सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
| प्रभातवायुवर्णनम् | सूर्योदयवर्णनम् ३२७ |

| ङ्गानुकूलश्ललितविचकिलश्रेणिगन्धानुधावद्द्रोलम्बोद्धूष्यमाण-
स्रग्जयबिरुदाडम्बरो मातरिश्वा ॥ ३७॥ कावेरीवारिवेल-
ल्लहरिपरिकरक्रीडनक्लान्तशान्तस्फीतश्रीखण्डखण्डश्रमपहर-
भवद्भूरिसौरभ्यगर्भाः । चोलस्त्रीचीनचेलाञ्चलकलनकलाक्रान्त-
कान्ताकुचान्ता वान्ति प्रेमाग्निकीलाकलितवरवधूबद्धवैराः
समीराः ॥ ३८ ॥ चञ्चत्कर्पूरचौरा मलयगिरिगुरुग्रावहावा-
दवाग्मा मन्दानन्दैर्मिलिन्देरहमहमिकयानुद्रवद्दीर्घपान्थाः ।
कावेरीवारिसेका विरलतरतटीरवानीरसिक्ता मुक्ताद्रीः
स्वेदनिद्रालव इव पवनास्तालवन्या विशन्ति ॥ ३९ ॥
लीलादोलातिखेलारसरभसलसद्बालचेलाञ्चलाना चोलीनामा-
पिबन्तो मृगमदसुरभिखेदबिन्दून्मन्दान् । लोलन्तं केर-
लीना कुचकलशलसत्कुङ्कुमालेपनेषु श्लिष्यन्तो मालवीना
मलयजमथुराः कञ्चुकीर्वान्ति वाताः ॥ ४० ॥ भुङ्गाली-
कण्ठमालाः स्फुटितकमलिनीधूलिभिर्धूसराङ्गाश्चञ्चत्तत्श्चन्द्र-
कल्पालघुतरलहरीशीकरासारलालाः । अङ्गादङ्गं व्रजन्तो
विकसितविलसत्केतकीमालतीना मोदन्ते मन्दमन्दं मलय-
गिरिदरीगर्भतो वातपोताः ॥ ४१ ॥ | मन्दारपुष्पम् । विरहविधुरकोकद्वन्द्वबन्धुर्विमिन्दन्कुपितकपि-
कपोलक्रोडताम्रस्तमासि ॥ १० ॥ करनखरविदीर्णध्वान्त-
कुम्भीन्द्रकुंभात्तुहिनकणमिषेण क्षिप्तमुक्ताप्ररोहः । अयमुदय-
धरित्रीधारिमूर्धाधिरूढो नयनपथमुपेतो भानुमत्केसरीन्द्र
॥ ११ ॥ नवकनकपिषङ्ग बासराणा विधातुः ककुभि
कुलिशपाणेर्भाति भासा वितानम् । जनितभुवनदाहाग्ग्रमम-
म्भासि दग्ध्वा ज्वलितमिव महाश्वेरूर्ध्वमौर्र्वानलार्चिः
॥ १२ ॥ विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरी-
यान्दिग्भिराकृष्यमाण । कृतचपलविहङ्गालापकोलाहला-
र्मिजलनिधिजलमध्यादेष उच्चार्यतेऽर्कः ॥ १३ ॥ पयसि
सलिलराशेर्नक्तमन्तर्निमग्न स्फुटमर्शनशमतापि ज्वालया
वाडवाग्नेः । यदयमिदमिदानीमङ्कमुधन्धधाति ज्वलितखदिर-
काष्ठारङ्गारगौर विवस्वान् ॥ १४ ॥ अतुहिनरुचिनासौ
केवल नोदयाद्रिः क्षणमुपारगतन क्ष्माभृतः सर्व एव । नव-
करनिकरण स्पृष्टबन्धूकसूनस्तवकरचितमैते शेखर बिभ्रतीव
॥ १५ ॥ उदयशिखरि शृङ्गाङ्गणेष्वेव रिङ्गन्कमलमुख-
हास वीक्षित पद्मिनीभिः । विततमुद्रकराय शब्दयन्त्या
वैयोभिः परिपतति दिवोऽङ्के हेलया बालसूर्यः ॥ १६ ॥
क्षणमयमुपविष्ट क्ष्मातलन्धस्तपादः प्रणतिपरमवेक्ष्य प्रीतम-
ह्नाय लोकम् । भुवनतलमशेष प्रत्यवेक्षिष्यमाणः क्षितिधर-
तटपीठादुत्थितः संससतिः ॥ १७ ॥ उदयमयते दिङ्मा-
लिन्यं निराकुरुतेतरा नयति निधनं निद्रासमुद्रा प्रवर्तयति
क्रियाः । रचयतितरा खैग्गचारप्रवर्तनकर्तनं बत बत लस-
तेजःपुञ्जो विभाति विभाकरः ॥ १८ ॥ अय खलु मृणालिनी-
नवविलासवैहासिकस्तिवधा वितपते पतिः सपदि दृश्यमाना
निजाः । स्तनौ पुलकयन्ति चोत्पलदृशा प्रियोर स्थले विप-
र्यसितवृत्तयो घुसुणपङ्कपत्राङ्कुराः ॥ १९ ॥ आयान्त्या
दिवसश्रियः पदतलस्पर्शानुभावादिव व्योमाशोकतरोर्नवीन-
कलिकागुच्छः समुज्जृम्भते । आतन्वन्वतसविभ्रममसा-
वाशाकुरङ्गीदृशामुन्मीलत्तरुणप्रभाकरस्तोमः समुद्भासते
॥ २० ॥ एतत्तर्कय चक्रवाकहृदयाश्वासाय तारागण-
ग्रासाय स्फुरदिन्दुमण्डलपरीहासाय भासानिधि । दिक्कान्ता-
कुचकुम्मकुङ्कुमरसन्यासाय पङ्केरुहोल्लासाय स्फुटवैर-
कैरववनत्रासाय विद्योतते ॥ २१ ॥ मीलत्कंवरवलोचना प्रवि-
गलत्ताराच्छहारावली म्लायचन्द्रमुखा विश्रङ्खलतम केशा
सशेषाम्बराम् । प्राप्त सत्वरमित्वरीमिव बलादुद्गाढरागे
करैराकर्षन्निव यामिनीमनुपत्यम्भोजिनीवल्लभः ॥ २२ ॥
यावच्चीरनिधेः प्रभातसमय प्रोद्धृत्य लोकत्रयीमाणिक्यं रवि-
बिम्बमम्बरवणिग्वीथीपथे न्यस्यति । तावत्कर्तुमर्तिवास मूल्य-
मुचितं पद्माकरेण स्वयं लक्ष्मीर्लब्धविकासपङ्कजकरन्यस्तं |
| सूर्योदयवर्णनम्
ततः कोकवधूबन्धुर्बन्धूककुसुमप्रभः। उदयाद्रिशिरोरत्न-
मुद्ययौ तेजसा निधिः ॥ १ ॥ निजांशुकावृता प्राची
चुम्बत्यर्केऽतिरागिणीम्। लज्जयेव ययौ कापि श्यामा मीलित-
लोचना ॥ २ ॥ निसर्गसौरभोद्भ्रान्तभृङ्गसङ्गीतशालिनी ।
उदिते वासराधीशे सेराजने सरोजिनी ॥३॥ पुरूहूतदिगङ्गना^१
प्रसूता रविमुद्दामसुतं चिरादुपेतम् । अलिनो नलिनोदराद्वि-
मुक्ताः प्रियबाहुद्वयबन्धनान्नवोढाः ॥ ४ ॥ उदयति वित-
तोर्ध्वरश्मिरञ्जावहिमरुचौ हिमधाम्नि याति चास्तम् । वहति
गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ ५ ॥
घटमानकोककुचमाशुशन्कैर्विकसत्पयोजनयनावलोकितः ।
परिचुम्बतीदमरुणप्रभाधर रविरद्य बारवनितामुख मुहुः
॥ ६ ॥ आगत्य संप्रति वियोगविसस्थुलाङ्गीमम्भोजिनीं
क्वचिदपि क्षपितत्रियामः । एता प्रसादयति पश्य शनैः
प्रभाते तन्वङ्गि पादपतनेन सैहस्ररश्मिः^३ ॥ ७ ॥ उच्छिद्र-
कोकनदररेणुपिषङ्गिताङ्गा गायन्ति मत्तमधुपा गृह-
दीर्घिकासु । एतच्चकास्ति च रखेर्नवबन्धुजीवपुष्पच्छदाममुदया-
चलचुम्बि बिम्बम् ॥ ८ ॥ भूयो निपीय लवणाम्बुधि-
माप्रभातं पुञ्जीभवन्नुदयते तपनच्छलेन । और्वाग्निरम्बर-
पयोनिधिमद्य पातुं लीनोडुबुद्बुदकदम्बमिति प्रतीमः ॥ ९ ॥
अयमुदयति मुँद्रामञ्जन पद्मिनीनामुदयगिरिवनालीबाल- |
| पादटिप्पणी (वामभागः) | पादटिप्पणी (दक्षिणभागः) |

| १ प्राची दिक्
२ भ्रमरा
३ सूर्य
४ विकासनशील | १ पश्चिमि
२ सूर्य |
| ३२८ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

पुरः स्थाप्यते ॥ २३ ॥ मञ्जिष्ठारुणदीधितिर्मधुकरैर्मङ्गल्य-
गीतिस्ततः कोकाह्लादपटुः सरोरुहवन प्रीत्या समुज्जृम्भ-
यन् । लोकालोककरः करैश्च तमसा स्तोमं समुत्सारयन्ना-
रोहत्युदयाचल रंविरयं बन्धूकगुच्छच्छवि. ॥२४॥ कीलोलै.
कुङ्कुमाना सकलमपि जगज्जालमेतन्निषिक्त मुक्ताश्चोन्मत्त-
भृङ्गा विघटनकमलक्रोडकारागृहेभ्य. । उत्सृष्टं गोसहस्रं
किमुत कलकल श्रूयते च द्विजाना भाग्यैर्वृन्दारकाणा
हरिहयहरिता सूयते पुत्ररत्नम् ॥ २५ ॥
नायिकानिर्गमनम्
निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपद परास्ते ।
श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोऽञ्जना सा
॥ १ ॥ गुरुत्रासादासादितभवदुपालम्भवचसा मुहुः स्मार
स्मार कथमपि निशीथे संगममम् । इदानी मुञ्च त्व दयित
पुनेरेष्यामि सुभगदुष.कालीनोऽयं चटुलचटकालीकलकलः
॥ २ ॥ प्रबुद्धायाः प्रातर्लसदलसदूर्वाविलययं गलन्मल्लीदाम्नः
शिथिलकबरीबन्धसमये । प्रियालोके घूर्णन्नयनमसृणस्मेर-
मधुरो मुखे जृम्भारम्भो जयति भृशमिन्दीवरदृश. ॥ ३ ॥
प्राणेशेन प्रहितनखरेष्वङ्केषु क्षपान्ते जाताताङ्का रचयति
चिर चन्दनालेपनानि । धत्ते लाक्षामसकृदधरे दन्तदन्ताव-
घाते क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती ॥ ४ ॥
धम्मिल्ल परिवघ्नती नखसुखै सीमन्तमातन्वती पश्यन्ती
नखरोत्सवं कुचयुगे सव्यापसव्य मुहुः । नाभीसीमनि कुञ्चि-
ताङ्गुलिदलं नीवीभर रुन्धती शय्यागारविनिर्गतापि हृदया-
न्नाद्यापि निष्क्रामति ॥५॥ एषा का मुक्तमुक्ता विलुलित-
वसना स्वेदलभ्रान्तवस्त्रा प्रत्यूषे याति बाला मृग इव चकिता
सर्वत. शङ्कयन्ती । केनेदं वक्त्रपद्मं ह्यधरमधुरम मण्डितं केन
पीत स्वर्गः केनाद्य भुक्तो हरनयनहतो मन्मथ कस्य तुष्ट. ॥६॥
संभोगाविष्करणम्
रतखिन्नतनु प्रातर्लज्जानम्रमुखी वधूम् । स्मरन्ती रात्रि
चरित दृष्ट्वामोति न को मुदम् ॥ १ ॥ राजते राजगमाया ।
एष बिम्बाधरव्रण । सुधा पीत्वेव कान्तेन तच्छेषोऽय स
मुद्रितः ॥ २ ॥ आच्छादयसि किं मुग्धे वस्त्रेणाधरपल्लवम् ।
खण्डिता एव शोभन्ते वीराध्वरपयोधरा ॥ ३ ॥ सखि
दशनक्षतमधरे किं गोपयसे प्रयत्नेन । संप्रति रजनिरहस्य
नयनालस्यं निवेदयति ॥ ४ ॥ सवरणाय वधूट्टी बहुपरि-
पाटी करोतु किं तेन । संप्रति रजनिगृहस्य नयनालस्य
निवेदयति ॥ ५ ॥ उषसि परिवर्तयन्त्या मुक्तादामोपरवी-
तता नीतम् । पुरुषायितवैदग्ध्यं लज्जावति कैर्न कलित
ते ॥ ६ ॥ चन्दन स्तनतटेऽधरबिम्बे यावकं घनतर च
सपत्नया. । प्रातरीक्ष्य कुपितापि मृगाक्षी सागसि प्रियतमे
परितुष्टा ॥ ७ ॥ दर्पणेषु परिभोगदर्शिनी पृष्ठतः प्रणयिनो
निषेदुष । प्रेक्ष्य बिम्बमनुबिम्बमात्मन कानि कानि न
चकार लज्जया ॥ ८ ॥ किमपि कान्तभुजान्तरवर्तिनी
कृतवती यदिदं कलभाषिणी । तदनुकृत्य गिरा गुरु-
सन्निधौ हियमनीयत सारिकया वधूः ॥ ९ ॥ धन्यासि या
कथयसि प्रियसंगमेऽपि नर्मोक्तिचाटुशततानि रतान्तरंसु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्य शपामि यदि
किंचिदपि स्मरामि ॥ १० ॥ बहु जगद् पुरस्तात्तस्य मत्ता
किलाइ चकर च किल चाटु प्रौढयोषिद्वदस्य । विदित-
मिति सखिभ्यो रात्रिवृत्तं विचिन्त्य व्यपगतमद्याह्नि
व्रीडितं मुग्धवध्वा ॥ ११ ॥ शशपदमणिमालं चन्द्ररेखाभि-
राम ललितपुलकजालं लक्ष्यबिन्दुप्रवालम् । वपुरनघम-
मुष्या वक्ति कस्यापि यून. सुरतकदहलीलासूक्ष्ममार्गाभि-
योगम् ॥ १२ ॥ प्रभाते पृच्छन्तीरहसरहसवृत्त सहचरीन्र्-
वोढा न व्रीडामुकुलितमुखीय सुखयति । लिखन्तीना
पत्राङ्कुरमनिमशम्बास्तु कुचयोश्चमत्कारो गूढं करजपदमासा
कथयति ॥ १३ ॥ क्वचित्ताम्बूलाक्त. क्वचिदगुरुपङ्काङ्क-
मलिन क्वचिच्चूर्णोद्गारी क्वचिदपि च साउक्तकपद्. ।
वलीभङ्गाभोगैरलकपतितै. कीर्णकुसुमै स्त्रिय सर्वावस्थ
कथयति रतं प्रच्छदपट. ॥ १४ ॥ नखक्षतसुर.स्थले-
ऽधरदले रद्द्क्स व्रण च्युता बकुलमालिका विगलिता च
मुक्तावली । रतान्तसमये मया सकलमेतदालोकितं स्मृति.
