भारतकोश
संग्रह पर लौटें

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

१मन्दभाग्यस्य। हा कथमदानीं देवीमन्तरेण ईदृशमचिन्तनीयं जनापवादं देवाय कथयिष्यामि। अथवा नियोगः खल्वीदृशो मे मन्दभाग्यस्य। सीता—(उत्स्वप्नायते) हा अज्जउत्त सोम्म कहिं सि। हा आर्यपुत्र सौम्य कुत्रासि। रामः—अये सैवेयं २रणरणकदायिनी चित्रदर्शनाद्विरहभावना देव्याः स्वप्नोद्वेगं करोति। (सस्नेहमहस्तः परामृशन्।) अद्वैतं सुखदुःखयोरनुगुणं सर्वास्ववस्थासु य- द्विभ्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः। कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्राप्यते॥ ३९॥ दुर्मुखः—(उपसृत्य।) जेदु देवो। जयतु देवः। रामः—ब्रूहि यदुपलब्धम्। अद्वैतं सुखदुःखयोरिति ॥ ३९ ॥ यत् सुमानुषं सौजन्यम् । सुख- दुःखयोर्विषये । अद्वैतं द्वैविध्यरहितम् । एकनिष्ठं । यच्छब्दद्वितयं सुमानुषपरामर्शीति बोध्यम् । अवस्थासु बाल्यकौमार्ययौवनजरासु यत् । अनुगतं अनुसारि । विश्रामः विश्रान्तिः । यस्मिन् सति । जरसा क्ष- तीति शेषः । जरयाऽपि । रसः प्रीति । शृङ्गारादिर्वा । अहार्यः अपरि- हार्यः । आवरणात्ययात् सङ्केतापगमात् । सारे स्थिरांशे । यत् स्थितं तस्य सुमानुषस्येति भावप्रधानो निर्देशः । सौजन्यस्येत्यर्थः । कृते इति शेषः । अत एव, 'सुभगमपरां' इत्यस्याख्यातौशाकुन्तले । 'नदिनं प्रमादि' इत्यस्यान्याख्यातविद्धसालभञ्जिकायां च । शोभनो मानुषो जनःयेन सौजन्येन । तत् सुमानुष्यं इति वार्थः । 'मानुषो जनमर्त्ययोः' इति नामनि- धानम् । कथमपि प्रयत्नेन । तत् प्रसिद्धम् । एकं मुख्यम् । भद्रं क- ल्याणम् । प्राप्यते हि प्रसिद्धौ ॥ तथा च मदनुरूपाया देव्याः सौजन्याय मङ्गलमाशास्महे । मया तु दुर्मुखः पौरजानपदेषु विसृष्टः किमागत्य वक्ष्यति चेति भावः । 'विश्रामं भजतां' इति, 'विश्रामशाखिनं' इति च कालिदास- मुरारिप्रयोगावदृत्य कवेः विश्राम इति प्रयोगः प्रमादिक इति प्रामाणिकाः । 'प्रतिच्छद्मोपरोधावरणं' इति संसारामृतैः ॥ ३९ ॥ जयतु देवः । उप- लब्धं ज्ञातम् । अनुभूतं वा । उपस्तुवन्ति देवं पौरजानपदाः । यथा विस्मृता वयं महाराजे दशरथे रामदेवेनेति ॥ जानपदाः देशवासिनः ।


१ 'ममेव' घ. २ 'अश्रुपूर्णं' ब-घ-क. ३ 'प्रेममारे' न. ४ 'प्रेम' ब-घ. ३ उ०

२६ उत्तररामचरितं [ १-४२ ' दुर्मुखः—उवत्थुवन्ति देवं पोरजाणवदा णिसुमराविदा अम्हे महा-१ राअं दसरहं रामभद्देणेति । उपस्तुवन्ति देवं पौरजानपदा विस्मारिता वयं महाराजं दशरथं रामभद्रेणेति । रामः—अर्थवाद एषः । दोषं तु मे कञ्चित्कथय येन स प्रतिविधीयते । दुर्मुखः—( सास्रम् । ) सुणादु देओ । ( कर्णे । ) एवं विअ । शृणोतु देवः । एवमिव । रामः—अहह तीव्रसंवेगो वाग्वज्रः । ( इति मूर्छति ) दुर्मुखः—अस्ससदु देओ । आश्वसितु देवः । रामः—( आश्वस्य । ) हा हा धिक्परगृहवासदूषणं य- द्वैदेह्याः प्रशमितमद्भुतैरुपायैः । एतत्तत्पुनरपि दैवदुर्विपाका- दालर्कं विषमिव सर्वतः प्रसृप्तम् ॥ ४० ॥ तत्किमत्र मन्दभाग्यः करोमि । ( विमृश्य सकरुणम् ) अथवा किम- न्यत् । सतां केनापि कार्येण लोकस्याराधनं व्रतम् । यत्पूरितं हि तातेन मां च प्राणांश्च मुञ्चता ॥ ४१ ॥ संप्रत्येव च भगवता वसिष्ठेन सन्दिष्टम् । अपि च । यत्सावित्रैर्दीपितं भूमिपालै- र्लोकश्रेष्ठैः साधु शुद्धं चरित्रम् । मत्सम्बन्धात्कश्मला किंवदन्ती स्याच्चेदस्मिन्हन्त धिङ्मामधन्यम् ॥ ४२ ॥ अर्थवादः स्तोत्रपद्धतिः । स्थितिकिंचिदिति च पाठः । येन कारणेन । शृणोतु देवः, एवमिव । निर्णय इति च पाठः । आश्वसितु देवः । 'हा हेति खेदातिशये' इति रत्नमाला ॥ हा हा धिक् परेति ॥ ४० ॥ तदेतत् आलर्कं रोगविशेषसम्बन्धि । 'अलर्कस्तु श्वान्मत्तः' इत्यमरः । प्रसृतं व्याप्तम् ॥ ४० ॥ सतां केनापीति ॥४१॥ तातेन दशरथेन ॥ सन्दिष्टमिति-'प्रजा- नामनुरञ्जने स्या' इत्येतावदेव पूर्वोक्तमिति भावः ॥ ४१ ॥ यत्सावित्रैरिति ॥ ४२ ॥ तस्य चरित्रस्य । सम्बन्धहेतोः । कश्मला तुच्छा । अस्मान् सवितृभूपालानुद्दिश्येत्यर्थः ॥ ननु अहमेव पापी न खलु सावित्राः सर्वेऽपि १ 'महाराअदसरहरअं' व-घ-क २ 'तीव्रोऽयं' न. ३ 'प्रसक्तम्' न. ४ > 'विमृश्य' न. ५ 'परम्'. ब. ६ 'तत्प्रणीतम्' ब, 'यत्पूजित' व. ७ 'चित्रम्' न.

१-४४ ] उत्तररामचरितं २७ हा देवि देवयजनसम्भवे हा स्वजन्मानुग्रहपवित्रितवसुन्धरे हा निमि- जनकनन्दिनि हा पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि हा राममयजी- विते हा महारण्यवासप्रियसखि हा तातप्रिये हा स्तोकवादिनि कथमेवंवि- धायास्तवायमीदृशः परिणामः । त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः । नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे ॥ ४३ ॥ ( दुर्मुखं प्रति । ) दुर्मुख ब्रूहि लक्ष्मणम् । एष ते नूतनो राजा रामः समाज्ञापयति । ( कर्णे । ) एवमेवम् । दुर्मुखः—हा कहं दाणिं अग्गिपरिसुद्धाए गब्भट्ठिदपवित्तसंताणाए दे- ईए दुज्जणवअणादो ऐत्तं अणज्जं अज्झवसिदं देवेण । [ हा कथमदानीमग्नि- विशुद्धायै गर्भस्थितपवित्रसन्तानायै देव्यै दुर्जनवचनादेवमनार्यमध्यवसितं देवेन । रामः—शान्तम् । कथं दुर्जनाः पौरजानपदाः । इक्ष्वाकुवंशोऽभिमतः प्रजानां जातं च दैवाद्वचनीयबीजम् । यच्चाद्भुतं कर्म विशुद्धिकाले प्रत्येतु कस्तद्यदि दूरवृत्तम् ॥ ४४ ॥ गच्छ । दुर्मुखः—हा देइ । हा देवि । ( इति निष्क्रान्तः । ) रामः—हा कष्टम् । अतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः । दृप्त्या इत्याह—धिक्छब्दामिति ॥ ४२ ॥ 'नमो नम शङ्करपार्वतीभ्या' इत्या- दिवत् वसिष्ठारुन्धतीति प्रयोगः क्षन्तव्यः । स्तोकवादिनि मितभाषिणी ॥ त्वया जगन्ति पुण्यानीति ॥ ४३ ॥ अनाथा निराधारा । 'आभा- रप्रिययोर्नाथ' इति रभसः ॥ नूतनः निर्दय इति यावत् ॥ ४३ ॥ हा कथमग्निविशुद्धायै गर्भस्थितपवित्रसन्तानायै देव्यै दुर्जनवचनादिदम- ध्यवसितं देवेन । अध्यवसितं निश्चितम् ॥ इक्ष्वाकुवंश इति ॥ ४४ ॥ वचनीयं दूषणम् । प्रत्येति विश्वसिति । तत् अग्निहस्तं सीतार्पणनि- १ 'मुनिनन्द' न. २ 'प्रियशोकभाषिणि' व-घ. ३ 'पवित्रदुट्ठउसंडाणाए' क-घ-च. ४ 'इद मयसिद' न. ५ 'शान्तं पापं शान्तं पापम् । दुर्जना नाम' न ६ 'दशोद्भवतः' घ. ७ 'वस्तत्सप्रतिदूरवृत्तम्' क-घ-न.

