भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( १०१ ) व्याख्या रोहिणीपतिश्चन्द्रो यस्य पुरस्य वेश्मसु गृहेषु 'गृहं गेहोदवसितं वेश्म सद्म निकेतनम्' इत्यमरः। प्रविश्य गत्वा महान्तं विशिष्टं गुणं चमत्कारं लाभमित्यर्थः प्राप्नोति अत्र संशयः सन्देहो नास्ति। यद्यस्मात्कारणादेव चन्द्रः पुरन्ध्रीणा नारीणां वक्त्रेन्दूनां मुखचन्द्राणां सहस्रस्य मध्यं गच्छतीति पुरन्ध्रीवक्त्रेन्दुसहस्र- मध्यगः सन् स्त्रीमुखेन्दुसहस्रमध्यवर्तित्वाद्वाहोरलक्ष्यतामपरिभाव्यतामुपयाति प्राप्नोति। चन्द्रबाहुल्याद्वास्तविकचन्द्रपरिचयाभावादपरिभाव्यतामुपयातीति भावः। अत्र सामान्यं नाम अलङ्कारः। 'सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः।' भाषा रोहिणी के पति चन्द्रमा को इस नगर के घरों में प्रवेश कर बहुत लाभ होता था इसमें सन्देह नहीं। क्योंकि राहू, हजारों स्त्रियों के मुखचन्द्रों के बीच में इसके रहने से, इसको नहीं पहचान पाता था। यदीयसौधध्वजपट्टपट्टिकाः समुच्छलन्मौक्तिककान्तिनिर्झरैः । नभस्तलान्दोलनविभ्रमाहृतं विनिञ्चिपन्तीव सुरापगापयः ॥१८॥ अन्वयः यदीयसौधध्वजपट्टपट्टिकाः समुच्छलन्मौक्तिककान्तिनिर्झरैः नभस्तलान्दो- लनविभ्रमाहृतं सुरापगापयः विनिञ्चिपन्ति इव । व्याख्या यदीयेषु यत्पुरसम्बन्धिषु सौधेषु राजसदनेषु 'सौधोऽस्त्रि राजसदनम्' इत्यमरः। ध्वजाः पताकाः 'पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इत्यमरः। तेषां पट्टस्य कौशेयस्य पट्टिका वस्त्राणि समुच्छलन्ति प्रकम्पमानानि ध्वजपटप्रान्तभागविनिविष्टानि मौक्तिकानि तेषां कान्तिनिर्झरैः प्रभाप्रवाहैः 'प्रवाहो निर्झरो झर' इत्यमर नभस्तले व्योम्नि आन्दोलनस्येतस्ततः सचलनस्य विभ्रमेण विलासेनाऽऽहृत समाकृष्टं सुरापगायाः स्वर्गङ्गाया पयो जलं विनिञ्चि- पन्तीव सिञ्चन्तीव। अत्रोत्प्रेक्षालङ्कारः।

( १०२ ) भाषा जिस नगर के प्रासादों पर के झण्डों की रेशम की पट्टियों में लगे हुए मोतियों की कान्ति रूपी जल के झरनों से मालूम होता था कि पट्टियों के आकाश में सतत हिलते रहने से उनकी झड़प से खींचे गए हुए आकाश गंगा के जल को मानो वे पट्टियाँ छिड़क रही थीं । अविस्मृतत्र्यम्बकनेत्रपावकः स्मरः स्मितेन्दीवरदीर्घचक्षुषाम् । विलासपीयूषनिधानकुम्भयोर्न यत्र पार्श्वं कुचयोर्विमुञ्चति ॥१९॥ अन्वयः यत्र अविस्मृतत्र्यम्बकनेत्रपावकः स्मरः स्मितेन्दीवरदीर्घचक्षुषां विलास- पीयूषनिधानकुम्भयोः कुचयोः पार्श्वं न मुञ्चति । व्याख्या यत्र पुरे न विस्मृतस्त्र्यम्बकस्य शिवस्य नेत्रपावको नयनाग्निदाहो येन स- स्मरः कामदेवः स्मितानि विकसितानीन्दीवराणि कमलानीव चक्षूंषि नेत्राणि यासां तासामङ्गनानां विलासरूपं यत्पीयूषममृतं तस्य निधानं निक्षेपणं ययोस्तौ कुम्भौ तयोस्तद्रूपयोः कुचयोः स्तनयोः पार्श्वं सामीप्यं न मुञ्चति न परित्यजति । दाहजन्यमृत्युनिवारक, भेषजरूपामृतस्य स्तनयोः स्थितत्वात्तत्रैव नियतस्थितिं समाचकाङ्क्ष काम इति भावः । काव्यलिङ्गमलङ्कारः, तेन उत्प्रेक्षा व्यज्यते । भाषा जिस नगर में, महादेव के तृतीय नेत्र की अग्नि के दाह को न भूलने वाला कामदेव खिले हुए कमल के समान बड़े २ नेत्र वाली नारियों के, विलास रूपी अमृत का खजाना स्वरूप दो घड़ों से अभिन्न स्तनों से दूर नहीं होता है । स्मरस्य यत्राद्भुतमस्त्रकौशलं तथाह्यसौ चारुदृशां विलोचनैः । उपागतैरुत्पलपत्रमित्रतां शिलाकठोराणि मनांसि विध्यति ॥२०॥ अन्वयः यत्र स्मरस्य अस्त्रकौशलम् अद्भुतम्, तथाहि असौ उत्पलपत्रमित्रताम् उपागतैः चारुदृशां विलोचनैः शिलाकठोराणि मनांसि विध्यति ।

( १०३ ) व्याख्या यत्र पुरे स्मरस्य कामस्याऽस्त्राणां कौशलं नैपुण्यमद्भुतमाश्चर्यकारि परि- दृश्यते । तथाह्यसौ स्मर उत्पलपत्राणां कमलपत्राणां मित्रतां साम्यमुपागतै प्रान्तैरतितीक्ष्णैस्तैरित्यर्थः । चाक्षुदृशा रम्यनयनानां नारीणां विलोचनैरक्षिभि शिलावत्पाषाणवत्कठोराणि कठिनानि धैर्यातिशययुक्तान्यपि मनांसि यूनां चेतांसि विध्यति भिनत्ति । कार्यकारणयोर्गुणभेदादत्र विषमालङ्कारः । 'गुणौ क्रिये वा चेत्स्यातां विरुद्धे हेतुकार्ययोः । यद्वारब्धस्य वैफल्यमनर्थस्य च सम्भवः । विरूपयोः संघटनं या च तद्विषमं मतम्' । भाषा इस नगर में कामदेव का अस्त्रप्रयोग का कौशल आश्चर्य जनक था । इसीलिये वह कमल के पत्तों की समानता अर्थात् कोमलता को प्राप्त, सुन्दर नखवाली नारियों के नेत्रों से पत्थर के ऐसे कड़े युवकों के हृदयों को वेध देता था । समुद्रवेला रतिरत्नसम्पदा वधूतडित्ताण्डवमेघमण्डली । नभःस्थली विभ्रमतारकस्रजा विभाति यत्र स्मरतल्पकल्पना ॥२१॥ अन्वयः यत्र स्मरतल्पकल्पना रतिरत्नसम्पदा समुद्रवेला, वधूतडित्ताण्डवमेघ- मण्डली, विभ्रमतारकस्रजा नभःस्थली, विभाति । व्याख्या यत्र पुरे स्मरस्य कामस्य तल्पस्य शय्यायाः कल्पना रचना 'तल्पं शय्यादृवारेषु स्तंबेऽपि विटपोऽह्निष्यान्' इत्यमरः । रतिः कामस्त्री तत्स्वरूपा या रत्नसम्पत् तया सर्वजनहृद्यत्वाद्रते रत्नसम्पद्यभेदारोपः । समुद्रवेला सागरतटभूमिः, स्मरतल्प- कल्पनायां समुद्रवेलाया आरोपः, रतिस्वरूपरत्नसम्पदस्समुद्रवेलायां स्थितत्वात् । वधूस्वरूपतडितरताण्डवं नृत्यं यत्रैवम्भूता मेघमण्डली, अस्याः स्मरतल्पकल्पनाया- मारोपः । अत्र स्मरपत्नी रतिस्थानीया वधूरूपा तडित् । विभ्रमेण विलासेन युक्तानां तारकाणां स्रजा मालया नभःस्थली व्योमभूमिः । अत्र रतिस्थानीया तारकस्रक् । स्मरतल्पकल्पनायां नभःस्थल्याश्चारोपः । विभाति शोभते । रतिस्वरूप रत्नसम्पत्तडित्तारक्स्रग्भिः समुद्रवेलामेघमण्डलीनभःस्थलीनां स्मरतल्प कल्पनेति भावः । अत्रोत्प्रेक्षा गन्धाः ।

( १०४ ) भाषा जहां कामदेव की शय्या रचना, रति स्वरूप रत्नसम्पत्ति होने से समुद्रतट, रतिस्वरूप बिजली से युक्त होने से मेघमण्डली, और रति स्वरूप विलास युक्त ताराओं की माला होने से आकाश स्थली शोभित है । त्यजन्ति हंसाः सरसीगुणैः स्थितिं न यत्र वर्षास्वपि हर्षगद्गदाः । अलङ्घनीयस्य निकाममुन्नतेर्दिशन्ति वप्रस्य यशस्तु दुर्जनाः ॥२२॥ अन्वयः यत्र हर्षगद्गदाः हंसाः सरसीगुणैः वर्षासु अपि स्थितिं न त्यजन्ति । दुर्जनाः तु अलङ्घनीयस्य वप्रस्य निकामं उन्नतेः यशः दिशन्ति । व्याख्या यत्र पुरे हर्षेणाऽऽनन्देन गद्गदाः पुलकिता हंसा सरसीनां कासाराणां 'पद्माकरस्तडागोऽस्त्री कासार सरसी सरः' इत्यमरः । गुणैर्नैर्मल्यादिगुणैर्वर्षास्वपि वर्षर्तुष्वपि स्थितिं निवासं न त्यजन्ति न मुञ्चन्ति । वर्षाकाले मानसं यान्ति हंसा इति नियमान्मानसं न यान्तीति भावः । दुर्जना अलङ्घनीयस्य पार कर्तुमयोग्यस्य वप्रस्य प्राकारस्य निकाममत्यन्तमुन्नतेरुच्छ्रायस्य यशः कीर्ति दिशन्ति कुर्वन्त्यारोप- यन्तीत्यर्थः । दुर्जनाः परनिन्दाकुशलाः सरसीगुणान्विहाय वर्षासु हंसानां मानसाऽ- गमने प्राकाराणामोन्नत्यमेव कारणमुद्घोषयन्तीति भावः । अत्राऽतिशयोक्त्य- लङ्कारः । भाषा जहां आनन्द मग्न हंसगण वर्षाऋतु में भी तलाबो का पानी गदला न होने से, अन्य स्थानों के हंसों के सदृश मानससरोवर को न जाकर वही रहते थे । दुर्जन लोग जो कभी किसी के गुण की प्रशंसा नहीं करते वे हंसों के अन्यत्र न जाने में इस नगर की चहार दिवारी की उंचाई का यश गाते थे । अर्थात् उस नगरी के अत्यन्त रमणीय सरोवर की प्रशंसा न कर वप्र की ऊँचाई की प्रशंसा करते थे । निशासु यत्रोन्नतसौधसङ्गतिं विगाहमानस्य विधोः कुरङ्गकः । वतंसदूर्वाङ्कुरमेणचक्षुषां ग्रहीतुमाकाङ्क्षति वक्रकन्धरः ॥२३॥

( १०५ ) अन्वयः यत्र निशासु उन्नतसौधसंगतिं विगाहमानस्य विधोः कुरङ्गकः वक्रकन्धरः ऽ(सन्) एणचक्षुषां वतसदूर्वाङ्कुरं ग्रहीतुम् आकाङ्क्षति। व्याख्या यत्र पुरे निशासु रात्रिषु उन्नता अत्युच्चा प्रासादा राजसदनानि तेषां सङ्गतिं समागमं विगाहमानस्य विदधतो विधोश्चन्द्रस्य कुरङ्गक कलङ्करूपमृगो वक्रा वक्रीकृता कन्धरा ग्रीवा येन स