क च रति क च क च तवालि शिक्षाविधिः ॥ १५ ॥
वक्षस्ते दृढलभकर्कशकुचद्वन्द्वान्तर्भ्रमान्तर कण्ठ कङ्कण-
रत्नकोटिकननासुव्यक्तमुद्राङ्कित । व्यत्यासव्यतिषङ्गितश्च
तिलक. फाले तवायं सखे कन्याश्चित्प्रकटीकरोति सुरत-
प्रोढि परा सुभ्रुव ॥ १६ ॥ तस्या पाटेलपाणिजाङ्कितमुरो
निद्राकषाये दृशौ निर्धुताधरशोणिमा विलुलितस्रस्तस्रजो
मूर्धजा । काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निवातैर्देशो-
रेभि कामशरैस्तदद्भुतमहो पत्युर्मन कीलितम् ॥ १७ ॥
यद्रात्रौ रहसि व्यपेतिवनय वृत्त रमाकामिनोरन्योन्यं शय
नीयमीहितरसाताम्रिप्रवृत्तस्पृहम् । तत्सानन्दमिलदृशो कथ-
मपि स्मृत्वा गुरूणा पुरो हामोद्रेदनिरोधमन्थरमिलत्तार
कथंचिन्स्थितम् ॥ १८ ॥ दम्पत्योर्निशि जल्पतोगृहशुकेन
कर्णित यद्वचस्तत्प्रातर्गुरुसन्निधौ निगदतस्तस्यातिमात्र वधू ।
कर्णालम्बितपद्मरागशकल विन्यम नश्वा पुटे व्रीडार्ता प्रकरो-
ति दाडिमफलव्याजेन वाग्बन्धनम् ॥१९॥ धन्यास्ता सखि
योषित प्रियतमे मर्वादङ्गलेषेऽपि या प्रागल्भ्य ग्चयन्ति
१ पयोभि २ देवतानाम् ३ जान्हवीरविक्षेपात्
संभोगाविष्करणम्, प्रियप्रस्थानावस्थाकथनम् ३२९
[स्तम्भ १]
मन्मथविवावालम्ब्य वेगं महत् । अस्माकं तु तदीयपाणि-
कमलेनोन्मोचयत्यंशुकं कोऽयं का वयमत्र किं च सुगतं
नैव स्मृतिर्जायते ॥ २० ॥ कान्ते तल्पमुपागते विगलिता
नीवी स्वयं बन्धनात्तद्वासः श्लथमेखलागुणवृतं किंचिन्नि
तम्बे स्थितम् । एतावन्मम्वि वेद्मि केवलमहं तस्याङ्गसङ्गे पुन
कोऽसौ काऽस्मि गतं नु वा कथमिति स्वल्पापि मे न स्मृतिः
॥ २१ ॥ गाढाश्लेषविवर्णचन्दनरज पुञ्जप्रभागादियं शय्या
संप्रति कोमलाङ्गि परुषत्यागेप्य मा वर्तसि । गाढाश्चग्रह
पूर्वमाकुञ्चनया पादाग्रसन्दष्टकेनाकृष्याम्बरमात्मनो यदुचितं
भूर्तेन तत्प्रस्तुतम् ॥ २२ ॥ निद्रातुन्दिललोचनोचनयुग
दन्नाडूढत्तच्छद् पर्यन्तालक्वलि घर्मपटलप्रामृष्टपत्रावलि ।
तुम्भाजम्भिनसीदुमौरभमिलङ्गीभिर्गीक्रीकृतसोत्र शमन्ति
वक्त्रमेव रजनीवृत्तान्तमेणीदृश ॥ २३ ॥
[प्रियप्रस्थानावस्थाकथनम्]
मुग्धा कान्तस्य यात्रोक्तिश्रवणादेव मूर्च्छिता । बुद्धा वक्ति
प्रिय दृष्ट्वा किं चिरेणागतो भवान् ॥ १ ॥ यामीति प्रिय-
पृष्टाया प्रियाया कण्ठलग्नयो । वचोजितवतोरासीद्बहि-
र्नि मरणे गण. ॥ २ ॥ बाष्पाकुलं प्रउषतोगृहिणि
निवर्तस्व कान्त गच्छेति । यात दपत्योर्द्दिनमनुगमनार्वधि
सरस्तीरे ॥ ३ ॥ यामि न यामीति वचे वदति पुरस्ता
त्क्षणेन तन्वङ्गया । गलितानि पुरोवलयान्यपराणि तथैव
दलितानि ॥ ४ ॥ मनसि निविशते स कोऽपि ताप
पणयिनि बाहुलतानरम्थितेऽपि । सरसिजमकरन्दगन्ध
बन्धुर्वहति यदेष शनैः शनैः समीर ॥ ५ ॥ कान्ते कथचि-
दूदितप्रयाणे क्षण विनमा विरहार्दिताङ्गी । तत समा-
लोक्य कदागतोऽसीत्याख्याय कान्ता मुदमाससाद ॥ ६ ॥
लज्जा विहाय रुदितं विसृष्टं पटान्ते मा गाम्वमित्युदितम-
ङ्गुलयो मुखेऽम्मा । स्थित्वा पुर पतितमेव निवर्तनाय
प्राणेश्वर व्रजसि किं न कृतं कृताज्ञया ॥ ७ ॥ गन्तुर्विध्वस्य-
दुदये हृदयेवरम् प्रत्यूपाशनिनिनादमजात कम्पा । निद्रा
जलैशिशिरिनेथनाञ्चजात कान्ता तडमशिखरे पतितै-
र्जहार ॥ ८ ॥ प्राणे वर किमपि जल्पति निर्गमाय क्षामोदरी
वदनमानमयाञ्चकार । दीं पुनर्निनृत्यमेत्य लतानिकुञ्ज-
मुन्मत्त कोकिल कूलानामतातान ॥ ९ ॥ गन्तु प्रिये वदति
नि श्वसिन न दीर्घमासीन्न वा नयनयोर्जलमाविरासीत् ।
आयुर्लिपि पठितुमेश्टेश परन्तु भालस्थलीं किमु करः समु-
पाजगाम ॥ १० ॥ पहरविरतौ मध्ये वाऽह्रस्ततोऽपि परेण
वा किमुत सकले यातेऽप्यह्नि प्रिय त्वमिहैष्यसि । इति
[स्तम्भ २]
दिनशतप्राय्य देश प्रियस्य यियासतो हरति गमनं बाला
लापैः सबाष्पझलज्झलैः ॥ ११ ॥ पितुरधिपुरं त्यक्ता
सख्यः समं निजबान्धवैर्न च परिचितिर्जाता पत्युर्गृहेऽपि
कयाचन । कतिपयदिनेोऽध्वन्यम्मिन् प्रिये प्रवरमत्यसौ कथयतु
मनस्तापं कस्मै नव नवकामिनी ॥ १२॥ मान्त्वप्रायैः प्रणय-
वचनैर्गन्तुमापृच्छमाने कान्ते तिर्यङ्नमितवदना रुन्वती
वाष्पपूरम् । दीर्घोच्छ्वासम्यगनविक्रन्तेोकम्पि नासापुटान्ता
सरयाशून्यं गणयति मृगीलोचना कङ्कणानि ॥१३॥ यामी-
त्युक्ते हृदयपतिना पञ्चशः शङ्खभूषा स्वेरं स्वेरं झटिति
गलिता पाणिपङ्केरुहाग्रात् । नो यास्यामीत्यनुपदमिया वाच-
माकर्णयन्त्यास्तन्व्या शेषा अपि चटचटेलेव भङ्ग समीयुः
॥ १४ ॥ आयाते श्रुतिगोचरं प्रियतमप्रस्थानकाले वलात्त-
ल्यान्त स्थित्या तया जनमल दृष्ट्वा चिर मुग्धया । सोच्छ्वासं
दृढमन्युनिर्भरगलद्वाष्पाम्बुधौतं तया म्व वक्त्र विनिवेश्य
भर्तृहृदये निःशब्दकं रुद्यते ॥ १५ ॥ दृष्ट कातरनेत्रया
चिरतर बद्धाञ्जलि याचित पश्चादंशुकपल्लवेन विधृतो नि
र्व्याजमालिङ्गित. । इत्याक्षिप्य समस्तमर्थमपृणो गन्तु प्रवृत्त
शठ. पूर्व प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ १६ ॥
लया नांशुकपल्लवे भुजलता नो द्वारदेशेऽर्पिता नो वा पाद-
युगे तया निपतित तिष्ठेति नोक्तं वचः । काले केवल
मम्बुदालिमलिने गन्तुं प्रवृत्तः शठस्तन्व्या बाष्पजलौघकल्पि-
तनदीपूरेण रुद्ध प्रिय ॥ १७ ॥ दूर सुन्दरि निर्गतासि
नगरादेष द्रुमः क्षीरवानस्खादेव निवर्त्यतामिति शनैरुक्त्वा-
ध्वगेन प्रियाम् । गाढाश्लिङ्गनवकितस्तनतटाभोगस्फुटत्कञ्चुक
वीक्ष्योर स्थलमाश्रुपूरितहृश प्रस्थानभङ्ग कृत ॥ १८ ॥
यामि प्रेयसि वारिदागमदिने जानीहि मामागतं चिन्तां
चेतसि मा विधेहि कथयत्येवं सबाष्पे मयि । निःश्वासै
पवनायितं वरततोरङ्गैः कदम्बायितं कान्त्या केतकपत्रका-
यितमहो दृग्भ्या पयोदायितम् ॥ १९ ॥ यामीत्यप्रिय-
वादिनि प्रियतमे मुद्राम्रवत्कङ्कणं केलीसञ्चबहिर्गतेक्वचरणे
भूमौ शरीरस्थिति । अन्तर्धानगते पुनर्मृगदृशो वाच्या किमन्त्या
दशा लाजास्फोट इव स्फुटत्यविरलं हारोऽपि वामभ्रुव
॥ २० ॥ प्रस्थानं वलयैः कृतं प्रियसखैरसैरजस्रं गत धृत्या
न क्षणमासित व्यवसित चित्तेन गन्तुं पुरः । यातु निश्चित-
चेतसि प्रियतमे मर्वे समं प्रस्थिता गन्तव्ये सति जीवित-
प्रियसृहत्सार्थ किमु त्यज्यते ॥ २१ ॥ गच्छामीति मयो-
क्तया मुग्धदृशा निःश्वासमुद्रेकिण त्यंक्त्वा तिर्यगवेक्ष्य
बाष्पकलुषैणैकेन मा चक्षुषा । अद्य प्रेम मदर्पितं प्रियसखी-
वृन्दे त्वया बध्यतामित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रास-
माभाषित. ॥ २२ ॥ चिन्तामोहविनिश्चलेन मनसा मौनेन
पादटिप्पणी (Footnotes):
१ प्रवासगमनम् २ जागृना ३ अग्रिमकङ्कणानि ४ भग्नानि ५ कृशोन्गी ६ हरिणाक्ष्या
४२ सु र भा.
पादान्तः प्रत्याख्यानपराङ्मुख. प्रियतमो गन्तुं प्रवृत्तो-
३३० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
पादान्तः प्रत्याख्यानपराङ्मुख. प्रियतमो गन्तुं प्रवृत्तो- ऽधुना । सन्नीडैररसैर्निरन्तरलुठद्बाष्पाकुलैर्लोचनैः श्वासोत्कम्प- कुचं निरीक्ष्य सुचिरं जीवाशया वारित. ॥ २३ ॥ कान्तो यास्यति दूरदेशमिति मे चिन्ता परं जायते लोका- नन्दकरो हि चन्द्रवदने वैरायते चन्द्रमा । किं चायं वितनोति कोकिलकलालापो विलापोदय प्राणानेव हरन्ति हन्त नितरामाराममन्दानिला. ॥ २४ ॥
सखीं प्रति नायिकावाक्यम्
व्यो नव्यं स्वान्तं विषयतरलं हन्त सततं प्रियो दूरे देशे जनकनगरं दुर्लभतरम् । जनश्चायं दुष्टो भृशमिदमनर्थाय सततं कथंकारं पारं कथय सखि यामोऽस्य वयस. ॥ १ ॥ आयाता जलदावली सरभसं विद्युत्समालङ्गिता शैलाना परितः सशब्दमहिभुक्श्रेणी नरीनृत्यति । एवं सत्यपि हन्त सप्रति पतिर्देशान्तरं प्रस्थितस्तद्दुःखं विनिवेद्यता सखि कथं कस्याधुनाग्रे मया ॥ २ ॥
नायकं प्रति नायिकोक्तयः
गच्छ गच्छसि चेत्कान्त पन्थान. सन्तु ते शिवा. । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ १ ॥ न चिरं मम तोषाय तव यात्रा भविष्यति । यदि यास्यसि यातव्य- मलमाशङ्कयापि ते ॥ २ ॥ सहिष्ये विरहं नाथ देहहृश्या- शनं मम । यदक्तनेत्रा कन्दर्पः प्रहर्तुं मा न शक्ष्यति ॥ ३ ॥ प्राणेश विज्ञप्तिरियं मदीया तत्रैव नेया दिवसाः कियन्त. । सप्रत्ययोगव्यथितेरेष देश. करा हिमाशोरपि तापयन्ति ॥ ४ ॥ एतस्मिन्सहसा वसन्तसमये प्राणेश देशान्तरं गन्तुं त्वं यतसे तथापि न भयं तापात्प्रपेद्येऽधुना । यस्मा- त्कैरवसारसौरभमुषा साकं सरोवायुना चान्द्री दिक्षु विजृ- म्भते रजनिषु स्वच्छा मयूखच्छटा ॥ ५ ॥ लोलैर्लोचन- वारिभिश्च शपथैः पादप्रणामैः परैरन्यास्ता विनिवारयन्ति कृपणा. प्राणेश्वर प्रस्थितम् । पुण्याहं व्रज मङ्गलं सुदिवसः प्रातः प्रयात्यस्य यत्त्वत्स्नेहोचितमीहितं प्रिय मया त्वं निर्गतः श्रोष्यसि ॥ ६ ॥ मास्वाश्रुततरुर्गुरुर्मनसिजः कोऽप्येष भृङ्ग- स्तमो मन्दो गन्धवहः सितो मलयजो दोषाकरो माधव. । अङ्गारो नवपल्लवः परभृतो विज्ञो गुरोराज्ञया निर्यातोऽसि विचारिताः कथममी क्रूरा ग्रहा न त्वया ॥ ७ ॥ मा याहीत्यपमङ्गलं व्रज किल स्नेहेन शून्यं वचस्तिष्ठेति प्रभुता यथारुचि कुरुष्वैषाप्युदासीनता । नो जीवामि विना त्वयेति वचनं सम्भाव्यते वा न वा तन्मा शिक्षय नाथ यत्समु- चितं वक्तुं त्वयि प्रस्थिते ॥ ८ ॥
१ मयूरपङ्क्ति २ स्वमरणससूचनेन गमननिषेधो गर्भीकृत
नायकं प्रति सखीवाक्यम्
किमिति सखे परदेशे गमयसि दिवसान्धनाशया लुब्धः । वर्षति मौक्तिकनिकरं तव भवनद्वारि काञ्चनी वल्ली ॥ १ ॥ या बिम्बोष्ठरुचि. क्व विद्रुममणिः स्वप्नेऽपि तां लब्धवान् हासश्रीसदृशैस्तपोभिरपि किं मुक्ताफलैर्भूयते । तत्कान्तिः शतशोऽपि वह्निपतनैर्हेम्न कुत. सेत्स्यति त्यक्त्वा रत्नमयीं प्रयासि दयितां कस्मै धनायाधवन् ॥ २ ॥ उद्यद्वर्हिषि दुर्दि- रारवपुषि प्रक्षीणपान्थायुषि श्र्योतद्दिङ्मुखि चन्द्ररुङ्मृषि सखे हंसद्विषि प्रावृषि । मा मुञ्चोचकुचान्तसततगलद्बाष्पाकुला बालिका काले कालकरालनीलजलदव्यालुप्तभाखत्विषि ॥ ३ ॥ मा गच्छ प्रमदाप्रिय प्रियशतैरभ्यर्थितस्त्वं मया बाला प्राङ्गणमागतेन भवता प्राप्नोत्यवस्थां पराम् । किं चास्याः कुचभारनिःसहतैरङ्गै रनङ्गाकुलैश्च्युत्वकञ्चुकजालकै- रनुदिनं निःसूत्रमस्त्रद्वहम् ॥ ४ ॥
सखायं प्रति नायकोक्तिः
शेते शीतकरोऽम्बुजे कुवलयद्वन्द्वाद्दिनिर्गच्छति स्वच्छा मौक्तिकसंहतिर्घवलिमा हैमीं लतामञ्चति । स्पर्शात्पङ्कज- कोशयोरभिनवा यान्ति स्रजः क्तान्ततामेषोत्पातपरम्परा मम सखे यात्रास्पृहा कृन्तति ॥ १ ॥
नायिकां प्रति सखीवाक्यम्
वारंवारमुदश्रु लोचनयुगं पर्याकुलं जायते निःश्वासा विरमन्ति न क्षणममी व्याश्लिष्टदन्तच्छदाः । प्रस्थानश्रवणा- दपि प्रियतमस्याहो तवेयं स्थितिर्नो जाने निलयं गते तु दयिते कीदृग्दशामाप्स्यसि ॥ १ ॥
देशान्तरोपगतो नायकः
दिदृक्षमाणः क्षणमायताक्ष्या मुखाम्बुजं मञ्जुलमन्ध्व- नीनः । मुहूर्तमात्रं सुमुहूर्तकालं संवर्षकालं कलयांचकार ॥ १ ॥ निशम्य केलीभवनोपकण्ठे मञ्जीरमञ्जुध्वनिमध्व- नीन. । यथा तथा बद्धकथावशेषं समापयामास समं सुहृद्भिः ॥ २ ॥ मुखं प्रियायाः समुदीक्षमाण. कान्तो दिनस्या- न्तमपेक्षमाणः । मुहुर्मुहुर्व्योमनि तिग्मभानौ निवेशयामास विलोचने स्वे ॥ ३ ॥
वसन्तवर्णनम्
मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभिश्रियम् । अभुत वारितवारिजविप्लव स्फुटितताम्रलतौम्रवनं जगत्
१ विस्तीर्णम्
वसन्तवर्णनम् ३३१
॥ १ ॥ रणत्कङ्कणाना अणन्नूपुरणा चलत्कुण्डलाना कणत्किङ्किणीनाम् । वधूना मुखाम्भोरुह द्रष्टुकामो रथ मन्थरचक्रबन्धुश्चकार ॥ २ ॥ विकसितसहकारभारहारिपरिमलपुञ्जितगुञ्जितद्विरेफ । नवकिसलयचारुचामरश्रीर्हरति मुनेरपि मानस वसन्त ॥ ३ ॥
वसन्तसमयस्वभावाख्यानम्
कोकिलश्चतशिखरे मञ्जरीरेणुपिञ्जर । गदितैर्व्यक्ततामेतिकुलीनश्चेष्टितैरिव ॥ ४ ॥ परिचुम्बति सश्लिष्य भ्रमञ्चूतमञ्जरीम् । नवसगमसहृष्ट कामी प्रणयिनीमिव ॥ ५ ॥ आम्रेपल्लविते स्थित्वा कोकिला मधुरस्वरम् । चुकूज कामिनाचित्तमाकर्षन्तीव दूतिका ॥ ६ ॥ सुमगे कोटिसरूयत्यमुपेत्यमदनाशुगै । वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम् ॥ ७ ॥ पैतङ्गापाकसमये पतङ्गेपतिविक्रमाः । पैतङ्गासोदये चेलु. पैतङ्गा इव वानरा ॥ ८ ॥ सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते । मधुरमधुविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ ९ ॥ मलयानलमिलनोत्कटमदकलकलकण्ठकलकलाप. । मधुरमधुविधुरमधुपो मधुरयमधुना धिनोति धराम् ॥ १० ॥ किंशुककलिकांन्तर्गतमन्दुकलास्पर्धिकेसर भाति । रक्तनिचोलकपिहित धनुरिव जनुमुद्रितं वितनोः ॥ ११ ॥ आयातामधुरजनी मधुरजनीगीतिहृद्येयम् । अङ्कुरितः खरविटपीखर विट पीनस्तनीमबलाम् ॥ १२ ॥ अविरलकमलविकासः सकलालिमदश्च कोकलानन्दः । रम्योऽयमेति सप्रतिलोकोत्कण्ठाकर काल. ॥ १३ ॥ सपदि सखीभिर्निभृतंविरहवतीस्त्रातुमत्र भज्यन्ते । सहकारमञ्जरीणा शिखोद्गमग्रन्थयः प्रथमे ॥ १४ ॥ असौ मरुद्भिरुत्वतारुचेर्केसरप्रसन्नतार्राधिपमण्डलाग्रणीः । वियुत्कँरामातुरदृष्टिवीक्षितोवमन्तकालो हनुमानिवागतः ॥ १५ ॥ प्रसूनसङ्घैर्मकरन्दतोयं सलीलमादाय वसन्तकामी । वनस्थलीवामदृशामुखानि सिञ्चत्यसौ मन्दमरुत्करेण ॥ १६ ॥ व्यतीतकल्पेशिशिरैकवाल्ये सकल्पपुष्पोद्गमबन्धुराङ्गी । इयं लवङ्गीयुवभृङ्गमङ्गादुच्छूनगुच्छस्तनिकेव भाति ॥ १७ ॥ दत्तेजनोऽसौ खलु विद्यमानमविद्यमानं तु न कोऽपि तावत् ।वियोगिना पुष्पननश्रोक शोकप्रदोऽभूदितिचित्रमेतत्॥ १८ ॥ जगौ विवाहावसरे वनस्थलीवमन्तयो कामहुताशसाक्षिणि । पिकद्विज. प्रीतमना मनोरम सुहुर्मुहुर्मङ्गलमन्त्रमादरात् ॥ १९ ॥ रथस्थिताना परिवर्तनाय पुरातनाना-मिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमाना दिशि प्रतस्थेरविरुत्तरस्याम् ॥ २० ॥ आस्वादित स्वादुमरन्दबिन्दुम्बच्छन्दमिन्दीवरसुन्दरीभि. । माकन्दपुष्प प्रमदाजनस्यप्रमोदमामोदमरैरकार्षीत् ॥ २१ ॥ कुबेरगुप्ता दिशमुष्णरश्मौ गन्तु प्रवृत्ते समय विलङ्घ्य । दिग्दक्षिणा गन्धवहमुखेन व्यलीकनि श्वासमित्रोत्ससर्ज ॥ २२ ॥ असूत सद्यकुसुमान्यशोक स्कन्धात्प्रभृत्येव सपल्लवानि । पादेननापेक्षित सुन्दरीगा सपर्कमासिञ्जितनूपुरेण ॥ २३ ॥ सद्यःप्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतवाणे । निवेशयामाम मधुर्द्विरेफानामाक्षराणीव मनोभवस्य ॥ २४ ॥ वर्णप्रकर्षे सति कर्णिकार दुनोति निर्गन्धतया स्म चेतः ।प्रायेण मामग्र्यविधौ गुणाना पराङ्मुखी विश्वसृजः प्रवृत्ति॥ २५ ॥ बालेन्दुवक्राण्यविकासभावादृक्षु. पलाशान्यतिलोहितानि । सद्यो वमन्तेन समागताना नखक्षतानीववनस्थलीनाम् ॥ २६ ॥ लग्नद्विरेफाञ्जनभक्तिचित्र मुखेमधुश्रीस्तिलक प्रकाश्य । रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार ॥ २७ ॥ मृगा प्रियालद्रुममञ्जरीणारज कणैर्विघ्नितदृष्टिपाता । मदोद्धता. प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षा. ॥ २८ ॥ चूताङ्कुरास्वादकषायकण्ठ. पुस्कोकिलो यन्मधुर चुकूज । मनस्विनीमानविघातदक्ष तदेव जातं वचन स्मरस्य ॥ २९ ॥हिमव्यपायाद्विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम् ।स्वेदोद्गम किंपुरुषाङ्गनाना चक्रे पदं पत्रविशेषकेषु ॥ ३० ॥मधु द्विरेफ कुसुमँकपात्रे पपौ प्रिया स्वामनुवर्तमान ।शृङ्गेण च स्पृंग्निमीलिताक्षीं मृगीमकण्डूयत कृष्णसार॥ ३१ ॥ ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूषजलंकरेणुः । अर्धोपभुक्तेन विसेन जाया सभाययामास रथाङ्गनामा ॥ ३२ ॥ गीनान्तरेषु श्रमवारिलेगै किचित्समुच्छ्वासितपत्रलेखम् । पुष्पामवाघूर्णितनेत्रशोभि प्रियामुखं किंमुरुषश्चचुम्बे ॥ ३३ ॥ पर्याप्तपुष्पस्तबकस्तनाभ्य स्फुरत्प्रवालोष्ठमनोहराभ्य । लतावधूम्यस्तरवोऽप्यवापुर्विनम्रशाखामुजबन्धनानि ॥ ३४ ॥ न तज्जल यन्न सुचारुपङ्कज नपङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो नयो न गुञ्जित तन्न जहार यन्मन. ॥ ३५ ॥ कुसुमजन्मततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् । इति यथाक्रममाविरभून्मधुद्रुमतीमवतीर्य वनस्थलीम् ॥ ३६ ॥उपहित शिशिरापगमश्रिया मुकुलजालमशोभत किशुके ।प्रणयिनीव नखक्षतमण्डन प्रमदया मदयापितलज्जया॥ ३७ ॥ व्रणगुरुप्रमदाधरदु सहं जघननिर्विषयीकृतमेखलम् । न खलु तावदशेषमपोहितुं रविरल विरल कृतवान्
१ शालिविशेषस्य परिपाकमनये २ गरुडपराक्रम ३ सूर्यस्य ४ शलभा ५ पुनाग, पक्षे,-सटा ६ चन्द्रबिम्ब, पक्षे,-सुग्रीवस्य सेना ७ खी, पक्षे,-दशरथपुत्र
| ३३२ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

हिमम् ॥ ३८ ॥ अभिनयान्यरचेतुमिवोद्यता मलयमारुत- कम्पितपल्लवा । अमदयन्महकारलता मनः सकलिका कलिका- भजितामपि ॥ ३९ ॥ नयगुणोपचितामिव भूपतेः सदु- पकारफलां श्रियमर्थिनः । अभियायुः सरसो मधुसभृतां कमलिनीमलिनीरपतत्रिणः ॥ ४० ॥ कुसुममेव न केवल- मार्तवं नवमशोकतरोः स्मरदीपनम् । किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥ ४१ ॥ विर- चिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः । मधु- लिहा मधुदानविशारदा कुरबका रवकारणतां ययुः ॥ ४२ ॥ सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमो- द्गमः । मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ॥ ४३ ॥ प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्ध- वधूकथाः । सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥ ४४ ॥ श्रुतिसुखभ्रमरस्वनगीतयः कुसुम- कोमलदन्तरुचो बभुः । उपवानन्तलताः पवनाहृतैः किसलयैः सलयैरिव पाणिभिः ॥ ४५ ॥ ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् । पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवजितम् ॥ ४६ ॥ शुशुभिरे स्मित- चारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः । विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥ ४७ ॥ उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः । सदृश- मिससमागमनिवृतिं वनितयाऽनितया रजनीवधूः ॥ ४८ ॥ अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः । कुसुम- चापमतेजयदंशुभिर्हिमकरो मकरोजितकेतनम् ॥ ४९ ॥ हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् । युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥ ५० ॥ अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभि- रङ्कितः । न खलु शोभयति स्म वनस्थलीं न तिलकं तिलकः प्रमदामिव ॥ ५१ ॥ अमदयन्मधुगन्धसनाथा किसलयाधरसंततया मनः । कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ ५२ ॥ अरुणरागनिषेधिभि- रंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः । परभृताविरुतैश्च विला- सिनः स्मरबलैरबलैकरसाः कृताः ॥ ५३ ॥ उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी । सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ५४ ॥ ध्वजपटं मदनस्य धनुर्भृतश्छविकरं सुखचूर्णमृगुश्रियः । कुसुमकेसर- रेणुमणिप्रजा सपवनोपवनोत्थितमन्वयुः ॥ ५५ ॥ अनुभव- न्नवदोलमृतूत्सवं पदुरपि प्रियकण्ठजिघृक्षया । अनयदामन- रज्ज्वपरिग्रहे भुजलतां जलतामबलाजनः ॥५६॥ त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः । परभृताभिरितीव | निवेदिते स्मरमते रमते स्म वधूजनः ॥ ५७ ॥ नवपलाश- पलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्त- लतान्तमलोकयत्त सुरभिं सुरभिं सुमनोभरैः ॥ ५८ ॥ विलुलितालकसंहतिरागमन्मृगदृशां श्रमवारि ललाटजम् । तनुतरङ्गततिः सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥ ५९ ॥ स्फुटमिवोज्ज्वलकाञ्चनकान्तिभिर्युतमशोक मशोभत चम्पकैः । विरहिणां हृदयस्य भिदाभृतः कणिशितं पिशितं मदनाग्निना ॥ ६० ॥ स्मरहुताशनसंसुरचूर्णतां दधुरिवाग्र- वणस्य रजःकणाः । निपतिताः परितः पथिकव्रजानुपरि ते परितपुस्तनुतो भृशम् ॥ ६१॥ रतिपतिप्रहितेव कृतक्रुधां प्रियतमेव वधूरनुनार्थिका । बकुलपुष्परसासवपेशलध्वनिरगान्नििरगा- न्मधुपावलिः ॥ ६२ ॥ प्रियसखीमदशः प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया । प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादु- रयाचितमङ्गनाः ॥ ६३ ॥ मधुकरैरपवादकरैरिव स्मृतिभुवः पथिका हरिणा इव । कलतया वचसः परिवादिनीस्वर- जिता रजिता वशमाययुः ॥ ६४ ॥ समभिसृत्य रगादव- लम्बितं प्रमदया कुसुमावविचीषया । अवनमन्न रराज वृथोच्चकैरनृतया नृतया वनपादपः ॥ ६५॥ वदनसौरभलोभ- परिभ्रमद्भ्रमरसभृतसभृतशोभया । चलितया विदधे कल- मेखलाकलकलोऽलकलोलदृगान्नया ॥ ६६ ॥ कुसुमकार्मुक- कार्मुकसहितद्रुतशिलिमुखखण्डितविग्रहाः । मरणमप्यपराः प्रतिपेदिरे किमु सुहृत्सुसुहृद्गतभर्तृकाः ॥ ६७ ॥ मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया । मधुकरराङ्ग- नया मुहुरुन्मदध्वनिभृता निभृताक्षरसुजगरे ॥६८॥ अरुणि- ताखिलशैलवना मुहुर्विदधती पथिकान्परितापिनः । विकच- किंशुकसंहतिरुच्चकैरुदवहद्दवहद्वह्व्यवहश्रियम् ॥ ६९ ॥ कम- लिनी मलिनी दयितं विना न सहते सह तेन निषेवितुम् । तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥७०॥ सुहृदस्तरुणीनखक्षतानां प्रतिपक्षाः पथिकाङ्गनाजना- नाम् । दहनद्युतिदस्यवः समन्ताद्विपिने किंशुककुङ्मला विरेजुः ॥ ७१ ॥ किंशुकक्षितिरुहा विलसन्तः कुङ्कमलाः कुटिलतां कलयन्तः । पान्थवारणविदारणताम्राः कामकेसरिनखा इव रेजुः ॥ ७२ ॥ प्रस्फुरत्प्रचुरबालपल्लवा वीरुधश्च तर- लाश्चकाशिरे । क्रीडिता इव कुसुमभवारिभिः काममित्रसमये समागते ॥७३॥ कूजितानि कल्यन्वनप्रियो न प्रियो विरहि- णामजायत । मन्मथाग्निरपि भस्मना दरं सादरं मुनिमनो- ऽम्बुजं व्यधात् ॥ ७४ ॥ बकुलकुलमिलन्मिलिन्दमालामद- कलकोकिलकूजितोदयेन । अहह नियमिनोऽपि तत्त्वचि- न्ताच्युतमतयो मतयोषितो बभूवुः ॥ ७५ ॥ कुसुमनग- वनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् । कण-
१ तुषाभि
२ पुष्पावचय कर्तुमीषितया
वसन्तवर्णनम् ३३३
दलिकुलनूपुर निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥७६॥
विकमितकुसुमाधर हमन्तीं कुरबकराजिवधू विलोकयन्तम्।
ददृशुरिव सुराङ्गना निष्षण्णं सशरमनङ्गमशोकपल्लवेषु ॥ ७७ ॥
मुहुर्मुहुःपतता विधूयमानं विरचितसंहति दक्षिणा-
निलेन । अलिकुलममकाकृति प्रपेदे नलिनमुखान्तविसर्पि
पङ्कजिन्या ॥ ७८ ॥
श्वसनचलितपल्लवाधरोष्ठ नवनिहिते-
र्ण्यमिवावधूनयन्ती । मधुसुरभिणि षट्पदेन पुष्पे मुख इव
शाललता मधुञ्चुम्बे ॥ ७९ ॥
उत्सृष्टमन्मथजहामिव मान-
रत्नमादाय षट्पदतिलानमधुवारिपूरान् । पुस्कोकिलस्य कल-
कूजितकैतवेन सकल्पवाक्यमयमयातनुते रसाल. ॥ ८० ॥
उत्फुल्लपङ्कजनिषक्तलसद्द्विरेफ किञ्चिद्विनिद्रकुसुमोत्कर-
सम्भृतश्री । आमूलनम्द्रविविधाहृतमाल्यमालश्चित्रं न कस्य
तनुते ललितस्तमालः ॥ ८१ ॥
धुन्वन्त्यमूनि मदमूर्च्छदलि-
ध्वनीनि यूताधनीनहृदयानि मवोर्दिनानि । निस्तन्द्रचन्द्र-
वदनावदनादविन्दसौरभ्यमौहृदसगर्भसमीरशानि ॥ ८२ ॥
कुपितापि मंन पतिना सह का सहकारविलोक्नजातग्मा ।
तरसा रमते स्म न हा रमणी रमणीयतनु सुतनु सुरभौ ॥ ८३ ॥
स्थलकमलतरूणा कामिनीलोचनेषु क्षिपति
मुकुलमुग्ध्या धूलिजालं विशालम् । तदनु हरति हन्त
स्वान्तमर्वस्वमासामयनयनविद्ग्धो धूर्तमन्मीनकेतुः ॥ ८४ ॥
पथि पथि शुकचञ्चूचारुराभाङ्कराणा दिशि दिशि पवमानो
वीरुधा लामकञ्च । नरि नरि किरति द्राक्सायकान्पुष्पधन्वा
पुरि पुरि विनिवृत्ता मानिनीमानचर्चा ॥ ८५ ॥
इह मधुप-
वधूना पीतमल्लीमधूना विलसति कमनीय कौकलीसप्र-
दायः । इह नटति सलीलं मञ्जरी वञ्जुलस्य प्रतिपदमुप-
दिष्टा दक्षिणेनानिलैन ॥ ८६ ॥
विकसति सहकारे स्फार-
सौरभ्यसारे वहति वुतपतीरे मन्दमन्द समीरे । कलयति
कलवाचं कोकिलोकोऽपि रुष्टः क्षणमपि न मृगाक्ष्या वल्लभो
दुर्लभोऽभूत् ॥ ८७ ॥
इह हि नववसन्ते मञ्जरीरेणुपुञ्ज-
च्छुरणधवलदेहा बद्धहेलं सरन्ति । तरलमलिसमूहा हारि-
हुंकारिकण्ठा बहलपरिमलालीसुन्दरं सिन्दुवारम् ॥ ८८ ॥
स्थाने स्थाने मलयमरुतः पूरयन्त्यङ्गपाली पुष्पालीषु खर-
गजरज ज्ञानयोग्याः परागाः । जातं चूते मधु मधुकश्प्रेयसी-
जानुदघ्नं निर्विघ्नत्वं सपदि भवते रागराज्याभिषेक. ॥ ८९ ॥
प्रसूनकलिकाकुलै. किसलयैः करस्पर्धिभि स्फुरन्मधुमदभ्र-
मद्भ्रमरकोकिलाकूजितैः । इति क्रमसमुद्गतैरुपवनावली-
मण्डलीममण्डयदवि प्रयामृतवसुंधरावलभ. ॥ ९० ॥
विलासिनिरिवोन्मदै रचितगम्यगुञ्जारवै. प्रसूनसुरभीकृतै-
र्विंगलितत्रपास्तापसाः । अशोकशिखरस्थितैः सुनयनान्वितैः
षट्पदैर्निरन्तरानिशेवितामितमधौ मधौ शमीरे ॥ ९१ ॥
मन्दोऽयं मलयानल किसलयं चूतद्रुमाणा नवं माध्वत्को-
किलकूजित विचकिलामोदः पुराणं मधु । वाणानित्युपदी-
करोति सुरभि पञ्चैव पञ्चेषवे यूनामिन्द्रियपञ्चकस्य युगप-
त्समोहसङ्गादिनः ॥ ९२ ॥
उद्यद्द्विद्रुमकान्तिभिः किसलयै-
स्ताम्रा न्विषं बिभ्रतो भृङ्गालीविरुतैः कलेरविशदव्याहार
लीलाभृत । भ्राम्यन्तो मलयानििलाहतिचलैः शाखासहस्रै-
र्मुहुर्भ्रान्ति प्राप्य मधुप्रसङ्गमधुना मत्ता इवामी द्रुमा ॥९३॥
चूताना चिरनिर्गतापि कलिका बध्नाति न स्व रज सनद्ध
यदपि स्थित कुरवक तत्कोश्कावस्थया । कण्ठेषु स्खलितं
गतेऽपि शिशिरे पुस्कोकिलाना रुत शङ्के संहरति खरोऽपि
चकितस्तूणार्र्धकृष्टं शरम् ॥ ९४ ॥
पुष्पाणि प्रथमं तत·
प्रकटिताः स्वान्तोन्मवा पल्लवा पश्चादुन्मदकोकिलालि-
ललनाकोलाहल कोमल । इत्थ प्रादुरभूदपेल्य परित
प्राज्यप्रमोदप्रदः प्रोद्दामद्रुमगजिग्जितवनक्षोणीमृदुष्मापतिः ॥ ९५ ॥
स्तोत्रं चैत्रगुणोदयस्य विगहिपाणप्रपाणनकट-
कार खरकार्मुकस्य सुदृशा शृङ्गारशिक्षागुरुः । दोलाकेलि-
कलासु मङ्गलपदं वन्दी वनान्तश्रिया नादोऽय कलकण्ठ-
कण्ठकुहरेप्रेङ्खोलित श्रूयते ॥ ९६ ॥
माकन्दच्युतपुष्परेणु-
पंटलीकुक्षालवालोदरे मन्दस्यन्दिमरन्दपूरभरिते वातोत्थपु-
ष्पप्लवै. । खेलन्तो ललित मधोर्गुणगणान्यान्यन्ति पुंष्पधयाः
कान्तानामधरे धयन्ति मधुर मक्त मंधूलीरसम् ॥ ९७ ॥
आरूढो मलयानलद्विपवर युक्तो विलासानुगैः पीत.
पुष्यविलोचनैर्नवलतापौराङ्गनाना गणैः । अत्राम्यद्वनपत्तने
मधुमहीपालस्तत. कोकिलालीलालापमिलद्बमद्भ्रमरिकाभा-
ङ्कारभेरीरवै. ॥ ९८ ॥
वारस्त्रीव वनस्थली नवनवा शोभा
बभारान्वह पान्थान्पीडयति स्म तस्कर इव क्रूरैः शरैर्मन्मथः ।
शृङ्गार. सगुण क्षमापतिरिव प्राप्त. प्रतिष्ठा परा रात्रिः
स्वीकुरुते स्म मुग्धललनालेजेव कार्श्य क्रमात् ॥ ९९ ॥
साम्य सम्प्रति सेवते विचैकिल षाण्मासिकैर्मौक्तिकैर्बाहीकी
दशनव्रणारुणतरै. पञ्चैरशोकश्रितः । भृङ्गालङ्कितकोटि किशु-
कमिद किञ्चिद्विन्द्वन्तायते माञ्जिष्ठस्तबकैश्च पाटलितरोरन्यैव
कींचिल्लिपिः ॥ १०० ॥
गर्भग्रन्थिषु वीरुधा सुमनसो मध्ये-
ऽङ्कुर पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूक्ण्ठोदरे पञ्चम. ।
कि च त्रीणि जगन्ति जिष्णु दिवसैर्द्वित्रेर्मनोजन्यनो
देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्य धनु ॥ १०१ ॥
मदनपूजा
कुसुमसुकुमारमूर्त्तिर्दधती नियमेन तनुतरं मध्यम् ।
आभाति मकरकेतोः पार्श्वस्था चापयष्टिरिव ॥ १०२ ॥
पादटिप्पण्यः (Footnotes):
प्रथमस्तम्भः (Column 1):
१ अतिप्रियेण २ मृदुगुञ्जित ३ आम्रवृक्षे
द्वितीयस्तम्भः (Column 2):
१ प्रवालम् २ पल्लवै ३ आन्दोलित ४ आम्र ५ समूह
६ भ्रमरा ७ पिबन्ति ८ मकरन्दम् ९ मदनाख्यतरुकुसुमम्
१० रचना ११ लतानाम्
| ३३४ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |

कुसुमावचयः
निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि ।
नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी ॥ १०३ ॥
असंख्यपुष्पोऽपि मनोभवस्य पञ्चैव बाणार्थमय ददाति ।
एवं कदर्यत्वमिवावधार्य सर्वस्वमग्राहि मधोर्विभूति. ॥ १०४ ॥
अताडयत्पल्लवपाणिनेकं पुष्पोच्चये राजवधू-
रशोकम् । तच्छेदहेतोरलिपाङ्क्तिभङ्ग्या विकुन्तिता बाललता
स्मरेण ॥ १०५ ॥
अन्यत्र यूयं कुसुमावचायं कुरुध्वम-
त्रास्मि करोमि सख्यः । नाहं हि दूर भ्रमितु समर्था
प्रसीदतायं रचितोऽञ्जलिर्वः ॥ १०६ ॥
उचित्य प्रथमम-
वस्थितं मृगाक्षी पुष्पौघ श्रितविटपं ग्रहीतुकामा । आरोहुं
पदमदधादशोकयथावामूलं पुनरपि तेन पुष्पिता सा
॥ १०७ ॥
मुखकमलकुसुन्नमय्य यूना यदभिनवोढवधू-
