्थितिवश किया जाता है। निश्चय है कि लग्न कुण्डलिका में स्थित लग्न बलाश्रित ग्रहस्थिति से ही भविष्यज्ञान होता है। लग्न कुण्डलिका में स्थापित ग्रह संस्थान केवल स्पष्ट ग्रह ज्ञान के आधीन है। स्पष्ट ग्रह का ज्ञान गोलनिरूपणात्मक उपपत्ति सिद्ध ज्ञान के आधीन होता है। ग्रहगणित ज्ञान के बिना ग्रहगोल का ज्ञान नहीं हो सकता । अतः गोलाध्याय अध्ययन के इच्छुक छात्र को प्रथमतः गणिताध्याय का ज्ञान होना चाहिए। क्योंकि गणित ज्ञान बिना गोलज्ञान सम्भव नहीं है। इसी आशय से आचार्य ने प्रथमतः गणिताध्याय का सर्जन कर तदनन्तर इस गोलाध्याय की रचना की है ॥६॥ इदानीं ज्योतिषशास्त्रश्रवणाधिकारिलक्षणमाह— द्विविधगणितमुक्तं व्यक्तमव्यक्तयुक्तं तदवगमननिष्ठः शब्दशास्त्रे पटिष्ठः । यदि भवति तदेदं ज्योतिषं भूरिभेदं प्रपठितुमधिकारी सोऽन्यथा नामधारी ॥७॥ वा० भा०—स्पष्टार्थम् ॥७॥ मरीचिः—अथ वादीत्यादिश्लोकत्रयसिद्धं गोलाध्यायपिपठिषुस्वरूपं लाघवान्मालि- न्याऽऽह—द्विविधेति । द्विविधगणितं प्रकारद्वयेन गणितमुक्तम् । अस्मिन् ग्रन्थे निरूपितम् । प्रकारद्वयं स्फुटयति—व्यक्तमिति । व्यक्तं पाटीगणितम् । अव्यक्तं बीजगणितं तेन युक्तं सहितम् । पाटीगणितं बीजगणितं चेति । तथा च ग्रहगणितनिरूपणानन्तरं प्रक्रियोपयुक्त- त्वेन पाटीगणितं निरूप्य तदनन्तरं ग्रहगणितविशेषोपपत्त्युपयुक्तत्वेन बीजगणितं पाटीगणि- तोपजीव्यं निरूपितमित्यर्थः । उक्तोपयोगमाह—तदवगमननिष्ठ इति । तयोर्गणितयोरव- गमनं ज्ञानं तत्र निष्ठा निश्चयो यस्य तज्ज्ञानवानित्यर्थः । तयोर्ग्रन्थमध्ये स्थितत्वात्तच्छब्दा- देव ग्रहगणितज्ञानवांश्चेति सिद्धम् । शब्दशास्त्रे व्याकरणे पटिष्ठः । अतिशयेन पटुः कुशलः । व्याकरणशास्त्रतत्त्वज्ञ इत्यर्थः । तादृशो यदि भवति तदा तर्हि स पिपठिषुः, इदं प्रसिद्धं ज्योतिषशास्त्रं भूरिभेदं गोलयन्त्रं प्रश्नाध्यायात्मकग्रन्थैकदेशं प्रपठितुं तत्त्वं ज्ञातु- मधिकारी । अन्यथोक्तस्वरूपाभावे नामधारी । तत्पिपठिषुः केवलं भवति न तत्तत्त्वज्ञा- नेच्छुः । तादृशस्यायं ग्रन्थैकदेशो दुर्ज्ञेय इत्यर्थः ॥७॥

१० गोलाध्याये केदारदत्तः—यहाँ गणित भेद बताये जा रहे हैं—यह ग्रंथ अंकगणित और बीज गणित सहित है। इस ग्रन्थ में जिस छात्र की उक्त दोनों गणितों में पूर्णनिष्ठा सर्वांश सम्बन्धित है, ऐसे गणित ज्ञानवान् छात्र को व्याकरण शास्त्र में भी अत्यन्त कुशल होना चाहिए, ऐसा सुयोग्य छात्र, अनेक भेद युक्त गोलयंत्र, प्रश्नाध्याय प्रभृति अध्यायों से युक्त इस ग्रन्थ के अध्ययन का उत्तम पात्र होता है, अन्यथा वह केवल ज्योतिष नामधारी ही रहेगा। अंकगणित बीजगणितादि अनेक विध गणित गोल ज्ञान रहित छात्र इस ग्रन्थ के अध्ययन का अधिकारी नहीं होगा ॥७॥ अथ व्याकरणवर्णनमाह— यो वेद वेदवदनं सदनं हि सम्यग्- ब्राह्म्याः स वेदमपि वेद किमन्यशास्त्रम् । यस्मादतः प्रथममेतदधीत्य धीमा- ञ्शास्त्रान्तरस्य भवति श्रवणेऽधिकारी ॥८॥ वा० भा०—स्पष्टार्थम् ॥८॥ मरीचि :—ननु वादीत्यादिना दृष्टान्तद्वारेण शास्त्रान्तरं विना व्याकरणमप्रयोजक- मित्युक्तं न तु ज्योतिःशास्त्रं तथोक्तम् । अत्र व्याकरणस्थानापन्नगोलाध्यायस्याभ्युपगमात् । तथा च शब्दशास्त्रे पटिष्ठ इत्युक्तमनुपयुक्तमित्यतः सिंहोद्धतयाऽऽह—य इति । अतोऽस्मा- त्कारणादेतद्व्याकरणं प्रथमं वेदाङ्गेषु प्रथममुद्दिष्टमधीत्य धीमाञ्शास्त्रान्तरस्य श्रवणे पठने । श्रवणस्य श्रोत्रमनःसंयोगविषयत्वात् । अधिकारी स्यात् । लौकिकोक्त्या धीमान् । श्रवण (पठने) इतिपदाभ्यां महोत्कर्षः सूचितः । तथा च ज्योतिःशास्त्रस्यापि शास्त्रान्तरत्वादेत- त्पठनार्थं व्याकरणेऽधिकारीति प्रागुक्तं युक्तमेवेति भावः । ननु शास्त्रान्तराध्ययने तस्य किं प्रयोजनमित्यतः कारणमाह—य इति । यस्मात्कारणाद्यः पिपठिषुर्वेदवदनं व्याकरणं सम्य- क्तत्त्वतो वेद जानाति स पिपठिषुर्वेदमाम्नायम् । अपिशब्दादर्थदुर्गमत्वादङ्गीभूतमित्यर्थः । वेद जानाति । अन्यशास्त्रं तदपेक्षया सुगमं जानातीत्यत्र किं वक्तव्यम् । व्याकरणस्य वेदमुख- त्वेन तदवगमात्संपूर्ववेदार्थज्ञानेऽनायासः । तेन शब्दार्थानां परिच्छिन्नत्वादिति भावः । स्यादेतत् । परं शास्त्रान्तरज्ञानं कुतो जायते इत्यत आह—सदनमिति । हि निश्चयेन । ब्राह्म्याः सरस्वत्याः सर्वशास्त्रमयरूपायाः सदनं गृहम् । व्याकरणं सरस्वतीगृहम् । शास्त्रस्य शब्दात्मकत्वात् । तथा च सकलशास्त्ररूपसरस्वत्या व्याकरणरूपगृहस्य तन्निवास- भूतस्य ज्ञाने सकलं शास्त्रस्वरूपसरस्वतीज्ञानं भवेदिति भावः ॥८॥ केदारदत्त :—सर्वप्रथम व्याकरण ज्ञान आवश्यक है—जिस छात्र ने सर्वशास्त्र मयी सरस्वती का मुख रूप व्याकरण शास्त्र का ज्ञान कर लिया है वह छात्र समग्र ज्ञान भण्डार वेद का भी ज्ञान कर सकता है, ऐसे सुयोग्य वैयाकरण छात्र के लिए अन्य शास्त्रों का ज्ञान भी और अधिक सुलभ हो जाता है ।

