भारतकोश
संग्रह पर लौटें

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

·संस्कृतटीका-भाषाटीकासमेत । ( ७९ ) अथ महावाक्यार्थो वर्ण्यते । इदं तत्त्वमसि वाक्यं सम्बन्धत्रयेण अखण्डार्थबोधकं भवति । सम्बन्ध- त्रयं नाम पदयोः सामानाधिकरण्यं पदार्थयोर्वि- शेषणविशेष्यभावः प्रत्यगात्मपदार्थयोर्लक्ष्यलक्ष- णभावश्चेति । यदुक्तम्-“सामानाधिकरण्यं च वि- शेषणविशेष्यता। लक्ष्यलक्षणसम्बन्धः पदार्थप्रत्य- गात्मनाम्”इति ॥ ७५ ॥ ( सं०टी० ) पदार्थमभिधाय वाक्यार्थमाह। अथेति। ननु जीवेश्वरयोः किंचिज्ज्ञत्वसर्वज्ञत्वादिविशिष्टयोरत्यंतविलक्षण- योः तत्त्वमस्यादिमहावाक्यानि परस्परविरुद्धार्थप्रतिपादकानि कथमखंडैकरसं ब्रह्म प्रतिपादयंतीत्याशंक्य साक्षादैक्यप्रतिपा- दकत्वाभावेपि लक्षणया संबंधत्रयेणाखंडैकार्थ प्रतिपादयंती- त्याह । इदमिति । संबंधत्रयस्वरूपमाह । संबंधत्रयमिति । पद- पदार्थप्रत्यगात्मनांसंबंधत्रयसद्भावे वृद्धसंमतिमाह। यदुक्तमिति। ( भा०टी० ) अब महावाक्यके अर्थका विचार कर- ते हैं—“तत्त्वमसि” यह वाक्य तीन प्रकारके सम्बन्धोंके द्वा- रा अखंड ब्रह्म चैतन्यका बोधक होता है सम्बन्ध त्रय कहाते हैं—पहला सामानाधिकरण्य,दूसरा विशेष्यविशेषणभाव, ती- सरा लक्ष्यलक्षणभाव, “तत्” और “त्वम्” इनदोनों पदों- की एक अधिकरणमें अवस्थिति होनेपर सामानाधिकरण्य सम्बन्ध होता है दोनों पदोंका परस्पर विशेष्यविशेषण रूप सम्बन्धको विशेष्यविशेषणभाव कहतेहैं । और प्रत्यगा-

(८०) वेदान्तसार । त्मा लक्ष्य और दोनों पद लक्षण इस प्रकारके सम्बन्धको लक्ष्यलक्षणभाव सम्बन्ध कहते हैं ग्रन्थान्तरमें कहा भी है-“सामानाधिकरण्य, विशेष्यविशेषणभाव, और लक्ष्यल- क्षण भाव, यह तीन प्रकारका सम्बन्ध है” ॥ ७५ ॥ सामानाधिकरण्यसम्बन्धस्तावत् यथा सोऽयं देव- दत्त इति वाक्ये तत्कालविशिष्टदेवदत्तवाचकश- ब्दस्य एतत्कालविशिष्टवाचकायंशब्दस्य च एक- स्मिन्देवदत्तपिण्डे तात्पर्यसम्बन्धः । तथा च “तत्त्वमसि” वाक्येऽपि परोक्षत्वादिविशिष्टचै- तन्यवाचकतच्छब्दस्या-परोक्षत्वादि विशिष्ट-चै- तन्यवाचक-त्वंपदस्य चैकस्मिन् चैतन्ये तात्प- र्य्यसम्बन्धः ॥ ७६ ॥ (सं०टी०) पदयोः सामानाधिकरण्यं उदाहरणनिष्ठं कृ- त्वा प्रदर्शयति । सामानाधिकरण्यमिति । भिन्नप्रवृत्तिनि- मित्तयोः शब्दयोरेकस्मिन्नर्थे प्रवृत्तिः सामानाधिरण्यं तत्र सोयं देवदत्त इति वाक्ये स इति तत्कालतद्देशवैशिष्ट्यं स श- ब्दस्य प्रवृत्तिनिमितं अयमिति एतत्कालैतद्देशवैशिष्ट्यमयंश- ब्दस्य प्रवृत्तिनिमित्तं यथा च भिन्नप्रवृत्तिनिमित्तयोः सोयं शब्दयोरेकस्मिन् देवदत्तपिंडे तात्पर्य संबंधःसामानाधिकरण्य- मित्यर्थः।उक्तमर्थं दाष्टांतिके योजयति।तथाचेति। तथा तत्त्व- मसीति वाक्येपि परोक्षत्वसर्वज्ञत्वादिवैशिष्ट्यं तत्पदप्रवृत्तिनि- मित्तं अपरोक्षत्वकिंचिज्ज्ञत्वादिवैशिष्ट्यं त्वंपदप्रवृत्तिनिमित्तं

संस्कृतटीका-भाषाटीकासमेत । ( ८१ ) तथा च भिन्नप्रवृत्तिनिमित्तयोः तत्त्वंपदयोरेकस्मिंश्चैतन्ये ता- त्पर्य्यं संबंधः सामानाधिकरण्यमित्यर्थः ॥ ७६ ॥ ( भा०टी० )अब सामानाधिकरण्य सम्बन्ध दिखला- ते हैं। जैसे “सोऽयं देवदत्तः” इसवाक्यमें “सः” शब्दसे पहले देखीहुई वस्तुका बोध होताहै और “अयम्”शब्दसे वर्त्तमान दृष्ट वस्तुका बोध होता है और दोनों शब्दार्थोंका एक देवदत्त व्यक्तिमें बोध होता है। इसी प्रकार “तत्त्वमसि” इस वाक्यमें भी अप्रत्यक्ष चैतन्यका बोधक “तत्” शब्द है और प्रत्यक्ष चैतन्यका बोधक“त्वम् ”शब्द है इनदोनों शब्दार्थोंका एक चैतन्यमय ब्रह्ममें तात्पर्य है। यही सामानाधिकरण्य सम्बधहै। विशेषणविशेष्यभावसम्बन्धस्तु यथा तत्रैव वाक्ये सशब्दार्थतत्कालविशिष्टदेवदत्तस्यायं--शब्दार्थै- तत्कालविशिष्टदेवदत्तस्य चान्योन्यभेदव्यावर्त्त- कतया विशेषणविशेष्यभावः । तथात्रापि वाक्ये तत्पदार्थपरोक्षत्वादिविशिष्टचैतन्यस्य त्वंपदार्था परोक्षत्वादिविशिष्टचैतन्यस्य चान्योन्यभेदव्या- वर्त्तकतया विशेषणविशेष्यभावः ॥ ७७ ॥ ( सं०टी० ) विशेषणविशेष्यभावसंबधस्वरूपमाह । वि- शेषणेति । व्यावर्तकं विशेषणं व्यावत्र्त्यं विशेष्यम् । तथा च “सोयं देवदत्तः”इति वाक्ये एवायंशब्दवाच्यो योसावेतत्काले तद्देशसंबंधविशिष्टो देवदत्तपिंडः अयं स इति तच्छब्दवाच्या- त्कालतद्देशविशिष्टदेवदत्तपिंडाद्भिन्नो नेति यदा प्रतीयते त-

