भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( १२१ ) भाषा अपने हाथो से शङ्कर के मन्दिर के आँगन को लीपपोत कर सफा करने वाली रानी, शङ्कर का मुकुट स्वरूप गङ्गानदी की लहरो के वायु से मानो अपना श्रम दूर करती हुई, राजा की अच्छी तरह सेवा करती थी । तथाविधायाः सदृशं यदुन्नतेर्मतं यदौदार्यधनस्य चेतसः । तदद्रिकन्यादयितस्य पूजने जितेन्द्रियः कल्पयति स्म पार्थिवः ॥४५॥ अन्वयः जितेन्द्रियः पार्थिवः तथाविधायाः उन्नतेः यत् सदृशं, औदार्यधनस्य यत् मतं तत् अद्रिकन्यादयितस्य पूजने कल्पयति स्म । व्याख्या जितानि वशीकृतानीन्द्रियाणि येन स यतेन्द्रियः पार्थिवो राजा 'राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षित.' इत्यमरः । तथाविधायास्तादृश्या पुत्रप्राप्ति- रूपाया उन्नतेरभ्युदयस्य यत् सदृशं योग्यं कार्यमौदार्यमेव धनं यस्य तस्य चेतस- श्चित्तस्य यन्मतमिष्टमुदारचित्तेन च यत्सम्पादनीयं स्यात्तत्सर्वं सेवाकार्यं तत्सामग्री च 'वित्तसाहचर्याद्वर्जित' इति स्मरणात् । अद्रिकन्यायाः पार्वत्या दयितस्य पत्युः शिवस्य पूजने पूजार्थं कल्पयति स्म रचयति स्म । यक्षानुकूलो वलिरिति न्यायाद्याकार्यं सर्वमकरूपयदिर्ति भावः । भाषा जितेन्द्रिय राजा, वैसी पुत्र प्राप्ति के सदृश उच्च कामना के अनुरूप और उदारचित्त की प्रेरणा के अनुसार शङ्कर के पूजन में सब उत्तम वस्तुओ का प्रयोग करता था । इति क्षितीन्द्रश्चिरमिन्दुशेखर-प्रसादनाय व्रतमुग्रमाश्रितः । कदाचिदाकर्णयति स्म भारतीं प्रभातपूजासमये नभश्चरीम् ॥४६॥ अन्वयः इति इन्दुशेखरप्रसादनाय चिरम् उग्रं व्रतम् आश्रितः क्षितीन्द्रः कदाचित् प्रभातपूजासमये नभश्चरीं भारतीम् आकर्णयति स्म ।

( १२२ ) व्याख्या इति पूर्वोक्तरीत्येन्दुशेखरस्य शिवस्य प्रसादाय प्रसन्नतासम्पादनार्थं चिरं चिरकालमुग्रं कठिनं व्रतं नियमं ‘नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम्’ इत्यमरः । आश्रितसमाधिनः क्षितीन्द्रो राजा कदाचिदिरस्मिंश्चित्समये प्रभाते प्रातःकाले या पूजाऽर्चनं तस्या अवसरे नभसि गगने चरतीति नभश्चरी तामाकाशगामिनीं भारतीं वाणीं ‘ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती’ इत्यमरः । आकाशवाणीमित्यर्थः । आकर्णयति स्म श्रुतवान् । भाषा इस प्रकार शंकर भगवान् को प्रसन्न करने में चिरकाल तक कठोर व्रत पालन करने वाले राजा ने किसी दिन सबेरे की पूजा के काल में आकाशवाणी सुनी । अलं चुलुक्यक्षितिपालमण्डन-श्रमेण विश्राम्यतु कर्कशं तपः । कमप्यपूर्वं त्वयि पार्वतीपतिः प्रसादमारोहति भक्तवत्सलः ॥५०॥ अन्वयः हे चुलुक्यक्षितिपालमण्डन श्रमेण अलं, कर्कशं तपः विश्राम्यतु, भक्तवत्सलः पार्वतीपतिः त्वयि कम् अपि अपूर्वं प्रसादम् आरोहति । व्याख्या हे चुलुक्यस्य चुलुक्यवंशस्य क्षितिपाला नृपास्तेषां मण्डनमाभूषणं तत्सम्बुद्धौ हे चुलुक्यवंशक्षितिपालमण्डन ! राजन् ! श्रमेणालमतः परं वनादिषु परिश्रमो न कर्तव्यः । कर्कशं कठिनं तपो नियमो विश्राम्यतु विश्रान्तिमेतु भक्तानां प्रपन्नानां वत्सल स्निग्धः 'स्निग्धस्तु वत्सल.' इत्यमरः । पार्वत्याः पतिः शिवस्त्वयि त्वद्विषये कमप्यपूर्वं कमप्यनिर्वचनीयं प्रसादं प्रसन्नतां कृपामारोहति करोति । भाषा हे चालुक्य वंशीय राजाओं के भूषण ! अब परिश्रम मत करो । कठोर तप बन्द करो। भक्तवत्सल शंकर ने तुम्हारे ऊपर एक अवर्णनीय कृपा की है। इयं त्वदीया दयिता भविष्यति क्षितीन्द्र पुत्रत्रितयस्य भाजनम् । चुलुक्यवंशः शुचितां यदूर्जितैर्यशोभिरायास्यति मौक्तिकैरिव ॥५१॥

( १२३ ) अन्वयः हे क्षितीन्द्र इयं त्वदीया दयिता पुत्रत्रितयस्य भाजनं भविष्यति । मौक्तिकैः इव यदर्जितैः यशोभिः चुलुक्यवंशः शुचिताम् आयास्यति । व्याख्या हे क्षितीन्द्र हे राजन् ! इयं त्वदीया तव दयिता महिषी पुत्राणां सुतानां त्रितयस्य त्रयस्य त्रिसंख्याकसुतानां वा भाजनं पात्रं भविष्यति । मौक्तिकैरिव मुक्तामणिभिरिवातिस्वच्छैः शुक्लवर्णैर्यैस्तवपुत्रैरर्जितानि निष्पादितानि यशोभिः कीर्तिभिः 'यशः कीर्तिः समज्ञा च' इत्यमरः । चुलुक्यवंशस्तुलुक्यनृपाणां कुलं शुचि- तामुज्ज्वलतां पवित्रतां वाऽप्यास्यति गमिष्यति । 'शृङ्गारः शुचिरुज्वलः' इत्यमरः । ते त्रयः पुत्राः कुलभूषणा भविष्यन्तीति भावः । अत्रोपमालङ्कारः । भाषा. हे राजा तुम्हारी इस धर्मपत्नी से तुम्हे तीन पुत्र होंगे । उनके द्वारा उपार्जित मोतियों की ऐसी स्वच्छ और शुक्ल कीर्ति से यह चालुक्यवंश उज्ज्वल या पवित्र हो जाएगा । निधिः प्रतापस्य पदं जयश्रियः कलालयस्ते तनयस्तु मध्यमः । दिलीपमान्धातृमुखादिपार्थिव-प्रथामतिक्रम्य विशेषमेष्यति ॥५२॥ अन्वयः ते मध्यमः तनयः तु प्रतापस्य निधिः जयश्रियः पदं कलालयः (सन्) दिलीपमान्धातृमुखादिपार्थिवप्रथाम् अतिक्रम्य विशेषम् एष्यति । व्याख्या ते तव मध्यमो द्वितीयस्तनयः पुत्रस्तु 'आत्मजस्तनयः सूनुः सुतः पुत्रः' इत्यमरः । प्रतापस्य प्रभावस्य 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । निधिर्निधानं जयश्रियो जयलक्ष्म्याः पदं स्थानं कलानाञ्चतुःषष्ठि- कलानामालयो गृहं सन् दिलीपश्चमान्धाता च दिलीपमान्धातारौ सूर्यवंशसमुद्भवौ प्रताधिनौ राजानौ मुखं आदौ येषां ते दिलीपमान्धातृमुखा आदिपार्थिवा प्राचीननृपास्तेषां प्रथां ख्यातिमतिक्रम्य समुल्लङ्घ्य विशेषं विशेषतामधिकोत्कृष्टता- मेष्यति प्राप्स्यति ।

