विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( १२८ ) अनन्यसामान्यतनूजशंसिनीं स्मरन्नजस्रं गिरमुद्गतां दिवः । द्वितीयगर्भार्थमभूत्स निर्भरं समुत्सुको मध्यमलोकनायकः ॥५६॥ अन्वयः मध्यमलोकनायकः सः दिवः उद्गतां अनन्यसामान्यतनूजशंसिनीं गिरं अजस्रं स्मरन् द्वितीयगर्भार्थं निर्भरं समुत्सुकः अभूत् । व्याख्या मध्यमश्चासौ लोकश्च मध्यमलोको भूलोकस्तस्य नायको मध्यमलोकपालो भूपालः स राजाऽहवमल्लदेवो दिव आकाशादुद्गतां समागतां नान्यः सामान्य- स्तत्समानो यस्य स चासौ तनूजः पुत्रश्च तं शंसति निवेदयतीति तां गिरं वाणीमजस्रं निरन्तरं ‘नित्यानवरताजस्रम्’ इत्यमरः । स्मरन् द्वितीयगर्भार्थं द्वितीयगर्भकृते निर्भरमत्यन्तं समुत्सुक उत्कण्ठितोऽभूत् । भाषा वह भूलोक का राजा असाधारण व अलौकिक पुत्र प्राप्त होने की आकाश- वाणी को सदैव स्मरण करता हुआ, दूसरे गर्भ के लिये अत्यन्त उत्कण्ठित हुआ । स्थितस्य गर्भे प्रभयेव कस्यचिद् विलिप्यमानां स्फटिकामलत्विषः । स गण्डपालीं बिसदण्डपाण्डुरां ददर्श देव्याः पृथिवीपतिस्ततः ॥६०॥ अन्वयः ततः पृथिवीपतिः स्फटिकामलत्विषः गर्भे स्थितस्य कस्यचित् प्रभया इव विलिप्यमानां बिसदण्डपाण्डुरां देव्याः गण्डपालीं ददर्श । व्याख्या ततस्तदनन्तरं पृथिवीपती राजा स्फटिकस्याऽमला निर्मलात्विङिव प्रभेव ‘स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविधुतिदीप्तयः’ इत्यमरः । त्विट् प्रभा यस्य स तस्य स्फटिकमणिसमानशुभ्रकान्तेगर्भे उदराभ्यन्तरे स्थितस्य विद्यमानस्य कस्य- चिद् गर्भस्य प्रभयेव कान्त्येव विलिप्यमानां रज्यमानामवुलिप्यमानाञ्च बिसदण्ड इव मृणालखण्ड इव ‘मृणालं बिसमब्जादि’ इत्यमरः । पाण्डुरां शुभ्रवर्णां देव्या महिष्याः गण्डपालीं कपोलं ददर्श दृष्टवान् । अत्रोपमोत्प्रेक्षयोः संकरः ।
( १२९ ) भाषा इसके अनन्तर राजा ने स्फटिक की निर्मल कान्ति के समान शुभ्र कान्ति वाले गर्भस्थित किसी (गर्भ) की कान्ति से मानो छाए हुए, कमलनाल के सदृश श्वेत रंग के रानी के कपोलस्थल को देखा । स हेमवृष्टिं महतीमकारयच्चकार चित्राण्युपयाचितानि च । हरप्रसादोचितसूनुलालसश्चकार किं किं न नरेन्द्रचन्द्रमाः ॥६१॥ अन्वयः सः महतीं हेमवृष्टिं चित्राणि उपयाचितानि च चकार। हरप्रसादो- चितसूनुलालसः नरेन्द्रचन्द्रमाः किं किं न चकार । व्याख्या स राजा महतीं विशालां हेमवृष्टिं सुवर्णवृष्टिं चित्राण्याश्चर्यकराण्युपया- चितानि स्वमनोरथसिद्धये स्वाभीष्टदेवतायै पूर्वं संकल्पितानुपहारारंश्च चकार । "दीयते यत्तु देवेभ्यो मनोरथस्य सिद्धये । उपयाचितकं दिव्यं दोहवं तद्दि- दुर्वुधाः" । स राजा याचकेभ्यः प्रचुरं सुवर्णं दत्तवान् देवेभ्यश्च स्वाभिलषित- सिद्धये पूर्वसंकल्पितानुपहारान् पूजनादिमियेणार्पितवानिति भावः । हरस्य शिवस्य यः प्रसादः प्रसन्नता 'प्रसादस्तु प्रसन्नता' इत्यमरः । तदुचितात्तदनुकूलो यः सूनुः पुत्रस्तस्मिन् लालसोत्कटकल्पना यस्य स 'कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः' इत्यमरः । नरेन्द्राणां राज्ञां तारकाणामिव मध्ये चन्द्रमाश्चन्द्र इवाह्लादको मनोहरी च स राजा किं किं समुचितं कार्यं न चकार कृतवान् । सर्वमेव तद्योग्यं समुचितं कार्यं कृतवानित्यर्थः । अत्रार्यापत्यलङ्कारस्तेन सम्बदा- मुरव्यैः प्रतीयते । भाषा उस राजा ने सुवर्ण की घोर वृष्टि की अर्थात् याचकों को खूब सुवर्णदान दिया । देवताओं की जो विचित्र मनौतियां की थीं उनको पूरा किया । शंकर के प्रसाद के अनुकूल पुत्र पाने की लालसा रखने वाले उस राजा ने क्या २ नहीं किया अर्थात् तदनुकूल सब कुछ किया । ९
( १३० ) उवाह धौतां क्षितिपालवल्लभा सुधाप्रवाहैरिव देहकन्दलीम् । विषादपङ्कक्षयतः क्ष्मापतेर्निरन्तरं तु प्रससाद मानसम् ॥६२॥ अन्वयः 'क्षितिपालवल्लभा सुधाप्रवाहैः धौताम् इव देहकन्दलीम् उवाह । क्ष्मापतेः मानसं तु विषादपङ्कक्षयतः निरन्तरं प्रससाद । व्याख्या क्षितिपालस्य भूपालस्य वल्लभा प्रिया राज्ञी सुधाया अमृतस्य प्रवाहैः संतानैर्धौतां प्रक्षालितामत एव श्वेतामिव देहकन्दलीं शरीरलतामुवाह धारितवती । क्ष्मापतेः पृथ्वोपतेः 'विपुला गह्वरी धात्री गौरिला कुंभिनी क्ष्मा । भूतधात्री रत्नगर्भा जगती सागराम्बरा।' इत्यमरः । मानसं मनस्तु विषादो दुःखं स एव पङ्कः कर्दमस्तस्य क्षयतो विनाशात् निरन्तरमजस्रं प्रससाद प्रसन्नतां समवाप । मानसं सरः पङ्कराहित्याद्यथा निर्मलजलेन प्रसन्नतां प्राप्नोति तथैव नृपस्य मनो दुःखरहित्याद् गर्भचिन्हैः सुखं प्राप । अत्रोत्प्रेक्षारूपकश्लेषाणां संकरस्तेन शरहृतुवृत्तान्त प्रतीत इति वस्तुध्वनि । भाषा रानी, अमृत से धोई हुई के समान श्वेत शरीर को धारण करने लगी अर्थात् रानी सफेद पड़ने लगी । राजा का मन दुख रूपी कीचड़ का क्षय होने से निरन्तर प्रसन्न होने लगा । जिस प्रकार कीचड़ दूर होकर निर्मल जल रहने से मानस सरोवर प्रसन्न होता है वैसे ही राजा का मन दुख दूर होकर गर्भ के चिन्ह से निरन्तर प्रसन्न हुआ । निपीड्य चन्द्रं पयसे निवेशिता ध्रुवं तदीयस्तनकुम्भयोः सुधा । यदुत्पलश्यामलमाननं तयोः सलाञ्छनच्छायमिव व्यराजत ॥