गोलप्रशंसाध्यायः ११ अतः कोई भी छात्र व्याकरण शास्त्र के ज्ञान के अनन्तर ही शास्त्रान्तर ज्ञान का उत्तम पात्र होता है। व्याकरण ज्ञान के अनन्तर ही अन्य शास्त्रों की ज्ञान कक्षा में प्रवेश समुचित होता है ॥८॥ अथाऽऽत्मनो गोलग्रन्थस्य प्रवृत्त्यर्थमन्योक्तिप्रकारेणाऽऽह— गोलं श्रोतुं यदि तव मतिर्भास्करीयं शृणु त्वं नो संक्षिप्तो न च बहुवृथाविस्तरः शास्त्रतत्त्वम् । लीलागम्यः सुललितपदः प्रश्नरम्यः स यस्माद् विद्वन् विद्वत्सदसि पठतां पण्डितोक्तिं व्यनक्ति ॥९॥ वा० भा०—स्पष्टम् ॥९॥ इति गोलप्रशंसाध्यायः । मरीचि :—ननु तथाऽपि लल्लश्रीपत्यादिकृतगोलग्रन्थानां सत्त्वात्तत्कृतो गोलग्रन्थो व्यर्थ इत्यतो मन्दाक्रान्तावृत्तेनाऽऽह—गोलमिति । हे विद्वंश्चतुर तव गोलं गोलाध्यायं श्रोतुं पठितुं बुद्धिर्यदि भवति । यदीत्यनेन प्रागुक्त- युक्त्या गोलाध्यायारम्भो व्यर्थो नेति त्वया निश्चितमन्यथा तत्पठनेच्छानुपपत्तेरिति सूचि- तम् । तर्हि भास्करीयं भास्कराचार्यनिर्मितमेनं गोलाध्यायं शृणु पठ । प्राचीनग्रन्थानां सत्त्वादत्राऽऽग्रहः कथमित्यत आह—स इति । यस्मात्कारणात्स भास्कराचार्यनिर्मितोऽयं गोलग्रन्थो विद्वत्सदसि पण्डितसभायां पठतां स्वपाठकपुरुषाणां पण्डितोक्तिं व्यनक्ति प्रकाशयति । पण्डितसभायामेतत्पठतस्तत्स्थाः पण्डितोऽयमस्तीति वदन्तीत्यन्यगोलं पठतस्तादृशोक्त्यनाश्रयत्वान्मदुक्तोऽयं गोलग्रन्थो न व्यर्थ इति भावः । पण्डितोक्तिं कुतो व्यनक्तीति भास्करीयगोलस्य विशेषणमाह—शास्त्र- तत्त्वमिति । सकलगोलग्रन्थसारभूतमित्यर्थः । अत्र हेतुभूतविशेषणद्वयमाह—नो इति । संक्षिप्तोऽल्पविचारो नो । बहुवृथाविस्तरो न च । व्यर्थोक्त्या विस्तृतोऽपि न कृत इत्यर्थः । नन्वेवं कठिनो भविष्यतीत्यत आह—लीलागम्य इति । किंचिदुपदेशेनैवैतद्बोधो भवतीत्यर्थः । अत्र हेतुगर्भं विशेषणमाह—सुललितपदप्रश्नरम्य इति । सुललितानि पदानि विद्यन्ते येषु ते च ते प्रश्नाः । गोलप्रश्नास्तै रम्यः । तथा च ललितपदैः पद्यानां दुर्गमार्थत्वाभावात्प्र- श्नतात्पर्यबोधेन तदुत्तरजिज्ञासयोत्तरपद्यान्यपि तादृशपदानि दुर्गमार्थानीति लीलागम्योऽयं गोलाध्याय इति भावः । प्रश्न इत्यनेन गोलप्रश्नाध्यायोऽत्र पृथक्समनन्तरमेवोक्त इति सूचितम् ॥९॥ ननु प्रतिज्ञातगोलाध्यायमुपेक्ष्येदमन्यदेव निरूपितमतः फक्किकयाऽऽह—इति श्रीसिद्धा- न्तशिरोमणौ गोलप्रशंसेति । कस्यचित्पाताधिकारातग्रन्थः शिरोमणिः । अयं ग्रन्थस्तु

