भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

३९४ सुभाषितरत्नभाण्डागारम् [ ७ प्रकरणम्

कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ॥ ६६८ ॥
नयेन जाग्रत्यनिशं नरेश्वरे सुखं स्वपन्तीह निरामयाः प्रजा ।
प्रमत्तचित्ते स्वपतीह सन्नमात्रजागरेणास्य जगत्प्रबुध्यते ॥ ६६९ ॥
चिता दहति निर्जीवं चिन्ता जीवं दहत्यहो ।
बिन्दुनेनाविका चिता चितात्यल्पा हि भूतले ॥ ६७० ॥
न कुल वृत्तहीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ ६७१ ॥
दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव । विवर्जयेत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ ६७२ ॥
न सा प्रीतिर्दिविस्वस्य सर्वकामानुपाश्नतः ।
सभवेद्वा परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥ ६७३ ॥
तीर्थस्थितः स्वकुलजास्तिमिरत्ति भुङ्क्ते मौनी बकस्तिमिरुपैत्य वनान्तवासी । व्याधो निहन्ति तु बकं प्रभवन्ति ते ते पात्रान्युपर्युपरि वञ्चनवञ्चनायाम् ॥ ६७४ ॥
एतल्लब्धमिदं च लब्धमधिकं तन्मूललब्धं ततो लभ्यं चापरमित्यनारतमहो लब्ध्यं धनं ध्यायसि । नैतद्वेत्सि पुनर्भवन्तमचिरादाशापिशाची बलात्सर्वग्रासमियं ग्रसिष्यति महामोहन्धकारावृतम् ॥ ६७५ ॥
पूर्वं समानता यत्र पश्चाच्चैव विमानना । जह्यात्तत्सत्त्ववान्स्थानं शत्रोः समानितोऽपि सन् ॥ ६७६ ॥
धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम् । धर्मेण लभ्यते सर्वं धर्मसारमिदं जगत् ॥ ६७७ ॥
न वैगुण्यमभिजानान्ति गुणान्पश्यन्ति नागुणान् । विरोधं नाविगच्छन्ति ये त उत्तमपूरुषाः ॥ ६७८ ॥
क्षीणे रविरवति शशी वृद्धौ च वर्धयति पयसा नाथम् । अन्ये विपदि सहाया धनिना श्रियमनुभवन्त्यन्ये ॥६७९॥
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् । कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत् ॥ ६८० ॥
किं कुलेन विशालेन शीलमेवात्र कारणम् । कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥ ६८१ ॥
नहि कस्य प्रियः को वा विप्रियो वा जगत्त्रये । काले कार्यवशात्सर्वे भवन्त्येवाप्रियाः प्रियाः ॥ ६८२ ॥
तीक्ष्णोपायप्रान्तगम्योऽपि योऽर्थस्तस्याप्याढौ संश्रय साधुयुक्तः ।
उतुङ्गाग्रः सारभूतो वनानां सालोऽभ्यर्च्य छिद्यते पादपेन्द्रः ॥ ६८३ ॥
नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् ।
आत्मरूपं जले पश्यन् शक्रस्यापि श्रियं हरेत् ॥ ६८४ ॥
पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ ६८५ ॥
धर्मस्थाने श्मशाने च रोगिणां या मतिर्भवेत् । सा सर्वदैव तिष्ठेच्चेत्को न मुच्येत बन्धनात् ॥ ६८६ ॥
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते । स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ॥ ६८७ ॥
न खे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रहृष्टः । दत्वा न पश्चात्कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः ॥ ६८८ ॥
तिलार्धं स्वीयभागश्च निःसारं बदरीफलम् । आहारातपरतः श्रेयो धूलिः परगृहादपि ॥ ६८९ ॥
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् । सैव नौः सागरस्येव वणिजः पारमिच्छतः ॥ ६९० ॥
न स्कन्दते न व्यथते न विनश्यति कर्हिचित् । वरिष्टमभिहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ६९१ ॥
दोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् । येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः ॥ ६९२ ॥
किं करिष्यति संसर्गः स्वभावो दुरतिक्रमः । पश्याग्रफलसंसर्गी कषायो मधुरः कुतः ॥६९३॥
धार्मीत्मन शुभैर्वृत्तैः क्रतुमिश्चाप्तदक्षिणेः । धूतपापा गताः स्वर्गं पितामहनिषेवितम् ॥ ६९४ ॥
न विश्वामाजातु परस्य गेहे गन्धेन्नशयेतानो विकाले । न चत्वरे निशि तिष्ठेन्निगूढो न राजकाम्यां योषितं प्रार्थयीत ॥ ६९५ ॥
बध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि । विश्वस्तास्तेषु बध्यन्ते चलवन्तोऽपि दुर्बलैः ॥ ६९६ ॥
न वैरमुद्दीपयति प्रशान्तं न दुर्मारोहति चास्ति मेति । न दुर्गंतोऽस्मीति करोत्यकार्यं तमार्थ्यशील परमाहुरार्याः ॥ ६९७ ॥
काले मृदुर्यो भवति काले भवति दारुणः । प्रमाधयति कृत्यानि शत्रुं चाप्यधितिष्ठति ॥ ६९८ ॥
चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किंचित् । मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य च्यवते कश्चिदर्थः ॥ ६९९ ॥
धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते । असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ ७०० ॥
मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिनः । हरन्ति न तथा वाचो यथा साधु विपश्चिताम् ॥ ७०१ ॥
न स्पृष्टत्यायुधं जातु न स्त्रीणां स्तनमण्डलम् । अमनुष्यस्य कस्यापि हस्तोऽयं न किलाफलः ॥ ७०२ ॥
कोशमूलो हि राजेति प्रवादः सार्वलौकिकः । एतत्स्र्वं जहातीह कोशव्यसनवान्नृपः ॥ ७०३ ॥
कालेन शीघ्राः प्रवहन्ति वाताः कालेन वृष्टिर्जलदानुपैति । कालेन पद्मोत्पलवज्जल च कालेन पुष्यन्ति नगा वनेषु ॥ ७०४ ॥
त्वमेव धातुः पूर्वोऽसि त्वमेव प्रत्ययः परः । अनाख्यातं न ते किंचिन्नाथ केनोपमीयसे ॥७०५॥
क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्वसपन्नसस्या पर्जन्यः कालवर्षी सकलजनमनोनन्दिनो वान्तु वाताः । मोदन्ता जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्त श्रीमन्तः पान्तु पृथ्वी प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः ॥ ७०६ ॥

इति श्रीसुभाषितरत्नभाण्डागारे सप्तमं संकीर्णप्रकरणम् ॥

समाप्तोऽयं ग्रन्थः

सुभाषितरत्नखण्डमञ्जूषा

अकाण्डपातोपनता न कं लक्ष्मीर्विमोहयेत् । (कै० स०)अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोऽनुधावति । (शि० व०)
अकालमेघवद्वृत्तमकस्मादेति याति च । (क० स०)
अकृत्यं मन्यते कृत्यम् । (प० त०)अनवसरे याचितमिति सत्पात्रमपि कुप्यते दाता ।
अक्षोभ्यतैव महतां महत्त्वस्य हि लक्षणम् । (क० स०)अनाथा कृच्छ्रपतिता विदेशे स्त्री करोति किम् । (क०स०)
अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति ।अनार्यं परदारव्यवहारः । (अ० शा०)
अगम्यं मन्यते सुगम् ।अनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः । (क० स०)
अगाधजलसंचारी न गर्वं याति रोहितः । (प० त०)अनार्यसङ्गमाद्दूरं विरोधोऽपि समं महात्मभिः । (कि० उ०)
अगुणस्य हतं रूपम् ।अनाश्रया न शोभन्ते पण्डिता वनिता लताः ।
अङ्कमारुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ।अनियुक्तोऽपि च ब्रूयाद्यदोच्छेत्स्वामिनो हितम् । (क० स०)
अङ्गीकृतं सुकृतिनः परिपालयन्ति ।अनिर्वर्णनीयं परकलत्रम् । (अ० शा०)
अचिन्त्य शीलवृत्तानां चरितं कुलयोषिताम् । (क० स०)अनिश्चितावधि धीरा सहन्ते विरहं चिरम् । (क० स०)
अचिन्त्यं हि फलं सूते सद्यः सुकृतपादपः । (क० स०)अनुक्तेऽपि कलत्रे नीचः परदारलम्पटो भवति ।
अचिन्त्यो बत दैवेनाप्यापातः सुखदुःखयोः । (क० स०)अनुगृह्णन्ति हि प्रायो देवता अपि तादृशम् । (क० स०)
अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ।अनुत्सेकः खलु विक्रमालङ्कारः ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् । (प० त०)अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् । (अ० शा०)
अजानतो हठात्कुर्वन्नाज्ञमानी विनश्यति । (क० स०)अनुरागपरायत्ताः कुर्वते किं न योषितः । (क० स०)
अजीर्णे भोजनं विषमन् । (हि०)अनुरागान्धमनसां विचारः सहसा कुतः । (क० स०)
अज्ञता कस्य नामेह नोपहासाय जायते । (क० स०)अनुसृत्य सतां वर्त्म यत्स्वल्पमपि तद्बहु ।
अज्ञानामृतचेतसामतिरुषा कोऽर्थस्थिरश्चा गुणे. ।अनुहुंकुरुते घनध्वनिं नहि गोमायुरुतानि केसरी । (शि० व०)
अतर्क्या कुट्टनी कूटरचना हि विधेरपि । (क० स०)अन्तरापाति हि श्रेयः कार्यसंपत्तिसूचकम् । (क० स०)
अतिदानाद्बलिर्बद्धः । (भाग०)अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः । (प० त०)
अतिपरिचयादवज्ञा संततगमनादनादरो भवति ।अन्त सारविहीनानामुपदेशो न विद्यते ।
अतिभुक्तिरतीवोक्तिः सद्यः प्राणापहारिणी ।अन्धस्य दीपो बधिरस्य गीतम् ।
अतिलोभो न कर्तव्यश्चक्रं भ्रमति मस्तके । (प० त०)अन्यस्माल्लब्धपदो नीचः श्रयेण दुःसहो भवति ।
अति सर्वत्र वर्जयेत् । (प० त०)अन्यायं कुरुते यदा क्षितिपतिः कस्तं निरोद्धुं क्षमः ।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति । (प० त०)अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ।
अत्यारूढो हि नारीणामकालज्ञो मनोभवः । (र० व०)अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः । (र० व०)
अत्युच्चैर्भवति लघीयसा हि धाष्टर्यम् । (शि० व०)अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ।
अथास्य तत्त्वेषु कृतेऽवभासे समुन्मिमीलेव चिराय चक्षुः ।अपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ।
अदाता वंशदोषेण ।अपायो हस्तकस्थो हि विषयग्रस्तचेतसाम् । (क० स०)
अधरेऽवमृतं हि योषितां हृदि हालाहलमेव केवलम् ।अपां हि तृप्ताय न वारिधारा, स्वादु सुगन्धिः स्वदते तुषारा । (नै० च०)
अधर्मयुद्धेन जयं को हीच्छेत्क्षत्रियो भवन् । (क० स०)अपि गङ्गाजलस्नानादधः केशः कुशायते ।
अधर्मविषवृक्षस्य पच्यते स्वादु किं फलम् । (क० स०)अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् । (मा० मा०)
अधिकस्याधिकं फलम् ।अपि धन्वन्तरिर्वैद्यः किं करोति गतायुषि ।
अनध्वा वाजिनां जरा । (प० त०)अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः परभणितिषु तृप्तिं यान्ति सन्तः कियन्तः ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा । (कु० स०)अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः । (र० व०)
अनन्यगामिनी पुंसां कीर्तिरेका पतिव्रता ।
अनपायिनि संश्रयद्रुमे गजभङ्गे पतनाय वल्लरी । (कु०स०)

१ एतत्सांकेतिकचिह्नानां विवरणं 'सांकेतिकचिह्नपरिचयात्' अवसेयम् ।
1 सु० र० भा०

सुभाषितरत्नभाण्डागारम्


[स्तम्भः १]

अपुत्रस्य गृहं शून्यम् ।
अपृष्टोऽपि हितं ब्रूयात् यस्य नेच्छेत् पराभवम् ।
अपेक्षन्ते हि विपदः किं पेलवमपेलवम् । (क० स०)
अप्यप्रसिद्धं यशसे हि पुसामनन्यसाधारणमेव कर्म । (कु० स०)
अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियाः लभते ।
अप्राप्यं नाम नेहास्ति धीरस्य व्यवसायिनः । (क० स०)
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः । (प० त०)
अबला यत्र प्रबला ।
अबुद्ध्वा चित्तमप्राप्य विश्रम्भं प्रभविष्णुषु । (क० स०)
अभक्ष्यं मन्यते भक्ष्यम् ।
अभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः ।
अमितसमयोऽपि मार्दवं भजते कैव कथा शरीरिषु । (र० व०)
अभोगस्य हतं धनम् । (प० त०)
अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे । (कु० स०)
अभ्यागतो यत्र न तत्र लक्ष्मीः ।
अमर्षेण शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्नः । (र० व०)
अमृतं क्षीरभोजनम् ।
अमृतं प्रियदर्शनम् ।
अमृतं राजसम्मानम् ।
अमृतं शिशिरे वह्निः ।
अमृतायते हि स्तुतयः सुकर्मणाम् । (कि० अ०)
अमोघो देवतानां च प्रसादः किं न साधयेत् । (क० स०)
अम्बुगर्भा हि जीमूतश्चातकैरभिनन्द्यते । (र० व०)
अयमश्वः पताकेयमथवा वीरघोषणम् ।
अयशोभीरवः किं न कुर्वते बत साधवः । (क० स०)
अयाच्यो नार्तानामनुपकरणीयो न महताम् ।
अयातपूर्वां परिवादगोचरं सतां हि वाणी गुणमेव भाषते । (कि० अ०)
अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।
अयोविकारे स्वरितत्वमिष्यते कुतोऽयमा सिद्धरसस्पृशामपि । (नै० च०)
अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि संधिसन्दूषणानि । (कि० अ०)
अरंतुदत्वं महता ह्यगोचरः । (कि० अ०)
अर्थभारवती वाणी भजते कामपि श्रियम् ।
अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् । (च० प०)
अर्थार्थी जीवलोकोऽयं । (प० त०)
अर्थातुराणां न गुरुर्न बन्धुः ।


[स्तम्भः २]