६३॥ अन्वयः पयसे चन्द्रं निपीड्य सुधा तदीयस्तनकुम्भयोः ध्रुवं निवेशिता । यत् तयोः उत्पलश्यामलम् आननं सलाञ्छनच्छायम् इव व्यराजत ।
( १३१ ) व्याख्या पयसे दुग्धाय 'पयः क्षीर पयोऽम्बु च' इत्यमर । चन्द्र सुधांशु निष्पीड्य निष्पीड्य सुधा चन्द्रगत पीयूष तस्या राज्ञा अय तदीयस्तौ तदीयो स्तनौ एव कुम्भौ तयोर्नृपपत्निकुचकुम्भयोर्ध्रुव निश्चयेन निवेशिता प्रवेशिता । यद्यस्मा- त्कारणात् तयो कुचयोरुत्पलं नीलोत्पलभिव श्यामल कृष्णदर्पमानन चूचुकः 'चूचुको ना कुचाननम्' इति रत्नकोश । लाञ्छनस्य चन्द्रस्यकृष्णचिन्हस्य छाया कान्तिस्तया सहितमिति सलाञ्छनच्छायमिव व्यराजत शुशुभे । चन्द्रस्यसुधा- गमसम्बन्धेन कलङ्ककान्त्या अप्यागमनसम्भवादुत्प्रेक्षालङ्कार । भाषा (उस बालक के दूध पीने के लिये) दूध के स्थान पर चन्द्रमा को निचोड कर अमृत ही रानी के स्तन रूपी घडो में अवश्य भरा गया होगा । क्यो कि उन दोनो स्तनो के नीले कमल के ऐसे काले चूचुक, (ढपनी, स्तन के ऊपर की घुडी) चन्द्रमा के कलङ्क की कान्ति से युक्त दिखाई देते थे अर्थात् काले थे । गर्भिणी के चूचुक काले हो जाते हैं । नरेन्द्रकान्ताकुचहेमकुम्भयोः सुधारसं क्षीरमिषेण बिभ्रतोः । हिमोपचारार्पितमार्द्रचन्दनं श्रियं दधौ गालनशुश्रवाससः ॥६४॥ अन्वयः क्षीरमिषेण सुधारसं बिभ्रतोः नरेन्द्रकान्ताकुचहेमकुम्भयोः हिमोप- चारार्पितम् आर्द्रचन्दनं गालनशुश्रवाससः श्रियं दधौ । व्याख्या क्षीरस्य दुग्धस्य मिषेण व्याजेन सुधारसममृतरस बिभ्रतोर्धारयतो नरेन्द्र- स्याहवमल्लदेवस्य कान्ता वल्लभा तस्या कुचावेव हेमकुम्भो सुवर्णकुम्भौ तयोरुपरि हिमोपचाराय शीतोपचारायार्पित विलिप्तमार्द्रचन्दनं कृतार्द्रचन्दन- लेपो गालनं स्रावण क्षरण वा तस्य शुभ्र शुक्लं वासो वस्त्रं तस्याऽमृतस्रवाय- णार्थदेवतायवस्त्रस्य शोभां कान्ति दधौ बभार । चन्दनस्य शुक्लवर्णत्वात्स्राविनादृ- ध्रवस्त्रत्वारोप । अत्रनिदर्शनालङ्कार । 'संभवन्वस्तुसम्बन्धोऽसंभवन्वाऽपि कुत्रचित् । यत्र बिम्बानुबिम्बत्वं बोधयेत्सा निदर्शना ।'
( १३२ ) भाषा दूध के व्याज से अमृत के रस को रखने वाले उस रानी के स्तन रूपी सोने के घटो पर, ठंडक पहुँचाने के लिये लगाया हुआ सफेद चन्दन, अमृत को छानने के लिये घडो के ऊपर रक्खे हुए सफेद छत्रो (छतनों) की शोभा दे रहा था । नरेन्द्रपुत्रस्य कृते सुरक्षितं क्षितीशकान्ताकुचकुम्भयोः पयः । विलासहारोज्ज्वलमौक्तिकच्छलात् समल्लिकावासमिव व्यधीयत ॥६५॥ अन्वयः नरेन्द्रपुत्रस्य कृते क्षितीशकान्ताकुचकुम्भयोः सुरक्षितं पयः विलासहा- रोज्ज्वलमौक्तिकच्छलात् समल्लिकावासम् इव व्यधीयत । व्याख्या नरेन्द्रस्य नृपस्य पुत्र सूनुस्तस्य कृते क्षितीशस्य पृथ्वीपते कान्ताया प्रियायाः कुचावेव स्तनावेव कुम्भो घटौ तयोस्सुरक्षितं सुनिहितं पय दुग्ध विलासाय धारितश्चासौ हारश्च तस्योज्ज्वलाश्शुभ्राश्चते मौक्तिकाश्च तेषाञ्छलम्मिषेण विलासार्थधारितहारप्रोतशुभ्रमुक्ताफलव्याजेन मल्लिकापुष्पाणा 'मल्लिका शतभीरुश्च गवाक्षी भद्रमल्लिका । शीतभीरुम॑दायती भूपदी तृणशून्यकम्' इति वाचस्पति । वासस्तुगन्धस्तेन सहित युक्तमिति समल्लिकावासमिव व्यधीयत कृतम् । शुभ्रत्वान्मौक्तिकोपरि मल्लिकापुष्पत्वारोप । सुगन्धार्थं दुग्धोपरि मल्लिकापुष्पाणा स्थितिरिति भाव । अत्र सापन्हुवोत्प्रेक्षालङ्कारः । भाषा राजपुत्र के लिये रानी के स्तनरूपी घडो में सुरक्षित रक्खा हुवा दूध, शोभा के लिये पहने हुए हार के सफेद मोतियो के मिष से मानो सफेद बेले के फूलो की सुगन्ध से सुगन्धित किया गया था । मृगीदृशः श्यामलचूचुकच्छलात् कुचद्वये भूपसुतोपयोगिनि । प्रभास्रक्रान्तरसायनौषधी-दलद्वयं नीलमिव व्यराजत ॥६६॥ अन्वयः मृगीदृशः भूपसुतोपयोगिनि कुचद्वये श्यामलचूचुकच्छलात् नीलं प्रभाप्रस्रक्रान्तरसायनीषधीदलद्वयम् इव व्यराजत ।
