उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
६-३७ ] उत्तररामचरितं १३९ त्वदर्थमिव न्यस्तः शिलापट्टोऽयमग्रतः । यस्यायमभितः पुष्पैः प्रवृष्ट इव केसरः ॥ ३६ ॥ रामः-( सच्छवालितस्नेहकरुणम् ) बते हि नाम मुग्ध शिशुजन- विशेषात्स्वदण्डधर । हा देवि स्मरसि वा तस्य प्रदेशस्य तत्समयविस्रम्भा- तिप्रसङ्गसाक्षिणः । श्रमाम्बुशिशिरीभवत्प्रसृतमन्दमन्दाकिनी- मरुत्तरलितालकाकुलललाटचन्द्रद्युति । अकुङ्कुमकलङ्कितोज्ज्वलकपोलमुत्प्रेक्ष्यते निराभरणसुन्दरश्रवणपाशमुग्धं मुखम् ॥ ३७ ॥ आसीदिति भाव ॥ ३५ ॥ त्वदर्थमिव निन्यस्त इति ॥ ३६ ॥ 'चतु- स्त्रोणा शिला शिलापट्ट' इति त्रिकाण्डी । 'धलोमण्डा' इति महाराष्ट्राः । यस्य शिलापट्टस्य । समन्तत इति भाव । 'य चायमभित' इति वा पाठः । 'केसरः काञ्चनद्रुम' इति धन्वन्तरि । 'शोन्दलहीरुङ्ग' इति महाराष्ट्राः । पुष्पैः प्रवृष्टः प्रकर्षेण वृष्ट । कृतपुष्पवर्ष इति यावत् । द्वितीयतृतीयपाद- योर्र्यामेति ध्वनि ॥ ३६ ॥ सेति-रहोगततया लज्जा । बालोक्तमिति स्मि- तम् । पत्या आत्मार्यतया वन स्नेहः । ईदृशमपि लडोऽङ्गे करुणा दन्त ऽङ्गतो रहोया सर्वत्रैवम्भूत्तम् ॥ हा देवीत्यादिकथन हृदयस्थिता सीता प्रदीति बोध्यम् । चाशब्द किमर्थ । तस्य यावत्सेति ध्वनि । विस्रम्भ. विश्वास । तेनातिप्रसङ्गः सुरतान्तादि भाव ॥ तदेवाह-धमाम्बुशिशिरीभ- वदिति ॥ ३७ ॥ धमजले शीतलभवन् । प्रसृतः व्याप्त । मन्दः सूसूनय । न मन्दाकिनीमारत । तेन तरलितैः । कम्पितै । अलकैः भूर्णकुन्तलै । आकुलं ढोढ तदेव चन्द्रः तस्य युतिः कान्ति यस्मिन् । ललाटस्य चन्द्र इति सादृश्यरूपे धीनाथ । कुङ्कुमेन कलङ्किनी लाञ्छितां न भवन इति अकुङ्कुमकलङ्कितो । उज्ज्वलौ सत प्रकाशमानौ कपोलो यस्मिन् । कुङ्कुम कुङ्कनादिप्रचुर रङ्गविशेष । 'पथे' इति द्राविडा । प्रवृवे रङ्गकुङ्कुमेति कथन वनवासार्हालेभ्यप्रयुक्तनित्यवगन्तव्यम् । एतेन कविना निवद्वाभित्वं सूचितम् । निर्गतो आभरणे य तौ सुन्दरयो श्रवणयोः पाशो ताडपने दलाव् । तादृश च तन्मुग्धं मनोहरम् । अनेन कृतावशुर इति बोध्यम् । मुखं वदनम् । उत्प्रेक्षितं ईदृगिद तारांपेति योजेना कृत्वा इतरथं । मयेति शेष । तथा च निरूपाधिक सातासौन्दर्यमिति भाव । १ 'आव्रत' न. २ 'अने नामाय मुग्ध' घ. ३ 'तस्य यत्समयवि- सम्भातिप्रसङ्गस्य' न. ४ 'सौन्दर' घ-च.
१४० उत्तररामचरितं [ ६-३९ ( स्तम्भित इव स्थित्वा । सकरुणम् ) अहो नु खलु भोः । चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः प्रवासेप्याश्वासं न खलु न करोति प्रियजनः । जगज्जीर्णारण्यं भवति च फलैग्रव्युपरमे तुषूलानां राशौ तदनु हृदयं पच्यत इव ॥ ३८ ॥ (नेपथ्ये ।) वसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः सहैवारुन्धत्या शिशुकलहमाकर्ण्य सभयाः । जराग्रस्तैरंगैरथ खलु विदूराथमतया चिरेणागच्छन्ति त्वरितमनसोऽपि प्रथमजडाः ॥३९॥ राम —कथं भगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चात्रैव । कष्टं कथं एतद्वयते द्रष्टव्या । (.सकरुणं विलोक्य । ) अहह तातजनकोपि दैवाद्येवा यात इति वज्रेणेव ताडितोऽस्मि मन्दभाग्यः । अकुङ्कुमेति निराभरणेति च ध्वनी । एवमादिषु घटेषु परमनधीतार्था (१) सुपीहिताथलमत्तयथोरवत्पलायन्तेतरामव्युत्पन्नजरद्द्वितिखण्डा , तदत्र व्यु- त्पन्नरसिका एव प्रमाणं इति दिक् ॥ ३७ ॥ सजात स्तम्भ जडीभाव यस्य स्तम्भित स्तब्ध कुण्ठित इत्येत्यर्थ ॥ चिरं ध्यात्वा ध्यात्वेति ॥ ३८ ॥ चिरं ध्यात्वा निर्माय । प्रवासेऽपि । पुरतः अग्रत । निहित इवेत्येकं पदम् । निषण्ण इव सम्भाव्यमान इति शेष । प्रियजन य कोऽपि । आश्वासं सान्त्वनम् । न खलु न करोत्येवेत्यन्वय । ध्यात्वा स्थित इव चेति क्वचि त्पाठ । फलग्रस्य प्रकृते सीतायामपि । उपरमे तु उपरतौ अदर्शने इति भाव । जगत् भुवनम् । ‘निस्सारे च क्षितीभूते जीर्णं शुष्के भयास्पदे’ इति मेदिनी । नेदमेकमेवावभासन, इतरदप्यस्तीत्याह-तदनु तस्मादरण्या वभासनात् । अनु पश्चात् । हृदयमिति मुख्यतयोक्तम् । अत एव, ‘शिवस्य हृदय विष्णोश्च हृदयं’ इति निर्देश । ‘तुषूल शङ्कुभि जीर्णे श्वभ्रे ना तु तुषानले’ इत्यमर । तेषा राशौ पुञ्जे । पच्यतं प्रकर्षण गलितमित्यु- त्प्रेक्षा ॥ ३८ ॥ वसिष्ठो वाल्मीकिरिति ॥ ३९ ॥ महिष्यः कौसल्या- दय । ध्वनिश्च । शिशू लवचन्द्रकेतू । गात्रैः अवयवै । अथ खल्वित्यसाधु । इहेति साधु पाठ । त्वरितमनसाभिर्गम्यत इति तेषामध्यव साय । तथाऽपि वार्धकदशया चिरेणागच्छन्तीति सहोऽर्थ ॥ ३९ ॥ पितृ सत्वादात् तातश्चाऽसौ जनक इति व्यपदेश । ताडित इति सीतापरित्यागा- १ 'विरल्य' घ-च; 'फलेग्रव्युपरमे' न. २ '०मनसो विरूथजटा,' म.