२८ उत्तररामचरित [ १-४७ ] शैशवात्प्रभृति पोषिता प्रिये-¹ सौहृदादपृथगाश्रयामिमाम् । छद्मना परिददामि मृत्यवे सौनिको गृहशकुन्तिकामिव ॥ ४५ ॥ तत्किमस्पर्शनीयः पातकी देवीं दूषयामि । ( इति सीतायाः शिरः स्वैर- मुन्नमय्य बाहूमाक्षिपन् । ) अपूर्वकर्मचण्डालमयि मुग्धे विमुञ्च माम् । श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥ ४६ ॥ ( उत्थाय । ) हन्त विपर्यस्तः संप्रति जीवलोकः । अद्यावसितं जीवित- प्रयोजनं रामस्य । शून्यमधुना जीर्णारण्यं जगत् । असारः संसारः । कष्ट- प्रायं शरीरम् । अशरणोऽस्मि किं करोमि का गतिः । अथवा हा अम्ब दुःखसंवेदनायैव रामे चैतन्यमाहितम् । मर्मोपघातिभिः प्राणैर्वज्रकीलायितं हृदि ॥ ४७ ॥ अरुन्धति हा भगवन्तौ वसिष्ठविश्वामित्रौ हा भगवन्पावक हा देवि भूत- धात्रि हा तात जनक हा तात हा मातर् हा प्रियसख सुग्रीव हा सौम्य हनूमन् हा परमोपकारिन् लङ्काधिपते विभीषण हा सखि त्रिजटे परिमु- षिता स्थ परिभूता स्थ रामहतकेन । अथवा को नाम तेषामहमिदानी- माह्वाने । लघ्वः । दुरवृत्तं लङ्काद्वीपगतम् । यदि सम्भावनायाम् ॥ ४४ ॥ शैश- वादिति ॥ ४५ ॥ प्रिये इत्यसुभिः । छद्मना कैतवेन । मृत्यवे परि- त्यागसूपायेति सीतापक्षे । सौनिकः मृगपक्षिविहिंसाशीलः ॥ ४५ ॥ अस्पर्श- नीयः नीचः । दूषयामि अङ्कस्पर्शेनेति भावः ॥ अपूर्वकर्मेति ॥ ४६ ॥ अपूर्वं दैवञ्चैव न कृतमित्यर्थः ॥ ४६ ॥ विपाकः परिणामः ॥ विपर्यस्तः न्यग्रूपः । अवसितं अवसानं प्राप्तं शून्यं वस्तुसहितम् । जीर्णं शुष्कम् । अरण्यं वनम् ॥ दुःखसंवेदनायेति ॥ ४७ ॥ यस्मिन् संवेदनं ज्ञानम् । चैतन्यं जन्म । उपघातिभिः प्रहारिभिः कीलवत् शङ्कुवत् आचरितम् । प्राणश्चानाच्छङ्कयो हृदि निखाता इत्यर्थः । अत एवाद्यापि मयि चैतन्यं वर्तत इति भावः ॥ ४७ ॥ भूतधात्रि वसुधे । तात दशरथ । जनक वैदेह । १ 'प्रियाम्' घ-ञ-क २ 'गृहनाड्याः प्रियाम्' घ 'पृथगाश्रयामिमाम्' व ३ 'सौनिके' ञ ४ 'पर्यवसितमद्य क, 'पर्यवसितं जीवित०' ख-घ ५ 'आग- तमू' न ६ 'स्वैरै' व घ ७ 'मातरः' व-घ-क ८ 'कथं' व-घ

१-५१ ] उत्तररामचरितं २९ ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना । मया गृहीतनामानः स्पृश्यन्त इव पाप्मना ॥ ४८ ॥ योऽहम् विस्रम्भादुरसि निपत्य लब्धनिद्रा- मुन्मुच्य प्रियगृहिणीं गृहस्य शोभाम् । आतङ्कस्फुरितकठोरगर्भगुर्वीं क्रव्यादाभ्यो बलिमिव निर्घृणः क्षिपामि ॥ ४९ ॥ ( सीतायाः पादौ शिरसि कृत्वा ) देवि देवि अयं पश्चिमस्ते रामशिरसा पादपङ्कजस्पर्शः । ( रोदिति । ) ( नेपथ्ये ) अब्रह्मण्यमब्रह्मण्यम् । रामः—ज्ञायतां भोः किमेतत् । ( पुनर्नेपथ्ये ) ऋषीणामुग्रतपसां यमुनातीरवासिनाम् । लवणत्रासितः स्तोमः शरण्यं त्वामुपस्थितः ॥ ५० ॥ रामः—आः कथमद्यापि राक्षसत्रासः । तद्यावदस्य दुरात्मनो मौधुरस्य कुम्भीनसीपुत्रस्योन्मूलनाय शत्रुघ्नं प्रेषयामि । ( कतिचित्पदानि गत्वा पुन- र्निवृत्य ) हा देवि कथमेवंगता भविष्यसि । भगवति वसुन्धरे सुश्लाघ्यां दुहितरमवेक्षस्व जानकीम् । जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् । यां देवयजने पुण्ये पुण्यशीलामजीजनः ॥ ५१ ॥ मातः कौसल्ये । अशोकवने पूर्वं शुद्ध ( भ ? ) खप्रक्ष्यनत्रिजटासावमिति बोध्यम् । परि परित्यक्त्यर्थे । 'हतको नीचः' इति जयः ॥ ते हि मन्ये इति ॥ ४८ ॥ पाप्मना दुरितेन ॥ ४८ ॥ विस्रम्भादुरसीति ॥ ४९ ॥ विस्रम्भः विश्वासः । प्रिया चासौ गृहिणी ताम्। आतङ्केन आया- सेन । स्फुरितः चलितः, कठोरः पूर्णः गर्भः तेन गुर्वी अत्थुषुम् । 'आया- सभीलोरातङ्क' इति शाश्वतः । क्रव्याद्भ्यः राक्षसेभ्यः । आमिषे पतं इत्यर्थः ॥ ४९ ॥ रोदितीत्यादिकमश्लीलं नाटकाप्रयोज्यमपि 'सर्वं च भक्ष्यं कुलं' इत्यादिवदुपेक्षणीयम् । 'अब्रह्मण्यमवध्योक्तौ' इत्यमरः । लवणः राक्षस- भेद । मथुरायां नगर्यां निवासी तत्सम्बन्धी वा माथुरः॥जनकानां रघू- णामिति ॥ ५१ ॥ जनकाः जनकवंश्या रघवः रघुवंश्या राजानः । गो- १ 'प्राप्तनिद्राम्' न. २ '०ष्णीन्' न. ३ 'शिरसि' न. ४ 'शाठारम्' म. ५ एतन्नास्ति म-घ-क-पुस्तकेषु. ६ 'ताम्' व-प.