( १५३ ) व्याख्या मृगीदृश एणनयनाया नृपस्त्रियो भूपसुतस्य राजपुत्रस्योपयोगिन्युपभोगयोग्ये कुचद्वये स्तनद्वये श्यामले कृष्णवर्णे च ते चूचुके कुचाग्रे 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः। तयोश्छलाद्व्याजेन नीलं कृष्णवर्णं प्रभावेणालौकिकशक्त्या संक्रान्तं संगतं रसायनौषध्या आयुर्वर्द्धकजरा निवारकभेषजस्य दलद्वयमिव पत्रयुगलमिव रराज शुशुभे । अत्र सापन्हवोत्प्रेक्षालङ्कारः। भाषा राजपुत्र के उपयोग में आने वाले मृगनयनी रानी के दोनो स्तनों पर काले रंग के चुचुको (ढेपनी, स्तन के ऊपर की घुंडी) के मिष से मानो अलौकिक शक्ति से युक्त आयुष्य वर्धक और जरा निवारक किसी औषधि के काले रंग के दो पत्ते शोभित हो रहे थे । निरन्तरायाससमर्थमर्थिनां कथं नु दारिद्र्यमसौ सहिष्यते । न येन मध्यस्थमपि व्यपक्षत स्थितेन गर्भे नरनाथयोषितः ॥६७॥ अन्वयः असौ अर्थिनां निरन्तरायाससमर्थं दारिद्र्यं कथं नु सहिष्यते । गर्भे स्थितेन येन नरनाथयोषितः मध्यस्थम् अपि (दारिद्र्यं) न व्यपक्षत । व्याख्या असौ सजनिष्यमाणपुत्रोऽर्थिनां याचकानां निरन्तरः सतत आयास क्लेशस्त- स्मिन्ससमर्थं क्लेशकारकमित्यर्थं । दारिद्र्यं धनाभावं कथं केन प्रकारेण सहिष्यते न सहिष्यत इत्यर्थः । यतो गर्भे उदरे स्थितेन येन भाविराजपुत्रेण नरनाथस्य नृपस्य योषितः सीमन्तिन्या 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः । मध्यस्थमुदरस्य दारिद्र्यं कृशत्वं न व्यपक्षत न सोढम् । गर्भिण्या उदरं वर्धत एव । अत अनेनोदरस्यकृशत्वरूपदारिद्र्यमपहृतम् । अत्रोत्प्रेक्षा गम्या । भाषा यह गर्भस्थ बालक याचकों को निरन्तर कष्ट देने वाली दरिद्रता को कैसे सहन करेगा। क्योंकि उसने गर्भ में आकर रानी के पेट की कृशता रूपी दरिद्रता न सहन की। अर्थात् गर्भवती स्त्रियों का पेट स्वभावतः ही बड़ा हो जाता है। रानी गर्भवती होने से उसका मध्य भाग बड़ा हो गया था ।
( १३४ ) बलेः समुल्लासमपाचकार यः स कारणादत्र कुतोऽपि वर्तते । इतीव गर्भः क्षितिपालयोषितः शशंस भञ्जन्नुदरे वलिस्थितिम् ॥६८॥ अन्वयः क्षितिपालयोषितः गर्भः उदरे वलिस्थितिं भञ्जन्, यः बलेः समुल्लासम् अपाचकार सः कुतः अपि कारणात् अत्र वर्तते इति शशंस इव । व्याख्या क्षितिपालयोषितो नृपपत्न्या गर्भो गर्भस्थो बाल उदरे वलिस्थितिं त्रिवलिरेखां भञ्जन्नपहरन् यो विष्णुर्वामनरूपो बलेर्बलिनामकदैत्यस्य समुल्लासमौद्धत्यमपाच- कार दूरीकृतवान् स विष्णुः कुतोऽपिकारणात्कस्मादप्यनिर्वचनीयकारणादत्रोदरे वर्तते प्रतिवसतीति शशंसेव प्रकटीचकारेव । बबयोरभेदादुत्प्रेक्षा । नाविष्णुः पृथिवीपतिरिति वचनात्तस्य राजपुत्रस्य विष्णुरूपत्व गम्यते । भाषा रानी के गर्भ में का राजपुत्र, रानी के पेट पर थी त्रिवली दूर करते हुए यह द्योतित करता था मानो यहाँ पेट में किसी कारण से राजा बलि के औद्धत्य का भङ्ग करने वाले विष्णु के अवतार रूप वामन आये हैं । (गर्भिणी के पेट पर की त्रिवली पेट बढ़ने से नही दिखाई पडती ।) कृतावतारः क्षितिभारशान्तये न पीड्यमानां सहते महीमयम् । इतीव सा गर्भभरालसा शनैः पदानि चिक्षेप मृगायतेक्षणा ॥६९॥ अन्वयः गर्भभरालसा मृगायतेक्षणा सा, क्षितिभारशान्तये कृतावतारः अयं पीड्यमानां महीं न सहते इति इव शनैः पदानि चिक्षेप । व्याख्या गर्भभरेण गर्भभारेणालसा मन्थरगतिमृगस्याऽऽयत ईक्षण इवेक्षणे नेत्रे यस्यास्सा नृपस्त्रीः क्षितेः पृथ्व्या भारः कुनृपतिकृतात्यायविशेषस्तस्य शान्तये दूरी- करणाय कृतोऽवतारो येन स गृहीततनुरयं कुमारो मयंथ पीड्यमानां सबाध्यमानां महीं पृथ्वीं कथं सहते सहिष्यत इति हेतोरिव शनैर्मन्दं मन्दं पदानि पादान् भुवि
( १३५ ) पृथिव्यां विक्षेप दत्तवती। गर्भिण्यो मन्दगत्यैव चलन्तीति भावः। अत्रोत्प्रेक्षा- लङ्कारः। भाषा गर्भ के बोझ से धीरे २ चलने वाली, मृग के समान बडी २ आखो वाली रानी, मानो यह जान कर कि पृथ्वी का बोझ कम करने के लिये शरीर धारण करने वाला मेरा गर्भस्थ कुमार, मुझ स पृथ्वी का बोझ द्वारा पीडित होना कैसे सहन करेगा, पृथ्वी पर धीरे २ पावो को डालती थी। (गर्भिणी स्त्रियां प्राय धीरे २ ही चला करती हैं।) सशब्दकाञ्चीमणिखिम्बितैर्बभौ सखीजनैः साद्भुतगर्भधारिणी। उपास्यमाना कुलदेवतागणैः समन्ततो यामिकतां गतैरिव ॥७०॥ अन्वयः अद्भुतगर्भधारिणी सा सशब्दकाञ्चीमणिनिम्बितैः सखीजनैः समन्ततः यामिकतां गतैः कुलदेवतागणैः इव उपास्यमाना यभौ। व्याख्या अद्भुतश्चासौ गर्भश्च तं धारयतीत्यद्भुतगर्भधारिण्याऽऽश्चर्यदर्शितगर्भ- धारिणी सा रानी शब्देन सहिता सशब्दा सशब्दा चाऽसौ काञ्ची रशना तस्यां समुद्ग्रन्थिना मणयस्तासु प्रतिबिम्बितं प्रतिफलितं 'रत्नं मनिर्द्वयो रत्नजातौ मुक्तादिनेऽपि च' इत्यमरः । सखीजनैः समन्ततश्चतुर्दिक्षु यामिकतां प्राहरिवतां गतं सम्प्राप्तैः कुलस्य वंशस्य देवतागणैरिष्टदेवतासमूहैरिवोपास्यमाना संसेव्य- माना यभौ शुशुभे। यथा प्राहरिका सशब्द परितो गत्वा स्वकार्य कुर्वन्ति तथैव शब्दबद्धदानागतमणि-प्रतिबिम्बित-सखीजनरूप-कुलदेवतागणं समन्तत प्राहरिककार्य स्थित इति भावः । उत्प्रेक्षालङ्कारः । भाषा अद्भुत (भक्ति मार्ग) गर्भ को धारण करने वाली रानी झन झनाने वाली करधनी में जड़े हुए मणियो मे सखी जनों की परछाही पड़ने से मानो चारो ओर से फिरूंग २ कर पहरा देने वाली कुलकी इष्ट देवताओ से सेवित दिखाई पडती थी।