अर्थिनि जने त्यागं विना श्रीश्च का ।
अर्थेन बलवान् सर्वः । (प० त०)
अर्थो हि कन्या परकीय एव । (अ० शा०)
अर्धमात्रालाघवेनापि पुत्रोत्सवं मन्यन्ते वैयाकरणाः ।
अर्धो घटो घोषमुपैति नूनम् ।
अलब्धशाणोल्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ।
अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् । (कु० स०)
अल्पबीजं हतं क्षेत्रम् ।
अल्पविद्यो महागर्वी ।
अल्पश्च कालो बहवश्च विघ्नाः ।
अल्पसत्त्वेषु धीराणामवज्ञैव हि शोभते । (क० स०)
अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् । (र० व०)
अल्पाक्षररमणीयं यः कथयति निश्चितं स खलु वाग्मी ।
अल्पीयसोऽप्यायतुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः । (कि० अ०)
अवसाययितुं क्षमा सुखं न विधेयेषु विशेषसपदः । (कि० अ०)
अवस्तुनि कृतक्लेशो मूर्खो यात्यवहास्यताम् । (क० स०)
अविचार्य प्रभूणां हि शुचेर्वाक्यं स्वमन्त्रिणः । (क० स०)
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः । (कि० अ०)
अविद्याजीवनं शून्यम् ।
अविनीता रिपुर्भार्या ।
अविश्रमो लोकतन्त्राधिकारः । (अ० शा०)
अव्यवस्थितचित्तस्य प्रसादोऽपि भयकरः । (भर्तृ०)
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् । (र० व०)
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति । (प० त०)
अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः । (कु० स०)
अशीलः कस्य नाम स्यान्न खलीकारकणम् । (क० स०)
अश्लीलं कस्य भूतये । (क० स०)
अश्लीलस्य हतं कुलम् ।
अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता । (कु० स०)
अश्नुते स हि कल्याणं व्यसने यो न मुह्यति । (क० स०)
अश्रेयसे न वा कस्य विश्वासो दुर्जने जने । (क० स०)
अश्वं श्लक्ष्णं शास्त्रं वीणा वाणी नरश्च नारी च । (प० त०)
अश्वा यस्य जयस्तस्य । (चा० नी०)
अश्वा यस्य यशस्तस्य ।
असंतुष्टा द्विजा नष्टाः । (प० त०)
असन्मैत्री हि दोषाय कूलच्छायेव सेविता । (कि० अ०)
असभाष्या अपि नृणां भवन्तीह समागमाः । (क० म०)

सुभाषितरत्नखण्डमञ्जूषा ३


असंभोगो जरा स्त्रीणाम् । असता सङ्गदोषेण साधवो यान्ति विक्रियाम् । असाध्यं सत्यसाध्वीना किमस्ति हि जगत्त्रये । (क० स०) असाध्यं साधयत्यर्थं हेलयाभिमुखो विधिः । (क० स०) असारे दग्धसंसारे सार सारङ्गलोचनाः । असारोऽस्मिन्भवे तावद्भावा पर्यन्तनीरसा । (क० स०) असिद्धार्था निवर्तन्ते न हि धीरा कृतोद्यमा । (क० स०) असिद्धेस्तु हता विद्या । अस्थाने पतिता सतीव महतामेतादृशी स्याद्गति । अस्थिर जीवित लोके । (हि०) अस्थिराः पुत्रदाराश्च । (हि०) अस्थिरे धनयौवने । (हि०) अस्वर्ग्यं लोकविद्विष्टम् । अहह कलिकाल प्रभवति । अहह कष्टमपण्डितता विधे । (भर्तृ०) अहह महता निःसीमानश्चरित्रविभूतयः । (भर्तृ०) अहितो देहजो व्याधि । अहो अतीव भोगाशा कं नाम न विडम्बयेत् । (क० स०) अहो चित्राकारा नियतिरिब नीतिर्नयविद् । अहो दुरन्ता बलवद्विरोधिता । (कि० अ०) अहो दैवाभिशस्ताना प्राप्तोऽप्यर्थं पलायते । (क० स०) अहो नवनवाश्चर्येनिर्माणे रसिको विधिः । (क० स०) अहो रूपमहो ध्वनिः । (हि०) अहो विधेरचिन्त्यैव गतिरद्भुतकर्मणाम् । (क० स०) अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् । (क० स०) अहो विनेन्द्रजालेन स्त्रीणा चेष्टा न विद्यते । (क० स०) अहो विश्वास्य वञ्च्यन्ते धूर्तैश्छद्मभिरीश्वरा । (क० स०) अहो सहन्ते बत नो परोदयम् । आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया । आकरः स्वपरभूरिकथाना प्रायशो हि सुहृदो. सहवास. (नै० च०) आकृष्ट. कामलोभाभ्यामपाय. को हि पश्यति। (क० स०) आचार प्रथमो धर्म. । (म० स्मृ०) आज्ञा गुरूणा ह्यविचारणीया । (र० व०) आत्मबुद्धि. सुखायैव । आत्मार्थे पृथिवी त्यजेत् । (प० त०) आत्मेश्वराणा नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति । (कु० स०) आदानं हि विसर्गाय सता वारिमुचामिव । (र० व०) आदावसत्यवचन पश्चाज्जाता हि कुत्स्यिय. । (क० स०) आदौ साम प्रयोक्तव्यम् । (प० त०) आपत्काले च कष्टेऽपि नोत्साहस्त्यज्यते बुधैः । (क० स०) आपत्काले तु संप्राप्ते यन्मित्रं मित्रमेव तत् । (प० त०) आपत्सु धीरान्पुरुषान्व्स्वयमायान्ति सम्पद । (क० स०)


आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । (प० त०) आपदि येनापकृतं येन च हसित दशासु विषमेषु । (प० त०) आपदि स्फुरति प्रज्ञा यस्य धीर स एव हि । (क० स०) आपदेत्युभयलोकदूषणी वर्तमानमपथे हि दुर्मतिम् । (कि० अ०) आपद्यपि त्याज्य न सत्त्व संपदेषिभि । (क० स०) आपद्यपि सतीवृत्त कि मुञ्चन्ति कुलस्त्रिय. । (क० स०) आपन्नत्राणविकले किं प्राणै. पौरुषेण वा । (क० स०) आपन्नस्य विषयवासिन आर्तिहरेण राज्ञा भवितव्यम् । (अ० शा०) आपन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् । (मे० दू०) आपो वहन्तीह हि लोकयात्रा यथा न भूतानि तथापराणि । (नै० च०) आमुखापाति कल्याणं कार्यसिद्धिं हि शसति । (क० स०) आये दु खं व्यये दु ख धिगर्था. कष्टसश्रया । (प० त०) आरब्धा ह्यसमाप्तैव कि धीरैस्त्यज्यते क्रिया । (क० स०) आरब्धे हि सुदुष्करेऽपि महता मध्ये विराम कुत. । (क० स०) आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । (प० त०) आर्जवं हि कुटिलेषु न नीति । (नै० च०) आलस्योपहता विद्या । (हि०) आवेष्टितो महासर्पैश्चन्दन किं विधायते । आशाबन्ध कुसुमसदृशं प्रायशो ह्यङ्गनाना सद्य पाति प्रणयि हृदयं विप्रयोगे रुणद्धि । (मे० दू०) आशु बध्नाति हि प्रेम प्राग्जन्मान्तरसंस्तव. । (क० स०) आश्वस्तो वेत्ति कुसृतिं प्रभु. को हि स्वमन्त्रिणाम् । (क० स०) आसुर कुलमनादरणीयम् । आहारे व्यवहारे च त्यक्तलज्ज. सुखी भवेत् । आहु ससपदी मैत्री । आह्वता हि विषयैकतानतां ज्ञानधौतमनस न लिम्पति । (नै० च०) इच्छादानपरोपकारकरण पात्रानुरूप फलम् । इतो भ्रष्टस्ततो भ्रष्ट. । इदं च नास्ति न परं च लभ्यते । इन्द्रोऽपि लघुता याति स्वयं प्रख्यापितैर्गुणै. । (प० त०) इन्धनौघधगप्यग्निस्त्विषा नात्येति पूषणम् । (शि० व०) इष्टं धर्मेण योजयेत् । (प० त०) इष्टप्रवासजनितान्यबलाजनस्य दु.खानि नूनमतिमात्रासुदु सहानि । (अ० शा०) इष्टमूलानि शोकानि । इहामुत्र च नारीणां परमा हि गति पतिः । (क० स०) ईर्ष्या हि विवेकपरिपन्थिनी । (क० स०)

४ | सुभाषितरत्नभाण्डागारम्

[स्तम्भः १]

ईश्वराणां हि विनोदरसिकं मनः । (कि० अ०)
उच्छ्रायं नयति यदृच्छयापि योगः । (क० स०)
उत्पद्यन्ते विलीयन्ते ।
उत्तरोत्तरशुभो हि विभूना कोऽपि मङ्गलतमः क्रमवादः । (नै० च०)
उत्सवप्रिया खलु मनुष्याः ! (अ० शा०)
उत्सहन्ते नहि द्रष्टुमुत्तमा स्वजनापदम् । (क० स०)
उत्साहैकधने हि वीरहृदये नामोति खेदोऽन्तरम् । (क० स०)
उदारचरितानां तु वसुधैव कुटुम्बकम् । (हि०)
उदारसत्त्वं वृणुते स्वयं हि श्रीरिवाङ्गना । (क० स०)
उदारस्य तृणं वित्तम् ।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमा ।
उदिते परमानन्दे नाहं न त्वं न वै जगत् ।
उदेति पूर्वं कुसुमं ततः फलं घनोदय प्राक्तदनन्तर पयः । (अ० शा०)
उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता । (शि० व०)
उद्यमेन विना राजन्न सिद्ध्यन्ति मनोरथाः । (प० त०)
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः । (प० त०)
उद्योग पुरुषलक्षणम् ।
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः । (प० त०)
उद्धत्तः क इव सुखावहः परेषाम् । (शि० व०)
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ।
उन्नतो न सहते तिरस्क्रियाम् ।
उन्मादो मातृदोषेण ।
उपकृत्य निसर्गत परेषामुपरोधं नहि कुर्वते महान्तः । (शि० व०)
उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः । (शि० व०)
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । (प० त०)
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी । (अ० शा०)
उपभुक्ते हि तारुण्ये प्रशमः सद्विरिष्यते । (क० स०)
उपहितपरमप्रभावधाम्नां न हि जयिनां तपसामलक्ष्यमस्ति । (कि० अ०)
उपायं चिन्तयेत् प्राज्ञः । (प० त०)
उपायेन हि यत्कुर्यात् तन्न शक्यं पराक्रमैः । (प० त०)
उपार्जितानामर्थानां त्याग एव हि रक्षणम् । (प० त०)
उप्तं सुकृतबीजं हि सुक्षेत्रेषु महत्फलम् । (क० स०)
उष्णत्वमस्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य । (र० व०)
उष्णो दहति चाङ्गारः शीत कृष्णायते करम् । (प० त०)
ऋणकर्ता पिता शत्रुः । (प० त०)


[स्तम्भः २]

ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् । (कु० स०)
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्कारण्डमलीमस्रं नभः । (शि० व०)
ऋद्धिश्चित्तविकारिणी ।
एकं मित्र भूपतिर्वा यतिर्वा । (भर्तृ०)
एकाग्रो हि बहिर्वृत्तिनिवृत्तस्तत्त्वमीक्षते । (क० स०)
एका भार्या सुन्दरी वा दरी वा । (भर्तृ०)
एको देव केशवो वा शिवो वा । (भर्तृ०)
एकोऽप्याश्रमहीनोऽपि लक्ष्मी प्राप्नोति सत्त्ववान् । (क० स०)
एको वासः पट्टने वा वने वा । (भर्तृ०)
एको हि दोषो गुणसन्निपाते निमज्जतीन्दो किरणेष्विवाङ्कः । (कु० स०)
एवमाशाग्रहग्रस्ते क्रीडन्ति धनिनोऽर्थिभिः । (हि०)
ऐकचित्ते द्वयोरेव किमसाध्य भवेदिति । (क० स०)
औचित्यं गणयति को विशेषकाय । (शि० व०)
क उष्णोदकेन नवमल्लिका सिञ्चति । (अ० शा०)
कठिनाः खलु स्त्रियः । (कु० स०)
कणश क्षणशश्चैव विद्यामर्थं च साधयेत् ।
कण्ठे सुधा वसति वै खलु सज्जनानाम् ।
कथं हि लङ्घ्यते भृत्यैर्ग्राहिकस्य प्रभोर्वच । (क० स०)
कथंचिच्च हि दिव्याना वीर्यं भजति मोघताम् । (क० स०)
कथमपि भुवनेऽस्मिंस्तादृशाः संभवन्ति । (मृ०)
कदर्याणा परे प्राणा प्रायेण ह्यर्थसंचया । (क० स०)
कदापि सत्पुरुषाः शोकवास्तव्या न भवन्ति । (अ० शा०)
कन्या नाम महद्दुःखं धिगहो महतामपि । (क० स०)
कमलवनभूषा मधुकरः ।
कमिवेशते रमयितुं न गुणाः । (कि० अ०)
करुणार्द्रा हि सर्वस्य सन्तोऽकारणबान्धवाः । (क० स०)
कर्तव्यं हि सता बचः । (क० स०)
कर्तव्यो महदाश्रय । (प० त०)
कर्मणो ज्ञानमतिरिच्यते ।
कर्मदोषाहरिद्रता ।
कर्मानुगो गच्छति जीव एक । (भाग०)
कर्मायत्त फलं पुंसाम् ।
कलहान्तानि हर्म्याणि । (प० त०)
कलारवं गाने । (प्र० म०)
कलासीमा काव्यम् । (प्र० म०)
कलौ वेदान्तिनो भान्ति फाल्गुने बालका इव ।
कल्पवृक्षोऽप्यभव्यानां प्रायो याति पलाशताम् । (क० स०)
कवयः किं न पश्यन्ति ।

