वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
| ४३४ | श्रीमद्वैपायनमुनिप्रणीतम्– | [अ० १०७ श्लो० ३७–५८] |
|---|
( गयामाहात्म्यम् )
वरं वरय धर्मज्ञे अस्मत्तो यदभीप्सितम् । विष्णुवादीनां वचः श्रुत्वा देवान्धर्मव्रताऽब्रवीत् ३७
भर्तृशापमशक्ताऽहं निवर्तयितुमोजसा । (* दत्तो मरीचिना शापो मह्यं स ह्यपगच्छतु ॥ ३८
धर्मव्रतावचः श्रुत्वा प्रोचुरेतां सुरा पुनः । धर्मव्रते धर्मपुत्रि शापोऽयं परमर्षिणा ॥ ३९
दत्तस्ते न निराकर्तुं शक्यो देवद्विजातिभिः । तस्मादन्यं वरं ब्रूहि यतो धर्मस्य संस्थितिः) ॥ ४०
भवेद्वै त्रिषु लोकेषु वेदोक्तस्य शुभव्रते । देवानां वचनं श्रुत्वा देवान्धर्मव्रताऽब्रवीत् ॥ ४१
भर्तुः शापान्मोचयितुं न शक्ताश्च यदाऽमराः । मह्यं वरं प्रयच्छध्वं एवंविधमनुत्तमम् ॥ ४२
शिलाऽहं हि भविष्यामि ब्रह्माण्डे पावनी शुभा । नदीनदसरस्तीर्थदेवादिभ्योऽतिपावनी ॥ ४३
ऋष्यादिभ्यो मुनिभ्यश्च मुख्यदेवेभ्य एव च । त्रैलोक्ये यानि लिङ्गानि व्यक्ताव्यक्तात्मकान्यपि ॥
तानि तिष्ठन्तु पद्देहे तीर्थरूपेण सर्वदा ॥ ४४
तीर्थान्यपि च सर्वाणि नक्षत्रप्रमुखास्तथा । तिष्ठन्तु देवाः सकला देव्यश्च मुनयस्तथा ॥ ४५
शिलास्थितेषु तीर्थेषु स्नात्वा कृत्वाऽथ तर्पणम् । श्राद्धं सपिण्डकं येषां ब्रह्मलोकं प्रयान्तु ते ॥ ४६
गदाधरो दृश्यतीर्थं सर्वतीर्थोत्तमोत्तमम् । मुक्तिर्भवेत्पितॄणां च बहूनां श्राद्धतः सदा ॥ ४७
जरायुजाण्डजा वाऽपि स्वेदजा वाऽपि चोद्भिदः । त्यक्त्वा देहं शिलायां ते यान्तु विष्णुस्वरूपताम्
यथार्चिते हरौ सर्वे यज्ञाः पूर्णा भवन्ति हि । तथा श्राद्धं तर्पणं च स्नानं चाक्षयमस्त्विह ॥ ४९
मम देहे सुरेशानां ये जपन्ति श्रुतादिकम् । अचिरेणापि ते सिद्धाः सिद्धिभाजो भवन्तु वै ॥ ५०
पितॄणां कुलसाहस्रमात्मना सहितं नरः । श्राद्धादिना समुद्धृत्य विष्णुलोकं नयेद्ध्रुवम् ॥ ५१
यावत्यो हि सरिच्छ्रेष्ठा गङ्गाद्याश्च ह्रदाः शुभाः । समुद्राद्याः सरोमुख्या मानसाद्याः सुरेश्वराः ॥
नृणां श्राद्धं विदधतो मुक्तये निवसन्तु मे ॥ ५२
+ शरीरेण सामायान्तु क्वचिच्चो यान्तु देवताः । एको विष्णुस्त्रिधामूर्तिर्यावत्संकीर्त्यते बुधैः ॥
तावच्छिलायां सर्वाणि तीर्थानि सह दैवतैः । सदा तिष्ठन्तु मुनयो गन्धर्वाणां गणाश्च ये ॥
यावत्तिष्ठति ब्रह्माण्डं तावत्तिष्ठतु वै शिला । मम देहेऽश्मरूपे च ये जपन्ति तपन्ति च ॥ ५५
× जुह्वत्यग्नौ च तेषां वै तदक्षय्योपतिष्ठताम् (?) । अक्षयं तु भवेच्छ्राद्धं जपहोमतपांसि च ॥
शिलापर्वतरूपेण मयि तिष्ठत सर्वदा ॥ ५६
पतिव्रतावचः श्रुत्वा देवाः प्रोचुः पतिव्रताम् । त्वया यत्प्रार्थितं सर्वं तद्भाविष्यत्यसंशयम् ॥ ५७
गयासुरस्य शिरसि भविष्यासि यदा स्थिरा । तदा पादादिरूपेण स्थास्यामस्त्वयि सुस्थिराः ॥
वरं शिलायै दत्त्वैवं तत्रैवान्तर्दधुः सुराः ॥ ५८
इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम सप्ताधिकशततमोऽध्यायः ॥ १०७॥
आदितः श्लोकानां समष्ट्यङ्काः—१०६२६
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + इदमर्धं ख. पुस्तके नास्ति । × इदमर्धं नास्ति ख. पुस्तके ।
[अ० १०८-श्लो० १-२६] वायुपुराणम् । ४३५ ( गयामाहात्म्यम )
अष्टमोत्तरशततमोऽध्यायः । गयामाहात्म्यम् ।
सनत्कुमार उवाच— वक्ष्ये शिलाया माहात्म्यं शृणु नारद मुक्तिदम् । यस्या गायन्ति देवाश्च माहात्म्यं मुनिपुंगवाः ॥ १ शिला स्थिता पृथिव्यां सा देवरूपाऽतिपावनी । विचित्राख्यं शिलातीर्थं त्रिषु लोकेषु विश्रुतम् ॥ २ तस्याः संस्पर्शनाल्लोकाः सर्वे हरिपुरं ययुः । शून्ये लोकत्रये जाते शून्या यमपुरी बभूव ॥ ३ यम इन्द्रादिभिर्गत्वा ऊचे ब्रह्माणमद्भुतम् । अधिकारं गृहाणाथ यमदण्डं पितामह ॥ ४ यममूचे ततो ब्रह्मा स्वगृहे धारयस्व ताम् । ब्रह्मलोको धर्मराजस्तु गृहे तां समधारयत् ॥ ५ यमोऽधिकारं स्वं चक्रे पापिनां शासनादिकम् । एवंविधा गुरुतरा शिला जगति विश्रुता ॥ ६ यथा ब्रह्मा यथा विष्णुर्यथा देवो महेश्वरः । ब्रह्माण्डे च यथा मेरुस्तथेयं देवरूपिणी ॥ ७ गयासुरस्य शिरसि गुरुत्वाद्धारिता यतः । अतः पवित्रयोर्योगः पितॄणां मोक्षदायकः ॥ ८ पवित्रयोर्द्वयोर्योगे हयमेधमजोऽकरोत् । भागार्थमागतन्दृष्ट्वा विष्ण्वादीनब्रवीच्छिला ॥ ९ शिलास्थितिप्रतिज्ञां तु कुर्वन्तु पितृमुक्तये । तथेत्युक्त्वा शिलायां ते देवा विष्ण्वादयः स्थिताः ॥ १० शिलारूपेण मूर्त्या च पद्रूपेण देवताः । मूर्तामूर्तस्वरूपेण स्थिताः पूर्वप्रतिज्ञया ॥ ११ दैत्यस्य मुण्डपृष्ठे तु यस्मात्सा संस्थिता शिला । तस्मात्स मुण्डपृष्ठाद्रिः पितॄणां ब्रह्मलोकदः ॥ १२ आच्छादितः शिलापादः प्रभासेनाद्रिणा यतः । भासितो भास्करेणेति प्रभासः परिकीर्तितः ॥ १३ प्रभासं हि विनिर्भिद्य शिलाङ्गुष्ठो विनिर्गतः । (*अङ्गुष्ठोत्थित ईशोऽपि प्रभासेशः प्रकीर्तितः ॥ शिलाङ्गुष्ठैकदेशो यः सा च प्रेतशिला स्मृता ।) पिण्डदानाद्यतस्तस्यां प्रेतत्वान्मुच्यते नरः ॥ १५ महानदीपभासाद्र्योः संगमे स्नानकृन्नरः । रामो देव्या सह स्नातो रामतीर्थं ततः स्मृतम् ॥ १६ प्रार्थितोऽत्र महानद्या राम स्नातो भवेति च । रामतीर्थं ततो भूत्वा त्रिषु लोकेषु विश्रुतम् ॥ १७ जन्मान्तरशतं साग्रं यत्कृतं दुष्कृतं मया । तत्सर्वं विलयं यातु रामतीर्थाभिषेचनात् ॥ १८ मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्वीत मानवः । रामतीर्थे पिण्डदस्तु विष्णुलोकं प्रयात्यसौ ॥ १९ तथेत्युक्त्वा स्थितो रामः सीतया भरताग्रजः ॥ २० राम राम महाबाहो देवानांमभयंकर । त्वां नमस्येऽत्र देवेशं मम नश्यतु पातकम् ॥ मन्त्रेणानेन यः स्नात्वा श्राद्धं कुर्यात्सापिण्डकम् । प्रेतत्वान्तस्य पितरो विमुक्ताः पितृतां ययुः ॥ २१ आपस्त्वमसि देवेश ज्योतिषां पतिरेव च । पापं नाशय मे देवो मनोवाक्कायकर्मजम् ॥ २२ नमस्कृत्य प्रभासेशं भासमानं शिवं व्रजेत् । तं च शंभुं नमस्कृत्य कुर्याद्यमबलिं ततः ॥ २३ रामे वनं गते शैलमागत्य भरतः स्थितः । पितृपिण्डादिकं कृत्वा रामं संस्थाप्य तत्र च ॥ २४ रामं सीतां लक्ष्मणं च मुनीन्स्थापितान्वभुः । भारतस्याऽऽश्रमे पुण्ये नित्यं पुण्यतमैर्वृतम् ॥ २५ [ + मातङ्गस्य पदं तत्र दृश्यते सर्वमानुषैः ॥ स्थापितं धर्मसंघस्व लोकस्यास्य निदर्शनात् । ] मातङ्गस्य पदे श्राद्धी सर्वांस्तारयेत् पितॄन् ॥ २६
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके न विद्यते ।
४३६ श्रीमद्द्वैपायनमुनिप्रणीतम्— [अ० १०८ श्लो० २७-४४] ( गयामाहात्म्यम् )
रामतीर्थे नरः स्नात्वा रामं सीतां समर्च्य च । रामेश्वरं प्रणम्याथ न देही जायते पुनः ॥ २७ शिलाया जघनं भूयः समाक्रान्तं नगेन तु । धर्मराजेन संप्रोक्तो न गच्छेति नगः स्मृतः ॥ २८ यमराजधर्मराजौ निश्चलार्थं व्यवस्थितौ ताभ्यां बलिं प्रयच्छामि पितॄणां मुक्तिहेतवे ॥ २९ द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ । ताभ्यां बलिं प्रयच्छामि स्यातमेतावाहिंसकौ ॥ ३० ऐन्द्रावारुणवायव्यायाम्यनैर्ऋत्यसंस्थिताः । वायसा प्रतिगृह्णन्तु भूमौ पिण्डं मयाऽर्पितम् * ३१ शिलाया दक्षिणे हस्ते स्थापितः कुण्डपर्वतः । तिमिरादित्यईशानभर्गीवेते महेश्वराः ॥ ३२ वह्निदौ वरुणौ रुद्राश्चत्वारः पितृमोक्षदाः । [ + भरताश्रममासाद्य तानमेतूपजयेन्नरः ॥ ३३ पापेभ्यश्चोपपापेभ्यो मुच्यते पितृभिः सह । यत्र कुत्रापि देवेर्षे भरतस्याऽऽश्रमे नरः ॥ स्नातः श्राद्धादिकं कुर्यात्तत्कल्पोऽपि न हीयते ] ॥ ३४ गयायां चाक्षयं श्राद्धं जपहोमतपांसि च सर्वमानन्त्यमाहुर्वै यद्दत्तं भरताश्रमे ॥ ३५ चतुर्युगस्वरूपेण चतस्रो रविमूर्तयः । दृष्टाः स्पृष्टाः पूजितास्ताः पितॄणां मुक्तिदा (यि) काः ३६ [ × मुक्तिर्वामन इत्येव तारकाख्यो विधिः परः । संसारार्णवतप्तानां नावावेतौ सुरेश्वरौ ॥ तारकं ब्रह्म विश्वेषां मृतानां जीवितामिदम् ॥ ३७ त्रिविक्रमं च ब्रह्माणं यः पश्येत्पुरुषोत्तमम् । पितृभिः सह धर्मात्मा स याति परमां गतिम् ] ॥ ३८ शिलाया वामपादेऽपि तथाऽभ्युद्यन्तको गिरिः । स्थापितः पिण्डदस्तत्र पितॄन्ब्रह्मपुरं नयेत् ॥ ३९ नैमिषारण्यपार्थे तु ईये ब्रह्मा सुरैः सह । मुख्यसंज्ञं हि तत्तीर्थं देवास्तत्र पदे स्थिताः । ४० त्रिषु तेषु पदंष्वेव तीर्थेषु मुनिसत्तम । यत्किंचिदशुभं कर्म तत्प्रणश्यति नारद ॥ ४१ + तन्नैमिषवनं पुण्यं सेवितं पुण्यपौरुषैः । तत्रः व्यासः शुकः पैलः कण्वो वेधाः शिवो हरिः ॥ तेषां दर्शनमात्रेण मुच्यते पातकैर्नरः । वामहस्ते शिलायास्तु तया चोद्यन्तको गिरिः ॥ ४३ स पर्वतः समानीतो ह्यगस्त्येन महात्मना + । तत्र ब्रह्मा हरश्चैव तपश्चोद्यं च चक्रतुः ॥ ४४