( १३६ ) अलङ्कृता दुष्प्रसहेन तेजसा रराज सा रत्नमयीषु भूमिषु । महागृहाणां प्रतिबिम्बडम्बरैः प्रणम्यमानेव कुलाचलैरपि ॥७१॥ अन्वयः दुष्प्रसहेन तेजसा अलङ्कृता सा रत्नमयीषु भूमिषु महागृहाणां प्रतिबिम्बडम्बरैः कुलाचलैः अपि प्रणम्यमाना इव रराज । व्याख्या दुखेन प्रकर्षेण सोढुं शक्येन दुष्प्रसहेन दुर्धर्षेण सोढुमशक्येन वा तेजसा दीप्त्या 'तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु' इत्यमरः । अलङ्कृता विभूषिता सा राज्ञी रत्नमयीषु रत्ननिर्मितासु भूमिषु स्थानेषु कुट्टिमेष्वित्यर्थः । महागृहाणां प्रासादानां प्रतिबिम्बस्य प्रतिच्छायाया डम्बरैरारोपैः कुलाचलै- स्सप्तभिः कुलपर्वतैरपि "महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वता ॥" प्रणम्यमानेव वन्द्यमानेव रराज शुशुभे । विशालाकारत्वात्प्रासादप्रतिबिम्बेषु कुलपर्वतत्वारोपः । अत्रोत्प्रेक्षालङ्कारः । भाषा अत्यधिक तेज से विभूषित वह रानी, रत्नों से निर्मित फर्शों पर बड़े २ महलों की परछाई पड़ने से मानो सात कुलपर्वतों से भी प्रणमित हो रही हों, ऐसी शोभित हो रही थी । अर्थात् महलों की परछाई मानो पर्वत थे जो उसके चरणों पर पड़ रहे थे । कलत्रमूर्वीतिलकस्य मेखला-कलापमाणिक्यमरीचिभिर्दधे । उदेष्यतः सूर्यसमस्य तेजसः समुद्गतं बालमिवातपं पुरः ॥७२॥ अन्वयः उर्वीतिलकस्य कलत्रं मेखलाकलापमाणिक्यमरीचिभिः उदेष्यतः सूर्यसमस्य तेजसः पुरः समुद्गतं बालम् आतपम् इव दधे । व्याख्या उर्व्याः पृथिव्यास्तिलकस्य भूषणस्य श्रेष्ठस्य वा नृपस्य कलत्रं भार्या 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । मेखलाया रशनायाः 'स्त्रीकट्यां मेखला काञ्ची सप्तकी
( १३७ ) रशना तथा' इत्यमर । कलापस्तत्समूहस्तत्र स्थितानि माणिक्यानि मणयस्तेषां मरीचिभि कान्तिभिर्हेतुभूतैरुदेष्यतो भविष्यतो सूर्यसमस्य भास्करतुल्यस्य तेजसो वीरपा पुरोऽग्रे समुद्गत समुदित बाल भूतमतातपमिव प्रकाशमिव 'प्रकाशो द्योत आतप' इत्यमर । दधे धारयामास । भविष्यतो सूर्यसमतेजस्विन पुत्रस्य जन्मत प्राक् प्रकाशमिवेति भाव । अत्र मणिकिरणेषु प्राकातपस्योत्प्रे- क्षणादुत्प्रेक्षा । भाषा पृथ्वी के भूषण रूप राजा की पत्नी करधनी में जड़ हुए माणिक्यों की ज्योति से मानो उदय होने वाले सूर्य के तेज के पहिले फैले हुए प्रात कालीन प्रकाश को धारण करती है । अर्थात् जिस प्रकार सूर्य का उदय हो कर तेज फैलने के पूर्व ही प्रकाश होने लगता है उसी प्रकार तेजस्वी पुत्र के उत्पन्न होने के पूर्व ही मानो वह करधनी में के माणिक्य का प्रकाश पड़ रहा था । क्षपामुखेषु प्रतिबिम्बितः शशी हृदि क्ष्मावल्लभलोलचक्षुषः । जगाम गर्भे दधतः सुखस्थितिं नरेन्द्रसूनोरुपधानतामिव ॥७३॥ अन्वय. क्षपामुखेषु क्ष्मावल्लभलोलचक्षुष हृदि प्रतिबिम्बितः शशी गर्भे सुखस्थितिं दधत नरेन्द्रसूनो उपधानताम् इव जगाम । व्याख्या क्षपामुखेषु प्रदोषेषु 'प्रदोषो रजनीमुखम' इत्यमर । क्ष्माया पृथ्व्या वल्लभस्य प्रियस्य पृथ्वीपतेरित्यर्थ । लोलचक्षुषश्चञ्चलनयनाया कान्ताया हृदि हृदये 'चित्तन्तु चेतो हृदयं स्वात्त हृन्मानसं मन ' इत्यमर । प्रतिबिम्बित प्रतिबिम्बत्वं प्राप्त शशी चन्द्रो गर्भ उदरे सुखेनाऽक्लेशेन स्थितिं निवासं दधत धृवतो नरेन्द्रसूनो राजपुत्रस्योपधानतामिवोपधीयते आरोप्यते शिरोऽनेनेत्युपधानं तस्य भावस्तामुपबर्हणत्वमिव 'उपधान तूपवह ' इत्यमर । अगाम प्राप । उपबर्हस्य सादृश्यं यथाविति । उपधानं वर्तुलाकारं लम्बाकारञ्च भवति । अत्र चन्द्र- सादृश्याद्वर्त्तुलाकारस्यैवोेपधानस्य ग्रहणम । बालार्थ वर्तुलाकारमुपधानमेव लोके दृश्यते । अत्रोत्प्रेक्षालङ्कार ।
( १४० )
मारसर्पं सहति स्मेति भावः । उक्तञ्च 'प्रकृतिः खलु सा महीयसां सहते नान्यसमुन्नतिं ययेति' ।