३० उत्तररामचरितं [ १-५१ ) ( इति रुदन्निष्क्रान्तः । ) सीता—हा सोम्म अज्जउत्त कहिं सि । ( सहसोत्थाय ।) हद्धी हद्धी दु स्सिविणेण विप्पलब्धा अहं अज्जउत्तसुण्णं विअ अत्ताणं पेक्खामि । (विलोक्य ।) हद्धी हद्धी एआइणिं मं पसुत्तं उज्झिअ गदो अज्जउत्तो । किं दाणीं एदं । होदु । से कुप्पिस्सं जइ तं पेक्खन्ती अत्तणो पहविस्सं । को एत्थ परि अणो । हा सौम्य आर्यपुत्र कुत्रासि । हा धिक् हा धिक् दुःस्वप्नेन विप्रलब्धाह मार्यपुत्रशून्यमिव आत्मानं प्रेक्षे । हा धिक् हा धिक् एकाकिनीं मां प्रसुप्तामु ज्झित्वा गत आर्यपुत्रः । किमिदानीमेतत् । भवतु तस्मै कोपिष्यामि यदि तं प्रेक्षमाणारमन् प्रभविष्यामि । कोऽत्र परिजनः । (प्रविश्य ।) दुर्मुखः—देइ कुमारलक्खणो विष्णवेदि सज्जो रहो । आर हदु देवी त्ति । देवि कुमारलक्ष्मणो विज्ञापयति सज्जो रथः । आरोहतु देवीति । सीता—इअं आरुहामि १ । (उत्थाय परिक्रम्य ) फुरइ मे गब्भभारो सणिअं गच्छिह्मं । इयमारोहामि । स्फुरति मे गर्भभारः । शनैर्गच्छावः । दुर्मुखः—इदो इदो देवी । इत इतो देवी । सीता—णमो तवोधणाणं णमो रहुउलदेवदाणं णमो अज्जउत्तचरणक- शस्य वचसः । मङ्गलगुणेन यदिति नपुंसकनिर्देशः । अत एव 'दाक्षं हि यस्याः प्रकृतेर्नलक्ष्य' दति भर्तृमीडः । अजीजन इति अर्थात् त्वमिति सिद्धम् । अत्र यदिति यामिति च यच्छब्दद्वयमुत्तरवाक्योक्तमिति पूर्ववाक्ये तच्छब्दा नियमः । अत एव, 'आभाति यत्कृति'रिति अस्मद्व्याख्यातभोजचम्पौ ॥ ५१ ॥ हा आर्यपुत्र शून्यमिवात्मानं पश्यामि । अप्पाणमित्यत्र 'आत्मनि प' इति पत्वम् । हा धिक् हा धिक् एकाकिनीं प्रसुप्तां मां समुज्झित्वा गतः आर्यपुत्रः । भवतु अस्मै कुप्यामि यदि तं पश्यन्ती आत्मनः प्रभविष्यामि । कोऽत्र परिजनः । कुप्पामीत्यत्र कुप्पिस्सं इति पाठे कोपिष्यामीत्यर्थः । कुपिता भविष्यामीति यावत् ॥ देवि कुमारलक्ष्मणो विज्ञापयति । सजो रथः । आरो हतु देवी, इति । इयमारोहामि स्फुरति मे गर्भभारः । शनैः शनैर्गच्छामः । इत्थं पुरुषसमक्षं निःसङ्कोचतया कथनं कवेरचातुर्यम् । यत्त्वाक तु निमावि-- स्वगत—फुरइ मे गब्भभारो । प्रकाशम्—सणिअं गच्छामो । इति पाठस्त्वं कल्पनीयस्त्ववदत्र विशेषा प्रमाणमिति ॥ इत इतो देवी । नमो रघुकुलदेव ताभ्य इति दिक् ॥ इति महाराजपदमहनीयतुवक्काजिरा जगहामात्येव भार्ग- वकुलकुपारचन्द्रशौण्डोवाळाजिदीक्षितेण कौण्डिन्यगोत्रपारावारनिसुलक्ष्कौस्तुभति- १ 'अह अज्जउत्त आरोहामि' घ-च-क

१-५१ ] उत्तररामचरितं ३१ मलाणं णमो सव्वगुरुअणाणं । नमस्तपोधनेभ्यो नमो रघुकुलदेवताभ्यो नमो ऽर्यपुत्रचरणकमलेभ्यो नमः सकलगुरुजनेभ्यः । ( इति निष्क्रान्ताः सर्वे । ) इति महाकविश्रीभवभूतिविरचिते उत्तररामचरिते चित्रदर्शनो नाम प्रथमोऽङ्कः । न्माजिह्वाळञ्जिह्वाहिण्रेण काशीमहादेवतनूजेन शाकम्भरीपरमहंसचिदम्बरब्रह्मा- नुतेन नवरसभुवातिशायिचतुरचतुरधिकषष्टिप्रबन्धिदशभाषाभव्यहृद्याट्यपदी- पदशरावणेतिलसदन्यूनाक्षरमाणिक्यार्थस्रवनकवनधौरन्धरीशारीषेण गीतगाथाप्र हृष्टचतुष्टयदिव्यदेवीतातङ्कलिपिकारपेन दुर्जनानिलिङ्गेष समन्नाभिनन्देन सु न्दरीकमलाजानिना दश्ववच सर्वदमरखतीनामत्रयमण्डितेन रामनवमीनिशी- थजागरण एवारब्धपरिपूर्यिते उत्तररामचरितसञ्जीवनाख्यटिप्पणे प्रथमोऽङ्क समाप्तः ॥ ॥ इति घनश्यामपण्डितविरचिते व्याख्याने प्रथमोऽङ्कस्सम्पूर्णः शुभमस्तु ॥

३२ उत्तररामचरितं [२-२ ॥ द्वितीयोऽङ्कः ॥ नेपथ्ये । स्वागतं तपोधनाया । ( ततः प्रविशत्यध्वगवेषा तापसी । ) तापसी-अये वनदेवतेय फलकुसुमगर्भैण पल्लवार्घेण १रान्मामु- पतिष्ठते । प्रविश्य । वनदेवता-( अर्घ्यं विकीर्य २ । ) यथेच्छं भोग्यं वो वनमिदमयं मे सुदिवस सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति । तरुच्छाया तोयं यदपि तपसो योग्यमशनं फलं वा मूलं वा तदपि न पराधीनमिह वः ॥ १ ॥ तापसी-किमत्रोच्यते- प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः । अथ द्वितीयोऽङ्कः ॥ अथ भूत भवद्भाविष्यद्विशिष्टकथोपक्षेपेण द्वितीयाङ्कार्थं क्रोडीकरिष्यन् कविः शुद्धविष्कम्भं प्रस्तम्भाणः, 'नासूचितस्य पात्रस्य प्रवेशो निर्गमोऽपि च' इति लक्षणादुपयुक्तपात्रप्रयुक्तवेश परम्परासम्बन्धेन सूचयति- नेपथ्ये इति ॥ स्वागतमिति-वासन्तीनाम्ना वनदेवतया कृतः प्रश्न इत्यु- द्ग्राहेश वासन्ती त्वमिति कविनाऽग्रे वक्ष्यते । तपोधनेति तापसीति च एक- मेव पात्रम् । 'तापसस्तु तपोधन' इति विक्रमाकंः । फलकुसुमानि गर्भे मध्यभागे यस्य । सीताराम इतिवत् पल्लवयुक्तमर्घ्यं पल्लवार्घ्यम् तेनेत्यर्थः ॥ 'फलमूलपुष्पाद्य तापसेष्वर्घ्यमाहरेत्' इति स्मरणात् । 'निवर्धमर्घाऽर्घे इत्यमरः ॥ यथेच्छामोग्यमिति ॥ १ ॥ यथेच्छं आसमन्ताद् भोक्तुं योग्यं यथेच्छामोग्यम् । वः इति पूजायां बहुवचनम् । सतां सद्मिरिति-सत्यश्च सन्तश्च सन्तः तेषां सताम् । तैः सद्भिः साधुभिरित्यर्थः । प्रकृते सत्या मम सत्या त्वया सङ्गः सहवास इत्युक्तम् ॥ 'जात्यर्थे स्यात्कथमपि' इति नाम माला । न पराधीनमिति स्वाधीनमित्यर्थः । अपिरेषोऽधिकः पश्चाधिक इति केचित् ॥ १ ॥ अत्र सत्तावती । प्रियप्राया वृत्तिरिति ॥ २ ॥ प्रियस्य इष्टवस्तुनः प्रायः आधिक्यं यस्या सा । 'प्रियमिष्ट' इति 'प्रायो भूम्नि' इति चै- १ 'फलकुसुमपल्लवार्घेण माम्' व-घ-क. २ 'विकीर्य' इति न. ३ 'यथे च्छामोग्यम्' ग ४ 'विनयमत्तुल' व.