भाषा तुम्हारा मझला लडका बडा प्रतापी, विजय लक्ष्मी का पात्र तथा चौंसठों कलाओ का ज्ञाता होकर सूर्यवंशी दिलीप मान्धाता आदि प्राचीन राजाओ की ख्याति से भी अधिक प्रतिष्ठा प्राप्त करेगा । सुतद्वयं ते निजकर्मसम्भवं मम प्रसादात्तनयस्तु मध्यमः। पयोनिधेः पारगतामपि श्रियं स दोर्बलाद्राम इवाहरिष्यति ॥५३॥ अन्वयः सुतद्वयं ते निजकर्मसम्भवं, मध्यमः तनयः तु मम प्रसादात्, सः रामः इव दोर्बलात् पयोनिधेः पारगताम् अपि श्रियम् आहरिष्यति । व्याख्या सुतद्वयं द्वौ पुत्रौ ते तव निजेन स्वकीयेन कर्मणा तपसा सुकृतेन वा सम्भव उत्पत्तिर्ययोस्तत् । द्वौ पुत्रौ तव कठिनव्रतफलरूपाविति भावः । मध्यमो द्विती- यस्तनयः पुत्रस्तु मम शिवस्य प्रसादादनुग्रहविशेषाद्भवष्यिति । स राम इव दाशरथिरिव दोष्णोर्भुजयोर्बलं शक्तिस्तस्मात् 'भुजबाहू प्रवेष्टो दो.' इत्यमरः । पयोनिधेः समुद्रस्य पारगतां पारे गतां श्रियं राज्यलक्ष्मीं रामपक्षे सीतामाहरिष्यति समानेष्यति । अत्रोपमालङ्कारः । भाषा दो पुत्र तुम्हारे किये हुये कठिन अनुष्ठानादि कर्मों से प्राप्त होंगे । किन्तु तुम्हारा मध्यम पुत्र तो मेरी विशेष कृपा से तुम्हें प्राप्त होगा । वह रामचन्द्र के समान समुद्र के पार गई हुई सीता रूपी लक्ष्मी को अपने भुजबल से ले आएगा । गिरं निपीय श्रुतिशुक्तिमागतां सुधामिव व्योमपयोनिधेरिति । उदञ्चिरोमाञ्चतया समन्ततः स शैत्यसम्पर्कमिव न्यवेदयत् ॥५४॥ अन्वयः सः व्योमपयोनिधेः श्रुतिशुक्तिम् आगतां सुधाम् इव इति गिरं निपीय समन्ततः उदञ्चिरोमाञ्चतया शैत्यसम्पर्कम् इव न्यवेदयत् ।

( १२५ ) व्याख्या स आहवमल्लदेवो व्योमंऽऽभ्रमेव 'द्योर्दिवौ द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरम्' इत्यमरः । पयसां जलानां निधिस्समुद्रस्तस्माच्छुतिरेव कर्णे एव शुक्तिर्मुक्ता- स्फोटः 'मुक्तास्फोटः स्त्रियां शुक्ति' इत्यमरः । तां समागतां प्राप्ता सुधामिव पीयूषमिवेतीत्थं पूर्वोक्तां गिरमाकाशवाणीं निपीय श्रुत्वा समन्ततः परित उदञ्ची उद्गतो रोमाञ्च रोमहर्षशं यस्य स उदञ्चिवरोमाञ्चस्तस्य भावस्तत्ता तथा 'रोमाञ्चो रोमहर्षणम्' इत्यमरः । शैत्यस्य शीततायास्सम्पर्कः सम्बन्ध्यस्तमिव न्यवेदयत् प्रकटयाञ्चकार । अत्राऽऽकाशे समुद्रतादात्म्यारोपः श्रुतौ शुक्ति- त्वारोपे वाण्यां सुधात्वारोपे च कारणमिति परम्परितरूपकम् । अत्रोपमोत्प्रे- क्षयोः सङ्करः । भाषा राजा आहवमल्लदेव, आकाशरूपी समुद्र से कर्णरूपी सीप में अमृत रूपी आकाशवाणी पड़ने से हर्ष के कारण रोमाञ्चित होकर अपने को मानो जाड़ा लग रहा हूँ ऐसा प्रकट करने लगा । (जाड़ा लगने से भी रोंगटे खड़े हो जाते हैं ।) उदश्वदानन्दजलप्लुतेक्षणस्ततः प्रमोडालसलोचनोत्पलाम् । स वल्लभामन्यपुरन्ध्रिदुर्लभैर्गुणैरुपैतां गुणवानतोषयत् ॥५५॥ अन्वयः ततः गुणवान् सः उदश्वदानन्दजलप्लुतेक्षणः (सन्) अन्यपुरन्ध्रिदुर्लभैः गुणैः उपेतां प्रमोडालसलोचनोत्पलां वल्लभाम् अतोषयत् । व्याख्या ततस्तदनन्तरं गुणवान्दाक्षिण्यादिगुणोपेत स आहवमल्लदेवनृप उदश्व- दुद्गच्छदानन्दजलमानन्दाश्रुजलं तेन प्लुते व्याप्ते ईक्षणे नेत्रे 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः । दस्यैवम्भूतस्तत्प्रत्यासन्नपुरन्ध्रयश्च नार्य्यश्च तासु दुर्लभैरप्राप्यैर्गुणैस्सौजन्यलज्जापातिव्रत्यादिगुणैरुपैतां युक्तां प्रमोदेनानन्दे- नाऽलसे निस्पन्दे लोचन शुक्लोत्पले कमले यस्यास्तां वल्लभां प्रियामतोषयत् समाश्वासितवान् । अत्ररूपकमलङ्कारः ।

