वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
| १३२ | श्रीमद्वैपायनमुनिप्रणीतम्— | [अ० ४३ श्लो० ६-३२] |
|---|---|---|
| (भुवनविन्यासः) |
भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसाः । भद्रं सालवनं तत्र कालाग्नाश्च महाद्रुमाः ॥ ६
तत्र ते पुरुषाः श्वेता महासत्त्वा महाबलाः । स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः ॥ ७
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः । चन्द्रशीतलगात्र्यश्च स्त्रियोञ्चोत्पलगन्धिकाः ॥ ८
दश वर्षसहस्राणि तेषामायुर्निरामयम् । कालाग्राम्रस्य रसं पीत्वा सर्वदा स्थिरयौवनाः ॥ ९
ऋषय ऊचुः—
प्रमाणं वर्णमायुश्च याथातथ्येन कीर्तितम् । चतुर्णांपि द्वीपानां समासान्न तु विस्तरात् ॥ १०
सूत उवाच—
भद्राश्वानां तथा चिह्नं कीर्तितं कीर्तिवर्धनः । तच्छृणुध्वं तु कात्स्न्र्येन पूर्वसिद्धैरुदाहृतम् ॥ ११
देवकूटस्य सर्वस्य प्रथितस्येह यत्परम् । पूर्वेण दिक्षु सर्वासु यथावच्च प्रकीर्तितम् ॥ १२
कुलाचलानां पञ्चानां नदीनां च विशेषतः । तथा जनपदानां च यथादृष्टं यथाश्रुतम् ॥ १३
शैवालो वर्णमालाग्रः कोरञ्जश्चाचलोत्तमः । श्वेतवर्णश्च नलिश्च पञ्चैते कुलपर्वताः ॥ १४
तेषां प्रसूरितन्येऽपि पर्वता बहुविस्तराः । कोटिकोटिः क्षितौ ज्ञेयाः शतशोऽथ सहस्रशः ॥ १५
तैर्विमिश्रा जनपदर्नानासत्त्वसमाकुलाः । नानाप्रकारजातीयास्त्वनेकनृपपालिताः ॥ १६
नामधेयैश्च विक्रान्तैः श्रीमद्भिः पुरुषर्षभैः । अध्यासिता जनपदाः कीर्तनीयाश्च शोभिताः ॥ १७
तेषां तु नामधेयानि राष्ट्राणि विविधानि च । गिर्यन्तरनिविष्टानि समेषु विषमेषु च ॥ १८
तथा सुमङ्गलाः शुद्धाश्चन्द्रकान्ताः सुनन्दनाः । व्रजका नलिमौलायाः सौवीरा विजयस्थलाः ॥ १९
महास्थलाः सुकामाश्च महाकेशाः सुधूर्धजाः । वातरंहाः सोपसङ्गाः परिवायाः पराचकाः ॥ २०
संभवक्त्रा महानेत्राः सैवालास्तनपास्तथा । कुमुदाः शाकमुण्डाश्च उरःसंकीर्णभौमकाः ॥ २१
सोदका वत्सकाश्चैव वाराहा हारवामकाः । शङ्खाख्या भाविचन्द्राश्च उत्तरा हेमभौमकाः ॥ २२
कृष्णभौमाः सुभौमाश्च महाभौमाश्च कीर्तिताः । एते चान्ये च विख्याता नानाजनपदा मया ॥ २३
ते पिबन्ति महापुण्यां महागङ्गां महानदीम् । आदौ त्रैलोक्यविख्याता शीता शीताम्बुवाहिनी ॥ २४
तथा च हंसवसतिर्महाचक्रा च निम्नगा । चक्रा वक्त्रा च काञ्ची च सुरसा चापगोत्तमा ॥ २५
शाखावती चन्द्रनदी मेघा मङ्कारवाहिनी । कावेरी हरितोया च सोमावर्ता शतह्रदा ॥ २६
वनमाला वसुमती पम्पा पम्पावती शुभा । सुवर्णा पञ्चवर्णा च तथा पुण्या वपुष्मती ॥ २७
माणिवा सुप्रा च ब्रह्मभागा शिलाशिनी । कृष्णतोया च पुण्योदा तथा नागपदी शुभा ॥ २८
शैवालिनी मणितटा क्षारोदा चारुणावती । तथा विष्णुपदी चैव महापुण्या महानदी ॥ २९
हिरण्यवाहिनीला च स्कन्दमाला सुरावती । वामोदा च पताका च वेताली च महानदी ॥ ३०
एता गङ्गा महानद्यो नायिकाः परिकीर्तिताः । क्षुद्रनद्यस्त्वसंख्याताः शतशोऽथ सहस्रशः ॥ ३१
पूर्वद्वीपस्यः वाहिन्यः पुण्यवत्यश्च कीर्तिताः । कीर्तनेनापि चैतासां पूतः स्यादिति मे मतिः ॥ ३२
संभाषणं दर्शनं च समस्थानोपसेवनम् । देवैः सह महाभागाः कुर्वते तत्र वै प्रजाः ॥ ३६
[अ० ४३-४४ श्लो० ३३-३८।१-१४] वायुपुराणम् १३३
( भुवनविन्यासः ) समुद्धराष्ट्रं स्फीतं च नानाजनपदाकुलम् । नानावृक्षवनोद्देशं नानानगरसुवेष्टितम् ॥ ३३ नरनारीगणाकीर्णं नित्यं प्रमुदितं शिवम् । बहुधान्यवनोपेतं नानानृपतिपालितम् ॥ ३४ उपेतं कीर्तनशतैर्नानारत्नाकराकरम् ॥ ३५ तस्मिन्देशे समाख्याता हेमशङ्खदलप्रभाः । महाकाया महावीर्याः पुरुषाः पुरुषर्षभाः ॥ संभाषणं दर्शनं च समस्थानोपसेवनम् । देवैः सह महाभागाः कुर्वते तत्र वै प्रजाः ॥ ३६ दश वर्षसहस्राणि तेषामायुः प्रकीर्तितम् । धर्माधर्मविशेषश्च न तेष्वस्ति महात्मसु ॥ अहिंसा सत्यवाक्यं च प्रकृत्यैव हि वर्तते ॥ ३७ ते भक्त्या शंकरं देवं गौरीं परमवैष्णवीम् । इज्यापूजानमस्कारैस्ताभ्यां नित्यं प्रयुञ्जते ॥ ३८
इति महापुराणे वायुप्रोक्ते भुवनविन्यासो नाम त्रिचत्वारिंशोऽध्यायः ।
आदितः श्लोकानां समष्ट्यङ्काः---३२२३
अथ चतुश्चत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच-- निसर्ग एष विख्यातो भद्राश्वानां यथार्थवत् । शृणुध्वं केतुमालानां विस्तरेण प्रकीर्तनम् ॥ १ निषधस्याचलेन्द्रस्य पश्चिमस्य महात्मनः । पश्चिमेन हि यत्तत्र दिक्षु सर्वासु कीर्तितम् ॥ २ कुलाचलानां सपानां नदीनां च विशेषतः । तथा जनपदानां च विस्तरं श्रोतुमर्हथ ॥ ३ विशालः कम्बलः कृष्णो जयन्तो हरिपर्वतः । *अशोको वर्धमानश्च सप्तैते कुलपर्वताः ॥ ४ तेषां प्रसूतिरन्येऽपि पर्वता बहुविस्तराः । कोटिकोटिशता ज्ञेयाः शतशोऽथ सहस्रशः ॥ ५ तैर्विमिश्रा जनपदा नानाजातिसमाकुलाः । नानाप्रकारविज्ञेयास्त्वनेकनृपपालिताः ॥ ६ ते नामधेयैर्विश्रान्ता विविधाः प्रथिता भुवि । अध्यासिता जनपदैः कीर्तनैश्च विभूषिताः ॥ ७ [+ तेषां सनामधेयानि राष्ट्राणि विविधानि च । गिर्यन्तरनिविष्टानि समेषु विषमेषु च ॥ ८ यथेह कथिताः पौरा गोमनुष्यकपोतकाः ] । तत्सुखा भ्रमरा यूथा माहेयाचलकूटकाः ॥ ९ सुमोलाः स्तावकाः कौञ्चाः कृष्णाङ्गमणिपुञ्जकाः । कूटकम्बलमौपीयाः समुद्रान्तरकास्तथा ॥ १० करम्भवाः कुचाः श्वेताः सुवर्णकटकाः शुभाः । श्वेताङ्गाः कृष्णपादाश्च विहाः कपिलकर्णिकाः ॥ ११ अत्याकरालगोज्वाला र्हानीनां वनपातकाः । महिवाः कुमुदाभाश्च करवाटाः सहोत्कचाः ॥ १२ शुनकासा महानासा वनासगजभूमिकाः । करञ्जमञ्जमा वाहाः किष्किण्डीपाण्डुभूमिकाः ॥ १३ कुबेरा धूमजा जङ्गा वङ्गा राजीवकोकिलाः । वाचाङ्गाश्च महाङ्गाश्च मधौरेयाः सुरेचकाः ॥ १४
* इदमर्धं नास्ति ग. पुस्तके । + धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
१३४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०४४-४५श्लो०१५-२५ १-१०] ( भुवनविन्यासः )
पित्तलाः काचलाश्चैव श्रवणा मत्तकासिकाः। गोदात्रा वकुला वाङ्गा वङ्गकामोदकाः कलाः॥१५ ते पिबन्ति महाभागाः प्रथमां तु महानदीम् । सुवपां पुण्यसलिलां महानागनिषेविताम् ॥१६ कम्बलां तामसीं श्यामां सुमेधां बकुलां नदीम् । विकीर्णां शिखिमालां च तथा दर्भावतीमपि ॥ १७ मदानदीं शुकनदीं पलाश नदीं च महानदीम् । भीमां प्रभञ्जनां कार्त्री पुण्यां चैव कुशावतीम् ॥ १८ दक्षां शाकवतीं चैव पुण्योदां च महानदीम् । (* चन्द्रावतीं सूमूलां च ऋषभां चाऽऽपगोत्तमाम् ॥ नदीं समुद्रमालां च तथा चम्पावतीमपि । एकाक्षां पुष्कलां वाहां सुवर्णी नन्दिनीमपि ॥ २० कालिन्दीं चैव पुण्योदां भारतीं च महानदीम् । सरितोदापातिकां ब्राह्मीं विशालां च महानदीम् ॥ पीवरीं कुम्भकारीं च रुषां चैवापगोत्तमाम् । महिषीं मानुषीं दण्डां तथा नदनदीं शुभाम् ॥ २२ एताश्चान्याश्च पीयन्ते बह्व्यो हि सरितोत्तमाः÷। देवर्षिसिद्धचरिताः पुण्योदाः पापहाः शुभाः॥२३ नानाजनपदास्फीतं महापगाविभूषितम् । नानारत्नौघसंपूर्णं नित्यं प्रमुदितं शिवम् ॥ २४ उदीर्णं धनधान्याढ्यैर्नरवासैः समन्ततः । संनिविष्टं महाद्वीपं पश्चिमं सुकृतात्मनाम् ॥ निसर्गः केतुमालानामेष वः परिकीर्तितः ॥ २५ इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥ आदितः श्लोकानां समष्ट्यङ्कः--३२३८
अथ पञ्चचत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
शांशपायन उवाच-- पूर्वापरौ समाख्यातौ द्वौ देशौ नस्त्वया प्रभो । उत्तराणां च वर्षाणां दक्षिणानां च सर्वशः ॥ आचक्ष्व नो यथातथ्यं ये च पर्वतवासिनः ॥ १