१२ गोलाध्याये तद्भिग्नो गोलाध्याय इति भ्रमवारणार्थं सिद्धान्तशिरोमणावित्युक्तम् । पाताधिकारान्तमु- द्दिष्टसिद्धान्तपदार्थानामललिता (ता) नामनिरूपणात् । गोलाध्यायनिरूपणसंगतिरुक्तैतद्- ग्रन्थेनाग्रे गोलो निरूपयिष्यत इति न क्षतिः । दैवज्ञवर्यगणसंततसेव्यपार्श्वश्रीरङ्गनाथगणकात्मजनिर्मितेऽस्मिन् । याता शिरोमणिमरीच्यभिधे प्रशंसा गोलस्य सुज्ञगणकाभिमता समाप्तिम् ॥ इति श्रीसकलगणकसार्वभौमश्रीरङ्गनाथगणकसुतविश्वरूपापरनामक- मुनीश्वरगणकविरचिते सिद्धान्तशिरोमणिमरीचौ गोलप्रशंसा संपूर्णा ॥ केदारदत्तः—आचार्य अपने इस गोलाध्याय के अध्ययन के लिये छात्रों को प्रवृत्त कर रहा है—हे विद्वन् ! यदि आपकी गोलाध्याय पढ़ने की इच्छा है तो भास्कराचार्य विरचित इस गोलाध्याय को सुनिए अर्थात् पढ़िये । यतः पण्डित सभा में यह गोलाध्याय पाण्डित्य का प्रकाशक होता है, अर्थात् गोल- शास्त्र का पाठक छात्र ही पाण्डित्य पूर्णता से प्रत्येक पण्डित का विशेष आदरणीय हो जाता है । यह गोलाध्याय न तो अत्यन्त संक्षिप्त ही है और न क्रम प्राप्त बहुत विस्तार ही है । थोड़े ही उपदेश से छात्रों के लिए यह सुबोध मय हो जाता है । इस गोलाध्याय का गर्भ, सुललित पद और सुन्दर प्रश्नों से युक्त होने से बड़ी सरलता से ज्ञान लोलुप सुयोग्य शिष्यों के लिए अत्यन्त सरल है ॥९॥ इति सिद्धांतशिरोमणि गोलाध्याय–१ की पण्डित हरिदत्त ज्योतिर्विदात्मज पर्वतीय श्री केदारदत्त जोशी कृत सोपपत्तिक 'केदारदत्तः' हिन्दी व्याख्यान सम्पन्न ।

अथ गोलस्वरूपप्रश्नाध्यायः अथ भूसंस्थानप्रश्नं श्लोकद्वयेनाह— भ्रमद्भचक्रचक्रान्तर्गगने गगनेचरैः । वृता धृता धरा केन येन नेयमियादधः ॥१॥ किमाकारा कियन्माना नानाशास्त्रविचारणात् । कीदृग्द्वीपकुलाद्रीन्द्रसमुद्रैर्मुद्रितोच्यताम् ॥२॥ वा० भा०—इयं भूर्गगनेचरैः खेचरैर्वृता केन धृता सती गगने परितो वर्त- मानेऽधो नेयान्न गच्छेत् । कथमियं गगने स्थितेत्यवगतम् । यतो भ्रमद्भचक्र- चक्रान्तर्वर्तते । भानां चक्रं समूहः । भचक्रमेव चक्रं भचक्रचक्रम् । यदि भूमेर्मूर्ता- धारपरम्पराऽङ्गीक्रियते तदा समन्ताद्वर्त्तमानघनभचक्रस्याऽऽधारे स्खलितस्य भ्रमणं नोपपद्यत इत्यर्थः । तथा च सा भूः किमाकारा कियन्माना द्वीपानां कुला- चलेन्द्राणां च कीदृगवस्थानमिति सर्वं नानाशास्त्रविचारणात् । बौद्धादिप्रतिवादि- पक्षमधरीकृत्योच्यतामित्यर्थः ॥१॥२॥ मरीचिः—अथ य(मे)रुधिष्ण्यग्रहसंस्थितिरूपगोलनिरूपणस्योपपत्तिज्ञानोपजीव्यत्वेना- ऽऽरम्भणात्पूर्वग्रन्थसंगत्यवगमार्थमुपपत्तिप्रश्नरूपगोलप्रश्ननिबन्धनोऽयं प्रश्नाध्यायः । पूर्वाध्यायेन गणितपदार्थानां सामान्यतो ज्ञानातद्विशेषजिज्ञासोदयादवश्यंभावादयमेव पूर्वार्ध- खण्डनाध्यायत्वेन फलित इत्यवगम्यते । एतत्पदार्थतत्त्वज्ञानादृते यावत्खण्डनं न क्रियते तज्जि- ज्ञासकेन तावत्तस्य तत्तत्त्वप्रतिपादने सम्यगिच्छानुदयात् । गुरोस्तत्प्रतिपादनेच्छया शिष्याणां तत्तत्त्वबोधसंभवाधि(दि)त्यारम्भोऽयं प्रश्नाध्यायो व्याख्यायते । तत्र पूर्वाध्यायप्रतिपादित- ग्रहगणितोक्तव्यवश(ग)तभचक्रसंस्थानं तदुपजीव्यं निराकर्तुं तन्मध्यस्थितत्वेनावगतभूमि- गोलस्य निराधारस्याऽऽधारप्रश्नव्याजेन भूमेन्निराधारतामनुष्टुभा खण्डयति—भ्रमदिति । भ्रमद्भचक्रचक्रान्तः । भानामश्विन्यादिनक्षत्राणां चक्रं समूहस्तस्याऽऽश्रयीभूतं यच्चक्रं पाञ्चभौतिकं गोलाकारं वस्तु भ्रमतस्तद्गोलस्यान्तर्मध्ये गोलप्रदेशेभ्यस्तत्परिधिव्यासार्धेन यदेकं स्थानं तन्मध्यस्थिताकाशे जातं तद्गोलकेन्द्रं तत्र गगने स्थिता धरा गगनेचरैर्ग्र- हैश्चन्द्रबुधशुक्रसूर्यादिभिर्वृता समन्ताद्व्याप्ता । यथा नक्षत्राधिष्ठितगोलो भूमेः समन्ता- तुल्यान्तरेणास्ति तथा ग्रहास्तदन्तर्गताकाशे भूमेस्तुल्यान्तरेण भ्रमन्तीत्यर्थः । एतादृशीयं स्वाश्रयतया प्रत्यक्षा भूः केनाऽऽधारेण धृता तन्मध्यस्थाकाशविशेषस्थत्वेन सदा स्थिरेत्यर्थः । येनाऽऽधारेणेयं भूरधस्तन्मध्यस्थाकाशविशेषादधोभागे नेयान्न गच्छेत्तमाधारं वदेति शेषः ।