* इत उत्तरमेते श्लोका मुद्रितपुस्तकटिप्पण्यामधिका उपलभ्यन्ते ते यथा—
यमोऽसि यमदूतोऽसि वायसोऽसि महाबल । सप्तजन्मकृतं पापं बलिं भुक्त्वा विनाशय ॥ १॥
रामे वनं गते शैलमागह्य भरतेन हि । पितुः पिण्डादिकं कृत्वा रामेशः स्थापितोऽत्र वै ॥२॥
स्नात्वा नत्वा च रामेशं रामसीतासमन्वितम् । तत्र श्राद्धं सपिण्डं च कृत्वा विष्णूपुरं व्रजेत् ॥३॥
पितृभिः सह धर्मात्मा कुलानां च शतैः सह ॥ इति ।
+ एतच्चिह्नान्तर्गतग्रन्थः ख. पुस्तके न विद्यते । × धनुचिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + इत आरभ्य चोद्यन्तको गिरिरित्यन्तग्रन्थो नास्ति ख. पुस्तक । * इत उत्तरमेते श्लोका मुद्रितपुस्तकपाठेऽधिका उपलब्धन्ते—
स्थापितः पिण्डदस्तत्र पितॄन्ब्रह्मपुरं नयेत् । कुण्डश्चाद्यन्तकस्तत्र आप्तमनस्तसा कृतः ॥ १॥
ब्रह्मणा तत्र सावित्रीकुमाराभ्यां सह स्थितम् । हाहाहूहूप्रभृतयो गीतिनादं प्रचक्रिरे ॥२॥
कुण्डमुद्यन्तकं तत्र गीतवादित्रको गिरिः । अगस्त्यो भगवान्यत्र तपश्चोग्रं चकार ह ॥३॥
ब्रह्मणस्तु वरं लेभे माहात्म्यं भुवि दुर्लभम् । लोपामुद्रां तथा भार्या पितॄणां परमां गतिम् ॥४॥
[अ० १०८ श्लो० ४५-४६] वायुपुराणम् । ४३७
( गयामाहात्म्यम् ) तत्रागस्त्यस्य हि वरं कुण्डं त्रैलोक्यदुर्लभम् । यत्र मुन्यष्टकं सिद्धं तपस्तप्त्वा शिवं गतम् ॥ कुण्डे मुन्यष्टकं नत्वा पितॄन्ब्रह्मपुरं नयेत् ॥ ४५ अगस्त्येनाथ देवर्षे उदयाद्रेर्महात्मना । शिलाया वामहस्तेऽपि स्थापितो गिरिराट्शुभः ॥ *वादित्रैर्योर्दिव्यमितैराद्यो वादित्रको गिरिः ॥ ४६
स्नातस्तत्र च मध्याह्ने सावित्रीं समुपास्य च । कोटिजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥ ५ ॥ अगस्त्यस्य पदे स्नात्वा पिण्डदो ब्रह्मलोकगः । पितृभिः सह धर्मात्मा पूज्यमानो दिवौकसाम् ॥ ६ ॥ ब्रह्मयोनिं प्रविश्याथ निर्गच्छेद्यस्तु मानवः । परं ब्रह्म स यातीह विमुक्तो योनिसंकटात् ॥ ७ नत्वा गयाकुमारं च ब्राह्मण्यं लभते नरः । सोमकुण्डाभिषेकी च सोमलोकं नयेत्पितॄन् ॥ ८ बलिः काकशिलायां तु काकेभ्य ऋणमोक्षदः । स्वर्गद्वारेश्वरं नत्वा स्वर्गाद्ब्रह्मपुरं व्रजेत् ॥ ९ पिण्डदो व्योमगङ्गायां निर्मलः स्वर्नयेत्पितॄन् । शिलाया दक्षिणे हस्ते भस्मकूटमधारयत् ॥ १० ततोऽसौ भस्मकूटद्रिर्भस्मस्नातश्च नारद ॥ ११ वटो वटेश्वरस्तत्र स्थितश्च प्रपितामहः । मतङ्गस्य पदे मुन्ये पिण्डदः स्वर्नयेत्पितॄन् ॥ १२ तस्याग्रे रुक्मिणीकुण्डं पश्चिमे कपिला नदी । कपिलेशो नदीतीरे ह्यमासोमसमागमे ॥ १३ कपिलायां नरः स्नात्वा कपिलेशं नमेच्च यः । श्राद्धः स्वर्गगामी स्यान्माहेशीकुण्ड एव च ॥ १४ गौरी च मङ्गला तत्र सर्वसौभाग्यदायिनी । जनार्दना भस्मकूटे तस्य हस्ते च पिण्डदः ॥ १५ मन्त्रेण चाऽऽत्मनोऽन्येषां सव्यहस्ते तिलैर्विना । जीवतां दधिसंमिश्रं सर्वे ते विष्णुलोकगाः ॥ १५ एष पिण्डो मया दत्तस्तव हस्ते जनार्दन । दोह देव गयाशीर्षे तस्मै तस्मिन्मृते तु तम् ॥ १६ एष पिण्डो मया दत्तस्तव हस्ते जनार्दन । गयाशीर्षे त्वया देयो मह्यं पिण्डो मृते मयि । १७ जनार्दन नमस्तुभ्यं नमस्ते पितृरूपिणे । पितृपते नमस्तुभ्यं नमस्ते मुक्तिहेतवे ॥ १८ गयायां पितृरूपेण स्वयमेव जनार्दन । लक्ष्मीकान्त नमस्तेऽस्तु नमस्ते पितृमोक्षद ॥ १९ तं ध्यात्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् । पुण्डरीकाक्षमभ्यर्च्य स्वर्गं प्रापुर्नरा ध्रुवम् ॥ २० वामजानु तु संपात्य नत्वा भीमो जनार्दनम् । श्राद्धं सपिण्डकं कृत्वा भ्रातृभिर्विष्णुलोकगः ॥ २१ शिलाया दक्षिणे पादे प्रेतकूटो गिरिधृतः । धर्मराजेन पादभ्यां गिरिः प्रेतशिलाश्रयः ॥ २२ पादेन दूरे निक्षिप्तः शिलायाः पापभारतः । प्रेतभावस्वरूपेण करग्रहणकानने ॥ २३ पृष्ठे स्थिताश्च वहवो विघ्नकारिण एव ते । श्राद्धादिकरणात्नॄणां तीर्थे पितृविमुक्तिदम् ॥ २४ गतः शिलाङ्गसंस्पर्शात्प्रेतकूटः पवित्रताम् । प्रेतकूटस्थ तत्राऽऽस्ते देवास्तत्र पदे स्थिताः ॥ तत्र श्राद्धादिकं कृत्वा प्रेतत्वान्मोचयेत्पितॄन् ॥ २५ शिला समीपे ये विप्र प्रेतरूपा भयानकाः । सर्गे ते यमलोके तु पृथिव्यां पर्यटन्ति वै ॥ २६ गयासुरस्य शिरसि पुण्ये प्रेतादिवर्जिते । स्थिता ब्रह्मादयो देवा गतः सोऽपि पवित्रताम् ॥ २७ कीकटेषु गया पुण्यं पुण्यं राजवनं गृहम् । च्यवनस्याऽऽश्रमः पुण्यो नदी पुण्या पुनः पुनः ॥ २८
*इदमर्धं नास्ति ख पुस्तके ॥
( गयामाहात्म्यम )
४३८ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० १०८ श्लो० ४७-६०] ( गयामाहात्म्यम )
तत्र विद्याधरो नाम गन्धर्वाप्सरसां गणैः । [ *समेतोऽद्यापि गीतानि दिव्यानि सह गीयते ॥ ४७ मोहनश्च सुनीथं च शैलूजो मोहनात्मकम् । पर्वतो नारदध्यानी संगीती पुष्पवन्तकः ॥ ] हाहाहूहूप्रभृतयो गीतदानं प्रचक्रिरे ॥ ४८ ( + तथा चित्ररथो नाम सर्वगन्धर्वसंवृतः । गायन्ति मधुराण्येव गीतान्यद्रौ महोत्सवम् ॥ ४९ अतः स पर्वतो देवैः सेव्यतेऽद्यपि नित्यशः । धर्मराजस्तत्र देवेशो हरो भस्माङ्गरागवान् ॥ ५० पार्वत्या सहितो रुद्रः पर्वते गीतनादिते । मोदते पूजितो ध्येयः पितॄणां परमां गतिम् ॥ ५१ गयायां परमात्मा हि गोपतिर्वा गदाधरः । हीयते वैष्णवी माया तथा रुद्राचया मुने ) ॥ ५२ शिलाया दक्षिणे हस्ते भस्मकूटा गिरिर्धृतः । धर्मराजेन तत्राऽऽस्ते अगस्त्यः सह भार्यया ॥ ५३ अगस्त्यस्य पदे स्नातः पिण्डदो ब्रह्मलोकगः । ( ÷ ब्रह्मणस्तु वरं लेभे माहात्म्यं भुवि दुर्लभम् ॥ ५४ लोपामुद्रां तथा भार्यां पितॄणां परमां गतिम् । ) तत्रागस्त्येश्वरं दृष्ट्वा मुच्यते ब्रह्महत्यया ॥ ५५ अगस्त्यं च सभार्यं च पितॄन्ब्रह्मपुरं नयेत् । दाण्डिनाऽथ तपस्तेपे सीताद्रेर्दक्षिणे गिरौ ॥ ५६ वटो वटेश्वरस्तत्र स्थितश्च प्रपितामहः । तदग्रे रुक्मिणीकुण्डं पश्चिमे कपिला नदी ॥ कपिलेशो नदीतीरे अमासोमसमागमे ॥ ५७ कपिलायां नरः स्नात्वार्कापलेशं समर्च्य च । कृते श्राद्धे पिण्डदाने पितरो मोक्षमाप्नुयुः ॥ ५८ अग्निधारा गिरिवरादागताद्यन्तकादनु । [ ÷ तत्र सारस्वतं कुण्डं सरस्वत्या प्रकल्पितम् ॥ ५९ शुकस्तत्र सुतै सार्धं स(ष)ण्डामर्कादिभिः प्रभुः । तत्र तत्र मुनीन्द्राणां पदेषु मुनिसत्तम ॥ श्राद्धपिण्डादिकृत्स्नातः पितॄंस्तारयते नरः ॥ ६०
वैकुण्ठे हेमदण्डेश्च हेमकूटो गिरिस्थितः । श्राद्धपिण्डादिकृत्तत्र पितॄन्ब्रह्मपुरं नयेत् ॥ २९ शिलादीक्षणपादे तु गृध्रकूटो गिरिर्धृतः । धर्मराजेन सुस्थैर्यकरणाय सुपावनः ॥ ३० गृध्ररूपेण तत्राथ तपः कृत्वा महर्षयः । विमुक्त्वा गृध्रकूतोऽयं तत्र गृध्रधरः स्थिरः ॥ ३१ तत्र गृध्रेश्वरं दृष्ट्वा यान्ति शंभुपदं नराः । तत्र गृध्रवटं नत्वा प्राप्तकामो दिवं व्रजेत् ॥ ३२ तत्र गृध्रगुहायां च पिण्डदः शिवलोकभाक् । तत्र माहेश्वरी धारा पिण्डदः स्वर्नयेत्पितॄन् ॥ ३३ मूलक्षेत्रं सरस्तत्र पिण्डदो ब्रह्मलोकभाक् । ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत् ॥ ३४ आदिपालेन गिरिणा समाक्रान्तं शिलोदरम् । यत्राऽऽस्ते गजरूपेण विघ्नेशी विघ्ननाशनः ॥ नाभौ च पिण्डदो यस्तु पितॄन्ब्रह्मपुरं नयेत् ॥ ३५ नितम्बे मुण्डपृष्ठस्य देवदारुव त्वभूत् । मुण्डपृष्ठेऽरविन्दाद्रिं दृष्ट्वा पापं विनाशयेत् ॥ ३६ कौञ्चरूपेण संविष्टो मुनिस्तत्र तपोऽकरोत् । तस्य पादाङ्कितो यस्मात्क्रौञ्चपादः प्रकीर्तितः ॥ ३७ स्नातो जलाशये तत्र नयेत्स्वर्गं कुलत्रयं । शिलायां व्यक्तरूपेण व्यक्ताव्यक्तारमना स्थितः ॥ लक्ष्मीशो विबुधैः सार्धं तस्माद्देवमयी शिला ॥ इति ॥ ३८