एवम्भूतस्सन् एणचक्षुषां मृगनयनानामङ्गनानां वतंस आभूषणरूपश्चासो दूर्वाङ्कुरश्च तं "वतंस अद्वतंस । "वष्टि भागुरिरल्लो- पमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा" इति । कर्णा- वतंसरूपं दूर्वाङ्कुरं ग्रहीतुं भक्षणार्थं स्वीकृतुमाकाङ्क्षत्यभिलषति । अत्रातिशयो- क्त्यलङ्कारः । भाषा जहां रात्रियों में, चन्द्र के, बहुत ऊंचे राजसदनों के समीप आने से, चन्द्रमा में का मृग, टेढ़ी गर्दन करके, मृगनयनी नारियों के कानों पर आभूषण के रूप में खोंसे हुवे दूब के अंकुर को खाने की इच्छा करता था । अवागुरं नेत्रकुरङ्गबन्धनं निरक्षरं पञ्चशरस्य शासनम् । गृहे गृहे यत्र विचित्रमन्वहं वितन्वते नृत्तमधीरलोचनाः ॥२४॥ अन्वयः यत्र अधीरलोचनाः गृहे गृहे अन्वहम् अवागुरं नेत्रकुरङ्गबन्धनं पञ्चशरस्य निरक्षरं शासनं विचित्रं नृत्तं वितन्वते । व्याख्या यत्र पुरेऽधीरे चञ्चले लोचने नेत्रे यासां तादृशश्चलनयना कामिन्यो गृहे गृहे प्रतिगृहमन्वहं प्रतिदिनं नास्ति वागुरा मृगबन्धनी यस्मिन्तदवागुरं नेत्राण्येव युवकजननयनान्येव कुरङ्गाः मृगास्तेषां बन्धनं बन्धनस्वरूपं पञ्चशरस्य कामस्य निरक्षरमक्षरोच्चारणरहितं शासनमाज्ञारूपं विचित्रमाश्चर्यकरं नृत्तं नृत्यं 'नृत्तं ताललयाश्रयम्' वितन्वते कुर्वन्ति । तासां नृत्तं दृष्ट्वा सर्वे युवान काम- मोहिता भवन्तीति भावः । अधिकारूढवैशिष्ट्य रूपकमलङ्कारः ।

( १०६ ) भाषा जिस नगर में रोज, घर २, चञ्चलनेत्रवाली कामिनियाँ, बिना जाल के कामुकों के नेत्र रूपी मृगों को फँसाने वाला और कामदेव की अलिखित व अनुच्चारित आज्ञा स्वरूप ताल लय से युक्त विचित्र नाच किया करती थीं । अमुष्य लोकत्रितयाद्भुतैर्गुणैरतीत्य मार्गं मनसोऽपि तिष्ठतः । असौ सदा मानसगोचरस्थिता कथं तुलायामलका प्रगल्भते ॥२५॥ अन्वयः असौ सदा मानसगोचरस्थिता अलका लोकत्रितयाद्भुतैः गुणैः मनसः अपि मार्गम् अतीत्य तिष्ठतः अमुष्य तुलायां कथं प्रगल्भते । व्याख्या असौ प्रसिद्धा सदा नित्य मानस सरश्चिन्तञ्च तस्य मानससरसो मनसश्च गोचरो देशो हिमालयप्रदेशो दृष्टिश्च तत्र स्थिता विद्यमानाऽलका कुबेरनगरी, लोकत्रितये त्रिषु भुवनेषु 'विष्टपो जगती लोको विष्टप भुवनं जगत्' इत्यमरः । अद्भुता आश्चर्यकारिणो गुणास्तैर्मनसोऽपि चित्तस्याऽपि मार्गं पन्थानमतीत्याऽति- क्रम्य तिष्ठतो वर्तमानस्याऽचिन्त्यरूपस्याऽमुष्याऽस्य पुरस्य तुलाया साम्ये कथ प्रगल्भते समर्था भवति । अत्राऽर्थापत्तिरलङ्कारः । 'दण्डापूपिकान्यायार्थागमोऽ- र्थापत्तिरिष्यते ।' भाषा मानस सरोवर के आसपास हिमालय प्रदेश में स्थित अथवा मन से जानी जा सकने वाली अलका नामक कुबेर की नगरी तीनों लोकों में अद्भुत गुणों से युक्त और मन से भी कल्पना न की जा सकने वाले, इस कल्याण नगर की कैसे बराबरी कर सकती है । अतःपरमाहवमल्लदेवनृपं स्तौति । विजित्य सर्वाः ककुभः स भार्गव-प्रचण्डकोदण्डपरिश्रमो नृपः । उवास तत्राथिरवानि पूरयन् फलं हि पात्रप्रतिपादनं श्रियः ॥२६॥