र्बलादचुम्बि । तदपि न किल बालपल्लवाग्रग्रहपरया विविदे
विदग्धसख्या ॥ १०८ ॥
व्रततिविततिभिस्तिरोहिताया
प्रतियुवतौ वदन प्रियः प्रियाया । यदधयदधरावलोपकृत्य-
त्करवलयस्वनितेन तद्विवत्रे ॥ १०९ ॥
विलसितमनुकुर्वती
पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः । रमणमृजुतया पुरः
सखीनामकलितचापलदोषमालिङ्ग ॥ ११० ॥
सललित-
मवलम्ब्य पाणिनासे सहचरमुत्प्लुत्युच्छवाञ्छ्यान्त्या ।
सकल कलभकुम्भविभ्रमाभ्यामुरसि रसादवतरे स्तनाभ्याम्
॥ १११ ॥
मृदुचरणतलाग्रदुःस्थितत्वादसहता कुच-
कुम्भोर्मरस्य । उपरि निरवलम्बन प्रियस्य न्यपतद्योच-
तरोच्चिचीषयान्त्या ॥ ११२ ॥
उपरिजतरुजानि याचमाना
कुशलतया परिरम्भलोलुपोऽन्यः । प्रथितपृथुपयोधरा गृहाण
स्वयमिति मुग्धवधूमूदास दोर्भ्याम् ॥ ११३ ॥
इदमइद-
मिति भूरूहा प्रसूनैर्मुहुरतिलोभयता पुरः पुरोऽन्या ।
अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः
॥ ११४ ॥
विजनमिति बलाद्मं गृहीत्वा क्षणमथ वीक्ष्य
विपक्षमुक्तिकेऽन्यः । अभिपतितुमना लघूत्वभीतेरमवदसु-
श्वति वल्लभेऽतिगुर्वी ॥ ११५ ॥
पूर्वं द्विरेफपरिभूतिमया-
द्भवत्या यत्केशपुष्पभरण हरिणाक्षि मुक्तम् । व्यर्थ तदद्य
पुनरप्यलकेषु भृङ्गाः पुञ्जीभवन्निजकुलभ्रमतः पतन्ति
॥ ११६ ॥
सन्तु द्रुमाः किसलयोत्तरपुष्पभाराः प्राप्ते वस-
न्तसमये कथमित्थमेव । न्यासैर्नवद्युतिमतो. पदयोस्तवेय
भू. पुष्पिता सुतनु पल्लवितेव भाति ॥ ११७ ॥
अनुभवत
युवत्यो भाग्यवत्यो नितान्त कुसुमवलयवेलासङ्गखेलासु-
खानि । मम तु मधुकराणा वाटपाटचराणा सपदि पतति
घाटी पुष्पवाटीनिवेशे ॥ ११८ ॥
पाणौ पद्माधिया
मधूककुसुमभ्रान्त्या तथा गण्डयोर्नीलेन्दीवरशङ्कया नय-
नयोर्बन्धूकबुद्ध्याधरे । लीयन्ते कबरीभरे निजकुल-
व्यामोहजातस्पृहा दुर्बारा मधुपाः कियन्ति तरुणि स्थानानि
रक्षिष्यसि ॥ ११९ ॥
वसन्तवायवः
यथायथ ताः सहिता नभश्चरै. प्रभाभिरुद्भासित-
गेलवीरुध. । वनं विशन्त्यो वनजायतेक्षणा क्षणद्युतीना
दधुरेकरूपताम् ॥ १२० ॥
विनयति सुदृशो दृशः परागं
प्रणयिनि कौसुममाननाननेिलेन । तदहितयुवतेरभीक्षणमक्ष्णो-
र्द्वयमपि रोषरजोभिरापुपूरे ॥ १२१ ॥
स्फुटमिदमभिचार-
मन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् । वरतनुरसुनोपहृत्य
पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ॥ १२२ ॥
विपुल-
कमपि यौवनोद्धताना घनपुलकोदयकोमल चकाशे ।
परिमलिनमपि प्रिये. प्रकाम कुचयुगमुज्ज्वलमेव कामिनी-
नाम् ॥ १२३ ॥
हिमलवसदृशः श्रमोदविन्दूनपनयता
किल नूतनोढवध्वाः । कुचकलशकिशोरकौ कथंचित्तरलतया
तरुणेन पस्पृशाते ॥ १२४ ॥
समदनमवतसितेऽधिकर्णं
प्रणयवता कुसुमे सुमध्यमाया । व्रजदपि लघुता बभूव
भार सपदि हिरण्मयमण्डन सपढ्या ॥ १२५ ॥
अति-
मन्दचन्दनमहीधरवात स्तवकाभिरामलतिकातरुजातम् ।
अपि तापसानुपवनं मदनान्तमदमजुगुञ्जलदलिपुञ्जमकार्षीत्
॥ १२६ ॥
उपवनतरुनृत्याध्यापने लब्धवर्णो विरचित-
जलकेलि पद्मिनीकामिनीभिः । प्रियसहृदसमायोगयद्यौ योगि-
योगस्थितिविदलवदक्षो दक्षिणो गन्धवाहः ॥ १२७ ॥
आलिङ्गन्ते मैलयजतरूनासञ्जन्ते वनान्तानापृच्छन्ते चिर-
परिचितान्माल्यान्निर्झरौघान् । अथ स्थित्वा द्रविडमहिला-
भ्यन्तरे श्व प्रभाते प्रस्थातारो मलयमरुतः कुर्वते सनिधा-
नम् ॥ १२८ ॥
लताकुञ्जं गुञ्जन्मदवदलिपुञ्जं चपलयन्
समालङ्गिन्नाङ्गं द्रुततरमनङ्गं प्रबलयन् । मरुन्मन्दं मन्दं
दलितमरविन्दं तरलयन्सजोवृन्दं विन्दन्किरति मकरन्दं दिशि
दिशि ॥ १२९ ॥
मलयशिखरादाकैलास मनोभवशास-
नाद्धुवनवलयं जेतु वाञ्छन्वसन्तसमीरण. । विहितवसति
कैलासाग्रे भुजङ्गधर हर मनसि विमृशन्भीत. शङ्के प्रयाति
शनैः शनै. ॥ १३० ॥
पथि पथि लतालोलाक्षीमि. सवन्मधु-
सीकर कुसुमनिकर वर्षन्तीभिः सहर्षमिवार्चित. । मधु-
करवधुगीतासक्तं कुरङ्कमास्थितः प्रसरति वने मन्द मन्दं
वसन्तसमीरण ॥ १३१ ॥
उद्दश्चत्कावेरीलहरिषु परिष्वङ्ग-
रङ्गे नटन्त. कुतूकण्ठीकण्ठीरवखलवत्रासितश्रोषितेभाः ।
अमी चैत्रे मैत्रावरुणितरुणीकेलिकङ्केल्लिमल्लीचलद्वल्लीहल्ली-
सकसुरमयश्रण्डि चञ्चन्ति वाताः ॥ १३२ ॥
हेमाम्भोरुह-
पत्तने परिमलस्तेयी वसन्तानिलस्तत्रत्यैरिव यामिकैर्मधु-
करैरारब्धकोलाहल । निर्यातम्वरया व्रजन्निपतितः श्रीखण्ड-
१ मलयसवल्यिन
२ मैत्रविस्फूर्जित(वृत्तम्
वसन्तवर्णनम्, ग्रीष्मवर्णनम् | ३३५
पङ्कद्रवैर्लिंप्ते केरलकामिनीकुचतटे खञ्ज. शनैर्गच्छति ॥ १३३ ॥ प्रातः प्राज्यमिव श्रमं जलजिनी- सौरभ्यभारं वहन्वृद्धामस्त्वकमानमन्नवलतालक्ष्मीमिवालोकयन् । स्वीकुर्वन्मदमन्थरानिव गतेर्वामभ्रुवा विभ्रमान्मन्दं मन्द- मुपाजगाम पवन पाटीरवाटीतटात् ॥१३४॥ पानीयं नारि- केलीफलकुहरकुहूत्कारि कल्लोलयन्त कावेरीतीरतालद्रुम- भरितसुराभाण्डभाङ्कारचण्डाः । एते तन्वन्ति वेलावनललित- लताताण्डवं द्राविडीकर्पूरापाण्डुगण्डस्थलुलुठितरया वायवो दाक्षिणात्याः ॥ १३५ ॥ कावेरीतीरभूमौ रहसि भुजगवधू- मुक्तमुक्तावशिष्ट. कर्णीटीचीनपीनस्तनवसनदशान्दोलनस्पन्द- मन्द. । लोलह्लाटीलतालालकललितलतालास्यलीलाविलोलः कष्टं भो दाक्षिणात्य. प्रसरति पवनः पान्थकान्ताकृतान्तः ॥ १३६ ॥ ये दोलाकेलिकारा. किमपि मृगदृशा मानतन्तु- च्छिदो ये सद्य. शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रयेऽपि । ते कण्ठे लोठयन्त. परभृतवयसा पञ्चमं रागराजं वान्ति स्वैरं समीरा. स्मरविजयमहासाक्षिणो दाक्षिणात्याः ॥ १३७ ॥
वसन्तपथिकाः
वक्रेण शिरसि पतता नित्यं रुधिरारुणेन दुर्वार. । मत्त- द्विप इव पथिक. किंशुककुसुमाङ्कुशेन भृतः ॥ १३८ ॥ समवलोक्य विलासवमस्थलीं न पथिकैः पथि कैः पतितं भुवि । मलयजद्रुममौरभमेदुरोदरसमीरसमीरितवल्लरीम् ॥ १३९ ॥ वसन्तप्रारम्भे चिरविरहखिन्ना सहचरी यदि प्राणान्मुञ्चेत्तदिह वधभागी भवति कः । वयो वा स्नेहो वा कुसुमविशिखो वेति विमृशंस्तैहीति प्रव्यक्तं पिकनिकर- झाङ्कारमशृणोत् ॥ १४० ॥ रे पान्था. स्वगृहाणि गच्छत सुखं सेवाक्षणो मुच्यता मानं मानिनि मुञ्च वल्लभजने कोषानुबन्धेन किम् । आयात: कुसुमैकभरः क्षपयति प्राणा- न्वियोगातुरेण्वित्येवं परपुष्टनादपटहो वक्तीव कामाज्ञया ॥ १४१ ॥ सा तन्वीति धनस्तनीति विकसन्नीलाब्जनेत्रेति चं स्वैरं सचरतीति वक्ति मधुरां वाचं विचित्रामपि । इत्थं विद्रुमपाटलाधरपुटा सीमन्तिनी ध्यायतो रोमाञ्चो रुदितं स्मितं प्रलपितं पान्थस्य सजायते ॥ १४२ ॥ अध्वन्यस्य वधूर्वियोगविधुरा भर्तु. स्मरन्ती यदि प्राणानुज्झति कस्य तत्खलु महत्सजायते पातकम् । यावन्नो कृतमध्यगेन हृदये तावत्तरोर्मूर्धनि प्रोद्बुद्धं परपुष्टया तव तवेत्युच्चैर्वचोऽनेकदा. ॥१४३॥ उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुरक्रीडत्को- किलकाकलीकलकलैरुद्दीर्णकर्णज्वरा. । नीयन्ते पथिकै. कथं कथमपि ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ १४४ ॥ अध्वन्यैर्मकरन्दशीकरसुरामत्तभ्रमत्को-
किले मार्गे मार्गनिरोधिनी परिहृता शङ्केऽशुभाशङ्कया । पान्थस्त्रीवधपातकादुपनतं चण्डालचिह्नं मयोरेखा ^१खिङ्गिणि- केव षट्पदमयी झाङ्कारिणी सहति. ॥ १४५ ॥ सव्याधे. कृशता क्षतस्य रुविर दृष्टस्य लालामृति. किंचिन्नैतदिहास्ति तत्कथममौ पान्थस्तपस्वी मृत. । आ ज्ञात मधुलम्पटैर्मधुकरै- रारब्धकोलाहले नून साहसिकेन चूतमुकुले दृष्टि. समारोपिता ॥ १४६ ॥ एतस्मिन्दक्षिणागानिलचलितलतालीनमत्तालि- मालापक्षक्षोभावधूतच्युतबहुलरजोह्लादिदृष्टे वसन्ते । प्रेम- खेदांग्रबाहुश्वथवलयलसत्प्रौढसीमन्तिनीना मन्दः कण्ठ- ग्रहोऽपि ग्लपयति हृदयं किं पुनर्विप्रयोगः ॥ १४७ ॥
ग्रीष्मवर्णनम्
रेजे पुष्पैर्ग्रीष्ममामाद्य मल्ल मल्ल सद्यः संश्रयन्ते स्म भृङ्गा. । भृङ्गैस्तत्रारम्भि हर्षेण गानं गाने लौल्यं लेभिरे योगिनोऽपि ॥ १ ॥ अत्युल्लसद्विसरहस्ययुजा भुजेन वक्त्रेण शारदसुवाशुसरोरुहेण । पीयूषपोषसुभगेन च भाषितेन त्वं चेत्प्रसीदसि मृगाक्षि कुतो निदाघः ॥ २ ॥
ग्रीष्मसमयस्वभावव्याख्यानम्
प्रतिगतमर्थिजनाना विच्छिन्नाशं समूहभवलोक्य । स्फुटि- तमपयसस्तापादिव हृदयमलं तडागस्य ॥ ३ ॥ सुभगसलिला- वगाहाः पाटलसंसर्गसुरभिवनवाताः । प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ ४ ॥ देशे देशे जेडिमकुरङ्गा- स्तेजोभलैर्दिनकरभिले । धांवं धावं प्रहरति राज्ञा धारागेहं शरणमवापु ॥ ५ ॥ सजातपत्रैर्ब्रकरान्वितानि समुद्वहन्ति स्फुटपाटलत्वम् । विर्कस्वरान्यर्ककराभिमर्शान्दिनानि पद्मानि च वृद्धिमीयुँ. ॥ ६ ॥ प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदाव- गाहक्षतवारिसचय. । दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघ- कालोऽयमुपागतः प्रिये ॥ ७ ॥ दुःप्रेक्ष्यमुच्चैर्गगनं निदाघे कोपाकुलसेव मुखं नृपस्य । हरेः शयानस्य मृणालबुद्ध्या कर्षन्ति पुच्छं करिणः करेण ॥ ८ ॥ प्रायश्चरित्वा वसुधामशेषा छायासु विश्रम्य ततस्तरूणाम् । प्रौढि गते सप्रति तिग्मंभानौ शैत्यं शनैरन्तर्रपामियासीत् ॥ ९ ॥ रवि- तुरङ्गतनूरुहतुल्यता दधति यत्र शिरीषरजो रुच. । उपययौ विदधन्नवमल्लिकाः शुचिरसौ विरसौरभसपदः ॥१०॥ दलित- कोमलपाटलकुञ्जले निजवधूश्वसितानुविधायिनि । मरुति वाति विलासिभिरुन्मदभ्रमदलै मदलौल्यमुपाददे ॥ ११ ॥
पादटिप्पणी:
१ तुहीति हिन्दुस्थानीभाषया त्वमेवेत्यर्थे
२ वसन्तर्तुं
३ पान्य
१ चण्डालवल्लकी
२ हिमा-येव कुरङ्गा मृगा
३ धावित्वा धावित्वा
४ समूहा
५ वृक्षविशेष, पक्षे,-पाटलवर्णानि
६ भासुराणि; पक्षे,-विकासशालीनि
७ आपु
८ हेमन्ते इत्यर्थे
९ वसन्ते इत्यर्थे
१० ग्रीष्मे
११ जलानाम्
३३६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
निदधिरे दयितोरसि तत्क्षणस्नपनवारितुषारभृतस्तनाः। सरस- चन्दनरेणुरनुक्षणं विचकरे न करेण वगेरुभिः ॥ १२ ॥ कथमिव तत्र समतिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य । इति विरचितमल्लिकाविकास. स्मयत इव स्म मधुं निदाघ- कालः ॥ १३ ॥ बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय । भुवनपरिभवी न यत्तदानी तमृतुगणः क्षण- सुन्मनीचकार ॥ १४ ॥ अपि शिशिरतरोपचारयोग्य द्वितय- मिद युगपन्न सङ्गमेव । जरठितरविदीधितिश्च कालो दयित- जनेन सम च विप्रयोगः ॥ १५ ॥ तप्ता महीं विरहिणा- मिव चित्तवृत्तिस्तृष्णाधवेषु कृपणेण्विव वृद्धिमेति । सूर्य- करैर्दहति दुर्वचनै. खलो नु छाया सतीव न विमुञ्चति पाद- मूलम् ॥ १६ ॥ छाया वियोगिजनितेव गता कृशत्वं तप्तं पय. पिशुनमानसवद्वभूव । केनाधुना बत मनागवलोकनीयः कुद्धोत्तमर्णमुखमण्डलवत्यतङ्ग. ॥ १७ ॥ रिक्तेषु वारि कथया विपिनोदरेषु मध्याह्नजृम्भितमहातपतापतप्ताः । स्कन्धान्तरोत्थितदवाग्निशिखाच्छलेन जिह्वा प्रसार्य तरवो जलमर्थयन्ते ॥ १८ ॥ सुखकृतबिसखण्डखण्डमार्तण्डतापा- त्सितजलजलतल्थो राजते राजहंसः । रजतघट इवाय विद्रुमाबद्धधाराविवरविगलदम्बुः कम्बुकण्ठि प्रतीहि ॥ १९ ॥ रजनिचरमयामेष्यादिशन्ती रतेच्छा किमपि कठिनयन्ती नालिकेरीफलाम्भः । अपि परिणमयित्री राजरम्भाफलाना दिनपरिणतिभोग्या वर्तते ग्रीष्मलक्ष्मीः ॥ २० ॥ निजा कायच्छाया श्रयति महिषः कर्दमधिया च्युतं गुञ्जापुञ्जं रुधिर- मिति काक. कलयति । समुत्सर्पन्सर्पः सुशिरविवर ताप- विवशः सचीत्कारारधूतं प्रविशति कर कुञ्जरपते. ॥२१॥ तदा- त्वस्नाताना दरदलितमल्लीमुकुलिता• सजो बिभ्राणाना मलय- जरसार्द्रीर्द्रवपुषाम् । निदाघामिप्लोषप्लपितमभिसार्य मृगदृशा परिष्वङ्गोऽनङ्गं पुनरपि शनैरङ्कुरयति ॥ २२ ॥ जलाद्री शष्पाणा बिसकिसलयैः केलिवलयाः शिरीषैरुत्तंसा विचकिल- मयी हाररचना । शुचावेणाक्षीणा मलयजरसार्द्रीश्च तनवो विना तन्त्रं मन्त्रं रतिरमणमृत्युंजयविधिः ॥ २३ ॥ हरन्ति हृदयानि यच्छ्रवणशीतला वेणवो यदर्दर्ति केरम्बिता शिशिरवायुना वारुणी । भवन्ति च हिमोपमाः स्तनभवो यदे- णीदृशो रुचेरुपरि संस्थितो रतिपतेः प्रसादो गुरुः ॥ २४ ॥ मूलं बालकवीरुधा सुरभयो जातीतरूणा त्वचः सारश्चन्दन- शाखिना किसलयान्यार्द्राण्यशोकस्य च । शैरीषी कुसुमो- न्नति. परिणमन्मोचश्च सोऽयं गणो ग्रीष्मेणोष्महर. पुरा किल ददे दग्धाय पञ्चेषवे ॥ २५ ॥ अङ्गारैः खचितेव भूर्वियदपि ज्वालाकराल करैस्तिग्माशोः किरतीव तीव्रम- भितो वायुः कुकूलानलम् । अप्यम्भांसि नखंपचानि सरि- तामाशा ज्वलन्तीव च ग्रीष्मेऽस्मिन्नवहिद्विदीपितमिवाशेष जगद्वर्तते ॥ २६ ॥ पाश्चात्यैर्मरुमारुतैस्त्रिजगतामुन्मूलयन्ना- र्द्रता दावाग्निर्ज्वलितैरपारगहानान्यप्यानयन्भस्मसाम् । वात्या- भिस्तुणपत्रधूलिनिकरान्धुन्वन्विहाय स्थले ग्रीष्म. शुष्य- दपुच्छपल्वललुठन्मत्स्य. समभ्यागत. ॥ २७ ॥ अत्यच्छं सितमंशुकं शुचि मधु क्षामोदमच्छं रज. कर्पूर विधृतार्द्र- चन्दनकुचद्वन्द्वा. कुरङ्गीदृश. । धारावेश्म सपाटलं विचकिल- स्रग्दाम चन्द्रत्विषो धातः सुस्थिरियं वृथैव तव न ग्रीष्मो- ऽभविष्यद्यदि ॥ २८ ॥ माकन्दद्रुममञजरीषु वसतिस्तत्पल्लवै- र्वर्तनं सा नो मञ्जुलता वच.सु मधुना सर्व सह प्रस्थितम् । एतत्तिष्ठतु दु श्रवं मृदुदृदा निःस्वामिनस्तत्सखे प्रोन्मीलत्क- रुणो द्विजोऽयमिति हि त्वं ग्रीष्म मुष्णासि न. ॥२९॥ कानि स्थानानि दग्धान्यतिशयगहनाः सन्ति के वा प्रदेशा. किं वा शेषं वनस्य स्थितमिति पवनासङ्गविस्पष्टतेजाः । चण्डज्वाला- वलीढस्फुटिततनुलाग्रन्थिमुक्ताट्टहासो दावाग्नि. । शुष्कवृक्षे शिखरिणि गहनेऽधिष्ठित. पश्यतीव ॥ ३० ॥ बाले मालेय- मुच्चैर्न भवति गगनव्यापिनी नीरदाना कि त्व पक्ष्मान्तवान्तैर्र्म- लिनयसि सुधा वक्रमश्रुप्रवाहैः । एषा प्रोद्धृत्तमत्तद्विपकटंकष- णक्षुण्णविन्ध्योफ्लाना दावाग्ने. सप्रवृद्धा मलिनयति दिशा मण्डलं धूमलेखा ॥३१॥ स्फीतं शीतं गतं क्व क्व शिशिरकि- रणः क्कास्ति हेमन्तमासः कैते पानीयपूर्णा मलिनजलधरा. क्वाच विद्युत्प्रमोदः । इत्युच्चैर्जल्पमानैरिव मुखरमुखैर्भिह्नितैरुपेतो वातौघश्वागतोऽसौ प्रकटितविजयस्तम्भचिह्नौर्निदाघः ॥ ३२ ॥
मध्याह्नः