६-४२ ] उत्तररामचरितं १४१ सम्बन्धस्पृहणीयताप्रमुदितेर्जुष्टे वसिष्ठादिभि- र्दृष्ट्वापत्यविवाहमङ्गलमहे तत्तत्तातयोः सङ्गतम्। पश्यन्नीदृशमीदृशः पितृसखं वृत्ते महावैशसे दीर्ये किं न सहस्रधाहमथवा रामेण किं दुष्करम् ॥४०॥ ( नेपथ्ये । ) भो भो, कष्ट कष्टम् । अनुभावमात्रसन्निवेशितथियं सहसैव वीक्ष्य रघुनाथमीदृशम्। प्रथमप्रमूढजनकप्रबोधनाद् विधुराः प्रमोहमुपयान्ति मातरः ॥ ४१ ॥ रामः—हा तात हा मातर हा जनक जनकानां रघूणां च यत्परं गोत्रमङ्गलम् । तत्राप्येककरणे पापे वृथा वः करुणा मयि ॥ ४२ ॥ पराश्रादिनि भाव ॥ सम्बन्धस्पृहणीयतेति ॥ ४० ॥ स्पृहणीयता इच्छा । जुष्टे सेविते । अपत्यानां सीतादीनाम् । तत्तत्तातयोः तासां सीता- दीनां तातयो जनककुशध्वजयो । सङ्गतं समागमम् दृष्ट्वा । महावैशसे परित्यागरूपे अप्रिये । वृत्ते अतीते सति । ईदृश पश्यन्नहं न दीर्ये किं न दल्यामि । 'वैशसनप्रियम्' इति, 'वृत्तमतीते' इति त्रिकाण्डशेषनामनि- धाने । 'दलति दीर्यति' इति पाठरोधः । अत्र जीर्य ( दीर्ये २ ) इति क्वै प्रमाद् । 'न विदीर्ये कठिना खलु स्त्रिय' इति कुमारसंभवे ईश्वरकृष्ण- मिश्रेण दर्शनीय ॥ सन्देह न दीर्ये कुत पुनरिद सामर्थ्यमित्यत ग्राह— अथवेति ॥ किं दुष्कर किमपि दुष्करं नेत्यर्थ सर्वं सुकरमिति भाव ॥ ४० ॥ अनुभावमात्रेति ॥ ४१ ॥ अनुभावः प्रभाव । सुधी शोभा तद्र्वीवा । 'तस्य धीरनपायिनी' इति स्मरणात् । 'सीता लक्ष्मीर्भवान्विष्णु' इति रामायणे च । ईदृशं सीताविधुरम् । विधुराः दीना । प्रमोहं मूर्च्छातिशयम् ॥ ४१ ॥ जनकानां रघूणामिति ॥ ४२ ॥ तात निमि- शाधिप इत्यर्थ । यत् भूम्यपत्यमिति शेष । सीतेत्यथ । वृत्तस्तं अशेषम् । गोत्रयोः वशयोध्र मङ्गलम् । तत्रापि सीतायाम् । अकरुणे पापे मयि । १ 'मङ्गलवेशे' न. २ 'दृष्टे' क-घ-व ३ 'समुञ्चित' घ-व. ४ 'प्रथमप्रमूढजनकप्रबोधिता.' म. ५ 'तन्निष्करुणे' क-घ-व.
यात्रसम्भावयामि । ( इत्युत्तिष्ठति । ) कुशलवौ—इत इतस्तात । ( सकरुणावुलं परिक्रम्य निष्क्रान्ता सर्वे । ) इति कुमारप्रत्यभिज्ञानो नाम षष्ठोऽङ्कः । सप्तमोऽङ्कः । ( ततः प्रविशति लक्ष्मणः । ) लक्ष्मणः—भो भो अद्य खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौरजा- नपदाः प्रजाः सहास्माभिराहूय कृत्स्न एव सदेवासुरतिर्यङ्गुरगनायकनिकायः सचराचरो भूतग्रामः स्वप्रभावेण सन्निधापितः । आदिष्टश्चाहमार्येण— 'वत्स लक्ष्मण भगवता वाल्मीकिना स्वकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टु- घ' युष्माकम् । करुणा वृथा ॥ ४२ ॥ इति महाराजपद + उत्तररामचरित सञ्जीवनाख्यटिप्पणे षष्ठोऽङ्कः ॥ ॥ षष्ठोऽङ्कस्सम्पूर्णः ॥ अथ मुखसन्धिप्रभृतिउपक्षिप्तनाटकीययावद्वस्तुक्रोडीकरणरूपं निर्वहणसन्धिं प्रपञ्चयिष्यन् वाल्मीक्याश्रमपरित्यक्तजानकीसमुद्भूतार्थमन्तर्नाटकितारचना च नत्करिष्यन् प्राचेतसवचनानुवृत्तिस्थावरजङ्गमप्रायजगद्विनुतपरिशुद्धमैथिलीकु- शलवप्रमुखैः श्रीरामभद्रमानन्दयिष्यन् कविरङ्गारम्भवशात् पूर्वसूचनां विनैव समासनिवेशोपकरणाङ्गतल्लक्ष्मणप्रवेशं प्रक्रमते—तत इति ॥ षष्ठाङ्कपरिसमा- नानन्तरमित्यर्थः । भो इति मनः प्रति सम्बोधनम् । जानपदाः देशवासिनः । म्रियते मर्त्यः न म्रियते अमर्त्यः । मर्त्याश्चामर्त्याश्चेत्यर्थः *मर्त्यामर्त्यरूप इत्यर्थः । तिर्यञ्चः कामधेन्वादयः पशवः । उरगनायकः वासुकिः तस्य निकायः भुजगानां वर्गः तेषां सन्तानः परम्परा यस्मिन् । 'वर्गो निकाये' इति, 'पर- म्पराभिजनायोस्सन्तान' इति नन्दिहेमचन्द्रौ । चराचरैः जङ्गमस्थावरैः सहितः । भूतानां पृथिव्यादीनाम् । 'क्ष्मादारुते भूतं' इति, 'वृन्दे ग्राम'' इति चामरः । आतोद्यस्य स्थानं आस्पदम्, तत्तीरस्य प्रशस्तथी तलपावनत्वादिति स्व(त ३)दन्तरालस्य परित्यक्तसीताधिष्ठानत्वादिति च भावः । अत एव सीतादेवी प्राप्तप्रसववेदना आत्मानमतिदुःखवेगात् १ 'भोः किं तु खलु' ग. + प्रथमाङ्कटीकासमाप्तौ टीकाकृता पश्चात्तदृष्टं स्थितं तदत्राप्यनुसन्धेयम् २ '०तिर्यङ्निकाय.' न ३ 'जङ्गमः स्थावरश्च' क-घ-प्र.
७-१] उत्तररामचरितं १४३ नुपनिमंत्रिताः सः । तद्गङ्गातीरमाभोगोपस्थानमुपगम्य क्रियतां समाज- संनिवेशः' इति । कृतश्च मर्त्यामर्त्यस्य भूतग्रामस्य समुचितस्थानसंनिवेशो मया । अयं तु— राज्याश्रमनिवासेऽपि प्राप्तकष्टमुनिव्रतः । वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥ १ ॥ ( ततः प्रविशति रामः ।) रामः—वत्स लक्ष्मण अपि स्थिता रङ्गमौढिकाः । लक्ष्मणः—अथ किम् । रामः—इमौ पुनर्बालौ कुशलवौ कुमारचन्द्रकेतुश्चैमां प्रतिपत्तिं लम्भ- यितव्यौ । लक्ष्मणः—प्रभुस्नेहप्रत्ययात्तथैव कृतम् । इदं चास्तीर्णं राजासनम् । तदुपविशत्वार्यः । रामः—( उपविशति । ) लक्ष्मणः—प्रस्तूयतां भोः । गङ्गाप्रवाहे निक्षिप्तवती इति तृतीयाङ्कविष्कम्भे तमसोक्तम् । संनिलादुपेति इत्यग्रे लक्ष्मणवचना स्फुटीभविष्यति चेति दिक् ॥ 'हतं वीणादिकम्' इत्यादि, 'वादिनातोद्यनामकं' इत्यन्तदमरः । 'वाजन्त्री' इति महा- राष्ट्राः । समाजः सभा । गत्वेति पूर्वमनुवादः । संप्रति स्वतः कथनमिति न पुनरुक्तिः ॥ राज्याश्रमेति ॥ १ ॥ राज्यमेव आश्रमः सौख्याभा- वादिति भावः । कष्टं च तन्मुनिव्रतम् । वाल्मीकिना वाल्मीकौ च गौरवात् ॥ १ ॥ 'रङ्गो नाट्यस्थलं' इति, 'सामाजिकः प्रेक्षकः' इति च त्रिकाण्डशेषः । प्रतिपत्तिः मर्यादा । वात्सल्यमिति यावत् । लम्भ- यितव्यौ प्रापणीयौ । प्रभोः स्नेहेन । प्रत्ययात् विश्वासात् । कुशलवयोः भवति स्नेहेन अस्मदीयानपि तयोर्विश्वासः अस्तीति भावः । तथैव चन्द्र- केतुवत् । कृतं वात्सल्यमिति शेषः । राजासनमास्तीर्णमिति कवेरिव कस्य न व्याचतुरचातुर्यम् । 'नृपासनं पत्तद्रासनं सिंहासनं च तत्' इत्यमर- सिंहेनाभिहिततया सिंहासनस्त्यारणत्वासंभवात् ॥ न च वाच्यमास्तरणो- चितनभ्यदासनं भवत्विति । तर्हि समानायकल्य महाराजत्वे जगत्वते इति गद्या वक्ष्यमाणे वचसि वास्तरवापत्तेः । तस्माद्बतरमूलगुरुक्यादानामेव १ 'तद्गङ्गातीरतीरमनोपस्थानम्' घ. २ 'स्थानेषु समुपवेशसङ्गो मया' घ. ३ 'प्रेक्षकाः' क-घ-घ. ४ '०स्तृती स्थानप्रतिपत्तिम्' क-घ-घ.