( ८२ ) वेदान्तसार । दा तच्छब्दार्थस्यायंशब्दवाच्यार्थनिष्ठभेदव्यावर्तकतया विशे- षणत्वं अयंशब्दार्थस्य व्यावर्त्यत्वाद्दिशेष्यत्वं यदा च स इ- ति तच्छब्दवाच्यः तत्कालतेद्देशविशिष्टो देवदत्तपिंडः स अय- मितीदंशब्दवाच्यादेतत्कार्लैतद्देशसंबंधविशिष्टादस्माद्देवदत्तपिं- डान्न भिद्यत इति यदा प्रतिपद्यते तदायंशब्दवाच्यस्य तच्छ- ब्दार्थनिष्ठभेदव्यावर्तकतया विशेषणत्वं तच्छब्दार्थस्य व्याव- र्तकत्वाद्दिशेष्यत्वं तथा चायमेव सः स एवायमिति अन्योन्य- भेदव्यावर्तकतया सोऽयंशब्दार्थयोः परस्परविशेषणविशेष्य- भाव इत्यर्थः।उक्तं विशेषणविशेष्यभावं दार्ष्टांतिके योजयति। तथात्रापीति । इहापि तत्त्वमसीति वाक्येपि त्वंपदवाच्यं यदप- रोक्षत्वं किंचिज्ज्ञत्वादिविशिष्टं तत्पदवाच्यात्सर्वज्ञत्वादिवि- शिष्टचैतन्यान्न भिद्यते इति यदा प्रतीयते तदा तच्छब्दार्थस्य त्वंपदार्थनिष्ठभेदव्यावर्तकतया विशेषणत्वं त्वंपदार्थस्य व्या- वृत्यत्वात् विशेष्यत्वं यदा च तत्पदवाच्ययत्तसर्वज्ञत्वादिवि- शिष्टचैतन्यं त्वंपदवाच्यात्किंचिज्ज्ञत्वादिविशिष्टचैतन्यान्न भिद्यत इति यदा प्रतीयते तदा त्वंपदार्थस्य तत्पदार्थनिष्ठभेद- व्यावर्तकत्वेन विशेषणत्वं तत्पदार्थस्य व्यावृत्यत्वात् विशे- ष्यत्वं तथा च त्वं तदसि तत्त्वमसीति तत्त्वंपदार्थयोः परस्परं भेदव्यावर्तकत्वेन परस्परं विशेषणविशेष्यभाव इत्यर्थः ॥ ७७ ॥ ( भा०टी० ) अब विशेष्यविशेषणभाव सम्बन्ध दिख- लाते हैं। जैसे-पहले कहे हुए “ सोऽयं देवदत्तः” इस वा- क्यमें “ सः” पदका अर्थ पहले देखी हुई व्यक्तिका बो-

संस्कृतटीका-भाषाटीकासमेत । ( ८३ ) धक होताहै और “अयम्” पद का अर्थ वर्त्तमान काल में दृ- ष्टिगोचर वस्तुका बोधक होता है और इन दोनोंपदोंके अ- र्थोंका परस्पर विशेष्यविशेषणरूप सम्बन्ध है क्योंकि ए- कही व्यक्तिमें दोनों पदोंके अर्थोंका तात्पर्य्य अभिन्नरूपसे मालूम होता है । तिसी प्रकार “तत्त्वमसि” इस वाक्यमें भी “तत्” पदका अर्थ अप्रत्यक्ष चैतन्य और “त्वम्” पदका अ- र्थ प्रत्यक्ष चैतन्य है इन दोनों पदोंके अर्थोंका परस्पर वि- शेष्यविशेषणभाव सम्बन्ध है क्योंकि दोनों पदोंके अर्थों का एक वस्तु में अभिन्न रूप से तात्पर्य्य मालूम होता है ॥ ७७ ॥ लक्ष्यलक्षणभावसम्बन्धस्तु यथा तत्रैव सशब्दायं- शब्दयोस्तदर्थयोर्वा विरुद्धतत्कालैतत्कालविशिष्ट- त्वपरित्यागेन अविरुद्धदेवदत्तेन सह लक्ष्यलक्षण- भावः । तथात्रापि वाक्ये तत्त्वंपदयोस्तदर्थयोर्वा विरुद्धपरोक्षत्वापरोक्षत्वादिविशिष्टत्वपरित्यागेन विरुद्धचैतन्येन सह लक्ष्यलक्षणभावः । इयमेव भागलक्षणेत्युच्यते ॥ ७८ ॥ ( सं०टी० ) क्रमप्राप्तं लक्ष्यलक्षणभावसंबंधस्वरूपं निरू- पयितुमाह । लक्ष्यलक्षणेति । असाधारणधर्मप्रतिपादकं वा- क्यं लक्षणवाक्यं तत्प्रतिपाद्यमवशिष्टं वस्तु लक्ष्यं तथाच सोयं देवदत्त इत्यस्मिन्नेव वाक्ये सोऽयंशब्दयोः तदर्थयोर्वा वि- रुद्धतत्कालतद्देशएतत्कालैतद्देशविशिष्टत्वपरिहारेणाविरुद्धदे- वदत्तपिंडेन सह लक्ष्यलक्षणभावसंबंध इत्यर्थः । उक्तमर्थं दा-