* धनुश्चिह्नान्तर्गतग्रन्थः ख पुस्तके नास्ति । + एतच्चिह्नान्तर्गतग्रन्थः ख पुस्तके न विद्यते । ह्रान्तर्गतग्रन्थः ख पुस्तके नास्ति ÷ धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके न विद्यते । () धनुश्चिह्नान्तर्ग- ग्रन्थः ख पुस्तके न विद्यते ।
[अ०१०८श्लो०६१-८५] वायुपुराणम् । ४३९ ( गयामाहात्म्यन ) शियाला वामहस्तेऽपि गृध्रकूटो गिरिर्धृतः । ] गृध्ररूपेण संसिद्धास्तपस्तप्त्वा महर्षयः ॥ ६१ अतो गिरिर्गृध्रकूटस्तत्र गृध्रेश्वरः स्थितः । दृष्ट्वा गृध्रेश्वरं नत्वा यायाच्छंभोः पदं नरः ॥ ६२ तत्र गृध्रे गुहायां च पिण्डदः शिवलोकभाक् । तत्र गृध्रे वटं नत्वा प्राप्तकामो दिवं व्रजेत् ॥ ६३ ऋणमोक्षं पापमोक्षं शिवं दृष्ट्वा शिवं व्रजेत् । शूलक्षेत्रं च तत्राऽऽस्ते पिण्डदः स्वनयेत्पितॄन् ॥ ६४ तं दृष्ट्वा मुच्यते विघ्नैः पितॄन्ब्रह्मपुरं नयेत् ॥ ६५ नितम्बे मुण्डपृष्ठस्य देवदारुवनं त्वभूत् । मुण्डपृष्ठाराविन्दाद्री दृष्ट्वा पापं विनाशयेत् ॥ गयानाभौ सुषुम्नायां पिण्डदः स्वनयेत्पितॄन् ॥ ६६
- शिलाया वामपादे तु स्थापितः प्रेतपर्वतः । धर्मराजेन पापेभ्यो गिरिः प्रेतशिलाह्वयः ॥ ६७ पादेन दूरे निक्षिप्तः शिलायाः पादभारतः । गतः शिलायाः संसर्गात्प्रेतकूटः पवित्रताम् ॥ ६८ प्रेतकुण्डं च तत्राऽऽस्ते देवास्तत्र पदे स्थिताः । तत्र कुण्डादिकं कृत्वा प्रेतत्वान्मोचयेत्पितॄन् ॥ ६९ पृथक्स्थिताश्च बहवो विघ्नकारिण एव ते । श्राद्धाधिकारिणां नृणां तीर्थे पितृविमुक्तये ॥ ७० प्रेता धानुष्करूपेण करग्रहणकारकाः ॥ पादाङ्कितां मुण्डपृष्ठां महादेवन्निवासिनीम् । तां दृष्ट्वा सर्वलोकश्च मुक्तः पापोपपातकैः ] ॥ ७१ गयाशिरसि पुण्ये च सर्वपापविवर्जिते । प्रेतादिवर्जितं यस्मात्ततोऽतिपावनं वरम् ॥ ७२ कीकटेषु गया पुण्या पुण्यं राजगृहं वनम् । च्यवनस्याऽऽश्रमं पुण्यं नदी पुण्या पुनःपुना ॥ ७३ वैकुण्ठो लोहदण्डश्च गृध्रकूटश्च शौनकः । अत्र श्राद्धादिना सर्वान्पितॄन्ब्रह्मपुरं नयेत् । ७४ क्रौञ्चरूपेण हि मुनिर्मुण्डपृष्ठे तपोऽकरोत् । तस्य पादाङ्कितो यस्मात्क्रौञ्चपादस्ततः स्मृतः ॥ ७५ स्नातो जलाशये तत्र नयेत्स्वर्गं स्वकं कुलम् । बलिः काकशिलायां च काकेभ्य ऋणमोक्षदः ॥ ७६ मुण्डपृष्ठस्य सानौ हि लोमशो लोमहर्षणः । द्वावेतौ परमं तप्त्वा तपस्सिद्धिं परां गतौ ॥ ७७ आहुतास्तु सरिच्छ्रेष्ठा लोमशेन महानदी । शरावती वेत्रवती चन्द्रभागा सरस्वती ॥ ७८ कावेरी सिन्धुरीरा च चन्दना च सारिद्वरा । वासिष्ठी सरयूगंङ्गा यमुना गण्डकीन्दिरा ॥ ७९ महावैतरणी नाम्ना निश्चेरा च दिवौकसः । सावव्यलकनन्दा (?) च उदीची कनकाह्वया ॥ ८० कौशिकी ब्रह्मदा ज्येष्ठा सर्वस्याघविमोचिनी । कृष्णवेण्या चर्मवती द्वे नद्यौ मुक्तिदायिके ॥ ८१ आहूते सरितां श्रेष्ठे लोमहर्षेण साहसात् । तपसस्तु प्रभावेण नर्मदा मुनिपुङ्गव ॥ तासु सर्वासु यः स्नात्वा पिण्डदः स्वनयेत्पितॄन् ॥ ८२ ब्रह्मयोनिं प्रविश्याय निर्गच्छेदद्यस्तु मानवः । परं ब्रह्म स यातीह विमुक्तो योनिसंकटात् ॥ ८३ निश्चरायां पुष्करिण्यां स्नातः श्राद्धादिकं नरः । कुर्यात्क्रौञ्चपदे दिव्ये नियमाद्द्वासप्तत्रयम् * ॥ सर्वान्पितॄन्नयेत्स्वर्गं पञ्च पापिन एव च ॥ ८४ जनार्दनो भस्मकूटे तस्य हस्ते तु पिण्डदः । आत्मनोऽप्यथवाऽन्येषां सव्येनापि तिलैर्विना ॥ जीवतां दधिसंमिश्रं सर्वे ते विष्णुलोकगाः ॥ ८५
* इतःपरमयं श्लोकोधिकः ख. पुस्तके-श्राद्धं सपिण्डकं कृत्वा पितॄन्ब्रह्मपुरं नयेत् । जनार्दना- मेषाय समभ्यर्च्य यथाविधि ॥ इति ।
४४० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १०८-१०९ श्लो० ८६-९१।१-१६] ( गयामाहात्म्यम् )
यस्तु पिण्डो मया दत्तस्तव हस्ते जनार्दन । \times यदुद्दिश्य तया देवस्तस्मिन्पिण्डो मृते प्रभो ॥ ८६
एष पिण्डो मया दत्तस्तव हस्ते जनार्दन । अन्तकाले गते मह्यं त्वया देयो गयाशिरे ॥ ८७
जनार्दन नमस्तुभ्यं नमस्ते पितृमोक्षद । पितृपते नमस्ते तु नमस्ते पितृरूपिणे ॥ ८८
नयायां पितृरूपेण स्वयमेव जनार्दनः । तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् ॥ ८९
\equiv नमस्ते पुण्डरीकाक्ष ऋणत्रयविमोचक । लक्ष्मीकान्त तमस्ते तु पितॄणां मोक्षदो भव ॥ ९०
वामजानुं सुसंपात्य नत्वा भीमो जनार्दनम् श्राद्धं सपिण्डकं कृत्वा भ्रातृभिर्ब्रह्मलोकभाक् ॥
पितृभिः सह धर्मात्मा कुलानां च शतेन च ॥ ९१
शिलायां व्यक्तरूपेण व्यक्ताव्यक्तात्मना स्थितः । लक्ष्मीशो विबुधैः सार्धं तस्माद्देवमयी शिला
इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नामाष्टाधिकशततमोऽध्यायः ॥१०८॥
आदितः श्लोकानां समष्ट्यङ्काः—१०७१८
अथ नवधिकशततमोऽध्यायः ।
गयामाहात्म्यम् ।
नारद उवाच--
कथं व्यक्तस्वरूपेण स्थितश्चाऽऽदिगदाधरः । कथं व्यक्तस्वरूपेण व्यक्ताव्यक्तात्मना स्थितः ॥ १
कथं गदा समापन्ना यथा ह्यादिगदाधरः । गदालोले कथं चाऽऽसीत्सर्वपापक्षयंकरम् ॥ २
सनत्कुमार उवाच--
गदो नामसुरो ह्यासीद्वज्राद्वज्रतरो दृढः । प्रार्थितो ब्रह्मणे प्रादात्स्वशरीरास्थि दुस्त्यजम् ॥ ३
ब्रह्मोक्तो विश्वकर्माऽपि गदां चक्रेऽद्भुतां तदा । तदस्थि वज्रनिष्पेषैः कुन्दैः स्वर्गे व्यधारयत् ॥ ४
अथ कालेन महता मनौ स्वायंभुवे काचित् । हेती रक्षो ब्रह्मपुत्रस्तपस्तेपे सदारुणम् ॥ ५
दिव्यवर्षसहस्राणां शतं वायुमभक्षयत् । उन्मुखश्चोध्र्वबाहुश्च पादाङ्गुष्ठभरेण ह ॥ ६
एकेनातिष्ठद्व्यग्र्यः शीर्णपर्णानिलाशनः । ब्रह्मादींस्तपसा तुष्टान्वरं वव्रे वरप्रदान् ॥ ७
देवैर्दैत्यैश्च शस्त्रास्त्रैर्विविधैर्मनुजादिभिः । कृष्णे शानादिचक्राद्यैरवध्यः स्यां महाबलः ॥ ८
तथेत्युक्त्वाऽन्तर्हितास्ते हेतिर्देवानथाजयत् । इन्द्रत्वमकरोद्धेतिर्भीता ब्रह्महरादयः ॥ ९
हरिं ते शरणं जग्मुरूचुर्हेतिं जहीति तान् । ऊचे हरिरवध्योऽयं हेतिर्देवासुरै सुराः ॥ १०
महास्त्रं मे प्रयच्छध्वं हेतिं हन्मि हि येन तम् । इत्युक्तास्ते ततो देवा गदां तां हरये ददुः ॥
दधार तां गदामादौ देवेरुक्तो गदाधरः । गदया हेतिमाहत्य देवैः स त्रिविदवं ययौ ॥ १२
गदामादाववष्टभ्य गयासुरशिरःशिलाम् । निश्चलार्थं स्थितो यस्मात्तस्मादादिगदाधरः ॥ १३
शिलापर्वतरूपेण व्यक्त आदिगदाधरः । शिलासौ मुण्डपृष्ठाद्रिः प्रभासो नाम पर्वतः ॥ १४
उद्यन्तो गीतनादश्च भस्मकूटो गिरिर्महान् । गृध्रकूटः प्रेतकूटश्चाऽऽदिपालोऽरविन्दकः ॥ १५
पञ्चलोकः सप्तलोको वैकुण्ठे लोहदण्डकः । कौञ्चपादोऽक्षयवटः फल्गुतीर्थं मधुश्रं (स्र) वा ॥ १६
\equiv एतच्छ्लोकस्थानेऽय श्लोकः क. पुस्तके स यथा-नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन । लक्ष्मीकान्त नमस्तुभ्यं नमस्ते मुक्तिहेतवे ॥
[अ० १०९ श्लो० १७-३८] वायुपुराणम् ४४१ ( गयामाहात्म्यम् )
दधिकुल्या मधुकुल्या देविका च महानदी । वैतरण्यादिरूपेण व्यक्त आदिगदाधरः ॥ १७ विष्णोः पदं रुद्रपदं ब्रह्मणः पदमुत्तमम् । कश्यपस्य पदं दिव्य द्वौ हस्तौ यत्र निर्गतौ ॥ १८ पञ्चाग्नीनां पदान्यत्र इन्द्रागस्त्यपदे परे । रवेश्च कार्त्तिकेयस्य कौञ्चमाताङ्गयोरपि ॥ १९ मुख्यलिङ्गानि सर्वाणि व्यक्ताव्यक्तमत्मना स्थितः । आद्यो गदाधरश्चैव व्यक्तः श्रीमान्गदाधरः ॥ २० गायत्री चैव सावित्री संध्या चैव सरस्वती । नयादित्यश्चोत्तरार्को दक्षिणार्कोऽपि नैमिषः ॥ २१ श्वेतार्यो गणनाधश्च वसवोऽष्टौ मुनीश्वराः । रुद्राश्चैकादशैवाथ तथा सप्तर्षयोऽपरे ॥ २२ सोमनाथश्च सिद्धेशः कपर्दीश्रो विनायकः । नारायणो महालक्ष्मीर्बला श्रीपुरुषोत्तमः ॥ २३ मार्कण्डेयेशः कोटीशो शङ्किरेशः पितामहः । जनार्दनो मङ्गला च पुण्डरीकाक्ष उत्तमः ॥ २४ इत्यादिव्यक्तरूपेण स्थितश्चाऽऽदिगदाधरः । हेतिर्यो राक्षसस्तास्मिन्हतो विष्णुपुरं गतः ॥ २५ ब्रह्मणा सह रुद्राद्यैः कारिते निश्चलेऽसुरे । तुष्टावाऽऽद्यगदापाणिं वेधा हर्षेण निर्वृतः ॥ २६