( १०७ ) अन्वयः तत्र सः भार्गवप्रचण्डकोदण्डपरिश्रमः नृपः सर्वाः ककुभः विजित्य अर्थिशतानि पूरयन् उवास । हि श्रियः फलं पात्रप्रतिपादनम् । व्याख्या तत्र कल्याणपुरे सः प्रसिद्धो भार्गवस्य परशुरामस्य प्रचण्डो भयङ्करः कोदण्डो धनुः 'धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमरः । तस्य परिश्रम इव परिश्रमः संप्रहारकार्यं यस्य स नृप आहवमल्लदेवः सर्वास्समग्राः ककुभो दिशो विजित्य स्वायत्तीकृत्याऽर्थिशतानि याचकशतमनोरथान् पूरयन्सफलयन्नुवास । हि यस्मात्कारणाच्छ्रियो लक्ष्म्यास्साम्पदश्च फलं सार्थक्यं पात्रेषु योग्यस्थानेषु प्रतिपादनं दानम् । अत्रार्थान्तरन्यासाऽलङ्कारः । भाषा परशुराम के भयङ्कर धनुष के सहार के समान सहार करने वाला वह प्रसिद्ध राजा आहवमल्लदेव, समग्र दिशाओ को जीतकर और सैकडो अर्थिजनो को दान देकर कल्याणपुर में रहने लगा । क्योकि लक्ष्मी का सार्थक्य योग्य आर्थियो को दान देना ही है । जगत्यनर्घेषु समस्तवस्तुषु क्षितीश्वरः पादतलेस्थितेष्वपि । अभूद्विना पुत्रमुखेन्दुदर्शनं प्रभातनीलोत्पलदीनलोचनः ॥२७॥ अन्वयः क्षितीश्वरः जगति अनर्घेषु समस्तवस्तुषु पादतलेस्थितेषु अपि पुत्रमुखेन्दु दर्शनं विना प्रभातनीलोत्पलदीनलोचनः अभूत् । व्याख्या क्षितेः पृथ्व्या ईश्वरः प्रभुर्जगति लोके 'त्रिविष्टपो जगती लोको विष्टप भुवं जगत्' इत्यमरः । अनर्घेष्वमूल्येषु समस्तवस्तुषु सकलपदार्थेषु पादतलेष्वे समीप एव स्थिता विद्यमानास्तेष्वतिगुरुत्त्वेषु सत्स्वपि पुत्रस्याऽऽत्मजस्य यन्मुखमान सदेवेन्दुश्चन्द्रस्तस्य दर्शनमवलोकनं विना प्रभाते प्रातःकाले सूर्योदयानन्तरं निष्प्रभे नीलोत्पल इव दीने कान्तिरहिते लोचने नेत्रे यस्य स अभूत् । चन्द्रदर्शं

( १०८ ) समये नीलोत्पलस्य विकासो दृश्यते न तु सूर्योदयानन्तरम्। अत्र विनोक्त्य- लङ्कारः। 'विनोक्तिर्यद्विनाऽन्येन नासाध्वन्यदसाधु वा'। भाषा राजा को संसार की समस्त अमूल्य वस्तुएँ सुलभ होने पर भी पुत्र के चन्द्रसदृश मुख को देखे बिना वह प्रात कालीन नीलकुमुद के सदृश दीन नेत्रों से युक्त था अर्थात् उदास रहा करता था। जैसे चन्द्रदर्शन बिना नीलकुमुद विकसित नही होता वैसे ही पुत्र दर्शन बिना राजा की आखें दीन थी। अर्थात् राजा उदास रहते थे। उवाच कण्ठागतबाष्पगद्गदैः पदैः कदाचित्सहधर्मचारिणीम्। सरस्वतीहारलतामिवोज्ज्वलां प्रकाशयन्दन्तमयूखचन्द्रिकाम् ॥