१४ गोलाध्याये अयमभिप्रायः । सृष्ट्वा भचक्रमित्यादिना भूमेः समन्तात्तुल्यान्तरेण नक्षत्रचक्रग्रहाः प्रवह- वाय्वाघातेनाऽऽकाश उदयस्तदर्शनान्यथानुपपत्त्या भ्रमन्तीति ज्योतिःशास्त्रतत्त्वज्ञैरुक्तं तन्न युक्तिसहम् । एतेषां भूमितोऽभितो ग्रहणे भूमेस्तन्मध्यस्थत्वानुपपत्तेः । नह्याधारं विनाऽऽकाशे किंचिदपि वस्तु प्रसिद्धम् । प्रत्युत गुरुत्वात्पतनमेव भूमेस्तेन भूसमन्ताद्भचक्रादीनां भ्रमणाऽनुपपत्तिः । यदि चाऽऽधारेणैव भूमिस्तद्गोलमध्यस्थैव तदा तदाधारस्याऽऽकाशस्त्वेन पतनसंभवादाधारान्तरमेवं तस्याप्येवमाधारपरम्परा भ्रमद्गोलप्रदेशविशेषसंलग्नेति तद्भ्र- मणानुपपत्तिः । तथा चैतद्भचक्रसंस्थानस्यायुक्तत्वात्तन्मूलकसर्वग्रहगणितायुक्त्युच्छेदः । उक्तग्रहगणितस्य ग्रहगत्युपजीव्यत्वात् । ग्रहगतेश्च पूर्वतोऽपरत्र भूमावाधारे वा प्रतिबन्ध- कत्वासंभवः । गणितस्यानियतविषयत्वाभावादिति । भ्रमद्भचक्रचक्रान्तरित्यनेन नक्षत्र- ग्रहस्वरूपसंस्थानप्रवहवाय्वादीनां प्रश्नोऽपि सूचितः ॥१॥ नन्वाधारपरम्परायामप्याधारग्रहनक्षत्राणि विभिद्य गच्छन्तीति तद्भ्रमणे बाधका- भावादगणितानुपपत्तिर्नेत्यतो भूमेः प्रश्नविशेषच्छलेन गणितैकदेशानुपपत्तिमत्तुष्टुभाऽऽह— भूः किमाकारेति । उच्यतां निर्णीतां भूमेराकारः कथमस्तीति विचारणीयम् । तथा च भुवो मुकुरोदराकारत्वस्य प्रत्यक्षसिद्धत्वेन सर्वदेशेषु युगपत्सूर्योदयास्तसंभावनया दिनमानभेदचर- देशान्तरानुपपत्तेः । क्षितिजभेदाभावात् । दिनमानादिभेदचरदेशान्तरोपपत्त्यर्थं क्षितिजभेदस्या- ऽऽवश्यकत्वेन तस्य गोलाकारत्वे सूपपन्नत्वात् । तन्मते भुवो गोलाकारत्वसिद्धौ प्रत्यक्षबाधो महान्दोष इति भावः । ननु यथा चन्द्रबिम्बात्मको गोलोऽस्माभिः शृङ्गोन्नत्युपजीव्योऽपि मण्डलाकारतया प्रतीयते तथैव भूगोलोऽपि केनचिद्दोषेणाऽऽदर्शाकारत्वेन प्रतीयत इति न दोष इत्यत आह—कियन्मानेति । भूः कियत् मानं प्रमाणं यस्याः । भूमिः कियद्योजन- परिमिताऽस्तीति निर्णीयताम् । नानाशास्त्रविचारणात् । अनेकशास्त्राणि पुराणज्योतिषार्ष- ग्रन्थादयस्तेषां विचारादेकवाक्यत्वरूपादित्यर्थः । तथा चानेकग्रन्थेषु सूर्यसिद्धान्ताद्यार्षार्य- भटब्रह्मगुप्तलल्लश्रीपतिभट्टकृतेषु पुराणेषु च भूमेर्माने परस्परमसंवादात्तदेकवाक्यताक- रणस्य ब्रह्मणोऽप्यशक्यत्वाच्चैकतरमाननिर्णयासंभवाद्भूमानजनितगणिताद्युच्छेदापत्तिः । ननु यत्परिध्यानीतं गणितं संवदति स एव भूपरिधिस्तेन न गणितोच्छेद इत्यत आह—कीदृ- [

(7 syllables): 13: – 14: – 15: u 16: – 17: – 18: u 19: – Wait! If 13 is –, 14 is –, 15 is u, 16 is –, 17 is –, 18 is u, 19 is –: Wait, in "कस्मात् पातः स्मृतः" or whatever is written: Look at: "कस्मात्" (or "कस्तात्") "पातः" "स्मृतः": If it is: कस् (13, –) मात् (14, –) पा (15, –) -> but 15 needs to be short! Wait! What is written? Look at the characters: क (ka) स्मा (sma) त (ta) त् (t) ? No, wait! Look at the letter: क स् मा त् ? No, wait, look at the word: Is it "कस्मात्"? Wait, look at: "क" "स्मा" "त्" "पा" "तः" "स्मृ" "तः" Wait, could it be "कस्मात्"? Let's look at the letter between क and पातः: It is: क, then स्, then त? Or स्, then मा? Wait, look at: "कस्तात्" Why would it