सूत उवाच-- दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु । वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ २ सर्वर्तुकामदाः सत्त्वा जरागन्धविवर्जिताः । शुक्लाभिजनसंपन्नाः सर्वे च प्रियदर्शनाः ॥ ३ तत्रापि सुमहादिव्यो न्यग्रोधो रोहिणो महान् । तस्य पीत्वा फलरसं पिबन्तो वर्तयन्त्युत ॥ ४ दश वर्षसहस्राणि शतानि दश पञ्च च । जीवन्ति ते महाभागाः सदा हृष्टा नरोत्तमाः ॥ ५ उत्तरेण तु श्वेतस्य शृङ्गसाह्वस्य दक्षिणे । वर्षं हिरण्वतं नाम यत्र हैरण्वती नदी ॥ ६ महाबलाः सुतेजस्का जायन्ते तत्र मानवाः । सर्वर्तुकामदाः सत्त्वा धनिनः प्रियदर्शनाः ॥ ७ एकादश सहस्राणि वर्षाणां तेऽमितौजसः । आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च ॥ ८ तस्मिन्वर्षे महावृक्षो लकुचः षड्रसाश्रयः । तस्य पीत्वा फलरसं तत्र जीवन्ति मानवाः ॥ ९ त्रीणि शृङ्गवतः शृङ्गाण्युच्छ्रितानि महान्ति च । एकं मणिमयं तेषामेकं चैव हिरण्मयम् ॥ सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥ १०
* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । ÷ आर्षोऽयं पाठः ॥
[अ०४५श्लो०११-४०] - वायुपुराणम् । - १३९
( भुवनविन्यासः )
उत्तरस्य समुद्रस्य समुद्रान्ते च दक्षिणे । कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम् ॥ ११ तत्र वृक्षा मधुफला नित्यं पुष्पफलोपगाः । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ १२ सर्वकामफलास्तत्र केचिद्वृक्षा मनोरमाः । गन्धवर्णरसोपेतं प्रक्षरन्ति मधूत्तमम् ॥ १३ अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः । ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ॥ १४ सर्वा मणिमयी भूमिः सूक्ष्माकाञ्चनवालुका । सर्वतः सुखसंस्पर्शा निष्पङ्का नीरुजा शुभा ॥ १५ देवलोकाच्च्युतास्तत्र जायन्ते मानवाः शुभाः । शुक्लाभिजनसंपन्नाः सर्वे च स्थिरयौवनाः ॥ १६ मिथुनानि प्रसूयन्ते स्त्रियश्चातिमनोहराः । से च तं क्षीरिणं वृक्षं पिबन्ति ह्यमृतोपमम् ॥ १७ मिथुनं जायते सद्यः समं चैव विवर्त्तते । समं शीलं च रूपं च म्रियन्ते चैव ते समम् ॥ १८ अन्योन्यमनुरक्ताश्च चक्रवाकसाधर्मिणः । अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ॥ १९ त्रयोदश सहस्राणि शतानि दश पञ्च च । जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः ॥ २० कुरूणामपि चैतेषां शृणुध्वं विस्तरेण तु । जारुधेः शैलराजस्याप्युत्तरेणोत्तरस्य हि ॥ दिक्षु सर्वासु यद्यत्र कीर्त्यमानं विबोधत ॥ २१ अनेककन्दरदरीगुहानिर्झरमण्डितौ । नैककुञ्जवनोपेतौ चित्रधातुविभूषितौ ॥ २२ अनेकधातुकीलौ सर्वधातुविभूषितौ । पुष्पमूलफलोपेतौ सिद्धचारणसेवितौ ॥ २३ द्वावपेतौ सुमहन्तावाच्छ्रितौ कुलपर्वतौ । ताभ्यां कूटशतैर्नैकैस्तद्दीपमुपसेवितम् ॥ २४ चन्द्रकान्तश्च शैलश्च सूर्यकान्तश्च सानुमान् । ययोर्मध्येन सा याता भद्रीसीमा महानदी ॥ २५ सहस्रशश्च नद्योऽन्याः प्रसन्नसुरसोदकाः । पर्यापोदाः कुरूणां हि स्नानपानावगाहनैः ॥ २६ तथाऽन्याः क्षीरवाहिन्यो महानद्यः सहस्रशः । मधुमैरेयवाहिन्यो घृतवाहिन्य एव च ॥ २७ दध्नः शतह्रदाश्चान्यास्ततः स्वाद्वन्नपर्वताः । अमृतस्वादुकल्पानि फलानि विविधानि च ॥ २८ गन्धवर्णरसाढ्यानि मूलानि च फलानि च । पञ्चयोजनमानानि महागन्धानि सर्वशः ॥ २९ नानावर्णप्रकाराणि पुष्पाणि च सहस्रशः । उपभोगसहस्राणि भद्राणि च महान्ति च ॥ ३० गन्धवर्णसारढ्यानि स्पर्शोपेतानि सर्वशः । तमालागुरुगन्धानां चन्दनानां वनानि च ॥ ३१ भ्रमरैरुपगीतानि प्रफुल्लानि सदैव च । वृक्षगुल्मलताढ्यानि वनानि सुखानि च ॥ ३२ षट्पदैरुपगीतानि द्विजैश्चान्यैर्द्विजोत्तमाः । पद्मोत्पलवनाढ्यानि सरांसि च सहस्रशः ॥ ३३ भक्ष्यमाल्यसमृद्धाश्च बहुमाल्यानुलेपनाः । मनोहरमुखैश्चित्रैः पक्षिसंघैर्निकूजिताः ॥ ३४ शयनासनोपभोगाश्च अनेकगुणविस्तराः । विहारभूमयो रम्याः सर्वर्तुषु सुखप्रदाः ॥ ३५ आक्रीडाः सर्वतः स्फीता मणिहेमपरिष्कृताः । शिलागृहा वृक्षगृहा वरेण्याः कदलीगृहाः ॥ ३६ लतागृहसहस्राणि सुखानि समन्ततः । शुद्धशङ्खदलाभानि भूमिवेश्मशतानि च ॥ ३७ तपनीयगवाक्षाणि मणिजालान्तराणि च । सुवर्णमणिचित्राणि सर्वत्र विपुलानि च ॥ ३८ महावृक्षसहस्राणि वरेण्यानि स सर्वशः । नानाकाराणि वासांसि सूक्ष्माणि सुखानि च ॥ ३९ मृदङ्गवेणुपणववीणाद्या बहुविस्तराः । फलन्ति कल्पवृक्षाणां सहस्राणि शतानि च ॥ ४०
१३६ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०४५श्लो०४१-६७] (भुवनविन्यासः)
सर्वत्रैव तथोद्यानं सर्वत्रैव हि तत्पुरम् । सर्वद्वीपप्रमुदितं नरनारीसमाकुलम् ॥ प्रवाति चानिलस्तत्र नानापुष्पाधिवासितः ॥ ४१ नित्यमङ्गसुखाल्हादस्तस्मिन्द्वीपे श्रमापहे । तत्र स्वर्गवरिभ्रष्टा जायन्ते हि नराः सदा ॥ भौमं तदपि हि स्वर्गं तत्रापि च गुणोत्तमम् ॥ ४२ चन्द्रकान्ता नरवराः श्यामाङ्गाः पूर्वकूलजाः । श्यामावदाताः सुखिनः सूर्यकान्ता वराः प्रजाः॥ ४३ तस्मिन्देशे नराः श्रेष्ठा देवसत्त्वपराक्रमाः । सदा विहारिणः सर्वे कामवृत्त्या सुवर्चसः॥ ४४ वलयाङ्गदकेयूरहारकुण्डलभूषिताः। स्रग्विणश्चित्रमुकुटाश्चित्राच्छादनवाससः ॥ ४५ अजीर्णयौवनधराः सुप्रियाः प्रियदर्शनाः । प्रजा वर्षसहस्राणि जीवन्ति सुबहून्युत ॥ ४६ न ताः प्रसवधर्मिण्यो न वंशप्रक्षयो विधिः । मिथुनं जायते वृक्षादुपक्षममनीदृशम् ॥ ४७ सामान्यविभवाः सर्वे ममत्वपरिवर्जिताः । न तत्र विद्यते धर्मो नाधर्मः संप्रवर्तते ॥ ४८ न व्याधिर्न जरा तत्र न दुर्मेधा न च क्लमः । पूर्णे काले विनश्यन्ति जलबुद्बुदवच्च ते ॥ ४९ एवमत्यन्तसुखिनः सर्वदुःखविवर्जिताः । रक्ता धर्मे न पश्यन्ति दुःखान्धर्मोऽभिजायते ॥ ५० उत्तराणां कुरूणां तु पार्थे ज्ञेयं तु दक्षिणे । समुद्रमूर्णिमालाढ्यं नानास्वरविभूषितम् ॥ ५१ पञ्चयोजनसाहस्रमतिक्रम्य सुरालयम् । चन्द्रद्वीपमिति ख्यातं चन्द्रमण्डलसंस्थितम् ॥ ५२ सहस्रयोजनानां तु सर्वतः परिमण्डलम् । नानापुष्पफलोपेतं समृद्ध्या परया युतम् ॥ शतयोजनविस्तीर्णमुच्छ्रितं तावदेव तु ॥ ५३ तस्य मध्ये गिरिवरः सिद्धचारणसेवितः । चन्द्रतुल्यप्रभैः कान्तश्चन्द्राकोरैः सुलक्षणैः ॥ ५४ श्वेतवैदूर्यकुमुदैश्चित्रोऽसौ कुमुदप्रभः । अनेकचित्रकोद्यानो नैकनिर्झरकन्दरः । महासानुदरीकुञ्जैर्र्विविधैः समलंकृतः ॥ ५५ तस्माच्छैलान्महापुण्या चन्द्रांशुविमलोदका । वहत्युत्तमन्दी चन्द्रावर्ती तरङ्गिणी ॥ ५६ तत्र चन्द्रमसः स्थानं नक्षत्राधिपतेर्वरम् । सदाऽवतरते तत्र चन्द्रमा ग्रहनायकः ॥ ५७ तत्र चन्द्रमसो नाम्ना शैलः स तु परिश्चुतः । चन्द्रद्वीपं महाद्वीपं प्रकाशं दिवि चेह च ॥ ५८ तत्र चन्द्रप्रतीकाशाः पूर्णचन्द्रनिभाननाः । चन्द्रकान्ताः प्रजाः सर्वा विमलाश्चन्द्रदैवताः ॥ ५९ अत्यन्तधार्मिकाः सौम्याः सत्यसंघाः सुतेजसः । प्रजास्तत्र सदाचारा दशवर्षशतायुषः ॥ ६० पश्चिमेन तु द्वीपस्य मश्चिमस्य प्रकीर्तितम् । चर्तुयोजनसाहस्रं समतीत्य महोदधिम् ॥ ६१ दशयोजनसाहस्रं समन्तात्परिमण्डलम् । द्वीपं भद्राकरं नाम नानापुष्पोपशोभितम् ॥ ६२ प्रभूतधनधान्याढ्यामनेकनृपपालितम् । नित्यं प्रमुदितं स्फीतं महाशैलैश्च शोभितम् ॥ ६३ तत्र भद्रासनं वायोर्नानारत्नैश्च मण्डितम् । तत्र विग्रहवान्वायुः सदा पर्वसु पूज्यते ॥ ६४ तपनीयसुवर्णाभास्तपनीयविभूषिताः । विराजन्तेऽमरप्रख्यास्तत्र चित्राम्बरस्रजः ॥ ६५ वीर्यवन्तो महाभागाः पञ्चवर्षशतायुषः । सत्यन्सन्धा मुदा युक्ताः प्रजास्ता वायुदैवताः ॥ ६६
सूत उवाच-- एवमेव निसर्गोऽयं वर्षाणां भारते युगे । दृष्टः परमतत्त्वज्ञैर्भूयः किं कीर्तयामि ते ॥ ६७