सुभाषितरत्नखण्डमञ्जूषा

कवले पतिता सद्यो वमयति ननु मक्षिकान्धभोकारम् ।कार्यान्ते ते च शष्पवत् ।
कष्टं शिशुक्षतिकृति कलौ कार्श्यमृच्छन्ति विद्या ।कालप्रयुक्ता खलु कर्मसिद्धिर्विज्ञापना भर्तृषु सिद्धिमेति । (कु० स०)
कष्टं निर्धनिकस्य जीवितमहो दारैरपि त्यज्यते ।कालयुक्त्या दृशिर्मित्र जायते न च सर्वदा । (क० स०)
कष्टं हन्त शृगीदृशा पतिगृहं प्रायेण कारागृहम् ।कालस्य कुटिला गति ।
कष्ट. खलु पराश्रय ।काले खलु समारब्धा फलं बध्नन्ति नीतय । (र० व०)
कष्टा. कुलखलीकारहेतवो बत कुस्त्रिय. । (क० स०)काले दत्त वर ह्यल्पमकाले बहुनापि किम् । (क० स०)
कष्टादपि कष्टतर परगृहवास पराञ्च च ।कालेन फलने तीर्थं सद्य साधुसमागम । (भाग०)
कष्टा हि कुटिलश्वशुरप्रत्नवधूस्थिति । (क० स०)कालो ह्यय निरवधिर्विपुला च पृथ्वी । (मा० म०)
कष्टो हि बान्धवस्नेह राज्यलोभोऽतिवर्तने । (क० स०)का विद्या कविता बिना ।
कष्टो ह्यविनयक्रम. । (क० स०)काश्मीरजस्य कटुतापि नितान्तरम्या ।
कस्याग. स्वकुटुम्बपोषणविधावर्थद्वयं कुर्वत. ।का ह्यङ्गिनी विना हंस कश्च हसोऽब्जिनीं विना । (क०स०)
कस्मिन्वा सजलगुणे गिरा पटुत्वम् । (शि० व०)कि वा धाराधिरूढ हि जाड्य वेदञ्जडे जने । (क० स०)
कस्य नेष्टं हि यौवनम् । (क० स०)कि वा भविष्यदरुणस्तमसा विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् । (अ० शा०)
कस्यचित्किमपि नो हरणीयम् ।किं वा सुलभपापा हि भवन्त्युन्मार्गवृत्तय. । (क० स०)
कस्य नाभ्युदये हेतुर्भवेत्साधुसमागम । (क० स०)किं हि न भवेदीश्वरेच्छया । (क० स०)
कस्य नोच्छृङ्खलं बाल्यं गुरुशासनवर्जितम् । (क० स०)किं किं करोति न निरर्गलता गता स्त्री ।
कस्य सत्सङ्गो न भवेच्छुभ. । (क० स०)किञ्चित्कालोपभोग्यानि यौवनानि धनानि च ।
कस्यात्यन्तं सुखमुपनतं दु खमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण । (मे० दू०)किं जीवितेन पुरुषस्य निरक्षरेण । (भर्तृ०)
कस्याश्वसिति चेतो हि विहितस्वैरसाहसम् । (क० स०)किं तदस्ति हि संसारे पर्यन्तविरस हि यत् । (क० स०)
कः कालस्य न गोचरान्तरगत. । (भर्तृ०)किं दूर व्यवसाथिनाम् । (चा० नी०)
कः पर. प्रियवादिनाम् । (हि०)किं न कुर्वन्ति योषित. । (भर्तृ०)
क पितामहगोलकेऽत्र निखिलै. समानितो वर्तते ।किं न भक्षन्ति वायसा. ।
क. प्राज्ञो वाञ्छति स्नेह वेश्यासु सिकतासु च । (क० स०)कि नाम न सहन्ते हि भर्तृभक्ता कुलाङ्गना. । (क० स०)
क. शरीरनिर्वापयित्रीं शारदीं ज्योत्स्ना पटान्तेन वारयिष्यति । (अ० शा०)किमज्ञेयं हि धीमताम् । (क० स०)
क. सहकारमन्तरेणातिमुक्तलतां पल्लविता सहते । (अ० शा०)किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते । (अ० शा०)
क. सूनुर्विनयं विना ।किमदेयमुदाराणामुपकारिषु तुष्यताम् । (क० स०)
क. स्थानलाभे गुण. । (हि०)किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने ।
का कस्य परिदेवना ।किमिव हि मधुराणा मण्डनं नाकृतीनाम् । (अ० शा०)
काका किमपराध्यन्ति हंसैर्जग्धेषु शालिषु । (क० स०)किमिव हि शक्तिहर ससाध्वसानाम् । (शि० व०)
काकोऽपि जीवति चिराय बलि च भुङ्के । (प० त०)किमिवावसादकरमहमवताम् । (कि० अ०)
का नाम कुलजा हि स्त्री भर्तृद्रोह करिष्यति । (क० स०)किमिवास्ति यन्न सुकर मनस्विभि. । (कि० अ०)
कान्ता रूपवती शत्रु. ।किमु चोदिता प्रियहितार्थकूत. कृतिनो भवन्ति सुहृदः सुहृदाम् । (शि० व०)
कान्ते कथं घटितवानुपलेन चेत. ।किं परस्य स गुण समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् । (शि० व०)
कामक्रोधौ हि विषाणा मोक्षद्वारार्गलावुभौ । (क० स०)किं मर्दितोऽपि कस्तूर्या लशुनो याति सौरभम् ।
कामं न श्रेयसे कस्य सगम पुण्यकर्मभि । (क० स०)किं मिष्टमन्नं खरसूकराणाम् ।
कामं व्यसनवृक्षस्य मूलं दुर्जनसङ्गति. । (क० स०)कुकर्मान्त यशो नृणाम् ।
कामातुराणा न भयं न लज्जा । (भर्तृ०)कुकृत्ये को न पण्डित. ।
कामात हि प्रकृतिकृपणाश्चेतनाचेतनेषु । (मे० दू०)कुगेहिनीं प्राप्य गृहे कुतः सुखम् ।
कामिनश्च कुतो विद्या ।कुण्डे कुण्डे नवं पय. ।
काय. कस्य न वल्लभ. ।
कार्य निदानाद्धि गुणानधीते । (नै० च०)
सुभाषितरत्नभाण्डागारम्
कुतः परस्मिन्पुरुषे विकारः । (कि० अ०)को धर्मः कृपया विना ।
कुतः शङ्का कलङ्किनः ।को न तृप्यति वित्तेन ।
कुतः सत्यं च कामिनाम् ।को न याति वशं लोके मुखे पिण्डेन पूरितः ।
कुतो विद्यार्थिनः सुखम् ।को नाम राज्ञां प्रियः । (प० त०)
कुदेशमासाद्य कुतोऽर्थसंचयः ।कोऽन्यो हुतवहाद्दग्धुं प्रभविष्यति । (अ० शा०)
कुदेशेष्वपि जायन्ते क्वचित्केचिन्महाशयाः । (क० स०)कोऽर्थान्प्राप्य न गर्वितः । (प० त०)
कुपात्रदानाच्च भवेद्दरिद्रः ।कोऽर्थी गतो गौरवम् । (प० त०)
कुपुत्रमासाद्य कुतो जलाञ्जलिः ।कोऽवकाशो विवेकस्य हृदि कामान्धचेतसः । (क० स०)
कुपुत्रेण कुलं नष्टम् ।को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् । (प० त०)
कुप्येत्को नातियाचितः ।को विदेशः समर्थानाम् । (प० त०)
कुभोजनं चोष्णतया विराजते ।को विहन्तुमलमास्थितोदये वासरश्रियदशीतदीधितौ । (शि० व०)
कुभोज्येन दिनं नष्टम् ।
कुरहस्यसहाये हि भृत्ये भृत्यायते प्रभुः । (क० स०)को हि मार्गममार्गं वा व्यसनान्धो निरीक्षते । (क०म०)
कुराजान्तानि राष्ट्राणि । (प० त०)को हि वित्तं रहस्यं वा स्त्रीषु शक्नोति गूहितुम् । (क०स०)
कुरूपता शीलतया विराजते ।को हि संपत्सु चपलास्वास्थास्ये वनितासु च । (क० स०)
कुरूपी बहुचेष्टिकः ।को हि स्वशिरसश्छाया विधेयोलङ्घयेद्गतिम् । (क० स०)
कुर्वन्त्यकालेऽभिभयंकिं न कार्यापेक्षिणो बुधाः । (क० स०)क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् । (कु०स०)
कुलवधूः क्वा स्वामिभक्तिं विना ।क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे । (भर्तृ०)
कुले कश्चिदन्यः प्रभवति नरः श्लाघ्यमहिमा ।क्रिया हि वस्तूपहिता प्रसीदति । (र० व०)
कुवस्त्रता शुभ्रतया विराजते ।क्रुद्धे विधौ भजति मित्रममित्रभावम् ।
कुवाक्यान्तं च सौहृदम् । (प० त०)क्रोधः संसारबन्धनम् ।
कुशिष्यमध्यापयतः कुतो यशः ।क्रोधो मूलमनर्थानाम् । (हि०)
कृतघ्ना धनलोभान्धा नोपकारेक्षणक्षमाः । (क० स०)क्लेशः फलेन हि पुनर्नवतां विधत्ते । (कु० स०)
कृतघ्नानां शिवं कुतः । (क० स०)क्वचिद्वै नास्ति विश्वासः क्षुद्रकर्मणि दुर्जने । (क० स०)
कृतघ्नाश्चिरसिद्धायां अपि भ्रश्यन्ति हि ध्रुवम् । (क० स०)क्व वा निधिनिर्धनमेति किं च तं स वाक्पाट घटयन्निरस्यति । (नै० च०)
कृतज्ञे सत्परिवारे प्रभौ सेवाऽफला कुतः । (क० स०)
कृतार्थः स्वामिनं द्वेष्टि । (प० त०)काश्रयोऽस्ति दुरात्मनाम् ।
कृपणानुसारि च धनम् ।क्षणविध्वंसिनः कायाः का चिन्ता मरणे रणे ।
कृशे कस्यास्ति सौहृदम् ।क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः । (शि० व०)
कृप्या दहन्नपि खलु क्षितिमिन्धनैद्धो बीजप्ररोहजननीं ज्वलनः करोति । (र० व०)
केचिदज्ञानतो नष्टाः ।क्षमन्ते न विचारं हि मूर्खा विषयलोलुपाः । (क० स०)
केचिन्नष्टा प्रमादतः ।क्षमया किं न सिध्यति ।
केचिन्नष्टैस्तु नाशिताः ।क्षान्तितुल्यं तपो नास्ति ।
केनेत्थं परमार्थतोऽथैतदिव प्रेमास्ति वामभ्रुवाम् ।क्षारं पिबति पयोधेर्वर्षत्यम्भो धरो मधुरमम्भः ।
केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः । (र० व०)क्षितितले किं जन्म कीर्तिं विना ।
के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः । (मे० दू०)क्षितिपतिः को नाम नीतिं विना ।
केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु । (मे० दू०)क्षीणा नरा निष्करुणा भवन्ति । (प० त०)
केषां नैषा कथय कविताकामिनी कौतुकाय ।क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् । (भर्तृ०)
केषां हि नापदां हेतुरतिलोभान्धबुद्धिता । (क० स०)क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव । (कु० स०)
को जानाति जनो जनार्दनमनोवृत्तिः कदा कीदृशी ।
कोऽतिभारः समर्थानाम् । (प० त०)क्षुधातुराणां न रुचिर्न पक्वम् ।
क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः । (शि० व०)
सुभाषितरत्नखण्डमञ्जूषा
सुभाषितम्सन्दर्भःसुभाषितम्सन्दर्भः
ख(फ)टाटोपो भयंकरः ।(प० त०)चाण्डाल पक्षिणा काकः ।
खण्डिता एव शोभन्ते वीराधरापयोधराः ।चाण्डालोऽपि नरः पूज्यो यस्यास्ति विपुल धनम् ।
खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुत ।चाराञ्जानन्ति राजान ।
गणयन्ति न राज्यार्थेऽपत्यस्नेहं महीभुजः ।(क० स०)चित्त जानाति जन्तूना प्रेम जन्मान्तरार्जितम् ।(क० स०)
गतं न शोचामि कृतं न मन्ये ।चित्तमेतदमलीकरणीयम् ।
गतस्य शोचन नास्ति ।चित्ते वाचि क्रियाया च साधूनामेकरूपता ।
गतानुगतिको लोको न लोकः पारमार्थिकः ।चित्रा गतिः कर्मणाम् ।
गन्तव्य राजपथे ।चिन्ता जरा मनुष्याणाम् ।
गहना कर्मणो गतिः ।(भ० गी०)चिन्तासम नास्ति शरीरशोषणम् ।
गुणलुब्धाः स्वयमेव संपद ।(कि० अ०)चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः ।(अ० शा०)
गुणसहते समतिरिक्तग्रहो निजमेव सत्त्वमुपकारि सताम् ।(कि० अ०)चोराणामनृतं बलम् ।
गुणान्भूषयते रूपम् ।चौरे गते या किसु सावधानम् ।
गुणानुजोत्थ्यायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सतामसाधवः ।(कि० अ०)छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ।(अ० शा०)
गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ।(उ० च०)छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभि ।(र० व०)
गुणिनेि गुणज्ञो रमते नागुणशीलस्य गुणिनेि परितोषः ।छायेव मैत्री खलसज्जनानाम् ।(प० त०)
गुणी गुण वेत्ति न वेत्ति निर्गुणः ।(म० स्मृ०)छिद्रेष्वनर्था बहुलीभवन्ति ।(प० त०)
गुणैर्विहीना बहु जल्पयन्ति ।जगति बहुमताः कस्य नाभ्यर्थनीयाः ।
गुहता नयन्ति हि गुणा न संहतिः ।(कि० अ०)जठरं को न बिभर्ति केवलम् ।
गुर्वीपि विरहदुःखमाशाबन्ध साहयति ।(अ० शा०)जनानने कः करमर्पयिष्यति ।(नै० च०)
गृहानुपैतुं प्रणयादमीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ।(शि० व०)जनानुरागप्रभवा हि संपदः ।
गृहे या पुण्यनिष्पत्तिः साध्वनि भ्रमतः कुतः ।(क० स०)जनो बहु क्षपयति स्वल्पस्यार्थे धनान्यधीः ।(क० स०)
ग्रसते हि तमोपहं मुहुर्न तु राह्वङ्गमपहर्त्ति तमः ।(शि० व०)जपतो नास्ति पातकम् ।
ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ।(शि० व०)जरा रूपं हरति ।
ग्रामनाशाय कुञ्जर ।(वृ० चा०)जलदसमय एष प्राणिनां प्राणभूतः ।(का० दा०)
ग्रामस्यार्थे कुल त्यजेत् ।(प० त०)जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
ग्रावाणोऽप्यार्द्रता सम्यग्भजन्त्यभिमुखे विधौ ।(क० स०)जातं तु जातं न पुन प्रयाति ।
ग्लपयति यथा शशाङ्क न तथा हि कुमुद्वतीं दिवसः ।(अ० शा०)जातस्य हि ध्रुवो मृत्युः ।(यो० वा०)
घनाम्बुना राजपथे हि पिच्छिले क्वचिद्बुधैरप्यपथेन गम्यते ।(नै० च०)जातापत्या पतिं द्वेष्टि ।
घनाम्बुभिर्बहुल्लितनिन्नगाजलैर्जलं नहि व्रजति विकारमम्बुधेः ।(शि० व०)जातौ जातौ नवाचाराः ।
घ्नन्ति सहजमपि भूरिभियः सममागताः सपदि वैरमापद ।(कि० अ०)जानन्ति पशवो गन्धम् ।
चकास्ति योग्येन हि योग्यसंगमः ।(नै० च०)जामाता दशमो ग्रहः ।
चक्रवत्परिवर्तन्ते दु खानि च सुखानि च ।(यो० वा०)जायन्ते बत मूढाना संवादा अपि तादृशाः ।(क० स०)
चक्षुःपूतं न्यसेत्पादम् ।(चा० नी०)जारस्त्रीणां पति शत्रुः ।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः ।जितक्रोधेन सर्वं हि जगदेतद्विजीयते ।(क० स०)
चपलौ किल शूराणा रणे जयपराजयौ ।(क० स०)जितक्रोधो न दुःखास्यादीभवेत् ।(क० स०)
जितशान्तेषु धीराणां स्नेह एवोचितोऽरिषु ।(क० स०)
जिह्वालक्षशतैककोटिनियमो नो दुर्जनाना मुखे ।
जीवन्तमेव कुष्णाति काकीव कुकुटुम्बिनी ।(क० स०)
जीवन्तोऽसति मूढोऽर्थान्यावदर्थैः स नोञ्झितः ।(क० स०)
जीवन्हि धीरोऽभिमतं किं नाम न यदामुयात् ।(क० स०)
जीवो जीवस्य जीवनम् ।
ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः ।(मे० दू०)