( १२६ ) भाषा इसके अनन्तर उस गुणी राजा ने उत्कट आनन्द जनित अश्रुओं से भरी आंखो से धन्य स्त्रियो में अग्राण्य गुणों से युक्त तथा आनन्द से निर्निमेष नेत्र कमल वाली अपनी रानी की सान्त्वना की । शनैर्विधाय व्रतपारणाविधिं धनैः कृतार्थीकृतविप्रमण्डलः । अखण्डसौभाग्यविलासया पुनस्तया समं राज्यसुखेष्वरज्यत ॥५६॥ अन्वयः (सः) शनैः व्रतपारणाविधि विधाय धनैः कृतार्थीकृतविप्रमण्डलः (सन् ) अखण्डसौभाग्यविलासया तया समं पुनः राज्यसुखेषु अरज्यत । व्याख्या स राजा शनै स्वस्थचित्तेन व्रतस्य पूर्वाचरितानुष्ठानस्य पारणाविधि समाप्ति- कृत्य ब्राह्मणभोजनादिपूर्वकं स्वभोजनादिकं विधाय कृत्वा कृतार्थीकृत दान- भोजनादिना सन्तुष्टमनोरथीकृत विप्रमण्डल ब्राह्मणसमुदायो येनैवम्भूतस्सन्नखण्ड निरन्तर पत्सौभाग्य सधवत्व तस्य विलास सौख्य यस्यास्सा तया स्ववल्लभया सह राज्यसुखेषु राजकीयसुखोपभोगेष्वरज्यत सरक्तो बभूव । मन्त्रिविनिविष्ट राज्यकार्यभारमुररीकृत्य पूर्ववत्प्रजापालनतत्परोऽभूदिति भाव । भाषा वह राजा, स्वस्थ चित्त से व्रत का पारण कर और ब्राह्मणो को दान भोजन आदि से सन्तुष्ट करते हुए राज्य कार्य का भार लेकर अखण्ड सौभाग्यवती होने के सौख्य से युक्त अपनी रानी के साथ राज्य सुख के उपभोग करने में प्रवृत्त हुआ । क्रमेण तस्यां कमनीयमात्मजं शुभे मुहूर्ते पुरुहूतसन्निभः । अवाप्य सम्पादितमांसलोत्सवः परामगात्रिर्वृतिमोध्वरः क्षितेः ॥५७॥ अन्वयः पुरुहूतसन्निभः क्षितेः ईश्वरः क्रमेण शुभे मुहूर्ते तस्यां कमनीयम् आत्मजम् अवाप्य सम्पादितमांसलोत्सवः (सन्) परा निर्वृतिम् अगात् ।

( १२७ )

व्याख्या पुरुहूतसन्निभ इन्द्रसदृशः 'वृद्धश्रवाः शुनासीरः पुरुहूतः पुरन्दरः' इत्यमरः । क्षितेः पृथिव्या ईश्वरः स्वामी क्रमेण किञ्चित्कालानन्तरं शुभे माङ्गलिके "कल्याणं मङ्गल शुभम्' इत्यमरः । मुहूर्ते काले तस्या स्ववल्लभायां कमनीयं सुन्दरमात्मजं पुत्रं 'आत्मा वै जायते पुत्रः' इति श्रुतेः । अवाप्य लब्ध्वा सम्पादितः कृतो मांसलोऽतिबहुलोऽतिसमृद्धश्चोत्सवो महो येन सः 'मह उद्धव उत्सवः' इत्यमरः । एवम्भूतस्सन् परा समुत्कृष्टां निर्वृतिं सुखमगात् प्राप ।

भाषा आगे चलकर इन्द्र के समान प्रतापी पृथिवीपति आहवमल्लदेव ने उस रानी से सुमुहूर्त्त में एक सुन्दर पुत्र प्राप्त कर और उस उपलक्ष्य में एक बड़ा उत्सव मना कर बहुत आनन्द प्राप्त किया ।

स सोमवन्नेत्रचकोरपारणां चकार गोत्रस्य यदुज्ज्वलाननः । यथोचितं सोम इति क्षमापतेस्ततः प्रसन्नादभिधानमाप्तवान् ॥५८॥

अन्वयः यत् उज्ज्वलाननः सः गोत्रस्य सोमवत् नेत्रचकोरपारणां चकार ततः प्रसन्नात् क्षमापतेः यथोचितं सोमः इति अभिधानम् आप्तवान् ।

व्याख्या यद्यस्मात्कारणादुज्ज्वलं विशिष्टशोभान्वितमाननं मुखं यस्य स नूतनजात- शिशुर्गोत्रस्य चुलुक्यवंशस्य सोमवच्चन्द्र इव नेत्राणि नयनान्येव चकोराश्चकोरकाः "जीवञ्जीवश्चकोरकः" इत्यमरः । पक्षिविशेषा ये चन्द्रिकया तृप्यन्ति । तेषां पारणां सन्तोषं चकार ततस्तस्मात्कारणात्प्रसन्नादानन्दयुक्तात्क्षमापते राज्ञो यथोचितमुचितमनतिक्रम्य वर्तत इति यथायोग्यं सोम इत्यक्षरद्वयमभिधानं नामाऽऽप्तवान् प्राप्तवान् । अत्रोपमारूपकयोः संकरः ।

भाषा चूंकि सुन्दर मुखवाले उस बालक ने चन्द्रमा के समान चुलुक्यवंशीयों के नेत्र रूपी चकोरों को सन्तुष्ट किया इसलिये प्रसन्न चित्त राजा से उसने सोम यह नाम पाया । अर्थात् उसका नाम सोम रक्खा गया ।

( १२८ ) अनन्यसामान्यतनूजशंसिनीं स्मरन्नजस्रं गिरमुद्गतां दिवः । द्वितीयगर्भार्थमभूत्स निर्भरं समुत्सुको मध्यमलोकनायकः ॥५६॥ अन्वयः मध्यमलोकनायकः सः दिवः उद्गतां अनन्यसामान्यतनूजशंसिनीं गिरं अजस्रं स्मरन् द्वितीयगर्भार्थं निर्भरं समुत्सुकः अभूत् । व्याख्या मध्यमश्चासौ लोकश्च मध्यमलोको भूलोकस्तस्य नायको मध्यमलोकपालो भूपालः स राजाऽहवमल्लदेवो दिव आकाशादुद्गतां समागतां नान्यः सामान्य- स्तत्समानो यस्य स चासौ तनूजः पुत्रश्च तं शंसति निवेदयतीति तां गिरं वाणीमजस्रं निरन्तरं ‘नित्यानवरताजस्रम्’ इत्यमरः । स्मरन् द्वितीयगर्भार्थं द्वितीयगर्भकृते निर्भरमत्यन्तं समुत्सुक उत्कण्ठितोऽभूत् । भाषा वह भूलोक का राजा असाधारण व अलौकिक पुत्र प्राप्त होने की आकाश- वाणी को सदैव स्मरण करता हुआ, दूसरे गर्भ के लिये अत्यन्त उत्कण्ठित हुआ । स्थितस्य गर्भे प्रभयेव कस्यचिद् विलिप्यमानां स्फटिकामलत्विषः । स गण्डपालीं बिसदण्डपाण्डुरां ददर्श देव्याः पृथिवीपतिस्ततः ॥६०॥ अन्वयः ततः पृथिवीपतिः स्फटिकामलत्विषः गर्भे स्थितस्य कस्यचित् प्रभया इव विलिप्यमानां बिसदण्डपाण्डुरां देव्याः गण्डपालीं ददर्श । व्याख्या ततस्तदनन्तरं पृथिवीपती राजा स्फटिकस्याऽमला निर्मलात्विङिव प्रभेव ‘स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविधुतिदीप्तयः’ इत्यमरः । त्विट् प्रभा यस्य स तस्य स्फटिकमणिसमानशुभ्रकान्तेगर्भे उदराभ्यन्तरे स्थितस्य विद्यमानस्य कस्य- चिद् गर्भस्य प्रभयेव कान्त्येव विलिप्यमानां रज्यमानामवुलिप्यमानाञ्च बिसदण्ड इव मृणालखण्ड इव ‘मृणालं बिसमब्जादि’ इत्यमरः । पाण्डुरां शुभ्रवर्णां देव्या महिष्याः गण्डपालीं कपोलं ददर्श दृष्टवान् । अत्रोपमोत्प्रेक्षयोः संकरः ।

