उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
४४ उत्तरगीतायां यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थः ॥ ६ ॥ ततः तत्त्वज्ञानानन्तरम् उदके महोदके अनुप्रविष्टम् ऐक्यं गतं तोयं परिच्छिन्नोदकम् , तद्वत् पवित्रं शुद्धम् पर- मेश्वराख्यं परमेश्वरसंज्ञं तथापि विमलाम्बराभं निर्मलाकाश- वदसङ्गमद्वैतरूपं सजातीयविजातीयस्वगतभेदरहितं ब्रह्म परं ब्रह्म अनुप्रविष्टः तदैक्यं गतः अत एव परमात्मरूपः सन् निरुपाधिसंस्थो भवेत् औपाधिककर्तृत्वादिभेदरहितो भवेत् , स्वयं निष्क्रिय आसीतेत्यर्थः; गुणा गुणेषु वर्तन्ते इति न्यायादिति भावः ॥ एवं यथोक्तकर्मानुष्ठानद्वारा तत्त्वज्ञाने जात एव परमा- त्मतत्त्वं ज्ञातुं शक्यम् , न ततः पूर्वमित्याह— आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा । स बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कया पश्यति चान्तरात्मा ॥ आकाशवत् सूक्ष्मशरीरः आकाशं यथातीन्द्रियम् , तद्वत् परमात्मा सूक्ष्मशरीरः, सूक्ष्मत्वमत्र अतीन्द्रियत्वमभिप्रेतम् ,
द्वितीयोऽध्यायः । ४५ तादृशः परमात्मा वायुवत् वायुर्यथा चक्षुरादिविषयो न, तद्वद् अन्तरात्मा जीवोऽपि न दृश्यते, तत्स्वरूपमपीन्द्रिय- विषयं न भवतीत्यर्थः, मनसोऽप्रमाणत्वसाधनादिति भावः । तर्हि तयोः अपरोक्षतत्त्वज्ञानं केनेत्यत आह— स बाह्यम- भ्यन्तरनिश्चलात्मा यः बाह्यविषयेषु अभ्यन्तरविषयेषु च निश्चलात्मा विषयविक्षिप्तचित्तो न भवति, सः ज्ञानोल्कया वेदान्तजन्यतत्त्वापरोक्षवृत्तिरूपज्ञानदीपेन अन्तरात्मा अन्त- र्मुखचित्तः पश्यति तदुभयैक्यं जानातीत्यर्थः ॥ इह केषांचिद्दर्शनं अर्चिरादिमार्गेण लोकान्तरप्राप्तिः मुक्तिः इति, तन्निराकर्तुम् 'अत्र ब्रह्म समश्नुते' इत्यादि- श्रुत्या पूर्वोक्तज्ञानिनो मुक्तिस्वरूपमाह— यत्र यत्र मृतो ज्ञानी येन केनापि मृत्युना । यथा सर्वगतं व्योम तत्र तत्र लयं गतः ॥ ८ ॥ सर्वगतं सर्ववस्त्ववच्छेदकं व्योम आकाशं यथा अव- च्छेदकवस्तुनाशे तत्रैव महाव्योम्नि लयम् ऐक्यं प्राप्नोति, तथा सर्वगतः ज्ञानी सर्वत्र परिपूर्णब्रह्माभिन्नः शरीराद्युपा- U. 4