सूत्रधार —(प्रविश्य।) भो भो भगवाम्भूतार्थवादी प्राचेतसः सस्थावरजङ्गमं जगदाज्ञापयति—यदिदमस्माभिरार्षेण चक्षुषा समुद्वीक्ष्य पावनं वचनोऽमृतं रसन्नाद्भुतरसं च किंचिदुपनिबद्धं तत्र कार्यगौरवादवधा- तव्यमिति । राम —एतदुक्तं भवति। साक्षात्कृतधर्माण ऋषयः । तेषाममृतम्भ- राणि भगवन्तः परोरजांसि प्रज्ञानानि न क्वचिद्व्याहन्यन्त इत्यनैमित्तिकोऽयं शान्तिरिति । (नेपथ्ये।) हा अज्जउत्त हा कुमार लक्खण एआइणिं असरणं रण्णे आसण्णप्पसववेअणं हदास सावदा म अहिलसन्ति । सा हं दाणिं मन्दभा- इणी भाहीरईए अत्ताणं णिक्खिविस्सम् । [हा आर्यपुत्र हा कुमार लक्ष्मण एकाकिनीमशरण्यामरण्य आसन्नप्रसववेदनां हताशा श्वापदा मामभिलषन्ति । साहमिदानीं मन्दभागिनी भागीरथ्यामात्मानं निक्षेप्स्यामि । धारणमिति दिक् ॥ भूतार्थवादी सत्यवस्तुवादी । 'भूतं त्रिषूचिते सत्ये इति, 'अर्थोऽर्थनाविषयशोधनकारणवस्तुषु' इति कपिल्लेडारौ । 'कथयामि ते भूतार्थम्' इति असत्याख्यातशाकुन्तले । प्रति उद्दिश्य आर्षेण ऋषे र्रिकेन । वचनान्येव अमृतानि यस्मिन् । करुणश्चाद्भुतश्चापि रसो यस्मिन् । किञ्चित् चरितमिति शेषः । कार्ये प्रयोजने । आर्षप्रसादे इति भावः । साक्षात्कृता धर्मा यैस्ते । साक्षात्कृतधर्माणः । 'न्यायाचार स्वभावेषु धर्मे पुण्ये जनस्थितौ' इति रत्नमाला ॥ 'श्ववृत्ति स्तेयमस्माभि स्ता विदितधर्मणाम् इति लोल्लटः । 'ऋषयस्सत्यवचसः' इत्यमरः । अमृतं बिभ्रति अमृतम्भराणि इति कवेः प्रमादः । तथापि 'वीणाऽस्तु सा या छमयी प्रिये ते शृणोषि वाक्यायाममृतम्भराणि ।' इति धीनाथः । परो रजांसीति—यानि रजसः पराणि तानीत्यर्थः । शुद्ध अरजस्कम् । परोरज इति वेदारः । 'प्रमादरहितं ज्ञानं प्रज्ञानम्' इत्यपरस्य । अनभिशङ्कनी यानि मान्त्रैयोचितानि इत्येतदुक्तं भवतीति पूर्वेणान्वयः ॥ अथ अत्र नाटकपात्रभूतायाः लक्ष्मणपरित्यक्तायाः सीतायाः प्रवेशसूचनमारभते— नेपथ्ये इति । हा आर्यपुत्र हा कुमार लक्ष्मण एकाकिनीमशरणामासन्नप्र सवामरण्य हताशा श्वापदा अभिलषन्ति । हा इदानीं मन्दभागिनी आत्मानं भागीरथ्यां निक्षिपामि । 'अरण्यक' इति कवेः प्रमादः । 'शेषोऽरण्ये' इत्य १ पन्नांसि क-घ-च-पुस्तकेषु २ ''धर्माणो महर्षयः' क-प-ञ ३ 'अमृतसाराणि क-घ-प ४ 'इति नामिशङ्कनीयानि' क, 'न शङ्कनी- यानि' ग, ५ 'हदासा' (हताशा ) टी
७-२ ] उत्तररामचरितं १४५ लक्ष्मणः-( आत्मगतम् । ) कष्टं बतान्यदेव किमपि । सूत्रधारः-विश्वंभरात्मजा देवी राज्ञा त्यक्ता महावने । प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति ॥ २ ॥ ( इति निष्क्रान्तः । ) प्रस्तावना । रामः-( सावेगम् । ) देवि देवि लक्ष्मणमवेक्षस्व । लक्ष्मणः-आर्य नाटकमिदम् । रामः-हा देवि दण्डकारण्यवासप्रियसखि एष ते रामोदैवदुर्विपाकः । लक्ष्मणः-आर्य दृश्यतां तावत्प्रबन्धार्थः । रामः-एष सज्जोऽस्मि वज्रमयः । ( ततः प्रविशत्युत्सङ्गितैकैकदारकाभ्यां पृथिवीगङ्गाभ्यामवलम्बिता सीता । ) रामः-वत्स लक्ष्मण असंविज्ञातमैन्निबन्धनमन्धतमसमिव प्रविशामि धारय माम् । देवी- समाश्वसिहि कल्याणि दिष्ट्या वैदेहि वर्धसे । अन्तर्जले प्रसूतासि रघुवंशधरौ सुतौ ॥ ३ ॥ सीता-( समाश्वस्य । ) दिट्ठिआ दारए पसूदम्हि । हा अज्जउत्त । दिष्ट्या दारकौ प्रसूतास्मि । हा आर्यपुत्र । नुशब्दात्तकारलोपेन रणे इति कण्ठस्य सामीप्यात् । अत एव 'रान' इति महाराष्ट्राः । 'आपदा द्विसञ्जतन्' इति सुरायवर्तः । कष्टमिति- यन्निर्वोढुं शक्यं तदन्यदेव स्यादिति भावः । विश्वम्भरात्मजेति ॥ २ ॥ विश्वम्भरायाः भूमेः ॥ २ ॥ प्रस्तावना ॥ सावेगं सभयसंभ्रमम् । लक्ष्मणमवेक्षस्वेति-अहमपराधीति भावः । नाटकमिदमिति-पश्यतः अननिवारणायेति बोध्यम् । उत्सङ्गितः उत्सङ्गे कृतः एकैकदारको याभ्यामित्यर्थः । अत्र कुशलवौ गङ्गापृथिव्यौ सीता एतावत्पात्रसम्बन्धी- दृश्यम् । कुत्र अर्थं विना तत्सम्बन्धिनयनदृग्गोचरतादिकं निपुणमतिभिरव- गन्तव्यम् ॥ एइन्निबन्धनं ज्ञानसम्बन्ध ॥ समाश्वसिहि कल्याणीति १ 'धृतं' क-घ; 'लक्ष्मण अपेक्षस्व' प. २ 'रामाद्दिपाक.' ग. ३ 'अ- संविज्ञातपदनिबन्धनं तमसीवात्मानं प्रविशामि' ग. ४ 'अन्तर्गर्भम्' घ-प. १३ उ०
१४६ उत्तररामचरितं [ ७-३ लक्ष्मणः-( पादयोर्निपत्य ।) आर्य आर्य दिष्ट्या वर्धामहे । कल्याण- प्ररोहो रघुवंशः । (विलोक्य ।) हा हा कथं क्षुभितबाष्पोत्पीडनिर्भरः प्रमुग्ध एवार्यः । (वीजयति ।) पृथिवी-वत्से समाश्वसिहि । सीता-( समाश्वस्य ।) भअवदीओ का तुम्हे । मं मुञ्चह । भगवत्यौ के युवाम् । मा मुञ्चतम् । पृथिवी-इयं ते श्वशुरकुलदेवता भागीरथी । सीता-भअवदि णमो दे । भगवति नमस्ते । भागीरथी-चारित्रोचितां कल्याणसम्पदमधिगच्छ । लक्ष्मणः-अनुगृहीताः स्मः । भागीरथी-इयं तु जननी ते विश्वम्भरा । सीता-हा अम्म ईदिसी अहं तुए दिट्ठा। हा अम्ब ईदृश्यहं त्वया दृष्टा । पृथिवी-एहि वत्से एहि पुत्रि । ( उभौ आलिङ्ग्य मूर्च्छतः ।) लक्ष्मणः-( सहर्षम् ) दिष्ट्या गङ्गापृथिवीभ्यामभ्युपपन्नायां । रामः-( अवलोक्य ।) दिष्ट्या घटतेऽत्यन्तकरुणोत्तरं वर्तते । भागीरथी-अत्रभगवती विश्वम्भरापि नाम व्यधत इति जितमपत्न- ॥ ३ ॥ दिष्ट्या इदानीं प्रसूताम्भि(त्रि ?) कल्याणी शुभौ प्ररोहौ अङ्कुरौ सुतरूपौ यस्मिन् । क्षुभितानां जर्जराणां । बाष्पाणां उत्पीडः प्रादु- र्भाव निर्भरः निरतिशय यस्मिन् । प्रकर्षेण मुग्धः मूढ । भगवत्यौ के युवां मा मुञ्चतम् । भगवत्यौ इति संबोधनम् । भागीरथीत्वापादक हेतु- गर्भं नाम । भगवति नमस्ते ॥ हा अम्ब ईदृशी त्वयाऽहं दृष्टा ॥ मूर्च्छतः मुद्यतः । प्रेमावेशेनेति भाव ॥ आर्या सीता । अभ्युपपन्ना अनुगृ- हीता ॥ दिष्ट्या दैवात् । एतत् अभ्युपपादन अनुग्रह इति यावत् । करुणो रस उत्तरः अधिक यस्मिन् । इद एतदित्यस्य विशेषविशेषणं बोध्यम् ॥ अत्र सीताविषये । तथा न । एषा विश्वम्भरा । अथ्वा गीतेव १ 'भअवदि का तुम इमं अ' ( का त्वम्, इमं प) क-घ-प. २ 'चारि- त्रोचिताम्' घ-प. ३ 'करणतर एतेनेदं वर्तते' क-ग-प; 'परमात्तरम्' न.