२-३ ] उत्तररामचरितं ३३ पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते ॥ २ ॥ ( उपविशतः । ) वनदेवता—कां पुनरत्रभवनामवगच्छामि । तापसी—आत्रेयीमस्मि । वनदेवता—आर्ये आत्रेयि कुतः पुनरिहागम्यते । किमप्रयोजनो वा द- ण्डकारण्यप्रवेशः । आत्रेयी—अस्मिन्नगस्त्यप्रमुखाः प्रदेशे भूयांस उद्गीथविदो वसन्ति । तेभ्योऽधिगन्तुं निगमान्तविद्यां वाल्मीकिपार्श्वादिह पर्यटामि ॥ ३ ॥ जयन्त्यमरो । 'मर्यादाचरणे वृत्ति ' इति नामनिधानम् । नियमः व्रतम् । प्रकृत्या स्वभावेन । अनवगीतः अनिन्द्यः । अविपर्यासितः असञ्जात- विपर्ययः । रसः प्रीतिः अनिर्विशेषा वा यस्मिन् । अनुपधि अकैटवम् । विशेषेण शुद्धम् । तदिदं रहस्यम् । 'विपर्यासो वैपरीत्ये' इति, 'प्रीताव- निर्विशेषे च रस' इति, 'रहस्योपांशु चाऽह्ने रहस्यं तद्द्वये त्रिषु' इति च कोश- चमेदिन्यमराः ॥ २ ॥ आत्रेयी अत्रेः शिष्या गोत्रोद्भवा वा । न कापि विप्रतिपत्तिः । पुनः यावदाल्द्वारे । किं प्रयोजनं यस्मिन् प्रवेशे सः किम- योजनः । अस्मिन्नगस्त्य इति ॥ ३ ॥ भूयांस उद्गीथेति सन्धिकर्षदुष्ट रुचिदोषवदनुग्राह्यम् । अत एव 'आये ऽने इलपि' इत्यलग्नाव्याख्यातभार- चम्पौ । उद्गीथो नाम साम्नो द्वितीया भक्तिः । तद्विद इत्यर्थः । 'ओमि- त्येतदक्षर मुद्गीथमुपासीत' इति छान्दोग्ये । अधिगन्तुं प्राप्तुम् । निग- मान्तः वेदान्तः । पर्यटामि सचरामि ॥ यद्वा दक्षादिति च पाठः । पु- राणं पुरातनं च तद् ग्रहोति पुराणेषु यष्टव्य वा तद्ग्राहीति कश्चिदाह तन मवलास्लेऽनुग्राह्यं यति वाल्मीकिमधिकृत्य पुरा०ब्रह्मवादीति कथनस्तामो- चिलात् । तथाऽनुग्राह्यत्वं रामाय कृतधनुर्धपणप्रसाद्य 'ततो युद्धपरिश्रान्तं' इत्यादिनापोह्यवतो भगवतोऽगस्त्यस्याश्रमवर्णने हृदयवसतेरपास्यपादाम्बु- शिवस्य स्थाने विग दिव्यो स्थाने इति रिज्वारिस्थानाना व्यवस्थापितत्वेन रामायणे सुप्रसिद्धम् । प्रकृते कथाप्रबन्वाय कविना वाल्मीकिप्रस्तावः कृत इति १ 'प्रचारः' क-व, 'रण्दोपवनप्रचारः' ग, 'किं प्रयोजन वा दण्डका- रण्यप्रवेशस्य' घ.

३४ उत्तररामचरितं [२-३

वनदेवता—यदा तावदन्येऽपि मुनयस्तमेव हि पुराणब्रह्मवादिनं प्रा- चेतसमृषिं ब्रह्मपारायणायोपासते तत्कोऽयमार्याया दीर्घप्रवासप्रयासः । आत्रेयी—तत्र महानध्ययनप्रत्यूह इत्येष दीर्घप्रवासोऽङ्गीकृतः । वनदेवता—कीदृशः । आत्रेयी—तस्य भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं स्त- न्यत्यागमात्रके वयसि वर्तमानं दारकद्वयमुपनीतम् । सत्तत्खलु न केवलं- रूपीणामपि तु चराचराणां भूतानामान्तराणि तत्त्वान्युपस्नेहयति । वनदेवता—अपि तयोर्नामसंविज्ञानमस्ति । आत्रेयी—तयैव किल देवतया तयोः कुशलावाविति नामनी प्रभा- वश्चाख्यातः । वनदेवता—कीदृश प्रभावः । आत्रेयी—तयोः किल सरहस्यानि जृम्भकास्त्राण्याजन्मसिद्धानीति । वनदेवता—अहो नु भोश्चित्रमेतत् । आत्रेयी—तौ च भगवता वाल्मीकिना धात्रीकर्मतः परिगृह्य पोषितौ


बोध्यम् । प्राचेतसं वाल्मीकिम् । उपासने उपासनां कुर्वन्ति । तदिति ततस्तदा इति च पाठेऽपि तस्मादित्येवार्थः । यमेति ध्वनिः । प्रत्यूहः विघ्नः । दीर्घप्रवास इति ध्वनिः । तत्रभगवतः वाल्मीकेः । देवताविशेषेण । गङ्गयेत्यर्थः । इदं च तृतीयाङ्कविष्कम्भे स्पष्टीभविष्यति । 'प्रकारो लक्षणेऽपि च' इति यादवः । स्तनयोः त्यागमात्रं यस्मिन् वयसि । 'वारस्यं मत्रिङर- धारणे' इत्यमरः । मात्रक इति स्वार्थे कः । अत एव 'उपनामादिपुण्डकः' इति चतुर्वर्गः । 'सगोत्रकं' इति च अमरसिंहेनोक्तम् । दारकौ पुत्रौ । उप- नीतं समीपे आनीतमिति यावत् । समीपे तत्रभवत इति पूर्वेणान्वयः । अपि तु किन्तु इत्यर्थः । भूतानां प्राणिनाम् । आन्तराणि बाह्येत्तराणि । नत्त्वानि करणानि अङ्गानि वा । तथा च अन्त करणानि अन्तरङ्गानि नैवर्थः ॥ 'तत्त्वं तु करणादियो' इति संसारावर्त्तः । स्नेहयुक्तानि करोति स्नेहयति । 'विके सज्ञानं' इति नामनिधानम् । 'रहस्यं तु मन्त्रे च' इति केन्दारः । अति भृशम् । चित्रं आश्चर्यम् ॥ 'अत्यतीवातीवतराम्' इति विरूपः । हिसब्दो वाक्यालङ्कारे । भो इति स्वमन प्रति सुबोधनम् । 'संबोधने तु हे है भोः' इति रत्नमाला ।


१ 'केवल तस्य अपि तु तिरश्चामप्यन्त करणानि तत्त्वानि' न. २ 'कर्मतः सुत' ब, 'कर्म प्रस्तुत' ध-क.

२–४] उत्तररामचरितं ३५ रक्षितौ च। निर्वृत्तचौलकर्मणोश्च तयोस्त्रयीवर्जमितरास्तिस्रो विद्याः साव- धानेन परिनिष्ठापिताः। समनन्तरं च गर्भैकादशे वर्षे क्षात्रेण कल्पेनोपनीय च्छन्दसा त्रयीविद्यामध्यापितौ। न ह्येताभ्यामतिप्रदीप्तप्रज्ञामेधाभ्यामस्मद्भादेः सहाध्ययनयोगोऽस्ति। यतः। वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा। भवति च तयोर्भूयान्भेदः फलं प्रति तद्यथा प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः ॥ ४ ॥ वनदेवता—अयमसावध्ययनप्रत्यूहः। आत्रेयी—अपरश्च। वनदेवता—अथापरः कः। आत्रेयी—अथ स महर्षिरेकदा माध्यन्दिनसवनाय नदीं तमसामनु- प्रपन्नः। स च युग्मचारिणोः क्रौञ्चयोरेकं व्याधेन विध्यमानं ददर्श। आक- स्मिकप्रत्यवभासां च देवीं वाचमव्यतिकीर्णामानुष्टुभेन च्छन्दसा परिणताम- न्वुदैरयत्। धात्रीकर्मतः उपमातृत्वादतो। अग्रपानादिभिः पोषितौ हिंस्रजन्तुभ्यो रक्षितावित्यर्थः। त्रयी वेदत्रयी वर्ज्या यस्मिन् कर्मणि तत् त्रयीवर्ज्यं यथा तथा। तिस्रो विद्याः अक्षराभ्यासः, गुरुलीविहारः, वाहनानुपशिक्षा चेति। परिनिष्ठापिताः परि परितः, निष्ठा विधानादन्तं प्रापिता इत्यर्थः। 'निष्ठा निष्पत्तिनाशान्तः' इत्यमरः। दीप्ता प्रकाशः। योगः सुयतिः युक्तियां ॥ वितरति गुरुरिति ॥ ४ ॥ तयोः प्राज्ञजडयोः। फले सिद्धिम्। प्रति उद्दिश्य। तदेवोपपादयति—तद्यथेति ॥ शुचिः निर्मलः। 'बिम्बमा- कृतौ' इति हैमः। मणिः दर्पणः। आदिशब्देन काष्ठादीनि गृह्यन्ते। अत्र तुहिशब्दौ पादपूरणौ। हि प्रसिद्धामिति वैचित् ॥ ४ ॥ तमसा नदीविशेषः। तत्र तमसायाम्। तमसातीरे इति यावत्। गङ्गाया घोष इत्यादीवदत्राम्। युग्मेन द्वन्द्वेन चरतोः युग्मचारिणोः। अकस्मात् अनशात् भवः आक- स्मिकः। प्रत्यवभासः स्फूर्तिः यस्याः ताम्। अव्यतिकीर्णां विशेषेणान- ङ्गीर्णाम्। सुविभक्तामित्यर्थः। शय्यासन्दर्भादिभिः प्रगन्नामिति यावत्। १ 'स्तनपूतौ च प्रयो०' प; 'वृत्तशौचकर्मणोश्च तयोरप्यौ०' प. २ 'परेषा- नेनी' घ. ३ 'तदनन्तरं भगवतैकादशे' न. ४ 'पुनर्' इति न-क. ५ 'बिम्बोद्ग्राहे' इ-घ. ६ 'दृशं दधः' क-घ-घ. ७ एतन्नास्ति म-पुस्तके, 'वीणेशरणांम्' क-घ.