४६ उत्तरगीतायां धिना भिन्नत्वेन व्यवह्रियमाणः ब्रह्मापरोक्षज्ञानी येन केन मृत्युना यत्र कुत्रापि वा मृतः अज्ञानोपादानकदेहं ज्ञानेन नाशयति, तत्र तत्रैव ब्रह्मणि लयम् ऐक्यं गतः प्राप्त एवे- त्यर्थः । अनेन तत्त्वज्ञानिनो देशकालाद्यपेक्षा मरणे मा भू- दिति सूचितम् । भृग्वग्न्याद्यपमृत्युनिमित्तकप्रायश्चित्तान्यपि आरुरुक्ष्वधिकृतानि इति वेदितव्यम् ॥ एकस्यापि जीवस्य देहाद्यवच्छेदकभेदेन नानात्वं जीव- स्याणुत्वपक्षे न संभवतीत्याशङ्क्य जीवस्य व्यापित्वं साध- यति— शरीरव्यापितं व्योम भुवनानि चतुर्दश । निश्चलो निर्मलो देही सर्वव्यापी निरञ्जनः ॥ ९ ॥ शरीरव्यापितं शरीरादिसर्वद्रव्यव्यापितं व्योमं आकाशं यथा भुवनानि चतुर्दश भूर्भुवरादीनि व्यापितं सत् वर्तते, एवं निश्चलः क्रियारहितः निर्मलः परिशुद्धः निरञ्जनः स्वयंप्रकाशो देही जीवः सर्वव्यापी जगद्व्यापीत्यर्थः । जग- न्मात्रस्य अविद्यापरिणामत्वेन जगदुपादानाविद्याप्रतिबिम्ब- स्यैव जीवत्वेन तस्य व्यापित्वमेव, नाणुत्वमिति भावः ॥
द्वितीयोऽध्यायः । ४७ एवं तत्त्वज्ञानिनो मुक्तिस्वरूपमभिधाय ततः परं तत्त्व- ज्ञानसाधनानुष्ठातुः तदेव सर्वपापप्रायश्चित्तमित्याह-- मुहूर्तमपि यो गच्छे- न्नासाग्रे मनसा सह । सर्वं तरति पाप्मानं तस्य जन्म शतार्जितम् ॥ १० ॥ यः ज्ञानसाधनानुष्ठाता मनसा सह साधनेन सह मुहूर्त- मात्रमपि नासाग्रे गच्छेत् नासाग्रे तत्त्वज्ञानार्थं निश्चलं चक्षुः कुर्यात् , तस्य तादृशहंसमुद्रानिष्ठस्य जन्मशतार्जितं अनेकजन्मसंचितं सर्वं यत्पापमस्ति तत्सर्वं पाप्मानं पापं योगी तरति नाशयतीत्यर्थः । तदुक्तम् ' यस्य ब्रह्मविचा- रणे क्षणमपि प्राप्नोति धैर्यं मनः' 'कुलं पवित्रं जननी कृतार्था विश्वंभरा पुण्यवती च तेन' इत्यादि-- मुक्तिः द्विविधा--सद्यो मुक्तिः क्रममुक्तिरिति, तत्र सद्यो मुक्तिः 'यत्र यत्र मृतो योगी' इत्यादिना, 'अत्र ब्रह्म सम- श्नुते' इत्यादिश्रुत्या च, प्रतिपादिता । 'ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्' इत्यादिभिः प्रतिपादितां क्रममुक्तिं निरूपयितुम्,
४८ उत्तरगीतायां अर्चिरादिमार्ग गन्तुः पुनरावृत्तिराहित्यम्, धूमादिमार्ग गन्तुः पुनरावृत्तिं च, निरूपयितुं योगधारणया तदुभयमा- र्गस्वरूपमाह-- दक्षिणे पिङ्गला नाडी वह्निमण्डलगोचरा । देवयानमिति ज्ञेया पुण्यकर्मानुसारिणी ॥ ११ ॥ दक्षिणे देहस्य दक्षिणे भागे वह्निमण्डलगोचरा वह्नि- मण्डलं संप्राप्ता पुण्यकर्मानुसारिणी पुण्यकर्मभिः प्राप्तुं यो- ग्या पिङ्गलानाम नाडी मूलाधारादारभ्य दक्षिणभागतः सहस्रारपर्यन्तं व्याप्ता या नाडी सा देवयानमिति ज्ञेया पुनरावृत्तिरहितार्चिरादिमार्ग इति ज्ञेयेत्यर्थः ॥ धूमादिमार्गप्रापकेष्ठनाडीस्वरूपमाह— इला च वामनिश्वासः सोममण्डलगोचरा । पितृयानमिति ज्ञेयं वाममाश्रित्य तिष्ठति ॥ १२ ॥