( ८४ ) वेदान्तसार । ष्टांतिके योजयति । तथात्रापीति । इहापि तत्त्वंपदयोस्तदर्थ- योर्वा विरुद्धपरोक्षत्वापरोक्षत्वादिविशिष्टत्वपरित्यागेन तत्त्वं- पदाभ्यां तदर्थाभ्यां वा लक्ष्याऽविरुद्धचैतन्येन सह तत्त्वंपदयो- र्लक्ष्यलक्षणभावसंबंध इत्यर्थः।अत्र तत्त्वंपदयोः तदर्थयोश्च त्य- क्तविरुद्धांशयोर्लक्षणत्वं अखंडचैतन्यस्य लक्ष्यत्वमिति भा- वः। ननु तत्त्वमस्यादिवाक्यानां लक्ष्यलक्षणभावसंबंधपुरस्का- रेण चैतन्यबोधकत्वमित्युक्तम् अन्यत्र तु शास्त्रे तेषां वा- क्यानां भागलक्षणयैव चैतन्यबोधकत्वं प्रतिपाद्यते तत्त्व- मस्यादिवाक्येषु लक्षणाभागलक्षणेत्यादिविरोधमाशंक्य संज्ञा- भेदो न वस्तुभेद इत्याह । इयमेवेति । तत्त्वमस्यादिवाक्यानां विरुद्धांशपरित्यागेनाविरुद्धचैतन्यमात्रबोधकत्वमेव भागलक्ष- णेत्युच्यत इत्यर्थः ॥ ७८ ॥ ( भा०टी० ) अब लक्ष्यलक्षणभाव सम्बन्ध दिखलाते हैं- जैसे पहले कहेहुये “सोऽयं देवदत्तः” इसवाक्यमें “सः” पदका अर्थ पूर्वकालमें दृष्टत्व है और “अयम्” पदका अर्थ वर्त्तमानकालमें दृष्टत्व है इन परस्पर विरुद्ध दोनों अर्थोंका त्याग करके केवल एक देवदत्त व्यक्ति ही लक्ष्य होता है और “सः अयम्” ये दोनों पद लक्षण होते हैं इसकारण लक्ष्य लक्षणभाव सम्बन्ध है । तिसीप्रकार “तत्त्वमसि” इस वक्य में भी “तत्” पद का अर्थ अप्रत्यक्षत्व और “त्वम्” पदका अर्थ प्रत्यक्षत्व है । इन परस्पर विरुद्ध दोनों अर्थों का त्याग करके केवल एक अविरुद्ध चैतन्य लक्ष्य होता है

संस्कृतटीका-भाषाटीकासमेत । (८५) और “तत्-त्वम्” पद लक्षण होते हैं इसीको शास्त्र- कार भागलक्षणा सम्बन्ध कहते हैं ॥ ७८ ॥ अस्मिन् वाक्ये नीलमुत्पलमिति वाक्यवद्वा- क्यार्थो न सङ्गच्छते। तत्र नीलपदार्थनीलगुणस्य उत्पलपदार्थोत्पलद्रव्यस्य च शुक्लपदादिव्या- वर्त्तकतयाऽन्योन्यविशेष्यविशेषणरूपसंसर्गस्या- न्यतरविशिष्टस्यान्यतरस्य वा तदैक्यस्य वाक्या- र्थाद्गीकरणे प्रमाणान्तरविरोधाभावाद्वाक्यार्थः सङ्गच्छते। अत्र तु तत्पदार्थपरोक्षत्वादिविशिष्टचै- तन्यस्य त्वम्पदार्था परोक्षत्वादिविशिष्टचैतन्यस्य चान्योन्यभेदव्यावर्त्तकतया विशेषणविशेष्यभा- वसंसर्गस्य अन्यतरविशिष्टस्यान्यतरस्य वा तदै- क्यस्य वाक्यार्थत्वाद्गीकारे प्रत्यक्षादिप्रमाणविरो- धाद्वाक्यार्थो न सङ्गच्छते ॥ ७९ ॥ (सं०टी० )ननु यथा नीलोत्पलमिति वाक्ये नीलत्वविशि- ष्टनीलगुणस्य उत्पलत्वविशिष्टोत्पलद्रव्यस्य च स्वव्यतिरिक्त- शुक्लादिगुणांतरपटादिद्रव्यांतरव्यावर्त्तकत्वेन विशेषणविशेष्य- भावनिरूपिततद्भिन्नसंसर्गस्य नीलगुणवैशिष्ट्यस्य वा वाक्या- र्थत्वं तथेहापि तत्त्वमस्यादिवाक्ये तत्पदार्थस्य परोक्षत्वादिवि- शिष्टेश्वरचैतन्यस्य त्वंपदार्थस्यापरोक्षत्वादिविशिष्टजीवचैतन्य स्य चान्योन्यभेदव्यावर्तकतया विशेषणविशेष्यभूतसर्वज्ञत्व- किंचिज्ज्ञत्वोभयनिरूपितसंसर्गो वा सर्वज्ञत्वादिविशिष्टस्य