२८॥ अन्वयः (सः)कदाचित् सरस्वतीहारलताम् इव उज्ज्वलां दन्तमयूखमाञ्झिकां प्रकाशयन् कण्ठागतवाष्पगद्गदैः पदैः सहधर्मचारिणीम् उवाच। व्याख्या सः नृपः कदाचित् सरस्वती वाणी वाग्देवता तस्या मौक्तिकनिर्मिता या हारलता तामिवोज्ज्वलां शुभ्रवर्णां दन्तानां रदनानां मयूखानां किरणानां 'किरणो- स्रमयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः। चन्द्रिका ज्योत्स्ना 'चन्द्रिका कौमुदी- ज्योत्स्ना' इत्यमरः। तां प्रकाशयन् विस्तारयन् कण्ठे गले आगतानि यानि बाष्पाण्यूष्माश्रूणि 'बाष्पमूर्ध्माश्रु कशिपु त्वप्रमाच्छादनं द्वयम्' इत्यमरः। तैर्गद्ग- दैर्नातिस्पष्टमुच्चारितैः पदैः शब्दविन्यासैस्सहधर्मचारिणीं स्वपत्नीमुवाच। अत्रोपमालङ्कारः। भाषा किसी समय उस राजा ने सरस्वती की मोती की माला के समान दातों की शुभ्र किरणों की चादनी को प्रकाशित करते हुए, भरे गले से अपनी पत्नी से कहा। फलेन शून्यः सुतरां दुनोति मामयं गृहस्थाश्रमधर्मपादपः। विलोकयामि प्रतिबिम्बमात्मनः सुताभिधानं त्वयि नाधुनापियत्॥२६॥

( १०९ ) अन्वयः अयं फलेन शून्यः गृहस्थाश्रमपादपः मां सुतरां दुनोति यन् अधुना अपि त्वयि सुताभिधानम् आत्मनः प्रतिबिम्बं न विलोकयामि । व्याख्या अय फलेन पुत्ररूपफलेन शून्यो रहितो गृहस्थाश्रमरूपो गार्हस्थ्यस्वरूपो धर्म- पादपो धर्मवृक्षो मा सुतरामत्यन्त दुनोति परितापयति । यथा वृक्ष फलेन शून्यो निष्फलत्वाय कल्पते तथैवाऽय गृहस्थाश्रमोऽपि । यद्यस्मात्कारणादधुनाऽप्यद्या- वध्यपि त्वयि भवत्यांसुत पुत्र अभिधान नाम यस्य त पुत्रनामकमात्मन प्रतिविम्ब प्रतिफल न विलोकयामि न पश्यामि । 'आत्मा वै जायते पुत्र' इति वचनात् । अद्यापि पुत्रोत्पत्तिर्न जातेत्यथ । अङ्गरूपकालङ्कार । भाषा यह फलरहित गृहस्थाश्रमरूपीवृक्ष मुझ अत्यन्त पीडित करता है । क्यो कि अभीतक तुममे मेरा प्रतिबिम्ब स्वरूप पुत्र उत्पन्न भया हुवा नही दीख पडता है । अर्थात् तुम को मेरा प्रतिबिम्ब स्वरूप पुत्र नही हुआ है । अलक्षणं बालमृगाक्षि लक्ष्यते १ न किञ्चिदङ्गेषु तवेद्दशः परम् । पुराकृतः पुण्यविपर्ययो मम ध्रुवं फलर्द्धिप्रतिबन्धकस्त्वयि ॥३०॥ अन्वयः (हे) बालमृगाक्षि तव अङ्गेषु किञ्चित् अलक्षणं न लक्ष्यते परं त्वयि ईदृशः फलर्द्धिप्रतिबन्धकः मम पुराकृतः पुण्यविपर्ययः ध्रुवम् । व्याख्या हे बालमृगाक्षि बालकुरङ्गनयने तव अङ्गेषु शरीरावयवेषु किञ्चिदल्पकिञ्चि- दप्यलक्षण कुलक्षणं पुत्रोत्पत्तिप्रतिबन्धक वन्ध्यात्वलक्षण न लक्ष्यते दृश्यते । पर किन्तु त्वयि भवत्यामीदृश इत्थम्भूत फलर्द्धिप्रतिबन्धकः पुत्ररूपफलसमाप्ति- बाधको ममैव पुराकृत पूर्वजन्मकृत पुण्यविपर्यय सुकृतवैपरीत्य पापमित्यर्थ । ध्रुवं निश्चयेन वर्तते । १ 'मृग्यत' इत्यपि पाठ ।