७-५ ] उत्तररामचरितं १४७ स्नेहेन । यद्वा सर्वसाधारणो ह्येष मानसो मोहग्रन्थिश्चेतनावतामुपप्लवः संसारतन्तुः । देवि भूतधात्रि वत्से वैदेहि समाश्वसिहि समाश्वसिहि । पृथिवी-देवि सीतां प्रसूय कथमश्वसिमि । सोढश्चिरं राक्षसमध्यवास- स्त्यागो द्वितीयो हि सुदुःसहोस्याः । भागी०-को नाम पाकाभिमुखस्य जन्तो- द्वाराणि दैवस्य विधातुमीष्टे ॥ ४ ॥ पृथिवी-भगवति भागीरथि युक्तमेतत्सर्वं न वो रामभद्रस्य । न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः । नाहं न जनको नाग्निर्नारानुवृत्तिर्न सन्ततिः ॥ ५ ॥ सीता-हा अज्जउत्त सुमराविदोम्हि । हा आर्यपुत्रं स्मारितास्मि । कल्पशतानि वा तदपि व्यथते । अत एव (अफल ?) स्नेहेन जितमिति भावः ॥ मानसः मनस्सम्बन्धी । मोहग्रन्थिः ममतापाशः । 'ममता- गृह्योर्मोहः' इति, 'ग्रन्थिर्नो पर्वपाशयो' इति वामनयादवौ । चेतना- वतां प्राणिनाम् । 'उपप्लव उपद्रवे' इति ध्वनिमञ्जरी । गूढैतान्तर इति च दिशरी प्रसिद्धा । भूतधात्रि इति भूवाचक सद्योपनम् ॥ सोढश्चि- रमिति ॥ ४ ॥ सोढः क्षान्तः । लङ्कायामिति भावः । हि प्रसिद्वौ । अहिस्तर्पं इव सुदुस्सह इति एकपद च । पाको सुरादु सपरिणामंः तामुद्दिश्य अभिमुखस्य । 'पोते च परिणामे च पाक' इति नानार्थमञ्जरी । जन्तोर्विषये । 'तस्य वा तस्य विषये' इति समवयदिति । दैवस्य सुरा- दुरात्रापरविधेः । द्वाराणि प्रवेशमार्गान् । विधातुं आच्छादयितुम् । ईष्टे समर्थो भवति । तथा च-'अवश्यमनुगोक्तव्यं कृतं कर्म शुभाशुभम् ॥' इति भावः । 'प्रवेशमार्गे च द्वारि छिद्रे च' इति धनञ्जयः ॥ ४ ॥ न वो रामभद्रस्येति भिन्नं वाक्यम् । यः युष्माकम् । रामभद्रस्य नेति युक्तमित्यनुषङ्गः । 'सीताऽर्धमभवान्बिष्णु' इति स्मारितयादिति भावः । तदेवाह-न प्रमाणीकृत इति ॥ ५ ॥ अनुवृत्तिः अनुवर्तनम् । सन्ततिः रघुणां वंशः । प्रमाणीकृत इति पदं सर्वत्र यथोचितमूह्यम् १ 'मनसो मूढग्रन्थिरानन्द.' न, 'जननो मोहग्रन्थिरनश्वर.' क-च, 'गृह्य- स्थिरनश्वर.' घ. २ 'अनुभूत.' क-घ-च. ३ 'स्वरचिरम्' घ. ४ 'द्वितीयस्तु' न; 'द्वितीयश्च' क-घ-च. ५ 'जन्तुः' न-व. ६ 'सदृशमुक्तम् । युक्तमेतन्न रामभद्रस्य' क-घ-च; 'सर्वं वो रामभद्रस्य' न. ७ 'न तु वृत्ति' न.
१४८ उत्तररामचरितं [७-६ पृथिवी—आः क्खवार्यपुत्र । सीता—(सलज्जास्रम्।) जहा वा अम्बा भणादि । यथा वाऽम्बा भणति । रामः—अम्ब पृथिवि, ईदृशोऽस्मि । भागी०—भगवति वसुन्धरे शरीरमसि संसारस्य । तत्किमसंविदानेव जामात्रे कुप्यसि । घोर लोके विततमयशो या च वह्नौ विशुद्धि- र्लङ्काद्वीपे कथमिव जनस्तामिह श्रद्दधातु । इक्ष्वाकूणां कुलधनमिदं यत्समाराधनीयः कृत्स्नो लोकस्तदिति विषमे किं स वत्सः करोतु ॥ ६ ॥ लक्ष्मणः—अव्याहतान्त प्रकाशा हि देवताः सर्व्वेषु । भागी०—तथाप्येष तेऽञ्जलिः । राम.—अम्ब अनुवृत्तरुदया भगीरथकुले प्रसीद । पृथिवी—देवि नित्यं प्रसन्नास्मि यः किं त्वापातदु सहस्नेहसंवेगेनैवं ब्रवीमि । न पुनर्न जानामि सीतास्नेहं रामभद्रस्य । ॥ ५ ॥ हा आर्यपुत्र स्मर्यसे । आः कोपे । यथाऽम्बा भणति । 'अम्बा माता गुरुवधू श्वश्रूज्येष्ठप्रजापती' इति रत्नमाला । शरीरमसि शरीरमिव रक्ष्यं प्रार्थनीयासीत्यर्थः । सर्वाधारत्वादिति भावः ॥ घोरं लोके विततमिति ॥ ६ ॥ विततं विस्तृतम् । श्रद्दधातु दृढप्रत्ययादिति भावः । समाराध- नीय इति यत् इदं इक्ष्वाकूणां कुलधनमित्यर्थः । तद्वदावश्यकमिति भावः । एतेन- 'लज्जा ( रुजा ? ) कुलधनं राजा लङ्का प्रायाद्विभीषण ।' इत्यत्र यत् कैरपि यथेच्छं व्याहृतम्, तत्परास्तम् । तत् तस्मात् । इति पूर्वोक्तप्रकारेण । विषमे सङ्कटे ॥ ६ ॥ सर्व्वेषु विषयेषु । अथ गङ्गा भूमिं प्रत्याह-तथापीति । ते तुभ्यम् । अञ्जलिः मया दियत इति शेष । अनुवृत्त अनुगल रुत इत्यर्थः । तत्तादृशस्य अद्भूमिति सम्प्रदायार्थः । अत एव अनावागतोऽस्मीति विक्रमचरिते डिण्डिमः । आपाते श्राकर्णनक्षण एव दुस्सहं कौलीनं यस्मात्तादृशी चासौ मुग्धा तस्या स्नेहस्य आवेगः शागमन्नावैग आवेगतस्तेनेत्यर्थ । 'दर्शनक्षण आपातमथवाकर्णनक्षण' । १ 'तदिह' न-क, 'तमपि विषमे' घ, 'तदतिगहनम्' य. २ 'भूतेषु विशेषेण गङ्गा' घ-य. ३ एतल्लक्ष्मणवाक्य घ-यं-पुस्तक्रयो . ४ 'दु मह शोकावेगोत्प- त्तस्य न पुनर्न' य; 'किं स्वभावापातु सह स्नेहसंवेग 'न.