भाषा रानी क्रोध से अपनी भौंहें उठा कर शब्द करने वाले आभूषणों को भी देखती थी और तेज से अपनी जोत रूपी मस्तक को ऊपर स्थिर रखने वाले घर के दीपों से भी ईर्ष्या करती थी । अर्थात् मेरे सामने इन भूषणों की बोलने की हिम्मत कैसी और इन तेजस्वी दीयों को बिना सिर झुकाए मेरे सामने ठहरने की हिम्मत कैसी—ऐसी वीर रस की, दोहदजनित भावनाएँ उस रानी के मन में होती थी ।
इति स्फुरच्चारुविचित्रदोहदा निवेदयन्ती सुतमोजसां निधिम् । प्रतिक्षणं सा हरिणायतेक्षणा दृशोः सुधावर्तिरभून्महीभुजः ॥७७॥
अन्वयः इति स्फुरच्चारुविचित्रदोहदा सुतम् ओजसां निधिं निवेदयन्ती हरिणा- यतेक्षणा सा प्रतिक्षणं महीभुजः दृशोः सुधावर्तिः अभूत् ।
व्याख्या इतीत्थं पूर्वोक्तरीत्या स्फुरत्प्रकाशितञ्चारुशोभनं विचित्रमसाधारणचम- त्कारि दोहदं गर्भिणीच्छा 'दोहदं गर्भिणीच्छायामिच्छामात्रेऽपि दोहदम्' यस्या सा सुतं पुत्रमोजसां बलानां 'ओजो दीप्तौ बले' इत्यमरः । निधिं निधानं निवेदयन्ती विज्ञापयन्ती हरिण इव मृग इवाऽऽयते विस्तीर्णे ईक्षणे नेत्रे यस्या सा मृगायतनेत्रा राज्ञी प्रतिक्षणं क्षणे क्षणे महीभुजो नृपस्य दृशोर्नेत्रयोः सुधावर्तिः सुखसम्पर्का पीयूषशलाकाऽभूत् । राज्ञी पीयूषशलाकावन्नृपस्य नेत्रयोरानन्दसम्पर्काऽभूदिति भावः । अत्र रूपकालङ्कारः ।
भाषा उपर्युक्त प्रकार से मनोहर और आश्चर्यजनक दोहदों से युक्त, (अतएव) अपने पुत्र को बल का निधान सिद्ध करती हुई, मृग के समान बड़े बड़े नेत्र वाली रानी, आँखों की अमृतानञ्जन की शलाका के ऐसा राजा को, प्रतिक्षण आनन्द देती थी । अर्थात् ऐसी अपनी रानी को देख कर राजा को प्रतिक्षण आनन्द होता था ।
( १४१ ) कृतेषु सर्वेष्वथ शास्त्रवर्त्मना यथाक्रमं पुंसवनादिकर्मसु । विशेषचिह्नैर्निजमीशितुः क्षितेर्वधूः समासन्नफलं न्यवेदयत् ॥७८॥ अन्वयः अथ क्षितेः ईशितुः वधूः यथाक्रमं सर्वेषु पुंसवनादिकर्मसु शास्त्रवर्त्मना कृतेषु (सत्सु) विशेषचिह्नैः निजं समासन्नफलं न्यवेदयत् । व्याख्या अथाऽनन्तर क्षितेः पृथ्व्या ईशितुरीश्वरस्य राज्ञो वधूः स्त्रीः क्रममनतिक्रम्य वर्तत इति यथाक्रमं क्रमानुसारण सर्वेषु समग्रेषु पुंसवनादिर्येषां तानि कर्माणि संस्कारास्तेषु, पुंसवनसीमन्तोन्नयने द्वावेव संस्कारौ गर्भाधानसंस्कारानन्तरमिति बहुवचनमत्राऽनपेक्षितम् । परन्तु तान्त्रिकविधिना तृतीयोऽपि संस्कारो भवति । शास्त्रवर्त्मना धर्मशास्त्रप्रतिपादितमार्गेण कृतेषु सम्पादितेषु सत्सु विशेषचिह्नै- र्विशिष्टलक्षणैर्निजं स्वीयं समासन्नं निकटवर्ति च तत् फल पुत्रोत्पत्तिरूपं न्यवेदयत् सूचितवती । भाषा इसके अनन्तर पृथ्वी के स्वामी की स्त्री रानी ने धर्मशास्त्र के अनुसार क्रम से पुंसवन सीमन्तोन्नयन प्रभृति संस्कारों के सम्पादित होने पर, विशेष लक्षणों से, शीघ्र होने वाले अपने पुत्र रूप फल की सूचना दी । त्रिलोकक्ष्म्येव सलीलमीक्षितः कृतद्रवैश्चन्द्रकरैरिवाप्लुतः । अदूरवाञ्छालतिकफलोदयः क्वचिन्न माति स्म मुदा नरेश्वरः ॥७९॥ अन्वयः त्रिलोकक्ष्म्या सलीलम् ईक्षितः इव कृतद्रवैः चन्द्रकरैः आप्लुतः इव अदूरवाञ्छालतिकफलोदयः नरेश्वरः मुदा क्वचित् न माति स्म । व्याख्या त्रिलोकस्य त्रिभुवनस्य लक्ष्म्या राजश्रिया सलीलं सविलासममीक्षितो दृष्ट इव, कृतो द्रवो जलरूपं येषां ते कृतद्रवास्तैर्द्रवीभूतैश्चन्द्रकरैःशशिकिरणैराप्लुतो- ऽभिषिक्त इवाऽदूरे समीपस्थ एव वाञ्छालतिकया इच्छालातायाः फलस्य पुत्ररूप-
( १३८ ) भाषा सायकाल के समय में पृथ्वीपति की चञ्चल नेत्रवाली रानी के हृदय में प्रतिबिम्बित चन्द्रमा मानो गर्भ में सुख से रहने वाले राजपुत्र की गोल तकिया का काम करता था । अतः परं भविष्णुवीरपुत्रानुरूपं तस्य दोहदं वर्णयति कवि :- नृपप्रिया स्थापयितुं पदद्वयीमियेप दिक्कुञ्जरकुम्भभित्तिषु । चिराय धाराजलपानलम्पटा कृपाणलेखासु मुमोच लोचने ॥७४॥ अन्वयः नृपप्रिया दिक्कुञ्जरकुम्भभित्तिषु पदद्वयीं स्थापयितुम् इयेप। चिराय धाराजलपानलम्पटा कृपाणलेखासु लोचने मुमोच । व्याख्या नृपप्रिया राजपत्नी दिक्कुञ्जराणा दिग्दन्तिना कुम्भा एव भित्तयः कुड्यानि 'भित्ति. स्त्री कुड्यम्' इत्यमरः। तासु पदद्वयीं चरणयुगलं स्थापयितुं निक्षेप्तु- मिमेपाऽऽचकाङ्क्ष । चिराय चिरकालात् 'चिराय चिररात्राय चिरस्याद्याश्चि- रार्थकाः' इत्यमरः। धारायाः प्रवाहस्य जलं पयस्तस्य पाने लम्पटा लालसा- युक्ता सा नृपपत्नी कृपाणाना करवालाना रेखा धारा तासु करवालधारासु लोचने नयने मुमोच प्रक्षिप्तवती । अत्र खड्गधारायां जलधारात्वारोपः । भाषा रानी, दिग्गजो के गण्डस्थलरूपी दीवारो पर अपने दोनो पैर रखने की इच्छा करने लगी । चिरकाल से धार का जल पीने की लालसा रखने वाली रानी तलवारो की धारो पर अपनी आँखें डालने लगी । अर्थात् गर्भस्थित बालक में वीर रस प्रधान रहने से रानी को वीर रस का दोहद होने लगा । मुहुः प्रकोपादुपरीस्थितासु सा चकार तारास्वपि पाटले दृशौ । गुरुस्मया कारयितुं दिगङ्गनाः पदाब्जसंवाहनमाजुहाव च ॥७५॥ अन्वयः गुरुस्मया सा प्रकोपात् उपरिस्थितासु तारकासु अपि मुहुः पाटले दृशौ चकार। पदाब्जसंवाहनं कारयितुम् दिगङ्गनाः आजुहाव च ।