ब्रह्मोवाच— गदाधरं व्यपगतकालकल्मषं गयागतं विदितगुणं गुणातिगम् । गुहागतं गिरिवरगौरगेहगं गणार्चितं वरदमहं नमामि ॥ २७ अहःश्रियं त्रिदशगणादिसुश्रियं भवश्रियं दितिभवदारणश्रियम् । कालिश्रियं कलिमलमर्दनश्रियं गदाधरं नौमि तमाश्रितश्रियम् ॥ २८ दृढादृढं परिवृढगाढसंस्तुतं कामाद्भुतं सुदृढमरूढिरूढिगम् । तमाढ्यगं दृढदुरिताद्यढौकितं स्वढौकतं दृढतरगोत्रसूक्तिभम् ॥ २९ विदेहकं करणकलाविर्वाजतं विजन्मकं दिनकरवेदिभूषितम् । गदाधरं ध्वनिमुखवर्जितं परं नमाम्यहं सततमनादिमीश्वरम् ॥ ३० मनोतिगं मतिगतिवार्जितं परं सदाऽद्वयं स्तुतिशिरसि स्तुतं बुधैः । चिदात्मकं कलिगतकारणातिगं गदाधरं हृदयगतं नमामि तम् ॥ ३१
सनत्कुमार उवाच— देवैः सार्धं ब्रह्मणैवं स्तुतश्चाऽऽदिगदाधरः । ऊचे वरं वृणीष्व त्वं वरं ब्रह्मा तमब्रवीत् ॥ ३२ शिलायां देवरूपिण्यां न तिष्ठामस्त्वया विना । स्थास्यामोऽत्र त्वया सार्धं नित्यं व्यक्तादिरूपिणा ॥ एवमस्तु श्रिया सार्धं स्थितश्चाऽऽदिगदाधरः । * लोकानां रक्षणार्थाय जगतां मुक्तिहेतवे ॥ ३४ सुव्यक्तः पुण्डरीकाक्षो जनार्दन इति श्रुतः ॥ वेदैरगम्या या मूर्तिरादिभूता सनातनी । सुव्यक्ता श्वेतकल्पे सा भविष्यति तथा पुनः ॥ ३५ वाराहकल्पे ह्यव्यक्ता व्यक्तिमप्यगमत्पुरा ॥ संतारणाय लोकानां देवानां रक्षणाय च । गयाशिरसि सुव्यक्तो भविष्यति न संशयः ॥ ३६ ये द्रक्ष्यन्ति सदा भक्त्या देवमादिगदाधरम् । ( + कुष्ठरोगादिनिर्मुक्ता यास्यन्ति हरिमन्दिरम् ॥ ३७ ये द्रक्ष्यन्ति सदा भक्त्या देवमादिगदाधरम् ) । ते प्राप्स्यन्ति धनं धान्यमायुरारोग्यमेव च ॥ ३८
* अयं श्लोकः ख. पुस्तके न विद्यते । +धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।
५६
४४२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० १०९-११० श्लो० ३९-५५/१] ( गयामाहात्म्यम् )
कलत्रपुत्रपौत्रादिगुणकीर्तिसुखानि च । श्रद्धया ये नमस्यन्ति राज्यं ब्रह्मपुरं तथा ॥
भुक्त्वा व्रजेयुः सततं पुण्यपुञ्जफलं नराः ॥ ३९
गन्धदानेन गन्धाढ्यः सौभाग्यं पुष्पदानतः । धूपदानेन राज्याप्तिर्दीपाद्वीतिर्भविष्यति ॥ ४०
ध्वजदानात्पापहानिर्यात्राकृद्ब्रह्मलोकभाक् । श्राद्धपिण्डप्रदो यस्तु विष्णुं नेष्यन्ति वै पितॄन् ॥ ४१
श्रद्धया ये नमस्यन्ति स्तोत्रेणाऽऽदिगदाधरम् । [ ×स्तोष्यन्ति च समभ्यर्च्य पितॄन्नेष्यन्ति माधवम्
शिवोऽपि परया प्रीत्या तुष्टावाऽऽदिगदाधरम् ॥ ] ४२
शिव उवाच—
अव्यक्तरूपो यो देवो मुण्डपृष्ठादिरूपतः । फल्गुतीर्थादिरूपेण नमाम्यादिगदाधरम् ॥ ४३
* व्यक्ताव्यक्तस्वरूपेण पदरूपेण संस्थितः । मुखादिलिङ्गरूपेण नमाम्यादिगदाधरम् ॥ ४४
अव्यक्तरूपो यो देवो जनार्दनस्वरूपतः । मुण्डपृष्ठे स्वयं जातो नमाम्यादिगदाधरम् ॥ ४५
शिलायां देवरूपाण्यां स्थितं ब्रह्मादिभिः सुरैः । पूजितं सत्कृतं देवैस्तं नमामि गदाधरम् ॥ ४६
यं च दृष्ट्वा ततः स्पृष्ट्वा पूजयित्वा प्रणम्य च । श्राद्धादौ ब्रह्मलोकाप्तिर्नमाम्यादिगदाधरम् ॥ ४७
महदादेश्च जगतो व्यक्तस्यैकं हि कारणम् । अव्यक्तज्ञानरूपं तं नमाम्यादिगदाधरम् ॥ ४८
देहेन्द्रियमनोबुद्धिप्राणाहंकारवर्जितम् । जाग्रत्स्वप्नाविनिर्मुक्तं नमाम्यादिगदाधरम् ॥ ४९
नित्यानित्यविनिर्मुक्तं सत्यमानन्दमव्ययम् । तुरीयं ज्योतिरात्मानं नमाम्यादिगदाधरम् ॥ ५०
सनत्कुमार उवाच—
एवं स्तुतो महेशेन प्रीतो ह्यादिगदाधरः । स्थितो देवः शिलायां स ब्रह्माद्यैर्देवैः सह ॥ ५१
संस्थितं मुण्डपृष्ठादौ देवमादिगदाधरम् । स्तुवन्ति पूजयन्तीह ब्रह्मलोकं प्रयान्तु ते ॥ ५२
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाप्नुयात् ॥ ५३
+ वन्ध्या च लभते पुत्रं वेदवेदाङ्गपारगम् । राजा विजयमाप्नोति शूद्रश्च सुखमाप्नुयात् ॥ ५४
पुत्रार्थी लभते पुत्रानभ्यर्च्यीऽऽदिगदाधरम् । मनसा प्रार्थितं सर्वं पूजाद्यैः प्राप्नुयान्नरैः ॥ ५५
इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्ये नाम नवाधिकशततमोऽध्यायः ॥ १०९ ॥
आदितः श्लोकानां समष्ट्यङ्काः—१०७७३
अथ दशाधिकशततमोऽध्यायः ।
गयामाहात्म्यम् ।
सनत्कुमार उवाच—
गयायात्रां प्रवक्ष्यामि शृणु नारद मुक्तिदाम् । निष्कृतिः श्राद्धकर्तॄणां ब्रह्मणा गीयते पुरा ॥ १
× नायं श्लोकः ख. पुस्तके । * इतः प्रभृति जातो नमाम्यादिगदाधरमित्यन्तं ग्रन्थव्यत्यासः ख. पुस्तके । + न विद्यतेऽयं श्लोकः ख. पुस्तके ।
'गृहाच्चलितमात्रेण गयायां गमनं प्रति । स्वर्गारोहणसोपानं पितॄणां च पदे पदे ॥ १
पदे पदेऽश्वमेधस्य यत्फलं गच्छतो गयाम् । तत्फलं च भवेन्नित्यं समग्रं नात्र संशयः ॥ २
ततो गयां समासाद्य स्नातव्यं तत्र निश्चयम् । इति ।
[अ० ११० श्लो० २-२०] वायुपुराणम्। ४४३
( गयामाहात्म्यम् ) उद्यतश्चेद्गयां गन्तुं श्राद्धं कृत्वा विधानतः। विधाय कार्पटीवेषं कृत्वा ग्रामप्रदक्षिणम् ॥ २ ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम्। ततः प्रतिदिनं गच्छेदप्रतिग्रहविवर्जितः ॥ ३ प्रतिग्रहादुपवृत्तः संतुष्टो नियतः शुचिः। अहंकारविमुक्तो यः स तीर्थफलमश्नुते ⊙ ॥ ४ यस्य हस्तौ च पादौ च मनश्चापि सुसंयतम्। विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ५ ततो गयाप्रवेशे च पूर्वतोऽस्ति महानदी। तत्र तोये समुत्पाद्य स्नात्तव्यं निर्मले जले ॥ ६ देवाद्दींस्तर्पयित्वाऽथ श्राद्धं कृत्वा यथाविधि। * स्वेवेदशाखागदितमध्यर्वाहनवर्जितम् ॥ ७ अपरेऽह्नि शुचिर्भूत्वा गच्छेद्धि प्रेतपर्वते। ब्रह्मकुण्डे ततः स्नात्वा देवाद्दींस्तर्पयेत्सुधीः॥ ८ कुर्याच्छ्राद्धं सपिण्डानां प्रयतः प्रेतपर्वते। प्राचीनावीतिना भाव्यं दक्षिणाभिमुखः सुधीः॥ ९ कव्यवाहोऽनलः सोमो यमश्चैवार्यमा तथा। अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ॥ १० आगच्छन्तु महाभागा युष्माभी रक्षितास्विह। मदीयाः पितरो ये च कुले जाताः सनाभयः ॥ ११ तेषां पिण्डप्रदानार्थमागतोऽस्मि गयामिमाम्। ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ॥ १२ आचम्योक्त्वा च पश्चाङ्गं प्राणायामं प्रयत्नतः। पुनरावृत्तिरहितब्रह्मलोकाप्तिहेतवे ॥ १३ एवं च विधिवच्छ्राद्धं कृत्वा पूर्वं यथाक्रमम्। पितॄनावाह्य चाभ्यर्च्य मन्त्रैः पिण्डप्रदो भवेत् ॥ १४ तीर्थे प्रेतशिलादौ च चरुणा सक्तुतेन वा। प्रक्षाल्य पूर्वं तत्स्थानं पञ्चगव्यैः पृथक्पृथक् ॥ १५ तैर्मन्त्रैश्च संपूज्य पञ्चगव्यैश्च देवताम् ॥ १६ यावत्तिला मनुष्यैश्च गृहीताः पितृकर्मसु। गच्छन्ति तावदसुराः सिंहत्रस्ता यथा मृगाः ॥ १७ अष्टकासु च वृद्धौ च गयायां च भूतेऽहनि। मातुः श्राद्धं पृथक्कुर्यादन्यत्र + पतिना सह ॥ वृद्धिश्राद्धं तु मात्रावि गयायां पितृपूर्वकम्। पाद्यपूर्वं समारभ्य दक्षिणाग्रकुशैः क्रमात् ॥ १८ पित्रादीनां समास्तीर्थ शेषं गृहोक्तमाचरेत् ॥ १९ दद्युः श्राद्धं सपिण्डानां तेषां दक्षिणभाममः। कुशानास्तीर्य विधिना सकृद्दत्वा तिलोदकम् ॥ गृहीत्वाऽञ्जलिना तेभ्यः पितृतीर्थेन यत्नतः। सकुना मुष्टिमात्रेण दद्यादक्षय्यपिण्डकम् ॥ × २० संबन्धिनस्तिलाद्भिश्च कुशेश्वाहयेत्ततः ॥
⊙ इत उत्तरमधिकाः श्लोका मुद्रितपुस्तकटिप्पण्यामुप लभ्यन्ते ते च यथा-
* नास्त्यर्धमिदं ख पुस्तके। + आर्षश्चायं प्रयोगः। × क पुस्तकटिप्पण्यामतेऽधिकाः श्लोका एतदग्रे दृश्यन्ते ते च यथा-पायसेनापि चरुणा सक्तुना पिष्टकेन च। गुडेन तण्डुलाद्यैर्वा पिण्डदानं विधीयते ॥ १
मुष्टिमात्रप्रमाणेन चाऽऽद्रामलकमात्रतः। शमीपत्रप्रमाणेन पिण्डं दद्याद्गयाशिरो ॥ २
उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम्। माता पिता च भार्या च भगिनी दुहितु पतिः॥ ३
पितृष्वसा मातृष्वसा सप्त गोत्राः प्रकीर्तिताः। विंशतिर्विंशतिः पित्रोर्हेन्द्राः षोडश क्रमात् ॥ ४
एकादश द्वादशाथ कुलान्येकोत्तरं शतम्। पिता पितामहश्चैव तथैव प्रपितामहः ॥ ५
माता पितामही चैव तथैव प्रपितामही। मातामहस्तत्पिता च प्रमातामहकादयः ॥
तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥ इति। ६
इत उत्तरमेतदर्थं ख पुस्तके। तद्यथा--तिलाज्यमधुदध्यादि पिण्डद्रव्येषु योजयेत्।
(गयामाहात्म्यम्)
४५४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०११०श्लो०२१-४८] (गयामाहात्म्यम्)