एष सूर्याशुसतप्तो मृगः कुतरुमाश्रितः । साधुर्माग्यपरि- क्षी णो नीचं प्राप्येव सीदति ॥ ३३ ॥ मध्याह्ने नूनमापो- ऽपि तिग्मतापोपशान्तये । दधुः कमलिनीपत्रमानपत्रमिवोपरि ॥ ३४ ॥ दुःसहसंतापभयात्सप्रति मध्यस्थिते दिवसनाथे । छायामिव वाञ्छन्ती छायापि गता तहतलानि ॥ ३५ ॥ रवेर्मयूखैरभितापितो भृश विदह्यमानः पथि तप्तपांसुभि. । अवाक्फणो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषी- दति ॥३६॥ अस्मद्रिपूणामनिलाशनाना दत्तो निवासः खलु चन्दनेन । इतीव रोषाद्यजनस्य वायुर्व्यशोषयच्चन्दनमङ्गसस्थम् ॥३७॥ स्पृशति तिग्ममचौ ककुभ. करैरदयितयेव विजृम्भितता- पया । अतनुमानपरिग्रहया स्थित रुचिरया चिरयायिदिनश्रिया ॥३८॥ तरुणतरणितेज.पुञ्जसतसंदेह पतति जरठखङ्ग. पल्वले पङ्कलेहे । हरिरपि सलिलार्थी शङ्कया तस्य नीरं न पिबति न च याति क्षिस्यति प्राप्य तीरम् ॥ ३९ ॥ किरति मिहिरे विष्वग्द्रीचः करानतियामनी स्थलकमठवद्देहच्छाया जनस्य विचेष्टते । गजपतिमुखोद्धीणैराप्ये रथ त्रसरेणुभि. रशिरम-
१ दुर्जनान्त करणवत् २ संमिश्रिता
ग्रीष्मवर्णनम्
| धुरामेणाः कच्छस्थलीमधिशेरते ॥ ४० ॥ भानोः पादैर्दहन- | वाले शिखी निर्भिद्योपरिकर्णिकारकुसुमान्याशेरते षट्पदाः । |
| परुषैर्द्दह्यमानान्तरराणान्मुत्क्रामन्त. किल विटपिना प्राणपिण्डा | तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्म- |
| इवामी । गाढोदन्याकुलितमनसो भिन्नचञ्चुपुटान्ता. कोकू- | निवेशिपञ्जरशुकः क्लान्तो जल याचते ॥ ५२ ॥ स्कन्धान्सै- |
| यन्ते विहगशिशवः कोटऱाणा मुखेषु ॥ ४१ ॥ वहद्वहल- | न्ध्यरूयूथगण्डकषणव्यासक्तदानोदकान्सेवन्ते मधुपा मही |
| मारुतप्रसरदम्भिखण्डैरिव स्फुरद्द्युमणिमण्डलयुतिवितानकै- | रुहशिर. पुष्पाणि हित्वा भृशम् । लीयन्ते वलमीर्कुलाय- |
| स्तापिता । विसारि वपुरातमनः सपदि वासरश्रीयं चलन्मरु- | कुहरे निस्स्पन्दमेते खगा जिह्वालीढवधूमखो मृगगणश्छा- |
| मरीचिकासिचयपल्लवेनावृति ॥ ४२ ॥ विशन्तीना स्नातु | यासु विश्राम्यति ॥५३॥ उत्तप्तोऽयमुरगम. शिखितलच्छाया |
| जघनपरिवेष्टैर्मृगदृशा यदम्भ सप्राप्त प्रमदवनवाप्यास्तट- | समालम्बते वैर साहजिक विहाय च शिखी मूलं तरो- |
| भुवम् । गभीरे तन्नाभीकुहरपरिणाहाध्वनि रसत्कुहुंकारस्फार | र्गच्छति । याचन्ते च जलं निकुञ्जभवने तृष्णातुरा. सारिका- |
| रचयति निनादं नयति च ॥४३॥ धत्ते पल्लवतालडलेप्सुरूपरि | स्ते वारिणि पङ्कजानि मधुपास्त्यक्त्वा श्रयन्ते लताः |
| स्व कर्णतालं द्विपः शष्पस्तम्बरसान्वियच्छति शिखी मध्ये- | ॥ ५४ ॥ अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽधरो |
| शिखण्ड । शिर. मिथ्या लेढि मृणालकोटिरभसाद्दष्ट्राङ्कुर शूकरो | धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने । अन्त: पुष्प- |
| मध्याह्ने महिषश्च वाञ्छति निजच्छायामहाकर्दमम् ॥ ४४ ॥ | सुगन्धिरार्द्रकबरी सर्वाङ्गलम्बाम्बर रमणा रमणीयता |
| सर्पत्सारिणि वारिशीतलतले विन्यस्तपुष्पोत्करे नीरन्ध्रे कदली- | विदधति ग्रीष्मापराह्नागमे ॥ ५५ ॥ पान्थाना प्रमदा इव |
| वने गुरुदलच्छायाहताकत्विषि । कर्पूरोगरपङ्कपङ्किच्छल- | प्रतिदिन दैन्यं हृदिन्यो ययुर्दृश्यन्ते स्म दिगम्बरा इव वने |
| घनोत्तुङ्गस्तनालिङ्गिभि कान्ताकेलिरतैरहो सुकृतिभिर्मेध्यंदिनं | पत्रोज्झिताः पादपा. । नि.श्वासा इव दुःसहा विरहिणा |
| नीयते ॥ ४५ ॥ उद्दामद्युमणियुतिक्वतिकरप्रक्रीडदकपल- | वाता ववु. सर्वतः पायं पायमिव प्रियाधररस पाथ पपु. |
| ज्वालाजालजटालजाङ्गलतटीनिष्कूजकोयष्टय. । भौमोष्म- | प्राणिन ॥ ५६ ॥ अस्वाध्यायः पिकाना मदनमखसमारम्भ- |
| प्लवमानसूर्यकिरणा. क्रूरप्रकाशा दृशामायु. कर्म समापयन्ति | णस्याधिमासो निद्राया जन्मलग्नं किमपि मधुलिहा कोऽपि |
| धिगमुर्मध्याह्नशून्या दिशः ॥ ४६ ॥ मध्याह्ने हरितो हुता- | दुर्भिक्षकाल । विष्टिर्योत्सुकाना मलयजमरुता पान्थकान्ता- |
| शनसुच कामोऽपि वामश्रुवा पाटीरद्रवर्चिचता स्तनतटीमा- | कृतान्तः प्रालेयोन्मूलमूलं समजति समय. कश्चिदैत्पाति- |
| साद्य निद्रायते । एणाः केसरिणोऽपि केसरसटोपान्तश्रिता. | कोऽयम् ॥५७॥ पत्रच्छायासु हंसा मुकुलितनयना दीर्घिका- |
| शेरते छायामङ्गगता न मुञ्चति तरोर्व्योढा नवोढामिव ॥४७॥ | पद्मिनीना सौधान्यत्यर्थतापाइूलभपरिचयद्वेषिपारावतानि । |
| मध्याह्ने चलतालबृन्तमनिलः सर्वात्मना सेवते वारि स्वेद- | बिन्दुक्षेपानपिपासु. परिसति शिखी भ्रान्तिमद्वारियन्त्रं |
| मिषेण शीतलवधूवक्षोजमालम्बते । निद्रा नेत्रमुपैति पक्ष्म- | सर्वैस्सहै. समग्रस्त्वमिव नृपगुणैर्दीप्यते संसंसति. ॥ ५८ ॥ |
| युगलच्छायाश्रिता दैहिकी पान्थानामथ पादयोर्निपतति | |
| छायापि मा यान्विति ॥ ४८ ॥ काश्मर्या. कृतमालमुद्गतदलं | ### जलकेलिः |
| कोयष्टिकष्टीकते तीराश्मन्तकशिम्बिचुम्बितमुखा धावन्त्यप. | निजप्रियमखभ्रान्त्या हर्षेणाचुम्बदम्बुजम् । दष्टाधरा |
| पूर्णिकाः । दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय | तु भृङ्गेण सीत्कारमकरोन्मृदु ॥ ५९ ॥ ललितमुरसा तरन्ती |
| स्थित वीरन्द्रीडकपोतकूजितमनुक्रन्दन्त्यध कुक्कुटा. ॥ ४९ ॥ | तरलतरङ्गोघचालितनितम्बा । विपरीतरातसक्ता किमद्दश्यत |
| स्वे स्वे कर्मणि सनियोज्य सुहृदो भूमीसुरान्मन्त्रिणश्चक्र | सरसि या सख्या ॥ ६० ॥ एता गुरुश्रोणिपयोधरत्वा- |
| निर्भयमारचय्य भगवान्सप्ताप्तरागोदय । स्वालोकक्षण- | दात्मानमुद्धोढुमशक्नुवत्यः । गाढाङ्गदैर्बाहुभिरप्सु बाला. |
| कादिशीकमधुनोत्खातं विचिन्वन्निव ध्वान्तं कापि ³निलीन- | केशोत्तर रागवशात्प्लवन्ते ॥६१॥ अमी शिरीषप्रसवावतंसा. |
| मैम्बरमणियोंमाग्रमारोहति ॥ ५० ॥ छाया संश्रयते तलं | प्रअशिनो वारिविहारिणीनाम् । पारिप्लवा स्रोतसि निम्न- |
| विटपिना श्रान्तेव पान्थैः सम मूलं याति सरो जलस्य | गाया शैवाललोलाश्छलयन्ति मीनान् ॥ ६२ ॥ आसा |
| जडता ग्लानेव मीनै. सह । औचामत्यहिमाशुदीधितिरप- | जलास्फालनतत्पराणा मुक्ताफलस्पर्धिषु शीकरेषु । पयो- |
| स्तसेव लोकै. सम निद्रा गर्भग्रहं सह प्रविशति क्लान्तेव | धरोत्सर्पिषु शीर्यमाण. सलक्ष्यते न च्छिदुरोऽपि हार |
| कान्ताजनै ॥५१॥ उष्णालुः शिशिरे निषीदति तरोर्मूलात- | ॥ ६३ ॥ आवर्तशोभा नतनाभिकान्तेर्भङ्गो भ्रुवा |
| द्वन्द्वचरा. स्तनानाम् । जातानि रूपावयवोपमानान्य- | |
| दूरर्वतीनि विलासिनीनाम् ॥ ६४ ॥ नीरस्थलीबर्हिभि- |
| १ दिशान् २ भयदुतम् ३ गुप्तम् ४ सूर्य ५ पिबति | १ मयूर २ भ्रमरा ३ गजसमूहस्य ४ लिप्तमदोदकान् |
| ६ उष्णक्लान्त | ५ भृङ्गा ६ नीटरन्ध्रे ७ निश्चलम् ८ वापी ९ किरणे १० सूर्य |
| ४२ सु र भा |
३३८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
रुत्कलापैः प्रस्निग्धकेकेरभिनन्द्यमानम् । श्रोत्रेषु सम्मूर्च्छति रक्तमासा गीतानुगं वारिमृदङ्गवाद्यम् ॥ ६५ ॥ सदृष्टवस्त्रेष्वबला नितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः । अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ ६६ ॥ एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः । वक्त्रे तराग्रैरलकैस्तरुण्योश्चूर्णान्बुणान्वारिलवान्वहन्ति ॥ ६७ ॥ उद्वद्धकेशश्च्युतपत्रलेखो विश्लेषिमुक्ताफलपत्रवेष्टः । मनोज्ञ एव प्रमदामुखानाम्भोविहारकुलितोऽपि वेषः ॥ ६८ ॥ उन्मृष्टपत्राः कलितालकान्ताः कण्ठेषु लग्ना जघनं स्पृशन्तः । स्तनस्थलेष्वाहुतिमादधाना गता वधूना प्रियता जलौघाः ॥ ६९ ॥ हतोऽङ्गरागस्तिलकं विमृष्टं लब्धान्तरैरेभिरतीव मत्वा । सुसंहितेनेति तदा जलानामदायि मध्यं न कुचद्वयेन ॥ ७० ॥ निरीक्ष्य वेणीप्रतिबिम्बमेणीदृशो भुजंगभ्रममावहन्त्यः । पतदुकूलं धुतबाहुमूलं झम्पाप्रकम्पाकुलिताः प्रचेलुः ॥ ७१ ॥ अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः । पयोऽवगाढु कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥ ७२ ॥ प्रशान्तघर्माभिभवं शनैर्विंवान्विलासिनीभ्यः परिमृष्टपङ्कजः । ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ॥ ७३ ॥ गतैः सहायैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः । मुखैः सरोबानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणात्नरासिरे ॥ ७४ ॥ विमिन्नपर्यन्तगमीनपङ्कयः पुरो विगाढाः सखिभिमेरुत्वत । कथंचिदापः सुरसुन्दरीजनैः समीतिम्रिस्तस्त्रथम प्रपेदिरे ॥ ७५ ॥ विगाढमात्रे रमणीभिरम्भसि प्रयत्नसवाहितपीवरोरुभिः । विभिद्यमाना विससार सारसानुदस्य तीरेषु तरङ्गसंहतिः ॥ ७६ ॥ शिलाघनैर्नाकसदामुरःस्थलैर्बृहन्निवेशैश्च वधूपयोधरैः । तताभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वमम्भसा ॥ ७७ ॥ विधूतकेशाः परिलोलितस्रजः सुराङ्गनाना प्रविलुप्तचन्दनाः । अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पमीयुः समया इवोर्मयः ॥ ७८ ॥ विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये । हृतस्य शेषानिव कुङ्कुमस्य तान्विकत्थनीयान्दधुरन्यथा स्त्रियः ॥ ७९ ॥ प्रियेण सग्रन्थ्य विपक्षसन्निधावुपाहिता वक्षसि पीवरस्तने । स्रजं न काचिद्विजहौ जलांबिला वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ ८० ॥ असंशयं न्यस्तमुपान्तरक्तता यदेव रोढुं रमणीभिरञ्जनम् । हृतेऽपि तस्मिन्सलिलेन शुक्लता निरास रागो नयनेषु न श्रियम् ॥ ८१ ॥ द्युति वहन्तो वनितावत्तसका हृताः प्रलोभादिव वेगिभिर्जलैः । उपप्लुतास्तत्क्षणशोचनीयता च्युताधिकारा सचिवा इवाययुः ॥ ८२ ॥ विपन्नलेखा निरक्तकाधरा निरञ्जनाक्षी-
रपि बिभ्रतीः श्रियम् । निरीक्ष्य रामा बुबुधे नमश्चरैरलंकृत तद्वपुषैव मण्डनम् ॥ ८३ ॥ तथा न पूर्व कृतभूषणादरः प्रियानुरागेण विलासिनीजनः । यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषिताम् ॥ ८४ ॥ शुभाननाः साम्बुरुहेषु नीरवो विलोलहाराश्चलफेनपङ्किषु । नितान्तगौर्यो हतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्विषु ॥ ८५ ॥ हृदाम्भसि व्यस्तबधूकराह्ते रवं मृदङ्गध्वनिधीरमुज्झति । मुहुः स्तनैस्तालसमं समाददे मनोरम नृत्यमिव प्रवेपितम् ॥ ८६ ॥ श्रिया हसद्भिः कमलानि सस्मितैरलकृताम्बुः प्रतिमागतेर्मुखैः । कृतानुकूल्या सुरराजयोषिता प्रसादसाफल्यमवाप जाह्नवी ॥ ८७ ॥ परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखोजनस्यापि विलोकनीयताम् ॥ ८८ ॥ भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी । अकृत्रिमप्रेमरसार्हितैर्मनो हरन्ति रामाः कृतकैरपीहितैः ॥ ८९ ॥ तिरोहितान्तानि नितान्तमाकुलैरपा विगाहदलकै प्रसारिभिः । ययुर्वधूना वदनानि तुल्यता द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ ९० ॥ करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा । सखीषु निर्वाच्यमघार्ध्वदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ॥ ९१ ॥ प्रियेसलीलं करवांरिवारित प्रवृद्धनिःश्वासविकम्पितस्तनः । सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः ॥ ९२ ॥ उद्धृस्य धैर्य दयितेन सादर प्रसादितायाः करवांरिवारितम् । मुखं निमीलनयनं नतध्रुवः श्रियं सपत्नीवदनादिवाददे ॥ ९३ ॥ विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः । सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयनन्धमंशुकम् ॥ ९४ ॥ निरञ्जने साचिविलोकित दृशावयावक वेपथुरोष्ठपल्लवम् । नतध्रुवो मण्डयति स्म विग्रहे बलिक्रिया चातिलक तदास्पदम् ॥ ९५ ॥ निमीलदाकेकरलोलचक्षुषा प्रियोपकण्ठ कृतगात्रवेपथुः । निमज्जतीना श्वसितोद्धतस्तनः श्रमो नु तासा मदनो नु पप्रथे ॥ ९६ ॥ प्रियेण सिक्ता चरमं विपक्षतश्चुकोप काचिच्च तुतोष सान्त्वनैः । जनस्य रूढप्रणयस्य चेतसः किमप्यमर्षोऽनुनये भृशायते ॥ ९७ ॥ अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् । आत्तमात्तमपि कान्तमुक्षितु कातरा शफरशङ्किनी जहौ ॥ ९८ ॥ निम्ननाभिकुहरेषु यदम्भः प्लावितं चलदृशा लहरीभिः । तद्भवैः कुङ्कुरुतैः सुरनार्यः स्मारिता सुरतकण्ठरुतानाम् ॥ ९९ ॥ सक्षोभं पयसि पुनर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने । विश्लेषं युगमगमद्रथाङ्गनाम्नोरुद्धृत्तः क इव सुखावदः परेषांम्
१ जलक्लिन्नाम्
ग्रीष्मवर्णनम् ३३९
॥ १०० ॥ कि तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमव-
भासते तरुणा । सशय्य क्षणमिति निश्चिकाय कश्चिद्द्वि-
ब्बोकैर्बकसद्हवासिना परोक्षै. ॥ १०१ ॥ योग्यस्य त्रिनयन-
लोचनानलाच्चिर्निर्दग्धस्मरपृतनाधिराज्यलक्ष्म्या. । कान्ताया
करकलशोधतै पयोभिर्वक्त्रेन्दोरकृत महाभिषेकमेक ॥ १०२ ॥
पर्यच्छे सरसि हृतेऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपि-
ष्णोः । सुश्रोण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनी-
सखित्वम् ॥ १०३ ॥ नारीभिर्गुरुजघनस्थलाहतानामास्बश्री-
विजितविकािवारिजानाम् । लोलत्वादपहरता तदङ्गराग
सजज्ञे सकलुष आशयो जलानाम् ॥ १०४ ॥ सोगन्ध्य
दधदपि काममङ्गनाना दूरत्वादृतमहमाननोपमानम् । नेदीयो
जितमिति लज्जयेव तासामालोले पयसि महोत्पलं ममज्ज
॥ १०५ ॥ प्रग्रहै सरभसममसोऽवगाहक्रीडाभिर्विदळित-
यूथिकापिशङ्गै. । आकत्पैः सरसि हिरण्मयैर्वधुनामौर्वाग्निद्युति-
शकलैरिव व्यराजि ॥ १०६ ॥ आक्षाकी युवतिदृशामसौ
तनोति च्छायैव श्रियमनपायिनी किमेभि. । मत्वैवं स्वगुणपि-
धानसाम्यसूर्यैः पानीयैरिति विदधाविरेऽञ्जनानि ॥ १०७ ॥
निर्धौते सति हरिचन्दने जलौघैरापाण्डोगैरपरभागयाङ्ग-
नायाः । अद्याय स्तनकलशद्वयादुपैये विच्छेद, सहृदययेव
हारयष्ट्या ॥ १०८ ॥ अन्यूनं गुणममृतस्य धारयन्ती सफुल्ल-
स्फुरितसरोरुहावतंसा । प्रेयोभिः सह सरसी निषेव्यमाणा
रक्तत्वं व्यधित वधूदृशा सुरेव ॥ १०९ ॥ क्षान्तीना बृहदम-
लोदबिन्दुचित्रौ रेजाते रुचिरदृशामुरोजकुम्भौ । हाराणा
मणिभिरुपाश्रितौ समन्तादुत्सूत्रैर्गुणवदुपन्नकाम्ययेव ॥११०॥
आरूढः पतित इति ख्वस्रवोऽपि स्वच्छोना परिहरणीयता-
मुपैति । कर्णेभ्यश्च्युतमसितोत्पलं वधूना वीचीभिस्तटमनु