( १२९ ) भाषा इसके अनन्तर राजा ने स्फटिक की निर्मल कान्ति के समान शुभ्र कान्ति वाले गर्भस्थित किसी (गर्भ) की कान्ति से मानो छाए हुए, कमलनाल के सदृश श्वेत रंग के रानी के कपोलस्थल को देखा । स हेमवृष्टिं महतीमकारयच्चकार चित्राण्युपयाचितानि च । हरप्रसादोचितसूनुलालसश्चकार किं किं न नरेन्द्रचन्द्रमाः ॥६१॥ अन्वयः सः महतीं हेमवृष्टिं चित्राणि उपयाचितानि च चकार। हरप्रसादो- चितसूनुलालसः नरेन्द्रचन्द्रमाः किं किं न चकार । व्याख्या स राजा महतीं विशालां हेमवृष्टिं सुवर्णवृष्टिं चित्राण्याश्चर्यकराण्युपया- चितानि स्वमनोरथसिद्धये स्वाभीष्टदेवतायै पूर्वं संकल्पितानुपहारारंश्च चकार । "दीयते यत्तु देवेभ्यो मनोरथस्य सिद्धये । उपयाचितकं दिव्यं दोहवं तद्दि- दुर्वुधाः" । स राजा याचकेभ्यः प्रचुरं सुवर्णं दत्तवान् देवेभ्यश्च स्वाभिलषित- सिद्धये पूर्वसंकल्पितानुपहारान् पूजनादिमियेणार्पितवानिति भावः । हरस्य शिवस्य यः प्रसादः प्रसन्नता 'प्रसादस्तु प्रसन्नता' इत्यमरः । तदुचितात्तदनुकूलो यः सूनुः पुत्रस्तस्मिन् लालसोत्कटकल्पना यस्य स 'कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः' इत्यमरः । नरेन्द्राणां राज्ञां तारकाणामिव मध्ये चन्द्रमाश्चन्द्र इवाह्लादको मनोहरी च स राजा किं किं समुचितं कार्यं न चकार कृतवान् । सर्वमेव तद्योग्यं समुचितं कार्यं कृतवानित्यर्थः । अत्रार्यापत्यलङ्कारस्तेन सम्बदा- मुरव्यैः प्रतीयते । भाषा उस राजा ने सुवर्ण की घोर वृष्टि की अर्थात् याचकों को खूब सुवर्णदान दिया । देवताओं की जो विचित्र मनौतियां की थीं उनको पूरा किया । शंकर के प्रसाद के अनुकूल पुत्र पाने की लालसा रखने वाले उस राजा ने क्या २ नहीं किया अर्थात् तदनुकूल सब कुछ किया । ९

( १३० ) उवाह धौतां क्षितिपालवल्लभा सुधाप्रवाहैरिव देहकन्दलीम् । विषादपङ्कक्षयतः क्ष्मापतेर्निरन्तरं तु प्रससाद मानसम् ॥६२॥ अन्वयः 'क्षितिपालवल्लभा सुधाप्रवाहैः धौताम् इव देहकन्दलीम् उवाह । क्ष्मापतेः मानसं तु विषादपङ्कक्षयतः निरन्तरं प्रससाद । व्याख्या क्षितिपालस्य भूपालस्य वल्लभा प्रिया राज्ञी सुधाया अमृतस्य प्रवाहैः संतानैर्धौतां प्रक्षालितामत एव श्वेतामिव देहकन्दलीं शरीरलतामुवाह धारितवती । क्ष्मापतेः पृथ्वोपतेः 'विपुला गह्वरी धात्री गौरिला कुंभिनी क्ष्मा । भूतधात्री रत्नगर्भा जगती सागराम्बरा।' इत्यमरः । मानसं मनस्तु विषादो दुःखं स एव पङ्कः कर्दमस्तस्य क्षयतो विनाशात् निरन्तरमजस्रं प्रससाद प्रसन्नतां समवाप । मानसं सरः पङ्कराहित्याद्यथा निर्मलजलेन प्रसन्नतां प्राप्नोति तथैव नृपस्य मनो दुःखरहित्याद् गर्भचिन्हैः सुखं प्राप । अत्रोत्प्रेक्षारूपकश्लेषाणां संकरस्तेन शरहृतुवृत्तान्त प्रतीत इति वस्तुध्वनि । भाषा रानी, अमृत से धोई हुई के समान श्वेत शरीर को धारण करने लगी अर्थात् रानी सफेद पड़ने लगी । राजा का मन दुख रूपी कीचड़ का क्षय होने से निरन्तर प्रसन्न होने लगा । जिस प्रकार कीचड़ दूर होकर निर्मल जल रहने से मानस सरोवर प्रसन्न होता है वैसे ही राजा का मन दुख दूर होकर गर्भ के चिन्ह से निरन्तर प्रसन्न हुआ । निपीड्य चन्द्रं पयसे निवेशिता ध्रुवं तदीयस्तनकुम्भयोः सुधा । यदुत्पलश्यामलमाननं तयोः सलाञ्छनच्छायमिव व्यराजत ॥६३॥ अन्वयः पयसे चन्द्रं निपीड्य सुधा तदीयस्तनकुम्भयोः ध्रुवं निवेशिता । यत् तयोः उत्पलश्यामलम् आननं सलाञ्छनच्छायम् इव व्यराजत ।