(+ अब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः । तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥ २१
अतीतकूलकोटीनां सप्तद्वीपनिवासिनाम् । आब्रह्मभुवनालोकादिदमस्तु तिलोदकम् ॥ २२
पिता पितामहश्चैव तथैव प्रपितामहः । माता पितामही चैव तथैव प्रपितामही ॥ २३
मातामहस्तत्पिता च प्रमातामहकादयः । तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥ २४
मुष्टिमात्रप्रमाणं च आर्द्रामलकमात्रकम् । शमीपत्रप्रमाणं वा पिण्डं दद्याद्गयाशिरे ॥
उद्धरेत्सप्त गोत्राणि कुलानि शतमुद्धरेत् ॥ २५
पितुर्मातुः स्वभार्याया भगिन्या दुहितुस्तथा । पितृष्वसुर्मातृष्वसुः सप्त गोत्रा प्रकीर्तिताः ॥ २६
चतुर्विंशतिर्विंशच्च षोडश द्वादशैव हि । रुद्रादिवसवश्चैव कुलान्येकोत्तरं शतम् ॥ २७
नाऽऽपवाहनं न दिग्बन्धो न दोषो दृष्टिसंभवः । न कारुण्येन कर्तव्यं तीर्थश्राद्धं विचक्षणैः ॥ २८
पिण्डासनं पिण्डदानं पुनः प्रत्यवनेजनम् । दक्षिणा चान्नसंकल्पं तीर्थश्राद्धे स्वयं विधिः ॥ २९
अस्मत्कुले मृता ये न गतिर्येषां न विद्यते । आवाहयिष्ये तान्सर्वान्दर्भपृष्ठे तिलोदकैः ॥ ३०
* मातामहकुले ये च गतिर्येषां न विद्यते । आवाहयिष्ये तान्सर्वान्दन्कुशपृष्ठे तिलोदकैः ॥ ३१
बन्धुवर्गकुले ये च गतिर्येषां न विद्यते । आवाहयिष्ये तान्सर्वान्दर्भपृष्ठे तिलोदकैः + ॥ ३२
इत्येतैर्मन्त्रैः सजलैस्तिलैर्दर्भेषु ध्यानवान् । आवाह्याभ्यर्च्य तेभ्यश्च पिण्डान्दद्याद्यथाक्रमम् ॥ ३३
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ३४
मातामहत्कुले ये च गतिर्येषां न विद्यते । तेषामुद्धरणार्थीय इमं पिण्डं ददाम्यहम् ॥ ३५
बन्धुवर्गकुले ये च गतिर्येषां न विद्यते । तेषामुद्धरणार्थीय इमं पिण्डं ददान्यहम् ॥ ३६
अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः । तेषामुद्धरणार्थीय इमं पिण्डं ददाम्यहम् ॥ ३७
अभिदग्धाश्च ये केचिन्नाभिदग्धास्तथाऽपरे । विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम् ॥ ३८
दावदाहे मृता ये च सिंहव्याघ्रहताश्च ये । दंष्ट्रिभिः शृङ्गिभिर्वाऽपि तेभ्यः पिण्डं ददाम्यहम् ॥ ३९
उद्वन्धनमृता ये च विषशस्त्रहताश्च ये आत्मघातिनो च ये तेभ्यः पिण्डं ददाम्यहम् ॥ ४०
अरण्ये पत्मनि वने क्षुधया तृषया दताः । भूतप्रेतपिशाचाद्यैस्तेभ्यः पिण्डं वदाम्यहम् ॥ ४१
रौरव्ये चान्धतामिश्रे (स्रे) कालसूत्रे च ये गताः । तेषामुद्धरणार्थाय इमं पिण्डं तदास्यहम् ॥ ४२
+ असिपत्रवने घोरे कुम्भीषकेषु ये गताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४३
अनेकयातनासंस्थाः प्रेतलोकं च ये गताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४४
अनेकयातनासंस्थाः ये नीता यमकिंकरैः । तेषामुरणार्थाम इमं पिण्डं ददाम्यहम् ॥ ४५
नरकेषु समस्तेषु यातनासु च ये स्थिताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ ४६
पशुयोनिगता ये च पक्षिकीटसरिसृपाः । अथवा वृक्षयोनिस्यास्तेभ्यः पिण्डं ददाम्यहम् ॥ ४७
जात्यन्तरसहस्रेषु भ्रमन्तः स्वेन कर्मणा । मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥ ४८
+इत आरभ्य-आर्द्रामलकमात्रकमित्यन्तं ग्रन्थव्यत्यासः ख पुस्तके। + एतच्चिह्नान्तर्गतग्रन्थो । नास्ति ख पुस्तके ।
* न विद्येऽयं श्लोकः क. पुस्तके । + एतदग्रेऽयं पाठः ख. पुस्तके स यथा-आब्रह्मस्तम्बपर्यतं यत्किंचित्सचराचरम् । मया दत्तेन तोयेन तृप्यन्तु भुवनत्रयम् ॥ इति । ÷अयं श्लोको नास्ति ख. पुस्तके ।
[अ० ११०-१११ श्लो० ४९-६६।१-२] वायुपुराणम् । ४४५
( गयामाहात्म्यम् )
दिव्यन्तरिक्षभूमिष्ठाः पितरो बान्धवादयः । मृता असंस्कृता ये च तेभ्यः पिण्डं ददाम्यहम् ॥ ४९
ये केचित्प्रेतरूपेण वर्तन्ते पितरो मम । ते सर्वे तृप्तिमायान्तु पिण्डेनानेन सर्वदा ॥ ५०
येऽबान्धवा बान्धवा वा येन्यजन्मजन्मनि बान्धवाः । तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥ ५१
पितृवंशे मृता ये च मातृवंशे च ये मृताः । गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥ ५२
ये मे कुले लुप्तपिण्डाः पुत्रदाराविवर्जिताः । क्रियालोपगता ये च जात्यन्धाः पङ्गवस्तथा ॥ ५३
विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम । तेषां पिण्डो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥ ५४
आ ब्रह्मणो ये पितृवंशजाता मातुस्तथा वंशभवा मदीयाः ।
कुलद्वये ये मम दासभूता भृत्यास्तथैवाऽऽश्रितसेवकाश्च ॥ ५४
मित्राणि शिष्याः पशवश्च वृक्षा दृष्टा ह्यदृष्टाश्च कृतोपकाराः ।
जन्मान्तरे ये मम संगताश्च तेभ्यः स्वधा पिण्डमहं ददामि ॥ ५५
एतैश्च सर्वमन्त्रैस्तु स्त्रीलिङ्गान्तं समुह्य च । पिण्डान्दद्याद्यथा पूर्वं स्त्रीणां मात्रादिकाक्रमात् ॥ ५६
स्वगोत्रे परगोत्रे वा दंपत्योः पिण्डपातनम् । अपृथाईन्निष्फलं श्राद्धं पिण्डं चोदकतर्पणम् ॥ ५७
पिण्डपात्रे तिलान्क्षिप्व्वा पूरयित्वा शुभोदिकैः । * मन्त्रेणानेन पिण्डांस्तानप्रदक्षिणयथाक्रमम् ॥
परिषिच्य त्रिधा सर्वान्प्रणिपत्य समापयेत् ॥ ५८
पितॄन्विसृज्य चाऽऽचाम्य साक्षिणः श्रावयेत्सुरान् । साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ॥ ५९
मया गयां समासाद्य पितॄणां निष्कृतिः कृता ॥
आगतोऽस्मि गयां देव पितृकार्ये गदाधर । त्वमेव साक्षी भगवन्नृणोऽहमृणत्रयात् ॥ ६०
सर्वस्थानेषु चैवं स्यात्पिण्डदानं तु नारद । प्रेतपर्वतमारभ्य कुर्यात्तीर्थेषु च क्रमात् ॥ ६१
तिलमिश्रांस्ततः सक्तून्क्षिपेत्प्रेतपर्वते । \div अपसव्येन देवर्षे दक्षिणाभिमुखेन च ॥ ६२
ये केचित्प्रेतरूपेण वर्तन्ते पितरो मम । ते सर्वे तृप्तिमायान्तु सक्तुभिस्तिलमिश्रितैः ॥ ६३
आब्रह्मस्तम्बपर्यन्तं यत्किंचित्सचराचरम् । मया दत्तेन तोयेन तृप्तिमायान्तु सर्वशः ॥ ६४
प्रेतत्वाच्च विमुक्ताः स्युः पितरस्तस्य नारद । प्रेतत्वं तस्य माहात्म्यात्कुले चापि न जायते ॥ ६५
नाम्ना प्रेतशिला ख्याता गयाशिरसि मुक्ये । तीर्थमन्त्रादिरूपेण स्थितश्चाऽऽदिगदाधरः ॥ ६६
इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम दशाधिकशततमोऽध्यायः ॥ ११० ॥
आदितः श्लोकानां समष्ट्यङ्काः—१०८३९
अथैकादशाधिकशततमोऽध्यायः ।
गयामाहात्म्यम् ।
सनत्कुमार उवाच—
आदौ तु पञ्चतीर्थेषु चोत्तरे मानसे विधिः । आचम्य कुशहस्तेन शिरश्चाभ्युक्ष्य वारिणा ॥ १
उत्तरं मानसं गच्छेन्मन्त्रेण स्नानमाचरेत् । उत्तरे मानसे स्नानं करोम्यामविशुद्धये ॥ २
* नास्त्यधर्मिदं क. पुस्तके । \div नास्त्यर्थमिदं ख. पुस्तके ।
( गयामाहात्म्यम् )
४४६ श्रीमद्वैपायनमुनिप्रणीतम् - [अ० १११ श्लो० ३-२३] ( गयामाहात्म्यम् )
सूर्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये । \times स्नानार्थं तर्पणं कृत्वा श्राद्धं कुर्यात्सपिण्डकम् ॥ ३ मानसं हि सरो ह्यत्र तस्मादुत्तरमानसम् । सूर्यं नत्वाऽर्चयित्वाऽथ सूर्यलोकं नयेत्पितॄन् ॥ ४ नमो भगवते भर्त्रे सोमभौमज्ञरूपिणे । जीवभार्गवसौरेयराहुकेतुस्वरूपिणे ॥ ५ उत्तरान्मानसान्मौनी व्रजेद्दक्षिणमानसम् । उदीचीतीर्थमित्युक्तं तत्रौदीच्यं विमुक्तिदम् ॥ अत्र स्नातो दिवं याति स्वशरीरेण मानवः ॥ ६ मध्ये कनखलं तीर्थं त्रिषु लोकेषु विश्रुतम् । स्नातः कनकवद्भाति नरो याति पवित्रताम् ॥ ७ तस्य दक्षिणभागे च तीर्थं दक्षिणमानसम् । दक्षिणे मानसे चैव तीर्थत्रयमुदाहृतम् ॥ ८ स्नात्वा तेषु विधानेन कुर्याच्छ्राद्धं पृथक्पृथक् । दक्षिणे मानसे स्नानं करोम्यात्मविशुद्धये ॥ ९ सूर्यलोकादिसंसिद्धिसिद्धये पितृमुक्तये । ब्रह्महत्यादिपापौघयातनाया विमुक्तये ॥ १० दिवाकर करोमीह स्नानं दक्षिणमानसे । * सूर्यं नत्वाऽर्चयित्वा च सूर्यलोकं नयेत्पितॄन् ॥ ११ नमामि सूर्यं तृप्त्यर्थं पितॄणां तारणाय च । पुत्रपौत्रधनैश्वर्याद्याऽऽयुरारोग्यवृद्धये + ॥ १२ फल्गुतीर्थं व्रजेत्तस्मात्सर्वतीर्थोत्तमोत्तमम् । मुक्तिर्भवति कर्तॄणां पितॄणा श्राद्धतः सदा ॥ १३ ब्रह्मणा प्रार्थितो विष्णुः फल्गुको ह्यभवत्पुरा । दक्षिणाग्नौ हुतं तत्र तद्रजः फल्गुतीर्थकम् ॥ \odot १४ तीर्थानि यानि सर्वाणि भुवनेष्वखिलेष्वपि । तानि स्नातुं समायान्ति फल्गुतीर्थं सुरैः सह ॥ १५ गङ्गा पादोदकं विष्णोः फल्गुर्ह्रादिगदाधरः । स्वयं हि द्रवरूपेण तस्माद्गङ्गाधिकं विदुः ॥ १६ अश्वमेधसहस्राणां सहस्रं यः समाचरेत् । नासौ तत्फलमाप्नोति फल्गुतीर्थे यदाप्नुयात् ॥ १७ \div फल्गुतीर्थे नरः स्नात्वा तर्पणं श्राद्धमाचरेत् । सपिण्डकं स्वसूत्रोक्तं नमेदथ पितामहम् ॥ १८ नमः शिवाय देवाय ईशाय पुरुषाय वै । अघोरवामदेवाय सद्योजाताय शंभवे ॥ १९ फल्गुतीर्थे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् । आत्मानं तारयेत्सद्यो दश पूर्वान्दशापरान् ॥ २० नत्वा गदाधरं देवं मन्त्रेणानेन पूजयेत् । ओं नमो वासुदेवाय नमः संकर्षणाय च ॥ प्रद्युम्नायानिरुद्धाय श्रीधराय च विष्णवे ॥ २१ पञ्चतीर्थे नरः स्नात्वा ब्रह्मलोकं नयेत्पितॄन् । अमृतैः पञ्चभिः स्नानं पुष्पवस्त्राद्यलंकृतम् ॥ न कुर्याद्यो गदापाणेस्तस्य श्राद्धं निरर्थकम् ॥ २२ नागकूटाद्गृध्रकूटाद्यूपानुत्तरमानसात् \surd । एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ॥ २३