धिकरान्तराणां" or "निरस्तानांमधिकरान्तराणां"? Look at: "निरस्तानां" has an anusvara. Then "मधिकरान्तराणां" or "मधिकारा"? Wait, look at "धिकर": धि (dhi) क (ka) ा (aa) ?? Wait! Look at 'क': does it have an 'ा' matra? Line 14: 'म', 'धि', 'का', 'रा', 'न्त', 'रा', 'णां' -> Wait! Look between 'क' and 'र': There IS a vertical stem! It's 'का'! Wait, look: 'म' 'धि' 'का' 'रा' 'न्त' 'रा' 'णां'! Wait, let's look closely: म - धि - क - wait, is it 'का'? Compare 'का' in 'अधिकारयोः' (line 7): क + ा. In line 14: नि - र - स्ता - नां - [space] म - धि - का - रा - न्त - रा - णां Wait, is there an anusvara on 'नां'? Look above 'ना': yes, a clear dot: नां. Then 'म': standalone 'म'. Then 'धि'. Then 'का': wait, is

गोलस्वरूपप्रश्नाध्यायः १७ द्विरुद्धमित्यत आह—किमिति । बुधास्तदभिज्ञा उदयास्तमययोरुदययोर्नित्योदयसूर्याधीनोदय- योरित्यर्थः । अस्तयोर्नित्यास्तसूर्याधीनास्तयोश्चेत्यर्थः । दृक्कर्म द्वेधा । द्विधाभूतमायनमाक्षं चेत्यर्थः । ग्रहे विदध्युः संस्कुर्य्युः । तत्तथा । उदयास्तयोरेवेति कि नियतमित्यर्थः । तथा च विना दृक्कर्मसंस्कारं दृक्साम्यसिद्धिर्न घटते । अन्यथा दृक्कर्मसंज्ञाव्याघातः । अतो ग्रहस्पष्ट- त्वसिद्धयर्थं दृक्कमापि संस्कार्यं मन्दशीघ्रफलवदित्युदयास्तलग्नसाधनार्थमेव तद्दानमुपयुक्त- मिति भावः । तस्मादुक्तरीत्या त्वदुक्तं पूर्वार्धप्रतिपादितं ग्रहगणितमयुक्तमित्युपसंहरति— सर्वमिति । चेद्यदि । अमलं निर्दूषणं गोलममलमत्यर्थं विजानासि र्तार्ह मे मम सर्वं पूर्वार्धोक्त- गणितजातं विमलं निर्दूषणं वद । पूर्वार्धेन तत्पदार्थानां सामान्यज्ञानात्तत्पदार्थस्वरूपप्रति- पादनानुक्त्या सर्वमसंगत गणितजातमिति भावः ॥४॥ केदारदत्तः—कल्पगत अहर्गण से अनुपात द्वारा साधित मध्यम ग्रह की स्पष्टता में अनेक गणितों की क्या आवश्यकता है ? देशान्तर क्या है ? उदयान्तर क्या है ? भुजान्तर क्या है ? चर नामक गणित पदार्थ क्या है ? मृदु शीघ्र उच्च, पात तथा मन्दशीघ्रोच्च फल क्या हैं ? क्यों इन्हें धन वा ऋण किया जाता है ? ग्रहोदयास्त कर्म में द्विविध दृक्कर्म (आयन और आक्ष) क्या हैं ? दोष रहित स्वच्छ गोल ज्ञान यदि है तो उक्त सभी प्रश्नों का निर्दोष उत्तर कहिए ॥३॥४॥ अथ त्रिप्रश्ने दिनमानभेदप्रश्नं श्लोकद्वयेनाऽऽह— महदहः किमहो रजनी तनुर्दिनमणौ गणकोत्तरगोलगे । ननु तनुर्दिवसो महती निशा वद विचक्षण दक्षिणदिग्गते ॥५॥ भवति किं द्युनिशं द्युनिवासिनां द्युमणिवर्षमितं च सुरद्विषाम् । पितृषु किं शशिमासमितं तथा युगसहस्रगुणं द्रुहिणस्य किम् ॥६॥ वा० भा०—स्पष्टम् ॥५॥६॥ मरीचिः—अथ चरघटीसहिता रहिता इत्यादिना स्पष्टाधिकारोक्तदिनरात्र्योरुत्तर- गोले महदल्पत्वं दक्षिणगोलेऽल्पमहत्त्वं सिद्धं द्रुतविलम्बितेन खण्डयति—महदिति । हे गणक गणितज्ञ । उत्तरगोलाधिष्ठिते सायनसूर्ये, अहो इत्याश्चर्ये । अहो दिवसो महान्युक्तो भवति । रात्रिस्तनुरल्पा कुतो भवति । भूमेरविकृत [त्वे] नोदयास्तस्थलयोरेक- वृत्तस्थत्वाच्च । गोलसंधौ दिनरात्र्योस्तुल्यत्वेनाग्रे उत्तरगोले दिनरात्र्योवृद्धिह्रासौ कुतः संजातौ । कारणाभावात् । विपरीतमेव कि न जातमित्याश्चर्यपदम् । एवं दक्षिणदिग्गते दक्षिणगोलस्थे सायनसूर्ये हे विचक्षण पदार्थस्वरूपविचारक । नन्विति । पूर्वपक्षद्योतकं वितर्के वा । दिवसस्तनुरल्पः कि निशा महती किं, अत्र कारणं वद । तथा च दिनरात्र्योरु- त्तरदक्षिणगोलक्रमेण सदृशत्वमयुक्तम् । सदैकरूपस्य युक्तत्वात् । अत्र उक्तं दिनरात्र्योर्वि- सदृशत्वमसंगत युक्त्यभावादिति भावः ॥५॥ २