द्वितीयोऽध्यायः । ४९ इलानाडी वामनिश्व्याससोममण्डलगोचरा वामनासापुट- मार्गेण चन्द्रमण्डलं प्राप्ता वाममाश्रित्य तिष्ठति, मूलाधारा- दारभ्य वामभागतः सहस्रारपर्यन्तं गता या नाडी सा पितृयानमिति ज्ञेया पुनरावृत्त्यनुकूलधूममार्ग इति ज्ञेये- त्यर्थः ॥ एवमिलापिङ्गलानाड्योः स्थानं स्वरूपं च अभिधाय सुषुम्नानाडीस्वरूपं निरूपयितुं तत्सम्बन्धिन्याः ब्रह्मदण्ड्याः स्वरूपमाह— गुदस्य पृष्ठभागेऽस्थि- न्वीणादण्डस्य देहभृत् । दीर्घास्थि मूर्ध्निपर्यन्तं ब्रह्मदण्डीति कथ्यते ॥ १३ ॥ अस्मिन् देहे गुदस्य मूलाधारस्य पृष्ठभागे पश्चिमभागे वीणादण्डस्य देहभृत् वीणायास्तन्त्याधारभूतो यो दण्डः तदाकारभृत तद्रूत्स्थितं मूर्ध्निपर्यन्तं सहस्रारपर्यन्तव्याप्तं य- दीर्घास्थि दीर्घं पृष्ठभागस्थितम् , तत् ब्रह्मनाडीति कथ्यते ब्रह्मैक्यप्रतिपादकसुषुम्नाधारत्वादिति भावः ॥ इतः परं सुषुम्नानाडीस्वरूपमाह—
३. तृतीय अध्याय: जीवन्मुक्ति, अद्वैत-स्थिति व उपसंहार
५० उत्तरगीतायां तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः । तस्य ब्रह्माण्डस्याख्याश्वः अन्ते अग्रे सूक्ष्मं सुषिरं रन्ध्रं वर्तेत इति शेषः, तद्गता नाडी सूरिभिः विवेकिभिः ब्रह्म- नाडीति ब्रह्मैक्यप्रतिपादिका नाडीति कथ्यत इति शेषः ॥ तामेव नाडीं निरूपयति— इलापिङ्गलयोर्मध्ये सुषुम्ना सूक्ष्मरूपिणी । सर्वं प्रतिष्ठितं यस्मि- न्सर्वगं सर्वतोमुखम् ॥ १४ ॥ इडापिङ्गळनाड्योर्मध्ये सूक्ष्मरूपिणी अतिसूक्ष्मबिस- तन्तुरूपिणी मूलाधारादारभ्य स्वाधिष्ठानादिचक्रद्वारा सह- स्रारपर्यन्तं गता कुण्डलिनी शक्तिरिति प्रसिद्धा या सुषुम्ना नाडी, तस्याः अग्रे उपरि सर्वं सर्वात्मकं विश्वतोमुखं सर्वद्रष्टृ सर्वगं सर्वव्याप्तं यत्तेजः ब्रह्मज्योतिः, तत् प्रतिष्ठितं विद्यत इत्यर्थः, ‘तस्याः शिखाया मध्ये’ इति श्रुतेः । ‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमाय- न्नमृतत्वमेति—’ इत्यादिश्रुतेः ॥