( १३१ ) व्याख्या पयसे दुग्धाय 'पयः क्षीर पयोऽम्बु च' इत्यमर । चन्द्र सुधांशु निष्पीड्य निष्पीड्य सुधा चन्द्रगत पीयूष तस्या राज्ञा अय तदीयस्तौ तदीयो स्तनौ एव कुम्भौ तयोर्नृपपत्निकुचकुम्भयोर्ध्रुव निश्चयेन निवेशिता प्रवेशिता । यद्यस्मा- त्कारणात् तयो कुचयोरुत्पलं नीलोत्पलभिव श्यामल कृष्णदर्पमानन चूचुकः 'चूचुको ना कुचाननम्' इति रत्नकोश । लाञ्छनस्य चन्द्रस्यकृष्णचिन्हस्य छाया कान्तिस्तया सहितमिति सलाञ्छनच्छायमिव व्यराजत शुशुभे । चन्द्रस्यसुधा- गमसम्बन्धेन कलङ्ककान्त्या अप्यागमनसम्भवादुत्प्रेक्षालङ्कार । भाषा (उस बालक के दूध पीने के लिये) दूध के स्थान पर चन्द्रमा को निचोड कर अमृत ही रानी के स्तन रूपी घडो में अवश्य भरा गया होगा । क्यो कि उन दोनो स्तनो के नीले कमल के ऐसे काले चूचुक, (ढपनी, स्तन के ऊपर की घुडी) चन्द्रमा के कलङ्क की कान्ति से युक्त दिखाई देते थे अर्थात् काले थे । गर्भिणी के चूचुक काले हो जाते हैं । नरेन्द्रकान्ताकुचहेमकुम्भयोः सुधारसं क्षीरमिषेण बिभ्रतोः । हिमोपचारार्पितमार्द्रचन्दनं श्रियं दधौ गालनशुश्रवाससः ॥६४॥ अन्वयः क्षीरमिषेण सुधारसं बिभ्रतोः नरेन्द्रकान्ताकुचहेमकुम्भयोः हिमोप- चारार्पितम् आर्द्रचन्दनं गालनशुश्रवाससः श्रियं दधौ । व्याख्या क्षीरस्य दुग्धस्य मिषेण व्याजेन सुधारसममृतरस बिभ्रतोर्धारयतो नरेन्द्र- स्याहवमल्लदेवस्य कान्ता वल्लभा तस्या कुचावेव हेमकुम्भो सुवर्णकुम्भौ तयोरुपरि हिमोपचाराय शीतोपचारायार्पित विलिप्तमार्द्रचन्दनं कृतार्द्रचन्दन- लेपो गालनं स्रावण क्षरण वा तस्य शुभ्र शुक्लं वासो वस्त्रं तस्याऽमृतस्रवाय- णार्थदेवतायवस्त्रस्य शोभां कान्ति दधौ बभार । चन्दनस्य शुक्लवर्णत्वात्स्राविनादृ- ध्रवस्त्रत्वारोप । अत्रनिदर्शनालङ्कार । 'संभवन्वस्तुसम्बन्धोऽसंभवन्वाऽपि कुत्रचित् । यत्र बिम्बानुबिम्बत्वं बोधयेत्सा निदर्शना ।'

( १३२ ) भाषा दूध के व्याज से अमृत के रस को रखने वाले उस रानी के स्तन रूपी सोने के घटो पर, ठंडक पहुँचाने के लिये लगाया हुआ सफेद चन्दन, अमृत को छानने के लिये घडो के ऊपर रक्खे हुए सफेद छत्रो (छतनों) की शोभा दे रहा था । नरेन्द्रपुत्रस्य कृते सुरक्षितं क्षितीशकान्ताकुचकुम्भयोः पयः । विलासहारोज्ज्वलमौक्तिकच्छलात् समल्लिकावासमिव व्यधीयत ॥६५॥ अन्वयः नरेन्द्रपुत्रस्य कृते क्षितीशकान्ताकुचकुम्भयोः सुरक्षितं पयः विलासहा- रोज्ज्वलमौक्तिकच्छलात् समल्लिकावासम् इव व्यधीयत । व्याख्या नरेन्द्रस्य नृपस्य पुत्र सूनुस्तस्य कृते क्षितीशस्य पृथ्वीपते कान्ताया प्रियायाः कुचावेव स्तनावेव कुम्भो घटौ तयोस्सुरक्षितं सुनिहितं पय दुग्ध विलासाय धारितश्चासौ हारश्च तस्योज्ज्वलाश्शुभ्राश्चते मौक्तिकाश्च तेषाञ्छलम्मिषेण विलासार्थधारितहारप्रोतशुभ्रमुक्ताफलव्याजेन मल्लिकापुष्पाणा 'मल्लिका शतभीरुश्च गवाक्षी भद्रमल्लिका । शीतभीरुम॑दायती भूपदी तृणशून्यकम्' इति वाचस्पति । वासस्तुगन्धस्तेन सहित युक्तमिति समल्लिकावासमिव व्यधीयत कृतम् । शुभ्रत्वान्मौक्तिकोपरि मल्लिकापुष्पत्वारोप । सुगन्धार्थं दुग्धोपरि मल्लिकापुष्पाणा स्थितिरिति भाव । अत्र सापन्हुवोत्प्रेक्षालङ्कारः । भाषा राजपुत्र के लिये रानी के स्तनरूपी घडो में सुरक्षित रक्खा हुवा दूध, शोभा के लिये पहने हुए हार के सफेद मोतियो के मिष से मानो सफेद बेले के फूलो की सुगन्ध से सुगन्धित किया गया था । मृगीदृशः श्यामलचूचुकच्छलात् कुचद्वये भूपसुतोपयोगिनि । प्रभास्रक्रान्तरसायनौषधी-दलद्वयं नीलमिव व्यराजत ॥६६॥ अन्वयः मृगीदृशः भूपसुतोपयोगिनि कुचद्वये श्यामलचूचुकच्छलात् नीलं प्रभाप्रस्रक्रान्तरसायनीषधीदलद्वयम् इव व्यराजत ।