७-८ ] उत्तररामचरितं १४९ दह्यमानेन मनसा दैवाद्वत्सां विहाय सः । लोकोत्तरेण सत्त्वेन प्रजापुण्यैश्च जीवति ॥ ७ ॥ रामः—सकरुणा हि गुरवो गर्भरूपेषु । सीता—( सदधी कृताञ्जलिः । ) णेटु मं भत्तगो अङ्गेसु विळअं अग्या । नयतु मामात्मनोऽङ्गेषु विलयमम्बा । रामः—किमप्यब्रवीत् । भागी०—शान्तम् । अविलीना संवत्सरसहस्राणि भूयाः । पृथिवी—वत्से भवेश्वर्यौ ते पुत्रकौ । सीता—अणाधम्हि । किं एदेहि । अनाथास्मि । किमेताभ्याम् । रामः—हृदय वज्रमसि । भागी०—कथं त्वं सनाथाप्यनाथा । सीता—कीरिसं मे अभग्गाए सणाहत्तणम् । कीदृशं मे अभाग्याया सनाथत्वम् । देव्यौ—जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे । आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृष्यते ॥ ८ ॥ लक्ष्मणः—आर्य श्रूयताम् । रामः—प्रयोक्तु लोकः । ( नेपथ्ये कलकलः । ) रामः—अद्भुततर किमपि । सीता—किन्ति आदळूकलकल अन्तरिक्खं पवत्तदि । किमिलद्धकल- कलमन्तरिक्षं प्रवर्त्तते । इति, 'दुर्ललितं लोके च' इति केदाराह्वनौ । अत एव 'अदत्तान्नधुरम्' इति शार्ङ्गरवः । सीताया स्नेहम् । 'धैर्य्यं सत्त्व' इति जयः ॥ दह्यमानेन मनसेति ॥ ७ ॥ प्रजानां पुण्यै ॥ ७ ॥ गर्भाणिव रूपं जास्येति येषां तेम्भाविति शेषः ॥ नयतु मामात्मनोऽङ्गेषु विलयमम्बा । 'जन्मर्धाने च विलय' इत्यमरः । अविलीना अनष्टा । किमेताभ्यामनाथभ्याम् । वज्रमिति- एवमप्येतत्प्रवदसीति भावः । कीदृशं मे अभाग्याया सना- थत्वम् । नाथनातपतित्वानिदेवैश्वार्येख्याहि' इति मन्त्री ॥ जगन्मङ्गलमिति ॥ ८ ॥ यत् यस्मात् आवयोः । सङ्गात् सम्भवे । प्रकृष्यते अधि- १ 'पैवेन' घ. २ 'वज्रमहम्' क-घ-य. ३ 'कथं वन्ध्यो सनाथाप्यनाथा' न. ४ एदाम्हि क-घ-य-पुस्तकेषु.
१५० उत्तररामचरितं [ ७-१२ देव्यौ—ज्ञातम् । कृशाश्वः कौशिको राम इति येषां गुरुकमः । प्रादुर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः ॥ ९ ॥ ( नेपथ्ये । ) देवि सीते नमस्तेऽस्तु गतिर्नः पुत्रकौ हि ते । आलेख्यदर्शनादेव ययोर्दाता रघूद्वहः ॥ १० ॥ सीता—दिट्ठिआ अत्थदेवदाओ एदाओ । हा अज्जउत्त अञ्जावि दे पसादा पडिफुरन्ति । [ दिष्ट्या अस्त्रदेवता एताः । हा आर्यपुत्र अद्यापि ते प्रसादा प्रतिस्फुरन्ति । ] लक्ष्मणः—उक्तमासीदार्येण ममैवैदानीं स्वप्रसूतिमुपस्थास्यन्तीति । देव्यौ—नमो वः परमास्त्रेभ्यो धन्याः स्मो वः परिग्रहात् । काले ध्यातैरुपस्थेयं वत्सयोर्भद्रमस्तु वः ॥ ११ ॥ राम —क्षुभिताः कामपि दशां कुर्वन्ति मम सांप्रतम् । विस्मयानन्दसन्दर्मजर्जराः करुणोर्मयः ॥ १२ ॥ देव्यौ—मोदस्व वत्से मोदस्व । रामभद्रतुल्यौ ते पुत्रकाविदानीं संवृत्तौ ॥ सीता—भअवदीओ को एदाणं खत्तिओइदविहिं कारइस्सिदि । भगवत्यौ क एतयो क्षत्रियोचितविधिं कारयिष्यति । दीयिते ॥ ८ ॥ श्रूयतामिति—चतुर्थचरणमिति भावः । लोक इति गम्भीरोपवाद् गतादिति भावः ॥ तिमिरोपपद्दकत्ववलं ज्वलतीवान्तरिक्षम् ॥ कृशाश्वः कौशिकः इति ॥ ९ ॥ क्रमः परम्परा । 'शस्त्रमस्त्र'मित्यमरे । जृम्भकैः अस्त्रविशेषैः ॥ ९ ॥ देवि सीते इति ॥ १० ॥ ते तव चित्रे आलेख्यम् । चित्रम् । ययोः पुत्रकयोः । 'कस्य ददानि' ( इति १ ) धाण- क.वि० । याभ्यामिति पाठ ॥ १० ॥ दिष्ट्या अस्त्रदेवता । हा आर्यपुत्र अद्यापि ते प्रसादा प्रस्फुरन्ति ॥ नमो व इति ॥ ११ ॥ वः युष्माकम् । परिग्रहात् आदानात् । पश्चाद्गमेन पारवश्यमाह—क्षुभिता कामपीति ॥ १२ ॥ क्षुभिताः क्षोभं प्राप्ताः । सन्दर्मेण सम्बन्धविशेषेण संपट्टे- नेति यावत् । जर्जराः शक्लीभूता । करुणोर्मयः दयातरङ्गा ॥ १२ ॥ भगवति क इदानीमेताभ्यां क्षत्रियोचितं विधिं विद्या च कारयिष्यसि । विधिं १ 'दर्शने देवो यदाह रघुनन्दनः' क-घ. २ एतद्रामवाक्यं घ-पुस्तके. ३ 'खत्तिओचिद् कम्मं करिस्सदि' ( क्षत्रियोचितं कर्म करिष्यति ) क-घ-घ.