द्वितीयोऽध्यायः । ५१ सुषुम्नामार्गगतस्य ब्रह्मप्राप्तिं निरूपयितुं तस्याः कुण्डलि- न्याः सकलजगदात्मकत्वं सकलजगदाधारत्वं सर्वदेवात्मकत्वं सर्ववेदाधारकत्वं च आह— तस्य मध्यगताः सूर्य- सोमाग्निपरमेश्वराः । भूतलोका दिशः क्षेत्र- समुद्राः पर्वताः शिलाः ॥ १५ ॥ द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः । स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः ॥ १६ ॥ बीजं बीजात्मकास्तेषां क्षेत्रज्ञाः प्राणवायवः । सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् ॥ १७ ॥ सूर्यसोमाग्निपरमेश्वराः सूर्यमण्डलसोममण्डलवह्निमण्ड- लानि तन्मध्यस्थितेश्वरश्च, भूतलोकाः पञ्चमहाभूतानि व्यो-
५२ उत्तरगीतायां मादीनि, चतुर्दश भुवनानि भूर्भुवःसुवरादीनि, दिशः पूर्वादयः, क्षेत्राणि वाराणस्यादीनि, समुद्राः लवणेक्ष्वादयः, पर्वताश्च मेर्वादयः, शिलाः यज्ञशिलाः वित्तशिलादयः, द्वीपाः जम्ब्वादयः, निम्नगाः जाह्नव्यादयः, वेदाः ऋग्वेदा- दयः, शास्त्राणि मीमांसादीनि, कलाः चतुःषष्टिकलाः, अक्ष- राः ककारादीनि, स्वराः अकारादयः, मन्त्राः गायत्र्यादयः, पुराणानि ब्रह्माण्डादीनि, गुणाः सत्त्वादयः, बीजं प्रधानम्, बीजात्मकाः महदादयः, क्षेत्रं जानन्तीति क्षेत्रज्ञाः जीवाः, प्राणवायवः—प्राणादयः पञ्च नागादयः पञ्च आहत्य दश- वायवः, सर्व एते तस्य सुषुम्नानाडीविशेषस्य मध्यगताः यस्मात्, तस्मात्कारणात् सर्वं जगज्जातं सुषुम्नान्तर्गतं कुण्ड- लिनीशक्त्यन्तर्भूतमित्यर्थः । अत एव तस्मिन् सर्वं प्रतिष्ठिति- रम् इति, 'तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम्' इति श्रुतेः ॥ तस्मात्सर्वजगदुत्पत्तिकारणमाह— नानानाडीप्रसवकं सर्वभूतान्तरात्मनि । ऊर्ध्वमूलमधः शाखं वायुमार्गेण सर्वगम् ॥ १८ ॥
द्वितीयोऽध्यायः । ५१ सर्वभूतानां सर्वप्राणिनाम् अन्तरात्मनि देहे नानानाडी- प्रसवकं नानानाड्युत्पत्तिस्थानभूतम् , ऊर्ध्वमूलं ऊर्ध्वं ब्रह्म तदेव मूलं उत्पत्तिस्थानं यस्य तत् , अधःशाखं हिरण्यगर्भा- दिसृष्टिपरंपराख्याधःप्रसृततिर्यगादिशाखम्, वायुमार्गेण प्रा- णापानादिवायुमार्गेण, सर्वगं सर्वव्याप्तं सत् जगदुपादानत- या तिष्ठतीत्यर्थः ॥ ब्रह्मोपासनस्थानतया इतरनाड्याधिक्यमाह-- द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः । कर्ममार्गेण सुषिरा- स्तिर्यञ्चः सुषिरात्मकाः ॥ १९ ॥ अधश्चोर्ध्वगतास्तासु नव द्वाराणि शोधयन् । वायुना सह जीवोर्ध्व- ज्ञानी मोक्षमवाप्नुयात् ॥ २० ॥ वायुगोचराः वायुसंचारानुकूलाः नाड्यः सिराः द्विस- प्ततिसहस्राणि द्व्यधिकसप्ततिसहस्राणि कर्ममार्गेण सुषिराः