( १५३ ) व्याख्या मृगीदृश एणनयनाया नृपस्त्रियो भूपसुतस्य राजपुत्रस्योपयोगिन्युपभोगयोग्ये कुचद्वये स्तनद्वये श्यामले कृष्णवर्णे च ते चूचुके कुचाग्रे 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः। तयोश्छलाद्व्याजेन नीलं कृष्णवर्णं प्रभावेणालौकिकशक्त्या संक्रान्तं संगतं रसायनौषध्या आयुर्वर्द्धकजरा निवारकभेषजस्य दलद्वयमिव पत्रयुगलमिव रराज शुशुभे । अत्र सापन्हवोत्प्रेक्षालङ्कारः। भाषा राजपुत्र के उपयोग में आने वाले मृगनयनी रानी के दोनो स्तनों पर काले रंग के चुचुको (ढेपनी, स्तन के ऊपर की घुंडी) के मिष से मानो अलौकिक शक्ति से युक्त आयुष्य वर्धक और जरा निवारक किसी औषधि के काले रंग के दो पत्ते शोभित हो रहे थे । निरन्तरायाससमर्थमर्थिनां कथं नु दारिद्र्यमसौ सहिष्यते । न येन मध्यस्थमपि व्यपक्षत स्थितेन गर्भे नरनाथयोषितः ॥६७॥ अन्वयः असौ अर्थिनां निरन्तरायाससमर्थं दारिद्र्यं कथं नु सहिष्यते । गर्भे स्थितेन येन नरनाथयोषितः मध्यस्थम् अपि (दारिद्र्यं) न व्यपक्षत । व्याख्या असौ सजनिष्यमाणपुत्रोऽर्थिनां याचकानां निरन्तरः सतत आयास क्लेशस्त- स्मिन्ससमर्थं क्लेशकारकमित्यर्थं । दारिद्र्यं धनाभावं कथं केन प्रकारेण सहिष्यते न सहिष्यत इत्यर्थः । यतो गर्भे उदरे स्थितेन येन भाविराजपुत्रेण नरनाथस्य नृपस्य योषितः सीमन्तिन्या 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः' इत्यमरः । मध्यस्थमुदरस्य दारिद्र्यं कृशत्वं न व्यपक्षत न सोढम् । गर्भिण्या उदरं वर्धत एव । अत अनेनोदरस्यकृशत्वरूपदारिद्र्यमपहृतम् । अत्रोत्प्रेक्षा गम्या । भाषा यह गर्भस्थ बालक याचकों को निरन्तर कष्ट देने वाली दरिद्रता को कैसे सहन करेगा। क्योंकि उसने गर्भ में आकर रानी के पेट की कृशता रूपी दरिद्रता न सहन की। अर्थात् गर्भवती स्त्रियों का पेट स्वभावतः ही बड़ा हो जाता है। रानी गर्भवती होने से उसका मध्य भाग बड़ा हो गया था ।

( १३४ ) बलेः समुल्लासमपाचकार यः स कारणादत्र कुतोऽपि वर्तते । इतीव गर्भः क्षितिपालयोषितः शशंस भञ्जन्नुदरे वलिस्थितिम् ॥६८॥ अन्वयः क्षितिपालयोषितः गर्भः उदरे वलिस्थितिं भञ्जन्, यः बलेः समुल्लासम् अपाचकार सः कुतः अपि कारणात् अत्र वर्तते इति शशंस इव । व्याख्या क्षितिपालयोषितो नृपपत्न्या गर्भो गर्भस्थो बाल उदरे वलिस्थितिं त्रिवलिरेखां भञ्जन्नपहरन् यो विष्णुर्वामनरूपो बलेर्बलिनामकदैत्यस्य समुल्लासमौद्धत्यमपाच- कार दूरीकृतवान् स विष्णुः कुतोऽपिकारणात्कस्मादप्यनिर्वचनीयकारणादत्रोदरे वर्तते प्रतिवसतीति शशंसेव प्रकटीचकारेव । बबयोरभेदादुत्प्रेक्षा । नाविष्णुः पृथिवीपतिरिति वचनात्तस्य राजपुत्रस्य विष्णुरूपत्व गम्यते । भाषा रानी के गर्भ में का राजपुत्र, रानी के पेट पर थी त्रिवली दूर करते हुए यह द्योतित करता था मानो यहाँ पेट में किसी कारण से राजा बलि के औद्धत्य का भङ्ग करने वाले विष्णु के अवतार रूप वामन आये हैं । (गर्भिणी के पेट पर की त्रिवली पेट बढ़ने से नही दिखाई पडती ।) कृतावतारः क्षितिभारशान्तये न पीड्यमानां सहते महीमयम् । इतीव सा गर्भभरालसा शनैः पदानि चिक्षेप मृगायतेक्षणा ॥६९॥ अन्वयः गर्भभरालसा मृगायतेक्षणा सा, क्षितिभारशान्तये कृतावतारः अयं पीड्यमानां महीं न सहते इति इव शनैः पदानि चिक्षेप । व्याख्या गर्भभरेण गर्भभारेणालसा मन्थरगतिमृगस्याऽऽयत ईक्षण इवेक्षणे नेत्रे यस्यास्सा नृपस्त्रीः क्षितेः पृथ्व्या भारः कुनृपतिकृतात्यायविशेषस्तस्य शान्तये दूरी- करणाय कृतोऽवतारो येन स गृहीततनुरयं कुमारो मयंथ पीड्यमानां सबाध्यमानां महीं पृथ्वीं कथं सहते सहिष्यत इति हेतोरिव शनैर्मन्दं मन्दं पदानि पादान् भुवि

( १३५ ) पृथिव्यां विक्षेप दत्तवती। गर्भिण्यो मन्दगत्यैव चलन्तीति भावः। अत्रोत्प्रेक्षा- लङ्कारः। भाषा गर्भ के बोझ से धीरे २ चलने वाली, मृग के समान बडी २ आखो वाली रानी, मानो यह जान कर कि पृथ्वी का बोझ कम करने के लिये शरीर धारण करने वाला मेरा गर्भस्थ कुमार, मुझ स पृथ्वी का बोझ द्वारा पीडित होना कैसे सहन करेगा, पृथ्वी पर धीरे २ पावो को डालती थी। (गर्भिणी स्त्रियां प्राय धीरे २ ही चला करती हैं।) सशब्दकाञ्चीमणिखिम्बितैर्बभौ सखीजनैः साद्भुतगर्भधारिणी। उपास्यमाना कुलदेवतागणैः समन्ततो यामिकतां गतैरिव ॥७०॥ अन्वयः अद्भुतगर्भधारिणी सा सशब्दकाञ्चीमणिनिम्बितैः सखीजनैः समन्ततः यामिकतां गतैः कुलदेवतागणैः इव उपास्यमाना यभौ। व्याख्या अद्भुतश्चासौ गर्भश्च तं धारयतीत्यद्भुतगर्भधारिण्याऽऽश्चर्यदर्शितगर्भ- धारिणी सा रानी शब्देन सहिता सशब्दा सशब्दा चाऽसौ काञ्ची रशना तस्यां समुद्ग्रन्थिना मणयस्तासु प्रतिबिम्बितं प्रतिफलितं 'रत्नं मनिर्द्वयो रत्नजातौ मुक्तादिनेऽपि च' इत्यमरः । सखीजनैः समन्ततश्चतुर्दिक्षु यामिकतां प्राहरिवतां गतं सम्प्राप्तैः कुलस्य वंशस्य देवतागणैरिष्टदेवतासमूहैरिवोपास्यमाना संसेव्य- माना यभौ शुशुभे। यथा प्राहरिका सशब्द परितो गत्वा स्वकार्य कुर्वन्ति तथैव शब्दबद्धदानागतमणि-प्रतिबिम्बित-सखीजनरूप-कुलदेवतागणं समन्तत प्राहरिककार्य स्थित इति भावः । उत्प्रेक्षालङ्कारः । भाषा अद्भुत (भक्ति मार्ग) गर्भ को धारण करने वाली रानी झन झनाने वाली करधनी में जड़े हुए मणियो मे सखी जनों की परछाही पड़ने से मानो चारो ओर से फिरूंग २ कर पहरा देने वाली कुलकी इष्ट देवताओ से सेवित दिखाई पडती थी।