७-१५] उत्तररामचरितं १५१ रामः—एषा वसिष्ठगुप्तानां रघूणां वंशनन्दिनी। कथं सीतापि सुतयोः संस्कर्तारं न विन्दति ॥ १३ ॥ भागी०—पुत्रि किं तवानया चिन्तया। एतौ हि वत्सौ स्तन्यत्यागात्प- रेण भगवतो वाल्मीकेर्पयिष्यामि। स एतयोः क्षत्रकृत्यं करिष्यति। यथा वसिष्ठाङ्गिरसावृषीः प्राचेतसस्तथा। जनकानां रघूणां च वंशयोरुभयोर्गुरुः ॥ १४ ॥ रामः—सुविचिन्तितं भगवत्या। लक्ष्मणः—आर्य सत्यं विज्ञापयामि तैस्तैरुपायैरमी वत्सौ कुशलवा- वुत्प्रेक्षे। एतौ हि जन्मसिद्धास्त्रौ प्राप्तप्राचेतसावुभौ। आर्यतुल्याकृती वीरौ वयसा द्वादशाब्दिकौ ॥ १५ ॥ रामः—वत्सोविलेवाहं परिप्लवमानहृदयः प्रमुग्धोऽस्मि। पृथिवी—एहि वत्से पवित्रीकुरु रसातलम्। विधानम् ॥ एषा वसिष्ठेति ॥ १३ ॥ 'मन्वन्वाह्वाष्टदाचार्य' इत्यमरः । आत्मसुतयो कुशलवयोः । संस्कार जातकर्मादिकम् । ध्वनिध ॥ १३ ॥ वयमा उपलक्षिताविति शेषः । करे पाणी । 'ऋष्यङ्गे चाङ्गिरसो मुनिभेदे बृहस्पतौ' इति वैजयन्ती ॥ १४ ॥ शोभनं च तत् चिन्तितम् । 'उपाय- थिङ्गसामादिचेष्टितेक्षितयुक्तिषु' इति समासः । कुशलवौ वदित्येवार्थः ॥ अथ सप्तमाङ्कारम्भे लक्ष्मणामन्तर प्रविष्टेन रामेण, 'इमौ पुनर्येसौ कुशलवौ कुमारचन्द्रकेतुमया प्रतिपत्ति रन्भवितव्या' इति आङ्क्षिपतो रूपक्योऽवे ...(२) पन्चतत्कालदृष्टकुलचयो रूपसौन्दर्यादिना । साम्प्रतमन्तर्नाटके स्तन्य- वत्यादिहेतुक्माशेङ्कमानः संविधानागादित्य भ्रमेण राममेवावुदुदे--एतौ हीति ॥ १५ ॥ घन विशेषणवत्तं मुधियामपि प्रमाणाधीति नन्दनम् ॥ १५ ॥ अय गाहिन्दक्स (१) रूपनेन तदिदं नाटकं परिणील्यते— रजनाय सविधानरहस्यपरिपोड इतो अभिवेदकथने सम्भावितगात्रम प्रकटीकृतो भवेत् । ततः रामधनत्कुनेनाह-अवीति । परिप्लवमानहृदयः तरङ्गान्तराः । संप्रमुग्ध इति-संप्री व्यो॑पसर्गौ । अतिगान्ने मूढ इत्यर्थः । १ 'रिप्यापाम्' भ. २ 'वर्षिनी' घ-च. ३ अस्य वाक्यस्य स्थाने 'इतिऽ -ध्व यात्वावौ रघुवंशस्य संप्रति । स एव चानयोर्ब्रह्मपुत्रकृत्यं करिष्यति ॥' इति शेको न-पुस्तके. ५ 'भरत रूपेराहं' क-घ-च.
१५२ उत्तररामचरितं [ ७-१५ रामः—हा प्रिये लोकान्तरं गतासि ! सीता—णेदु मं अत्तणो अङ्गेसु णिलअं अम्मा। ण सहिस्सं ईरिसं जीवलोअपरिभवं अणुभविदुं । नयतु मामात्मनोऽङ्गेषु विलयमम्बा । न सहिष्ये ईदृशं जीवलोकपरिभवमनुभवितुम् । रामः—किमुत्तरं स्यात् । पृथिवी—मन्नियोगात् स्तन्यत्यागं यावत्पुत्रयोरपेक्षस्व । परेण तु यथा रोचिष्यते तथा करिष्यामि । भागी०—एवं तावत् । ( इति निष्क्रान्ते देव्यौ सीता च ।) रामः—कथं विलय एव वैदेह्याः सम्पन्नः । हा देवि दण्डकारण्यवास- प्रियसखि हा चारित्रदेवते लोकान्तरं पर्यवसितासि । ( मूर्च्छति ) लक्ष्मण —भगवन्वाल्मीके परित्रायस्व परित्रायस्व । एष ते काव्यार्थः । ( नेपथ्ये ।) अपनीयतामातोद्यम् । भो भो सतङ्गमस्थावराः प्राण- भृतो मर्त्यामर्त्याः, पश्यतेदानीं महर्षिणा भगवता वाल्मीकिनाऽभ्यनुज्ञातं पवित्रमाश्चर्यम् । तथा च न रसानल्लग्नेत्यादिरमतीतं चरितं गर्भनाट्यव्याजेन दर्शितम् ॥ एतो हीति पद्यस्यविद्येदपृथक प्रपञ्चितम् । वाल्मीकिसमाध्यवन्दवेकुतमरार- भटीरामभद्रसलापगुणादिविशिष्टं कुशलवयोः कौमारप्रवर्रणं तदिदं नाटय- गर्भनाट्यात्मना द्विकोटीरं रुचिरमदृष्टं सविधानरहस्यनारिवेदममुलमनिति- तलस्फोतिनयानहम् । शिष्यशिथुरनसूयाप्रगुणगुणमणिप्रहव्यालुभिरनुप्राथ इति दिक् ॥ लोकान्तरं ध्वनि ॥ नयत्वात्मनोङ्गेषु विलयमम्बा न सहिष्ये रात्रिन्दिव जीवलोकपरिभवमनुभवितुम् । जीवयुक्तेलोकेषु भुवनेषु । 'जीव- स्तुशस्त्रे' इति धणिउ । परिभवं तिरस्कारम् । नियोगातः शासनात् । परेण वयसेति शेष । प्रतिपद ज्ञातमेव अन्तर्नाटकमिति शेषः । 'तावच्च साकलेऽर्था भागेऽवधारणे' इत्यमरः । चरित्रेण देवतेत्यर्थः । न मानुषीति भावः । एष ते काव्यार्थः निष्टेरिति भारः । एतावत्पर्यन्तं गर्भनाटकमिति सूक्ष्मदृग्भिर्बोध्यम् ॥ प्रकृतमनुसरति-नेपथ्ये इति ॥ आ- तोद्यं चतुर्विधवाद्यम् । प्राणभृत इति-अनन्यगता सतसाङ्गप्रारम्भप्रयमप्र- १ 'परिवृत्त' ( परिवतं ) क-घ-प. २ 'कथं प्रविपन्न एव तावत् । हा चारि- त्रदेवते लोकान्तरे पर्यवसितासि' न. ३ 'एष किं ते काव्यार्थे ' घ.
७-१८] उत्तररामचरितं १५३ लक्ष्मणः-( विलोक्य ।) मन्थादिव क्षुभ्यति गाङ्गमम्भो व्याप्तं च देवर्षिभिरन्तरिक्षम् । आश्चर्यमार्या सह देवताभ्यां गङ्गामहीभ्यां सलिलादुदेति ॥ १६ ॥ पुनरपथ्ये । अरुन्धति जगद्वन्द्ये गङ्गापृथ्व्यौ जुषस्व नौ । अर्पितेयं तवाङ्केऽभ्यां सीता पुण्यव्रता वधूः ॥ १७ ॥ लक्ष्मणः-अहो आश्चर्यमाश्चर्यम् । आर्य पश्य पश्य । ( विलोक्य ) इष्टमद्यापि नोच्छ्वसितार्यम् । ( ततः प्रविशत्यरुन्धती सीता च ।) अरुन्धती-त्वरस्व वत्से वैदेहि मुञ्च शालीनशीलताम् । एहि जीवय मे वत्सं सौम्यस्पर्शेन पाणिना ॥ १८ ॥ सीता-( ससम्भ्रमं स्पृशन्ती ) समस्ससदु समस्ससदु अज्जउत्तो । समश्वसितु समाश्वसित्त्वार्यपुत्र । रामः-( समाश्वस्य सानन्दम् ) भो किमेतत् । ( दृष्ट्वा सहर्षाद्भुतम् ।) कथं देवी । ( ससम्भ्रमम् । ) अये भगवा मे अरुन्धती सर्वे च महर्षयस्त ऋष्यशृङ्गशान्तादयोऽस्मद्गुरवः । अरुन्धती-वत्स एषा भगवती भगीरथगृहदेवता सुप्रसन्ना गङ्गा । तथाऽये । जगत्पते रामचन्द्र स्मर्यतामालेख्यदर्शने मा प्रत्यात्मनो वचनं यथा सा त्वमम्ब कृपायामरण्यनीव सीतायाः शिवातुष्याना भवेति तत्र' नृणाक्षि जाता । विष्टदृशनप्टृत्वानुवादर्तेन च प्राप्तभृच्छन्द निर्यगुरवादिपाचर इति विव क्षिः । प्राप्ता शब्दः प्राप्तपक्षिणां । 'शक्ति प्रने' इल्यमरः । पदय- न्त्विति-भवन्तु इति शेषः ॥ मन्थादिव क्षुभ्यतीति ॥ १६ ॥ मन्थो मन्थनम् । आर्या सीता ॥ १६ ॥ अरुन्धतीति ॥ १७ ॥ गङ्गापृ थिव्यौ नो च द्वितीयाद्विवचनम् । उदिर्खेति शेषः । जुषस्व प्रिनस्व । तव हस्ते इति शेषः ॥ १७ ॥ स्वरस्व वत्से इति ॥ १८ ॥ शालीनं अदृष्टम् । शीलं स्वभावः यस्याः । 'अदृष्टे तु शालीनः' इत्यमरः । सौम्य सुन्दरः स्पर्शो यस्य । यमेति ध्वनिः ॥ १८ ॥ समाश्वसितु आर्यपुत्रः । गङ्ग ग्राह जगत्पते इति । सा प्रसिद्धा त्वं अरुन्धतीव कृपायाः सीताया, शिव अनुष्ठान अनुसरणपूर्वकं स (१) वात्सलामिनि दावद् । ध्यान चिन्तन यस्य ॥ १ 'उपेते' ग २ 'भजस्व' न. ३ 'तवाभ्यान्थे' दृ. ४ 'प्रिन' क-घ-व.