[अ० ४५ श्लो० ६८-९६] वायुपुराणम् । १३७ ( भुवनविन्यासः ) आख्याते त्वेवमृषयः सूतपुत्रेण धीमता । उत्तरश्रवणे भूयः पप्रच्छुस्तदनन्तरम् ॥ ६८ ऋषय ऊचुः— यदिदं भारतं वर्षं यस्मिन्स्वायंभुवादयः । चतुर्दशैते मनवः प्रजासर्गे भवन्त्युत ॥ ६९ एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम । एतच्छ्रुत्वा वचस्तेषामब्रवील्लोमहर्षणः ॥ ७० पौराणिकस्तदा सूत ऋषीणां भावितात्मनाम् । एतद्विस्तरतो भूयस्तानुवाच समाहितः ॥ ७१ सूत उवाच— निसर्ग एष विख्यातः कुरूणां तु यथार्थवत् । भारतस्य तु वक्ष्यामि निसर्गं तं निबोधत ॥ ७२ पुण्यतीर्थे हिमवतो दक्षिणस्यातलस्य हि । पूर्वपश्चायतस्यास्य दक्षिणेन द्विजोत्तमाः ॥ ७३ तथा जनपदानां च निस्तरं श्रोतुमर्हथ । अत्र वो वर्णयिष्यामि वर्षेऽस्मिन्भारते प्रजाः ॥ ७४ इदं तु मध्यमं चित्रं शुभाशुभफलोदयम् । उत्तरं यत्समुद्रस्य हिमवद्दक्षिणं च यत् ॥ ७५ वर्षं यद्भारतं नाम यत्रेयं भारती प्रजा । भरणाच्च प्रजानां वै मनुर्भरत उच्यते ॥ निरुक्तवचनाच्चैव वर्षं तद्भारतं स्मृतम् ॥ ७६ ततः स्वर्गश्च मोक्षश्च मध्यश्चान्तश्च गम्यते । न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ ७७ भारतस्यास्य वर्षस्य नव भेदाः प्रकीर्तिताः । समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥ ७८ इन्द्रद्वीपः कसेरुश्च ताम्रपर्णी गभास्तिमान् । नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥ ७९ अयं तु नवमस्तेषां द्वीपांः सागरसंवृतः । योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरम् ॥ ८० आयतो ह्याकुमारिक्याद्गाङ्गाप्रभवाच्च वै । तिर्यगुत्तरविस्तीर्णाः सहस्राणि नवैव तु ॥ ८१ द्वीपो ह्युपानिविष्टोऽयं म्लेच्छैरन्तेषु नित्यशः । पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः ॥ ८२ ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुद्धवणिज्याभिर्वर्तयन्तो व्यवस्थितः ॥ ८३ तेषां संव्यवहारोऽयं वर्तते तु परस्परम् । धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥ ८४ संकल्पपञ्चमानां तु आश्रमाणां यथाविधि । इह स्वर्गापवर्गार्थं प्रवृत्तिर्नैर्षु मानुषी ॥ ८५ यस्त्वयं नवमो दीपास्तिर्यगायत उच्यते । कृत्स्नं जयति यो ह्येनं स सम्राडिए कीर्त्यते ॥ ८६ अयं लोकस्तु वै सम्राडन्तरिक्षा विराट्समृतः । स्वराडन्यः स्मृतो लोकः पुनर्वक्ष्यामि विस्तरम् ॥ ८७ सप्त चास्मिन्सपर्वाणो विश्रुताः कुलपर्वताः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ विंध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ ८८ तेषां सहस्रशश्चान्ये पर्वतास्तु समीपगाः । अभिजाताः सर्वगुणा विपुलाश्चित्रसानवः ॥ ८९ मन्दरः पर्वतश्रेष्ठो वैहारो दर्दुरस्तथा । कोलाहलः ससुदसो मैनाको वैद्युतस्तथा ॥ ९० पातंधमो नाम गिरिस्तथा पाण्डुरपर्वतः । गन्तुप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च ॥ ९१ पुष्पगिर्युज्जयन्तो च शैलौ रैवतकस्तथा । श्रीपर्वतश्च कारुश्च कूटशैलो गिरिस्तथा ॥ ९२ अन्ये तेभ्यः परिज्ञाता ह्रस्वाः स्वल्पोपजीविन । तैर्विमिश्रा जनपदा आर्यम्लेच्छाश्च नित्यशः ॥ ९३ पीयन्त यैरिमा नद्यो गङ्गा सिन्धुसरस्वती । शतद्रुश्चन्द्रभागा च यमुना सरयूस्तथा ॥ ९४ इरावती वितस्ता च विपाशा देविका कहूः । गोमती धूतपापा च बाहुदा च दृषद्वती ॥ ९५ कौशिकी च तृतीया तु निश्चीरा गण्डकी तथा । इक्षुर्लोहित इत्येता हिमवत्पादनिःसृताः ॥ ९६ १८
१३८ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०४५श्लो०९७–१२२]
( भुवनविन्यासः )
वेदस्मृतिर्वेदवती वृत्रघ्नी सिन्धुरेव च । वर्णाशा चन्दना चैव सतीरा महती तथा ॥ ९७ परा चर्मण्वती चैव विदिशा वेत्रवत्यपि । शिप्रा ह्यवन्ती च तथा पारियात्राश्रयाः स्मृताः ॥ ९८ शोणो महानदश्चैव नर्मदा सुमहाद्रुमा । मन्दाकिनी दशार्णा च चित्रकूटा तथैव च ॥ ९९ तमसा पिप्पला श्रोणी करतोया पिशाचिका । नीलोत्पला विपाशा च जम्बुला वालुवाहिनी ॥ १०० सितेरजा शुक्तिमती मक्रुणा त्रिदिवा क्रमात् । ऋक्षपादप्रसूताश्च नद्यो मणिनिभोदकाः ॥ १०१ तापी पयोष्णी निर्बन्ध्या मद्रा च निषधा नदी । वेन्वा वैतरणी चैव शितिबाहुः कुमुद्वती ॥ १०२ तोया चैव महागौरी दुर्गा चान्तःशिला तथा । विन्ध्यपादप्रसूताश्च नद्यः पुण्यजलाः शुभाः ॥ १०३ गोदावरी भीमरथी कृष्णा वैण्यथ वञ्जुला । तुङ्गभद्रा सुप्रयोगा कावेरी च तथाऽऽपगा ॥ दक्षिणापथनद्यस्तु सह्यपादाद्विनिःसृताः ॥ १०४ कृतमाला ताम्रपर्णी पुष्पजात्युत्पलावती । मलयाभिजातास्ता नद्यः सर्वाः शीतजलाः शुभाः ॥ १०५ त्रिसामा क्रतुकुल्या च इक्षुला त्रिदिवा च या । लाङ्गलीनी वंशधरा महेन्द्रतनयाः स्मृताः ॥ १०६ ऋषीका सुकुमारी च मन्दगा मन्दवाहिनी । कूपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ॥ १०७ सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः । विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः ॥ तासां नद्युपनद्योऽपि शतशोऽथ सहस्रशः । तास्त्विमे कुरुपञ्चालाः शाल्वाश्चैव सजाङ्गलाः ॥ शूरसेना भद्रकारा बोधाः शतपथेश्वरैः । वत्साः किसष्णाः कुल्याश्च कुन्तलाः काशिकोशलाः ॥ अर्थपाश्च तिलङ्गाश्च मगधाश्च वृकैः सह । मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्तिताः ॥ १११ (*सह्यस्य चोत्तरार्धे तु यत्र गोदावरी नदी । पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ ११२ [+तत्र गोवर्धनो नाम सुरराजेन निर्मितः) । रामाप्रियार्थं स्वर्गोऽयं वृक्षा ओषधयस्तथा ॥ ११३ भरद्वाजेन मुनिना तत्प्रियार्थेऽवतारिताः । अन्तःपुरवनोद्देशस्तेन जज्ञे मनोरमः ] ॥ ११४ बाह्लीका वाटधानाश्च आभीराः कालतोयकाः । अपरीताश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः ॥ ११५ गान्धारा यवनाश्चैव सिन्धुसौवीरभद्रकाः । शका हृदाः कुलिन्दाश्च परितो हारपूरिकाः ॥ ११६ रमता रद्धकटका केकया दशमानिकाः । क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥ ११७ काम्बोजा दरदाश्चैव बर्बराः प्रियलौकिकाः । पीनाश्चैव तुषाराश्च पह्नवा बाह्यतोदराः ॥ ११८ आत्रेयाश्च भरद्वाजाः प्रस्थलाश्च कसेरुकाः । लम्पाकाः स्तनपाश्चैव पीडिका जुहुडैः सह ॥ ११९ अपगाश्चालिमद्राश्च किरातानां च जातयः । तोमरा हंसमार्गाश्च काश्मीरास्तङ्गणास्तथा ॥ १२० चूलिकाश्चाहुकाश्चैव पूर्णदर्वास्तथैव च । एते देशा ह्युदीच्याश्च प्राच्यान्देशान्निबोधत ॥ १२१ अन्ध्रवाकाः सुजरका अन्तर्गिरिबहिर्गिराः । तथा प्रवड्गवङ्गेयामालदा मालवर्तिनः ॥ १२२
* धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
[अ०४५-४६श्लो०१२३-१३७।१-४] वायुपुराणम्। १३९
( भुवनविन्यासः )
ब्रह्मोत्तराः प्रविजया भार्गवा गेयमर्थकाः। प्राग्ज्योतिषाश्च मुण्डाश्च विदेहास्ताम्रलिप्तकाः ॥
माला मगधगोविन्दाः प्राच्यां जनपदाः स्मृताः ॥ १२३
अथापरे जनपदा दक्षिणापथवासिनः। पाण्ड्याश्च केरलाश्चैव चौल्याः कुल्यास्तथैव च ॥ १२४
सेतुका मूषिकाश्चैव कुमना वनवासिकाः। महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ॥ १२५
अ( आ )भीराः सहचैषीका आटव्याश्च वराश्च ये। पुलिन्दा विन्ध्यमूलीका वैदर्भा दण्डकै सह ॥
पौनिका मौनिकाश्चैव अस्मका भोगवर्धनाः। नैर्णिकाः कुन्तला अन्ध्रा उद्भिदा नलकालिकाः ॥
दाक्षिणात्याश्च वै देशा अपरांस्तान्निबोधत। सूर्पाकाराः कोलवना दुर्गाः कालीतकैः सह ॥ १२८
पुलेयाश्च सुरालाश्च रूपसास्तापसैः सह । तथा सुरसिताश्चैव सर्वे चैव परक्षराः ॥ १२९
नासिक्याद्याश्च ये चान्ये ये वै चान्तरनर्मदाः। भानुकच्छाः समाहेयाः सहसा शाश्वतैरपि ॥ १३०
कच्छीयाश्च सुराष्ट्राश्च आनर्त्ताश्चार्बुदैः सह। इत्येते संपरीताश्च शृणुध्वं विन्ध्यवासिनः ॥ १३१
मालवाश्च करूषाश्च रोकलाश्चोत्कलैः सह। उत्तमार्णा दशार्णाश्च भोजाः किष्किन्धकैः सह ॥
तोसलाः कोसलाश्र्वैव त्रैपुरा वैदिकास्तथा। तुमुरास्तुम्बुराश्चैव षट्सुरा निषधैः सह ॥ १३३
अनूपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः। एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः ॥ १३४
अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये। निगर्हरा हंसमार्गाः क्षुपणास्तङ्गणाः खसाः ॥ १३५
कुशप्रावरणाश्चैव हूणा दर्वाः सहूदकाः। त्रिगर्ता मालवाश्चैव किरातास्तामसैः सह ॥ १३६
चत्वारि भरते वर्षे युगानि कवयो विदुः। कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम् ॥
तेषां निसर्गं वक्ष्यामि उपरिष्टान्निबोधत ॥ १३७