८ | सुभाषितरत्नभाण्डागारम्


ज्ञानमार्गे ह्यहंकारः परिघो दुरतिक्रमः । (क० स०)दयितास्तनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने । (कु० स०)
ज्ञानमेव शक्तिः ।दरिद्रता धीरतया विराजते ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति । (भर्तृ०)दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् ।
ज्ञानस्याभरणं क्षमा ।दशाननोऽहरत्सीतां बन्धनं च महोदधेः ।
ज्येष्ठभ्राता पितुः समः ।दारिद्र्यदोषेण करोति पापम् ।
ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः । (कि० अ०)दारिद्र्यदोषो गुणराशिनाशी । (घ० ख०)
झटिति पराशयवेदिनो हि विज्ञाः । (नै० च०)दारिद्र्यं परमाञ्जनम् । (भा० व०)
तक्रान्तं खलु भोजनम् ।दावानलप्लोषविपत्तिमन्त्योऽरण्यस्य हर्तुं जलदाम्रभुः किम् । (कु० सं०)
तत्कामुकं कर्मसु यस्य शक्तिः ।
तत्क्षणं किं नु कुर्याद्धि प्रसादं पारमेश्वरः । (क० स०)दिक्शून्या चेद्बान्धवाः ।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः । (उ० च०)दिवि गगनरत्नं दिनकरः । (प्र० भ०)
तत्र सौरभनिर्माणे चतुरश्चतुराननः ।दिशत्यपायं हि सतामतिक्रमः । (कि० अ०)
तदेव दुःसहं स्त्रीणामिह प्रणयखण्डनम् । (क० स०)दुःखान्धा हि पतन्त्येव विपच्छृङ्गेषु कातराः । (क० स०)
तपः सीमा मुक्तिः । (प्र० भ०)दुग्धधौतोऽपि किं याति वायसः कलहंसताम् ।
तपोधनानि श्रेयांसि ह्युपायोऽन्यो न विद्यते । (क० स०)दुरधिगमा हि गतिः प्रयोजनानाम् । (कि० अ०)
तपोधीना हि संपदः । (क० स०)दुरधीता विषं विद्या । (हि०)
तमस्तपति घर्मांशौ कथमाविर्भविष्यति । (अ० शा०)दुरितभ्रतप शुद्धिसव्यपेक्षा हि सिद्धयः । (क० स०)
तरुणीकच इव नीचः कौटिल्यं नैव विजहाति ।दुर्गहीनस्तथा नृपः । (हि०)
तस्करस्य कुतो धर्मः ।दुर्जनः परिहर्तव्यो विद्ययाऽलंकृतोऽपि सन् ।
तस्माच्छेषं न रक्षयेत् ।दुर्जनस्य कुतः क्षमा ।
तस्माज्जात्या महान्तोऽधमजनविषये मौनमेवाश्रयन्ते ।दुर्जनस्यार्जितं वित्तं भुज्यते राजतस्करैः ।
तस्मात्सर्वं परित्यज्य पतिमेकं भजेत्सती ।दुर्जेया हि विषया विदुषामपि । (नै० च०)
तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ।दुर्बलस्य बलं राजा । (हि०)
तस्य विस्तारिता बुद्धिस्तैलविन्दुरिवाम्भसि ।दुर्मन्त्री राज्यनाशाय । (प० त०)
तस्य संकुचिता बुद्धिर्घृतबिन्दुरिवाम्भसि ।दुर्लक्ष्यचिह्ना महता हि वृत्तिः । (कि० अ०)
तिष्ठत्येका निशा चन्द्र श्रीमत्सम्पूर्णमण्डलः ।दुर्लभः क्षेमकृत्सुतः ।
तीव्रसत्त्वस्य न चिराद्भवन्त्येव हि सिद्धयः । (क० स०)दुर्लभं भारते जन्म मानुष्यं तत्र दुर्लभम् ।
तुदति कुसुममासो मन्मथोत्तेजनाय । (का० दा०)दुर्लभः स गुरुर्लोके शिष्यचिन्तापहारकः ।
तुल्यप्रतिद्वन्दि बभूव युद्धम् ।दुर्लभः स्वजनप्रियः ।
तृप्यन्ति भोजनैर्विप्राः ।दुष्टं हि जन्तुमुत्थाप्य कस्यात्मनि सुखं भवेत् । (क० स०)
तृष्णैका तरुणायते । (प० त०)दुष्टेऽपि पत्नौ साध्वीनां नान्यथावृत्ति मानसम् । (क० स०)
तेजसा हि न वयः समीक्ष्यते । (र० व०)दूरतः पर्वता रम्याः ।
ते भूमण्डलमण्डनैकतिलका सन्तः कियन्तो जनाः ।दुरारोहपरिश्रंशविनिपातो हि दारुणः ।
तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरम् ।दृष्टतत्त्वश्च न पुनः कर्मजालेन बध्यते । (क० स०)
त्यजन्त्युत्तमसत्त्वा हि प्राणानपि न सत्पथम् । (क० स०)दृष्टो हि वृष्णवकल्पप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः । (र० व०)
त्यजेदेकं कुलस्यार्थे । (प० त०)
त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः ।देवद्विजसपर्या हि कामधेनुर्मता सताम् । (क० स०)
त्राणाभावे हि शापाज्ञा कुर्वन्ति तपसो व्ययम् । (र० व०)देवा हि नान्यद्वितरन्ति किं तु प्रसङ्ग ते साधुधियं ददन्ते । (नै० च०)
त्रिभुवनविषये कस्य दोषो न चास्ति ।
त्रैलोक्ये दीपको धर्मः ।देवो दुर्बलघातकः ।
ददाति तीव्रसत्त्वानामिष्टमीश्वर एव हि । (क० स०)देहपातमपीच्छन्ति सन्तो नाविनयं पुनः । (क० स०)
दया मांसाशिनः कुतः । (प० त०)देहस्नेहो हि दुस्त्यजः । (क० स०)
दयितं जनं खलु गुणीति मन्यते । (शि० व०)दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् । (क० स०)

सुभाषितरत्नखण्डमञ्जूषा


दैवी विचित्रा गतिः ।
दैवे दुर्जनतां गते तृणमपि प्रायेण वज्रायते ।
दैवेनैव हि साध्यन्ते सट्यां शुभकर्मणाम् । (क० स०)
दोषग्राही गुणत्यागी पलोलीव हि दुर्जनः । (प० त०)
दोषाय निर्विमर्शस्य भ्रातप्रश्नोत्तरक्रिया । (क० स०)
दोषोऽपि गुणता याति प्रभोर्भवति चेत्कृपा ।
धौने काचिदथवास्ति निरूढा सैव सा चलनि यत्र हि चित्तम् । (ने० च०)
द्रव्येण सर्वे वशाः ।
धनं सर्वप्रयोजनम् ।
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । (प० त०)
धनिनामिवर सतां पुनर्र्गुणवत्संनिविरेव संनिधिः । (शि० व०)
धन्यास्ते भुवि ये निवृत्तमनसो धिग्दुःखितान्कामिनः ।
धर्मक्षयकरः क्रोधः ।
धर्मे कीर्तिर्द्वयं स्थिरम् । (म० भा०)
धर्मैः सत्येन वर्धते ।
धर्मः स नो यत्र न सत्यमस्ति ।
धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः । (र० व०)
धर्मस्य तत्त्वं निहितं गुहायाम् । (म० भा०)
धर्मस्य त्वरिता गतिः । (प० त०)
धर्मेण चरतां सत्ये नास्त्यनभ्युदयः क्वचित् । (क० स०)
धर्मेण हीनाः पशुभिः समानाः ।
धर्मो मित्रं मृतस्य च ।
धर्मो हि सानिध्यं कुरुते सताम् । (क० स०)
धर्मो हासम्यङ्निर्णीतो निहन्त्युभयलोकयोः । (क० स०)
धिक्कलत्रमपुत्रकम् ।
धिक्पुत्रमविनीतं च ।
धिगाशा सर्वदोषभूः ।
धिगिमा देहभृतामसारताम् । (र० व०)
धिग्गृहं गृहिणीशून्यम् ।
धिग्जीवितं चोद्यमवर्जितस्य ।
धिग्जीवितं ज्ञातिपराजितस्य ।
धिग्जीवितं व्यर्थमनोरथस्य ।
धिग्जीवितं शास्त्रकुलोञ्झितस्य ।
धिग्ज्योतिषमजातकम् ।
धीराणां व्रजति हि सर्व एव नान्तं पाण्डित्यादभिभवनीयतां परस्य । (शि० व०)
धीराश्च सोढविरहाः प्राप्नुवन्तीष्टसंगमम् । (क० स०)
धीनं चित्रीयते कस्माद्भित्तौ चित्रकर्मणा । (क० स०)
धूमो निवर्त्येत समीरणेन यतस्तु कक्षस्तत एव वह्निः । (र० व०)
धूर्ताः क्रीडन्त्येव हि बालिशैः । (क० स०)
ध्रुवमभिमतं को वा पूर्णे मुदा न हि माद्यति । (कु० स०)


ध्रुवं फलाय महतं महता सह संगमः । (क० स०)
न कस्य वीर्यान्न वरस्य सर्गतिः । (कु० स०)
न काचस्य कृते जातु युक्ता मुक्तामणेः क्षतिः । (क० स०)
न कामसदृशो रिपुः । (वा० वा०)
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे । (हि०)
नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति । (प० त०)
न कापि साल्यमपराद्धकृता प्रभूणाम् ।
नक्षत्रभूषणं चन्द्रः । (चा० नी०)
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः । (मे० दू०)
न खलु धीमतां कश्चिदविषयो नाम । (अ० शा०)
न खलु वयस्तेजसो हेतुः । (भर्तृ०)
न खलु स उपरतो यस्य वल्लभो जनः स्मरति ।
न च दैवात्परं बलम् ।
न च धर्मो दयापरः ।
न चलति खलु वाक्यं सज्जनानां कदाचित् ।
न च विद्यासमो बन्धुः ।
न च व्याधिसमो रिपुः ।
न चापल्यसमः स्नेहः ।
न जात्ववसरे प्राप्ते सत्त्ववानवसीदति । (क० स०)
न जाने संसारः किममृतमयः किं विषममयः ।
न ज्ञानात्परं चक्षुः ।
न तथा कृतवेदिनां करिष्यन्नियतामेति यथा कृतावदानः । (किं० अ०)
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ।
न तोयात्परमं सुखम् ।
न लोभो महता मृषा । (क० स०)
न दयासदृशं ज्ञानम् ।
न दरिद्रस्तथा दुःखी लब्धक्षीरणधनो यथा ।
न दुष्प्रापं परच्छिद्रं जाग्रद्भिर्निपुणैर्गुणैः । (क० स०)
न देवं परमो विष्णुः ।
न धर्मवृद्धेषु वयः समीक्ष्यते । (कु० स०)
न धर्मसदृशं मित्रम् ।
न धर्मात्परमं मित्रम् ।
न नन्दनालोकन मङ्गलेषु क्षण क्षण हृष्यति कस्य चेतः । (कु० स०)
न नश्यति तमो नाम कृतया दीपवार्तया ।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् । (र० व०)
ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ।
ननु प्रवातेऽपि निष्कम्पा गिरयः । (अ० शा०)
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः । (किं० अ०)
ननु विमृश्य कृती कुरुतेऽखिलम् ।