१५४ उत्तररामचरितं [७-१९ अरुन्धती—इयं ते श्वश्रूर्भगवती वसुन्धरा । पुनर्नेपथ्ये । उक्तमासीदायुष्मता वत्सायाः परित्यागे यथा भगवति वसु- न्धरे श्लाघ्यां दुहितरमवेक्षस्व जानकीमिति । तदधुना कृतवचनासि प्रमो- दस्वस्वेति । रामः—केष कृतमहापराधो भगवतीभ्यामनुकम्पितः । प्रणमामि यः । अरुन्धती—भो भो पौरजानपदाः, इयमधुना भगवतीभ्यां वसुन्ध- राजाह्नवीभ्यामेव प्रशस्यमाना ममारन्धत्याः समर्पिता पूर्वं च भगवता वैश्वानरेण निर्णीतपुण्यचारित्रा समहाकैश्च देवैः संस्तुता सावित्रकुलवधूद्देव- यजनसम्भवा सीतादेवी परिगृह्यतामिति कथमिव भवन्तो मन्यन्ते । लक्ष्मणः—आर्ये एवमार्ययारन्धत्या निर्भर्त्सिता पौरजानपदाः दृष्ट्वाश्च भूतग्राम आर्यां नमस्कुर्वन्ति । लोकपालाः सप्तर्षयश्च पुष्पवृष्टिभिरभिन- न्दन्ते । अरुन्धती—जगत्पते रामचन्द्र नियोजय यथाधर्मं प्रियां त्वं धर्मचारिणीम् । हिरण्मय्याः प्रतिकृतेः पुण्यंप्रकृतिमध्वरे ॥ १९ ॥ सीता—( स्वगतम् । ) जानादि भञ्जउत्तो सीदाए दुक्खं पडिमजिदुम्। जानात्यार्यपुत्रः सीताया दुःखं परिमाष्टुम् । रामः—यथा भगवत्यादिशति । लक्ष्मणः—कृतार्थोऽस्मि । सीता—पच्चुज्जीविदम्हि । प्रत्युज्जीवितास्मि । वसुन्धरा प्राह-उक्तमिति वत्सायां सीताया विषये । प्रभोः तव । कृतं वचनं यया सा ॥ इत्थ रामेण गङ्गावसुन्धरे प्रथमाङ्के सत्रार्थिते । तदेतद् द्वय तीर्थदर्शिभिरवगन्तव्यम् । अरुन्धत्येने-स्वेन स्वनामग्रहणं माहात्म्यद्यो तकम् । अत एव-'स्थितमिव नगरे राक्षसानी सहस्त्रम्' इति मुद्राराक्षसीये 'दुर्योधनस्सरान्द्रयहिएँ' इतिवेणीसंहारे च। वैश्वानरेण अग्निना। लोक- पालाः इन्द्राद्या ॥ नियोजय यथेति ॥ १९॥ धर्ममनतिक्रम्य यथाधर्मम्। प्रतिकृतेः प्रतिमायाः । पुण्या 'यासां प्रकृतिः तां प्रधानमित्यर्थः । 'प्रधान प्रकृति स्त्रियाम्' इतरमर । 'प्रकृतिं पुरुषं चैव विद्धयनादी उभां' इति स्मरणात् ॥ १९॥ जानाति आर्यपुत्र सीतादु खं प्रमाटुंम् । प्रत्युज्जीवि- १ 'कृतापराधोऽयं भगवति स्वपानुबन्धिभ्यो रामः प्रणमति' न. २ 'पुण्दा- प्रकृतिम्' क-न.
७-१९] उत्तररामचरितं १५५ लक्ष्मणः—आर्ये एष निर्लज्जो लक्ष्मणः प्रणमति । सीता—वच्छेसरीसो तुमं चिरं जीअ । वत्सस्नेनस्वं चिरं जीव । अरुन्धती—भगवन्वाल्मीके उपनीयतामिमौ सीतागर्भसम्भवौ राम- भद्रस्य पुत्रकौ कुशलवौ । ( इति निष्क्रान्ता । ) रामलक्ष्मणौ—दिष्ट्या तथैवैतत् । सीता—( सवाष्पाकुला ) कहिं से पुत्तआ मे । कुत्र तौ पुत्रकौ मम । ( ततः प्रविशति वाल्मीकिः कुशलवौ च । ) वाल्मीकिः—वत्सौ कुशलवौ एष वां रघुपतिः पिता । एष लक्ष्मणः कनिष्ठतात । एषा सीता जननी । एष राजर्षिर्जनको मातामहः । सीता—( सहर्षकरुणाद्भुतं विलोक्य । ) कहं तादो । कथं तातः । कुशलवौ—हा तात हा अम्ब हा मातामह । रामलक्ष्मणौ—( सहर्षमालिङ्ग्य । ) ननु वत्सौ पुण्यैः प्राप्तौ स्थः । सीता—एहि जाइ कुस एहि जाइ लव चिरस्स परिस्सज्ज मं लोअ- न्तरंगदं जगणिं । एहि जात कुश एहि जात लव चिरस्य परिष्वजेथां मां लोकान्तरगतां जननीम् । कुशलवौ—( तथा कृत्वा ) धन्यौ स्वः । सीता—भगवं एसा हं पणमामि । भगवन्, एषाहं प्रणमामि । वाल्मीकिः—वत्से ईदृशयेव चिरं भूयाः । तान्ति । वत्ससदृशो मे चिरं जीव । वत्सयोः कुशलवयोः सदृशः समानः । 'ज्येष्ठभ्राता पितृसमः' इति स्मृतेः । सदृशो मे इति ध्वनिः । रामभद्रस्य सीतागर्भे संभूतौ कुशलवौ उपनय समीपमानय, नीञ् प्रापणे । व्यतिष । तथैव तत् उपनयेति.... । पुत्रकौ वत्सौ सनोपनम् । वां युवयोः । आकृतं चाभिप्रायं । कथं तातः । 'हर्षविषादाद्भुतेषु हा' इति रुदिरः । एहि जात कुश एहि जात लव चिरस्य परिष्वजस्व मां लोकान्तरगतां जननीम् । भगवन् । प्रणमामि । इत्थंमति-पतिपुत्रसमेतेति यावत् । रावण- विनाशहेतुखेत्यर्थं । 'सम्भवामि युगे युगे' इति भगवद्वचनात् ॥ अन्र हे तातः १ 'वच्छ ईरिसो' ( वत्स ईदृशः ) क-घ-च-न. २ 'लोअदराओ गअदं' ( लोकान्तरराशताम् ) ग.