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-- ३३८५
अथ षट्चत्वारिंशोऽध्यायः।
भुवनविन्यासः।
(*सूत उवाच--
एतच्छ्रुत्वा तु ऋषय उत्तरं पुनरेव ते। शुश्रूषवा मुदा युक्ताः पप्रच्छुर्लोमहर्षणम् ॥ १
ऋषय ऊचुः--
यच्च किंपुरुषं वर्षे हरिवर्षं तथैव च। आचक्ष्व नो यथा तत्त्वं कीर्तितं भारतं त्वया ॥ २
पृष्टस्त्विदं यथा विप्रैर्यथाप्रक्षं विशेषतः। उवाच मुनिनिर्दिष्टं पुराणं विहितं यथा ॥ ३
सूत उवाच--
शुश्रूषा यत्र वो विप्रास्तच्छृणुध्वं मुदा युताः। प्लक्षखण्डः किंपुरुषे सुमहान्नन्दनोपमः ॥ ४
*इदं नास्ति ग. घ. ङ. पुस्तकेषु।
१४० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०४६श्लो०५-३२] (भुवनविन्यासः)
दश वर्षसहस्राणि स्थितिः किंपुरुषे स्मृता। सुवर्णवर्णाश्च नरा स्त्रियश्चाप्सरसोपमाः ॥ ५ अनामया ह्यशोकाश्च सर्वे ते शुद्धमानसाः। जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः ॥ ६ वर्षे किंपुरुषे पुण्ये प्लक्षो मधुवहः शुभः। तस्य किंपुरुषाः सर्वे पिबन्ति रसमुत्तमम् ॥ ७ अतः परं किंपुरुषाद्धारिवर्षः प्रवक्ष्यते । महारजतसंकाशा जायन्ते तत्र मानवाः ॥ ८ देवलोकाच्च्युताः सर्वे देवरूपाश्च सर्वशः। हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम् ॥ ९ एकादश सहस्राणि वर्षाणां तु मुदा युताः । हरिवर्षे तु जीवन्ति सर्वे मुदितमानसाः ॥ न जरा बाधते तत्र जीर्यन्ति न च ते नराः ॥ १० मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् । न तत्र सूर्यस्तपति न च जीर्यन्ति मानवाः ॥ ११ चन्द्रसूर्यौ सनक्षत्रावप्रकाशाविलावृते । पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ॥ पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥ १२ जम्बूरसफलाहारा ह्यनिष्यन्दाः सुगन्धिनः । मनस्विनो भुक्तभोगाः सत्कर्मफलभागिनः ॥ १३ देवलोकाच्च्युताः सर्वे जायन्ते ह्यजरामराः । त्रयोदश सहस्राणि वर्षाणां ते नरोत्तमाः ॥ १४ आयुष्प्रमाणं जीवन्ति ये तु वर्षे त्विलावृते । मेरोः प्रतिदिशं ते तु नवसाहस्रविस्तृते ॥ १५ योजनानां सहस्राणि षड्विंशस्तस्य विस्तरः । चतुरस्रः समन्ताच्च शरावाकारसंस्थितः ॥ १६ मेरोस्तु पश्चिमे भागे नवसाहस्रसंमिते । चतुस्त्रिंशत्सहस्राणि गन्धमादनपर्वतः ॥ १७ उदग्दक्षिणतश्चैव आनीलनिषधायतः। चत्वारिंशत्सहस्राणि परिवृद्धो महीतलात् ॥ सहस्रमवगाढस्तु तावदेव तु विष्ठितः ॥ १८ पूर्वेण माल्यवाञ्छैलस्तत्प्रमाणः प्रकीर्तितः । दक्षिणेन तु नलिस्य निषधस्योत्तरेण तु ॥ १९ तेषां मध्ये महामेरुः सुप्रमाणः प्रकीर्तितः। सर्वेषामेव शैलानामवगाढो यथा भवेत् ॥ २० विस्तरस्तत्प्रमाणः स्याद्यायामे नियतः स्मृतः । वृत्तभावात्समुद्रस्य महीमण्डलभावनः ॥ २१ आयामाः परिहीयन्ते चतुरस्राः समस्ततः । अनावृत्ताश्चतुष्केण भिद्यन्ते मध्यभागतः ॥ २२ प्रभिन्नाञ्जनसंकाशा जम्बूरसवती नदी । मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण तु ॥ २३ सुदर्शनो नाम महाजम्बूवृक्षः सनातनः । नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ॥ २४ तस्य नाम्ना समाख्यातो जम्बूद्वीपे वनस्पतिः । योजनानां सहस्रं तु शतं चान्यन्महाद्रुमः ॥ उत्सेधो वृक्षराजस्य दिवं स्पृशति सर्वशः ॥ २५ अरत्नीनां शतान्वष्टावेकषष्ट्यधिकानि तु । फलप्रमाणं संख्यातमृषिभिस्तत्त्वदर्शिभिः ॥ २६ पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् । तस्या जम्बूवाः फलरसो नदीभूय प्रसर्पति ॥ २७ मेरुं प्रदक्षिणीकृत्य जम्बूवृक्षं विशत्यथः । ते पिबन्ति सदा हृष्टा जम्बूरसफलावृताः ॥ २८ जम्बूरसफलं पीत्वा न जरां प्राप्नुवन्ति ते । न क्रोधं न च रोगं तु न च मृत्युं तथाविधम् ॥ २९ तत्र जाम्बूनदं नाम कनकं देवभूषणम् । इन्द्रगोपकसंकाशं जायत भास्वरं तु तत् ॥ ३० सर्वेषां वर्षवृक्षाणां शुभः फलरसस्तु सः । स्कन्नं भवति तच्छुक्रं कनकं देवभूषणम् ॥ ३१ तषां मूत्रं पुरीषं च दिक्षु सर्वासु भागशः । ईश्वरानुग्रहाद्भूमिर्मृतांश्च ग्रसते तु तान् ॥ ३२
नवस्वेतेषु वर्षेषु यथाभागस्थितेषु वै । भूतान्यूषुर्विष्ठानि गतिमन्ति ध्रुवाणि च ॥ ३६
[अ० ४६-४७ श्लो० ३३-३७।१-१६] वायुपुराणम् १४१
( भुवनविन्यासः )
रक्षःपिशाचा यक्षाश्च सर्वे हैमवताः स्मृतः। हेमकूटे तु गन्धर्वा विज्ञेयाः साप्सरोगणाः ॥ ३३
सर्वे नागास्तु निषधे शेषवासुकितक्षकाः। महामेरौ त्रयस्त्रिंशद्भवन्ते यज्ञियाः सुराः ॥
नीले तु वैडूर्यमये सिद्धब्रह्मर्षयोऽमलाः ॥ ३४
दैत्यानां दानवानां च श्वेतपर्वत उच्यते । शृङ्गवान्पर्वतः श्रेष्ठः पितॄणां प्रतिसंचरः ॥ ३५
नवस्वेतेषु वर्षेषु यथाभागस्थितेषु वै । भूतान्यूषुर्विष्ठानि गतिमन्ति ध्रुवाणि च ॥ ३६
तेषां विवृद्धिर्बहुला दृश्यते देवमानुषी । न शक्या परिसंख्यातुं श्रद्धेयाऽनुबुभूषता ॥ ३७
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३४२२
अथ सप्तचत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच—
सव्ये हिमवतः पार्श्वे कैलासो नाम पर्वतः । तस्मिन्निवसति श्रीमान्कुबेरः सह रक्षसः ॥ १
अप्सरोगणसंयुक्तो मोदते ह्यलकाधिपः ॥ २
कैलासपादात्सम्भूतं पुण्यं शीतजलं शुभम् । मन्दं नाम्ना कुमुद्वन्तं शरदम्वुदसंनिभम् ॥ ३
तस्माद्दिव्या प्रभवति नदी मन्दाकिनी शुभा । दिव्यं च नन्दनं तत्र तस्यास्तीरे महद्वनम् ॥ ४
प्रागुत्तरेण कैलासाद्दिव्यसत्त्वौषधं गिरिम् । सुरधातुमयं चित्रं सुवर्णं पर्वतं प्रति ॥ ५
चन्द्रप्रभो नाम गिरिः स शुद्धो रत्नसंनिभः । तस्य पादे महद्दिव्यमच्छोदं नाम तत्सरः ॥ ६
तस्माद्दिव्या प्रभवति सच्छोदा नाम निम्नगा । तस्यास्तीरे महद्दिव्यं वनं चैत्ररथं स्मृतम् ॥ ७
तस्मिन्गिरौ निवसति मणिभद्रः सहानुगः । यक्षसेनापतिः क्रूरगुह्यकैः परिवारितः ॥ ८
पुण्या मन्दाकिनी चैव निम्नगाच्छोदिका तथा । महीमण्डलमध्येन प्रविष्टे ते महोदधिम् ॥ ९
कैलासाद्दक्षिणप्राच्यां शिवसत्त्वौषधिं गुरुम् । मनःशिलामयं दिव्यं पिशाचं पर्वतं प्रति ॥ १०
लोहितो हेमशृङ्गस्तु गिरिः सूर्यप्रभो महान् । तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः ॥ ११
तस्मात्पुण्यः प्रभवति लौहित्यः सदनो महान् । देवारण्यं विशोकं च तस्य तीरे महावनम् ॥ १२
तस्मिन्गिरौ निवसति यक्षो मणिवरो वशी । सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः ॥ १३
कैलासाद्दक्षिणे पार्श्वे क्रूरसत्त्वौषधं गिरिम् । वृत्रकायात्किलोत्पन्नमञ्जनं त्रिककुं प्रति ॥
सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः । तस्य पादे सरः पुण्यं मानसं सिद्धसेवितम् ॥ १४
तस्मात्प्रभवते पुण्या सरयूर्लोकभावनी । तस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम् ॥ १५
कुबेरानुचरस्तत्र प्रहेतुतनयो वशी । ब्रह्मपातो निवसति राक्षसोऽनन्तविक्रमः ॥
अन्तरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः ॥ १६
१४२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०४७श्लो०१७–४५] ( भुवनविन्यासः )
अपरेण तु कैलासान्मुख्यसत्त्वौषधिं गिरिम् । अरुणं पर्वतश्रेष्ठं रुक्मधातुमयं प्रति ॥ १७
भवस्य दयितः श्रीमान्पर्वतो मेघसंनिभः । शातकुम्भमयैः शुभ्रैः शिलाजालैः समावृतः ॥ १८
शतसंख्यैस्तापनीयैः शृङ्गैर्र्दिवमिवोल्लिखन् । सञ्जवान्स महादिव्यो दुर्गशैलो हिमाचितः ॥ १९
तस्मिन्गिरौ निवसति गिरिशो धूम्रलोहितः । तस्य पादात्प्रभवति शैलोदं नाम तत्सरः ॥ २०
तस्मात्प्रभवते दिव्या शैलोदा नाम निम्नगा । सा चक्षुःशीतयोर्मध्ये प्रविष्टा लवणोदधिम् ॥ २१
तस्यास्तीरे वनं दिव्यं विश्रुतं सुरभीति वै । अस्त्युरेण कैलासाच्छिवसत्त्वौषधो गिरिः ॥ २२
गौरो नाम गिरिस्तत्र हरितालमयः शुभः । हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥ २३
तस्य पादे महद्दिव्यं शुभं काञ्चनवालुकम् । रम्यं बिन्दुसरो नाम यत्र यातो भगीरथः ॥ २४
गङ्गानिमित्तं राजर्षिरुवास बहुलाः समाः । दिवं यास्यन्ति मे पूर्वे गङ्गातोयपरिप्लुताः ॥ २५