यन्निरासुरापः ॥ १११ ॥ दन्तानामधरमयावक पदानि प्रत्य-
आस्तनुमविलेपना नखाङ्गा. । आनिन्दु. श्रियमधितोयमङ्ग-
नाना शोभायै विपदि सदाश्रिता भवन्ति ॥ ११२ ॥ कस्या-
श्चिन्मुखमनु धौतपत्रलेखं व्यातेने सलिलभराव्रलम्बिनीभि. ।
किञ्जल्कव्यतिकरपिञ्जरान्तराभिमिश्रित्थश्रीरलमकाग्रवल्लरीभिः
॥ ११३ ॥ अविरलमिदमम्भः स्वेच्छयोच्छालयन्त्या विक-
चकमलशोभोत्तानहस्तद्वयेन । परिकलित इवार्धं कामबाणा
तिथिभ्यः सलिलमिव वितीर्ण बाललीलासुखेम्य ॥ ११४ ॥
जलविलुलितवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिखान-
मात्रोत्थिताभि. । कनकरुचिरकुम्भश्रीमदामोगतुङ्गस्तनवनि-
हितहस्तस्वस्तिकाभिर्वधूभि. ॥ ११५ ॥ एतसा. करिकुम्भ-
संनिभकुचप्राग्भारपृष्ठे लुठत्तुङ्गाग्रर्भगेजेन्द्रमौक्तिकसरश्रेणी-
मनोहारिणि । दूरादेत्य तरङ्ग एष पतितो वेगाद्विलीनः कथ
को वाऽन्योऽपि विलीयते न सरसः सीमन्तिनीसङ्गे ॥ ११६॥
प्रपापालिका
यथोर्ध्वाक्षः पिबत्यम्बु पथिको विरलाङ्गुलिः । तथा
प्रपापालिकापि धारा वितनुते त॑नुम् ॥ ११७ ॥ अङ्गुल्यग्र-
निरोधतस्तनुतरं धारामिय कुर्वती कर्कर्या न पर पयो नि-
पुणिका दातुं प्रपापालिका । विश्लिष्टाङ्गुलिना करेण दशना-
पीड शनैः पान्थ हे निष्पन्दोर्ध्वविलोचनम्वमपि हा जानासि
पातुं पय. ॥ ११८ ॥ दूरादेव कृतोऽञ्जलिर्न तु पुन
पानीयपानोचितो रूपालोकनकौतुकात्प्रचलितो मूर्धा न
शान्त्या तृष. । रोमाञ्चोऽपि निरन्तर प्रकटितः प्रीत्या न
शैत्यादपामक्ष्णो विविवध्वेगेन विहितो वीक्ष्य प्रपापालिकाम्
॥ ११९ ॥ गन्तुं सत्वरमीहसे यदि पुनर्ब्यालोलवेणीलता
द्रष्टुं वा स्वकुटुम्बिनीमनुदिनं कान्ता समुत्कण्ठसे । तत्पुष्य-
न्नपि मुग्धमन्थग्वलेन्नेत्रान्तख्द्धाध्वगामेता दूरत एव हे
परिहर आत प्रपापालिकाम् ॥ १२० ॥ मध्याह्नेऽ-
तिखरे निदाघसमये तापोऽध्वनो वर्तते शीते कुञ्जतटे
विचित्रविटपे भो पान्थ विश्रम्यताम् । एकाकी च
भवानहं च तरुणी शून्या प्रपा वर्तते लज्जेऽहं ब्रुवती स्वयं
तु चतुरो जानासि कालोचितम् ॥ १२१ ॥ कस्येयं तरुणि
प्रैपा पथिक नः कि पीयतेऽस्या पँयो वेनूनामय महिष
पथिक रे वँरः कथ मङ्गल. । सोमो वाथ शनैश्चरोऽमृतमिदं
तत्तेऽधरे दृश्यते भो भोः पान्थ विलाससुन्दर सखे यद्रोचते
तत्पिब ॥ १२२ ॥ मध्याह्नं गमय त्यज श्रमजलं स्थित्वा
पयः पीयता मा शून्येति विमुञ्च पान्थ विवशः शीतः प्रपा-
मण्डपः । तामेव स्मर घक्सरस्वररत्नस्ता निजप्रेयसीं त्वच्चित्त
तु न रञ्जयन्ति पथिक प्रायः प्रपापालिकाः ॥ १२३ ॥
ग्रीष्मवायवः
आध्मातोद्धतदाववह्निसुहृद, कीर्णोष्णरेणूत्कराः सतप्ता-
ध्वगमुक्तखेदविषमश्वासोष्णसवादिनः । तृष्णार्त्तजगजगयता-
स्यकुहरक्षिप्रप्रवेशोत्कटा भ्रूमङ्गैरिव तर्जयन्ति पवना दग्धस्य-
लीकज्जलैः ॥ १२४॥ कारण्डीः कुञ्जयन्तो निजजरठरवव्यञ्जि-
तावीरकोशानुत्तानाङ्कुकुष्णालाना पृथुसुषिरगताञ्शिम्बिकान्याट-
यन्तः । झिल्लीकाझल्लरीणा बधिरितककुभ झंकृतं खे क्षिपन्तः
सिञ्जानाश्चत्यपत्रप्रकरझणझणाराविणो वान्ति वाताः
॥ १२५॥ व्योमव्यालोलमुक्ताफलधवलगलद्विन्दुसदोहगर्भा-
नम्भोदान्भर्त्सयित्वा दिशि दिशि भुवने भीतिमुद्भावयन्तः ।
एते रक्षोमृगाक्षीगतलुलितमदक्षोभसरभ्सरूक्षा वाता. पाताल-
कुक्षिस्थितमपि सलिलं तत्क्षणाद्द्रक्षयन्ति ॥ १२६ ॥
ग्रीष्मपथिकाः
सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि
क्षामक्ष्मारुहि मन्दसुन्मधुलिहि स्वच्छन्दकुन्दुदुहि ।
पादटिप्पण्यः (Footnotes):
१ सूक्ष्माम्
२ पानीयपालिका
३ जलम्, पक्षे,-क्षीरम्
४ जलानि, पक्षे,-सोमादिवासर
५ उदकम्, पक्षे,-पीयूषम्
३४० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
शुष्यत्स्रोतसि तप्तभूमिरजसि ज्वालायमानार्णसि ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥ १२७ ॥ वाताकीर्ण- विशीर्णवीरणातृणश्रेणीझणत्कारिणि ग्रीष्मे सोष्मणि चण्ड- सूर्यकिरणप्रकाश्यमानाम्र्भसि । वित्तारोपितकामिनीमुखशशि- ज्योत्स्नाहृतक्लान्तयो मध्याह्नेऽपि सुखं प्रयान्ति पथिका स्वं देशमुत्कण्ठिताः ॥ १२८ ॥ ग्रीष्मोष्मप्लुषशुष्यत्ययसि बक- मयोद्धान्तपाठीनभाजि प्राय पङ्कमात्र गतवति सरसि स्वल्पतोये लुटित्वा । कृत्वा कृत्वा जलाद्रीकृतमुरसि जरत्कर्- पार्थ प्रपाया तोयं जग्ध्वापि पान्थः पथि वहति हहा हेति कुर्व न्पिपासु ॥ १२९॥ भ्राम्यच्चीत्कारचक्रभ्रमभरितघटीयन्त्रचक्र- भ्रमुक्तस्रोत पूर्णेप्रणालीपथसरणिगिरासारि सीत्कारि वारि । कौप पान्था प्रकाम शितमणिमुसलाकाग्विसंफारधार विक्षि- क्षुण्णमुक्ताकणनिकरनिभासारपातं पिबन्ति ॥ १३० ॥
वर्षावर्णनम्
चलद्बलाकादशनाभिरामः परिस्रवद्वारिमदाम्बुधार । आहन्यमानस्तडिदङ्कुशेन खरस्य दध्वान घनाद्विपेन्द्रः ॥ १ ॥ या कामिनी सा यदि मानिनी स्यात्खरस्य राज्ञो ह्यपराधिनी स्यात् । इतीव दण्डै. किमु ताड्यतेऽसौ कादम्बिनी काम- नृपस्य ढक्का ॥ २ ॥ वन्द्रबिम्ब्रविविम्ब्रतारकामण्डनानि घनमेघडम्बरै । भक्षितानि जलदोदरेषु तद्रोदनध्वनिरिवैष गर्जितम् ॥ ३ ॥ निद्रितस्य बत शम्बरद्विषो जागराय किमु वारिवाहक । ऊर्जितं दधदतीव गर्जितं सन्नमन्नभसि सन्नमाद्यधौ ॥ ४ ॥
वर्षासमयस्वभावाख्यानम्
शीतलादिव सत्रस्तं प्रावृषेण्यान्नभस्ततः । नभो बभार नीरन्ध्रं जीमूतकुलकम्बलम् ॥ ५ ॥ स्फुरन्तः पिङ्गलाभासो धरण्यामिन्द्रगोपकाः । सरक्तवान्तपान्थस्त्रीजीवा इव चका- शिरे ॥ ६ ॥ पतृत्यविरतं वारि नृत्यन्ति च कलापिनः । अद्य कान्त¹ कृतान्तो वा दुखस्यान्तं करिष्यति ॥ ७ ॥ उत्कण्ठयति मेधाना माला वर्गं कैलापिनाम्² । यूना चोत्कण्ठ- यत्यद्य मानस मकरध्वजः ॥ ८ ॥ अस्थिरमनेकरागं गुणरहितं नित्यदुष्प्रापम् । प्रावृषि सुरेन्द्रचापं विभाव्यते युवतिचित्त- मिव ॥९॥ नन्दयति कस्य न मनश्चपलैर्वनधूलिधूसरच्छायैः । आक्रम्य पुत्रकैरिव मलिनीकृतमम्बरं जलदैः ॥ १०॥ आयाताः सखि वर्षा वर्षादपि यासु वासरो दीर्घः । दिशि दिशि नीर- तरङ्गो नीरतरङ्गो³ ममापि हृद्येशः ॥ ११ ॥ गर्जति वारिद- पटले वर्षति नयनारविन्दमबलायाः । भुजवल्लिमूलसेके विरहलता पल्लवं सूते ॥ १२ ॥ अतिशयितकदम्बोऽथ मोदकदम्बानिलो वहति । वियदम्बुदमेदुरितं मे दुरितं पश्य नागतो दयित ॥ १३ ॥ शमयति जलधरधारा चातकयूना तृष चिरोपनताम् । क्षपयति च वधूलोचनजलधारा कामिना प्रवासरुचिम् ॥ १४ ॥ आस्वाद्य निर्विशेषं विरहविधूना मृदूनि मासानि । करकामिषेण मन्ये निष्ठीवति नीरदोऽस्थीनि¹ ॥ १५॥ वर्षासु जाता नवयौवनश्रीराशावधू प्रौढपयोधराभूत् । पुष्पोद्गमोऽजायत मालतीना बभूवुरस्पृश्यतमास्तटिन्यः ॥ १६ ॥ वसन्तविश्लेषमपारयन्त्या भुवो निदाघखरतापशा- न्त्यै । आशावयस्याभिरुदाह्रियन्ते पयोदनीलोत्पलपल्लवानि ॥ १७ ॥ घनोद्यमे गाढतमेऽन्धकारे न कोऽपि निर्णेतुमर्ह शशाक । स्पृशन्मुहुः कितु करेण नाभीसरोजमंभीरकुलाधि- नाथ.² ॥ १८ ॥ कामेन कामं प्रहिता जवेन प्रावृद् चचाल त्रिजगद्विजेतुम् । कि चन्द्रबिम्बं दधि भक्षयन्ती सधार यन्ती हरितः शुभाय ॥ १९ ॥ निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः । धारानिपातैः सह कि नु वान्तश्चन्द्रोऽयमित्यार्ततर ररासे³ ॥ २० ॥ सजलजलधर नमो विरेजे विद्युन्मिमिया रुचिस्तडिल्लतानाम् । व्यवहित- रतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥ २१ ॥ परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम् । विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपा निपात ॥२२॥ प्रतिदिशमभिगच्छताभिभृष्ट ककुभविकाससुगन्धिनानिलेन । नव इव विबभौ स चित्तजन्मा गतधृतिराकुलितश्च जीव- लोक. ॥ २३ ॥ व्यथितमपि भृशं मनो हरन्ती परिणत- जम्बुफलोपभोगहृद्या । परभृतयुवतिः स्वन वितेने नवनवयो- जितकण्ठरागरम्यम् ॥ २४ ॥ अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिना निनादे । जन इव न धृतेश्चचाल जिष्णुर्न हि महता सुकरः समाधिभङ्गः ॥ २५ ॥ धृतबिस- वलयावलिर्वहन्ती कुमुदवनैकदकूलमात्तबाणा । शरदमल- तले सरोजपाणौ घनसमयेन वधूरिवाललम्बे ॥ २६ ॥ समद- शिखिरुतानि हसनादै. कुसुदवनानि कदम्बपुष्पवृष्ट्या । श्रियमतिशायिनी समेत्य जग्मुर्गुणमहता भहते गुणाय योग. ॥ २७ ॥ सरजसमपहाय केतकीना प्रसवमुपान्तिक नीपरेणुकीर्णम् । प्रियमधुरसनानि षट्पदालो मलयिनति स्म विनीलबन्धनानि ॥ २८ ॥ मुकुलितमतिशंख्य बन्धुजीव धृतजलबिन्दुधु शाद्वलस्थलीषु । अविगलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥ २९ ॥ रटतु जलधरः पतन्तु धाराः स्फुरतु तडिन्मरुतोऽपि वान्तु शीता । इयमुरासि
पादटिप्पण्यः (Left Footnotes): १ ऊर्ध्व कण्ठो यस्य तादृश करोति २ मयूराणाम् ३ विरतसुरतरङ्ग
पादटिप्पण्यः (Right Footnotes): १ नेत्र, पक्षे, -निर्गता रदा दन्ता यस्य, दन्तानामभावादस्थिचर्वणसमर्थे मरुत्यजतीति भाव २ भगवत्पद्मनाभ ३ आक्रन्दन कृतवान
वर्षावर्णनम ३४१
महौषधीव कान्ता निखिलभयप्रतिघातिनी स्थिता मे ॥३०॥ स्फुरदधीरत्तडिम्नयना मुहुः प्रियमिवागलितोरुपयोधरा । जलधरावलिरप्रतिपालितखसमयसाम्प्रतमाजगतोधरम् ॥३१॥ गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे । अभिससार न वल्लभमङ्गना न चमके च कमेकरस ग्रहः ॥३२॥ अनुययौ विविधोपलकुण्डलयुतिवितानकसबलितांशुकम् । धृतधनुर्वलयस्य पयोमुचः शबलिमा वलिमानमुषो वपु ॥ ३३ ॥ द्रुतसमीरचलैः क्षणलक्षितव्यवह्रिता विटपैरिव मञ्जरी । नवतमालनिभस्य नभस्तरोरुचिरगेचिररोचत वारिदै ॥३४॥ पटलमम्बुमुचा पथिकाङ्गना मपढि जीवित संशयमेष्यती । सनयनाम्बुसखीजनसम्भ्रमाद्विधुरबन्धुरबन्धुर- मैक्षत ॥ ३५ ॥ प्रवसतः सुतरामुदकम्पयद्द्विदलकन्दल- कम्पनलालितः । नमयति स्म वनानि मनीषिनीजनमनो- नमनो वनमारुतः ॥ ३६ ॥ जलदपङ्किरनर्तयदुन्मद कल- विलापि कलापिकदम्बकम् । कृतसमाज्जनमर्दलमण्डलध्वनि- जया निजया स्वनसपदा ॥ ३७॥ नवकदम्बरजोरुणिताम्बरै- रधिपुरन्त्रि शिलीन्ध्रसुगन्धिभि । मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥ ३८ ॥ शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम् । प्रविरलैरचलाञ्जनमञ्जना- जनसुगं न सुगन्धि न चक्रिरे ॥ ३९ ॥ द्विरददन्तवलक्ष- मलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् । घनघनौघविघट्ट- नया दिवः कृशशिखं शशिखण्डमिव च्युतम् ॥ ४० ॥ दलित- मौक्तिकचूर्णिपपाण्डव. स्फुरितनिर्झरशीकरचारव. । कुटज- पुष्पपरागकणा स्फुट विदधिरे दधिरेणुविडम्बनाम् ॥ ४१ ॥ नवपयःकणकोमलमलतीकुसुमसततितसतसङ्गिभि. । प्रच- लितोऽनिलै परिपाण्डिमा शुभरजोभरजोऽलिमिरोददे ॥४२॥ निजरज पटवासमिवाकिरद्धतपटोपमवारिमुचा दिशाम् । प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलीः ॥ ४३ ॥ प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधराग्भीरव । प्र- पायिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ॥४४॥ विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति । अभिहितेऽलिभिरेवमिवोच्चकैर्ननृते ननृते नवपल्लवैः ॥४५॥ प्रौढमौक्तिकरुच पयोमुचा बिन्दव. कुटजपुष्पबन्धवः । विद्युता नभसि नाट्यमण्डले कुर्व्वते स्म कुसुमाञ्जलिश्रियम् ॥ ४६ ॥ महीमण्डलीमण्डपीभूतपाथोधरागन्धहर्षोसु वर्षासु सद्यः । कदम्बे प्रसून प्रसूने मगन्दो मगन्दे मिलिन्दो मिलिन्दे मदोऽभूत् ॥ ४७ ॥ उन्निद्रकन्दलदलान्तरलभ्यमानगुञ्ज- न्मदान्धमधुपे नवमेघकाले। ख्मेऽपि यः प्रवसति प्रविहाय कान्ता तस्मै विषाणरहिताय नमो वृषाय ॥ ४८ ॥ घनसमयमहीभृत्पत्तन्स्र्यामबरस्य त्रिभुवनपतिचाप गोपुरत्व प्रपेदे । अपि विग्मवचोभिः प्राप्तपङ्काभिषेकाः कुकवय इव भेका खेदयन्ति स्म लोकान ॥ ४९ ॥ घनतग्घनवृन्दच्छा- दिते व्योम्नि लोके मवितुरथ हिमाशो सकथैव व्यरसीत् । रजनिदिवमभेदं मन्दवाता. शशंसु कुमुदकमलगन्धानाह- रन्त क्रमेण ॥ ५० ॥ घनतग्घनवृन्दच्छादिते व्योम्नि लोके मवितुरथ हिमाशो सकथैव व्यरसीत् । विरहमनुभव- न्ती सगम चापि भर्त्री रजनिदिवसभेद चक्रवाकी शशंस ॥ ५१ ॥ अथ नभसि निरीक्ष्य व्यामदिक्चक्रवाल मजल- जलदजाल ग्रामहर्षप्रकर्ष । विहितविपुलबर्हाडम्बगो नील- कण्ठो मदमृदुकलकण्ठो नाट्यमङ्गीचकार ॥ ५२ ॥ अभि- नवयवत्रीशालिनि श्मातलेऽस्मिन्रतिशयपरभाग भेजिर्रे जिष्णुगोपाः । कुवलयशनयीये मुग्धमुग्धेक्षणाया मनाय इव विमुक्ता कामकेलिप्रसङ्गात् ॥ ५३ ॥ मलिनहुतमुग्धूम- श्यामर्दिगो मलिना घनैर्विरलतृणश्यामा भूमिर्र्नोद्व्रत- कन्दलै । सुरतसुभगो नूनं काल स एष समागतो मरण- शरणा यस्मिन्नेते भवन्ति वियोगिन. ॥ ५४ ॥ क्षेपा क्षामी- कृत्य प्रमभमपहृत्याम्बु सरिता प्रताप्योर्वी कृत्स्ना तरुगहन- मुच्छोष्य सकलम् । क सप्रत्यष्णाशुर्गत इति तदन्वेषण- परस्तैड्डिडीपालोका दिशि दिशि चरन्तीव जलदाः ॥५५॥ मेघाटोपं स्तनितसुभगं वीक्ष्य ख हस्तिदन्तै कृत्वा भिन्त्ती- नुपरिसदनं चामरैश्छादयित्वा । कर्पूरैस्ता मृगमदरसैर्भूमि- मालिप्य शेते सैहे चर्मण्युरासि दयितावाङ्गरूढ पुलिन्द ॥ ५६ ॥ उपैति घनमण्डली नढति नीलकण्ठावली तडि- ल्लसति सर्वतो वहति केतकीमारुत । इतोऽपि यदि नागतः प्रियतमो नु मन्येऽधुना दधाति मकरध्वजस्तुटितशिखिनीकं धनुः ॥ ५७ ॥ दिशा हाराकारा शमितशमभारा शमवता- मसूर्चीसचारा कृतमदविकागश्च शिखिनाम् । हृताध्व- व्यापारास्तुहिनकणसारा विरहिणीमन कीर्णाङ्गारा किरति जलधारा जलधरः ॥ ५८ ॥ देवे वर्षत्यशनपवनव्यापृता वह्निहेतोर्गोहाद्रेहं फलकनिचितै सेतुभि पङ्कभीताः । नीत्र- प्रान्तानविरलजलान्यानिमिस्ताडयित्वा शूर्पच्छत्रस्थगित- शिरसो योषितः सञ्चरन्ति ॥ ५९ ॥ आकर्ण्य स्वरयौवराज्य- पटहं जीमूतधीरध्वनिं नृत्यत्केकि कुटुम्बकस्य दधतं मन्द्रा मृदङ्गक्रियाम् । उन्मीलन्नवनीलकन्दुलदलव्याजेन रोमाञ्चिता हर्षेणेव समुच्छ्रितान् वसुमती दत्रे शिलीन्ध्रध्वजान् ॥ ६०॥ वज्रेण त्रिजगत्पतेर्बलरिपोगच्छिन्नपक्षा. पुरा ये भीता निम- मज्जुरब्धिजठरे ते लूनपक्षाङ्गिरौन् । आश्वास्य व्रणदुःखजा शमयितु तेषामुदग्रव्यथामुत्तस्थुर्जंलदन्छलेन जलधेरूढा- म्भसः पर्वता. ॥ ६१ ॥ मन्दं मुद्रितपामवः परिपत-
१ रात्रिम् २ कृशा कृत्वा ३ तद्दिदेव दीप्तस्यालोक प्रकाशत .