१८ गोलाध्याये अथ प्रसङ्गाद्देवपितृप्रजापतीनां मध्याधिकारोक्ताहोरात्राणि द्रुतविलम्बितेन खण्ड- यति—भवतीति । द्युनिवासिनां देवानाम् । सुरद्विषां दैत्यानां च । चः समुच्चये । तेन देवदैत्ययोरि- त्यर्थः । द्युमणिवर्षमितं सौरवर्षप्रमाणं द्युनिशमहोरात्रं किं भवति कस्माद्धेतोर्भवति । यथाऽस्मद्देशे षष्टिघटीमितमहोरात्रं तथा तयोः सौरवर्षमितमहोरात्रं द्युरात्रं च देवा- सुराणां तदेवेति मध्याधिकारे कया युक्त्योक्तं कथं च षष्टिघटीमितेनोक्तम् । एवं पितृषु पितृविषये । तेषामित्यर्थः । चान्द्रमासमितं तथाऽहोरात्रम् । एतच्च पैत्रं द्युरात्रमित्यने- नोक्तं किं कुतो हेतोः । द्रुहिणस्य ब्रह्मणो युगसहस्रयुगं कल्पद्वयप्रमाणमहोरात्रं स्याद्युगानां सहस्रं दिनं वैधसं सोऽपि कल्पो द्युरात्रं तु कल्पद्वयमित्यनेन कथमुक्तं कारणाभावात् ।।६।। केदारदत्तः—हे गणक उत्तरगोलगत सूर्य में दिनमान अधिक रात्रिमान कम क्यों होता है ? तथैव दक्षिण गोलगत सायन सूर्य में रात्रिमान अधिक और दिनमान कम क्यों होता है ? एक सौर वर्ष काल प्रमाण के तुल्य समय में देवताओं और असुरों का एक ही दिन क्यों होता है । तथा एक चान्द्र मासतुल्य काल में पितृलोक (चन्द्रपृष्ठ) में एक ही दिन क्यों होता है । तथा कल्पद्वयप्रमाण काल में ब्रह्मा का एक ही अहोरात्र क्यों होता है । (एककल्प तुल्य काल में ब्रह्मा का १ दिन और १ कल्पकाल की ब्रह्मा की १ रात्रि होती है ।) ।।५-६।। अथ राश्युदयभेदप्रश्नमाह— भवलयस्य किलार्कलवाः समाः किमसमैः समयैः खलु राशयः । समुपयान्त्युदयं किमु गोलवि- न्न विषयेष्वखिलेष्वपि ते समाः ॥७॥ वा० भा०—स्पष्टम् ।।७।। मरीचिः—अथैकस्य राशेर्महतो ज्यका येत्याद्युक्तनिरक्षोदयांश्च देशोदयांश्च द्रुत- विलम्बितेन खण्डयति—भवलयस्येति । राशयो मेषादयोऽसमैः समयैरतुल्यकालेन खलु निश्चयेनोदयं समुपयान्ति । किं कुतो मेषादिराशीनां सर्वेषामुदयकालाः समाः कथं नोक्ताः, विसदृशाः कथमानीताः । उदय- काला इत्यनु (त्यु) पलक्षणम् । अस्तकालाः कथं न समा इत्यपि ध्येयम् । ननु राशि- मानानामतुल्यत्वेनैव तदुदयास्तकालावप्यतुल्याविति युक्तमेवेत्यतो राशिविशेषणमाह—समा इति । तुल्यप्रमाणास्त्रिंशद्भागात्मकाः सर्वे राशयः प्रत्येकम् । नहि मेषाद्वृषो वृषान्मि- थुनो भागैरधिको येनोदयास्तकालाः परस्परं न्यूनाधिकाः संभवन्ति । मेषाख्यत्रिंशद्भागानां यावुदयास्तकालौ तावेव वृषाख्यत्रिंशद्भागानां नेति कथमसंगतं स्पष्टाधिकार उक्तमिति

गोलस्वरूपप्रश्नाध्यायः १९ भावः । समत्वे मानाभाव इत्यत्र आह—भवलयस्येति । राशिसंबन्धिवृत्तस्य द्वादशांशरूपा राशयः । किल निश्चयेनेति [रि] क्तसमा एव भाव्या इत्यर्थः । तथा च नाक्षत्रषष्टिघटी- भिर्भचक्रपरिवर्तनाद्द्वादशांशः पञ्चघटीमितो राश्युदयास्तकालो युक्तियुक्तो न त्वतुल्य इति भावः । ननु भचक्रप्रदेशविशेषस्य समत्वेऽपि तथा शक्तिरस्तीत्यत आह—किम्ब्विति । हे गोलवित् । गोलतत्त्वज्ञातेऽपि यथाकथंचिदङ्गीकृता अतुल्योदयास्तकाला अखिलेषु सर्वेषु विषयेषु देशेषु समा अविकृताः किमु न भवन्ति । प्रतिदेशं विसदृशा उदयाः कथं संजाताः, भूमेस्तुल्यत्वादिति भावः ॥७॥ केदारदत्तः—क्रान्तिवृत्त के समान द्वादश विभागों में प्रत्येक विभाग का मेषादि से मीन पर्यन्त नाम हैं । ये द्वादश राशियां पृथ्वी के सभी देशों में क्षेत्रात्मक मान से तुल्य होती हुई भी कालात्मक विभिन्न विषम समयों में क्यों उदित होती हैं ? ॥७॥ इदानीं द्युज्याकुज्यादिसंस्थानप्रश्नं वृत्तार्धेनाऽऽह— द्युज्याकुज्यापमसमशराग्राक्षलम्बादिकानां विद्वन् गोले वियति हि यथा दर्शय क्षेत्रसंस्थाम् ॥७½॥ वा० भा०—स्पष्टार्थम् । केदारदत्तः—हे विद्वन् ! हे गोलज्ञ ! आकाश गोल में द्युज्या, कुज्या, क्रान्ति, समशंकु, अग्रा, लम्बांश आदिकों को सही क्षेत्र संस्था को दिखाओ ॥७½॥ इदानीं चन्द्रार्कग्रहणयोर्दिक्कालभेदादुपपत्तिप्रश्नान् सार्धश्लोकेनाऽऽह— तिथ्यन्ते चेद्ग्रह उडुपतेः किं न भानोस्तदानी- मिन्दोः प्राच्यां भवति तरणेः प्रग्रहः किं प्रतीच्याम् ॥८॥ लम्बनं बत किं का च नतिर्मतिमतां वर । तत्संस्कृतिस्तिथौ बाणे किं ते सिद्धे कुतः कुतः ॥९॥ वा० भा०—अत्र किल प्रष्टुरयमभिप्रायः । चन्द्रग्रहणे भूमा ग्रहणकर्त्री । पौर्णमास्यन्ते भूमेन्दोस्तुल्यत्वाद्युतिर्भवितुमर्हति । एवं सूर्यग्रहे चन्द्रश्छादकः । दर्शान्ते तयोस्तुल्यत्वादद्योगेन भवितव्यम् । अत उक्तम्—तिथ्यन्ते चेद्ग्रह उडुपतेः किं न भानोस्तदानीमिति । बत अहो गणक लम्बनं नाम किं नतिश्च का । तत्संस्कृतिस्तिथौ बाणे च किम् । लम्बनेन तिथिः संस्क्रियते नत्या किं बाणश्च । तथाऽन्यः प्रश्नः । ते सिद्धे कुतः कुत इति । ते लम्बनावनती कुतो हेतोः कुतः पृथिव्याः साधिते । भूव्यासाधैन साधिते इत्यर्थः । तथेदोः प्राच्यां दिशि स्पर्शः किं रवेः प्रतीच्यामित्यादि सर्वं वद ॥८–९॥ मरीचिः—अथ त्रिप्रश्नग्रहणाधिकारौ खण्डितप्रायावपि मन्दाक्रान्तया खण्डयन्नाह—