2 सु० र० भा०

१०सुभाषितरत्नभाण्डागारम्
वाम-भागःदक्षिण-भागः
न पणिध्यतिरेकेण सुखीणामपरा गति । (क० स०)न सा सभा यत्र न सन्ति वृद्धा ।
न परिचयो मलिनात्मना प्रधानम् । (शि० व०)न सुवर्णे ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते ।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव । (शि० व०)न स्त्री चलितचारित्रा निम्नोन्नतमवेक्षते । (क० स०)
न परोदितं हि कलयन्ति कुमारा । (ह० वि०)न स्त्री स्वातन्त्र्यमर्हति । (म० भा०)
न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य । (र० व०)न स्नेहो न च दाक्षिण्यं स्त्रीष्वहो चापलादृते । (क० स०)
न पुत्रात्परमो लाभ ।न स्पृशति पल्वलाम्भ पञ्जरशेषोऽपि कुञ्जर क्वापि ।
न प्रभातरल ज्योतिरुदेति वसुधातलात् । (अ० शा०)न स्वेच्छ व्यवहर्तव्यमात्मनो भूतिमिच्छता । (क० स०)
न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम् ।नहि कृतमुपकार साधवो विस्मरन्ति ।
न भयं चास्ति जाग्रत ।नहि गणयति क्षुद्रो जन्तु परिग्रहफल्गुताम् ।
न भवति पुनरुक्त भाषितं सज्जनानाम् ।नहि तापयितुं शक्य सागराम्भस्तृणोलकया ।
न भवति महता हि क्वापि मोघ प्रसाद । (ह० वि०)नहि दुर्बलदग्धानां काले किञ्चित्प्ररोहति ।
न भविष्यति हन्त साधन किमिवान्यत्प्रहरिष्यतो विधे । (र० व०)नहि दुष्करमस्तीह किंचिद्व्यवसायिनाम् । (क० स०)
न भार्यायाः परं सुखम् ।नहि नार्यो विनेधैर्या ।
न भूतो न भविष्यति ।नहि प्रफुल्लं सहकारमेत्य वृक्षान्तर काङ्क्षति षट्पदाली । (र० व०)
न भेक कोकनदिनीकजलकास्वादकोविदः । (क० स०)नहि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः । (कि० अ०)
नभोभूषा पूषा । (प्र० भ०)नहि मूला प्रसिध्यति ।
न मुक्ते परमा गति । (यो० वा०)नहि वन्ध्याश्रुते दुख यथा हि मृतपुत्रिणी ।
नयनसुख को निवारयति ।नहि विचलति मैत्री दूरतोऽपि स्थितानाम् ।
नयवर्त्मगा प्रभवता हि धियः ।नहि सत्त्वावसादेन स्वल्पाप्यापद्विलङ्घयते । (क० स०)
न युक्त ते रोषादतिथिमिव धिक्कृत्य गमनम् ।नहि सर्वविद सर्वे ।
नये च शौर्ये च वसन्ति संपद ।नहि सर्वेऽपि कुर्वन्ति सभ्या युक्तिविवेचनम् ।
नयेन चालंक्रियते नरेन्द्रता ।नहि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः । (र० व०)
नर प्रत्युपकारार्थं विपत्तिमभिवाञ्छति ।नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा ।
न रत्नमन्विष्यति मृग्यते हि तत् । (कु० स०)नहीज्जितजोऽवसरेऽवसीदति । (कि० अ०)
नरपति हितकर्ता द्वेष्यता याति लोके । (प० त०)नहीश्वरव्याहृतय. कदाचित्पुष्णन्ति लोके विपरीत मर्थम् । (कु० स०)
नराणा नापितो धूर्तः । (प० त०)नाकाले म्रियते जन्तुर्विद्ध शरशतैरपि । (वृ० ख०)
नमैकसादरं हि नव वयः । (क० स०)नातीपीडयितु भञ्जन्तिच्छन्ति हि महौजसः । (कि० अ०)
न वस्तु दैवस्वरसाद्विनश्वरं सुरेश्वरोऽपि प्रतिकर्तुमीश्वरः । (नै० च०)नाधर्मश्चिरमुद्धये । (क० स०)
नवान्नानां नव एव पन्थाः ।नानातत्त्वविचारणप्रणयिनो लोका बहिर्बुद्धय. ।
नवा वाणी मुखे मुखे ।नानाफलै फलति कल्पलतेव भूमि । (भर्तृ०)
न विवेक विना ज्ञानम् ।नानृतात्यातक परम् ।
न वैराग्यात्पर भाग्यम् ।नाभाम्य भवतीह कर्मवशतॊ भाग्यस्य नाश कुत ।
न शरीर पुन पुन ।नारीणा भूषण पति ।
न शान्ते परमं सुखम् ।नार्कातपैर्र्जलजमेति हिमैस्तु दाहम् । (नै० च०)
न शास्त्र वेदत परम् ।नार्यैः समाश्रितजनं हि कलङ्कयन्ति ।
न शिक्षित प्रयत्नो हि धीराणां हृदये भिया । (क० स०)नालं सुखाय सुहृदो नालं दु खाय शत्रव । (म० भा०)
न शूरा विसहन्ते हि स्त्रीनिमित्त पराभवम् । (क० स०)नाल्पीयानबहु सुकृत हिनस्ति दोष । (कि० अ०)
न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते । (कु० स०)नाऽविष्णु पृथिवीपति । (म० भा०)
न स शक्नोति किं यस्य प्रज्ञा नापदि हीयते । (क० स०)नासन्नि किंचिदाचरेत् ।
नासमीक्ष्य पर स्थान पूर्वमायतनं त्यजेत् ।
नास्ति कामसमो व्याधि. ।
नास्ति क्रोधसमो वह्नि ।

सुभाषितरत्नखण्डमञ्जूषा ११

नास्ति चक्षु सम तेज ।निसर्गसिद्धो नारीणा सपत्नीपु हि मत्सर. । (क० स०)
नास्ति चात्मसम बलम् ।निस्पृहस्य तृणं जगत् ।
नास्ति ज्ञानात्पर सुखम् ।नि सङ्गाद्भवति महता मानपूजापहार ।
नास्ति तृष्णासमो व्याधि ।नीचाश्रयो हि महतामपमानहेतु ।
नास्ति धान्यसम प्रियम् ।नीचैर्गच्छत्युपरि च दशाचक्रनेमिक्रमेण । (म० दू०)
नास्ति प्राणसम भयम् ।नीचैर्नीचैरतिनीचनीचै सर्वैरुपायै फलमेव साध्यम् ।
नास्ति बन्धुसम बलम् ।नीचो वदति न कुरुते वदति न माधु करोत्येव ।
नास्ति भर्तृ. समो बन्धु । (विक्र०)नून विरूपरविक हामनै. क्रीडनि खग. । (क० स०)
नास्ति मेघसमं तोयम् ।नृपनि जनपदाना दुर्लभ । (प० त०)
नास्ति मोहसमो रिपु ।नृपस्य वर्णाश्रमपालन यत्ल एव धर्म । (र० व०)
नास्ति व्यसनिनां किञ्चिद्भुवि पर्याय्ये धनम् । (क० स०)नेन्दु. क्षिपति कि काल परिशीर्णोऽर्कमण्डले । (क० स०)
नास्ति सत्यसमो धर्म । (म० भा०)नेत्र्यां भर्तृहितैपिण्यो गणयन्ति हि सुधिय । (क० म०)
नास्ति हस्तिसम सखा ।नैकत्र सर्वो गुणसन्निपात ।
नास्ति हस्तिसमो बन्धु ।नैवाकृति फलति नैव कुलं न शील । (भतृ०)
नास्त्यदेयं महात्मनाम् ।नैता रूप परीक्षन्ते नासा वयसि सस्थिति । (हि०)
नास्त्यहो स्वामिभक्तान् पुत्रे वात्मनि वा स्पृहा । (क० स०)नैवामनीयमथवा क्रियते मदान्धै । (शि० व०)
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ।नैवान्यथा भवति यल्लिखित विधात्रा ।
निजामृतैलौंचनसेचनाद्वा पृथक्किमिन्दुः सृजति प्रजानाम् । (नै० च०)नैवाश्रितेषु महता गुणदोषशङ्का ।
निपातनीया हि सतामसाधवः । (शि० व०)न्याय्यमुपेक्षते हि क. । (न० च०)
नि सारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।न्याय्या वृत्ति समाचरेत् ।
निजेऽप्यपत्ये करुणा कठिनप्रकृतेः कुत । (प्र० रा०)न्याय्यात्पथ प्रविचलन्ति पदं न धीरा । (भर्तृ०)
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते । (हि०)पङ्को हि नभसि क्षिप्त. क्षेप्तु पतति मूर्धनि । (क० स०)
निर्गलिताम्बुगर्भं शरद्घन नार्दति चातकोऽपि । (र० व०)पञ्चभिर्मिलितै कि यज्जगतीह न साध्यते । (न० च०)
निर्जितेषु तरसा तरस्विना शत्रुपु प्रशतिरेव कीर्तये । (र० व०)पठतो नास्ति मूर्खत्वम् ।
निर्ग्रन्ध्यं पुरुष त्यजन्ति गणिका. । (भर्तृ०)पथ श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् । (र० व०)
निर्धनता सर्वपदामास्पदम् ।पदं हि सर्वत्र गुणैर्विधीयते ।
निर्धनस्य कुत सुखम् ।पद सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुन. पतत्रिण । (कु० स०)
निर्वाणदीपे किमु तैलदानम् ।पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम् ।
निर्वाह प्रतिपन्नवस्तुपु सतामेतद्धि गोत्रव्रतम् ।पद्माना शिशिराद्भवम् ।
निर्विमर्शा हि भीरव । (क० स०)पय पान भुजगाना केवल विषवर्धनम् । (प० त०)
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धय । (कि० अ०)पयो गते कि खलु सेतुबन्ध. ।
निवसन्नन्तर्दारुणि लङ्घयो वह्निर्न तु ज्वलित ।पयो मुचा पङ्किषु विद्यतेव ।
निवृत्तपापसंपर्को सन्तो यान्ति हि निर्वृतिम् । (क० म०)परदु खेनापि दु खिता विरला ।
निवृत्तरागस्य गृह तपोवनम् । (हि०)परवृद्धिर्विनाशाय ।
निशारत्न चन्द्र । (प्रगपा०)परवृद्धिषु बद्धमत्सराणा किमित्र ह्यस्ति दुरात्मनामलङ्घयम् । (शि० अ०)
निष्प्रज्ञास्त्ववसीदन्ति लोकोपहसिता सदा । (क० स०)परशुके हि कमले क्रिमलेजायते रति । (क० स०)
निष्प्रज्ञो नाशयल्येव प्रभार्यमथात्मन । (क० स०)परम लाभमशान्तिभङ्गमाहु. । (कि० अ०)
निसर्गे स हि धीराणा यदापद्यधिकं दृढम् । (क० स०)परमार्थमविज्ञाय न भेतव्यं कचित्क्षभि । (क० स०)
निसर्गचपलाना हि मादृशा सयम्' कुत । (क० स०)परलोकगतस्य को वन्धु ।
निसर्गतोऽन्तर्मलिना ह्यसाधव ।परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् । (र० व०)
१२सुभाषितरत्नभाण्डागारम्
परवृद्धिमत्सरी मनो हि मानिनाम् । (शि० व०)पुत्र शत्रुरपण्डित. । (चा० नी०)
परसदननिविष्ट को लघुत्वं न याति । (भर्तृ०)पुत्रप्रयोजना दारा. ।
परसेवैकसकानां को हि स्नेहो निजे जने । (क० स०)पुत्रहीनं गृहं शून्यम् ।
परहस्तगता. स्त्रिय. ।पुत्रादपि भयं यत्र तत्र सौख्यं हि कीदृशम् ।
परहितनिरतानामादरो नात्मकल्पैं ।पुत्रोदये नाद्यति का न हर्षात् । (कु० सं०)
पराभवोऽप्युत्सव एव मानिनाम् ।पुनर्दरिद्री पुनरेव पापी ।
परार्थप्रतिपन्ना हि नेक्षन्ते स्वार्थमुत्तमा । (क० स०)पुनर्दांरा पुनर्विंत्तं । (विक्र० च०)
परिजनतापि गुणाय सद्गुणानाम् । (कि० अ०)पुनर्घनाढ्य पुनरेव भोगी ।
परिवर्तिनि संसारे मृत. को वा न जायते ।पुरुषा अपि बाणा अपि गुणच्युताः कस्य न भयाय ।
परेङ्गितज्ञानफला हि बुद्धय. ।पुष्प पर्युषितं त्यजन्ति मधुपा ।
परैरनिन्द्यं चरितं मनस्विनां पयोनुसारोचितमेव शोभते । (क० स०)पुस्तकप्रत्ययाधीतं । (नारद०)
परैरपर्यांसितवीर्यसंपदां पराभवोऽप्युत्सव एव मानिनाम् । (कि० अ०)पूज्यं वाक्य समृद्धस्य ।
परोपकारं पुण्यं न स्यात्कलुशतैराप ।पूर्वपुण्यतया विद्या ।
परोपकाराय सतां विभूतय !पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते । (अ० शा०)
परोपकारार्थमिदं शरीरम् ।पृथिवीभूषणं राजा ।
परोपदेशवेलायां शिष्टाः सर्वे भवन्ति वै ।पेशलं हि सतीमन । (क० सं०)
परोऽपि हितवान्बन्धुः । (प० त०)प्रकृति खलु सा महीयसां सहते नान्यसमुन्नतिं यया ।
पर्यांयपीतस्य सुरैर्हिमांशो. कलाक्षयः श्लाघ्यतरो हि वृद्धे. । (र० व०)प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे ।
पर्व्वतानां भयं वज्रात् । (चा० नी०)प्रकृतिरियं सत्त्ववताम् ।
पलाशजालै. पिहित. स्वयं हि प्रकाशमासादयतीक्षुडिम्भः । (नै० च०)प्रकृतिसिद्धमिदं हि दुरात्मनाम् ।
पवन. परागवाही रथ्यासु वहन्रजस्खलो भवति ।प्रकृतिसिद्धमिदं हि महात्मनाम् । (भर्तृ०)
पश्यन्तु लोका. कलिकौतुकानि ।प्रकृत्सा ह्यमणिः श्रेयान्नालकारश्च्युतोपलः ! (कि० अ०)
पश्यन्तु लोका कलिदोषकानि ।प्रच्छन्नमप्युह्यते हि चेष्टा । (कि० अ०)
पाणौ पयसा दुग्धे तक्रे फूत्कृत्य पामर. पिवति ।प्रजानामपि दीनाना राजैव सदय पिता ।
पात्रत्वाद्धनमाप्नोति ।प्रजापतेर्विसर्गो हि प्राणिसर्गोऽधिकाधिक । (क० स०)
पात्रानुसारं फलम् ।प्रज्ञा नाम बल ह्येव निष्प्रज्ञस्य बलेन किम् । (क० स०)
पादपाना भयं वातात् । (चा० नी०)प्रज्ञाबल च सर्वेषु सुख्य कार्येषु साधनम् । (क० स०)
पापप्रभावाच्चरकं प्रयाति ।प्रणानान्त सता कोप. ।
पापे कर्मण्यवज्ञाताद्धितवाक्ये कुतः सुखम् । (क० स०)प्रणिपातप्रतीकार. संगम्मो हि महात्मनाम् । (र० वं०)
पिण्डे पिण्डे मतिर्भिन्ना ।प्रतिकारविधानमायुष. सति शेषे हि फलाय कल्पते । (र० व०)
पिण्डेष्वनास्था खलु भौतिकेषु ।प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । (शि० व०)
पितृद्रोहेण मूर्खता ।प्रतिक्षण यन्नवतामुपैति तदेव रूपं रमणीयताया. ।
पिपासितै. काव्यरसो न पीयते !प्रतिपन्नसुहृत्कार्यनिर्वाहं धीरसत्त्वता । (क० स०)
पिबाम शास्त्रौघानुत्त विविधकाव्यामृतरसान् ।प्रतिपन्नार्थनिर्वाहं सहज हि सता वलम् । (क० स०)
पिशुनजन खलु विश्रान्तं क्षितीन्द्रा. ।प्रतिबध्नाति हि श्रेय पूज्यपूज्याव्यतिक्रमः । (र० व०)
पीत्वा मोहमयीं प्रमादशदिरामुन्मत्तभूतं जगत् ।प्रतिभातश्च पश्यन्ति सर्वं प्रज्ञावता धिय । (क० स०)
पुंसामदृष्टे दृष्टे वा श्रेयोऽहंकारिणा कुतः । (क० स०)प्रतीयन्ते न नीतिज्ञा कृतावज्ञस्य वैरिण । (क० स०)
पुण्यवन्तो हि सतान पश्यन्त्युच्चै. कृतान्वयम् । (क० स०)प्रत्यय. स्त्रीषु मुष्णाति विमर्शं विदुषामपि । (क० स०)
पुण्यैरैव हि लभ्यन्ते सुकृतिभि. सत्संगतिर्दुर्लभा ।प्रत्यासन्नविपत्तिमूढमनसां प्रायो मति क्षीयते ।
पुत्रः पिण्डप्रयोजन. । (चा० नी०)प्रत्युक्तं हि प्रणयिषु सवामीप्सितार्थक्रियैव । (मे० दू०)
प्रत्युत्पन्नमतिस्त्रैणम् । (अ० शा०)
प्रथमलीढमधुश. पिवन्ति कटु भेषजम् !
सुभाषितरत्नखण्डमञ्जूषा१३
प्रबलतमसामेवप्रायाः शुभेषु हि वृत्तयः स्वमपि शिरस्य<br> न्धाश्लेषा धुनोत्यहिशङ्कया । (अ० शा०)प्राय समानांविद्यः परस्परयश पुरोभागाः ।
प्रभुचित्तमेव हि जनोऽनुवर्तते । (शि० व०)प्राय. समासनविपत्तिकाले वियोऽपि पुंसां मलिनी-<br> भवन्ति ।
प्रभुप्रसादो हि मुदे न कस्य । (कु० स०)प्राय सर्वो भवति करुणावृत्तिराद्रान्तरात्मा । (मे० दू०)
प्रभुश्च निर्विचारश्च नीतिज्ञैर्न प्रशस्यते । (क० स०)प्राय. स्त्रियो भवन्तीह निसर्गीवषमाः शठा । (क० म०)
प्रभुस्तु विबुधाश्रय. कति न सन्ति कुक्षिभरा. ।प्राय स्व महिमान क्रोधात्प्रतिपद्यते हि जनः ।
प्रभूणां हि विभूत्यन्धा धावत्यविषये मति । (क० स०)प्रायेण गृहिणीनेत्रा. कन्यार्थेषु कुटुम्बिन. । (कु० सु०)
प्रभौ हठप्रवृत्ते हि कस्य प्रत्यायना भवेत् । (क० स०)प्रायेण भायीटौ शील्य स्वान्धो नेक्षते जन. । (क० स०)
प्रमदालोचनन्यस्त मलीमसमिवाञ्जनम् ।प्रायेण भूमिपतय प्रमदा लताश्च य. पार्श्वतो भवति त<br> परिवेष्टयन्ति । (प० त०)
प्रमाणं परम श्रुति. । (म० भा०)प्रायेण मत्स्यपि हितार्थकरे विधौ हि श्रेयांसि लब्धुमसुलभानि<br> विनान्तरायै । (कि० अ०)
प्रमाद्यता सवृणोति खलु दोषममज्ञता । (कि० अ०)प्रायेण साधुवृत्तानामस्थायिन्यो विपत्तय ।
प्रयोजनापेक्षतया प्रभूणा प्रायश्चल गौरवेमाश्रितेषु ।<br> (कु० स०)प्रायेण सामग्र्यविधौ गुणाना पराङ्मुखी विश्वसृज. प्रवृत्ति. ।<br> (कु० स०)
प्रलयोल्लसितस्य वारिधे परिवाहो जगत. करोति किम् ।<br> (शि० व०)प्रायेणाधममध्यमोत्तमगुण संसर्गंतो जायते । (भर्तृ०)
प्रवादमोहित प्रायो न विचारक्षमो जनः । (क० स०)प्रायो गच्छति यत्र भाग्यसहितस्तत्रापदा भाजनम् ।<br> (भर्तृ०)
प्रसन्नतोज्ञानि सुशीतलानि सरासि चेतासि हरन्ति<br> पुसाम् । (का० द०)प्रायो गच्छति यत्र भाग्यसहितस्तत्रैव यान्त्यापदः । (भर्तृ०)
प्रसन्नाना वाच. फलमपरिमेय प्रसुवते ।प्रायो वारितवामा हि प्रवृत्तिर्मनसो नृणाम् । (क० स०)
प्रसन्ने हि किमप्राप्यमन्वीह परमेश्वरे । (क० स०)प्रायोऽशुभस्य कार्यस्य कालहार प्रतिक्रिया । (क० स०)
प्रसादचिह्नानि पुरःफलानि ।प्रारभ्य चोत्तमजना न परित्यजन्ति । (भर्तृ०)
प्रसादसौम्यानि सता सुहृज्जने पतन्ति चक्षूषि<br> न दारुणा शरा । (अ० शा०)प्रासादशिखरस्थोऽपि काक. कि गरुडायते । (प० त०)
प्रसूयन्त च यौवनम् ।प्रियबन्धुविनाशात्थ. शोकाग्नि क न तापयेत् । (क० स०)
प्रस्तुतार्थविरुद्धं हि कोऽभिदध्यादवालिश । (क० स०)प्रियमनु सुकृता हि स स्पृहाया विलम्ब । (नै० च०)
प्रहर नमत्तु चाप प्राक्प्रहारप्रियोऽहम् ।प्रियमम्टगाधिपोज्झित. किमवद्य. करिकुम्भजो मणि.।<br> (शि० व०)
प्रहेष्वनिर्वन्धरुषो हि सन्त । (र० व०)प्रियानाशे कृच्छ्र किल जगदरण्यं हि भवति । (मे० दू०)
प्रागेव मुक्ता नयनाभिरामा प्राप्येन्द्रनील<br> किमुतोन्मयूखम् । (र० व०)प्रियेषु सौभाग्यफला हि चारुता । (कु० स०)
प्राचीनकर्म बलवन्मुनयो वदन्ति । (म० भा०)प्रिये सीमाह्लाद ।
प्राज्ञा सर्र्वहित कुर्यात्सभ्यग्बमबोधलब्धये । (क० स०)प्रौढ विक्रान्तमासीद्वन इव भवता शूरशून्ये रणेऽस्मिन् ।
प्राणव्ययाय शूराणा जायते हि रणोत्सव. । (क० स०)फलं भाग्यानुसारत । (म० भा०)
'प्राणानुदारा विसृजन्त्यर्थिनो न पराङ्मुखाः । (क० स०)फलेन फलमादिशेत् ।
प्राणिना हि निकृष्टापि जन्मभूमि परा प्रिया । (क० स०)बत क्षीणा चञ्चलाश्रित्तवृत्तय. । (क० स०)
प्राणेभ्योऽपि हि धीराणा प्रिया शत्रुप्रतिक्रिया । (नै० च०)बताश्रितानुरोधेन कि न कुर्वन्ति साधव. । (क० स०)
प्राणेभ्योऽप्यर्थमात्रा हि कृपणस्य गरीयसी । (क० स०)बधिरस्य गानम् ।
प्राणैरपि हि भृत्याना स्वामिसंरक्षण व्रतम् । (क० स०)बधिरान्धमन्दकर्ण श्रेयान् ।
प्राप्तोऽप्यर्थ क्षणदेव हार्धते मन्दबुद्धिना । (क० श०)बध्नात्यपर्यंरीवादं खलसंवादशृङ्खला । (क० स०)
प्राप्नोतीष्टमविक्लव. । (१० ग०)बन्धु को नाम दुष्टानाम् ।
प्राप्यते कि यश. शुभ्रममङ्गीकृत्य साहसम् । (क० स०)बन्धुरप्यहित पर. ।
प्राय प्रत्ययमाधत्ते स्वगुणेषूत्तमादर । (कु० सं०)बलवति सति दैवे बन्धुभि. किं विधेयम् ।
प्राय श्वश्रूस्नुषयोर्न दृश्यते सौहृद लोके ।बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः । (अ० शा०)
प्राय सज्जनसंगतौ हि लभते देवानुरूप फलम् ।बल मूर्खस्य मौनित्वम् ।
प्राय. सत्पुरुपाश्रितोऽपि लभते दैवानुरूप फलम् ।बली बलं वेत्ति न वेत्ति निर्बलः ।