३६ उत्तररामचरितं [२-५ मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ ५ ॥ वनदेवता—चित्रेमाम्नायादन्यो नूतनश्छन्दसामवतारः । आत्रेयी—तेन खलु पुनः समयेन तं भगवन्तमविर्भूतशब्दब्रह्मप्रका- शमृषिमृषिरुपसङ्गम्य भगवान् भूतभावनः पद्मयोनिरवोचत्-‘ऋषे, प्रबुद्धोऽसि वागात्मनि ब्रह्मणि तद्ब्रूह रामचरितम् । अव्याहतज्योतिराषं ते प्रतिभाचक्षुः । आद्यः कविरसि’ इत्युक्त्वा तत्रैवान्तर्हितः । अथ स भगवान्प्राचेतसः प्रथमं मनुष्येषु शब्दब्रह्मणस्तादृशं विवर्तमितिहासं रामायणं प्रणिनाय । अभ्युदेरयत् उदीरयामास ॥ मा निषाद प्रतिष्ठामिति ॥ ५ ॥ निषाद व्याध । शाश्वतीः ध्रुवाः । समाः संवत्सरान्, वर्षशतमित्यर्थः । 'काला- ध्वनोः' इति द्वितीया । प्रतिष्ठां स्थितिम् । मा गमः मा गच्छ ॥ ननु 'न माङ्योगे' इति षडागमप्रतिषेधात् कथं अगम इति चेन्न । 'मा देवि दैन्यं गमः शुभमिच्छमेतत्त्वां पुष्पकं वहति यत्' इति दण्डिकाव्ये प्रयोगदर्शनान्न दोषः ॥ अथवा—अगम इत्यत्र अ इति च पदद्वयम् । तथा च मा निषाद भो व्याधेत्यर्थः । 'आहो भो हे शमप्यहमुमा रामोपनाभवो' इति वेडारः । केचित्तु—मागमं नागम इत्यर्थः । 'न ना नो नेत्यभावे स्युः' इत्यगस्त्य इत्याहुः । आर्षं तु नाक्षमर्हतीत्यन्ये पेठुः । जीवतामेव वचने दोषाश्चिन्त्य- दुचना उरीकुर्वन्ति । अन्येषां तु पुष्पोत्पाटनमपि हर्तुं नालममीति राघवौ निगमयतीति दिक् ॥ ५ ॥ आम्नायात् वेदान् । तेन प्रसिद्धेन । समयेन सदृशः । छन्दोरूपया विद्येतार्थः । उपलक्षितम् । 'समयः कालसंविदोः' इति रुद्रः । भगवन्तं माहात्म्यादिन कीर्तिमन्तं वा, भगवान् षाड्गुण्यपरि- पूर्णः । भूतान् सचराचरान् भावयति जनयतीति वा, भूतानां भावना गति- रस्मिन्निति वा भूतभावनः । 'भावस्सत्तारमवस्तुषु' इति हेमचन्द्रः । 'भावना भक्ती' इति धरणिः । यादृशी भावनेति वस्तुनिर्णयः । प्रकृष्टः शुद्ध- बोधो यस्य । वागात्मनि शब्दरूपे ब्रह्मणि इत्यनेन परं ब्रह्माऽविगमिष्य- सीति भावः ॥ 'शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' इति स्मरणात् । अव्याहतं अप्रतिहतं ज्योतिः तेजः प्रसरः यस्य तत् । प्रतिभा चैव चक्षुः । 'प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा विदुः' इति प्राञ्चः । आद्यः शब्दं भव इत्यर्थः । शंभोश्च देव्याः प्रसादपात्रीकृतत्वादिति भावः । वाचः परो वा । 'वरायतनयोराद्यः' 'प्रथमञ्चेष्टयोगुरी' इत्यगस्त्यः ॥ प्रथम इति केचित् ॥ तन्न ॥ वाल्मीकेरेवाद्य कवित्वाद्वा प्रत्यक्षविरोधाद्, इदं कविभ्य इति नान्दी १ 'आम्नायादन्यत्र' न २ 'ते प्रतिभां चक्षुः' क-घ-व, 'ते चक्षुः प्रतिभातु' न

२-६ ] उत्तररामचरितं ३७ वनदेवता-हन्त तर्हि मण्डितः संभारः । आत्रेयी-तस्मादेवोचं तत्र हि महानध्ययनप्रत्यूह इति। वनदेवता-युज्यते । आत्रेयी-विश्रान्तास्मि भद्रे । मंत्रत्यगस्त्याश्रमस्य पन्थानं ब्रूहि । वनदेवता-इतः पञ्चवटीमुद्दिश्य गम्यतामनेन गोदावरीतीरेण । आत्रेयी-(सानन्दम्) अप्येतत्तपोवनम् । अप्येषा पञ्चवटी । अपि सरिदियं गोदावरी । अप्ययं गिरिः प्रस्रवणः । अपि जनस्थानवनदेवता वासन्ती त्वम् । वनदेवता-तथैवे तत्सर्वम् । आत्रेयी-हा वत्से जानकि ! स एष ते वल्लभशोलिवर्गः प्रासङ्गिकीनां विषयः कथानाम् । त्वां नामशेषामपि दृश्यमानः प्रत्यक्षदृष्टामिव नः करोति ॥ ६ ॥ पदास्य गणपत्यर्थताविच्छेदापत्तेश्च ॥ न च वाच्य—'आदिकाव्यमिदं प्रोक्तं पुरा वाल्मीकिना कृतम् । यद् प्राचेतसादासीत्साक्षान्द्रामायणात्मना ॥' इत्या- दिवचनानां का गतिरिति, 'नारदं परिपप्रच्छ वाल्मीकिर्मुनिसुपुंगवम्' इति प्रश्ने- नैव नाट्यकवित्वोच्छेदात् तेषां वचनानामर्थवादपरत्वमनुसन्धेयम् । किञ्च वाल्मीकिनारदम्वाप्यायकवित्वं न समोमर्वाति, 'मुने वक्ष्याम्यहं बुद्ध्वा' इति देवैव वचनात् । तस्मात् 'वाल्मीकिना कृतम्' इत्यादीना 'अष्टादशपुराणानां कर्ता सत्यवतीसुतः' इत्यादीना वचनाना पूर्वपक्षतया दौर्बल्यात्, 'यस्य नि- श्वसितं वेदाः सेतिहासा सहागमा' इति सिद्धान्तवचनप्राबल्येन वाल्मीकि- व्यासादयः सर्वेऽपि प्रवचनकर्तार इति महान्तो निगदन्ति । शिष्यडिम्भाः किञ्चिदपि न जानीमहे वयम् । शिरोपज्ञा एवात्र प्रमाणम् । इति दिक् ॥ तथैवेति-यन प्रदेशे अवोचम् तथैवेत्यर्थः । प्रथमे वाढी । तादृशं अ- निर्वाह्यम् । विवर्तः परिणामः । 'इतिहासः पुरातनं' इत्यमरः । अवोचं अवदम् । अथांदहमिति सिद्धम् । भद्रे इति संबोधनम् । 'अपि प्रश्ने च' इति हलायुधः । तदिति-त्वया यथा तर्कितं तदेतत्सर्वं तथैवेति यावत् । अथ किमिति वाढमिति च पाठौ ॥ स एष ते इति ॥ ६ ॥ वल्लभाः प्रियाश्च ते शाखिनः वृक्षाः । यद्यपि वत्सं १ 'दण्डितः' घ-ख-न. २ 'तस्मादवोच वस्तुपेक्षाप्रास्ताव' घ. ३ 'अन्ते- दर गमेन्' क-घ-द. ४ 'बन्धुवर्गः' क-घ-च. ५ 'प्रत्यक्षदृश्याम्' क-घ-च. ४ उ०