१५६ उत्तररामचरिते [ ७-२० सीता-अम्महे तादो कुलगुरु अज्जाअणो सभत्तुआ अत्ता सन्तादेई मलख्खणा सुप्पसन्ना अज्जउत्तचलणा समं कुसलवा वि दीसन्ति ता णिब्भरम्हि आणन्देन । अहो तात कुलगुरुरार्याजन सभर्तृकार्या शान्तादेवी सलक्षणा सुप्रसन्ना आर्यपुत्रचरणा समं कुशलवावपि दृश्यन्ते तन्निर्मरा- स्म्यानन्देन । ( नेपथ्ये कलकल ) वाल्मीकिः-(उत्थायावलोक्य च ।) उत्खातलवणो मधुरेश्वरः प्राप्त लक्ष्मणः-सानुषङ्गाणि कल्याणानि । रामः-सर्वमिदमनुभवन्नपि न प्रत्येमि । यद्वा प्रकृतिरियंमभ्यु- दयानाम् । वाल्मीकिः-रामभद्र उच्यतां किं ते भूय प्रियमुपकरोमि । रामः-अतः परमपि प्रियमस्ति । किं त्विदं भरतवाक्यमस्तु । पापेभ्यश्च पुनाति वर्धयति च श्रेयांसि सेयं कथा मङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च । कुलगुरुरार्याजन सभर्तृका भार्या शान्तादेवी मलक्षणा सुप्रसन्ना । सलक्ष णेति-शान्त्यादिखलक्षणविशिष्टेत्यर्थ । आर्यपुत्रलालनेन रामे कुशलवावपि दृश्येते । तस्मान्निर्मरास्मि बानन्देन । 'समं सह' इत्यमर । उत्खातः सम्मू लित लवणः असुरभेद येन । मधुरेश्वरः शत्रुघ्न । माथुरस्य कुम्भीनसी- पुनरक्षोन्मथनाय शत्रुघ्नं प्रेषयामीति प्रथमाङ्कपूर्ववत्सरे रामेणोक्तं सन्निधानरह- स्यमत्र दूरदर्शिभिरनुसन्धेयम् । अनुषङ्गः अनुबन्ध । अनुभवन्नपि न प्रत्येमि न विश्वसिमि । प्रकृति स्वभाव । अभ्युदयाना आरम्भे मति अभ्युदय पुनरन्तरं नर्तयेति भाव । येन नान्दी कृता तस्य भरतस्य वाक्यमिति सम्बन्ध ॥ अथ हरि पूर्वाधन रामव्यासन्नाह-पापेभ्यश्चेति ॥ २० ॥ या गङ्गेव पुनाति, जगतो मातेव लक्ष्मीरिव, 'इन्दिरा लोक माता' इत्यमर । वर्धयति च, इयं कथा रामस्येति शेष । मङ्गले ऐहिक फलम्पे साधु मङ्गल्या । मनोहरा च आमुष्मिकफलदाननेति भाव । 'स याति ब्रह्मण स्थानम्' इति स्मरणात् । अत्र चद्वय पादपूरणे ॥ शेष १ 'त्यादं दमस्तु' क-प-य. २ 'पुनातु वर्धतु' क-प-य.
७-२० ] उत्तररामचरितं १५७ तामेतां परिभावयन्त्यभिनयैर्विन्यस्तरूपां बुधाः शब्दब्रह्मविदः कवेः परिणतां प्राज्ञस्य वाणीमिमाम् ॥ २० ॥ ( इति निष्क्रान्ताः सर्वे । ) इति सम्मेलनं नाम सप्तमोऽङ्कः । इति महाकविश्रीभवभूतिविरचितं उत्तररामचरितं नाम नाटकं समाप्तम् । उत्तरार्धेन स्ववाणीप्रयोजनमाह-तामिति । बुधाः ज्ञातारः । 'ज्ञातुर्बुधाः' इत्यमरः । परिणतां प्रख्यातनां परिनिष्ठिताम् । विन्यस्तरूपां विशेषेण व्यथेतिलोकेष्वप्रचुरेनेति यावत् । न्यस्तानि...इति वत् ( ? ) वस्तुचमत्का- रानुगुण्येन निवेशितानिरूपाणि पात्राणि यस्याम् । अत एव एनां 'चित्रस्मिर्तिक- स्थापकावस्थिताथ' इति 'चित्रितशबला.' इत्यमरद्विकमार्गी । तां रामकथा रूपा- वाट्ताम्, प्रसिद्धा वा । इमां प्राज्ञस्य पदवाक्यप्रमाणपण्डित्येति । शब्दब्रह्म वेत्ति विदः । 'शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' इति स्मरणात् । कवेः भवभूतिनाम्नो मम । वाणीं नाटकमयीं वाचम् । अभिनयैः देशेन पटनरटनप्रचारणामिनन्दनादिभिः । 'प्रचारणादौ भावात्दर्शनेऽभिनयो मतः' इत्यमरः । परि परितः । 'परि साकल्ये दोर्मेऽपि' इति केदारः। भावयन्तु एलादयन्तु । 'आदरे रटने च स्याद्भावना' इति जयः । अलमतिविस्तरेण ॥ इतिमहाराजपदनर्हणर्तुक्षजिराजगृह्यामात्येन मौनभार्गवकुलाङ्गारचन्द्र- दीप्तोरोराव्यजीपुत्रेण कौण्डिन्यगोत्रपरावरानिस्टुलवीस्तुभतिम्माम्बिवाळाम्बिके- हितेन काशीमहादेवतनुजेन शाण्डम्मरिपरमहंसचिदम्बरब्रह्मानुजेन नवरससुधा- निशासितुरचतुरधिकदशद्विप्रवन्धिपदरामापामन्द्याटतदीपददवर्णलिसमदम्पूना- सरमाटिकादलितनलकूबनधोरन्ध्रीपारीणेन गोतगायासहस्रचतुष्टयदिब्यदेवीना- टवृत्तिपिकल्पकेन दुर्जनातिनिन्द्येन सजनाभिनन्द्येन सुन्दरीकनटाजानिना कवयञ्च.सर्वेश्वरसरस्वतीनामत्रयमण्डितेन श्रीमत्तनयनीनिधीयवावरण एवार्थ- परिपूरिते उत्तररामचरितसञ्जीवनाट्यटिप्पणौ सप्तमोऽङ्कः सम्पूर्णः ॥ ॥ इति घनश्यामपण्डितविरचिते उत्तररामचरितसञ्जीवनख्याटिप्पने सप्तमोऽङ्कः॥ १ 'परिणतप्रज्ञस्य' क-घ-व १४३०
NOTES. ——————*—————— Act I. (THE PAGE IN THE NOTES REFER TO THE TEXT ) P 1 All Sanskrit writers generally introduce their works with a salutation or benediction This (Mangala as it is called) is supposed to be necessary for the removal of obstacles and the safe completion of the work undertaken Bhavabhuti follows this practice. As to the efficacy of Mangala, see Mahabhashya 'माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुङ्क्ते मङ्गला- दीनि हि शास्त्राणि प्रथन्ते वीरपुरुषाकाणि च भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च सिद्धार्था यथा स्युरिति' (Kielhorn, Vol I p 7) Construe—आत्मनः कलाम् अमृताम् देवतां वाचम् विन्देम (-हि) इदं पूर्वेभ्यः कविभ्यः नमोवाकं प्रशास्महे इदम् is the object of प्रशास्महे and has 'विन्देम—कलाम्' in apposition with it कविभ्यः शङ्कन् having made an obeisance to former poets The poets referred to are such as Valmiki Vyasa and others Some explain that Valmiki alone is referred to and that the plural is used only to show the great respect in which the author holds Valmiki This, however is not a natural way of explanation V and R read गुरुभ्यः for कविभ्यः, which makes very little change in the meaning नमोवाकम्—is an adverb to प्रशास्महे It may be explained in several ways It is a gerund in अम् (णमुल्) from वच् नम इति वक्त्वा नमोवाकम् The affix णमुल् is applied to roots, either standing alone or in conjunction with other words, in various senses such as repetition, entirety &c, e g स्मारं स्मारं नमति शिवम् (स्मृत्वा-स्मृत्वा), ब्राह्मणवेदं भोजयति (यः यः ब्राह्म- णानभोजन) 'आभीक्ष्ण्ये णमुल् च' पा० ३ । ४ । २२ and the following Sutras नमोवाकम् may also be explained as 'नमः (शब्दस्य) वाकः उच्चारणं यस्मिन्कर्मणि तद्यथा तथा' In this latter case वाक is a noun formed from वच् with the affix घञ् प्रशास्महे—we wish, we pray The root शास् (2nd conj ) is परस्मैपदी but when preceded by आ in the sense of 'wish,' it takes आत्मनेपद 'आङः शासु इच्छायाम्। आशास्ते, आशासाते। मातृपूर्वकं प्रादिकम्। तेन 'नमोवाकं प्रशास्महे' इति सिद्धम्।' सि कौ Here though प्र is the उपसर्ग used instead of आ, the sense being the same, the root takes आत्मनेपद विन्देम (Pot. 1st person pl of विद् 6th conj ) may we obtain. अमृताम्—immortal. Speech being called देवता must be said to be immortal. Or we may ex- plain that, as, according to the Purvamimansa, the relation of