\times पाठः-एतदर्थस्थानेऽयं देवाद्दींस्तर्पयित्वाऽथ श्राद्धं कृत्वा सापिण्डकम् । इति ख. पुस्तके ।
* इदमर्धं न क पुस्तके । + एतदग्रेऽयं श्लोकः क. पुस्तके टिप्पण्याम्-अनेन स्नानदानादि कृत्वा श्राद्धं सपिण्डकम् । कृत्वा नत्वा च मौन्यंर्कमिमं मन्त्रमुदीरयेत् । एतदग्रे इदमर्धम्-एतत्तीर्थ-त्रये मौनी स्नानश्राद्धादिकं चरेत् । इति ख. पुस्तके । \odot इत उत्तरमयं श्लोको वर्तते क. पुस्तक-टिप्पण्याम्-तस्मिन्फलति फल्ग्वा गौः कामधेनुर्जलं मही । दृष्टेरन्तर्गतं यस्मात्फल्गुतीर्थं न निष्फलम् इति । \div फल्गुतीर्थे नरः स्नात्वा इत्यस्मात्प्राक् क. पुस्तके टिप्पण्यामधिक एकः श्लोको वर्तते स यथा,-फल्गुतीर्थे विष्णुजले करोमि स्नानमादृतः । पितॄणां विष्णुलोकाय भुक्तिमुक्तिप्रसिद्धये इति । \surd एतच्छ्लोकपरतः क पुस्तकटिप्पण्यामधिके श्लोका विद्यते स यथा,-मुण्डपृष्ठनगाधस्तात्फल्गु-तीर्थमनुत्तमम् । अत्र श्राद्धादिना सर्वे पितरो मोक्षमाप्नुयुः । इति ।
[ अ० १११ श्लो० २४-४४ ] | वायुपुराणम् | ४४७ ( गयामाहात्म्यम् )
प्रथमेऽह्नि विधिः प्रोक्तो द्वितीये दिवसे व्रजेत् । धर्मारण्यं तत्र धर्मो यस्माद्यज्ञमकारयत् ॥
गमनाद्ब्रह्मलोकाप्तिर्भवत्येव हि नारद ॥ २४
मतङ्गवाप्यां यः स्नात्वा तर्पणं श्राद्धमाचरेत् । गत्वा नत्वा मतङ्गाश्रमिमं मन्त्रमुदीरयेत् ॥ २५
प्रमाणं देवताः सन्तु लोकपालाश्च साक्षिणः । मयाऽऽगत्य मतङ्गेऽस्मिन्पितॄणां निष्कृतिः कृता ॥
*पूर्वं हि ब्रह्मतार्थे च कूपे श्राद्धादि कारयेत् । तत्कूपयूपयोर्मध्ये सर्वांस्तारयते पितॄन् ॥
धर्मं धर्मेश्वरं नत्वा महाबोधितरुं नमेत् ॥ २६
नमस्तेऽश्वत्थराजाय ब्रह्मविष्णुशिवात्मने । बोधिद्रुमाय कर्तॄणां पितॄणां तारणाय च ॥ २७
येऽस्मत्कुले मातृवंशे बान्धवा दुर्गतिं गताः । त्वद्दर्शनात्स्पर्शनाच्च स्वर्गतिं यान्तु शाश्वतीम् ॥ २८
ऋणत्रयं मया दत्तं गयामागत्य वृक्षराट् । त्वत्प्रसादान्महापापाद्विमुक्तोऽहं भवार्णवात् ॥ २९
तृतीये ब्रह्मसरसि स्नात्वा श्राद्धं सपिण्डकम् । कृत्वा सर्वप्रमाणेन मन्त्रेण विधिवत्सुत ॥ ३०
- स्नानं करोमि तीर्थेऽस्मिन्नृणत्रयविमुक्तये । तत्कूपयूपयोर्मध्ये ब्रह्मलोकं नयेत्पितॄन् ॥ ३१
यागं कृत्वोत्थितो यूपो ब्रह्मणो यूप इत्यसौ । कृत्वा ब्रह्मसरःश्राद्धं सर्वांस्तारयते पितॄन् ॥ ३२
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् । ब्रह्माणं च नमस्कृत्य ब्रह्मलोकं नयेत्पितॄन् ॥ ३३
नमोऽस्तु ब्रह्मणेऽजाय जगज्जन्मादिरूपिणे । भक्तानां च पितॄणां च तारकाय नमो नमः ॥ ३४
गोप्रचारसमीपस्था आम्रा ब्रह्मप्रकल्पिताः । तेषां सेचनमात्रेण पितरो मोक्षगामिनः (णा) ॥ ३५
आम्रं ब्रह्मसरोद्भूतं ब्रह्मदेवमयं तरुम् । विष्णुरूपं प्रसिञ्चामि पितॄणां मुक्तिहेतवे ॥ ३६
एको मुनिः कुम्भकुशाग्रहस्त आम्रस्य मूले सलिलं ददानः ॥
आम्रश्च सिक्तः पितरश्च तृप्ता एका क्रिया व्यर्थकरी प्रसिद्धा + ॥ ३७
ततो यमबलिं दद्यान्मन्त्रेणानेन संयतः । यमराजधर्मराजौ निश्चलार्थं व्यवस्थितौ ॥
ताभ्यां बलिं प्रयच्छामि पितॄणां मुक्तिहेतवे ॥ ३८
ततः श्वानबलिं दद्यान्मन्त्रेणानेन नारद । द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ ॥
ताभ्यां बलिं प्रयच्छामि रक्षतां पथि सर्वदा ॥ ३९
ततः काकबलिं दद्यान्मन्त्रेणानेन नारद । ऐन्द्रवारुणवायव्यायाम्य या नैर्ऋतास्तथा ॥
वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं समर्पितम् ॥ ४०
फल्गुतीर्थे चतुर्थेऽह्नि स्नानादिकमथाऽऽचरेत् । गयाशिरस्यथ श्राद्धं पादे कुर्यात्सपिण्डकम् ॥ ४१
साक्षाद्गयाशिरस्तत्र फल्गुतीर्थाश्रितं कृतम् ॥
नागाज्जनार्दनाद्ब्रह्मयूपाच्चोत्तरमानसात् । एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ॥ ४२
पितामहं समासाद्य यावदुत्तरमानसम् । फल्गुतीर्थं तु विज्ञेयं देवानामपि दुर्लभम् ॥ ४३
क्रौञ्चपादात्फल्गुतीर्थं यावत्साक्षाद्गयाशिरः । मुखं गयासुरस्यैतत्तस्माच्छ्राद्धमिहाक्षयम् ॥ ४४
*इदमर्धं न विद्यते ख. पुस्तके । + नास्त्यर्थमिदं ख. पुस्तके । × इत उत्तरमेतदर्धं विद्यते ख. पुस्तके तद्यथा-यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ॥
४४८ श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ११९।श्लो० ४५–६८] (गयामाहात्म्यम्)
मुण्डपृष्ठान्नगाधस्तात्साक्षान्नफल्गुतीर्थकम् । आद्यो गदाधरो देवो व्यक्ताव्यक्तात्मना स्थितः विष्ण्वादिपदरूपेण पितॄणां मुक्तिहेतवं ॥ ४५ एतद्विष्णुपदं दिव्यं दर्शनात्पापनाशनम् । स्पर्शनात्पूजनाद्वाऽपि पितॄणां दत्तमक्षयम् ॥ ४६ श्राद्धं सपिण्डकं कृत्वा कुलसाहस्रमात्मना । नयेद्विष्णुपदं दिव्यमनन्तं शिवमव्ययम् ॥ ४७ श्राद्धं कृत्वा रुद्रपदे नयेत्कुलशतं नरः । सहाऽऽत्मना शिवपुरं तथा ब्रह्मपदे नरः ॥ ४८ ब्रह्मलोकं कुलशतं समुद्धृत्य नयेत्पितॄन् । *कश्यपस्य पदे श्राद्धी ब्रह्मलोकं नयेत्पितॄन् ॥ ४९ दक्षिणाग्निपदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् । गार्हपत्यपदे श्राद्धी वाजपेयफलं लभेत् ॥ ५० श्राद्धं कृत्वाऽऽहवनीये अश्वमेधफलं लभेत् । श्राद्धं कृत्वा सभ्यपदे ज्योतिष्टोमफलं लभेत् ॥ ५१ आवसथ्यपदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् । श्राद्धं कृत्वा शक्रपदे इन्द्रलोकं नयेत्पितॄन् ॥ ५२ अगस्त्यस्य पदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् । क्रौञ्चयातङ्गयोः श्राद्धी ब्रह्मलोकं नयेत्पितॄन् ॥ ५३ श्राद्धी सूर्यपदे पश्चा पापिनोऽर्कपुरं नयेत् । कार्तिकेयपदे श्राद्धी शिवलोकं नयेत्पितॄन् ॥ ५४ गणेशस्य पदे श्राद्धी रुद्रलोकं नयेत्पितॄन् । गजकर्णतर्पणंकृन्निर्मलं स्वर्नयेत्पितॄन् ॥ ५५ अन्येषां च पदे श्राद्धी पितॄन्ब्रह्मपुरं नयेत् । सर्वेषां काश्यपं श्रेष्ठं विष्णो रुद्रस्य वै पदम् ॥ ब्रह्मणश्च पदं चापि श्रेष्ठं तत्र प्रकीर्तितम् ॥ ५६ प्रारम्भे च समाप्तौ च तेषामन्यतमं स्मृतम् । श्रेयस्करं भवेत्तत्र श्राद्धकर्तुश्च नारद ॥ ५७ कश्यपस्य पदे दिव्ये भारद्वाजो मुनिः पुरा । श्राद्धं कृतोद्यतो दातुं पित्रादिभ्यश्च पिण्डकम् ॥ ५८ शुक्लकृष्णौ ततो हस्तौ पदमुन्द्भिद्य निर्गतौ । दृष्ट्वा हस्तद्वयं तत्र मुनिः संशयमागतः ॥ ५९ ततः स्वमातरं शान्तां पप्रच्छ स महामुनिः । कश्यपस्य पदे दिव्ये शुक्ले कृष्णेऽथ वा करे ॥ पिण्डो देयो मया मातर्जानासि पितरं वद ॥ ६०