( ११० ) भाषा हे मृगशावकनयनि ! तुम्हारे शरीर के अवयवों में कोई कुलक्षण नहीं दीख पड़ता है । किन्तु तुम्हारे में इस प्रकार की पुत्र रूपी फल की समृद्धि में प्रतिबन्धक मेरे ही पूर्वजन्म का पाप है, यह बात निश्चित है । अवीक्षमाणा सदृशं गुणैर्मम क्रमांगता श्रीरियमाश्रयं पुरः । पयोधिमध्यस्थितपोतकूपक-स्थिता शकुन्तीव मुहुः प्रकम्पते ॥३१॥ अन्वयः क्रमांगता इयं श्रीः मम गुणैः सदृशम् आश्रयं पुरः अवीक्षमाणा पयोधिमध्यस्थितपोतकूपकस्थिता शकुन्ती इव मुहुः प्रकम्पते । व्याख्या क्रमेण कुलक्रमेणाऽऽगता प्राप्तेयं श्री राज्यलक्ष्मी मम गुणैः शौर्यादिभिः सदृश समानमत एव योग्यमाश्रयमाश्रयभूतं स्थानं पुरोऽग्रेऽवीक्षमाणाऽनवलोकयन्ती पयोधेः समुद्रस्य मध्ये मध्यभागे स्थितो विद्यमानः पोतो यानपात्रं ‘यानपात्रे शिली पोतः' इत्यमरः । तस्य कूपको गुणवृक्षको नौमध्यस्थितरज्जुबन्धनदण्डः तस्मिन् स्थितोपविष्टा शकुन्तीव पक्षिणीव मुहुरभीक्ष्णं ‘मुहुः पुनः पुनः शश्वद- भीक्ष्णमसकृत्समाः' इत्यमरः । प्रकम्पते बिभेति । स्थिरमाश्रयमपश्यमाणा स्वस्थितेस्सन्देहास्पदत्वाद्रीतेत्यर्थः । अत्रोपमालङ्कारः । भाषा कुल परम्परागत यह राज्य श्री, मेरे गुणों के ऐसे गुण वाले आश्रय को आगे न देखकर बीच समुद्र में विद्यमान जहाज के मस्तूल पर बैठी चिड़िया के समान रह रह कर काँपती है । अर्थात् स्थिर आश्रय न देखकर अपने अस्तित्व के सन्देह से भयभीत होती है । प्रियप्रमादेन विलाससम्पदा तथा न भूषाविभवेन गेहिनी । सुतेन निर्व्याजमलीकहासिना यथाङ्कपर्यङ्कगतेन शोभते ॥३२॥

( १११ ) अन्वयः गेहिनी यथा निर्व्याजम् अलीकहासिना अङ्कपर्यङ्कगतेन सुतेन शोभते तथा प्रियप्रसादेन विलाससम्पदा भूषाविभवेन (वा) न शोभते । व्याख्या गेहिनी गृहिणी गृहधर्मरता स्त्री यथा निर्व्याजं निष्कपटं यथास्यात्तथाऽलीक हासिनाऽनृतहासिना कारणमन्तरेव प्रकृत्या हासं कुर्वता 'अलीकं त्वप्रियेऽनृते' इत्यमर । अङ्क उत्सङ्ग एव पर्यङ्कः खट्वा 'अङ्को रूपकभेदाऽङ्कचिह्नरेखाजिभू- षणे । रूपकाज्ञातिकोशस्सङ्गस्थानेऽङ्क पापदु खयोरिति' मेदिनी । 