३८ उत्तररामचरितं [ २- वासन्ती-( सभयम् । स्वगतम् ) कथं नामशेषामित्याह । ( प्रकाशम् । ) आर्ये किमत्य्याहितं सीतादेव्याः । आत्रेयी-न केवलमत्य्याहितं सापवादमपि । ( कर्णे । ) एवमेवम् । वासन्ती-अहह दारुणो देवनिर्घातः । ( इति मूर्च्छति । ) आत्रेयी-भद्रे समाश्वसिहि समाश्वसिहि । वासन्ती-हा प्रियसखि हा महाभागे ईदृशस्ते निर्माणभागः । हा रामभद्र । अथवा अलं त्वया । आर्ये आत्रेयी अथ तस्मादरण्वात्परित्यज्य निवृत्ते लक्ष्मणे सीतादेव्या. किं वृत्तमिति काचिदस्ति प्रवृत्तिः । आत्रेयी-नहि नहि । वासन्ती-हा कष्टम् । आर्यारुन्धतीवसिष्ठाधिष्ठितेषु रघुकुलदम्यकेषु जी- वन्तीषु च प्रवृद्धासु राज्ञीषु कथमिदं जातम् । आत्रेयी-ऋष्यशृङ्गाश्रमे गुरुजनस्तदानीम् । संप्रति तु परिसमाप्तं तद्द्वादशवार्षिकं सत्रम् । ऋष्यशृङ्गेन च संपूज्य विसर्जिता गुरवः । ततो भगवत्यरुन्धती नाहं वधूविरहितामयोध्यां गमिष्यामीत्याह । तदेव राम- मातृभिरनुमोदितम् । तदनुरोधाद्भगवतो वसिष्ठस्य परिशुद्धा वाचो वाल्मी- कितपोवनं गत्वा तत्र वास्त्याम इति । विशेषणं ग्राह्यं, तथापि सर्वे शैला इत्यादिवदिदं समाधेयम् ॥ स्मृतस्योपेक्षा- नर्हत्वं प्रसक्तं । प्रसङ्गभवं प्रासङ्गिकं । नाम्ना नात्रि विशेष ( वा शेषाम् १ ) दृश्यमानः । मयेति शेषः । मे मह्यम् । त्वां प्रत्यक्षदृष्टामिव करोति । मे इत्यत्र न इति पाठे असभ्यमित्यर्थः । अत्र निर्वेदाद्बहुवचनत्वम् । अत एव । 'अथ तस्यान्येद्युः' इत्यासद्व्याख्याताशाकुन्तले । वल्लभः रामो वा । ते वल्लभेनेत्यत्र 'रतेर्गृहीतानु नयेन' इतिवदुपपत्तिः ॥ वनदेवतानामपरि- ज्ञानेन वासन्तीति व्यवहारः कृत इति बोध्यम् ॥ ६ ॥ अत्याहितं महा- भीतिः । अपवादः कौलीनम् । एवमिवेति-रामेण सीता परित्यक्तेत्यादि- श्रुतमुक्तमिति बोध्यम् । दैवमेव निर्घातः वज्रनिर्घोषः । भागः अंशः । अलमिति कृतमित्यर्थः । कोपखेदाभ्यामलमित्युक्तमिति भावः । 'वृत्तं चरिते' इत्यमरः । प्रवृत्तिः वार्ता ध्वनिष । आर्या च तौ अरुन्धतीवसिष्ठौ ता- भ्याम् । कुलेष्विति पूजायां बहुत्वम् । गुरवः वसिष्ठादयः । अनुरोधः अनुवर्तनम् । 'श्रद्धा त्वासक्ति' इति पद्ममाला । ध्वनिष्ट । क आचारः आचरणं यस्य किमाचारः । ऋतुराजः यज्ञश्रेष्ठः । प्रक्रान्तः आरब्धः । १ 'रघुकुलवृन्दकेषु' घ. २ 'वसिष्ठस्यापि श्रद्धा' न.

वासन्ती-अथ स राजा किमाचारः सम्प्रति । आत्रेयी-तेन राज्ञा क्रतुरश्वमेधः प्रक्रान्तः । वासन्ती-हा धिक् परिणीतमपि । आत्रेयी-शान्तं पापम् । नहि नहि । वासन्ती-का तर्हि यज्ञे सहधर्मचारिणी । आत्रेयी-हिरण्मयी सीताप्रतिकृतिः । वासन्ती-हन्त भोः । वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को नु विज्ञातुमर्हति ॥ ७ ॥ आत्रेयी-विसृष्टश्च वामदेवाभिमन्त्रितो मेध्योश्वः । उपकल्पिताश्च तस्य यथाशास्त्रं रक्षितारः । तेषामधिष्ठाता च लक्ष्मणात्मजश्चन्द्रकेतुर्योऽत दिव्यास्त्रसम्प्रदायश्चतुरङ्गसाधनान्वितोऽनुप्रहितः । वासन्ती-(सहर्षकौतुकास्रम् ।) कुमारलक्ष्मणस्यापि पुत्रः । हन्त मातर्जीवामि । आत्रेयी-अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुत्क्षिप्य राजद्वारे सोरस्ताडम्- अब्रह्मण्यमुद्घोषितम् । ततो न राजापचारमन्तरेण प्रजास्वकालमृत्युः संचरती- त्यात्मदोषं निरूपयति करुणामये रामभद्रे सहसैवाशरीरिणी वागुदचरत्- शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः । शीर्षच्छेद्यः स ते राम तं हत्वा जीवय द्विजम् ॥ ८ ॥ भो इति मनः प्रति सम्बोधनम् ॥ वज्रादपि कठोराणीति ॥ ७ ॥ लोको- त्तराणां भुवनश्रेष्ठानाम् । 'सर्वे कृत्यं साधु सर्वोत्तरत्वम्' इति भारविः । सीतापरित्यागेन रामचेतसः कठोरत्वं अपुनःपरिणयेन मृदुत्वं चेति भावः ॥७॥ मेध्यः पवित्रः । प्रयुक्ताः प्रयोजिताः । शास्त्रं श्रौतपद्धतिः । अधिष्ठाता प्रमुखः । प्रहितः प्रेषितः । मातर्जीवामीति द्राविडीस्त्रीस्वभावोक्तिः । एव वदता कविना निज द्राविडत्वं प्रकटितमित्युक्तम् । उत्क्षिप्य उद्घृत्य । उरसा दृढेन सहितं सोरस्ताडं यथा तथा । 'तडस्ताडनम्' इति द्विरूपः । 'अब्र- ह्मण्यमवध्योक्तिः' । आत्मनः रामस्यैव । ( वा ) गुदेति ध्वनिः । उद्ग- च्छेदिति च पाठः ॥ शम्बूको नाम वृषल इति ॥ ८ ॥ वृषलः शूद्रः । शीर्षच्छेद्यः वध्यः । एनम् शम्बूदम् । द्विजं जीवय इति कथनमहिम्ना शम्बूके १ 'स रामभद्रः' न २ 'शान्तम्' न, 'शान्तं शान्तं' घ-च ३ 'दत्त' इति न ४ 'पुत्रमारोप्य' घ-च ५ 'प्रवादान्' न, 'प्रवादान्' घ-च ६ 'चरति' ग घ