शान्तोवाच— भारद्वाज महाप्राज्ञ देहि कृष्णाय पिण्डकम् । भारद्वाजस्ततः पिण्डं दातुं कृष्णाय चोद्यतः ॥ ६१ श्वेतोऽदृश्योऽब्रवीत्तत्र पुत्रस्त्वं हि ममौ रसः । कृष्णोऽब्रवीन्मम क्षेत्रं ततो मे देहि पिण्डकम् ॥ ६२ स्वैरिण्यथाब्रवीद्दातुं क्षेत्रिणे बीजिने ततः । भारद्वाजस्ततः पिण्डं कश्यपस्य पदे ददौ + ॥ ÷ हंसयुक्तविमानेन ब्रह्मलोकमुभौ गतौ ॥ ६३ रामो रुद्रपदे श्राद्धे पिण्डदानाय चोद्यतः । पिताः दशरथः स्वर्गात्प्रसार्य करमागतः ॥ ६४ नादात्पिण्डं करे रामो ददौ रुद्रपदे ततः । शास्त्राथर्तिक्रमाद्धीतं रामं दशरथोऽब्रवीत् ॥ ६५ तारितोऽहं त्वया पुत्र रुद्रलोकमवाप्नुयाम् । हस्ते पिण्डप्रदानेन स्वर्गतिर्न हि मे भवेत् ॥ ६६ त्वं च राज्यं चिरं कृत्वा पालयित्वा द्विजान्मजाः । यज्ञान्सदक्षिणाङ्कृत्वा विष्णुलोकं व्रजिष्यसि ॥ पुर्यंयोध्याजनैः सार्धं कृमिकीटादिभिः सह । इत्युक्त्वाऽसौ दशरथो रुद्रलोकं परं ययौ ॥ ६८
* इदमर्धं न विद्यते ख.पुस्तके । + अत्राध्यायसमाप्तिर्दृश्यते ख. पुस्तके। × हंसयुक्तविमाने-नेत्यारभ्य वन्दे श्रीप्रपितामहमित्यन्तः पाठो नास्ति ख. पुस्तके।
[अ०१११-११२ श्लो०६९-८४।१] वायुपुराणम् । ४४९ ( गयामाहात्म्यम् ) भीष्मो विष्णुपदे श्रेष्ठे आहूय पितरं स्वकम् । श्राद्धं कृत्वोद्यतो दातुं पित्रादिभ्यश्च पिण्डकम् ॥६९ पितुर्विर्निर्गतौ हस्तौ गयाशिरसि शांतनोः । नादात्पिण्डं करे भीष्मो ददौ विष्णुपदे ततः ॥ ७० शांतनुः प्राह संतुष्टः शास्त्रार्थे निश्चलो भवान् । त्रिकालदृष्टिर्भवतु चान्ते विष्णुश्च ते गतिः ॥ ७१ स्वेच्छया मरणं चास्तु इत्युक्त्वा मुक्तिमागतः । कनकेशं च केदारं नारसिंहं च वामनम् ॥ उदङ्भागे समभ्यर्च्य पितृन्सर्वांश्च तारयेत् ॥ ७२ गयाशिरसि यः पिण्डान्येषां नाम्ना तु निर्वपेत् । नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः*॥७३ सर्वत्र मुण्डपृष्ठाद्रिः पदैरेभिः सुलांछितः । प्रयान्ति पितरः सर्वे ब्रह्मलोकमनामयम् ॥ ७४ हेत्यसुरस्य यच्छीर्षं गदया तद्द्विधा कृतम् । ततः प्रक्षालिता यस्मात्तीर्थं तच्च विमुक्तये ॥ गदालोलमिति ख्यातं सर्वेषामुत्तमोत्तमम् ॥ ७५ गदालोले महातीर्थे गदाप्रक्षालनाद्धरेः । स्नानं करोमि सिद्धयर्थमक्षयं पदमाप्नुयाम् ॥ ७६ पञ्चमेऽह्नि गदालोले स्नात्वा कुर्यात्सपिण्डकम् । श्राद्धं पितॄन्ब्रह्मलोकं नयेदात्मानमेव च ॥ ७७ ब्रह्मप्रकल्पितान्विप्रान्हव्यकव्यादिना ÷ र्चयेत् । तैस्तुष्टैस्तोषिताः सर्वाः पितृभिः सह देवताः ॥ कृते श्राद्धेऽक्षयवटे अन्नेनैव प्रयत्नतः । पितॄन्नयेद्ब्रह्मलोकमक्षयं तु सनातनम् ॥ ७९ वटवृक्षसमीपे तु शाकेनाप्युदकेन वा । एकस्मिन्भोजिते विप्रे कोटिर्भवन्ति भोजिताः ॥ ८० देयं दानं षोडशकं गयातीर्थपुरोधसे । वस्त्रं गन्धादिभिः पुत्रैः सम्यक्सम्पूज्य यत्नतः ॥ × ८१ एकार्णवे वटस्याग्रे यः शेते योगनिद्रया । बालरूपधरस्तस्मै नमस्ते योगशायिने ॥ ८२ संसारवृक्षशस्त्रायाशेषपापहराय च । अक्षयब्रह्मदात्रे च नमोऽक्षयवटाय वै ॥ ८३ कलौ माहेश्वरा लोका येन तस्माद्गदाधरः । लिङ्गरूपोऽभवत्तं च वन्दे श्रीप्रपितामहम् ॥ ८४ इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्ये नामैकादशाधिकशततमोऽध्यायः ॥१११॥ आदित श्लोकानां समष्टयङ्काः—१०९२३
अथ द्वादशाधिकशततमोऽध्यायः । गयामाहात्म्यम् ।
सनत्कुमार उवाच-- यज्ञं चक्रे गयो राजा बह्वन्नं बहुदक्षिणम् । यत्र द्रव्यसमूहानां संख्या कर्तुं न शक्यते ॥ + १
* स्वर्गस्था मोक्षमाप्नुयुरित्यस्मात्परतः क. पुस्तकटिप्पण्यां श्लोकद्वयमधिकं वर्तते तद्यथा- गयाशिरसि यः पिण्डं शमीपुष्पप्रमाणतः । कन्दमूलफलाद्यैर्वा दद्यात्स्वर्गं नयेत्पितॄन् ॥ इति ॥ पदानि यत्र दृश्यन्ते विष्णुवादीनां तदग्रतः । श्राद्धं कृत्वा सपिण्डं च तेषां लोकान्नयेत्पितॄन् ॥ ÷ इत उत्तरं क पुस्तकटिप्पण्यामधिकं श्लोकद्वयमस्ति तद्यथा-- गयातीर्थवटे चैव पितॄणां दत्तमक्षयम् । दृष्ट्वा नत्वा च संपूज्य वटेशं सुसमाहितः ॥ पितॄन्नयेद्ब्रह्मलोकमक्षयं तु सनातनम् ॥ १ गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा । गयाशीर्षे वटे चैव पितॄणां दत्तमक्षयम् ॥ इति । २ + संख्या कर्तुं न शक्यत इत्यस्मात्परतः ख. पुस्तकेऽधिको ग्रन्थोऽस्ति स यथा--
५७
४५० श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ११२ श्लो० ३-२२]
(गयामाहात्म्यम्)
सिकता वा यथा लोके यथा च दिवि तारकाः । तथा रत्नसुवर्णाद्यैरसंख्यातास्तु दक्षिणाः ॥
नैवेह पूर्वे ये केचिन्न करिष्यन्ति चापरे । प्रशंसन्ति द्विजास्तृप्ता देशे देशे सुपूजिताः ॥ ३
गयं विष्णुवादयस्तुष्टा वरं ब्रूहीति चाब्रुवन् । गयस्तानप्रार्थयामास अभिशप्ताश्च ये पुरा ॥ ४
ब्राह्मणा ते द्विजाः पूता भवन्तु ऋतुपूजिताः*। + गयापुरीति मन्नाम्ना ख्याता ब्रह्मपुरी यथा ॥
एवमस्तु वरं दत्त्वा तत्रैवान्तर्दधुः सुराः । गयश्च भोगान्संभुज्य विष्णुलोकं परं ययौ ॥ ६
विशालायां विशालोऽभूद्राजाऽपुत्रोऽब्रवीद्विजान् । कथं पुत्रादयो मे स्युर्विशालं चानुवन्द्विजाः ॥ ७
गयायां पिण्डदानेन तव सर्वं भविष्यति । विशालोऽपि गयाशीर्षे पिण्डदः पुत्रवानभूत् ॥ ८
दृष्ट्वाऽऽकाशे सितं रक्तं कृष्णं पुरुषमब्रवीत् । के यूयं तेषु चैवैकः सितः प्रोच विशालकम् ॥ ९
अहं सितस्ते जनक इन्द्रलोकादिहाऽऽगतः । मम पुत्र पिता रक्तो ब्रह्महा पापकृत्तमः ॥ १०
अयं पितामहः कृष्ण ऋषयो येन घातिताः । अवीचिनरकं प्राप्तौ मुक्तौ त्वत्पिण्डदानतः ॥ ११
पितॄन्पितामहांश्चैव तथैव प्रपितामहान् । प्रीणयामीति यन्तोयं त्वया दत्तमरिंदम ॥ १२
तेनास्मद्युगपद्योगो जातो वाक्येन सत्तम । × मुक्तिः कृता त्वया पुत्र व्रजामः स्वर्गमुत्तमम् ॥
एवं पुत्रैः पितॄणां च कर्तव्या मुक्तिरुत्तमा ॥ १३
त्वं च राज्यं चिरं कृत्वा भुक्ता भोगांश्च दुर्लभान् । यज्ञान्सदाक्षिणान्कृत्वा याया विष्णुपुरं ततः ॥
एवं लब्धवरो राजा राज्यं कृत्वा दिवं गतः । प्रेतराजः सह प्रेतैर्गयाश्राद्धाद्दिवं गतः ॥ १५
प्रेतः कश्चिद्विमुक्त्यर्थं वणिजं कं चिदब्रवीत् । मम नाम्ना गयाशीर्षे पिण्डनिर्वापणं कुरु ॥ १६
प्रेतभावविमुक्त्यर्थं त्वं गृहाण धनं मम । तद्धनं सर्वमादाय गयाश्राद्धव्ययं कुरु ॥ १७
धनस्यैतस्य षष्ठांशं तुभ्यं वै दत्तवानहम् । स्वनामानि यथान्यायं सम्यगाख्यातवानहम् ÷ ॥ १८
गत्वा गयां गयाशीर्षे प्रेतराजाय पिण्डकम् । समदाद्वन्धुभिः सार्धं स्वपितृभ्यस्ततो ददौ ॥ १९
प्रेतः प्रेतत्वनिर्मुक्तो वणिक्स्वगृहमागतः । एवं गयस्य शंभोश्च क्षेत्रं विष्णो रवेस्तथा ॥ २०
उपोषितोऽथ गायत्र्यां तीर्थे महानदीस्थिते । गायत्र्याः पुरतः स्नात्वा प्रातः संध्यामुपासयेत् ॥
श्राद्धं सपिण्डकं कृत्वा नयेद्ब्रह्ममयं कुलम् ॥ २१
तीर्थे समुदिते स्नात्वा सावित्र्याः पुरतो नरः । संध्यामुपास्य मध्याह्ने नयेत्कुलशतं दिवम् ॥
पिण्डदानं ततः कुर्यात्पितॄणां मुक्तिकाम्यया ॥ २२
स्थिता गयायामन्नादिपर्वताः पञ्चविंशतिः । प्रशंसन्ति द्विजास्तत्र देशे देशे सुपूजिताः ॥ ३
दानातिशयमालोक्य सर्वे विष्णुवादयः सुराः । संतुष्टा गयराजानं वरान्व्रूहीति चाब्रुवन् ॥ ४
नैव पूर्वं केऽप्यकुर्वन्न करिष्यन्ति चापरे । इति ।
*भवन्तु ऋतुपूजिता इत्यनन्तरं ख पुस्तकेऽतिरिक्ताः कतिपयश्लोकाः सन्ति ते यथा--
गयाश्राद्धविधानाय द्विजा मूर्ताश्चतुर्दश । तेषां वाक्यं प्रकुर्वीत यदि ब्रह्मा स्वयं भवेत् ॥ १
गौतमं काश्यपं कौत्सं कौशिकं कण्वमेव च । भारद्वाजं शौशनसं वात्स्यं पाराशरं तथा ॥ २
हरित्कुमारमाण्डव्यं लोकाक्षिं लोकसंहतम् । वाशिष्ठं च तथाऽऽत्रेयं गोत्राण्येषां चतुर्दश ॥ इति ।
+इदमर्धं नास्ति ख. पुस्तके । ×इदमर्धं न विद्यते ख पुस्तके । ÷इतः परमेकः श्लोकोऽधिकः ख पुस्तके-
[ अ ० ११२ श्लो ० २३-३० ] वायुपुराणम् । ४५१ ( गयामाहात्म्यम् ) प्राचीसरस्वतीतीर्थे स्नात्वा चापि यथाविधि । संध्यामुपास्य सायाह्ने विष्णुलोकं नयेत्पितॄन् ॥ बहुजन्मकृतात्संध्यालोपान्मुक्तस्त्रिसंध्यकृत् ॥ २३ विशालायां लेलिहाने तीर्थे च भरताश्रमे । पादाङ्किते मुण्डपृष्ठे गदाधरसमीपतः ॥ २४ तीर्थे चाऽऽकाशगङ्गायां गिरिकर्णमुखेषु च । स्नातोऽथ पिण्डदो ब्रह्मलोकं कुलशतं नयेत् ॥ २५ देवनद्यां वैतरण्यां स्नातः स्वर्गं नयेत्पितॄन् । स्नातो गोदो वैतरण्यां त्रिःसप्तकुलमुद्धरेत् ॥ २६ सत्यं सत्यं पुनः सत्यं वैतरण्यां तु नारद । एकविंशतिकुलान्याहुस्तारयेन्नात्र संशयः ॥* २७ + या सा वैतरणी नाम नदी त्रैलोक्यविश्रुता । सावतीर्णा गयाक्षेत्रे पितॄणां तारणाय वै ॥ २८ × त्रिरात्रोपोषितेनैव तीर्थाभिगमनेन च । अदत्त्वा काञ्चनं गाञ्च दरिद्रो जायते नरः ÷ २९ घृतकुल्या मधुकुल्या देविका च महानदी । शिलायाः संगमो यत्र तत्र प्रोक्ता मधुस्रवा ॥ ३० अयुतं चाश्वमेधानां स्नानकृल्लभते नरः । श्राद्धं सपिण्डकं कृत्वा पिण्डदानं तथैव च ॥