| १४ | सुभाषितभाण्डागारम् | | | :--- | :--- |

बलीयसी केवलमीश्वरेच्छा । (म० भा०)भवितव्यता बलवती । (अ० शा०)
बहुरत्ना वसुंधरा ।भवितव्यं भवत्येव कर्मणामीदृशी गतिः । (म० भा०)
बहुवचनमल्पसारं यः कथयति विप्रलापी सः ।भवितव्यस्य नासाध्यं दृश्यते बत दृश्यताम् । (क० स०)
बहुविघ्नास्तु सदा कल्याणसिद्धयः । (क० स०)भवितव्यानां द्वाराणि भवन्ति सर्वत्र । (अ० शा०)
बह्वाश्चर्या हि मेदिनी । (क० स०)भवेन्न यस्य यत्कर्म स तत्कुर्वन्विप्रणश्यति । (क० स०)
बालानां रोदनं बलम् ।भवो हि लोकाभ्युदयाय तादृशाम् ।
बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि ।भस्मीभूतस्य जीवस्य पुनरागमनं कुतः । (नै० च०)
बुद्धिः कर्मानुसारिणी । (चा० नी०)भाग्येनैव हि लभ्यते पुनरसौ सर्वोत्समः सेवकः ।
बुद्धिर्नाम च सर्वत्र मुख्यं मित्रं न पौरुषम् । (क० स०)भार्या मूलं गृहस्थस्य । (दम्पती०)
बुद्धेः फलमनाग्रहः ।भार्यासम् नास्ति शरीरतोषणम् ।
बुद्ध्या वा जितमपरेण कासमाविष्कुर्वीत स्वगुणमपत्नपः क एव । (शि० व०)भार्याहीनं गृहस्थस्य शून्यमेव गृहं मतम् ।
बुभुक्षितः किं न करोति पापम् । (प० त०)भावस्थिराणि जननान्तरसौहृदानि । (अ० शा०)
बुभुक्षितं न प्रतिभाति किंचित् ।भिक्षुको भिक्षुकं दृष्ट्वा श्वानवद्गुद्गुरायते ।
बुभुक्षितैर्व्याकरणं न भुज्यते ।भिन्नरुचिर्हि लोकः । (र० व०)
बोधे बोधे सच्चिदानन्दभासः ।भीता इव हि धीराणां यान्ति दूरे विपत्तयः । (क० स०)
ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् । (नै० च०)भूतार्थकथने यस्य स्थेयस्येव सरस्वती ।
भक्तानामनिर्वाच्यं हि चेष्टितम् । (क० स०)भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ।
भक्त्या कार्यधुरं वहन्ति कृतिनस्ते दुर्लभास्त्वादृशाः ।भूभृद्रत्नं कनकनिशिखरी । (प्र०भ०)
भक्त्या हि तुष्यन्ति महानुभावाः ।भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति ।
भेदस्तत्र प्रयोक्तव्यो यतः स वशकारकः । (प० त०)भोगरत्नं मृगाक्षी । (प्र०भ०)
भग्नेऽपि हि मृणालानामनुबध्नन्ति सन्तवः ।भोगो भूषणते धनम् ।
भजन्ति वैतसीं वृत्तिं राजानः कालवेदिनः । (क० स०)भोग्यं किं रमणी विना ।
भजन्त्यात्मंभरित्वं हि दुर्लभेऽपि न साधवः । (क० स०)भ्रष्टस्य का वा गतिः ।
भद्रंकृदामुयाद्भद्रमभद्रं चाप्यभद्रकृत् । (क० स०)मणिना भूषितः सर्पः किमसौ न भयङ्करः । (भर्तृ०)
भद्रमभद्रं वा कृतमात्मनि कल्प्यते । (क० स०)मणेस्तुल्यं मूल्यं सहजसुभगस्य द्युतिमितः ।
भयकाङ्क्षयकोपानां गृहं हि छान्दसा द्विजाः । (क० स०)मतिरेव बलाद्गरीयसी ।
भये सीमा मृत्युः । (ध० ख०)मदमूढबुद्धिषु विवेकिता कुतः । (शि० व०)
भर्ता च स्त्रीकृतं पापम् ।मद्यपस्य कुतः सत्यम् ।
भर्त्तारं हि विना नान्यः सतीनामस्ति बान्धवः । (क० स०)मद्यपाः किं न जल्पन्ति ।
भर्त्तृमार्गानुसरणं स्त्रीणां च परमं व्रतम् । (क० स०)मद्ये मारैकसुहृदि प्रसक्ता स्त्री सती कुतः । (क० स०)
भवति महत्सु न निष्फलः प्रयासः । (शि० व०)मधुसमयभूषा मनसिजः । (प्र०भ०)
भवति योजयितुर्वचनीयता ।मधुरविधुरमिश्राः सृष्टयो हा विधातुः । (प्र० रा०)
भवति हि विक्लवता गुणोद्धतानाम् । (शि० व०)मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली ।
भवति हृदयदाही शल्यतुल्यो विपाकः ।मनःपूतं समाचरेत् । (का० नी०)
भजन्ति क्लेशबहुलाः सर्वस्यापीह सिद्धयः । (क० स०)मन एव मनुष्याणां कारणं बन्धमोक्षयोः । (भ०गी०)
भवन्ति वाचोवसरे प्रयुक्ता ध्रुवं प्रविष्टेष्टफलोदयाय । (कु० स०)मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् । (शा० प०)
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः । (कु० स०)मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् । (भर्तृ०)
भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः । (कु० स०)मनीषिणः सन्ति न ते हितैषिणः ।
भवन्त्युदयकाले हि सत्कल्याणपरम्पराः । (क० स०)मनोभूषा मैत्री । (प्र० भ०)
भवन्त्येव हि भद्राणि धर्मादेव यदावृशत् । (क० स०)मनोरथानामगतिर्न विद्यते । (कु० स०)
मनो हि जन्मान्तरसंगतिज्ञम् । (र० व०)
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः । (मे० दू०)
मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ।
मयि तु कृतनिघाते किं विदध्याः परेण ।