( ८६ ) वेदान्तसार । किंचिज्ज्ञत्वादिविशिष्टेन सहैक्यं वा वाक्यार्थो भवतीत्याशं- क्य दृष्टांतदार्ष्टांतिकयोः वैषम्यान्नैवमित्याह अस्मिन्नित्या- दिना । अस्मिन्निति । अस्मिंस्तत्त्वमसीति वाक्ये नीलो- त्पलमित्यादिवाक्यवत्संसर्गो वा विशिष्टो वा वाक्यार्थेन संग- च्छत इत्यर्थः। नीलोत्पलमितिवाक्यस्य संसर्गवैशिष्ट्यार्थप्रति- पादकत्वकल्पने विरोधाभावो दर्शयति । तत्र त्विति । नीलोत्प- लपदार्थयोर्गुणगुणिनोर्विशेषणविशेष्यभावसंसर्गस्य नीलगुणवि शिष्टोत्पलयोरैक्यस्य वा वाक्यार्थत्वांगीरकारे प्रत्यक्षादिप्र- माणांतरविरोधाभावात्तत्र तथा संगच्छत इति भावः । तत्त्व- मसीति वाक्ये तु तत्त्वंपदार्थयोःकिंचिज्ज्ञत्वादिविशिष्टजीवचै- तन्यस्य सर्वज्ञत्वादिविशिष्टेश्वरचैतन्यस्य चान्योन्यविशेषण- विशेष्यभावसंसर्गस्य तदुभयविशिष्टचैतन्यैक्यस्य वा वाक्या- र्थत्वांगीकारे प्रत्यक्षादिप्रमाणांतरविरोधात्पूर्वस्माद्वैषम्यं द- र्शयति । अत्र त्विति ॥ ७९ ॥ (भा०टी०) “नीलमुत्पलम्” इस वाक्यसे जैसा वा- क्यार्थ होता है । तिस प्रकार “तत्त्वमसि” इस वाक्यका वाक्यार्थ सङ्गत नहीं होता है क्यों कि “नीलमुत्पलम्” इस वाक्य में नील पदका अर्थ नीलगुण है और उत्पल पदका अर्थ उत्पल द्रव्य है यह दोनों शुक्लत्वादि और गुण और घटपटादिद्र- व्यके व्यावर्तक हैं इस कारण परस्पर विशेष्यविशेषणभाव सम्बन्ध अथवा एक की दूसरे सङ्ग वाक्यार्थ सङ्गति होती है- तिस प्रकार “तत्त्वमसि” इस वाक्यमें सर्वज्ञत्व और किञ्चिज्ज्ञ-

संस्कृतटीका-भाषाटीकासमेत । (८७) त्व में प्रत्यक्षादि प्रमाणका विरोध होनेसे “नीलमुत्पलम्” इ- सके वाक्यार्थकी तरह “तत्त्वमसि” इसका वाक्यार्थ सङ्गत नहीं होता है ॥ ७९ ॥ अत्र तु गङ्गायां घोषः प्रतिवसतीतिवज्जहल्लक्षणा न सङ्गच्छते । तत्र तु गङ्गाघोषयोराधाराधेयभाव- लक्षणस्य वाक्यार्थस्याशेषतो विरुद्धत्वाद्वाच्यार्थ- मशेषतः परित्यज्य तत्सम्बन्धितीरलक्षणया यु- क्तत्वाज्जहल्लक्षणा सङ्गच्छते । अत्र तु परोक्षत्वाप- रोक्षत्वादिविशिष्टचैतन्यैकत्वरूपस्य वाक्यार्थ- स्य भागमात्रे विरोधाद्भागान्तरमपरित्यज्यान्यल- क्षणाय अयुक्तत्वाज्जहल्लक्षणा न सङ्गच्छते ॥८०॥ ( सं०टी० ) ननु तत्त्वमस्यादिवाक्यमखंडार्थं कथं बो- धयति जहल्लक्षणया वा किमजहल्लक्षणया आहोस्विज्जहद- जहल्लक्षणयेति त्रिधा विकल्पः। आद्ये दूषणमाह। अत्र त्वि- ति । तत्त्वमसीतिवाक्ये जहल्लक्षणा न संगच्छत इत्यन्वयः । तदेव दर्शयितुं जहल्लक्षणाया उदाहरणं तावदाह । गंगाया- मिति । मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे ‘मुख्यार्थेना- विनाभूते प्रवृत्तिर्लक्षणेष्यते’ इति वचनाद्गंगायां घोषवत्त्वासं- भवाद्गंगायां घोष इति वाक्यस्य मुख्यार्थविरोधे सति मु- ख्यार्थं परित्यज्य लक्षणया वृत्त्या तत्संबंधिनि तीरे घोषाव- स्थानप्रतिपादनात्तत्र जहल्लक्षणांगीकारो युज्यत इत्याह । तत्र त्विति । तत्र तु गंगौघोषयोराधाराधेयभावलक्षणां सर्वथा प-

( ८८ ) वेदान्तसार । रित्यज्येत्यर्थः । तत्त्वमसीति वाक्ये प्राक्प्रतिज्ञातं जहल्लक्षणा- संभवमाविष्करोति । अत्र त्विति । तु शब्दः पूर्वस्माद्वैषम्यं द्योतयति। तत्त्वमसीति वाक्ये परोक्षत्वापरोक्षत्वविशिष्टचैतन्यै कत्वलक्षणस्य वाक्यार्थस्य विरोधाभावात्परोक्षत्वापरोक्षत्व- प्रतिपादकत्वांशे विरोधाच्चैतन्यैकत्वे विरोधाभावाद्गंगाघो- षादिवाक्यवत्सर्वात्मना मुख्यार्थपरित्यागासंभवाज्जहल्लक्षणा न संभवतीत्यर्थः । तत्र हेतुमाह । भागांतरमिति । विरुद्ध- योः परोक्षत्वापरोक्षत्वयोरेकत्वासंभवेन तत्परित्यागेपि चैत- न्यभागस्यैकत्वे विरोधाभावात् त्यागो न युज्यत इत्यर्थः ८० ( भा०टी० ) जैसे " गङ्गायां घोषः प्रतिवसति " इस वाक्यमें जहत्स्वार्थलक्षणा वृत्तिसे वक्यार्थ सङ्गत होता है। तिस प्रकार " तत्त्वमसि " इस वाक्यका जहत्स्वार्थल- क्षणा द्वारा वाक्यार्थ सङ्गत नहीं होता है क्योंकि "गङ्गायां घोषः प्रतिवसति " इस वाक्यमें भगीरथरथखातावच्छिन्न जलप्रवाहरूप गङ्ग और घोष ( आभीरपल्ली ) इनका आ- धाराधेयभाव असम्भव होनेसे वाक्यार्थ बाधित होता है। इस कारण विरोध दूर करनेके अर्थ तात्पर्यकी अनुपपत्ति होनेसे गङ्गा पदका शक्यार्थ जो भगीरथरथखातावच्छिन्न जल प्रवाह उसका परित्याग करके लक्षणाद्वारा गङ्गाके समीप वर्ति गङ्गातीरमें गङ्गापदका अर्थ युक्तिद्वारा कल्पना किया जाताहै। इस प्रकार शब्दका मुख्य अर्थ परित्याग करके अन्य अर्थका स्वीकार करना । लक्षणा अर्थात् जहत्स्वार्थलक्षणा