( १३९ ) व्याख्या गुरुर्महान् स्मयो मदो यस्याः सा 'दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मद' इत्यमरः। प्रकोपात् क्रोधादुपर्याकाशे स्थितासु विद्यमानासु तारास्वपि तारकास्वपि 'नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम्' इत्यमरः। मुहुर्वा- रंवारं पाटले क्रोधारुणे दृशौ नयने चकार कृतवती। किं तारा स्त्रियो मत्त श्रेष्ठाः। कथं तर्हि ता मदुपरि तिष्ठन्तीति क्रोधस्य कारणम्। दिशां काष्ठाना- मङ्गना वेश्यास्ता एव पादोऽब्जमिव पद्ममिव तस्य संवाहनं संमर्दनं स्वचरणार- विन्दसमर्दनं कारयितुमाजुहावाऽऽमन्त्रितवती च। चित्तोद्रेकेन दिगङ्गना स्वचरणसंवाहनयोग्या निर्धारिता इति भावः। भाषा अत्यधिक मद से भरी रानी, ऊपर रहने वाली ताराओ की ओर क्रोध से लाल आँखें कर बार बार ताकने लगी और दिगङ्गनाओं को अपने पदकमलों को दबाने के लिए बुलाने लगी। अर्थात् गर्भ स्थित प्रतापी बालक जनित मद में नाराखी स्त्रियां मेरे ऊपर कैसे गई इससे कोप हुआ और दिगङ्गनाएँ मेरे पैर दबाने योग्य हैं, ऐसा अभिमान हुआ। उदञ्चितभ्रूर्मुखराणि संततं विलोकयामास विभूषणान्यपि । अजायत स्तब्धशिरःसु तेजसा गृहप्रदीपेष्वपि बद्धमत्सरा ॥७६॥ अन्वयः उदञ्चितभ्रूः (सा) मुखराणि विभूषणानि अपि सततं विलोकयामास । तेजसा स्तब्धशिरःसु गृहप्रदीपेषु अपि बद्धमत्सरा अजायत । व्याख्या उदञ्चिते समुन्नते भ्रुवौ भ्रूभ्यामूर्ध्वभागो यस्या सा राज्ञी कोपभावयुक्ते- त्यर्थः। मुखराणि शब्दायमानानि विभूषणान्याभूषणान्यपि संततमनावरतं 'संततेऽनारताश्रान्त संतताविरतानिशम्' इत्यमरः। विलोकयामास ददर्श। कोपे भ्रुवौ समुन्नते भवत इति कोपेन वाचालतां प्राप्ताण्याभूषणांयवलोकितवती। महान्तो वाचालस्य नैव सहन्त इति भावः। तेजसा तेजःपुञ्जेन स्तब्धानि निश्चलानि शिरांसि ज्योतिंषि येषां तेषु गृहप्रदीपेषु गृहस्थदीपेष्वाप बद्धमत्सरा कृतवैराऽसह्यायताऽभूत्। मयि विद्यमानायां बहुतेजस्विनीतरस्तू बद्धमत्सराऽभवत्
( १४० ) मात्सर्यं वहति स्मेति भावः । उक्तञ्च 'प्रकृतिः खलु सा महीयसां सहते नान्यसमुन्नतिं ययेति' । भाषा रानी क्रोध से अपनी भौंहें उठा कर शब्द करने वाले आभूषणों को भी देखती थी और तेज से अपनी जोत रूपी मस्तक को ऊपर स्थिर रखने वाले घर के दीपो से भी ईर्ष्या करती थी । अर्थात् मेरे सामने इन भूषणो की बोलने की हिम्मत कैसी और इन तेजस्वी दीपो को बिना सिर झुकाए मेरे सामने ठहरने की हिम्मत कैसी-ऐसी वीर रस की, दोहदजनित भावनाएँ उस रानी के मन में होती थी । इति स्फुरच्चारुविचित्रदोहदा निवेदयन्ती सुतमोजसां निधिम् । प्रतिक्षणं सा हरिणायतेक्षणा दृशोः सुधावर्तिरभून्महीभुजः ॥७७॥ अन्वयः इति स्फुरच्चारुविचित्रदोहदा सुतम् ओजसां निधिं निवेदयन्ती हरिणा- यतेक्षणा सा प्रतिक्षणं महीभुजः दृशोः सुधावर्तिः अभूत् । व्याख्या इतीत्थं पूर्वोक्तरीत्या स्फुरत्प्रकाशितञ्चारुशोभनं विचित्रमसाधारणचम- त्कारि दोहदं गर्भिणीच्छा 'दोहदं गर्भिणीच्छायामिच्छामात्रेऽपि दोहदम्' यस्या सा सुतं पुत्रमोजसां बलानां 'ओजो दीप्तौ बले' इत्यमरः । निधिं निधानं निवेदयन्ती विज्ञापयन्ती हरिण इव मृग इवाऽऽयते विस्तीर्णे ईक्षणे नेत्रे यस्या सा मृगायतनयना राज्ञी प्रतिक्षणं क्षणे क्षणे महीभुजो नृपस्य दृशोर्नयनयोः सुधावर्तिः सुखसमर्पका पीयूषशलाकाऽभूत् । राज्ञी पीयूषशलाकावन्नृपस्य नेत्रयोरानन्दसमर्पकाऽभूदिति भावः । अत्र रूपकालङ्कारः । भाषा उपर्युक्त प्रकार से मनोहर और आश्चर्यजनक दोहदो से युक्त, (अतएव) अपने पुत्र को बल का निधान सिद्ध करती हुई, मृग के समान बड़े बड़े नेत्र वाली रानी, आँखों की अमृताञ्जन की शलाका के ऐसा राजा को, प्रतिक्षण आनन्द देती थी । अर्थात् एसी अपनी रानी को देख कर राजा को प्रतिक्षण आनन्द होता था ।