सुभाषितरत्नखण्डमञ्जूषा १५


मप्युल्लङ्घितमर्यादे को हि तिष्ठेत्स्ववर्त्मनि । (क० स०)मूर्खस्य हृदयं शून्यम् ।
मरणं प्रकृति. शरीरिणाम् । (र० व०)मूर्खाणां बोधको रिपु ।
मर्दनं गुणवर्धनम् ।मूर्खैर्हि सङ्ग कस्यापि शर्मणे । (क० स०)
मर्मवाक्यमपि नोच्चरणीयम् ।मूर्खो दृष्टव्यलीकोऽपि व्याजमान्त्वेन तुष्यति । (क० स०)
महतां हि धैर्यमभिभाव्यवैभवम् । (कि० अ०)मूर्खोऽनुभवति क्लेश न कार्य कुरुते पुन. । (क० स०)
महतां हि सर्वमथवा जनातिगम् । (शि० व०)मूर्च्छन्त्यमी विकारा प्रायेणैश्वर्यमत्तेषु । (अ० शा०)
महतामनुकम्पा हि विरुद्धेषु प्रतिक्रिया । (क० स०)मृत्योः सर्वत्र तुल्यता ।
महतीमपि श्रियमवाप्य विस्मय. सुजनो न विस्मरति जातु किंचन । (शि० व०)मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेष-<br>प्रणयिनि जने किं पुनर्द्दूरसंस्थे । (मे० दू०)
महते रुजन्नपि गुणाय महान् । (कि० अ०)मेघो गिरिजलधिवर्षी च । (प० त०)
महाजनो येन गतः स पन्था । (प० त०)मोघा हि नाम जायेत महत्सूपकृतिः कुतः । (क० स०)
महानपि प्रसङ्गेन नीचं सेवितुमिच्छति ।मोहान्धमविवेकं हि श्रीश्रिरायं न सेवते । (क० स०)
महानुभावः प्रतिहन्ति पौरुषम् । (कि० अ०)मौनं विधेयं सततं सुधीभि. ।
महान्प्रकृत्यैव करोति विक्रमम् । (प० त०)मौनं सर्वार्थसाधकम् ।
महीतलस्पर्शनमात्रभिन्नमृदं हि राज्यं पदमैन्द्रमाहुः । (र० व०)मौनिन. कलहो नास्ति ।
महीपतीनां विनयो हि भूषणम् ।म्लायति श्रीः कुलस्त्रीव गृहे बन्धक्यधिष्ठिते । (क० स०)
महेश्वरमनाराध्य न सन्तीप्सितसिद्धयः । (क० स०)यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः । (भर्तृ०)
महोदयानामपि सप्रवृत्तित्ता सहायसाध्या. प्रदिशन्ति सिद्धय. । (कि० अ०)यतः सतां हि संगतं मनीषिभि साप्तपदीनमुच्यते । (कु० स०)
मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणा. ।यतः सत्यं ततो धर्म ।
माता च व्यभिचारिणी । (चा० नी०)यतो धर्मस्ततो धनम् ।
मातापितृभ्या शश. सन्न जातु सुखमश्नुते । (क० स०)यतो नागास्ततो जय. ।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने । (प० त०)यतो रूपं तत. शीलम् ।
मात्सर्यरागोपहतात्मना हि स्खलन्ति साधुष्वपि मानसानि । (कि० अ०)यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
मात्सर्यण दुरात्मकोऽपि सुजनं दृष्ट्वा सदा हासते ।यत्ने कृते यदि न सिध्यति कोऽत्र दोष. ।
मात्रा समं नास्ति शरीरपोषणम् ।यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ।
मादृशो हि कथं कुर्या. सच्छोल्लङ्घनसाध्वसम् । (क० स०)यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
माने म्लाने कुतः सुखम् ।यत्राकृतिस्तत्र गुणा वसन्ति ।
मासरत्नं वसन्तः । (प्र० म०)यत्रास्ति लक्ष्मीर्निधनो न तत्र ।
मितं च सारं च वचो हि वाग्मिता । (नै० च०)यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः ।
मित्रार्थगणितप्राणा दुर्लभा हि महोदया. । (क० स०)यथा देशस्तथा भाषा ।
मिथ्या परोपकारो हि कुतः स्यात्कस्य शर्मणे । (क० स०)यथा बीजं तथाङ्कुरः ।
मिष्टान्नमितरे जना. । (नै० च०)यथा भूमित्तथा तोयम् ।
मुक्त्वा बलिभुज काकी कोकिले रमते कथम् । (क० स०)यथा राजा तथा प्रजा ।
मुखं विमुच्य श्वसितस्य धारया वृथैव नासापथधावनश्रम. । (नै० च०)यथा वृक्षस्तथा फलम् ।
मुखरतावसरे हि विराजते । (कि० अ०)यथाशक्त्यतिथे पूजा धर्मो हि गृहमेधिनाम् । (क० स०)
मुख्यमङ्गं हि मन्त्रस्य विनिपातप्रतिक्रिया । (क० स०)यथोत्तोरेच्छा हि गुणेषु कामिन. । (कि० अ०)
मुह्यत्येव हि कृच्छ्रेषु संभ्रमज्वलितं मन. । (कि० अ०)यथौषधं स्वादु हितं च दुर्लभम् ।
मुह्यन्मार्गममार्ग वा रागान्ध. को हि पश्यति । (क० स०)यदध्यासितमर्हद्भिस्तद्धि तीर्थ प्रचक्षते । (कु० स०)
मूढ. परप्रत्ययनेयबुद्धिः । (प० त०)यदनुद्वेगतः साध्यं पुरुषार्थः सदा बुधैः । (क० स०)
मूर्खस्य किं शास्त्रकथाप्रसङ्ग. ।यदन्नं भक्षयेन्नित्यं जायते तादृशी प्रजा ।
यदि वात्यन्तसद्गुता न कस्य परिभूतये । (क० स०)
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ।
यद्देवेन ललाटपत्रलिखितं तद्रोज्झितुं कः क्षम. ।

१६ सुभाषितरत्नभाण्डागारम्


यद्धात्रा निजभालपट्टलिखितं तन्मार्जितुं कः क्षमः ।रन्ध्रोपनिपातिनोऽनर्थाः । (अ० शा०)
यद्भाविनात्मा म्रियते जन्तुस्तद्रूपमश्नुते । (क० स०)रम्याणां विकृतिरपि श्रियं तनोति । (कि० अ०)
यद्यपि शुद्धं लोकविरुद्धं नाकरणीय नाचरणीयम् ।रविपीतजला नपालये पुनरोधेन हि युज्यते नदी । (कु० स०)
यद्वा तद्वा भविष्यति ।
यशः पुण्यैरवाप्यते । (चा० नी०)रसमूला हि व्याधयः ।
यशस्तु रक्ष्यं परतो यशोधनैः । (र० व०)रहस्यं साधूनामनुपधि विशुद्धं विजयते ।
यस्याश्वास्तस्य काञ्चनम् ।राजा राष्ट्रकृतं पापम् । (वृ०चा०)
यस्याश्वास्तस्य मेदिनी ।राजा सहायवान्शूर सोत्साहो जयति द्विषः । (क० स०)
यः क्रियावान्स पण्डितः ।राज्ञः पापं पुरोहितः । (वृ० चा०)
यो गोविन्दरसप्रमोदमधुरा सा माधुरी माधुरी ।रामधाम शरणीकरणीयम् ।
याचको याचकं दृष्ट्वा श्वानवद्गुर्गुरायते ।रिक्तः सर्वो भवति हि लघु पूर्णता गौरवाय । (मे० दू०)
याचनान्तं हि गौरवम् ।रिक्तपाणिर्न पश्येत राजानं देवतां गुरुम् ।
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा । (मे० दू०)रिपुष्वपि हि भीतेषु सानुकम्पा महाशयाः । (क० स०)
यादृशो यः कृतो धात्रा भवेत्तादृश एव सः । (क० स०)लक्ष्मीरनुसरति नयगुणसमृद्धिम् ।
यादृशास्तन्तवः कामं तादृशो जायते पटः । (क० स०)लक्ष्मीर्यस्य गृहे स एव भजति प्रायो जगद्वन्द्यताम् ।
यानरत्नं हि तुरगः । (प्र० भ०)लङ्केश्वरो हरति दाशरथे कलत्रं प्राप्नोति बन्धमथ दक्षिणसिन्धुराजः ।
यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । (अ० रा०)
या यस्य प्रकृतिः स्वभावजनिता केनापि न त्यज्यते ।लब्धदिव्यरसस्वादं को हि रज्येतसान्तरे । (क० स०)
या राका शशिशोभना गतघना सा यामिनी यामिनी ।लब्धस्पर्शाना भवति कुतोऽथवा व्यवस्था । (शि० व०)
या लोकद्वयसाधनी तनुभृता सा चातुरी चातुरी ।लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् । (अ० शा०)
या सौन्दर्यगुणान्विता पतिरता सा कामिनी कामिनी ।
युक्तं न वा युक्तमिदं विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात् ।ललितान्तानि गीतानि ।
लाञ्छनं परं खलु मुखे तव भस्मपातः ।
युक्ताना खलु महता परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः । (कि० अ०)लिखितमपि ललाटे प्रोञ्झितुं क समर्थः ।
लीलया भवजल तरणीयम् ।
युक्ताना विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यल जलोघः । (शि० व०)लुब्धमर्थेन गृह्णीयात् । (प० त०)
लुब्धाना याचकः शत्रुः ।
युक्तियुक्तं प्रगृह्णीयाद्बालादपि विचक्षणः ।लोके पशुश्च मूर्खश्च निर्विवेकमतौ समौ । (क० स०)
युद्धस्य वार्ता रम्या स्यात् ।लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ।
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे । (भर्तृ०)लोकोपहसिता शश्वत्सीदन्त्येव ह्यबुद्धयः । (क० स०)
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ।लोभः पापस्य कारणम् ।
येन श्रियः संश्रयदोषरूढ स्वभावलोलेत्ययशः प्रमृष्टम् ।लोभमूलानि पापानि ।
ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्तु ते किमपि तान्प्रति नैष यत्नः । (मा० मा०)वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः ।
वक्ति जन्मान्तरप्रीतिं मनः स्निग्धदकारणम् । (क० स०)
येनेष्टं तेन गम्यताम् ।वक्रे विधौ वद कथं व्यवसायसिद्धिः ।
योगस्तडित्तोयदपोरिवास्तु ।वचने किं दरिद्रता ।
योजकस्तत्र दुर्लभः ।वचोभूषा सत्यम् । (प्र० भ०)
यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् । (क० स०)वञ्च्यन्ते हेलयैवोह कुश्रीभिः सरलाशयाः । (क० स०)
रक्षन्ति पुण्यानि पुरा कृतानि ।वज्रादपि हि वीराणां चित्तरत्नमखण्डितम् । (क० स०)
रङ्गः शुक्लपटे यथा ।वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते । (कु० स०)
रत्नदीपस्य हि शिखा वात्यापि न नश्यति ।
रत्नव्ययेन पाषाणं को हि रक्षितुमर्हति । (क० स०)वनेऽपि दोषाः प्रभवन्ति रागिणाम् ।
रत्नं समायुज्यतु काञ्चनेन ।वयोगते किं वनिताविलासः ।
रत्नाकरे युज्यत एव रत्नम् । (कु० स०)वरं हि मानिनो मृत्युनं दैन्यं स्वजनाग्रतः । (क० स०)
सुभाषितरत्नखण्डमञ्जूषा१७
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् । (भर्तृ०)विद्वान्सर्वत्र पूज्यते । (चा० नी०)
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि ।विधिरहो बलवानिति मे मति । (माग०)
वर भिक्षाशित्व न मानपरिखण्डनम् । (वृ० चा०)विधिरुन्मुह्वलो नृणाम् ।
वरं मौनं कार्यं न च वचनमुक्तं यदनृतम् ।विधिर्हि घटयत्यर्थानचिन्त्यानपि समुन्व । (क० म०)
वरविभवभूषा वितरणम् ।विधिउल्लिव्य बुद्धिग्नुसरति ।
वरयेत्कुलजा प्राज्ञो विरूपामपि कन्यकाम् । (वृ० चा०)विधेर्विचित्राणि विचेष्टितानि ।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ।विधेर्विलीलामानवेक्ष तरङ्गाङ्को हि तर्कयेत् । (क० स०)
वशिना न निहन्ति वैर्यसमुभावगुण । (कि० अ०)विनयाद्याति पात्रताम् ।
वसुमत्या हि नृपा. कलत्रिण । (र० व०)विनयो हि सनीवतम् । (क० स०)
वस्त्रपूतं पिवेजलम् । (चा० नी०)विनाप्यर्थैर्धीरा स्पृजन्ति बहुमानोन्नति पदं । (हि०)
वस्त्राणामातपो जरा । (प० त०)विना मलयमन्यत्र चन्दन न प्ररोहति ।
वाञ्छात्रोत्पादितासह्यवैराङ्को नानुत्तप्यते । (क० स०)विनाशकाले विपरीतबुद्धि ।
वाञ्छारूवं परमपदवी । (प्र० भ०)विनाश्रया न शोभन्ते पण्डिता वनिता लता ।
वाते वाति कदम्बपुष्पसुरभौ केन प्रतारिष्यते ।विना हि गुर्वीदृशेन संपूर्णाः सिद्धय कुत । (क० स०)
वामे विधौ न हि फलन्त्यभिवाञ्छितानि ।विनियोगप्रमादा हि किङ्करा प्रभविव्णेषु । (कु० स०)
वाराङ्गनेव नृपनीतिरनेकरूपा । (भर्तृ०)विनीतनाग किल सूत्रधारैरैन्तं पद भूमिंगतोऽपि भुङ्क्ते । (र० व०)
वास प्रधानं खलु योग्यतायाः ।
वासोविहीन विजहाति लक्ष्मीः ।विपदा परिभूता कि व्यवस्यन्ति विलम्बिनुम् । (कु० स०)
विकारं खलु परमार्थतोऽज्ञात्वानारम्भ प्रतीकारस्य । (अ० शा०)विपदि न दृपितानिभूमि । (शि० व०)
विपदोऽपि पद श्लाघ्योऽपकारयति नो हि स. । (कु० स०)
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीरा । (कु० स०)विप्रियमप्याकण्थे ब्रूते प्रियमेव सर्वदा सुजन. ।
विभूषण मौनमपण्डितानाम् । (भर्तृ०)
विक्रियायै न कल्पते संबन्धा सदनुष्ठिता । (कु० स०)विमल कलुषीभवच्च चेत. कथयत्येव हितैषिणं रिपुं वा । (कि० अ०)
विक्रीते करिणि किमङ्कुशे विवाद ।
विद्भवत्य प्रथितार्थसिद्धय । (अ० शा०)विरक्तस्य तृणं जगत् ।
विचित्रमायाः कितवा ईदृशा एव सर्वदा । (क० म०)विरक्तस्य तृण भार्या ।
विचित्ररूपा खलु चित्तवृत्तय । (कि० अ०)विलम्बिनु न खलु सदा मनस्विनो विवत्सवः कलहमवेक्ष्य विद्विष । (शि० व०)
विचित्रविधये तस्मै सर्वदा विधये नमः । (क० स०)
विचित्रा. खलु वासना ।विलासिनी हि सर्वस्य संध्येव क्षणरागिणी । (क० स०)
विचित्रो बत कायस्य विपाकविषम. क्रम. । (क० स०)विवश्चित ह्यनुक्तमनुताप जनयति । (अ० शा०)
विजानतोऽपि ह्यनयस्य रौद्रता भनत्यपाये परिमोहिना मति. । (कि० अ०)विवेकवाराशरजौनमन्त सता न काम. कलुषीकरोति । (नै० च०)
वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । (वृ० चा०)विशाखान्तानि सेवानि ।
विदग्धा अपि वञ्च्यन्ते विटवर्णनया स्त्रिय. । (क० स०)विश्वास स्त्रीषु वर्जयेत् । (वृ० चा०)
विदेशे बन्धुलाभो हि मरावमृतनिर्झर. । (क० म०)विश्वास कुटिलेषु क । (क० स०)
विद्यातुराणा न सुख न निद्रा ।विश्वासयत्याशु सता हि योग. । (कि० अ०)
विद्या ददाति विनयम् । (हि०)विषं गोष्ठी दरिद्रस्य ।
विद्या मित्र प्रवासे च । (वृ० चा०)विषमप्यमृत क्वचिद्भवेदमृत वा विषमीश्वरेच्छया । (र० व०)
विद्या रूप कुरूपिणाम् ।
विद्या विवादाय वनम् । (उ० र०)विषयाकृष्यमाणा हि तिष्ठन्ति सुपथे कथम् । (क० म०)
विद्यासमं नास्ति शरीरभूषणम् ।विषत्रिग फन्यापद्रोऽस्त गता. । (शि० पु०)
विद्या सर्वस्य भूषणम् ।विषवृक्षोऽपि सवर्ध्य स्वय छेत्तुमसाप्रतम् । (कु० स०)
विद्या स्तब्धस्य निष्फला ।वीरसहायनिविर्विज्ञा सुखलभ्या हि सिद्धय । (क० म०)
विद्वान्कुलीनो न करोति गर्वम् ।वीरो हि स्वाम्यमर्हति । (क० स०)
विद्वान्सर्वगुणेषु पूजिततनुर्भूरस्य नान्या गति ।वृक्ष क्षीणफल त्यजन्ति विहगाः । (स० र०)