( १३६ ) अलङ्कृता दुष्प्रसहेन तेजसा रराज सा रत्नमयीषु भूमिषु । महागृहाणां प्रतिबिम्बडम्बरैः प्रणम्यमानेव कुलाचलैरपि ॥७१॥ अन्वयः दुष्प्रसहेन तेजसा अलङ्कृता सा रत्नमयीषु भूमिषु महागृहाणां प्रतिबिम्बडम्बरैः कुलाचलैः अपि प्रणम्यमाना इव रराज । व्याख्या दुखेन प्रकर्षेण सोढुं शक्येन दुष्प्रसहेन दुर्धर्षेण सोढुमशक्येन वा तेजसा दीप्त्या 'तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु' इत्यमरः । अलङ्कृता विभूषिता सा राज्ञी रत्नमयीषु रत्ननिर्मितासु भूमिषु स्थानेषु कुट्टिमेष्वित्यर्थः । महागृहाणां प्रासादानां प्रतिबिम्बस्य प्रतिच्छायाया डम्बरैरारोपैः कुलाचलै- स्सप्तभिः कुलपर्वतैरपि "महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वता ॥" प्रणम्यमानेव वन्द्यमानेव रराज शुशुभे । विशालाकारत्वात्प्रासादप्रतिबिम्बेषु कुलपर्वतत्वारोपः । अत्रोत्प्रेक्षालङ्कारः । भाषा अत्यधिक तेज से विभूषित वह रानी, रत्नों से निर्मित फर्शों पर बड़े २ महलों की परछाई पड़ने से मानो सात कुलपर्वतों से भी प्रणमित हो रही हों, ऐसी शोभित हो रही थी । अर्थात् महलों की परछाई मानो पर्वत थे जो उसके चरणों पर पड़ रहे थे । कलत्रमूर्वीतिलकस्य मेखला-कलापमाणिक्यमरीचिभिर्दधे । उदेष्यतः सूर्यसमस्य तेजसः समुद्गतं बालमिवातपं पुरः ॥७२॥ अन्वयः उर्वीतिलकस्य कलत्रं मेखलाकलापमाणिक्यमरीचिभिः उदेष्यतः सूर्यसमस्य तेजसः पुरः समुद्गतं बालम् आतपम् इव दधे । व्याख्या उर्व्याः पृथिव्यास्तिलकस्य भूषणस्य श्रेष्ठस्य वा नृपस्य कलत्रं भार्या 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । मेखलाया रशनायाः 'स्त्रीकट्यां मेखला काञ्ची सप्तकी

( १३७ ) रशना तथा' इत्यमर । कलापस्तत्समूहस्तत्र स्थितानि माणिक्यानि मणयस्तेषां मरीचिभि कान्तिभिर्हेतुभूतैरुदेष्यतो भविष्यतो सूर्यसमस्य भास्करतुल्यस्य तेजसो वीरपा पुरोऽग्रे समुद्गत समुदित बाल भूतमतातपमिव प्रकाशमिव 'प्रकाशो द्योत आतप' इत्यमर । दधे धारयामास । भविष्यतो सूर्यसमतेजस्विन पुत्रस्य जन्मत प्राक् प्रकाशमिवेति भाव । अत्र मणिकिरणेषु प्राकातपस्योत्प्रे- क्षणादुत्प्रेक्षा । भाषा पृथ्वी के भूषण रूप राजा की पत्नी करधनी में जड़ हुए माणिक्यों की ज्योति से मानो उदय होने वाले सूर्य के तेज के पहिले फैले हुए प्रात कालीन प्रकाश को धारण करती है । अर्थात् जिस प्रकार सूर्य का उदय हो कर तेज फैलने के पूर्व ही प्रकाश होने लगता है उसी प्रकार तेजस्वी पुत्र के उत्पन्न होने के पूर्व ही मानो वह करधनी में के माणिक्य का प्रकाश पड़ रहा था । क्षपामुखेषु प्रतिबिम्बितः शशी हृदि क्ष्मावल्लभलोलचक्षुषः । जगाम गर्भे दधतः सुखस्थितिं नरेन्द्रसूनोरुपधानतामिव ॥७३॥ अन्वय. क्षपामुखेषु क्ष्मावल्लभलोलचक्षुष हृदि प्रतिबिम्बितः शशी गर्भे सुखस्थितिं दधत नरेन्द्रसूनो उपधानताम् इव जगाम । व्याख्या क्षपामुखेषु प्रदोषेषु 'प्रदोषो रजनीमुखम' इत्यमर । क्ष्माया पृथ्व्या वल्लभस्य प्रियस्य पृथ्वीपतेरित्यर्थ । लोलचक्षुषश्चञ्चलनयनाया कान्ताया हृदि हृदये 'चित्तन्तु चेतो हृदयं स्वात्त हृन्मानसं मन ' इत्यमर । प्रतिबिम्बित प्रतिबिम्बत्वं प्राप्त शशी चन्द्रो गर्भ उदरे सुखेनाऽक्लेशेन स्थितिं निवासं दधत धृवतो नरेन्द्रसूनो राजपुत्रस्योपधानतामिवोपधीयते आरोप्यते शिरोऽनेनेत्युपधानं तस्य भावस्तामुपबर्हणत्वमिव 'उपधान तूपवह ' इत्यमर । अगाम प्राप । उपबर्हस्य सादृश्यं यथाविति । उपधानं वर्तुलाकारं लम्बाकारञ्च भवति । अत्र चन्द्र- सादृश्याद्वर्त्तुलाकारस्यैवोेपधानस्य ग्रहणम । बालार्थ वर्तुलाकारमुपधानमेव लोके दृश्यते । अत्रोत्प्रेक्षालङ्कार ।

( १४० )

मारसर्पं सहति स्मेति भावः । उक्तञ्च 'प्रकृतिः खलु सा महीयसां सहते नान्यसमुन्नतिं ययेति' ।

भाषा रानी क्रोध से अपनी भौंहें उठा कर शब्द करने वाले आभूषणों को भी देखती थी और तेज से अपनी जोत रूपी मस्तक को ऊपर स्थिर रखने वाले घर के दीपों से भी ईर्ष्या करती थी । अर्थात् मेरे सामने इन भूषणों की बोलने की हिम्मत कैसी और इन तेजस्वी दीयों को बिना सिर झुकाए मेरे सामने ठहरने की हिम्मत कैसी—ऐसी वीर रस की, दोहदजनित भावनाएँ उस रानी के मन में होती थी ।

इति स्फुरच्चारुविचित्रदोहदा निवेदयन्ती सुतमोजसां निधिम् । प्रतिक्षणं सा हरिणायतेक्षणा दृशोः सुधावर्तिरभून्महीभुजः ॥७७॥

अन्वयः इति स्फुरच्चारुविचित्रदोहदा सुतम् ओजसां निधिं निवेदयन्ती हरिणा- यतेक्षणा सा प्रतिक्षणं महीभुजः दृशोः सुधावर्तिः अभूत् ।