संस्कृतटीका-भाषाटीकासमेत । (८९) होतीहै। तिस प्रकार "तत्त्वमसि" इस वाक्यमें प्रत्यक्ष और अप्रत्यक्ष इन दोनोंके ऐक्य स्वरूप वाक्यार्थमें कोई विरोध नहींहै केवल प्रत्यक्ष और अप्रत्यक्ष को प्रतिपादक अंश वि- रोध है। सो शक्यार्थको परित्याग करके लक्ष्यार्थ स्वीकार नहीं करतेहैं। इसी कारण "तत्त्वमसि" इस वाक्यमें अजह- त्स्वार्थलक्षणा सङ्गत नहीं होतीहै ॥ ८० ॥ न च गङ्गापदं स्वार्थपरित्यागेन तीर्थपदार्थं यथा- लक्षयति तथा तत्पदं त्वंपदं वा वाच्यार्थपरित्यागे- न त्वंपदार्थं तत्पदार्थं वा बोधयतु तत् कुतोऽजहल्ल- क्षणा न सङ्गच्छते इति वाच्यम् । तत्र तीरपदाश्रव णेन तदर्थाप्रतीतौ लक्षणया तत्प्रतीत्यपेक्षायाम- पि तत्त्वंपदयोः श्रूयमाणत्वेन तदर्थप्रतीतौ लक्ष- णया पुनः अन्यतरपदेनान्यतरपदार्थप्रतीत्यपेक्षा- भावात् । श्रुतवाक्यस्य मुख्यार्थविरोधे मु- ख्यार्थसम्बन्धिन्यश्रुतपदार्थे लक्षणेतिसर्वजनप्र- सिद्धम् ॥ ८१ ॥ (सं०टी०) ननु यथा गंगायां घोषः प्रतिवसतीति वाक्ये गंगापदं प्रवाहलक्षणस्वार्थं परित्यज्य स्वसंबंधितीरपदार्थं ल- क्षयति । तथा। तत्त्वमसीति वाक्ये तत्पदं स्वार्थं परोक्षत्ववि- शिष्टं परित्यज्य जीवचैतन्यं लक्षयतु एवं त्वंपदमपि स्वार्थे किंचिज्ज्ञत्वादिविशिष्टं परित्यज्येश्वरचैतन्यं वा लक्षयतु त- स्माज्जहल्लक्षणैव भवतीत्याशंक्य निराकरोति । नचेति । नि

( ९० ) वेदान्तसार । राकरणप्रकारमेवाह । तत्रेति । तथा च गंगायां घोष इत्यत्र श्रुतवाक्यार्थस्य गंगाघोषयोराधाराधेयभावसंबंधस्य विरोधे स ति श्रूयमाणं गंगापदं स्वार्थपरित्यागेन तीरपदार्थं लक्षयतीति युक्तं गंगापदार्थस्य तीरपदार्थप्रतीतिसापेक्षत्वादिहेतुश्रूयमाण- तत्त्वंपदयोर्मुख्यतयैव तदर्थसर्वज्ञत्वकिंचित्ज्ञत्वादिविशिष्टप्र- तीतौ सत्यामपि लक्षणया तत्पदेन त्वंपदार्थप्रतीत्यपेक्षाभा- वात्त्वंपदेन तत्पदार्थप्रतीत्यपेक्षाभावाच्च मुख्यार्थे संभवति ल- क्षणाया अन्याय्यत्वाज्जहल्लक्षणा न संभवतीत्यर्थः ॥ ८१ ॥ ( भा०टी० ) जैसे गङ्गापदका वाच्यार्थ परित्यागकरके लक्षणाद्वारा तीर अर्थ ग्रहण किया जाताहै तिसी प्रकार ल- क्षणाद्वारा तत्पदका वाच्यार्थ परित्याग करके त्वं पदार्थ- में अथवा त्वंपदका शक्यार्थ परित्याग करके तत्पदार्थ- में लक्षित होजाय । तब तौ “तत्त्वमसि” वाक्यमें भी जह- त्स्वार्थ लक्षणा सङ्गत होजायगी । सो ठीक नहींहै क्योंकि “गङ्गायां घोषः” इस वाक्यमें तीरशब्दका उच्चारण नहींहै इसकारण तीर अर्थ की अपेक्षा करके जहत्स्वार्थलक्षणा स- ङ्गत होती है। परन्तु “तत्त्वमसि” इस वाक्यमें “तत्” और “त्वम्” यह दोनों पदार्थ युक्त हैं और दोनोंके अर्थ प्रसिद्ध हैं इस कारण यहां लक्षणाद्वारा अन्य पदको अन्यतर अर्थ- की आवश्यकता नहीं है इस कारण “तत्त्वमसि” वाक्यमें जहत्स्वार्थलक्षणा असङ्गत होती है कारण कि, जो कोई वाक्य सुना जाताहै, उस वाक्यका मुख्य अर्थ समझनेमें वि-