(dha) with ृ (ṛ matra): "धृ"! Wait, is there a "द्" above it? Look at "द्भूत": no, it's just 'त' then 'धृ'! Wait, "शङ्कु-तद्धृति"? In Sanskrit astronomy: शङ्कु (śaṅku), तद्धृति (taddhṛti). Taddhṛti (तद्धृति) is a well-known technical term in Triprasna! Does the text have "तद्धृत्यादि" or "तधृत्यादि"? It has 'त' and then 'द्धृ' (ddhṛ)! Look at the double loop: it is 'द्धृ'! So "तद्धृत्यादि".

Let's check line 4: "तिम् । गोले वक्ष्यमाणगोलबन्धोक्तप्रकारसिद्धवशादिगोले दर्शय । तथा यथा हि निश्चयेन" Line 5: "वियत्याकाशे स्थितिरस्तीत्यर्थः । तथा च त्रिप्रश्नोक्तं क्षेत्रादिगोलस्वरूपसिद्धमुख्यगोले" Line 6: "यथाऽवगतं स्यात्तथा वदेति । पूर्वं युक्त्या प्रतिपादनाभावादयुक्तमिति भावः । उडुपतेश्च-" Line 7: "न्द्रस्य मध्यग्रहणं तिध्यन्ते पौर्णमास्यन्ते चेत्तर्हि सूर्यस्य तदानीममान्त इत्यर्थः । मध्यग्रहणं" Wait,

भूर्व्यासार्धयोजनोत्पन्ना इति लम्बननत्योरानयनं भूर्व्यासार्धादुपपन्नं किमिति । एवं च भूर्व्यासार्धस्य ग्रहणद्वये साधारणसंबंधाच्चन्द्रग्रहणेऽपि तदावश्यकत्वापत्तिः । तस्माल्लम्ब- ननत्योर्व्यवस्थोक्त्या ग्रहणाधिकारस्त्वयुक्त एवेति भावः ॥९॥ केदारदत्तः—अनेक विध प्रश्न चन्द्रमा का पूर्णान्त काल में मध्य ग्रहण होता है तो अमान्त काल में सूर्य का मध्य ग्रहणादिक क्यों नहीं होता । चन्द्र ग्रहण का स्पर्श पूर्व पाली में होता है तो सूर्य का स्पर्श रविबिम्ब की पश्चिम पाली में होने का क्या कारण है । हे बुद्धिमान् गणक ! लम्बन और नति नामक पदार्थ क्या हैं ? दर्शान्त और शर में क्रमशः लम्बन और नति का संस्कार क्यों किया जाता है ? भूगर्भ से लम्बन और नति का गणित भूगर्भ से ही क्यों साधित होता है ? ।।८-९।। अथ शृङ्गोन्नतौ चन्द्रशुक्लस्य क्षयवृद्धिप्रश्नमाह— शुक्लस्य द्विजराज एष महसो हान्या कुवृत्तः कुतः सद्वृत्तत्वगतोऽप्यहो भ्रमभवादोषातिसङ्गादिव । संप्राप्याथ पुनस्त्रयीतनुमतस्तस्याऽऽश्रयेणैव किं शुक्लस्य क्रमशस्तथैव महसो वृद्धयैति सद्वृत्तताम् ॥१०॥ वा० भा०—अहो गणक, एष द्विजराजश्चन्द्रः सद्वृत्तत्वं गतोऽपि पौर्णमास्यां सुवर्तुलतां प्राप्तोऽपि कुतो हेतोः कुवृत्तः कुवर्तुलो भवति। भ्रमभवादोषातिसङ्गा- दिव । दोषा रात्रिः । तथा पौर्णमास्यां सकलया सकलस्यापि चन्द्रस्य यः सङ्गः सोऽतिसङ्गः । तत्सङ्गानन्तरं शुक्लस्य तेजसो हानिं याति तया हान्या कुवृत्तः कुत्सितवृत्तः स्यादितीव प्रतिभाति । यथा द्विजराजो ब्राह्मणोऽपि सद्वृत्तत्वं सदाचारत्वं गतोऽपि भ्रमभवाच्चित्तचलनसंभवादोषातिसङ्गात् पापातिसङ्गाच्छु- क्लस्य शुद्धस्य तेजसो हानिं याति । तया कुत्सितवृत्तः स्यात् । अथ पुनस्त्रयीतनु- मादित्यं प्राप्य ततोऽनन्तरं शुक्लस्य तेजसो वृद्ध्या तथैव सद्वृत्ततां सुवर्तुलतां प्राप्नोति । तस्य भगवतस्त्रयीतनोराश्रयेणैव । यथा कुवृत्तो ब्राह्मणस्त्रयीतनुं त्रैविद्यं पर्षत्त्रैविद्यमेव वेति स्मृत्युक्तं पर्षद्रूपमन्यं ब्राह्मणं प्राप्य तेन कृतानुग्रह- स्तेजोवृद्धिं तथा पुनः सुवृत्ततामेतोत्यर्थान्तरम् ॥१०॥ इति श्रीसिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे गोलाध्याये गोलस्वरूपप्रश्नाध्यायः ॥२॥ मरीचिः—अथ शृङ्गोन्नत्यधिकारं शार्दूलविक्रीडितेन खण्डयति—शुक्लस्येति । एष प्रत्यक्षः । द्विजराजश्चन्द्रः । अहो इत्याश्चर्ये । सद्वृत्तत्वगतः । सत्समीचीनं वृत्तं मण्डलं तस्य भावो वर्तुलत्वं गतः प्राप्तः । पूर्णान्ते संपूर्णमण्डलत्वेन परिणतः । अपिशब्दो