*संशय इत्यनन्तरं क. पुस्तकटिप्पण्यामधिकं श्लोकद्वयमस्ति तद्यथा—
यमद्वारे महाघोरे या सा वैतरणी नदी । तामहं तर्तुमिच्छामि कृष्णां गां प्रददाम्यहम् ॥ १
अशक्तो यदि वा शक्तो गोप्रदानं करोति यः । देवनद्यां गोप्रदाने श्राद्धदः स्वर्नयेत्पितॄन् ॥इति॥ २
+अयं श्लोको नास्ति ख पुस्तके । × त्रिरात्रौपोषनेनेति श्लोकात्प्राक् क पुस्तकेऽधिकं श्लोकद्वयमस्ति तद्यथा—
गोदावर्यां वैतरण्यां यमुनायां तथैव च । देवनद्यां गोप्रचारे श्राद्धदः स्वर्नयेत्पितॄन् ॥ १
पुष्कारण्यां घृतकुल्यां मधुकुल्यां तथैव च । कोटितीर्थे रुक्मिणीये पिण्डदः स्वर्नयेत्पितॄन् ॥इति॥ २
÷इतः परमेते श्लोकाः ख पुस्तकेऽधिका उपलभ्यन्ते ते यथा—
श्राद्धी कुमारधारायामश्वमेधफलं लभेत् । कुमारमभिगम्याथ नत्वा मुक्तिमवाप्नुयात् ॥ १
स्नात्वा च सोमधारायां सोमलोकं च गच्छति। सस्वर्नं कुञ्जरो वाप्यं स्वर्गैः स्वर्गं नयेत्पितॄन् ॥२
श्रीकृष्णं येऽभ्यर्चयन्ति सुभद्रां बलभद्रकम् । ज्ञानं प्राप्य श्रियं पुत्रान्व्रजन्ति पुरुषोत्तमम् ॥ ३
द्वादशादित्यमभ्यर्च्य सर्वरोगैः प्रमुच्यते । वैश्वानरं समभ्यर्च्य उत्तमां दीप्तिमाप्नुयात् ॥ ४
मन्दारमभिगम्याथ मन्दारेशं प्रपूज्य च । अक्षयं श्रियमाप्नोति महालक्ष्मीं तथा नरः ॥ ५
विद्यां सरस्वतीं नत्वा विद्यापारं गतो भवेत् । अभ्यर्चेन्माधवं ......महदैश्वर्यमाप्नुयात् ॥ ६
नारायणं च वाराहं संपूज्य स्वर्गभारग्भवेत् । क्षेत्रपालं समभ्यर्च्य ग्रहैर्ऋक्षैर्न बाध्यते ॥ ७
गरुडं च समभ्यर्च्य विषवृक्षात्प्रमुच्यते । सिद्धेश्वरं च कालेशं सोमनाथमहेश्वरम् ॥ ८
रुद्रेश्वरं लोकनाथं ब्रह्मेशं च कपर्दिनम् । अष्टौ लिङ्गानि गुह्यानि संपूर्ज्याथ शिवं नयेत् ॥ ९
पिण्डदश्चम्पकारख्ये चम्पकेशं प्रणम्य च । तथैव जम्बुकारख्ये ब्रह्मलोकं नयेत्पितॄन् ॥ १०
गोकर्णे वायुतीर्थे च तृतीयाख्ये जलाशये । श्राद्धी च पुष्करिण्यां तु ब्रह्मलोकं नयेत्पितॄन् ॥११
वैतरण्याश्च तरथं तृतीयास्यो जलाशयः । तदुत्तरश्चक्रसरस्तदग्रे सागरस्तथा ॥ १२
सागरे पिण्डदानेन पितॄणां च परागतिः ॥ इति ॥
(गयामाहात्म्यम )
४५२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ०११२श्लो०३१-५६] (गयामाहात्म्यम )
कुलानां शतमुद्धृत्य विष्णुलोकं नयेत्पितॄन् × ॥ ३१ दशाश्वमेधिके हंसतीर्थे चामरकण्टके । कोटीतीर्थे रुक्मकुण्डे पिण्डदः स्वनयेत्पितॄन् ॥ ३२ [√वैतरण्यां घृतकुल्यां मधुकुल्यां तथैव च । कोटीतीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं च यः॥ ३३ कोटिजन्म भवेद्विप्रो धनाढ्यो वेदपारगः। मार्कण्डयेशकोटीशौ नत्वा स्यात्पितृतारकः॥ ३४ रुक्मपारिजातवने पार्वत्या सह शंकरः। रहस्ये संस्थितो रेमे युगानामयुतं पुरा ॥ ३५ मरीचिः फलपुष्पार्थे पारिजातवनं गतः। दृष्ट्वा शंभो महेशेन यत्मात्सुखविवातकः॥ ३६ दुःखी भवेति तद्धीतो मरीचिस्तुष्टुवे शिवम् । तुष्टः प्रोवाच तं शंभुर्वृणीष्व वरमुत्तमम् ॥ ३७ शापाद्भवतु मुक्तिर्मे मरीचिः प्राह शंकरम् । भवद्गेयायां मुक्तिस्ते शिवोक्तः प्रययौ गयाम् ॥ ३८ शिलास्थितस्तपस्तेपे सर्वेषां दुष्करं च यत् । मरीचिरीश्वराच्छप्तः कृष्णत्वमगमत्पुरा ॥ तपसा दारुणेनेह स विप्रः शुक्लतां गतः ॥ ३९ हरिरूचे मरीचिं च वरं वृणु हि पुत्रक । किमलभ्यं त्वयि तुष्टे मरीचिः प्राह माधवम् ॥ ४० हरशापादिविमुक्तोऽहं शिला भवतु पावनी । पितृमुक्तिकरी च स्यात्तथेत्युक्त्वा दिवं गतः॥ ४१ दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः। यत्र दत्तं पितृभ्यस्तु भवत्यक्षयमित्युतः ॥ ४२ तत्र स्नातो दिवं याति स्वशरीरेण मानवः। पाप्मानं प्रजहात्येष जीर्णत्वचमिवोरगः ॥ तत्पङ्कजवनं पुण्यं पुण्यकृद्भिर्निषेवितम् ॥ ४३ पाण्डुशिला वै तत्राऽऽस्ते श्राद्धं यत्राक्षयं भवेत् । युधिष्ठिरस्तु तस्यां हि श्राद्धं कर्तुं ययौ मुने ॥ तत्र काले पाण्डुनोक्तं मद्वस्ते देहि पिण्डकम् । हस्तं त्यक्त्वा शिलायां च पिण्डदानं चकार सः ॥ शिलायां पिण्डदानेन प्रहृष्टो व्यासन्दनः वरं । ददौ स्वपुत्राय राज्यं कुरु महीतले ॥ ४६ अकण्टकं तु संपूर्णं त्वं मे त्राता हि पुत्रक ॥ ४७ स्वर्गं व्रज शरीरेण भ्रातृभिः परिवारितः । दृष्टमात्रेण संपूर्तानरकस्थान्दिवं नय ॥ ४८ इत्युक्त्वा प्रययौ पाण्डुः शाश्वतं पदमव्ययम् । मतङ्गस्य पदे श्राद्धी ब्रह्मलोकं नयेत्पितॄन् ॥ ४९ निर्मथ्याग्निं शमीगर्भे विधिविर्विष्णुवादिभिः सह । लेभे तीर्थं तु यज्ञार्थं त्रिषु लोकेषु विश्रुतम् ॥ ५० मखसंज्ञं तु तत्तीर्थं पितॄणां मुक्तिदायकम् । स्नात्वा च तर्पणं कृत्वा पिण्डदो मुक्तिमाप्नुयात् ॥ ५१ पितॄन्स्वर्गं नयेन्नत्वा संगमेऽङ्गारकेश्वरौ । गयाकूटे पिण्डदानादश्वमेधफलं लभेत् ॥ ५२ भस्मकूटे भस्मनार्थं नत्वा च तारयेत्पितॄन् । त्यक्तपापो भवेन्मुक्तः संगमे स्नानमाचरेत् ॥ ५३ इष्टिं चक्रेऽश्वमेधाख्यां वशिष्ठो मुनिसत्तमः । इष्टितो निर्गतः शंभुंवरं वृणु वशिष्ठकम् ॥ ५४ प्राहेति तं वशिष्ठोऽपि शिव तुष्टोऽसि मे यदि । वस्तव्यं चात्र देवेश तथेत्युक्त्वा शिवः स्थितः ] ५५ पिण्डदो धेनुकारण्ये कामधेनुपदेषु च । स्नात्वा नत्वाऽथ संपूज्य ब्रह्मलोकं नयेत्पितॄन् ॥ ५६
× इतउत्तरमविस्पष्टश्लोकः ख. पुस्तके वर्तते स यथा-गदाधर दक्षिगो यावतीर्थमधुश्रवाः ।
महानदिङ्गनं च मृतानां स्वर्गकारकम् । √ एतच्चिह्नान्तर्गतग्रन्थस्थानेऽयं श्लोकः ख पुस्तके
स यथा-
वशिष्ठस्याऽऽश्रमं गत्वा वाजपेयफलं लभेत् । वशिष्ठेशं नमस्कृत्य तत्कुण्डे पिण्डदो भवेत् ॥ इति ।
[अ०११२श्लो०५७-६८] वायुपुराणम् । ४५३
( गयामाहात्म्यम )
कर्दमाले गयानाभौ मुण्डपृष्ठसमीपतः । स्नात्वा श्राद्धादिकं कृत्वा पितृणामनृणो भवेत् *॥ ५७
फल्गुचण्डीश्मशानाक्षी मङ्गलाद्याः समर्चयेत् । गयायां च वृषोत्सर्गात्त्रिःसप्तकुलमुद्धरेत् ॥ ५८
यत्र यत्र स्थिता देवा ऋषयोऽपि जितेन्द्रियाः ॥ ५९
आद्यं गदाधरं ध्यायञ्श्राद्धपिण्डादिदानतः । कुलानां शतमुद्धृत्य ब्रह्मलोकं नयेत्पितॄन् ॥ ६०
गयागजो गयादित्यो गायत्री च गदाधरः । गया गयासुरश्चैव षड्गया मुक्तिदायिकाः ॥ ६१
गयाख्यानमिदं पुण्यं यः पठेत्सततं नरः । शृणुयाच्छ्रद्धया यस्तु स याति परमां गतिम् ॥+ ६१
[ × पाठयेद्वा गयाख्यानं विप्रेभ्यः पुण्यकृन्नरः । गयाश्राद्धं कृतं तेन कृतं तेन सुनिश्चितम् ॥ ६२
गयाया महिमानं च अभ्यसेद्यः समाहितः । तेनेष्टं राजसूयेन अश्वमेधेन नारद । ६३
यः लिखेद्वा लेखयेद्वाऽपि पूजयेद्वाऽपि पुस्तकम् । तस्य गेहे स्थिरा लक्ष्मीः सुप्रसन्ना भविष्यति ॥
उपाख्यानमिदं पुण्यं गृहे तिष्ठति पुस्तकम् । सर्पाग्निश्चौरजनितं भयं तत्र न विद्यते ॥ ६५
श्राद्धकाले पठेद्यस्तु गयामाहात्म्यमुत्तमम् । विधिहीनं तु तत्सर्वं पितृणां तु गयासमम् ॥ ६६
यानि तीर्थानि त्रैलोक्ये तानि दृष्टानि तत्र वै । येन ज्ञातं गयाख्याने श्रुतं वा पठितं मुने ॥ ६७
सूत उवाच--
सनत्कुमारो मुनिपुङ्गवाय पुण्यां कथां चाथ निवेद्य भक्त्या ॥
स्वमाश्रमं पुण्यवनैरुपेतं विसृज्य संगतिगुरुं जगाम ॥ ६८
इति श्रीमहापुराणे वायुप्रोक्ते उपसंहारपादे गयामात्म्य नाम द्वादशाधिकशततमोऽध्यायः ॥११२॥
उपसंहारपादः समाप्तः ।
आदितः श्लोकानां समष्ट्यङ्काः-१०,९९१
समाप्तं चेदं वायुपुराणम् ।
* एतदग्रेऽधिकं श्लोकद्वयं वर्तते ख. पुस्तके तद्यथा—
मुण्डपृष्ठां नमेद्देवीं क्षेत्रपालादिसंयुताम् । पूजयित्वाऽभयं तस्माद्विषरोगादिनाशिनीम् ॥ १
कामपीठिं च कामाक्षां(क्षी) पूजयेत्कामरूपिणीम् । सर्वसौभाग्यकामो हि देवीं विन्ध्यनिवासिनीम्॥इति।२
* इत आरभ्य न विद्यत इत्यन्तं पाठव्यत्यासः ख पुस्तके । ÷एतच्चिह्नान्तर्गतग्रन्थः ख. पुस्तके न ।
× एतदर्धस्थानेऽयं पाठः ख. पुस्तके—पठेद्वा पाठयेद्वाऽपि पूजयेद्वाऽपि पुस्तकम् । इति ।