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता । सोमपादमसूता सा सप्तधा प्रतिपद्यते ॥ २६
यूपा मणिमयास्तत्र चितयश्च हिरण्मयाः । तत्रेष्ट्वा तु गतः शर्वं शक्रः सर्वैः सुरैः सह ॥ २७
दिवि च्छायापथो यस्तु अनुनक्षत्रमण्डलम् । दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा ॥ २८
अन्तरिक्षं दिवं चैव भावयन्ती भुवं गता । भवोत्तमाङ्गे पतिता संरुद्धा योगमायया ॥ २९
तस्या ये बिन्दवः केचित्क्रुद्धायाः पतिताः क्षितौ । कृतं बिन्दुसरस्तत्र ततो बिन्दुसरः स्मृतम् ॥ ३०
ततो निरुद्धा देवी सा भवेन स्मयता किल । चिन्तयामास मनसा शंकरक्षेपणं प्रति ॥ ३१
भित्त्वा विशामि पातालं स्रोतसाऽऽगृह्य शंकरम् । ज्ञात्वा तस्या अभिप्रायं क्रूरं देव्याश्चिकीर्षितम् ॥
तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम् । तस्या वलेपं तं बुद्ध्वा नद्याः क्रुद्धस्तु शंकरः ॥
निरुध्य तु शिरस्येनां वेगेन पतितां भुवि ॥ ३३
एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः । धमनीसंततं क्षीणं क्षुधापारिगतेन्द्रियम् ॥ ३४
अनेन तोषितंश्वाहं नद्यर्थं पूर्वमेव हि । बुद्ध्वाऽस्य वरदानं तु कोपं नियतवांस्तु सः ॥ ३५
ब्रह्मणो हि वचः श्रुत्वा प्रतिज्ञाधारणं प्रति । ततो विसर्जयामास संरुद्धां स्वेन तेजसा ।
नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः ॥ ३६
ततो विसर्ज्यमानायाः स्रोतस्तत्सप्ततां गतम् । त्रयः प्राचीमभिमुखं प्रतीचीं त्रय एव तु ॥ ३७
नद्याः स्रोतस्तु गङ्गायाः प्रत्यपद्यत सप्तधा । नलिनी ह्लादिनी चैव पावनी चैव प्राग्गता ॥ ३८
सीता चक्षुश्च सिन्धुश्च प्रतीचीं दिशमाश्रिताः । सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम् ॥ ३९
तस्माद्भागीरथी या सा प्रविष्टा लवणोदधिम् । सप्तैता भावयन्तहि हिमाह्वं वर्षमेव तु ॥ ४०
प्रसूताः सप्त नद्यस्ताः शुभा बिन्दुसरोद्भवाः । नानादेशान्भावयन्त्यो म्लेच्छप्रायांश्च सर्वशः ॥ ४१
उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः । सिरिन्धान्कुन्तलांश्चैवान्बर्बरान्यवसान्द्रुहान् ॥ ४२
रुषाणांश्च कुणिन्दांश्च अङ्गलौकवराय ये । कृत्वा द्विधा सिन्धुम॒रुं सीताऽगात्पश्चिमोदधिम् ॥ ४३
अथ चीनमरूंश्चैव तङ्गणान्सर्वमूलिकान् । सान्ध्रांस्तुषारांस्तम्पाकान्पह्ववान्दरदाञ्छकान् ॥
एताञ्जनपदांश्चक्षुः प्लावयन्ती गतोदधिम् ॥ ४४
दरदांश्च सकाश्मीरान्गान्धारान्वरपाण्डवान् । शिवपौरानिन्दहासांन्वदातींश्च विसर्जयान् ॥ ४५
[अ० ४७ श्लो० ४६-७३] वायुपुराणम्। १४३
(भुवनविन्यासः)
सैन्धवान्रन्ध्रकरकान्भ्रमराभीररोहकान्। शुनामुखांश्चोर्ध्वमनून्र्सिद्धचारणसेवितान् ॥ ४६ गन्धर्वान्किन्नरान्यरक्षांरक्षोविद्याधरोरगान्। कलापग्रामकांश्चैव पारदान्सगिणान्खसान् ॥ ४७ किरातांश्च पुलिन्दांश्च कुरून्समरतानपि। पञ्चालकाशिमात्स्यांश्च मगन्धाङ्गांस्तथैव च ॥ ४८ ब्रह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च। एताञ्जनपदानार्यान्गङ्गा भावयते शुभान् ॥ ४९ ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोदधिम्। ततश्चाऽऽह्लादिनी पुण्या प्राचीनाभिमुखी ययौ ॥ ५० प्लावयन्त्युपभोगांश्च निषादानां च जातयः। धीवरानृषिकांश्चैव तथा नीलमुखानपि ॥ ५१ केरलानुष्ट्रकर्णांश्च किरातानपि चैव हि। कालोदरान्विवर्णांश्च कुमारान्सुवर्णभूषितान् ॥ ५२ सा मण्डले समुद्रस्य तिरोभूताऽनुपूर्वतः। ततस्तु मावनी चैव प्राचीमेव दिशं गता ॥ ५३ अपथान्प्लावयन्तीह इन्द्रद्युम्नसरोऽपि च। तथा खरापथांश्चैव इन्द्रशङ्कुपथानपि ॥ ५४ मध्येनोद्यानमकरान्कुथप्रावरणान्ययौ। इन्द्रद्वीपसमुद्रे तु प्रविष्टा लवणोदधिम् ॥ ५५ ततश्च नलिनी चागात्प्राचीमाशां जवेन तु। तोमरान्प्लावयन्तीह हंसमार्गान्सहूहुकान् ॥ ५६ पूर्वान्देशांश्च सेवन्ती भित्त्वा सा बहुधा गिरीन्। कर्णप्रावरणांश्चैव प्राप्य चाश्वमुखानपि ॥ ५७ सिकतापर्वतमरून्गत्वा विद्याधरान्ययौ। नेमिमण्डलकोष्ठे तु प्रविष्टा सा महोदधिम् ॥ ५८ तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः। उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः ॥ ५९ वस्वोकसारातीरे तु वने सुरभिविश्रुते। हरिशृङ्गे तु वसति विद्वान्कौबेरको वशी ॥ ६० यज्ञोपेतः स सुमहानामिनौजाः सुविक्रमः। तत्राऽऽगस्त्यैः परिवृतो विद्वद्भिर्ब्रह्मराक्षसैः ॥ कुबेरानुचरा ह्येते चत्वारस्तत्समाः स्मृताः ॥ ६१ एवमेव तु विज्ञेया ऋद्धिः पर्वतवासिनाम्। परस्परेण द्विगुणा धर्मतः कामतोऽर्थतः ॥ ६२ हेमकूटस्य पृष्ठे तु सायनं नाम तत्सरः। मनस्विनी प्रभवति तस्माज्ज्योतिष्मती च सा ॥ ६३ अवगाह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ। सरो विष्णुपदं नाम निषधे पर्वतोत्तमे ॥ ६४ तस्माद्द्वयं प्रभवति गान्धर्वी नत्वली च यः। मेरोः पश्चात्प्रभवति ह्रदश्चन्द्रप्रभो महान् ॥ ६५ तत्र जाम्बूनदी पुण्या यस्यां जाम्बूनदं शुभम्। पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवन् ॥ ६६ पुण्डरीका पयोदा च तस्मान्नद्यौ पिनिर्गते। श्वेतात्प्रभवते पुण्यं सरस्तूत्तरमानसम् ॥ ६७ ज्योत्स्ना च मृगकान्ता च तस्माद्धे संबभूवतुः। मधुमत्सरः पुण्यं च पद्ममीनद्विजाकुलम् ॥ ६८ कल्पवृक्षसमाकीर्णं मधुवत्स्रवतः सुखम्। रुद्रकान्तामिति ख्यातं निर्मितं तद्द्रवेन तु ॥ ६९ अन्ये चाप्यत्र विख्याताः पद्ममीनद्विजाकुलाः। नाम्ना ह्रदा जया नाम द्वादशोदधिसंनिभाः ॥ ७० तेभ्यः शान्ती च माध्वी च द्वे नद्यौ संबभूवतुः। यानि किंपुरुषाद्यानि तेषु देवो न वर्षति ॥ ७१ उद्भिज्जान्युदकान्यत्र प्रवहन्ति सरिद्वराः। ऋषभो दुन्दुभिश्चैव धूम्रश्चैव महागिरिः ॥ ७२ पूर्वायता महाभागा निम्नगा लवणाम्भासि। चन्द्रकक्षस्तथा द्रोणो महानग्निः शिलोच्चयः ॥ उद्ग्याता उदीच्यान्ता अवगाढा महोदधिम् ॥ ७३
१४४ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०४७-४८श्लो०७४-८०-१-१२] ( भुवनविन्यासः )
सोमकश्च वराहश्च नारदश्चः महीधरः । प्रतीचीमायतास्ते वै प्रविष्टा लवणोदधिम् ॥ ७४
वको बलाहकश्चैव मैनाकश्चैव पर्वतः । आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति ॥
*चन्द्रमैनाकयोर्मध्ये विदिशं दक्षिणं प्रति ॥ ७५
तत्र संवर्तको नाम सोऽग्निः पिबति तज्जलम् । नाम्ना समुद्रपः श्रीमानौर्वः स वडवामुखः ॥
द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम् । महेन्द्रभयवित्रस्ताः पक्षच्छेदभयात्तदा ॥
यदेतद्दृश्यते चन्द्रे श्वेते कृष्णशशाकृति ॥ ७७
भारतस्य तु वर्षस्य भेदास्ते नव कीर्तिताः । इहोदितस्य दृश्यन्ते तथाऽन्येऽन्यत्र नोदिते ॥ ७८
उत्तरोत्तरमेतेषां वर्षमुद्दिश्य ते गुणैः । आरोग्यायुष्प्रमाणाभ्यां धर्मतः कामतोऽर्थतः ॥ ७९
समन्वितानि भूतानि गुणैरेतैस्तु भागतः । वसन्ति नानाजातीनि तेषु वर्षेषु तानि वै ॥
इत्येषाऽधारयत्सर्वं पृथिवी विश्वं जगत्स्थितौ ॥ ८०
इति महापुराणे वायुप्रोक्ते भुवनविन्यासो नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
आदितः श्लोकानां समष्ट्यङ्काः–३५०२
अथाष्टचत्वारिंशोऽध्यायः ।
भुवनविन्यासः ।
सूत उवाच–
दक्षिणेनापि वर्षस्य भारतस्य निबोधत । दशयोजनसाहस्रं समतीत्य महार्णवम् ॥ १
त्रीण्येव तु सहस्राणि योजनानां समायसम् । अतस्त्रिभागविस्तीर्णं नानापुष्पफलोदयम् ॥ २
विद्युत्वन्तं महाशैलं तत्रैकं कुलपर्वतम् । येन कूटतटैर्नैकैस्तव्द्वीपं समलंकृतम् ॥ ३
प्रसन्नस्वादुसलिलास्तत्र नद्यः सहस्रशः । वाप्यस्तस्य तु द्वीपस्य प्रवृत्ता विमलोदकाः ॥ ४
तस्य शैलस्य च्छिद्रेषु विस्तीर्णेष्वार्यतेषु च । अनेकेषु समृद्धानि नानाकाराणि सर्वशः ॥ ५
नरनारीसमाढ्यानि मुदितानि महान्ति च । तेषां तलप्रवेशानि सहस्राणि शतानि च ॥ ६
पुराणि संनिविष्टानि पर्वतान्तर्गतानि च । सुसंबद्धानि चान्योन्यमेकद्वाराणि तान्यथ ॥ ७
दीर्घश्मश्रुधरात्मानो नीला मेवसप्रभाः । जातमात्राः प्रजास्तत्र अशीतिपरमायुषः ॥ ८