५४ उत्तरगीतायां पुनरावृत्तिप्रापकसुषिरखयः; अत एव तिर्यञ्चः तिर्यग्भूताः सुषिरात्मकाः रन्ध्रप्रधानाः अधश्चोर्ध्वगताः अधोभागमू- र्ध्वभागं च गताः सर्वत्र व्याप्ताः; तासु नाडीषु मध्ये सुषु- म्नानाड्या नव द्वाराणि शोधयन् प्राणायामेन मुखादिसर्व- द्वाराणि शोधयन्; जीवः वायुना सह सुषुम्नामार्गगतवायु- ना सह ऊर्ध्वज्ञानी ब्रह्मापरोक्षज्ञानी सन् मोक्षमवाप्नुयात् ब्रह्मैक्यं प्राप्नुयादित्यर्थः । 'तयोर्ध्वमायन्नमृतत्वमेति' इत्या- दिश्रुतेरिति भावः ॥ तस्याः कुण्डलिन्याः सकलजगदाधाररूत्वेन च उपासनां कर्तुमस्यामेव सर्वाणीन्द्रादिपुराणि कल्पयति-- अमरावतीन्द्रलोको- ऽस्मिन्नासाग्रे पूर्वतो दिशि । अग्निलोको हृदि ज्ञेय- श्चक्षुस्तेजोवती पुरी ॥ २१ ॥ अस्मिन्नाडीविशेषे पूर्वतो दिशि पूर्वस्यां दिशि नासाग्रे नासिकाग्रभागे अमरावती अमरावत्याख्यः इन्द्रलोकः इन्द्रा- दिदेवावासभूतो लोकः वर्तत इति शेषः । तथा अनन्तरं चक्षुः दक्षिणं नेत्रं तेजोवती तेजोवती नाम पुरीति प्रसिद्ध;
द्वितीयोऽध्यायः । ५५ हृदि हृदये अग्निलोकः अग्न्यादिदेवावासभूतो लोकः ज्ञेयः वर्तत इति शेषः ॥ याम्या संयमनी श्रोत्रे यमलोकः प्रतिष्ठितः । नैर्ऋतो ह्यथ तत्पार्श्वे नैर्ऋतो लोक आश्रितः ॥ २२ ॥ श्रोत्रे दक्षिणे कर्णे याम्या यमसंबन्धिनी संयमिन्याख्यो यमलोकः यमादिदेववासभूतो लोकः प्रतिष्ठितः अस्ती- त्यर्थः । अथ तत्पार्श्वे दक्षिणकर्णभागे नैर्ऋतः निर्ऋति- संबन्धो नैर्ऋत्याख्यो लोकः आश्रितः अस्तीत्यर्थः ॥ किंच -- विभावरी प्रतीच्यां तु पृष्ठे वारुणिका पुरी । वायोर्गन्धवती कर्ण- पार्श्वे लोकः प्रतिष्ठितः ॥ २३ ॥ प्रतीच्यां पश्चिमदिशि पृष्ठे पश्चिमभागे विभावरीसंज्ञका वारुणिका पुरी वरुणसंबन्धिनी पुरी वर्तत इति शेषः ।
५६ उत्तरगीतायां कर्णपार्श्वे वामकर्णसमीपे गन्धवती गन्धवतीपुर्याख्या वायो- र्लोकः प्रतिष्ठितः अस्तीत्यर्थः ॥ किंच-- सौम्या पुष्पवती सौम्ये सोमलोकस्तु कण्ठतः । वामकर्णे तु विज्ञेयो देहमाश्रित्य तिष्ठति ॥ २४ ॥ सौम्ये उत्तरदिशि कण्ठतः कण्ठदेशादारभ्य वामकर्णे वामश्रोत्रे सौम्या कुबेरसंबन्धिनी पुष्पवती पुष्पवत्याख्या सोमलोकः एवं देहमाश्रित्य तिष्ठतीति विज्ञेयः ॥ किंच-- वामे चक्षुषि चैशानी शिवलोको मनोन्मनी । मूर्ध्नि ब्रह्मपुरी ज्ञेया ब्रह्माण्डं देहमाश्रितम् ॥ २५ ॥ वामे चक्षुषि वामनेत्रे ऐशानी ईशानसंबन्धिनी मनो- न्मनी मनोन्मनीपुर्याख्यः शिवलोकः शिवावासभूतो लोकः