संस्कृतटीका-भाषाटीकासमेत । ( ९१ ) रोध आवे, तौ वहां उस मुख्य अर्थके संबंधी, नहीं सुने हुए पदार्थमें उस मुख्य अर्थकी लक्षणा करना, यह बात तौ सर्व लोकों में प्रसिद्ध हैं ॥ ८१ ॥ अत्र शोणो धावतीति वाक्यवदजहल्लक्षणापि न स- ङ्गच्छते । तत्र शोणगुणगमनलक्षणस्य वाक्यार्थ- स्य विरुद्धत्वात्तदपरित्यागेन तदाश्रयाश्वादिलक्ष- णायां तद्विरोधपरिहारसम्भवादजहल्लक्षणा सम्भ- वति अत्र तु परोक्षत्वापरोक्षत्वादिविशिष्टचैतन्यैक- त्वस्य वाक्यार्थस्य विरुद्धत्वात्तदपरित्यागेन त- त्सम्बन्धिनो यस्य कस्य चिदर्थस्य लक्षितत्वेऽपि तद्विरोधाऽपरित्यागादजहल्लक्षणापि न सम्भव- त्येव ॥ ८२ ॥ ( सं०टी० ) द्वितीयं पक्षं दूषयतिअजलहल्लक्षणापि न संभ- वतीत्याह । अत्र शोणो धावतीति । अत्र तत्त्वमसीतिवाक्ये शोणो धावतीति वाक्यवत् अजहल्लक्षणापि न संभवतीत्य- न्वयः। कुत इत्यत आह। तत्रेति । तत्र शोणो धावतीत्यादि- वाक्ये शोणगुणस्य गमनासम्भवेन वाक्यस्य मुख्यार्थविरोधे सति श्रूयमाणशोणपदं स्वार्थापरित्यागेन स्वाश्रयमश्वादिकं ल- क्षयतीति युक्तम् । अत्र त्विति । अत्र तत्त्वमस्यादिवाक्ये त- त्त्वंपदार्थस्य परोक्षत्वादिविशिष्टचैतन्यैकत्वलक्षणस्य मुख्य- वाक्यार्थस्य विरुद्धत्वात्परोक्षत्वापरोक्षत्वाद्यपरित्यागेन तत्त-

( ९२ ) वेदान्तसार । द्विशिष्टचैतन्यलक्षणार्थस्य लक्षितत्वेपि तद्विरोधपरिहाराभा- वादजहल्लक्षणा न संभवतीत्यर्थः ॥ ८२ ॥ ( भा०टी० ) और “शोणो धावति”इस वाक्यमें जिस प्रकार अजहत्स्वार्थ लक्षणा सङ्गत होती है तिसप्रकार “तत्त्वमसि” वाक्य में अजहत्स्वार्थलक्षणा भी सङ्गत नहीं है। क्योंकि “शोणो धावति” इसवाक्यमें शोण (लालरङ्ग) गुणकी गमनक्रिया बाधित है इस कारण शोणपद शक्यार्थ को विना परित्याग करके अर्थात् रक्तिम अर्थसहित लक्ष- णाद्वारा शोणगुणविशिष्ट अश्वादिकमें लक्षित होता है तब गमनक्रियाका विरोध नहीं होता है इसी कारण “शोणो धावति” इस वाक्यमें अजहत्स्वार्थलक्षणा सङ्गत होती है। परन्तु “तत्त्वमसि” इस वाक्य में प्रत्यक्ष और अप्रत्यक्ष चैतन्य के प्रत्यक्ष रूप वाक्यार्थमें प्रत्यक्ष और अप्रत्यक्षके प्रतिपादक अंशको विरोधके कारण विरुद्ध अंशका विना परित्याग करे लक्षणा द्वारा उसका सम्बन्धि जो कोई अर्थ लक्षित होकर विरोध दूर नहीं होता है इसकारण अजह- त्स्वार्थलक्षणा असङ्गत है ॥ ८२ ॥ न च तत्पदं त्वम्पदं वा स्वार्थविरुद्धांशपरित्या- गेनांशान्तरसहितं तत्पदार्थं त्वंपदार्थं वा लक्ष- यतु।अतः कथं प्रकारान्तरेण भागलक्षणाङ्गीकरण- मिति वाच्यम्।एकेन पदेन स्वार्थांशपदार्थान्तरो- भयलक्षणाया असम्भवात् पदान्तरेण तदर्थप्रती-

संस्कृतटीका-भाषाटीकासमेत । ( ९३ ) तौ लक्षण्या पुनरन्यतरपदार्थप्रतीत्यपेक्षाभा- वाच्च ॥ ८३ ॥ ( सं०टी० ) ननु तत्पदं स्वार्थं विरुद्धपरोक्षत्वादिधर्मं परित्यज्याविरुद्धचैतन्यांशापरित्यागेन त्वंपदार्थं किंचिज्ज्ञ- त्वादिविशिष्टं जीवचैतन्यं लक्षयतु त्वंपदं वा स्वार्थविरुद्धापरो- क्षत्वादिधर्मं परित्यज्याविरुद्धचैतन्यांशापरित्यागेन तत्पदार्थं सर्वज्ञत्वादिविशिष्टमीश्वरचैतन्यं लक्षयतु किं भागलक्षणांगी- कारेणेत्याशंक्य निराकरोति । नचेति । एकेन तत्पदेन त्वंपदेन वा स्वार्थांशपरित्यागपदार्थांतरस्वीकारोभयलक्षणा- संभवादित्यर्थः । अजहल्लक्षणासंभवे हेत्वंतरमाह । पदांतरेणे- ति।तत्पदेन त्वंपदेन वा तत्तदर्थप्रतीतौ सत्यां लक्षण्या पुनर- न्यतरस्यान्यतरप्रतीत्यपेक्षाभावादित्यर्थः । अतः परि- शेषात् ॥ ८३ ॥ ( भा०टी० ) और यह भी नहीं कहसक्ते कि “तत्” वा “त्वम्” पदार्थका स्वस्वविरुद्ध अर्थांश परित्याग करके अ- विरुद्ध अर्थके सहित “तत्” वा “त्वम्” पदका अर्थ लक्षित होकर भागलक्षणा का स्वीकार करता भी निष्फल है । क्योंकि एक पदके द्वारा स्वीय अविरुद्ध अंशका परित्याग और अन्य पदार्थ इन दोनों अर्थका लक्षणासे होना असम्भ- वहै । तथा अन्य पदद्वारा जो अर्थ प्रतीत होता है लक्षणा- द्वारा । दूसराके उससे अन्य पदार्थ का बोध नहीं होसक्ता ८३