शाखामृगसधर्माणः फलमूलांशिनस्तथा । गोधर्माणो ह्यनिर्दिष्टाः शौचाचारविवर्जिताः ॥ ९
तद्द्दीपं तादृशैः पूर्णं मनुजैः क्षुद्रमानुषैः । एवमेतेऽन्तरद्वीपा व्याख्याता आनुपूर्वशः ॥ १०
विशंत्रिंशच्च पश्चाशत्षष्ट्यशीतिः शतं तथा । सहस्रमपि चाप्युक्तं योजनानां समन्ततः ॥ ११
विस्तीर्णाश्चायताश्चैव नानासत्त्वसमाकुलाः । बर्हिणद्वीपपर्वाणि क्षुद्रद्वीपाः सहस्रशः ॥ १२
* इदमर्धं नास्ति घ. पुस्तके ।
[अ०४८श्लो०१३-४०] वायुराणम् । १४५ ( भुवनविन्यासः ) जम्बूद्वीपप्रदेशास्तु षडन्ये विविधाश्रयाः । अत्र द्वीपाः समाख्याता नानारत्नाकराः क्षितौ ॥ १३ अङ्गद्वीपं यमद्वीपं मलयद्वीपमेव च । *शङ्खद्वीपं कुशद्वीपं वराहद्वीपमेव च ॥ १४ अङ्गद्वीपं निबोध त्वं नानासत्त्वसमाकुलम् । नानाम्लेच्छगणाकीर्णं तद्दीपं बहुविस्तरम् ॥ १५ हेमविद्रुमपूर्णानां रत्नानामाकरं क्षितौ। नदीशैलवनैश्चित्रं संनिभं लवणाम्भसा ॥ १६ तत्र चक्रगिरिर्नाम नैकनिर्झरकन्दरः । तत्र सा तु दरी चास्य नानासत्त्वसमाश्रया ॥ १७ स मध्ये नागदेशस्य नैकदेशो महागिरिः । कोटिभ्यां नागानिलयं प्राप्तो नदनदीपतिम् ॥ १८ यमद्वीपमिति प्रोक्तं नानारत्नाकराचितम् । (÷तत्रापि द्युतिमान्नाम पर्वतो धातुमण्डितः ॥ १९ समुद्रगानां( णां ) प्रभवः प्रभवः काञ्चनस्य तु ॥ २० तथैव मलयद्वीपमेवमेव सुसंवृतम् ।) मणिरत्नाकरं स्फीतमाकरं कनकस्य च ॥ २१ आकरं चन्दनानां च समुद्राणां तथाऽऽकरम् । नानाम्लेच्छगणाकीर्णं नदीपर्वतमण्डितम् ॥ २२ तत्र श्रीमांस्तु मलयः पर्वतो रजताकरः । महामलय इत्येवं विख्यातो वरपर्वतः ॥ द्वितीयं मन्दरं नाम प्रथितं च सदा क्षितौ । +नानापुष्पफलोपेतं रम्यं देवर्षिसेवितम् ॥ २३ अगस्त्यभवनं तत्र देवासुरनमस्कृतम् ॥ २४ तथा काञ्चनपादस्य मलयस्यापरस्य हि । निकुञ्जस्तृणसोमाङ्गैराश्रमं पुण्यसेवितम् ॥ २५ नानापुष्पफलोपेतं स्वर्गादपि विशिष्यते । तत्रावतरते स्वर्गः सदा पर्वसु पर्वसु ॥ २६ तथा त्रिकूटनिलये नानाधातुविभूषिते । अनेकयोजनोत्सेधे चित्रसानुदरगृहे ॥ २७ तस्य कूटतटे रम्ये हेमप्राकारतोरणा । निर्यूहवलभी चित्रा हर्म्यप्रासादमालिनी ॥ २८ शतयोजनविस्तीर्णा त्रिंशदायामियोजना । नित्यप्रमुदिता स्फीता लङ्का नाम महापुरी ॥ सा कामरूपिणां स्थानं राक्षसानां महात्मनाम् । आवासो बलदृप्तानां तद्विद्यादेवविद्विषाम् ॥ २९ मानुषाणामसंबाधा ह्यगम्या सा महापुरी ॥ ३० तस्य द्वीपस्य वै पूर्वे तीरे नदनदीपतेः । गोकर्णनामधेयस्य शंकरस्याऽऽलयं महत् ॥ ३१ तथैकाराज्यं विज्ञेयं शङ्खद्वीपसमाश्रितम् । शतयोजनविस्तीर्णं नानाम्लेच्छगणालयम् ॥ ३२ तत्र शङ्खगिरिर्नाम धौतशङ्खदलप्रभः नानारत्नाकरः पुण्यः पुण्यकृद्भिर्निषेवितः ॥ ३३ शङ्खनागा महापुण्या यस्मात्प्रभवते नदी । यत्र शङ्खमुखो नाम नागराजः कृतालयः ॥ ३४ तथैव कुमुदद्वीपं नानापुष्पोपशोभितम् । नानाग्रामसमाकीर्णं नानारत्नाकरं शिवम् ॥ ३५ कुमुदा नाम महाभागा दुष्टचित्तनिबर्हणी । महादेवस्य भगिनी प्रभाभिस्ताभिरिज्यते ॥ ३६ तथा वराहद्वीपे च नानाम्लेच्छगणाकुले । नानाजातिसमाकीर्णे नानाधिष्ठानपत्तने ॥ ३७ धनधान्ययुते स्फीते धर्मिष्ठजनसंकुले । नदीशैलवनैश्चित्रैर्बहुपुष्पफलोपमैः ॥ ३८ वराहपर्वतो नाम तत्र रम्यः शिलोच्चयः । अनेककन्दरदरीगुहानिर्झरशोभितः ॥ ३९ तस्मात्सुरसपानीया पुण्यतीर्थतरङ्गिणी । वाराही नाग वरदा प्रवृत्ता स्म महानदी ॥ वाराहरूपिणे तत्र विष्णवे प्रभविष्णवे । अनन्यदेवतास्तस्मै नमस्कुर्वन्ति वै प्रजाः ॥ ४०
* इदमर्धं नास्ति ख. पुस्तके। ÷ धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + इदमर्धं नास्ति क. ख. ग. पुस्तकेषु ।
१९
एवमेकमिदं वर्षं बहुद्वीपमिहोच्यते । समुद्रजलसंभिन्नं खण्डं खण्डीकृतं स्मृतम् ॥ ४२
१४६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ४८-४९ श्लो० ४१-४३। १-१८] ( भुवनविन्यासः)
एवं षडेते कथिता अनुद्वीपाः समन्ततः । भारतद्वीपदेशो वै दक्षिणे बहुविस्तरः ॥ ४१ एवमेकमिदं वर्षं बहुद्वीपमिहोच्यते । समुद्रजलसंभिन्नं खण्डं खण्डीकृतं स्मृतम् ॥ ४२ एवं चतुर्महाद्वीपः सान्तरद्वीपमण्डितः । सानुद्वीपः समाख्यातो जम्बूद्वीपस्य विस्तरः ॥ ४३ इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३५४५ अथैकोनपञ्चाशत्तमोऽध्यायः । भुवनविन्यासः ।
सूत उवाच- प्लक्षद्वीपं प्रवक्ष्यामि यथावदिह संग्रहात् । शृणुतेमं यथातत्त्वं ब्रुवतो मे द्विजोत्तमाः ॥ १ जम्बूद्वीपस्य विस्ताराद्द्विगुणस्तस्य विस्तरः । विस्तारात्त्रिगुणश्चास्य परिणाहः समन्ततः ॥ तेनाऽऽवृतः समुद्रोऽयं द्वीपेन लवणोदकः ॥ २ तत्र पुण्या जनपदाश्चिराच्च म्रियते प्रजा । कुत एव हि दुर्भिक्षं जराव्याधिभयं कुतः ॥ ३ तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषणाः । रत्नाकरास्तथा नद्यस्तासां नामानि वक्ष्यते( च्म्यहम् ) प्लक्षद्वीपादिषु त्वेषु सप्त सप्तसु सप्तसुः । ऋज्वायताः परिदिशं निविष्टाः पर्वता सदा ॥ ५ प्लक्षद्वीपे तु वक्ष्यामि सप्तद्वीपामहाचलान् । गोमेदकोऽत्र प्रथमः पर्वतो मेघसंनिभः ॥ ख्यायते तस्य नाम्ना वै वर्षं गोमेदकं तु तत् ॥ ६ द्वितीयः पर्वतश्चन्द्रः सर्वौषधिसमन्वितः । अधिभ्याममृतस्यार्थे ओषध्यस्तत्र संस्थिताः ॥ ७ तृतीयो नारदो नाम दुर्गशैलो महोच्छ्रयः । तत्राचले समुत्पन्नौ पूर्वं नारदपर्वतौ ॥ ८ चतुर्थस्तत्र वै शैलो दुन्दुभिर्नाम नामतः । शब्दमृत्युः पुरा तस्मिन्दुन्दुभिस्ताडितः सुरैः ॥ रज्जुदारो रज्जुमयः शाल्मलग्र्थासुरान्तकृत् ॥ ९ पञ्चमः सोमको नाम देवैर्ह्यमृतं पुरा । संभृतं त्त हतं चैव मातुरर्थे गरुत्मता ॥ १० षष्ठस्तु सुमना नाम स एवर्षभ उच्यते । हिरण्याक्षो वराहेण तस्मिञ्छेले निषूदितः ॥ ११ वैभ्राजः सप्तमस्तत्र भ्राजिष्णुः स्फाटिको महान् । यस्माद्विभ्राजतेऽर्चिर्भिर्वैभ्राजस्तेन स स्मृतः १२ तेषां वर्षाणि वक्ष्यामि नामतस्तु यथाक्रमम् । गोमेदं प्रथमं वर्षं नाम्ना शान्तभयं स्मृतम् ॥ १३ चन्द्रस्य शिखरं नाम नारदस्य सुखोदयम् । आनन्दं दुन्दुभेर्वर्षं सोमकस्य शिवं स्मृतम् ॥ क्षेमकमृषभस्यापि वैभ्राजस्य ध्रुवं तथा ॥ १४ एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः । विहरन्ति रमन्ते च दृश्यमानास्तु तैः सह ॥ १५ तेषां नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः । नामतस्ताः प्रवक्ष्यामि सप्त गङ्गा महानदीः ॥ १६ (*अनुतप्ता सुतप्तैव निष्पापा मुदिता क्रतुः । अमृता सुकृता चैव सप्तैताः सरितां वराः ) ॥ १७ अभिगच्छन्ति ता नद्यस्ताभ्यश्चान्याः सहस्रशः । बहूदकाश्चौघवत्यो यतो वर्षति वासवः ॥ १८
* धनुश्चिह्नार्न्तर्गतग्रन्थः क. पुस्तके नास्ति ।
[अ० ४-श्लो० १९-४४] वायुपुराणम्। १४७
( भुवनविन्यासः )
ता पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते। शुभाः शान्तवहाश्चैव प्रमोदा ये च ते शिवाः ॥ १९
आनन्दाश्च ध्रुवाश्चैव क्षेमकाश्च शिवैः सह। वर्णाश्रमाचारयुक्ताः प्रजास्तेष्वथ सर्वशः ॥ २०
सर्वेष्वरोगाः सुबलाः प्रजास्त्वामयवर्जिताः। अधःसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी न च ॥ २१
न तत्रास्ति युगावस्था चतुर्युगकृता काचित्। त्रेतायुगसमः कालः सर्वदा तत्र वर्तते ॥ २२
प्लक्षद्वीपादिषु ज्ञेयः पञ्चस्वेतेषु सर्वशः। देशस्यानुविधानेन कालस्यानुविधाः स्मृताः ॥ २३
पञ्च वर्षसहस्राणि तेषु जीवन्ति मानवाः। सुरूपाश्च सुवेषाश्च अरोगा बलिनस्तथा ॥ २४
सुखमायुर्बलं रूपमारोग्यं धर्म एव च। प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपान्तकेषु च ॥ २५
प्लक्षद्वीपः पृथुः श्रीमान्सर्वतो धनधान्यवान्। दिव्योषाधिफलोपेतः सर्वौषधिवनस्पतिः ॥ २६
आवृतः पशुभिः सर्वैर्गामा(भ्या)रण्यैः सहस्रशः। जम्बूवृक्षेण संख्यातस्तस्य मध्ये द्विजोत्तमाः ॥
प्लक्षो नाम महावृक्षस्तस्य नाम्ना स उच्यते ॥ २७