३४२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
ज्झंकारिझङ्खामरुद्वेगध्वस्तकुटीरकाग्रनिपतच्छिद्रेषु लब्धा- न्तरा. । कर्मव्यग्रकुटुम्बिनीकुचभरस्वेदच्छिद. प्रावृष प्रारम्भे मदयन्ति कन्दलदलोल्हासा पयोबिन्दव ॥ ६२ ॥ किंचिन्मु- द्रितपासव. शिखिकुलैरुत्कण्ठमालोकिता जीर्णावामरुद्दरि- द्रगृहिणीश्वासानिलैर्जर्जरा । एते ते निपतन्ति नूतनघना- त्प्रावृड्मरारम्भिणो विन्ध्यायीकृतविप्रयुक्तवनितावक्त्रैन्दवो बिन्दव ॥ ६३ ॥ काले नीलवलाहके मतडिति प्रीतिप्रदे बर्हिणामाश्रय कथयामि व. शृणुत भो यद्रूत्तमस्मद्गृहे । सौभाग्यव्ययसङ्ख्यैकशयने कान्ताप्रिया+यामहो मानिभ्या बत गन्निमेव सकला चीर्ण प्रवासिव्रतम् ॥ ६४ ॥ उत्फुल्ला र्जुनसर्ववासितवहत्पौरस्त्यझञ्झानिलप्रेङ्खोलत्स्खलितेन्द्रनील- शकलस्निग्धाम्बुदश्रेणय । वारासिक्तवसुन्धरासुरमय प्रासास्त एवाधुना धर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासरा ॥ ६५ ॥ आच्छन्ने क्षितितैजसी मनसिजध्यापारमेय मन. स्वात्मा च द्वयमेतदस्ति दृगम द्रव्य परषा तम । कालाकाशदिशा निरस्तमधुना नामापि वर्षागमे द्रव्यं वारि गुणश्च वारिदरव. कर्मापि वारिक्रिया ॥ ६६ ॥ आसारेण न हर्म्यत प्रियतमैर्यातुं वहि शक्यते शीतोत्कम्पनिमित्त- मायतदृशा गाढ समालिङ्गयते । जाले शीकरशीतलैश्च मरुतो रत्यन्तखेदच्छिदो धन्याना बत दुर्दिन सुदिनता याति प्रियासगमे ॥ ६७ ॥ उद्योग क्षयमेति हन्त सहसा जाड्य समुज्जृम्भते मित्रस्यापि च दर्शन भवति नो कि वान्यादाच- क्ष्महे । यल्लोकस्पृहणीयता गतमभूज्जीवनं व्यर्थता प्राप्त येन दुनोति तन्मम मनो दुर्देववद्दुर्दिनम् ॥ ६८ ॥ सर्व- त्रोद्गतकन्दला वसुमती वृद्धिर्जलाना परा जात निष्कमल जगत्युमलिनैर्लब्धा घनेरुन्नता । सर्पन्ति प्रतिमन्दिर द्विर- सना. सत्यक्तमार्गो जनो वर्षाणा च कलेश्च सप्रति जय- त्येकैव राज्यस्थितिः ॥ ६९ ॥ नैतद्वारिदगर्जित रतिपति- प्रस्थानढक्कारवो नैते वारिधरा. स्रवन्मदजलास्तहस्तिन्धुराः प्रोद्धुरा । नैषा विद्युदिय विभाति रुचिरा तच्चन्द्रहासप्रभा मन्ये मानिनि मानदुर्गमधुना जेतुं किमायात्यसौ ॥ ७० ॥ दृष्ट्वाडम्बरमम्बरे घनकृत सौदामिनीनर्तकीन्त्याग्ममृदङ्ग- मङ्गलख श्रुत्वा च तद्गर्जितम् । पुष्यत्युष्पभरानताङ्गण- तरुस्कन्धावसद्वायसक्राणाकर्णनसोत्सवप्रियतम पान्था ययु- र्मन्दिरम् ॥ ७१ ॥ सन्नम्येव निरन्तर निवमतिमिरैत्राद्यना- लोकनं पन्था पङ्कसमाकुल. कलुषता वारा सदा दुर्दि नम् । एवं यद्यपि दूषणानि तदपि स्वर्भूननोल्लासकृत्संसो- त्पत्तिनिमित्ततैकगुणत. प्रावृट् प्रपेदे यशः ॥ ७२ ॥
दोलाकेलिः
सौन्दर्यमिन्दीवरलोचनाना दोलासु लोलासु यदुल्ललास । यदि प्रसादाल्लभते कवित्वं जानाति तद्वर्णयितुं मनोभू ॥ ७३ ॥ प्रसार्य पादौ विहितस्थितीना दोलासु लोलांशुक पल्लवानाम् । मनोरथानामपि यन्न गम्यं तद्रष्टुमापुः सुदृशा युवान. ॥ ७४ ॥ उन्नम्य दूरं मुहुरानमन्त्यः कान्ताः श्लथीभूतनितम्बबिम्बा । दोलाविलासेन जितश्रमत्वाल्यकर्ष- मापु. पुरुषायितेषु ॥ ७५ ॥ दृशा विदधिरे दिश. कमल राजिनीराजिता कृता हसितरोचिषा हरति चन्द्रकावृथ्य. । अकारि हरिणीदृश. प्रवलदण्डकप्रस्फुरद्रुपुर्विपुलगोचिषा वियति विद्युता विश्रम. ॥ ७६ ॥ प्रत्यासन्नमुखी कगम्बुज- युगप्रेङ्खोलिता प्रेङ्खिकामारुह्ययमुदस्तहारलतिकाव्यावृत्त- तुङ्गस्तनी । दृष्टादृष्टमुखी गतागतवशालोलोलमानांशुका तन्वङ्गी गगने करोति पुरत शातहदं विश्रमम् ॥ ७७ ॥
वर्षावायवः
एते ते दुरतिक्रमक्रममिलद्द्भोर्मिभर्मेच्छिद. कादम्बेन रजोभरेण ककुभो रुन्धन्ति झञ्झानिला । गाढारम्भनिगूढ- नीग्दघटासघट्टनीलीभवद्व्योमक्रोडकटाहपातुकपयोवेणीकण- ग्राहिणः ॥ ७८ ॥ धागधौतं धुनाना शशधग्धवल केसर केतकीना कैलासे किनरीणा चलदलकलतालासयलीला दधानाः । आमूलं मानिनीना मनसि विनिहितं मानमुन्मूल यन्तो वान्त्येते वारिवाहव्यतिकरशिशिरा प्रावृषेण्या. समीगः ॥ ७९ ॥ गोकर्ण गाहमाना' पृथुतरपृषतग्राहिणः शंबरीधानाकर्षन्तो दिगन्तानपि च विदधत कन्दलीसुप्रचा- गन् । एते धावन्ति वार्धश्रवसमुग्धनुर्धारयन्त' समन्तादा- वृण्वन्तोऽभ्रवीथि वनमिव शबरभ्रान्तिभाजोऽम्बुवाहा.॥८०॥
वर्षापथिकाः
उपरि पयोधघमाला दूरे दयिता किमेतदापतितम् । हिमवति दिव्यौषधय कोपाविष्ट फणी शिरसि ॥ ८१ ॥ उपरि घन घनपटल तिर्यग्गिरयोऽपि नर्तितमयूरा । क्षितिरपि कन्दलधवला दृष्टि पथिक. क पातयतु ॥ ८२ ॥ कि गतेन यदि मा न जीवति प्राणिति प्रियतमा तथापि किम् । इत्युदीक्ष्य नवमेघमालिका न प्रयाति पथिकः स्वमन्दिरम् ॥ ८३ ॥ शिखिनि कूजति गर्जति तोयन्द्रे स्फुटति जातिलताकुसुमाकरे । अहह पान्थ न जीवति ते प्रिया नभसि मासि न यासि गृहं यदि ॥ ८४ ॥ १ रसति तरुणीकेशश्यामे पयोभृति निर्भर स्फुटति चपले वारवार क्षणद्युतितैजसि । उपगुरुजनं मन्ये दैन्यात्पराङ्मुख- सुसया निभृतनिभृत मन्दोच्छ्वास तया बत रुद्यते ॥ ८५ ॥ निशीथे लीनाना झटिति तडिता वीक्ष्य विषयं घनानामाभोग रसिकपथिकेनोन्मुखदृशा । न गीतं सोत्कण्ठ न च रुदितमुक्तण्ठतरलं न मुक्ता निःश्वासाः स्फुरदनुमतं किं तु हृदयम् ॥ ८६ ॥ यथा रन्ध्रं व्योमञ्चलजलदधूम. स्थगयति स्फुलिङ्गाना रूप दधति च
१ श्रावणमासे
वर्षावर्णनम् ३४३
यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसितपरिपिङ्गाश्च
ककुभस्तथा मन्ये लग्नं पथिकतरुखण्डे स्मरदवः ॥ ८७ ॥
बर्ही रौति बका रटन्ति तडितो भ्राम्यन्त्यतिव्याकुला
विक्रोशन्ति घना घना च विलपत्युच्चैर्बलाकावलिः ।
आत्मान मरुतः क्षिपन्ति सलिलासार. पतत्यग्रतो मुक्त्वा
प्रावृषि साहसैकरसिके याति प्रियामध्वगे ॥ ८८ ॥
नृत्यच्चन्द्रकिणि क्वणन्मधुलिहि श्यामायमानक्षितौ धीरध्वान-
पयोमुचि प्रविलसत्सौदामिनीदामनि । धाराम्भःकणवाहि-
शीतमरुति प्राणान्वयोदागमे हा हा हास्यति मुग्धिका नववधू-
रित्यध्वग क्रन्दति ॥ ८९ ॥ श्रुत्वा बालमृगीविलोलोनयना
शब्दं घनाना पुरा भीत्या वक्षसि सन्नितापि निबिड भूय
समालिङ्गति । या वक्त्रादपहत्य रोपितवती कण्ठे ममैवा-
नन सा द्रक्ष्यत्यधुना कथं नु विरहे बाला पयोदावलीम्
॥ ९० ॥ रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा
पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया । आस्ता
जीवितहारिण. प्रवसनालापूरय सकीर्तनं मानस्यापि जला-
ञ्जलि सरभस लोकेन दत्तो यथा ॥ ९१ ॥ ग्रामेऽस्मिन्
पथिकाय पान्थ वसतिर्नैवाधुना दीयते रात्रावत्र विहारमण्डप-
तले पान्थः प्रसुप्तो युवा । तेनोद्गीय खलेन गर्जति घने
स्मृत्वा प्रिया तत्कृत येनाद्यापि करङ्कखण्डपतनाशङ्की जन-
स्तिष्ठति ॥ ९२ ॥ भ्रात. पान्थ कुतो भवान्नगरतो वार्त्ता
न वा वर्तते बाढ ब्रूहि युवा पयोदसमये त्यक्त्वा प्रिया
जीवति । सत्यं जीवति जीवतीति कथिता वार्ता मयापि
श्रुता विस्तीर्णा पृथिवी जनोऽपि विविध कि कि न सम्भा-
व्यते ॥ ९३ ॥ धीर वारिधरस्य वारि किरत. श्रुत्वा निशीथे
ध्वनि दीर्घोच्छ्वाससमुद्रश्रुणा विरहिणी बाला चिर ध्यायता ।
अध्वन्येन विमुक्तकण्ठकरुण रात्रौ तथा क्रन्दितं ग्रामीणै.
पुनरध्वगस्य वसतिर्ग्रामे निषिद्धा यथा ॥ ९४ ॥ भ्रात
पान्थ प्रसीद प्रतिविरम- समुत्सृज्य बालमकाण्डे गन्तुं
बाष्पाम्बूपूरप्लुत नयनमुखी प्रेयसी ते न युक्तम् । वृत्तं ग्रामे-
ऽतिकष्टं यदिह गृहपते. प्रोषितस्य प्रियाया मुक्ताक्रन्दास्स्व-
मेतान्स लिलवितरणे निर्गतान्पश्य बन्धून् ॥ ९५ ॥ मन्नात्र
ग्रामके त्व वससि परिचयस्तेऽस्ति जानासि वार्तामस्मिन्न-
ध्वन्यजाया जलधररसिरतोत्का न काचिद्विपन्ना । इत्थ पान्थः
प्रवासावधिदिनविगमापायशङ्की प्रियाया. पृच्छन् वृत्तान्त-
मारात्स्थितनिजभवनेोऽप्याकुलो न प्रयाति ॥ ९६ ॥
वर्षापथिककामिनी
अदृष्टपूर्वमक्षामिर्यदेतद्दृश्यतेऽधुना । विष विषधरै
पीत मूर्च्छिता. पथिकाङ्गना ॥ ९७ ॥ सखि
हे पश्य रसमय जलधरसमय समुन्नद्धम् । विलसति
कापि बलाका कापि बलाका मुदं धत्ते ॥ ९८ ॥
शिशिरसीकरवाहिनि मारुते चरति शीतभयादिव सत्वर. ।
मनसिजः प्रविवेश वियोगिनीहृदयमाहितशोकहुताशनम्
॥ ९९ ॥ एष्यन्त्यवश्यमधुना हृदयाधिनाथो मुग्धा मुधा
कुरुत मा विविधं विलापम् । इत्थं शशंसुरिव गर्जितकौत-
वेन पाथोधराः पथिकपङ्कजलोचनाभ्यः ॥ १०० ॥ आकर्णि-
तानि रसितानि यथा प्रसर्पद्युद्युम्नराजरथनि.स्वनसोदराणि ।
उच्चै रणच्चरणनूपुरया पुरन्ध्र्या क्षिप्र प्रिये कुपितयापि तया-
भिसस्त्रे ॥ १०१ ॥ प्रणतिभिरपि पत्युः प्रार्थनाभिश्च सख्या.
क्षणमपि न मनस्तो मानिनी मानमौज्झत् । तमसशरश
स्त्रीभूतगानप्रकार. फणिनमिव शिखण्डी कि न खण्डीचकार
॥ १०२ ॥ नभसि जलदलक्ष्मी सास्रया वीक्ष्य दृष्ट्वा
प्रवससि यदि कान्तेत्यर्धमुक्त्वा कथचित् । मम पटमव-
लम्ब्य प्रोल्लिखन्ती धरित्रीं तदनु कृतवती सा यत्र वाचो
निवृत्ता ॥ १०३ ॥ विरमत घना कि वो वृष्ट्या मुधैव
विसृष्टया व्रजत ककुभं कामप्यन्या मनोरुचिरामतः । न
तदिह वनं नासौ मार्गो न तच्च धरातल विरहगलितैस्तन्व्या
यन्न प्लोत नयनाम्बुभिः ॥ १०४ ॥ प्रसरदलकाकीर्णे कर्णे
न केकिरुतं श्रुतं श्वसितविजितो वातो भ्रातो न वा कुट-
जोत्कट. । न च परिचितासावासपल्हृताश्रुणि लोचने
तदपि किमपि प्रावृट्श्यामा धुनोति वियोगिनी ॥ १०५ ॥
मेघैर्व्योम नवाम्बुभिर्वसुमती विद्युल्लतोभिर्दिशो धाराभि-
र्गगन वनानि कुटजै. पूरैर्वृता निम्नगाः । एका घातयितु
वियोगविधुरा दीना वराकी स्त्रियं प्रावृट्काल हताश वर्णय
कृतं मिथ्या किमाडम्बरम् ॥ १०६ ॥ वाता वान्तु कदम्ब-
रेणुशबला नृत्यन्तु सर्पद्विष. सोत्साहा नववारिगर्भगुरवो
मुञ्चन्तु नादं घना । मग्ना कान्तवियोगशोकजलधौ मा
वीक्ष्य दीनानना विद्युत्कि स्फुरसि त्वमप्यकरुणे स्त्रीत्वे
समाने सति ॥१०७॥ अम्भोवाहसुरद्विपो निवसनं ध्वान्ताद्रि-
दिव्यौषधी कन्दर्पस्य विलासचम्पकधनुर्वर्षालतामञ्जरी ।
लेखा व्योमकषोपले विरचिता चामीकरस्य स्फुरद्भासः
पान्थविलासिनीजनमन.कम्पाय शम्पामवत् ॥ १०८॥ श्रुत्वा
तन्व्या निशीथे नवघनरसितं विश्लथाङ्गं पतित्वा शय्याया
भूमिपृष्ठे करतलधृतया दु.खितालीजनेन । सोत्कण्ठं मुक्त-
कण्ठं कठिनकुचतटाघातशीर्णाश्रुबिन्दु स्मृत्वा स्मृत्वा प्रियस्य
स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥ १०९ ॥
खद्योतः
प्राचीमहीधरशिलाविनिवेशितस्य धाराधरस्फुरदयोधनता-
डितस्य । तप्तायसस्स तपनस्य कणा विकीर्णाः खद्योतपोत-
सुषमा स्फुटमावहन्ति ॥ ११० ॥
३४४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
हंसः
तटमुपगतं पद्मे पद्मे निवेशितमाननं प्रतिपुटकिनीपत्र- च्छाया मुहुर्मुहुरासितम् । मुहुरुपगतैरसैः कोष्णीकृता जल- वीचयो जलदमलिना हंसेनाशा विलोक्य पिपासता ॥ ११२ ॥
शरद्वर्णनम्
अहो बाणस्य संधानं शरदि खरभूपतेः । अपि सोऽयं द्विषामीशः कन्याराशिसुपागतः ॥ १ ॥ अपीतक्षीरैकाद- म्बमसमुष्टामलाम्बरम् । अप्रसादितसूक्ष्माम्बु जगदासीन्म- नोरमम् ॥ २ ॥ अथोपगूढे शरदा शशाङ्के प्रावृड्वधौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥ ३ ॥
शरत्समयस्वभावाख्यानम्