३ सु० २० भा०

१८सुभाषितरत्नभाण्डागारम्

वृत्तं हि राज्ञामुपरुद्धवृत्तम् । (र० वं०) वृथा सुतस्य भोजनम् । वृथा दानं समर्थस्य । वृथा दीपो दिवापि च । वृथा भवेदसङ्गहान्धस्य हितोपदेशना । (कु० स०) वृथा वृष्टिः समुद्रेषु । वृद्धस्य तरुणी विषम् । वृद्धा जना निष्करुणा भवन्ति । वृद्धा न ते ये न वदन्ति धर्मम् । वृद्धा नारी पतिव्रता । वेदाञ्जानन्ति पण्डिताः । वेश्याङ्गनेव नृपनीतिरनेकरूपा । वेश्यानां च कुतः स्नेहः । व्याघ्रस्य चोपवासस्य पारणं पशुमारणम् । व्याजस्रप्रणयैर्वाक्यैर्जनन्या को न वञ्च्यते । (क० स०) व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः । (कु० स०)

व्याधितस्यौषधं मित्रम् । व्रताभिरक्षा हि सतामलंकिया । (कि० अ०) शक्तयो नियता वारि वैद्युताग्नि नु हन्ति किम् (क० स०) शक्या हि केन लङ्घयितुं दुर्जाना नियतेर्गतिः । (क० स०) शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि । शयनतलरत्नं शशिमुखी । (प्र० भ०) शरीरूला हि नृपा मन्त्रमूला च राजता । (क० स०) शरीरमाद्यं खलु धर्मसाधनम् । (कु० स०) शस्त्राघाता न तथा सूचीक्षतवेदना यादृक् । शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति । (र० व०) शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः । (कु० स०) शास्त्रं हि निश्चितधिया क्व न सिद्धिमेति । (शि० व०) शास्त्राद्बुद्धिर्बलीयसी । शिरसि लिखितं लङ्घयति कः । शिष्यपापं गुरुस्तथा । शीलं परं भूषणम् । शीलं भूषयते कुलम् । शीलं हि विदुषां धनम् । (क० स०) शीलं हि सर्वस्य नरस्य भूषणम् । शुचिः क्षेमकरो राजा । शुचिन्नारी पतिव्रता । शुचिर्भूमिगतं तोयम् । शुभकृन्नहि सीदति । (क० स०) शुभस्य शीघ्रमशुभस्य कालहरणम् । शुभाचारस्य कः कुर्यादशुभं हि सचेतनः । (क० स०) शुष्केन्धने वह्निरुपैति वृद्धिम् ।

शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः । (प० त०) शूरस्य मरणं तृणम् । शूराणां मृतमारणे नहि परो धर्मः प्रयुक्तो बुधैः । शूरा हि प्रणतिप्रियाः । (क० स०) शोककन्दः क्व कन्या हि क्वानन्दः कायवान्सुतः । (क० स०) शोभन्ते विद्यया विप्राः । शोषितसरसि निदाघे नितरामेवोद्धतः सिन्धुः । श्यालको गृहनाशाय । (चा० नी०) श्रद्धया न विना दानम् । श्रवणपुटरत्नं हरिकथा । (प्र० भ०) श्रवणसुखसीमा हरिकथा । (प्र० भ०) श्रीकृष्णस्य कृपालवो यदि भवेत्कः कं निहन्तुं क्षमः । श्रीपतेः पदयुगं स्मरणीयम् । श्रीमङ्गलात् प्रभवति । (म० भा०) श्रेयसि केन तृप्यते । (शि० व०) श्रेयान्हि मानिनो मृत्युनैर्दुगात्मप्रकाशनम् । (क० स०) श्रोत्रस्य भूषणं शास्त्रम् । सपत्सु महतां चित्तं भवत्युत्पलकोमलम् । संसर्गजा दोषगुणा भवन्ति । (भर्तृ०) संहर्षिणा सह गुणाभ्यधिकैर्दुरासम् । (शि० व०) सकलं शीलेन कुर्याद्वशम् । सकलकृतिसीमा श्रुतिस्मृतिः । (प्र० भ०) सकलगुणभूषा च विनयः । सकलगुणसीमा वितरणम् । सकलसुखसीमा सुवदना । (प्र० भ०) सकृद्विषिमानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्न्रहीतुम् । (र० व०)

स क्षत्रियस्त्राणसहः सतां यः । सखि साहजिकं प्रेम दूरादपि विजायते । सकटे हि परीक्ष्यन्ते प्राज्ञाः शूराश्च संगरे । (क० स०) संकल्पैकप्रधाना हि दिव्यानामखिलाः क्रियाः । (क० स०) सङ्गः सता किमु न मङ्गलमातनोति । (भाग०) सङ्गात्संजायते कामः । (भ० गी०) सङ्ग्रामो नाम शूराणामुत्सवो हि महानयम् । (क० स०) सता प्रज्ञोन्मेष पुनरयमसीमा विजयते । सतां महत्संमुखभावि पौरुषम् । (नै० च०) सता हि चेतः शुचितात्मसाक्षिका । (नै० च०) सता हि सङ्गः सकलं प्रसूयते । (भाग०) सता हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः । (अ० शा०) सतां हि साधुशीलत्वात्स्वभावो न निवर्तते । सतां गुरुजिगीषे हि चेतसि स्त्रीतृणं कियत् । (क० स०) सतीधर्मो हि सुखीणां चिन्त्यो न सुहृदादयः । (क० स०) स तु निरवधिरेकः सञ्जनानां विवेकः । सत्त्वाधीना हि सिद्धयः । (क० स०)

सुभाषितरत्नखण्डमञ्जूषा१९
सत्त्वानुरूपं सर्वस्य धाता सर्वं प्रयच्छति । (क० स०)समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य । (कु० स०)
सत्पुत्र एव कुलसद्मनि कोऽपि दीपः ।सपत्सु हि सुसत्त्वानामेकहेतुः स्वपोषणम् । (क० स०)
सत्यः प्रवादो यच्छिद्रेष्वनर्था यान्ति भूरिताम् । (क० स०)सम्पूर्णकुम्भो न करोति शब्दम् ।
सत्यनियतवचस वचसा सुजनं जनाश्चलयितुं क ईशते । (शि० व०)संभवत्यभिजातानामभिमानो ह्यकृत्रिमः । (क० स०)
सत्यपूता वदेद्वाणीम् ।संभावना ह्यविकृतस्य तनोति तेजः । (कि० अ०)
सत्यं सम्यक्कृतोऽल्पोऽपि धर्मो भूरिफलो भवेत् । (क० स०)संभावितस्य चाकीर्तिर्मरणादतिरिच्यते । (भ० गी०)
सत्यं कण्ठस्य भूषणम् ।समुपनो हि जयो रन्ध्रप्रहारिणाम् । (र० व०)
सत्य न तद्यच्छलमभ्युपैति ।सरित्पतिर्नहि समुपेति रिक्तताम् । (शि० व०)
सत्यमेव जयते । (वृ० चा०)सरित्पूरप्रपूर्गोऽपि क्षारो न मथुरायते । (वा० वा०)
सत्येन तपते रविः । (वृ० चा०)सर्पः क्रूरः खलः क्रूरः सर्पात्क्रूरतरः खलः । (चा० नी०)
सत्येन धार्यते पृथ्वी । (वृ० चा०)सर्वं स्नेहात्प्रवर्तते । (म० भा०)
सत्येन पूर्यते साक्षी ।सर्वं कान्तमात्मीयं पश्यति । (अ० शा०)
सत्येन वाति वायुश्च । (वृ० चा०)सर्वं कालवशेन नश्यति ।
सत्संगतिः कथय किं न करोति पुंसाम् । (भर्तृ०)सर्वं कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् । (भर्तृ०)
सदसद्वा नहि विदुः कुक्षीवचनमोहिताः । (क० स०)सर्वः प्रार्थितमर्थमविगम्य सुखी संपद्यते जन्तुः ।
सदाभिमानैकधना हि मानिनः । (शि० व०)राज्ञा तु चरितार्थता दुःखोत्तरैव । (अ० शा०)
सदा स्याद्योऽत्र यच्चित्तन्मयत्वमुपैति सः । (क० स०)सर्वं प्रियं खलु भवत्यनुरूपचेष्टे । (शि० व०)
सदोभूषा सूक्तिः ।सर्वं कार्यवशाज्जनोऽभिरमते तत्कस्य को वल्लभः । (भर्तृ०)
सद्भावाद्रैः फलति न चिरेणोपकारो महत्सु । (म० दू०)सर्वं जीवद्भिराप्यते । (क० स०)
सद्भिः कुर्वीत संगतिम् ।सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ।
सद्भिरेव सहासीत ।सर्वं रत्नमुपद्रवेन सहितं निर्दोषमेकं यशः ।
सद्भिर्विवादं मैत्रीं च ।सर्वं शून्यं दरिद्रस्य । (प० त०)
सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम् ।सर्वं सत्ये प्रतिष्ठितम् । (चा० नी०)
सद्यः फलति गान्धर्वम् ।सर्वं सावधि नावधि कुलभुवां प्रेम परं केवलम् ।
सद्य एव सुकृता हि पच्यते कल्पवृक्षफलधर्मि काङ्क्षितम् । (र० व०)सर्वनाशाय मातुलः । (चा० नी०)
स धार्मिको यः परधर्मं न स्पृशेत् ।सर्वमत्यन्तगर्हितम् ।
स धीरो यो न संमोहमापत्कालेऽपि गच्छति । (क० स०)सर्वलोकप्रतिष्ठाया यतन्ते बहवो जनाः ।
सन्तः परीक्ष्यान्यतरद्भजन्ते ।सर्वशून्या दरिद्रता ।
सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् । (म० भा०)सर्वश्चित्तप्रमाणेण सदसद्वाभिवाञ्छति । (क० स०)
संततिः शुद्धवंश्या हि परत्रेह च शर्मणे । (र० व०)सर्वस्यौषधमस्ति शास्त्रविहितं, मूर्खस्य नास्त्यौषधम् । (प० त०)
संतोष एव पुरुषस्य परं निधानम् ।सर्वाङ्गे दुर्जनो विषम् ।
संतोषतुल्यं धनमस्ति नान्यत् ।सर्वारम्भास्तण्डुलप्रस्थमूलाः ।
संतोषे ब्राह्मणः शुचिः ।सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । (अ० शा०)
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः । (भर्तृ०)सर्वे गुणाः काञ्चनमाश्रयन्ते । (भर्तृ०)
संधत्ते भृशमरतिं हि सद्वियोगः ।सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । (म० भा०)
संधिं कृत्वा तु हन्तव्यः सम्प्राप्तेऽवसरे पुनः । (क० स०)सर्वो हि नोपगतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति । (शि० व०)
संनिकृष्टे निकृष्टेऽपि कष्टं रच्यन्ति कुक्षियः । (क० स०)सलज्जा गणिका नष्टा ।
सभारत्नं विद्वान् । (प्र० भ०)स सुहृद्व्यसने यः स्यात् । (प० त०)
समये हि सर्वमुपकारि कृतम् । (शि० व०)सहते मादृश को हि तादृशं धर्मविप्लवम् । (क० स०)
समर्थो यो नित्यं स जयतितरा कोऽपि पुरुषः ।सहने विपत्सहस्रं मानी नैवापमानलेशमपि । (म० भा०)
समानशीलव्यसनेषु सख्यम् । (हि० प०)सहते विरहक्लेशं यशस्वी नायशः पुनः । (क० स०)