द्वितीयोऽध्यायः । ५७ ज्ञेयः; मूर्ध्नि शिरसि ब्रह्मपुरी ब्रह्मलोकः ज्ञेयः; एवं ब्रह्मा- ण्डं सर्वजगज्जातं देहमाश्रितं देह एव वर्तत इत्यर्थः ॥ देहे एव लोकादिकल्पनामाह-- पादादधः शिवोऽनन्तः कालाग्निप्रलयात्मकः । अनामयमधश्चोर्ध्वं मध्यमं तु बहिः शिवम् ॥ २६ ॥ पादादधः पादाधःप्रदेशे अनन्तः महाशेषः वर्तते, स तु कीदृशः ? शिवः रुद्रात्मकः ; पुनः कीदृशः ? कालाग्निप्रलया- त्मकः प्रलयकालाग्न्यात्मक इत्यर्थः ; 'त्रिलोक्यां दह्यमानायां संकर्षणमुखाग्निना' इति स्मृतेरिति भावः । तदधः किमि- त्याशङ्क्याह--अधश्चोर्ध्वमिति अधोदेशे ऊर्ध्वदेशे मध्यदेशे बहिर्देशे च सर्वत्र अनामयं निरञ्जनं शिवं मङ्गलात्मकं ब्रह्मैव वर्तत इत्यर्थः ॥ शेषोपरि अतलादिलोककल्पनामाह-- अधः पदोऽतलं विद्या- त्पादं च वितलं विदुः ।
५८ उत्तरगीतायां नितलं पादसंधिश्च सुतलं जङ्घमुच्यते ॥ २७ ॥ महातलं तु जानु स्या- दूरुदेशो रसातलम् । कटिस्तालतलं प्रोक्तं सप्त पातालसंज्ञया ॥ २८ ॥ पदः पादस्याधोदेशे अतललोकं विद्यात्; पादं तु वितलं लोकमिति विदुः योगिन इति शेषः; पादसंधि तु गुल्फ- स्थानं नितलं विद्यात्; जङ्घं सुतलमित्युच्यते; जानुदेशः महातलं स्यात्; ऊरुदेशः रसातलं विद्यात्; कटिदेशः तला- तलं प्रोक्तम्; एवं देहावयवाः सप्त पातालादिलोकसंज्ञया कल्पनीया इत्यर्थः ॥ किंच-- कालाग्निनरकं घोरं महापातालसंज्ञया । पातालं नाभ्यधोभागो भोगीन्द्रफणिमण्डलम् ॥ २९ ॥
द्वितीयोऽध्यायः । ५९ वेष्टितः सर्वतोऽनन्तः स बिभ्रज्जीवसंज्ञकः । घोरं भयंकरं कालाग्निनरकं कालाग्निदेशवत् कालाग्न्या- कारा ह्यानरकदेशवत् भोगीन्द्रफणिमण्डलं भोगीन्द्राः सर्प- राजानः फणयः इतरे सर्पाः तेषां मण्डलं समूहवत् यत् पा- तालम्, तत् नाभ्यधोभागे नाभ्यधःप्रदेशे महापातालसंज्ञया ऽभिहितमिति विद्यात्; स जीवसंज्ञकः जीवसंज्ञावान् शेषः सर्वतः सर्वं वेष्टितः सन् बिभ्रन्सन् स्थितः कुण्डलाकारेणा- वृत्य वर्तत इत्यर्थः ॥ भूलोकं नाभिदेशं तु भुवर्लोकं तु कुक्षितः ॥ ३० ॥ हृदयं स्वर्गलोकं तु सूर्यादिग्रहतारकाः । हृदयं स्वर्गलोकं विद्यात्, तत्र सूर्यादिग्रहाः नक्षत्राणि च तिष्ठन्तीत्यर्थः । शेषं स्पष्टम् ॥ किंच— सूर्यसोमसुनक्षत्रं बुधशुक्रकुजाङ्गिराः ॥ ३१ ॥