स तत्र पूज्यते स्थाणुर्मध्ये जनपदस्य हि। स चापीक्षुरसोद्देशः प्लक्षद्वीपसमावृतः ॥ २८
प्लक्षद्वीपस्य चैवेह वैपुल्याद्विस्तरेण तु। इत्येष संनिवेशो वः प्लक्षद्वीपस्य कीर्तितः ॥ २९
आनुपूर्व्या समासेन शाल्मलं तं निबोधत ॥
ततस्तृतीयं द्वीपानां शाल्मलं द्वीपमुत्तमम्। शाल्मलेन समुद्रस्तु द्वीपेनेक्षुरसोदिकः ॥ ३०
प्लक्षद्वीपस्य विस्ताराद्विगुणेन समावृतः ॥ ३१
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः। रत्नाकरास्तथा नद्यस्तेषु वर्षेषु सप्तसु ॥ ३२
प्रथमः सूर्यसंकाशः कुमुदो नाम पर्वतः। सर्वधातुमयैः शृङ्गैः शिलाजालसमुद्गतैः ॥ ३३
द्वितीयः पर्वतस्तस्य उन्नतो नाम विश्रुतः। हरितालमयैः शृङ्गैर्द्दिवमावृत्य तिष्ठति ॥ ३४
तृतीयः पर्वतस्तस्य वलाहक इति श्रुतः। जात्यञ्जनमयैः शृङ्गैर्द्दिवमावृत्य तिष्ठति ॥ ३५
चतुर्थः पर्वतो द्रोणो यत्रौषध्यो महाबलाः। विशल्यकरणी चैव मृतसंजीवनी तथा ॥ ३६
कङ्कस्तु दशमस्तत्र पर्वतः सुमहोदयः। दिव्यपुष्पफलोपेतो वृक्षवृत्तित्समावृतः ॥ ३७
षष्ठस्तु पर्वतस्तत्र महिषो मेघसंनिभः। यस्मिन्सोऽग्निर्निवसति महिषो नाम वारिजः ॥
सप्तमः पर्वतस्तत्र ककुद्मन्नाम भाष्यते। तत्र रत्नान्यनेकानि स्वयं वर्षति वासवः ॥ ३८
प्रजापतिमुपादाय प्राजापत्ये विधिः स्वयम् ॥
इत्येते पर्वताः सप्त शाल्मले मणिभूषिताः। तेषां वर्षाणि वक्ष्यामि सप्तैव तु शुभानि वै ॥ ३९
कुमुदात्प्रथमं श्वेतमुन्नतस्य तु लोहितम् ॥
बलाहकस्य जीमूतं द्रोणस्य हरितं स्मृतम्। कङ्कस्य वैयुतं नाम महिषस्य तु मानसम् ॥ ४०
ककुदः सुप्रभं नाय सप्तैतानि तु सप्तधा। वर्षाणि पर्वताश्चैव नदीस्तेषु निबोधत ॥ ४१
पानतोया वितृष्णा च चन्द्रा शुक्ला विमोचनी। निवृत्तिः सप्तमी तासां प्रतिवर्षं तु ताः स्मृताः ॥
तासां समीपगाश्चान्याः शतशोऽथ सहस्रशः। अशक्याः परिसंख्यातुं श्रद्धेयास्तु बुभूषता ॥ ४३
इत्येष संनिवेशो वः शाल्मलस्यापि कीर्तितः। प्लक्षवृक्षेण संख्यातस्तस्य मध्ये महाद्रुमः ॥ ४४
शाल्मलिविपुलस्कन्धस्तस्य नाम्ना स उच्यते । शाल्मलिस्तु समुद्रेण सुरोदेन समन्ततः ॥
१४८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०४९श्लो०४५-७३] ( भुवनविन्यासः )
शाल्मलिविपुलस्कन्धस्तस्य नाम्ना स उच्यते । शाल्मलिस्तु समुद्रेण सुरोदेन समन्ततः ॥
विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ॥ ४५
उत्तरेषु तु धर्मज्ञा द्वीपेषु शृणुत प्रजाः । यथाश्रुतं यथान्यायं ब्रुवतो मे निबोधत ॥ ४६
कुशद्वीपं प्रवक्ष्यामि चतुर्थं तं समासतः । सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ॥ ४७
सप्तैव गिरयस्तत्र वर्ण्यमानान्निबोधत । शाल्मलस्य तु विस्ताराद्विगुणेन समन्ततः ॥ ४८
कुशद्वीपे तु विज्ञेयः पर्वतो विद्रुमोच्चयः । द्वीपस्य प्रथमस्तस्य द्वितीयो हेमपर्वतः ॥ ४९
तृतीयो द्युतिमान्नाम जीमूतसदृशो गिरिः । चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ॥ ५०
षष्ठो हरिगिरिर्नाम सप्तमो मन्दरः स्मृतः । मन्दा इति ह्यपां नाम मन्दरो धारणादपाम् ॥ ५१
तेषामन्तरविष्कम्भो द्विगुणः परिवारितः । उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥ ५२
तृतीयं स्वैरथाकारं चतुर्थं लवणं स्मृतम् । पञ्चमं धृतिमद्धर्षं षष्ठं वर्षं प्रभाकरम् ॥
सप्तमं कपिलं नाम सप्तैते वर्षपर्वताः ॥ ५३
एतेषु देवगन्धर्वाः प्रभासु जगदीश्वराः । विहरन्ति रमन्ते च दृश्यमानास्तु वर्षशः ॥ ५४
न तेषु दस्यवः सन्ति म्लेच्छजात्यस्तथैव च । गौरप्रायो जनः सर्वः क्रमाच्च म्रियते तथा ॥ ५५
तत्रापि नद्यः सप्तैव धुतपापाः शिवास्तथा । पवित्रा संततिश्चैव द्युतिगर्भा मही तथा ॥ ५६
अन्यास्ताभ्योऽपरिज्ञाताः शतशोऽथ सहस्रशः । अभिगच्छन्ति ताः सर्वा यतो वर्षति वासवः॥ ५७
घृतोदेन कुशद्वीपो बाह्यतः परिवारितः । विज्ञेयः स तु विस्तारात्कुशद्वीपसमेन तु ॥ ५८
इत्येष संनिवेशो वः कुशद्वीपस्य वर्णितः । क्रौञ्चद्वीपस्य विस्तारं वक्ष्याम्यहमतः परम् ॥ ५९
कुशद्वीपस्य विस्ताराद्विगुणः स तु वै स्मृतः । घृतोदकसमुद्रो वै क्रौञ्चद्वीपेन संवृतः ६०
तस्मिन्द्वीपे नगश्रेष्ठः क्रौञ्चस्तु प्रथमो गिरिः । क्रौञ्चात्परो वामनको वामनादन्धकारकः ॥ ६१
अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः । दिवावृतः परश्चापि द्विन्दो गिरिरुच्यतेः ॥ ६२
द्विविन्दात्परतश्चापि पुण्डरीको महागिरिः । पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः ॥ ६३
एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः । बहुवृक्षफलोपेता नाना वृक्षलतावृताः ॥ ६४
परस्परेण द्विगुणा विष्कम्भाद्वर्षपर्वताः । वर्षाणि तत्र वक्ष्यामि नामतस्तु निबोधत ॥ ६५
क्रौञ्चस्य कुशलो देशो वामनस्य मनोजुगः । मनोजुगात्परश्चोष्णस्तृतीयो देश उच्यते ॥ ६६
उष्णात्परः प्रावरकः प्रावरादन्धकारकः । अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ॥ ६७
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः । सिद्धचारणसंकीर्णो गौरप्रायो जवः स्मृतः ॥ ६८
तत्रापि नद्यः सप्तैव प्रतिवर्षं स्मृतः शुभाः । गौरी कुमुद्वती चैव संध्या रात्रिर्मनोजवा ॥
ख्यातिश्च पुण्डरीका च गङ्गा सप्तविधा स्मृता ॥ ६९
तासां समुद्रगाश्चान्या नद्यो यास्तु समीपगाः । अनुगच्छन्ति ताः सर्वा विपुलाः सुबहूदकाः । । ७०
क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु । आवृतः सर्वतः श्रीमान्क्रौञ्चद्वीपसमेन तु ॥ ७१
प्लक्षद्वीपादयो ह्येते समासेन प्रकीर्तिताः । तेषां निसर्गो द्वीपानामानुपूर्व्येण सर्वशः ॥ ७२
न शक्यं विस्तराद्वक्तुमपि वर्षशतैरपि । निसर्गोऽयं प्रजानां तु संहारो यश्च तासु वै ॥ ७३
[अ० ४९ श्लो० ७४-९९] वायुपुराणम् १४९
(भुवनविन्यासः)
अत ऊर्ध्वं प्रवक्ष्यामि शाकद्वीपस्य यो विधिः । शाकद्वीपस्य कृत्स्नस्य यथावदिह निश्चयात् ॥
शृणुध्वं वै यथातत्त्वं ब्रुवतो मे यथार्थवत् ॥ ७४
क्रौञ्चद्वीपस्य विस्ताराद्विगुणस्तस्य विस्तरः । परिवार्य समुद्रं स दधिमण्डोदकं स्थितः ॥ ७५
तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः । कुत एव तु दुर्भिक्षं जराव्याधिभयं कुतः ॥ ७६
तत्रापि पर्वताः शुभ्राः सप्तैव परिभूषिताः । रत्नाकरास्तथा नद्यस्तासां नामानि मे शृणु ॥ ७७
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते । प्रागायातः ससौवर्ण उदयो नाम पर्वतः ॥ ७८
तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्ति च यान्ति च । तस्यापरेण सुमहाञ्जलधारो महागिरिः ॥ ७९
तस्मान्नित्यमुपादत्ते वासवः परमं जलम् । ततो वर्षं प्रभवति वर्षाकाले मजास्विह ॥ ८०
तस्यापरे रैवतको यत्र नित्यं प्रतिष्ठितः । रेवती दिवि नक्षत्रं पितामहकृतो गिरिः ॥ ८१
तस्यापरेण सुमहाञ्श्यामो नाम महागिरिः । तस्माच्छ्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ॥ ८२
तस्यापरेण रजतो महानस्तो गिरिः स्मृतः । तस्यापरेणाऽऽम्बिकेयो दुर्गः शैलो हिमाचितः ॥ ८३
आम्बिकेयात्परो रम्यः सर्वौषधिसमन्वितः । स चैव केशरीत्युक्तो यतो वायुः प्रवायात ॥ ८४
शृणुध्वं नामतस्तानि यथावदनुपूर्वशः । उदयस्योदकं वर्षं जलदं नाम विश्रुतम् ॥ ८५
द्वितीयं जलधारस्य सुकुमारमिति स्मृतम् । रैवतस्य तु कौमारं श्यामस्य तु मणीचकम् ॥ ८६
अस्तस्यापि शुभं वर्षं विज्ञेयं कुसुमोत्तरम् । आम्बिकेयस्य मोदार्कं केसरेषु महाद्रुमम् ॥ ८७
द्वीपस्य परिमाणं च ह्रस्वदीर्घत्वमेव च । शाकद्वीपेन विख्याततस्य मध्ये वनस्पतिः ॥
शाको नाम महावृक्षस्तस्य पूजां प्रयञ्जते ॥ ८८
एतेन देवगन्धर्वाः सिद्धाश्च सह चारणैः । विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह ॥ ८९
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । तेषु नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः ॥
विद्धि नाम्नश्च (म्ना च) ताः सर्वा गङ्गास्ताः सप्तधा स्मृताः ॥ ९०
प्रथमा सुकुमारीति गङ्गा शिवजला तथा । अनुतप्ता च नाम्नैव नदी संपरिकीर्तिता ॥ ९१