( ९४ ) वेदान्तसार । तस्माद्यथा सोऽयं देवदत्त इति वाक्यं तदर्थो वा तत्कालैतत्कालविशिष्टदेवदत्तलक्षणस्य वाच्यार्थ स्यांशविरोधात् । विरुद्धतत्कालैतत्कालविशिष्ट- त्वांशंपरित्यज्याविरुद्धं देवदत्तांशमात्रं लक्षयति । तथातत्त्वमसीति वाक्यं तदर्थो वा परोक्षत्वा- परोक्षत्वादिविशिष्टचैतन्यैकत्वलक्षणस्य वाच्या- र्थस्यांशविरोधाद्विरुद्धपरोक्षत्वापरोक्षत्वा विशि- ष्टां दिशं परित्यज्याविरुद्धमखण्डचैतन्यमात्रं- लक्षयति ॥ ८४ ॥ (सं०टी०) तृतीयपक्ष एव चांगीकर्तव्य इत्युपसंहरति । तस्मादिति । यस्मात्तत्त्वमस्यादिवाक्ये जहल्लक्षणाऽजह- ल्लक्षणयोरसंभवः तस्माज्जहदजहल्लक्षणया विरुद्धांशं परित्य- ज्याविरुद्धाखंडचैतन्यमात्रं लक्षयतीति योजना । तत्र दृष्टांत- माह । यथेति । यथा सोयं देवदत्त इति वाक्ये प्रागुक्तजहल्ल- क्षणाजहल्लक्षणयोरसंभवेन तदर्थस्य तत्कालतद्देशविशिष्टस्य इदमर्थस्यैतत्कालैतद्देशविशिष्टदेवदत्तलक्षणवाक्यार्थस्यैकस्मि न्नंशे तत्काले तत्कालवैशिष्ट्यभागे विरोधदर्शनात्तत्परित्यागे- नाविरुद्धंदेवदत्तपिंडमात्रं लक्षयतीत्यर्थे न मानांतरविरोध इ- त्युक्तन्यायेनेत्यर्थः । उक्तमर्थं दाष्टांतिके योजयति । तथेति । तत्त्वमसीत्यादिवाक्यस्यापि परोक्षत्वापरोक्षत्वादिविशिष्टचैत न्यैकत्वलक्षणमुख्यार्थप्रतिपादकत्वासंभवाज्जहदजहल्लक्षणया

संस्कृतटीका-भाषाटीकासमेत । (९५) विरुद्धपरोक्षत्वादिवैशिष्ट्यांशपरित्यागेनाविरुद्धाखण्डचैतन्य- मात्रप्रतिपादकत्वं तस्येत्यर्थः ॥ ८४ ॥ ( भा०टी० ) जैसे "सोऽयं देवदत्तः" इस वाक्यमें पूर्व कालमें देखाहुआ और वर्त्तमानकालमें देखाहुआ जो देवदत्त- रूप वाच्यार्थ उसका एक अंशमें विरोध होनेसे विरुद्ध अंश जो पूर्व काल है उसमें और वर्तमान काल में है उसका परित्याग करके देवदत्त रूप अंश लक्ष्यार्थ होताहै । तिसी प्रकार "तत्त्वमसि" इस वाक्यमें प्रत्यक्ष और अप्रत्यक्ष चैतन्य का ऐक्यरूप जो वाच्यार्थ है उसके एकांशमें विरोध होनेसे विरुद्ध अंश प्रत्यक्षत्व और अप्रत्यक्षत्व उसका परित्याग क रके अविरुद्ध अखण्ड चैतन्यांशमात्र लक्ष्यार्थहोताहै॥ ८४ ॥ अथाधुना अहं ब्रह्मास्मीत्यनुभववाक्यार्थो वर्ण्यते। एवमाचार्य्येणाध्यारोपापवादपुरःसरं तत्त्वम्पदा- र्थौ शोधयित्वा वाक्येनाखण्डार्थेऽवबोधितेऽधिका- रिणोऽहं नित्य-शुद्ध-बुद्ध-मुक्त-सत्य-स्वभाव- परमानन्दा-नन्ताद्वयं ब्रह्मास्मीत्यखण्डाकाराका- रिता चित्तवृत्तिरुदेति। सा तु चित्प्रतिबिम्बसहिता- सती प्रत्यगभिन्नमज्ञातं परं ब्रह्म विषयीकृत्य तद्ग- ताज्ञानमेव बाधतेतदा पटकारणतन्तुदाहे पटदाह- वदखिलकार्य्यकारणेऽज्ञाने बाधिते सति तत्का- र्य्यस्याखिलस्य बाधितत्वात् तदन्तर्भूताखण्डा- काराकारिता चित्तवृत्तिरपि बाधिता भवति॥८५॥

विषयेऽसंगे निष्कलचैतन्ये शशशृंगायमाना ऽविद्याहंकारादि-

( ९६ ) वेदान्तसार । ( सं० टी० ) अखंडचैतन्यप्रतिपादकस्य तत्त्वमसीतिवा- क्यस्यार्थं सप्रपंचमभिधायेदानीं यजुर्वेदानुभववाक्यार्थो वर्ण्य- त इत्याह। अथाधुनेति ।गुरुमुखान्नवकृत्वःतत्त्वमस्यादिवा- क्यश्रवणाद्देहाद्यहंकारान्तजडपदार्थसकलदृश्यविलक्षणप्रत्य- गात्मनः शुद्धेन परमात्मना सहैकत्वबोधानंतरं कश्चिदधिका- री लब्धावसरं सर्वोपाधिविनिर्मुक्तं सच्चिदानंदैकरसमनुभवेन जि- ज्ञासुराचा र्योपदिष्टमहं ब्रह्मास्मीति वाक्यार्थमनुस्मरन् स्वात्मा- नंदैकरसमनुभवतीत्यर्थः। तत्प्रकारमेवाह। एवमित्यादिना । एवं संक्षेपेण । प्रमाणवक्ष्यमाणप्रकारेणाधिकारिणः चित्तवृत्तिरुदे- तीति संबंधः । कदेत्यपेक्षायामाह । आचार्येणेति। आचार्येणा- विषयेऽसंगे निष्कलचैतन्ये शशशृंगायमाना ऽविद्याहंकारादि- शरीरांतं मिथ्यापदार्थमध्यारोप्य तदपवादपुरःसरं तत्त्वंपदार्थौ शोधयित्वा तत्त्वमसीतिवाक्येन जहदजहल्लक्षणया विरुद्धांश- परित्यागेनाखंडार्थचैतन्ये ज्ञाते सतीत्यर्थः । किंविषयिणी- चित्तवृत्तिरुदेतीत्याशंकां निवारयति । अहमिति । अहं प्रत्य- गात्मा परं ब्रह्मास्मीत्यन्वयः । ब्रह्मानित्यत्वशंकां निराकरो- ति । नित्येति । शुद्धपदेनाऽविद्यादिदोषराहित्यं बुद्धपदेन स्व- प्रकाशस्वरूपत्वं मुक्तपदेन सर्वोपाधिराहित्यं सत्यपदेनाविना- शित्वभावत्वंपरमानंदपदेनवैषयिकमनुष्यानंदादिचतुर्मुखब्रह्मा- नंदपर्यन्तानांकर्मजन्यत्वेनसातिशयत्वेन क्षयिष्णुत्वेन च तुच्छ त्वात्तेभ्यो विलक्षणं निरतिशयानंदस्वरूपत्वं प्रतिपाद्यते अ-