विरोधाभासालंकारसूचनाय । कृष्णपक्षारम्भाच्छुक्लस्य श्वेतस्य महसस्तेजसश्चन्द्रबिम्ब- संबन्धस्य हान्याऽपचयेन कुवृत्तः कुत्सितं वृत्तं मण्डलं संजातं यस्येत्येतादृशः कुतः कस्माद्धे- तोर्भवति । पूर्णान्ते संपूर्णमण्डलश्चन्द्रः । ततः कृष्णपक्षे त्वसंपूर्णमण्डलश्चन्द्रः कस्मा- द्भवति । तत्रापि संपूर्णमण्डलः कस्मान्न भवेदिति भावः । यद्यसंपूर्णमण्डल एव स्यात्तदा पूर्णान्तेऽपि संपूर्णमण्डलो न स्यात् । अत एव संपूर्णमण्डलस्य खण्डमण्डलसंभावनाऽति- विरुद्धेत्याश्चर्यपदम् । तत्र शुक्लतेजःक्षये कारणमुत्प्रेक्षते—दोषातिसङ्गादिवेति । दोषा रात्रिरस्तस्या अति— सङ्गोऽत्यन्तसमागमस्तस्मात् । शुक्लपक्षे पौर्णमासीदिनव्यतिरिक्ते संपूर्णरात्र्या चन्द्रस्य समागमो नास्ति । तद्दिने तु संपूर्णरात्र्या चन्द्रस्य समागमः । अत एवैतस्य वस्तुतः कारणत्वासंभवेऽपि कारणत्वं संभावितमित्यु

गोलस्वरूपप्रश्नाध्यायः २३ त्यर्थः । पुनः सद्वृत्ततां सदाचारनिष्ठतां प्राप्नोतीति किं चित्रम् । शिष्टानुग्रहस्य तथात्वा- दिति भावः ॥१०॥ एवं खण्डने निरूपिते फक्किकायाऽऽह—इति गोलप्रश्नाध्याय इति । उद्दिष्टप्रश्न निरूपिता इति भ्रमवारणार्थं गोलेति । उद्दिष्टास्तु गणितप्रश्नाः सोत्तरास्ते ग्रन्थान्त उक्ताः । एते तु गोलस्थितपदार्थस्वरूपपृच्छात्मका अनुद्दिष्टा अपि संगत्यर्थं निरूपिता इति भावः ॥१०॥ दैवज्ञवर्यगणसंततसेव्यपार्श्वश्रीरङ्गनाथगणकात्मजनिर्मितेऽस्मिन् याता शिरोमणिमरीच्यभिधे समाप्तिं पूर्वार्धखण्डनमया खलु गोलपृच्छा ॥ इति श्रीसकलगणकसार्वभौमश्रीरङ्गनाथगणकसुतविश्वरूपापरनामकमुनीश्वर- गणकविरचिते सिद्धान्तशिरोमणिमरीचौ गोलप्रश्नाध्यायः संपूर्णः । केदारदत्तः—शृङ्गोन्नति में चन्द्रमा के क्षय और वृद्धि का हेतु—पौर्णमासी की रात्रि में सकलचन्द्रमण्डल रात्रि के अतिसंग से सुवर्तुलता को प्राप्त होते हुए भी रात्रि संग के अनन्तर चन्द्रशुक्ल की क्रमशः हानि से चन्द्रमण्डल पूर्ण वर्तुल न होकर कुवृत्त की तरह क्यों हो जाता है ? जैसे सदाचार निष्ठ ब्राह्मण, भ्रम से उत्पन्न पाप के संसर्ग से अपने ब्रह्म तेज की हानि से कुवृत्त होकर पुन स्त्रैविद्य पूर्ण अन्य ब्राह्मण के संसर्ग से सदाचार संलग्न होकर क्रमशः तेज वृद्धि से सदाचार सम्पन्न होते हुए सद्वृत हो जाता है। तद्वत् चन्द्रमा भी सूर्य के सामीप्य और सान्निध्यवश अपनी कलाओं से क्षीण और वर्द्धमान हो जाता है ॥१०॥ इति सिद्धान्त शिरोमणि ग्रहगोलाध्याय के गोलस्वरूपप्रश्नाध्यायः-२ की श्री पण्डित हरिदत्त ज्योतिर्विदात्मज पर्वतीय श्री केदारदत्त जोशी कृत सोपपत्तिक “केदारदत्तः” हिन्दी व्याख्यान सम्पन्न । •