६० उत्तरगीतायां मन्दश्च सप्तमो ह्येष ध्रुवोऽन्तः स्वर्गलोकतः । सूर्यसोमेत्यादि सूर्यादिग्रहनक्षत्रमित्यस्य व्याख्यानम् । ध्रुवोऽन्तः स्वर्गलोकतः स्वर्गलोकस्यान्ते ध्रुवो वर्तत इत्यर्थः ॥ एवं कल्पनाफलमाह हृदये कल्पयन्योगी तस्मिन्सर्वसुखं लभेत् ॥ ३२ ॥ योगी हृदये एव सूर्यादिग्रहनक्षत्रादीनि कल्पयन् तस्मिन् हृदि कल्पनाविशेषेण सर्वसुखं लभेत्; तत्तल्लोकगतसुखानि प्राप्नोतीत्यर्थः ॥ किंच-- हृदयस्य महर्लोकं जनोलोकं तु कण्ठतः । तपोलोकं भ्रुवोर्मध्ये मूर्ध्नि सत्यं प्रतिष्ठितम् ॥ ३३ ॥ हृदयस्योपरीति शेषः । स्पष्टमन्यत् ॥
द्वितीयोऽध्यायः । ६१ एवं देहे एव सर्वलोककल्पनामुक्त्वा तल्लयप्रकारमाह-- ब्रह्माण्डरूपिणी पृथ्वी तोयमध्ये विलीयते । अग्निना पच्यते तोयं वायुना ग्रस्यतेऽनलः ॥ ३४ ॥ आकाशं तु पिबेद्वायुं मनश्चाकाशमेव च । बुद्ध्यहंकारचित्तं च क्षेत्रज्ञः परमात्मनि ॥ ३५ ॥ अत्र तामसाहंकारकार्याणां पृथिव्यादीनां सात्त्विकाहंका- रकार्ये मनसि क्रमेण लयकथनं मनोवृत्तिविषयत्वाधीनव्यव- हारगोचरत्वादुपचारात् इति मन्तव्यम् । तच्च मनो बुद्धौ बुद्धिरहंकारे अहंकारं चित्ते चित्तं क्षेत्रज्ञे क्षेत्रज्ञः, परमात्मनि एवं सर्वात्मनि प्रविलापयेदित्यर्थः ॥ एवं योगाभ्यासेन ब्रह्मैक्यानुसंधानवतः सकलदुरितनि- वृत्तिरित्याह-- U, 5
६२ उत्तरगीतायां अहं ब्रह्मेति मां ध्याये- देकाग्रमनसा सकृत् । सर्वं तरति पाप्मानं कल्पकोटिशतैः कृतम् ॥ ३६ ॥ स्पष्टोऽर्थः ॥ जीवस्य मुक्तिस्वरूपमाह-- घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नश्यति नाकाशं तद्वज्जीव इहात्मनि ॥ ३७ ॥ घटे नीयमाने पूर्वदेशादन्यदेशं प्राप्यमाने घटे नष्टे च यथा घटाकाशं महाकाशे ऐक्यं प्राप्नोति, तद्वज्जीवः परमा- त्मनीत्यर्थः ॥ किंच-- घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्छति निरालम्बं ज्ञानालोक्यं न संशयः ॥ ३८ ॥
द्वितीयोऽध्यायः । ६३ यः आत्मानं जीवं घटाकाशमिव परमात्मनि लयं गतं तत्त्वतः यथार्थतया वेत्ति, सः ज्ञानी निरालम्बं निःसंगं ज्ञानालोक्यं ब्रह्मप्रकाशात्मतत्त्वं गच्छति प्राप्नोति, न संशयः संदेहो नास्तीत्यर्थः ॥ एतस्य ज्ञानयोगस्य किमपि न तुल्यमित्याह-- तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥ ३९ ॥ आलोच्य चतुरो वेदा- न्धर्मशास्त्राणि सर्वदा । यो वै ब्रह्म न जानाति दर्वी पाकरसं यथा ॥ ४० ॥ यथा खरश्चन्दनभारवाही ‘ सारस्य वाही न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य सारं त्वजानन्खरवद्वहेत्सः ॥ ४१ ॥