( १४१ ) कृतेषु सर्वेष्वथ शास्त्रवर्त्मना यथाक्रमं पुंसवनादिकर्मसु । विशेषचिह्नैर्निजमीशितुः क्षितेर्वधूः समासन्नफलं न्यवेदयत् ॥७८॥ अन्वयः अथ क्षितेः ईशितुः वधूः यथाक्रमं सर्वेषु पुंसवनादिकर्मसु शास्त्रवर्त्मना कृतेषु (सत्सु) विशेषचिह्नैः निजं समासन्नफलं न्यवेदयत् । व्याख्या अथाऽनन्तरं क्षिते पृथ्व्या ईशितुरीश्वरस्य राज्ञो वधू स्त्री क्रममनतिक्रम्य वर्तत इति यथाक्रमं क्रमानुसारेण सर्वेषु समग्रेषु पुंसवनमादिर्येषां तानि कर्माणि संस्कारास्तेषु, पुंसवनसीमन्तोन्नयने द्वयेव संस्कारौ गर्भाधानसंस्कारानन्तरमिति बहुवचनमत्राऽनपेक्षितम् । परन्तु तान्त्रिकविधिना तृतीयोऽपि संस्कारो भवति । शास्त्रवर्त्मना धर्मशास्त्रप्रतिपादितमार्गेण कृतेषु सम्पादितेषु सत्सु विशेषचिह्नै- र्विशिष्टलक्षणैर्निजं स्वकीय समासन्नं निकटवर्ति च तत् फलं पुत्रोत्पत्तिरूपं न्यवेदयत् सूचितवती । भाषा इसके अनन्तर पृथ्वी के स्वामी की स्त्री रानी ने धर्मशास्त्र के अनुसार क्रम से पुंसवन सीमन्तोन्नयन प्रभृति संस्कारों के सम्पादित होने पर, विशेष लक्षणों से, शीघ्र होने वाले अपने पुत्र रूप फल की सूचना दी । त्रिलोकलक्ष्म्येव सलीलमीक्षितः कृतद्रवैश्चन्द्रकरैरिवाप्लुतः । अदूरवाञ्छालतिकफलोदयः क्वचिन्न माति स्म मुदा नरेश्वरः ॥७९॥ अन्वयः त्रिलोकलक्ष्म्या सलीलम् ईक्षितः इव कृतद्रवैः चन्द्रकरैः आप्लुतः इव अदूरवाञ्छालतिकफलोदयः नरेश्वरः मुदा क्वचित् न माति स्म । व्याख्या त्रिलोकस्य त्रिभुवनस्य लक्ष्म्या राजश्रिया सलील सविलासमिक्षितो दृष्ट इव, कृतो द्रवो जलरूपं येषां ते कृतद्रवास्तैर्द्रवीभूतैश्चन्द्रकरैःशशिकिरणैराप्लुतोऽ- भिषिक्त इवाऽदूरे समीपस्थ एव वाञ्छालतिवाया इच्छांलताया फलस्य पुत्ररूप-
( १४२ ) स्योदयः प्रादुर्भावो यस्य स नरेश्वरो राजा मुदाऽऽनन्दप्रवाहेण क्वचिन्न भाति स्म हर्षस्येयत्तां न प्राप्नोति स्म। राजनि तस्मिन् हर्षातिरेको जात इति भावः। अत्रोत्प्रेक्षारूपकयोः संसृष्टिः। भाषा त्रिभुवन की राज्यश्री से सप्रेम अवलोकित होने के समान तथा चन्द्रकिरणों को जलरूप में परिवर्तित कर उस जल से स्नान किये हुए के समान, शीघ्र ही जिसकी इच्छा लता में पुत्र रूप फल का उद्गम होने वाला है, ऐसा वह राजा हर्ष से फूले नही समाता था। अथ युग्मेन नृपवल्लभायाः सूतिकागृहप्रवेशं वर्णयति कविः— भिषग्भिरापादितसर्वभेषजं वितीर्णरक्षाविधिमण्डलाक्षतम्। विशारदाभिः प्रसवोचिते विधौ निरन्तरं गोत्रवधूभिरञ्चितम् ॥८०॥ विवेश सुभ्रूश्च सूतिकागृहं प्रधानदैवज्ञनिवेदिते दिने। समुल्लसद्भिः शकुनैः सहस्रशः समर्पयन्ती नृपतेर्महोत्सवम् ॥८१॥ अन्वयः अथ सुभ्रूः प्रधानदैवज्ञनिवेदिते दिने भिषग्भिः आपादितसर्वभेषजं वितीर्णरक्षाविधिमण्डलाक्षतं प्रसवोचिते विधौ विशारदाभिः गोत्रवधूभिः निरन्तरम् अञ्चितं सूतिकागृहं समुल्लसद्भिः सहस्रशः शकुनैः नृपतेः महोत्सवं समर्पयन्ती विवेश। व्याख्या अथानन्तरं सुष्ठु भ्रुवौ यस्याः सा सुभ्रू राजमहिषी प्रधानेः श्रेष्ठैर्दैवज्ञैर्मौहूर्त्तिकैः 'सांवत्सरो ज्योतिर्विदो दैवज्ञगणकावपि। स्युर्मौहूर्त्तिकमौहूर्तज्ञानिकातार्तिका अपि' इत्यमरः। निवेदिते कथिते दिने शुभदिवसे भिषग्भिर्वैद्यैरापादितानि सम्पादितानि सर्वाणि समग्राणि भेषजान्यौषधिरूपाणि यस्मिंस्तत्, वितीर्णानि दत्तानि रक्षाविषये नवजातबालरक्षार्थं मण्डलानि यन्त्रविशेषव्यवस्था अभिमन्त्रित मन्त्राक्षताश्च यस्मिंस्तत्, प्रसवस्य जननकर्मण उचिते सुखप्रसवकारिणि समुचिते विधायनुष्ठाने विशारदाभिस्तत्कार्यकुशलाभिः गोत्रवधूभिः कुलाङ्गनाभिर्निरन्तरं सततमञ्चितं पूजितं सूतिकागृहमरिष्टं 'अरिष्टं सूतिकागृहम्' इत्यमरः। समुल्ल-
( १४३ ) सद्भिः प्रकटीभूतैः सहस्रशोऽसंख्यैः शकुनैः शुभचिह्नैर्नृपतेर्नृपरथाङ्गह्वमल्लदेवस्य महोत्सर्व हर्षातिरेकं महोत्सेकं वा'-'उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः' इत्यमरः। समर्पयन्तो जनयन्ती सती विवेश प्रविष्टा । भाषा इसके बाद प्रधान ज्योतिषी द्वारा बताए हुए शुभ दिन, वैद्यों द्वारा स्थापित समग्र आवश्यक औषधियों से युक्त, रक्षा के लिये फेंकी हुई मन्त्राक्षतों तथा लिखे हुए मण्डलों या यन्त्रों से शोभित, चतुर कुलवङ्गनाओं द्वारा सुखप्रसव के योग्य विधि विधान पूर्वक पूजित, प्रसूति घर में, होने वाले हजारों शुभ शकुनों से राजा को परम् आनन्द देती हुई, सुन्दर भौंहों वाली रानी ने प्रवेश किया । अथ कलापकेन पुत्रोत्पत्तिं वर्णयति कविः- ततः प्रदीपेष्वाप तत्र विस्फुरत्प्रभाधरेष्वात्तिवशाज्जपत्स्विव । विलासहंसीमपि बालकान्वितां परिच्छदे प्रष्टुमुपायमुत्सुके ॥८२॥ अन्वयः ततः तत्र विस्फुरत्प्रभाधरेषु प्रदीपेपु अपि आर्त्तिवशात् जपत्सु इव परिच्छदे बालकान्वितां विलास हंसीम् अपि उपायं प्रष्टुं समुत्सुके सति (नृपतेर्नन्दनोऽजायतेति पञ्चाशीतिश्लोकेन सम्बन्धः ।) व्याख्या ततः सूतिकागृहप्रवेशानन्तरं तत्र सूतिकागृहे धरन्तीति धरा विस्फुरन्त्या देदीप्यमानायाः प्रभायाः कान्तेर्धरास्तेषु देदीप्यमानकान्तिधरेषु प्रदीयेषु गृहदीपे- घ्वार्त्तिवशात् पीडाकारणात् जपत्स्विव नृपकान्तायाः प्रसववेदनोन्मूलनाय मन्त्रजपं कुर्वत्सु सत्स्विव, ^जपकर्तृपक्षे विस्फुरन्तीस्तस्तः प्रसरन्ती प्रभा यस्य स विस्फुरत्प्रभोऽधरो येषां ते तेषु जपःसु मन्त्रजपं कुर्वत्सु, परिच्छदे परिजने दास्यादिके बालकान्वितां युक्तां नवजातबालयुक्तां विलास हंसीमपि क्रीडाहंसी- मप्युपायं प्रसववेदना निवारणपूर्वकपुत्रोत्पत्त्युपायं प्रष्टुं समुत्सुके समुत्कण्ठिते सति नृपतेर्नन्दनोऽजायतेत्यनेनाऽन्वयः । अत्र जपत्स्वित्येवमथोत्प्रेक्षालङ्कारः । उत्तरा- र्धोऽतिशयोक्तिश्च ।
( १४४ ) भाषा प्रसूति घरमे जाने के बाद वहाँ रानी की प्रसव वेदना को कम करने के ध्येय से मन्त्रजप करने में ओठ के हिलने से उसकी फैलने वाली कान्ति से युक्त जप करने वालो के ऐसे तेज जलने वाले दीपो के भी मानो जप करते रहने पर, दासियो के, नवजात बच्चे वाली पालतू हथिनी को भी प्रसव वेदना कम होकर पुत्र उत्पन्न होने का उपाय पूछने के लिए, उत्कण्ठित होने पर (राजा को पुत्र हुआ यह ८५ श्लोक के वाक्य से सम्बद्ध है ।) निखातरक्षौषधिगेहदेहली-समीपसज्जीकृतशस्त्रपाणिषु । इतस्ततस्त्राटनमक्षतोत्करैर्विधाय हुँकारिषु मन्त्रवादिषु ॥८३॥ अन्वयः निखातरक्षौषधिगेहदेहलीसमीपसज्जीकृतशस्त्रपाणिषु मन्त्रवादिषु अक्षतो- त्करैः इतः ततः त्राटनं विधाय हुँकारिषु (सत्सु) (नृपतेर्नन्दनोऽजायते- त्यनेनाऽन्वयः । ) व्याख्या निखाता गर्त विधाय तत्र निक्षिप्ता रक्षाया बालरक्षाया ओषधयो भेषजानि यस्या सा चासौ गेहदेहली सूतिकागृहावग्रहणी 'गृहावग्रहणी देहली' इत्यमर । तस्यास्समीपे सज्जीकृताः स्थापिताः शस्त्र पाणौ येषा ते सशस्त्रमनुष्या यैस्तेषु मन्त्रवादिषु मन्त्रपाठकेष्वक्षतोत्करैरभिमन्त्रिताक्षतसमूहैरितस्ततस्त्राटनं रक्षाविधि- विशेष "मन्त्राक्षतान्परितो विक्षिप्य तान्त्रिकैर्बालरक्षार्थं क्रियमाणोऽनर्थनिवारण- विधिविशेषस्त्राटनम्" विधाय सम्पाद्य हुँकारिषु हुंकारशब्द कुर्वत्सु सत्सु । (नृपतेर्नन्दनोऽजायतेति सम्बन्धः) भाषा गड्ढा खोदकर जहाँ प्रसूतिरक्षा की ओषधियां गाड़ी हुई थीं ऐसी प्रसूतिघर की देहली के पास सशस्त्र मनुष्यो को बैठाने वाले मान्त्रिको के इधर उधर मन्त्राक्षतो को फेंककर त्राटनविधि करने हुँकार शब्द करते रहने पर (राजा को पुत्र हुआ ।) गृहोदरस्थे जरतीपरिग्रहे किमप्युपांशु स्वमतोपदेशिनि । वितीर्णकर्णासु निवासपञ्जरादनल्पशोकासु शुकाङ्गनास्वपि ॥८४॥
( १४५ ) अन्वयः गृहोदरस्थे जरतीपरिग्रहे उपांशु किमपि स्वमतोपदेशिनि (सति), अनल्पशोकासु शुकाङ्गनासु अपि निवासपञ्जरात् वितीर्णकर्णासु सतीषु (नृपतेर्नन्दनोऽजायतेत्यन्वयः) । व्याख्या गृहोदरस्थे प्रसूतिगृहमध्यस्थे जरतीपरिग्रहे वृद्धनारीसमूहे उपांशु रहः शनै- रित्यर्थः । ‘विविक्तविजनच्छन्ननिःशलाकास्तथा रहः । रहश्चोपांशु' इत्यमरः । किमपि प्रच्छन्नमुपायमालम्ब्य स्वमतस्य स्वाभिप्रायस्योपदेशिनि प्रकाशयत्यात्म्यति सति । अनल्पः शोको यासां तासु बहुशोकासु कीराङ्गनास्त्वपि शुकस्त्रीष्वपि निवासपञ्जरात् स्वनिवासस्थानभूतपिञ्जरादेव न तु बहिर्निःसृत्य तस्योपाया- भावात् । वितीर्णो दत्तः कर्णः श्रवणं याभिस्तासु किम्भवतीति सोत्कण्ठिता- स्तासां सर्वमाकर्णयन्तीषु सतीषु । (नृपतेर्नन्दनोजायतेति सम्बन्धः ।) अत्रा- तिशयोक्त्यलङ्कारः । भाषा प्रसूतिघर में वृद्धी स्त्रियों के धीरे धीरे अपने विचार के अनुसार कुछ उपाय बताते रहने पर, अत्यधिक दुःखी, पिंजरे में की गुग्गियो के भी कान देकर सब सुनते रहने पर । (राजा को पुत्र हुआ ।) अलभ्यत प्राक्तनचक्रवर्तिना न जन्म यत्राद्भुतधाम्नि केनचित्। तथाविधं लग्नमवाप्य नन्दनः शिवप्रसादान्नृपतेरजायत ॥८५॥ अन्वयः 'अद्भुतधाम्नि यत्र प्राक्तनचक्रवर्तिना केनचित् अपि जन्म न अलभ्यत तथाविधं लग्नम् अवाप्य शिवप्रसादात् नृपतेः नन्दनः अजायत । व्याख्या अद्भुतधाम्न्याश्चर्यमयं धाम स्थानं तस्मिन्नाश्चर्यसमुत्पादकवस्तूनां यस्मिन् समुद्योतो भवति तादृशे यत्र लग्ने प्राक्तनः पूर्वजातस्यासी चक्रवर्तिः सार्वभौमश्च तेन केनचिदपि राजा जन्म जनुः 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । नालभ्यत न लेभे तथाविधं लग्नं शुभमुहूर्तमवाप्य संप्राप्य शिवप्रसादाच्छङ्करकृपा- कटाक्षात् नृपतेर्नृपमाहवमल्लदेवं 'कर्मणि षष्ठी' पुत्रः सूनुरजायत समुत्पन्नः । १०