४० उत्तररामचरितं [२-९] इत्युपश्रुत्यैवाहृतकृपाणपाणिः पुष्पकं विमानमारुह्य सर्वा दिशो विदिशश्च शूद्रतापसान्वेषणाय जगत्पतिः सञ्चरितुमारब्धवान् । वासन्ती-शम्बूको नाम धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति । तदपि नाम रामभद्रः पुनरपीदं वनमलङ्कुर्यात् । आत्रेयी-भद्रे आगम्यतेऽधुना । वासन्ती-आर्ये आत्रेयि एवमस्तु । कठोरीभूतस्तु दिवसः । •कण्डूलद्विपगण्डपिण्डकषणाकम्पेन सम्पातिभि- घर्मस्रंसितबन्धनैः स्वकुसुमैरर्चन्ति गोदावरीम् । छायापस्करमाणविष्किरमुखव्याकृष्टकीटत्वचः कूजत्क्लान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः ॥ ९ ॥ ( इति परिक्रम्य निष्क्रान्ते ।) इति शुद्धविष्कम्भकः । हते पुनर्जीवनेन द्विजोऽपि जीविष्यति । अन्यथा न जीविष्यतीति भावस्सूच्यते ॥८॥ दिशः इन्द्रादिदिश । विदिशः आग्न्यादिदिशः । 'दिशोर्मध्ये विदिक स्त्रियाम्' इत्यमर । शूद्रश्चासौ तापसश्च । तत् तत्सान् । अपि नाम इति सम्भा- वनाप्रसिद्धौ । रमयतीति रामः । रम क्रीडायाम् । रामश्चासौ भद्र मङ्गलकरः रामभद्रः । वनमलमिति ध्वनि । गम्यत इत्यर्थे आगम्यते इति व्यव- हार सार्वलौकिक । धनुर्भरतिद्धश्च । कठोरः दुस्सह सूर्यरश्मिरिति यावत् । तदेवोपपादयति तथाहीति ॥ कण्डूलद्विपगण्डेति ॥ ९ ॥ कण्डूलाः कण्ड्युक्ताश्च ते द्विपाः गजा । तेषा गण्डाः कपोलाः । त एव पिण्डाः गोलाः तेषा कषणं घर्षणम् । तस्माद्धेतो । आकम्पेन समन्तात्कम्पनेन । सम्पातिभिः पतनवद्भि । घर्मेण निदाघेन । स्रंसितं सजातस्रंसनं च्युतं येषा तानि 'स्रंसस्तु गलनं च्युति' इति 'वृतं प्रसवबन्धनम्' इति च हारा- वल्यमरौ ।_छायासु अवस्करमाणाः मेहन्तश्च ते विष्किराः पक्षिणः । तैर्मुखेनेन श्रोष्ठ्या । व्याकृष्टाः विशेषेण आकृष्टा । कीटानां त्वचः चर्माणि येषु ते । अपस्किरेति पाठे भक्षणाय भूमि विदारयन्तश्च ते विष्किरा इति योज्यम् । विदारयन्त 'विकिरैवे' इति महाराष्ट्राः । कूले तीरे । कु- लाययुक्ता वृक्षा । 'कुलायो नीडमस्त्रियाम्' इत्यमर । गण्डपिण्डेति ध्वनिः । ' गलद्दानगण्डं' इति भगवत्पादाः । 'चूलनीत इव कुङ्कुमपिण्ड ' इति कुङ्कु- मकविः । गण्डमण्डलकषेति च पाठ । क्षपणकर्म इति द्विरूप । छायेयत्र शाखे- त्यपि च पाठ ॥ ९ ॥ शुद्धविष्कम्भ इति ॥ आत्रेयीवनदेवतयो रुदात्तपात्रत्वात् १ 'सञ्चारं समारब्धवान्' न. २ 'कठोरश्च' न. ३ 'कषणोत्कम्पेन' क-घ-व.

२-१२] उत्तररामचरितं ४१ ( ततः प्रविशति पुष्पकरथः सद्योत्खातखड्गो रामः । ) रामः—हे¹ हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य गात्रमसि निर्भरगर्भखिन्न- सीताविवासनपटोः करुणा कुतस्ते ॥ १० ॥ ( कथंचित्प्रहृत्य । ) कृतं रामसदृशं कर्म । अपि जीवेत्स ब्राह्मणपुत्रः । (प्रविश्य) दिव्यपुरुषः—जयतु जयतु देवः । दत्ताभये त्वयि यमादपि दण्डधारे सञ्जीवितः शिशुरसौ मम चेयमृद्धिः । शम्बूक एष शिरसा चरणौ नतस्ते सत्सङ्गजानि निधनान्यपि तारयन्ति ॥ ११ ॥ रामः—द्वयमपि प्रियं नः । तदनुभूयतामुग्रस्य तपसः परिपाकः । यत्रानन्दाश्च मोदाश्च यत्र पुण्याश्च सम्पदः । वैराजा नाम ते लोकास्तैजसाः सन्तु ते शिवाः ॥ १२ ॥ क्वचिन्ना प्राकृतभाषा परिहृतेति बोध्यम् ॥ सद्यं यथा तथा उत्खातः को- शादाकृष्टो राज्ञा येन ॥ हे हस्त दक्षिणेति ॥ १० ॥ द्विजस्य शिशोः ब्राह्मणपुत्रस्येति विशेषः । जीवातवे जीवनोपयाय ॥ ननु तपस्विनि कथं खड्गं विसृजामि इत्याशङ्क्याह-रामस्येति । गात्रं क्षत्रम् । 'अङ्गं च गात्रम्' इति त्रिकाण्डी । निर्भरं भृशम् । पटोरिति रामस्य विशेषणम् ॥ १० ॥ सदृशं योग्यं निर्दयमिति यावत् ॥ दत्ताभये त्वयीति ॥ ११ ॥ दण्डधारे शिक्षके । 'दण्डधारो महीपति' इति कामन्दकः । समृद्धिः दिव्या संप- दित्यर्थः । एषः अहमिति शेषः । 'मरणं निधनोऽस्त्रियाम्' इत्यमरः ॥ ११ ॥ द्वयं द्विजपुत्रजीवनं तव सञ्जीवेश्वर्यः । तत् तस्मात् । परिपाकः फलमिति यावत् ॥ यत्रानन्दाश्चेति ॥ १२ ॥ यत्र येषु लोकेषु । यत्र द्वयमा धातु- भेदादानन्दमोदानामवान्तरभेद ज्ञेयः । 'मनोज्ञपुतयोः पुण्यम्' इति नाम- निघानम् । विगतस्त ...... तत्संबन्धिनो वैराजास्ते प्रथमाबहुवचनम् । तैजसाः तेजोमयाः । शिवाः मङ्गलकरा । ते तुभ्यम् । सन्त्विति योज्यम् । पादपूरकमिति केचित् ॥ १२ ॥ युष्मत्प्रसाद एव उपादानं १ 'रे' क-घ-व. २ 'बाहु' न. ३ 'दुर्वह' क-घ-च. ४ 'फलम्' क-घ-व. ५ 'पुण्याभिसम्बन्धाः' ढ-घ. ६ 'सुरा.' घ-व.

४२ उत्तररामचरितं [ २-१४ शम्बूकः—युष्मत्प्रसादोपादान एवैष महिमा । किमत्र तपसा । अ- थवा महदुपकृतं तपसा । अन्वेष्टव्यो यदसि भुवने भूतनाथः शरण्यो मामन्विष्यन्निह धृतलकं योजनानां शतानि । क्रान्त्वा प्राप्तः स इह तपसां संप्रसादोऽन्यथा चेत् क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वः ॥ १३ ॥ रामः—किं नाम दण्डकेयम् । ( सर्वतोऽवलोक्य । ) हा कथम् । स्निग्धश्यामाः क्वचिदपरतो भीषणाभोगरूक्षाः स्थाने स्थाने मुखरककुभो झाङ्कृतैर्निर्झराणाम् । एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः सन्दृश्यन्ते परिचितभुवो दण्डकारण्यभागाः ॥ १४ ॥ शम्बूकः—दण्डकैवैषा । अत्र किल पूर्वं निवसता देवेन कारणं यस्य महिमासाधक इति भावः । अथ वैराजनामलोकलाभे । महदुप- कृतं महानुपकारः कृत इति यावत् ॥ अन्वेष्टव्यो यदसीति ॥ १३ ॥ धृतलकं अल्पक्षुद्रम् । प्राप्तोऽसीति यत् इह प्राप्तौ । स इति संप्रदाया- ( संप्रसादा ? ) नुगुण्येन पुल्लिङ्गतानिर्देशः । अन्यथा चेत् एवं न चेदित्यर्थः । अयोध्याया इति पञ्चमी । निलयोक्तितया दण्डकायां इत्युक्तम् । अस्मि- न्वने तथा च दण्डकावने इति फलितोऽर्थः । अत एव । 'तदुपमा कुसुमाग्य- सिता शरा.' इति श्रीहर्षः । पुनरपगमः पुनरागमनं नित्यर्थः । तस्मान्मम तप एव साधकतम इति भावः । स इहेतिकथनविलम्बसङ्कटं कवेरचातुर्यमिति संप्रदायज्ञाः ॥ १३ ॥ आश्चर्यादाह—किन्नामेति ॥ स्निग्धश्यामा इति । ॥ १४ ॥ स्निग्धाः मसृणाः । अपरतः अन्यतः । आभोगेन परिपूर्ण- तया । रूक्षाः क्षयो (?) दुष्प्रवेशा इति यावत् । झांकृतैः शब्दानुकारैः । मुखराः शब्दायमानाः ककुभः दिशः येषां येषु वा । 'तीर्थमृषिजुष्टजले गुरौ' इत्यमरः । गर्ताः अवटाः । 'कान्तारं वर्त्म दुर्गमम्' इत्यमरः, तैः सान्द्राः निविडाः । परिचिताः अनुभूताः भुवः स्थलानि येषाम्, 'भू- क्षितौ च स्थलेऽङ्गने' इति रभसः । भागाः प्रदेशाः । कान्तारं अरण्यम् । इति केचित् । तन्न ॥ वर्ण्यमानस्य दण्डकारण्यस्य वन्यशैथिल्यापत्तेः ॥ १४ ॥ १ 'युष्मत्प्रसादादेव' न-क, 'युष्मत्पादम्रसादोषाप एव' घ-च. २ 'गर्भे' घ-च.