व्याख्या इतीत्थं पूर्वोक्तरीत्या स्फुरत्प्रकाशितञ्चारुशोभनं विचित्रमसाधारणचम- त्कारि दोहदं गर्भिणीच्छा 'दोहदं गर्भिणीच्छायामिच्छामात्रेऽपि दोहदम्' यस्या सा सुतं पुत्रमोजसां बलानां 'ओजो दीप्तौ बले' इत्यमरः । निधिं निधानं निवेदयन्ती विज्ञापयन्ती हरिण इव मृग इवाऽऽयते विस्तीर्णे ईक्षणे नेत्रे यस्या सा मृगायतनेत्रा राज्ञी प्रतिक्षणं क्षणे क्षणे महीभुजो नृपस्य दृशोर्नेत्रयोः सुधावर्तिः सुखसम्पर्का पीयूषशलाकाऽभूत् । राज्ञी पीयूषशलाकावन्नृपस्य नेत्रयोरानन्दसम्पर्काऽभूदिति भावः । अत्र रूपकालङ्कारः ।

भाषा उपर्युक्त प्रकार से मनोहर और आश्चर्यजनक दोहदों से युक्त, (अतएव) अपने पुत्र को बल का निधान सिद्ध करती हुई, मृग के समान बड़े बड़े नेत्र वाली रानी, आँखों की अमृतानञ्जन की शलाका के ऐसा राजा को, प्रतिक्षण आनन्द देती थी । अर्थात् ऐसी अपनी रानी को देख कर राजा को प्रतिक्षण आनन्द होता था ।

( १४१ ) कृतेषु सर्वेष्वथ शास्त्रवर्त्मना यथाक्रमं पुंसवनादिकर्मसु । विशेषचिह्नैर्निजमीशितुः क्षितेर्वधूः समासन्नफलं न्यवेदयत् ॥७८॥ अन्वयः अथ क्षितेः ईशितुः वधूः यथाक्रमं सर्वेषु पुंसवनादिकर्मसु शास्त्रवर्त्मना कृतेषु (सत्सु) विशेषचिह्नैः निजं समासन्नफलं न्यवेदयत् । व्याख्या अथाऽनन्तर क्षितेः पृथ्व्या ईशितुरीश्वरस्य राज्ञो वधूः स्त्रीः क्रममनतिक्रम्य वर्तत इति यथाक्रमं क्रमानुसारण सर्वेषु समग्रेषु पुंसवनादिर्येषां तानि कर्माणि संस्कारास्तेषु, पुंसवनसीमन्तोन्नयने द्वावेव संस्कारौ गर्भाधानसंस्कारानन्तरमिति बहुवचनमत्राऽनपेक्षितम् । परन्तु तान्त्रिकविधिना तृतीयोऽपि संस्कारो भवति । शास्त्रवर्त्मना धर्मशास्त्रप्रतिपादितमार्गेण कृतेषु सम्पादितेषु सत्सु विशेषचिह्नै- र्विशिष्टलक्षणैर्निजं स्वीयं समासन्नं निकटवर्ति च तत् फल पुत्रोत्पत्तिरूपं न्यवेदयत् सूचितवती । भाषा इसके अनन्तर पृथ्वी के स्वामी की स्त्री रानी ने धर्मशास्त्र के अनुसार क्रम से पुंसवन सीमन्तोन्नयन प्रभृति संस्कारों के सम्पादित होने पर, विशेष लक्षणों से, शीघ्र होने वाले अपने पुत्र रूप फल की सूचना दी । त्रिलोकक्ष्म्येव सलीलमीक्षितः कृतद्रवैश्चन्द्रकरैरिवाप्लुतः । अदूरवाञ्छालतिकफलोदयः क्वचिन्न माति स्म मुदा नरेश्वरः ॥७९॥ अन्वयः त्रिलोकक्ष्म्या सलीलम् ईक्षितः इव कृतद्रवैः चन्द्रकरैः आप्लुतः इव अदूरवाञ्छालतिकफलोदयः नरेश्वरः मुदा क्वचित् न माति स्म । व्याख्या त्रिलोकस्य त्रिभुवनस्य लक्ष्म्या राजश्रिया सलीलं सविलासममीक्षितो दृष्ट इव, कृतो द्रवो जलरूपं येषां ते कृतद्रवास्तैर्द्रवीभूतैश्चन्द्रकरैःशशिकिरणैराप्लुतो- ऽभिषिक्त इवाऽदूरे समीपस्थ एव वाञ्छालतिकया इच्छालातायाः फलस्य पुत्ररूप-

( १३८ ) भाषा सायकाल के समय में पृथ्वीपति की चञ्चल नेत्रवाली रानी के हृदय में प्रतिबिम्बित चन्द्रमा मानो गर्भ में सुख से रहने वाले राजपुत्र की गोल तकिया का काम करता था । अतः परं भविष्णुवीरपुत्रानुरूपं तस्य दोहदं वर्णयति कवि :- नृपप्रिया स्थापयितुं पदद्वयीमियेप दिक्कुञ्जरकुम्भभित्तिषु । चिराय धाराजलपानलम्पटा कृपाणलेखासु मुमोच लोचने ॥७४॥ अन्वयः नृपप्रिया दिक्कुञ्जरकुम्भभित्तिषु पदद्वयीं स्थापयितुम् इयेप। चिराय धाराजलपानलम्पटा कृपाणलेखासु लोचने मुमोच । व्याख्या नृपप्रिया राजपत्नी दिक्कुञ्जराणा दिग्दन्तिना कुम्भा एव भित्तयः कुड्यानि 'भित्ति. स्त्री कुड्यम्' इत्यमरः। तासु पदद्वयीं चरणयुगलं स्थापयितुं निक्षेप्तु- मिमेपाऽऽचकाङ्क्ष । चिराय चिरकालात् 'चिराय चिररात्राय चिरस्याद्याश्चि- रार्थकाः' इत्यमरः। धारायाः प्रवाहस्य जलं पयस्तस्य पाने लम्पटा लालसा- युक्ता सा नृपपत्नी कृपाणाना करवालाना रेखा धारा तासु करवालधारासु लोचने नयने मुमोच प्रक्षिप्तवती । अत्र खड्गधारायां जलधारात्वारोपः । भाषा रानी, दिग्गजो के गण्डस्थलरूपी दीवारो पर अपने दोनो पैर रखने की इच्छा करने लगी । चिरकाल से धार का जल पीने की लालसा रखने वाली रानी तलवारो की धारो पर अपनी आँखें डालने लगी । अर्थात् गर्भस्थित बालक में वीर रस प्रधान रहने से रानी को वीर रस का दोहद होने लगा । मुहुः प्रकोपादुपरीस्थितासु सा चकार तारास्वपि पाटले दृशौ । गुरुस्मया कारयितुं दिगङ्गनाः पदाब्जसंवाहनमाजुहाव च ॥७५॥ अन्वयः गुरुस्मया सा प्रकोपात् उपरिस्थितासु तारकासु अपि मुहुः पाटले दृशौ चकार। पदाब्जसंवाहनं कारयितुम् दिगङ्गनाः आजुहाव च ।