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः । नवसंगम- सव्रीडा जघनानीव योषितः ॥ ४ ॥ एकेन चुलुकेनाब्धि- र्निपीतः कुम्भजेन यत् । तस्योदयेऽन्तःकालुष्यं त्यजन्त्यापो भयादिव ॥ ५ ॥ पाथोजजालजटिलं मलिनं शरदङ्गना । अम्बरं धावयामास चन्द्रिकाचयवारिभिः ॥ ६ ॥ धन्याः शरदि सेवन्ते प्रोल्लसच्चित्रशालिकान् । प्रासादांस्त्रीसखाः पौराः केदारांश्च कृषीवलाः ॥ ७ ॥ नमिताः फलभारेण न मिताः शालिमञ्जरीः । केदारेषु हि पश्यन्तः के दारेषु विनिःस्पृहाः ॥ ८ ॥ हंसश्चन्द्र इवाभाति जलं व्योमतलं यथा । विमलाः कुमुदानीव तारकाः शरदागमे ॥ ९ ॥ राजीवमिव राजीवं जलं जलमिवाजनि । चन्द्रश्चन्द्र इवातन्द्रः शरत्समुदयोद्यमे ॥ १० ॥ काशाः क्षीरनिकाशा दधिशरवर्णानि सप्तपर्णानि । नवनीतनिभश्चन्द्रः शरदि च तक्रप्रभा ज्योत्स्ना ॥ ११ ॥ द्वयमिदमत्यन्तसमं नीचे प्रभविष्णुता शरच्चेयम् । क्षेत्रेभ्यः प्राप्य फलं खलेषु निक्षिप्यते यस्याम् ॥ १२ ॥ अथ प्रसन्नेन्दुमुखी सिताम्बरा समाययावुत्पलपत्रलोचना । सपङ्कजा श्रीरिव गां निषेवितुं सहंसबालव्यजना शरद्वधूः ॥ १३ ॥ समुल्लसत्पङ्कजलोचनेन विनोदयन्ती तरूणानशेषान् । शुद्धाम्बरा गुप्तपयोधरश्रीः शरन्नवोढेव समाजगाम ॥ १४ ॥ पयोदकेशेषु विकृष्य रोषान्निष्कास्य सा कोकनदायताक्षी । वर्षावधूं स्वां श्रियमुन्नयन्ती प्रौढा सपत्नीव शरच्चकाशे ॥ १५ ॥ चन्द्रायते शुक्लरुचापि हंसो हसायते चारुगतेन कान्ता । कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः ॥ १६ ॥ ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्धनानाई्रनखक्षताभम् । प्रमोदयन्ती सकलङ्कमिन्दुं तापं रवेरम्यधिकं चकार ॥ १७ ॥ उपैति सस्यं परिणामरम्यतां नदीरनौद्धत्यमपङ्कतां महीम् । नवैर्गुणैः संप्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥ १८ ॥ पतन्ति नास्मिन्विशदाः पतत्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः । तथापि पुष्णाति नभः श्रियं परां न रम्यमाहार्यमपेक्षते गुणम् ॥ १९ ॥ विपाण्डुभिर्म्लानतया पयोधरैश्च्युताचिराभा गुणहेमदामभिः । इयं कदम्बानिल- भर्तुरत्यये न दिग्वधुना कृशता न राजते ॥ २० ॥ विहाय वाञ्छांमुदिते मदालत्यादरक्तकण्ठस्य रुते शिखण्डिनः । श्रुतिः श्रयत्युन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न सत्त्ववः ॥ २१ ॥ अमी पृथुस्तम्बभृतः पिशङ्कतां गता विपाकेन फलस्य शालयः । विकासि वप्राम्भसि गन्धसूचितं नमन्ति निद्रातुमिवावसोत्पलम् ॥ २२ ॥ विहारभूमेरभि- घोषमुत्सुकाः शरीरजेभ्यश्च्युतयूथपङ्क्तयः । असक्तमूर्धासि पयः क्षरन्त्यमूरुपायनानीव नयन्ति धेनवः ॥ २३ ॥ जगत्प्रसूतिर्जगदेकपावनी व्रजोपकण्ठं तनयैरुपेषुषी । द्युतिं समग्रां समितिगवामसावुपैति मन्त्रैरिव सहिताहुतिः ॥ २४ ॥ कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने । इदं जिघत्सामपहाय भूयसीं न ससमभ्येति मृगीकदम्बकम् ॥ २५ ॥ असावनास्थापरयावधीरिताः सरोरुहिण्या शिरसा नमन्नपि । उपैति शुष्यन्कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥ २६ ॥ अमी समुद्भूतसरोज- रेणुना हृता हृतासारकणेन वायुना । उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ॥ २७ ॥ मुखैरसौ विद्रुमभङ्गरोहितैः शिखाः पिशङ्गीः कमलस्य बिभ्रती । शुकावलिर्व्यक्तशिरीषकोमलां धनुः श्रियं गोत्रभिदो- ऽनुगच्छति ॥ २८ ॥ ददतमन्तरिताहिमदीधिति खगकुलाय कुलायनिलायिताम् । जलदकालमबोधकृतं दिशामपरथाप रथायववायुधः ॥ २९ ॥ स विक्षवोत्पलचक्षुषमैक्षत क्षितिभृतोऽङ्कगता दयितामिव । शरदगच्छगलद्धसनोपमा- क्षमघनामघनाशनकीर्तनः ॥ ३० ॥ जगति नैशमशीतकरः करैर्विगतिं वारिदवृन्दमयं तमः । जलजराजिषु नैद्रमदिद्रवेश्च महतामहताः क्व च नारयः ॥ ३१ ॥ समय एव करोति बला- बलं प्रणिगदन्त इतीव शरीरिणाम् । शरदि हंसखा परुषी- कृतस्वरमयूरमयूरमणीयताम् ॥ ३२ ॥ तनूरुहाणि पुरोजित- ध्वनेर्घवलपक्षविहङ्गमकूजितैः । जगलुरक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः ॥ ३३ ॥ अनुवनं वनराजि- वधुमुखे बहलरागजवाधरचारुणी । विकचबाणदलावलयो- ऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ ३४ ॥ कनकभङ्गपिशङ्ग- दलैर्दधे सरजसारुणकेसरचारुभिः । प्रियविमानितमानवती- रुषा निरसनै रसनैरवृथार्थता ॥ ३५ ॥ मुखसरोजरुचं मद- पाटलामनुचकार चकोरदृशा यतः । धृतनवातपमुत्सुकनामतो
१ मत्तम् २ आकाराम्, पक्षे,-वस्त्रम्
शरद्वर्णनम्, हेमन्तवर्णनम्
३४५
न कमल कमलमभ्यदमद्द्रमसि ॥ ३६ ॥ विगतस्रजजिघस-
मघट्टयत्कलमगोपवधूर्न मृगव्रजम् । श्रुततदीरितकोमल-
गीतकध्वनिमिषेऽनिमिषेक्षणमग्रतः ॥ ३७ ॥ कृतमढ निग-
दन्तं इवाकुलीकृतजगत्त्रयमूर्जमतङ्गजम् । ववुरस्रुक्छद-
गुच्छसुगन्धय. सनतगास्ततगानगिरोऽलिभिः ॥ ३८ ॥ तीक्ष्ण
रविस्तपति नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवा-
कृतज्ञ. । तोयं प्रसीदति सुनेरिव चित्तवृत्तिः कामं दरिद्र
इव शोषमुपैति पङ्क. ॥ ३९ ॥ आसादितप्रकटनर्मलचन्द्र-
हास. प्राप्तः शरत्समय एष विशुद्धकान्त' । उत्खाय गाढ-
तमस घनकालमुग्र रामो दशास्यमिव सम्भृतबन्धुजीवः
॥ ४० ॥ वृद्धाङ्गेनेव विजहौ सरिदुद्धतत्वं वेदान्तिनामिव
मनः शुचि नीरमासीत् । चन्द्रे प्रभा युवतिवक्त्र इवाद्यता-
भूद्विद्रक्वत्वमिव केकिरुत न रेजे ॥ ४१ ॥ मधुमधुरिम-
भङ्गी भेजिरे हसनादास्तुहिनपटललीला लेभिरे वारि-
वाहाः । क्षितिरभवदपङ्का कि च रोलम्बबालावलिकलित-
नलिन्यः शैवलिन्यस्तदासन् ॥ ४२ ॥ स्फुटं स्फुटपलाशवत्सु-
भगभासिचञ्चत्पुटे विपाककपिशीकृत. कलममञ्जरीर्बिभ्रती ।
बभौ दिवि शुकावलि. कुवलयच्छविर्जङ्गमा स्वभावहृदय-
ममा विबुधचापलक्ष्मीमिव ॥ ४३ ॥ अपाकृत्याशेषानपि
च घनजालानि परितस्तमोधूमस्तोमोद्भवमलिनिमानं च
तदनु । शरच्चन्द्रः शिल्पी रतिपतिमुदेऽसौ निजकरैः सुधा-
सदोहादैर्मुवनभवन पाण्डूरयति ॥ ४४ ॥ रम्यं हर्म्यतलं
नवाः सुनयना गुञ्जद्विरेफा लताः प्रोन्मीलन्नवमालतीसुर-
भयो वाता. सचन्द्रा. क्षपाः । यद्येतानि जयन्ति हन्त
परितः शस्त्राण्यमोघानि मे तद्भोः कीदृगसौ विवेकविभवः
कीदृक्प्रबोधोदय. ॥ ४५ ॥ अर्वै सुप्तो निशायाः सरमस-
सुरतायाससन्नश्लथाङ्गः प्रोद्भूतास्रह्वतृष्णो मधुमदविरतौ
हर्म्यपृष्ठे प्रबुद्ध. । संभोगाक्रान्तकान्थाशिथिलभुजलतावर्जितं
कर्करीतो ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं
मन्दपुण्य. ॥ ४६ ॥ चेत कर्षन्ति सप्तच्छदकुसुमरसासार-
सौरभ्यलुब्धभृङ्गीसङ्गीतभङ्गीश्रुतिसुभगदिशो वासस्राः शार-
दीनाः । कि च व्याकोशपङ्केरुहमधुरमुखी सचरच्चञ्चरीक-
श्रेणीवेणीसनाथा रमयति तरुण पद्मिनीमंशुमाली ॥ ४७ ॥
भ्रमरक्रीडा
अलक्षितकुचाभोगं भ्रमन्ती नृत्यभूमिषु । खरेणापि
सरोजाश्री न लक्षयीक्रियते शरै ॥ ४८ ॥ भ्रमात्प्रकीर्णे
श्रमरीषु किविचेलाञ्चले चञ्चललोचनाया । कुचौ
कदाचिज्जघन युवानो विलोक्य साफल्यमवापुरक्ष्णोः
॥ ४९ ॥ परिश्रमन्त्या भ्रमरीविनोदे नितम्बबिम्बाद्विगल-
दुकूलम् । विलोक्य कस्याश्चन कोमलाङ्ग्या. पुभावमन्या
सुदृशो ववाञ्छु. ॥ ५० ॥ यतो यत षट्चरणोऽभिवर्तते
ततस्तत. प्रेरितलोललोचना । विवर्तितभ्रूरियमद्य शिक्षते
भयादकामापि हि दृष्टिविभ्रमम् ॥ ५१ ॥ करौ धुनाना नव-
पल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् । उपेयुषी
कल्पलताभिशङ्कया कथं न्वितस्त्वत्सतिति षट्पदावलिः ॥ ५२ ॥
चेलाञ्चलेन चलहारलताप्रकाण्डवैणीगुणेन च चलङ्कलथी-
कृतेन । हेलाहितभ्रमरकभ्रममण्डलीभिश्च्छत्रत्रयं रचयतीव
चिर नतभ्रू ॥५३॥ मुक्ते काञ्चनकुण्डले निपतिते माणिक्य-
भूषणमौ कीर्णे केलिमरोरुहे विगलिते मुक्ताकलापे
सति । निःश्वस्याम्बुजलोचनाभ्रमरिकानृत्यावसाने पुन
प्राणेशच्युतिशङ्कयेव हृदये हस्तारविन्दं ददौ ॥ ५४ ॥
शरद्वायवः
वान्ति रात्रौ रतिक्रान्तकामिनीसुहृदोऽनिला. । ललना-
लोलधम्मिल्लमल्लिकामादवासिता ॥ ५५ ॥ वान्ति कहार-
सुभगा. सप्तच्छदसुगन्धय । वाता नवरतम्लानवधू-
गमनमन्थरा. ॥ ५६ ॥
शरत्पथिकः
पद्मानुषङ्ग पथि विस्मरन्त कथावशेषं च पयोदवृन्दे ।
मार्गेषु चन्द्रातपपिच्छिलेषु पदे पदे चस्खलुरध्वनीना
॥ ५७ ॥ इह निचुलनिकुञ्जे वशसभारभाजि स्वपिषि
यदि मुहूर्त्त पश्यसि क्षेत्रमेतत् । इति पथिकमकस्मान्मागं
एवोपविष्ट वदति तरुणकान्तं गोपिका साङ्गमङ्गम् ॥ ५८ ॥
हेमन्तवर्णनम्
हेमन्तहिमनिस्यन्दमवलोक्य मनोभवम् । प्रहर्तुं सुश्रुवा
चेतो रवेर्देवो धनूर्दधौ ॥ १ ॥ दुराशेव दरिद्रस्य तृष्णेव
कृपणस्य च । अहो न विरमत्येषा हन्त हेमन्तयामिनी ॥२॥
हेमन्ते बहुदोषाब्धै द्वौ गुणौ सर्वसमतौ । अयत्नशीतलं
वारि सुरतं खेदवर्जितम् ॥ ३ ॥
हेमन्तसमयस्वभावाख्यानम्
हे हेमन्त स्मरिष्यामि त्वय्यतीते गुणद्वयम् । अयत्न-
शीतल वारि निशा च सुरतक्षमा ॥ ४ ॥ हसन्ती वा
हसन्ती वा हसन्ती वामलोचनाम् । हेमन्ते ये न सेवन्ते
ते नूनं दैववञ्चिता ॥ ५ ॥ कामिनो हन्त हेमन्तनिश्शि
शीतज्वरातुरा । जीवन्ति हरिणाक्षीणा वक्षोजाश्लेषरक्षिता
॥ ६ ॥ अद्य शीत वरीवर्ति सरीसर्ति समीरण. ।
अपङ्कीको मरीमर्ति नरीनर्ति कुचोष्मवान् ॥ ७ ॥
हिमघवलदन्तकेशी मन्दद्युतितारका बृहत्तिमिर्रा ।
द्विगुणीभूता रजनी वृद्धेव शनै शनैर्याति ॥ ८ ॥
अम्बरमेष रमण्यै यामिन्यै वासर. प्रेयान् । अधिकं
दढौ निजाङ्गादथ सकुचित स्वयं तस्थौ ॥ ९ ॥
विकमति सूर्ये विकसति मुकुलति चास्तङ्गते तस्मिन् ।
शिशिरे नि म्वकुटुम्ब पङ्कजलीला समुद्वहति ॥ १० ॥
४४ सु र भा
३४६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
कन्याप्रसूतस्य धेनु प्रसङ्गादङ्गाधिकासादितविक्रमस्य । धैनं-
जयाधीनपराक्रमस्य हिमस्य कर्णस्य च को विशेषः ॥ ११ ॥
अलं हिमानीपरीदीर्णगात्र समापितः फाल्गुनसगमेन ।
अत्यन्तमाकाङ्क्षितकृष्णवर्त्मा भीष्मो महात्माजनि माघतुल्यः
॥ १२॥ अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्ध-
वाहः । गुणमसमयजं चिराय लेभे विरलतुषारकणस्तुषार-
कालः ॥१३॥ निचायिनि लवलीलताविकासे जनयति लोध्र-
समीरणी च हर्षम् । विकृतिमुपययौ न पाण्डुसूनुश्चलति
नयान्न जिगीषता हि चेतः ॥ १४ ॥ कतिपयसहकारपुष्प-
रम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः । सुरभिमुखहिमागमन्त-
शसी समुपययौ शिशिर खरैकबन्धुः ॥ १५ ॥ गजपति-
द्वयसीरपि हेमन्तस्तुहिनयन्सरितः पृषतापति । सलिल
सततमध्वगयोषितामतनुतातनुतापकृतं दृशाम् ॥ १६ ॥
इदमयुक्तमहो महदेव यद्धरतनो. स्मरयत्यनिलोऽन्यदा ।
स्मृतसयौवनसोष्मपयोधरान्स्तुहिनस्तु हिनस्तु वियोगिन
॥ १७ ॥ प्रियतमेन यया सरुषा स्थितं न सहसा सहसा
परिरभ्य तम् । श्लथयितु क्षणमक्षमताऽजना न सहसा सहसा
कृतवेपथु ॥ १८ ॥ भृशमदूयत याऽधरपल्लवक्षतिरनावरणा
हिममारुतै. । दशनरश्मिपटेन च सीत्कृतैर्निवसितेन सितेन
सुनिवर्वौ ॥ १९ ॥ व्रणभृता सुतनोः कलसीकृतस्फुरित-
दन्तमरीचिमयं दधे । स्फुटमिवावरणं हिममारुतैर्मृदुतया
द्रुतयाधरलेखया ॥ २० ॥ धुततुषारकणस्य नभस्तस्तरु-
लताडुलितर्जनविभ्रमा । पृथुनिरन्तरमिष्टमुजान्तर वनित-
या नितया न विषेहिरे ॥ २१ ॥ हिमऋतावपि ताः स्म
भृशखिदो युवतय सुतरामुपकारिणि । प्रकटयत्यनुराग-
मकृत्रिम स्मरमयं रमयन्ति विलासिन ॥ २२ ॥ प्रालेयशैल-
शिखरानिलसप्रयोगः प्रोत्फुल्लकुन्दमकरन्दहृतालिवृन्दः ।
कालोऽयमातपति कुङ्कुमपङ्कपङ्कप्रोत्तुङ्गरम्यरमणीकुचसङ्ग-
योग्य. ॥ २३ ॥ शुकरितयवाना सीम्नि नीहारभासः सपदि
विगतनिद्रा कौञ्चकान्ता क्षपान्ते । विदधति कमनीयकाणमु-
घत्कार स्रलितगलनाल जर्जरत्काररेफम् ॥ २४ ॥ लघूनि
तृणकुटीरे क्षेत्रकोणे यवाना नवकलमपलालस्तरे सोपधाने ।
परिहरति सुषुप्तं हालिकद्वन्द्वमारात्कुचकलशमहोष्माबद्धरेख-
स्तुषारः ॥ २५ ॥ अपि दिनमणिरेश क्लेशितः शीतसद्यैरथ
निशि निजभार्या गाढमालिङ्ग्य दोर्भ्याम् । स्वपिति पुनरुदेतुं
सालसाङ्गस्तु तस्मात्किमु न भवतु दीर्घा हैमनी यामिनीथम्
॥ २६ ॥ जरीमृन्मप्रौढद्युमणिकरसदोहसदृशस्फुरद्दीप्तिव्रात-
प्रगुणतरतारुण्यसुभगाम् । हसन्ती हेमन्ते परिजन-
युता वा सुवदना हसन्तीं सेवन्ते परिणतमहाभाग्यनिचयाः
॥ २७ ॥ वेपन्ते कपयो भृशं कृतजडं गोजाविकं म्लायति
श्वा चुल्लीकुहरोदर क्षणमपि प्राप्यापि नैवोज्झति । शीता-
र्तिव्यसनात्तुर. पुनरसौ दीनो जनः कूर्मवत्स्वान्यङ्गानि
शरीर एव हि निजे निह्नोतुमाकाङ्क्षति ॥ २८ ॥ शीताशो-
रिव नूतनस्य रुच्यो विद्या इवामेधसा विप्रातिक्रमिणा
विभूतय इव क्षीबस्य बोधा इव । भावैः सवलिता इव
प्रियतमे दृग्भङ्गयः सुध्रुवा प्रादुर्भूय तिरोभवन्ति सहसा
हैमन्तिका वासस्रा. ॥२९॥ लज्जा प्रौढमृगीदृशामिव नवव्रीणा
रतेच्छा इव स्वैरिण्या नियमा इव स्तरुचः कुल्याङ्गना-
नामिव । दंपत्योः कलहा इव प्रणयिता वाराङ्गनानामिव
प्रादुर्भूय तिरोभवन्ति सहसा हैमन्तिका वासस्रा ॥ ३० ॥
हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः काश्मीर-
द्रवलिप्तचारुवपुषः खिन्ना विचित्रै रतैः । वृत्तोरुस्तनकामिनी-
जनकताश्लेषा गृहाभ्यन्तरे ताम्बूलीदलपूगपूरितमुखा धन्या-
सुख शेरते ॥ ३१ ॥ चक्रे चण्डरुचा समं रणमसौ
हेमन्तपृथ्वीपतिर्ये ये तत्र जिता दिवाकरकरास्ते तेऽमुना
तत्क्षणात् । कान्ताना कुचभूधरे निदधिरे मन्येऽहमेव तदा
नो चेन्मन्दर, कथं दिनकरस्तप्तश्च तन्वीस्तनः ॥ ३२ ॥
प्रोधप्रौढारविन्दद्युतिभृति विदलत्कुन्दमाद्यद्विरेफे काले
प्रालेयवातप्रबलविकसितोद्दाममन्दारदाग्नि । येषा नो कण्ठ-
लग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी तेषामायामियामा
यमसद नसमा यामिनी याति नूनम् ॥ ३३॥
कन्दुकक्रीडा
पयोधराकारधरो हि कन्दुकः करेण रोषादिव ताड्यते
मुहु । इतीव नेत्राकृतिभीतमुत्पलं तस्याः प्रसादाय
पपात पादयोः ॥ ३४ ॥ वनिताकरतामरसामिहत. पतितः
पतितः पुनरुत्पतसि । विदित खलु कन्दुक ते हृदयं
वनितातुललभ्धुमिव ॥ ३५ ॥ सानन्दकन्दुकविहार-
विधौ वधूना दोलायमानमणिकङ्कणनिक्वणेन । उड्डायितेषु
युवचित्तविहंगमेषु श्येना इव स्मृतितुवो विशिखा विलग्ना.
॥ ३६ ॥ खरशरधिनिकाशं कर्णपाशं कृताङ्गी रयविगलित-
तालीपत्रताटङ्कमेकम् । वहति हृदयचोर कुङ्कुमम्यास-
गौर वलयितमिव नालं लोचनेन्दीवरस्य ॥ ३७ ॥
अमन्दमणिनूपुरक्वणनचारुचारिक्रमं झणज्झणितमेखला-
स्खलिततारहारच्छटम् । इदं तरलकङ्कणावलिविशेषवाचालित
मनो हरति सुध्रुवः किमपि कन्दुकक्रीडनम् ॥ ३८ ॥ भ्रम-
च्चरणपल्लवकणदमन्दमञ्जीरकं परिसखलदुरोहस्तबककम्प-
१ कन्याराशावुपन्नश्च, पक्षे,-कुमारिकाया प्रसूतश्च २ धनू
राशिसगमनेनेषु शरीरैरधिकमासादित संपावितो विक्रमो रोमा-
ञ्चोत्पादनादिरूप पराक्रमो येन, पक्षे,-धनुर्विद्ययाङ्गदेशेषु संपादित
पराक्रमो येन ३ धनजयोऽग्निस्तदधीन पराक्रमो बल यस्य, पक्षे,-
धनजयोऽर्जुनस्तदधीनपराक्रम ४ सूर्य