२-१७ ] उत्तररामचरितं ५३ चतुर्दश सहस्राणि चतुर्दश च राक्षसाः । त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः ॥ १५ ॥ येन सिद्धक्षेत्रेऽस्मिञ्जनस्थाने मादृशामपि जानपदानामकूतोभयः सञ्चारो जातः । रामः-न केवलं दण्डका जनस्थानमपि । शम्बूकः-बाढम् । एतानि खलु सर्वभूतरोमहर्षणान्युन्मत्तचण्डश्वाप- दकुलसङ्कुलगिरिगहराणि जनस्थानपर्यन्तदीर्घाण्यारण्यानि दक्षिणां दिशमभिव- र्तन्ते । तथाहि । निष्कूजस्तिमिताः क्वचित्क्वचिदपि प्रोच्चण्डसत्त्वस्वनाः स्वेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः । सीमानः प्रदरोदरेषु विरलस्वच्छाम्भसो यास्वयं तृष्यद्भिः प्रतिसूर्य कैरजगरस्वेदद्रवः पीयते ॥ १६ ॥ रामः-पश्यामि च जनस्थानं भूतपूर्वखरालयम् । प्रत्यक्षानिव वृत्तान्तान्पूर्वाननुभवामि च ॥ १७ ॥ चतुर्दश सहस्राणीति ॥ १५ ॥ त्रिमूर्धान इति-अत्र 'द्वित्रिभ्यां ष मूर्ध्नः' इति प्रत्ययेन समासान्तविधेरनित्यत्वात् ॥ १५ ॥ येन राक्षसानां हन- नेनेत्यर्थः । जानपदानां देशवासिनाम् । न विद्यते कुतः कस्मादपि भयं यस्मिन् अकुतोभयः । दण्डकेति भिन्नं पदम् । बाढं इत्यङ्गीकारे । भू- तानां प्राणिनाम् रोमहर्षणं रोमाञ्च- येभ्यो येषु वा । 'रोमाञ्चो रोमहर्षणे' इति समयपद्धतिः । 'चण्डस्त्वत्यन्तकोपन' इत्यमरः । अभिवर्तन्ते आभिमुख्येन वर्तन्ते ॥ भङ्ग्यन्तरेणाह ॥ निष्कूजस्तिमिता इति ॥ १६ ॥ निष्कूजाः निर्गतकूजिताश्च ता स्तिमिताः निश्चलाः । 'कूजितं कूजनंकूजः' इति द्विरूपः । भोगाः फणास्तया श्वासैः श्वसितानिलैः । प्रकर्षेण दीप्ताः अग्नयः दवदवयः यासु । सीमान इति नान्त-शब्द । 'सीमसीमे स्त्रियामुभे' इत्यमरः । अत्र बह्व्यो भ्रमन्ति । प्रदरः अवटा । विरलानि अनिविडानि स्वच्छाम्भांसि यासु ता । सीमानु तृप्यद्भिः तृषावद्भिः । प्रतिसूर्य कैः । 'सरटाविशेषे प्रतिसूर्यक' इत्यगस्त्यः । अजगरसौ 'निर्लिप्तुः स्यादजगरः' इत्यमरः । गजाबळा (?) महासर्पो अजगर इति महाराष्ट्राः ॥ १६ ॥ पश्यामि च जनस्थानं इति ॥ १७ ॥ पूर्वं भूत भूतपूर्वः । भूतपूर्वखरा- लयमिति जनस्थानविशेषणम् । 'निलयालया.' इत्यमरोक्त्या निलयपुल्लिङ्गत्वेऽपि १ 'रक्षसां भीमकर्मणाम्' क-प-व. २ 'सिद्धिक्षेत्रे' प. ३ 'भीरूजनानाम्' घ-व. ४ 'उत्ताप्तप्रन्धिकटगिरे०' न. ५ 'पोर' क-च; 'पोर' व.

४६ उत्तररामचरितं [ २-२३ रामः—(सबाष्पस्तम्भम् ।) भद्र शिवास्ते पन्थानो देवयानाः। प्रलीयस्व पुण्येष्वो लोकेभ्यः । शम्बूकः—यावत्पुराणब्रह्मवादिनामगस्त्यमृषिमभिवाद्य शाश्वतं पदमनु- प्रविशामि । ( इति निष्क्रान्तः ।) रामः—ऐतत्पुनर्वनमहो कथमद्य दृष्टं यस्मिन्नभूम चिरमेव पुरा वसन्तः । आरण्यकाश्च गृहिणश्च रताः स्वधर्मे सांसारिकेषु च सुखेषु वयं रसज्ञाः ॥ २२ ॥ एते त एव गिरयो विरवन्मयूरा- स्तान्येव मत्तहरिणानि वनस्थलानि । आमञ्जुगुञ्जलुलितानि च तान्यमूनि नीरन्ध्रनीरनिचुलानि सरित्तटानि ॥ २३ ॥ गळहितररुध्वनय इत्यर्थः । 'अम्बूकृतं सनिष्ठीवम्' इत्यमरः । 'स्त्यान- मभिवृद्धं' इति रत्नकोशः । दधति बिभ्रति । शिशिरस्सन् .कटुकषायी कषाय इति विदेह । शिशिर शीतल । कटु मरीच्यादिसजातीयः । कषाय तुवर । सल्लकीनां गजभक्ष्यवृक्षविशेषाणाम् । विक्षीर्णाः । पतिताः ये ग्रन्थयः पर्वाणि । 'काण्डी'इति महाराष्ट्राः । तेषा ग्रन्थीना निष्पन्दस्य गन्धः 'सल्ली निर्यासो' इति शब्दार्थचः । स्त्यायते अभिवर्धते, 'उपची- यत' इति माठरः । अत्र चतुर्थचरणे विशेषणविशेष्ययोरभिस्पदम्वं मध्य- गम् । 'व्यस्तं विशेषणं चाह' इति न्यायात् ॥ २१ ॥ बाष्पस्तम्भेन खेदवशात् प्रतिवाक्याभावेन सहित यथा तथा शम्बूरमाह—भद्रेति—ते तुभ्यम् । देवाना यानं सचार येषु । 'तृप्ता यात पथिभिर्देवयानै' इति श्रुते । याव- दनुप्रविशामि प्रवेक्ष्यामीत्यर्थ ॥ एतत्पुनर्वनमिति ॥ २२ ॥ दृष्टं अस्माभिरिति शेष । पुरा पूर्वम् । वयं वसन्तः निवसन्तः अभूम स्थिता इति यावत् स्वधर्मे रताः आरण्यकाः । सासारिकेषु सुखेषु रसज्ञा गृहिणश्चेति विशेषणे योज्ये । चद्वय पादपूरणे ॥ २२ ॥ एते त एवेति ॥ ॥ २३ ॥ विरवन्तः नदन्त मयूरा येषु । आ समन्ताद् । मन्द्राणि मञ्जुलानि रुतानि येषु । नीरन्ध्रनीराणि निबिडजलान्येवं निचूलाः विधा- १ 'देवयान प्रतिपद्यस्व' क-घ-ब. २ 'महर्षिमगस्त्यमभिवाद्य' न. ३ 'तदेव हि पुनर्वनमद्य' क-घ-ब. ४ 'बहुलरुतानि' भ. ५ 'नील' क-च-घ, 'नीप' भ.