संस्कृतटीका-भाषाटीकासमेत । (९७) नंतपदेन घटादिवत्परिच्छेदरहित्येन देशतः कालतो वस्तुतश्चा- परिच्छिन्नत्वं बोध्यते । अद्वयमिति । नानात्वनिषेधेन एक- त्वं बोध्यत इत्यर्थः । ननु यथा दीपप्रभादित्यमंडलं न व्या- प्नोति न च प्रयोजनमस्ति तथा नित्यशुद्धस्वप्रकाशमात्मानं जडचित्तवृत्तिरेकं विषयीकृत्योदेति । किं प्रयोजनं चेत्याशं- क्याह । सात्विति । सा चित्तवृत्तिर्न शुद्धब्रह्मविषयिणी किंत्व- ज्ञानविशिष्टप्रत्यगभिन्नपरब्रह्मविषयिणी सा च चैतन्यप्रतिबिं- बसंवलिता सती चैतन्यगतमज्ञानं निवर्तयति तस्याः चैत- न्यावरका न निवृत्तिरेव प्रयोजनमित्यर्थः । नन्व- धिकारिणः तत्त्वमस्यादिवाक्यश्रवणोत्पन्नाऽखंडचैतन्यवृत्त्या तदाश्रिताज्ञाननिवारितेपि तत्कार्यस्य सकलचराचरात्मकप्र- पंचस्य प्रत्यक्षतया भासमानत्वात्कथमद्वैतसिद्धिरित्याशंक्य कारणाज्ञाननाशे तत्कार्यसकलप्रपंचनाशादद्वैतसिद्धिरित्येत- त्सदृष्टांतमाह । यथेति । नन्वज्ञाननाशे तत्कार्यप्रपंचस्य ना- शोस्तु तथाप्यखंडाकारचित्तवृत्तेरनिवृत्तेरद्वैतहानिरित्याशंक्या ह । तदंतर्भूतेति । अखंडाकारवृत्तेरपि अज्ञानतत्कार्यान्त- र्भूतत्वाच्चित्तवृत्त्यातान्निवृत्तेर्नाद्वैतहानिरित्यर्थः ॥ ८५ ॥ (भा०टी) अब 'अहं ब्रह्मास्मि' इस अनुभववाक्यका अर्थ लिखतेहैं।आचार्य्य पहले कहे हुए अध्यारोप और अप- वाद न्यायके द्वारा "तत्"और "त्वम्"इन दोनों पदोंके अर्थ का शोधन करके जिस समय " तत्त्वमसि " इस वाक्य द्वारा ५

खण्डवृत्तेर्बाधितत्वादर्पणाभावे मुखप्रतिबिम्बस्य

( ९८ ) वेदान्तसार । अखण्ड चैतन्यका बोध होजायहै उस समय मैं नित्य, शुद्ध, बुद्ध, मुक्त, सत्यस्वरूप, परमानन्द, अद्वितीय, ब्रह्म हूँ इस प्रकार अखण्ड अन्तःकरण वृत्ति होती है वह अन्तःकरण वृत्ति चैतन्यप्रतिबिंबित होती है तब वह चित्तवृत्ति चैतन्य द्वारा प्रकाशित होकर प्रत्यगात्मा (जीव ब्रह्मका अभेद ज्ञान) और अभिन्न परब्रह्म विषयक अज्ञानका नाश करदेतीहै। जैसे वस्त्रके तन्तुका नाश होनेसे वस्त्र नष्ट हो जाताहै तिसी सम्पूर्ण संसारके कारण अज्ञानका नाश होनेसे तदन्तर्गत अखण्डा- कार अन्तःकरणकी वृत्तिभी नष्ट हो जातीहै ॥ ८५ ॥ तत्र वृत्तौ प्रतिबिम्बितं चैतन्यमपि यथा प्रदीप- प्रभा आदित्यप्रभावभासनसमर्था सती तयाभिभू- ताभवतितथास्वयंप्रकाशमानप्रत्यगभिन्नपरब्रह्मा- वभासनानर्हतया तेनाभिभूतं सत्स्वोपाधिभूता- खण्डवृत्तेर्बाधितत्वादर्पणाभावे मुखप्रतिबिम्बस्य मुखत्वमात्रवत्प्रत्यगभिन्नपरब्रह्ममात्रं भवति॥८६॥ ( सं०टी० ) ननु तथाप्यखंडाकारवृत्तिप्रतिबिंबितचैत- न्याभासस्य सत्त्वात्कथमद्वैतसिद्धिरित्याशंक्याह । तत्रेति । वृत्तिनिवृत्तौतत्प्रतिबिंबितचैतन्यस्य बिंबावभासनासमर्थत्वा- द्वृत्त्युपाधिबाधेन तत्प्रतिबिंबचैतन्यमपि चैतन्यमात्रतयावशि- ष्यते दर्पणोपाधिविगमे तत्प्रतिबिंबितमुखाभासस्य बिंबीभू- तमुखमात्रतावशेषवदित्यर्थः । अयंभावः । शोधिततत्त्वंपदा- र्थस्याधिकारिणः तद्विजृंभितगुरुशास्त्रादिभ्यः तत्त्वमसीत्युप-