कुमारी नामतः सिद्धा द्वितीया सा पुनः सती । नन्दा च पार्वती चैव तृतीया परिकीर्तिता ॥ ९२
शिवेतिका चतुर्थी स्यात्त्रिदिवा च पुनः स्मृता । इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः क्रतुः ॥ ९३
धेनुका च मृता चैव षष्ठी संपरिकीर्तिता । एताः सप्त महागङ्गाः प्रतिवर्षं शिवोदकाः ॥
भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम् ॥ ९४
अनुगच्छन्ति तास्त्वन्या नदीर्नद्यः सहस्रशः । बहूदकपरिस्रावा यतो वर्षति वासवः ॥ ९५
तासां तु नामधेयानि परिमाणं तथैव च । न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः ॥
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ॥ ९६
शांशपायन विस्तीर्णो द्वीपोऽसौ चक्रसंस्थितः । नदीजलैः प्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः ॥ ९७
सर्वधातुविचित्रैश्च मणिविद्रुमभूषितैः । पुरैश्च विविधाकारैः स्फीतैर्जनपदैरपि ॥ ९८
वृक्षैः पुष्पफलोपेतैः समन्ताद्धनधान्यवान् । क्षीरोदेन समुद्रेण सर्वतः परिवारितः ॥
शाकद्वीपस्तु विस्तारात्समेन तु समन्ततः ॥ ९९
१५० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०४९-श्लो०१००-१२८] (भुवनविन्यासः)
तस्मिञ्जनपदाः पुण्याः पर्वतान्तरिते शुभाः । वर्णाश्रमसमाकीर्णा देशास्ते सप्त वै स्मृताः॥ १०० न संकरश्च तेष्वस्ति वर्णाश्रमकृतः क्वचित् । धर्मस्य चाव्यभीचारादेकान्तसुखिताः प्रजाः ॥ १०१ न तेषु लोभो माया वा ईर्ष्याऽसूयाऽधृतिः कुतः । विपर्ययो न तेष्वस्ति एतत्स्वाभाविकं स्मृतम् ॥ करोत्पत्तिर्न तेष्वस्ति न दण्डो न च दण्डकाः । स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ॥ १०३ एतावदेव शक्यं वै तस्मिन्द्वीपे निवासिनाम् । पुष्करं सप्तमं द्वीपं प्रवक्ष्यामि निबोधत ॥ १०४ पुष्करेण तु द्वीपेन वृतः क्षीरोदको बहिः । शाकद्वीपस्य विस्ताराद्द्विगुणेन समन्ततः ॥ १०५ पुष्करे पर्वतः श्रीमानेक एव महाशिलः । चित्रैर्मणिमयैः शैलैः शिखरैस्तु समुच्छ्रितैः ॥ १०६ द्वीपस्य तस्य पूर्वार्धे चित्रसानुः स्थितो महान् । परिमण्डलसहस्राणि विस्तीर्णः पञ्चविंशतिः ॥ १०७ ऊर्ध्वं चैव चतुस्त्रिंशत्सहस्राणि समाचितः । द्वीपार्धस्य परिस्तोमः पर्वतो मानसोत्तमः ॥ १०८ स्थितो बेलासमीपे तु नवचन्द्र इवोदितः । योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ॥ १०९ तावदेव स विस्तीर्णः सर्वतः परिमण्डलः । स एवं द्वीपपक्षार्धे मानसः पृथिवीधरः ॥ ११० एक एव महासानुः संनिवेशद्विधा कृतः । स्वादूदकेनोदधिना सर्वतः परिवारितः ॥ १११ पुष्करद्वीपविस्ताराद्विस्तीर्णोऽसौ समन्ततः । तस्मिन्द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ॥ अभितो मानसस्याथ पर्वतस्यानुमण्डलौ ॥ ११२ महावीतं तु यद्वर्षं बाह्यतो मानसस्य तत् । तस्यैवाभ्यन्तरे यत्तु धातकीखण्डमुच्यते ॥ ११३ दश वर्षसहस्राणि तत्र जीवन्ति मानवाः । आरोग्यसुखभूयिष्ठा मानसीं सिद्धिमास्थिताः ॥ ११४ सममायुश्च रूपं च तस्मिन्वर्षद्वये स्थितम् । अधमोत्तमौ न तेष्वास्तां तुल्यास्ते रूपशीलतः ॥ ११५ न तत्र वञ्चको नेर्ष्या न स्तेया(यं) न भयं तथा । निग्रहो न च दण्डोऽस्ति न लोभो न परिग्रहः ॥ सत्यानृत्यं न तत्रास्ति धर्माधर्मौ तथैव च । वर्णाश्रमाणां वार्ता वा पाशुपाल्यं वणिक्क्रिया ॥ ११७ त्रयी विद्या दण्डनीतिः शुश्रूषा शल्यमेव च । वर्षद्वये सर्वमेतत्पुष्करस्य न विद्यते ॥ ११८ न तत्र नद्यो वर्षे च शीतोष्णं वा न विद्यते । उद्भिज्ञान्युदकान्यत्र गिरिमप्र(स्र)वणानि च ॥ ११९ उत्तराणां कुरूणां च तुल्यकालो जनः सदा । सर्वत्र सुसुखस्तत्र जरामृत्युविवर्जितः ॥ १२० इत्येष धातकीखण्डे महावीते तथैव च । आनुपूर्व्याद्विधिः कृत्स्नः पुष्करस्य प्रकीर्तितः ॥ १२१ स्वादूदकेनोदधिना पुष्करः परिवारितः । विस्तारान्मण्डलाच्चैव पुष्करस्य तथैव च ॥ १२२ एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृता । द्वीपस्यानन्तरो यस्तु समुद्रस्तत्समस्तु सः ॥ १२३ एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परात् । अपां चैव समुद्रेकात्समुद्रा इति संज्ञिताः ॥ १२४ ऋषयो निवसन्त्यस्मिन्प्रजा यस्माच्चतुर्विधाः । तस्माद्वर्षमिति प्रोक्तं प्रजानां सुखदं तु तत् ॥ १२५ ऋष इत्येव ऋषिणो वृषः शक्तिप्रबन्धने । रतिप्रबन्धनात्सिद्धं वर्षत्वं तेन तेषु तत् ॥ १२६ शुक्लपक्षे चन्द्रवृद्धौ समुद्रः पूर्यते सदा । पक्षीयमाणे बहुले क्षीयतेऽस्तमिते खगे ॥ १२७ • आपूय्र्यमाण उदधिः स्वत एवाभिपूय्र्यते । ततोऽपक्षीयमाणोऽपि स्वात्मनैवापकृष्यते ॥ १२८
[अ० ४९ श्लो० १२९-१५३] वायुपुराणम्। १५१
( भुवनविन्यासः ) उखास्थमग्निसंयोगाज्जलंमुद्रिच्यते यथा । तथा महोदधिगतं तोयमुद्रिच्यते ततः ॥ १२९ अन्यूना ह्यतिरिक्ताश्च वर्धन्त्यापो हसन्ति च । उदयास्तमितेश्वेन्दोः पक्षयोः शुक्लकृष्णयोः ॥ क्षयवृद्धिंरवमुदधेः सोमवृद्धिक्षयात्पुनः ॥ १३० दशोत्तराणि पञ्चैव अङ्गुलीनां शतानि तु । अपां वृद्धिः क्षयो दृष्टः समुद्राणां तु पर्वसु ॥ १३१ द्विरापत्वात्स्मृता द्वीपाः सर्वतश्चोदकावृताः । उदकस्याऽऽधानं यस्मात्तस्मादुधिरुच्यते ॥ अपर्वाणस्तु गिरयः पर्वाभिः पर्वताः स्मृताः । प्लक्षद्वीपे तु गोमेदः पर्वतस्तेन चोच्यते ॥ १३२ शाल्मलिः शाल्मलद्वीपे पूज्यते च महाद्रुमः । कुशद्वीपे कुशस्तम्बस्तस्य नाम्ना स उच्यते ॥ १३३ क्रौञ्चद्वीपे गिरिः क्रौञ्चो मध्ये जनपदस्य ह । शाकद्वीपे द्रुमः शाकस्तस्य नाम्ना स उच्यते ॥ १३४ न्यग्रोधः पुष्करद्वीपे तत्र तैः स नमस्कृतः । महादेवः पूज्यते तु ब्रह्मा त्रिभुवनेश्वरः ॥ १३५ तस्मिन्निवसति ब्रह्मा साध्यैः सार्धं प्रजापतिः । उपासते तत्र देवास्त्रयस्त्रिंशन्महर्षिभिः ॥ स तत्र पूज्यते चैव देवैर्देवोत्तमोत्तमः ॥ १३६ जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधानि च । द्वीपेषु तेषु सर्वेषु प्रजानां हि क्रमात्त्विह ॥ १३७ सर्वशो ब्रह्मचर्येण सत्येन च दमेन च । आरोग्यायुः प्रमाणाद्धि द्विगुणं च समन्ततः ॥ १३८ एतस्मिन्पुष्करद्वीपे यदुक्तं वर्षकद्वयम् । गोपायति प्रजास्तत्र स्वयं सज्जनमण्डिताः ॥ १३९ ईश्वरो दण्डमुद्यम्य ब्रह्मा त्रिभुवनेश्वरः । सविष्णुः सशिवो देवः स पिता स पितामहः ॥ १४० भोजनं चाप्रयत्नेन तत्र स्वयमुपस्थितम् । षड्रसं सुमहावीर्यं भुञ्जते च प्रजाः सदा ॥ १४१ परेण पुष्करस्याथ आवृत्त्यायः(यं) स्थितो महान् । स्वादूदकः समुद्रस्तु समन्तात्परिवेष्टितः ॥ १४२ परेण तस्य महती दृश्यते लोकसंस्थितिः । काञ्चनी द्विगुणा भूमिः सर्वा चैकशिलोपमा ॥ १४३ तस्मात्परेण शैलस्तु मर्यादान्ते तु मण्डलम् । प्रकाशाश्चाप्रकाशश्च लोकालोकः स उच्यते ॥ १४४ आलोकस्तस्य चार्वाक्तु निरालोकस्ततः परम् । योजनानां सहस्राणि दश तस्योच्च्छ्रयः स्मृतः ॥ १४५ तावांश्च विस्तस्तस्य पृथिव्यां कामगश्च सः । आलोके लोकशब्दस्तु निरालोके सलोकता ॥ लोकार्थं समतो लोको निरालोकस्तु बाह्यतः ॥ १४६ लोकविस्तारमात्रं तु आलोकः सर्वतो बहिः । परिच्छिन्नः समन्ताच्च उदकेनाऽऽवृतश्च सः ॥ निरालोकात्परश्चापि अण्डमावृत्य तिष्ठति ॥ १४७ अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी । भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा ॥ १४८ जनस्तपस्तथा सत्य एतावांलोकसंग्रहः । एतावानेव विज्ञेयो लोकान्तश्चैव तत्परः ॥ १४९ कुम्भस्थायी भवेद्याद्वक्प्रतीच्यां दिशि चन्द्रमाः । आदितः शुक्लपक्षस्य वपुरण्डस्य तद्विधम् ॥ १५० अण्डानामहिशानां तु कोट्यो ज्ञेयाः सहस्रशः । तिर्यगूर्ध्वमधस्ताच्च कारणस्याव्ययात्मनः ॥ कारणैः प्राकृतैस्तत्र ह्यावृतं प्रतिसप्तभिः ॥ १५१ दशाधिक्येन चान्योन्यं धारयन्ति परस्परम् । परस्परावृताः सर्वे उत्पन्नाश्च परस्परात् ॥ १५२ अण्डस्यास्य समन्तात्तु संनिविष्टो घनोदधिः । समन्ताद्येन तोयेन धार्यमाणः स तिष्ठति ॥ १५३