'शयनं मञ्चपर्यङ्क- पल्यङ्काः खट्वया समा' इत्यमर । तद्गतेन सुतेन पुत्रेण शोभते सौभाग्यमालभ्यते तथा प्रियस्य पत्यु प्रसादेन प्रसन्नताप्रदर्शनेन विलासस्य भोगस्य सम्पदा विभवेन, भोग्यसुखसमृद्धिसामग्र्या भूषाया भूषणस्य विभवेन वैशिष्ट्येन वा न शोभते । भाषा गृहिणी जिस प्रकार कपट रहित स्वाभाविक हास्य करने वाले गोद रूपी पलङ्ग पर लेट हुए पुत्र से शोभित होती है वैसे न तो पती की प्यारी होने से, न उपभोग योग्य सुख समृद्धि की वस्तुओ से, न गहना कपड़ा पहनने से शोभित होती है । वहन्ति हिंस्राः पशवः कमात्मनो गुणं वितर्क्यात्मजरक्षणश्रमम् । पदार्थसामर्थ्यमचिन्त्यमीदृशं यदत्र विश्राम्यति निर्भरं मनः ॥३३॥ अन्वयः हिंस्राः पशवः आत्मनः कं गुणं वितर्क्य आत्मजरक्षणश्रमं वहन्ति । ईदृशम अचिन्त्यं पदार्थसामर्थ्यं यत् अत्र मनः निर्भरं विश्राम्यति । व्याख्या हिंस्रा हिंसकाः पशवो व्याघ्रादय आत्मनो स्वस्य क विशिष्टं गुणं प्रयोजनं वितर्क्य विमृश्याऽऽत्मजस्य पुत्रस्य रक्षणस्य भरणपोषणावधि पालनस्य श्रमं खेदं वहन्ति धारयन्ति । ईदृशमित्थंभूतमचिन्त्यमकथनीयमनुभवैकगम्यं पदार्थसामर्थ्यं पुत्रपदार्थाश्चर्यवत्त्वं यदत्र पुत्रे मनश्चित्तं 'चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मन' इत्यमर । निर्भरमत्यन्तं विश्राम्यति सन्तोषसुखं शान्तिञ्च लभते ।

( ११२ ) भाषा हिंसक व्याघ्रादि पशु अपने किस प्रयोजन के विचार से अपने बच्चे के संरक्षण के लिये परिश्रम करते हैं। पुत्र, इस वस्तु में ऐसी अवर्णनीय शक्ति है जिससे मन अत्यन्त शान्ति प्राप्त करता है। किमश्वमेधप्रभृतिक्रियाक्रमैः सुतोऽस्ति चेन्नोभयलोकबान्धवः । ऋणं पितॄणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् ॥३४॥ अन्वयः उभयलोकबान्धवः सुतः न अस्ति चेत् अश्वमेधप्रभृतिक्रियाक्रमैः किम् । पितॄणां ऋणम् अपनेतुम् अक्षमाः गृहमेधिनः कथं शुभं लभन्ते । व्याख्या उभयलोकस्येहलोकस्य परलोकस्य च बान्धवस्सुखकारी सहायक इत्यर्थः । सुतः पुत्रो नास्ति चेत्तर्हि अश्वमेधस्तन्नाम यज्ञ प्रभृतिरादिर्यासां क्रियागां तासां क्रमैः सम्पादने किम् किम्फलम्। पुत्रोत्पत्त्यभावेऽश्वमेधादिसदृशानां स्वालौकिक- शक्तिप्रदर्शकाना कर्मणां सुतरामेव वैयर्थं समायाति । पितॄणां पूर्वपुरुषाणामृण- मपनेतु दूरीकर्तुमक्षमा असमर्था गृहमेधिनो गृहस्थाः कथ शुभं मङ्गलं लभन्ते प्राप्तुं शक्नुवन्ति । भाषा यदि इस लोक और परलोक दोनों में साथ देनेवाला पुत्र न हुआ तो अश्वमेध आदि यज्ञों के करने से क्या लाभ है। पितृऋण से मुक्त होने में असमर्थ गृहस्थ लोगों का कैसे कल्याण हो सकता है। प्रतापशौर्यादिगुणैरलङ्कृतोऽप्युपैति तावन्न कृतार्थतां नृपः । सुतेन दोर्विक्रमलब्धकीर्त्तिना न यावदारोहति पुत्रिणां धुरि ॥३५॥ अन्वयः नृपः प्रतापशौर्यादिगुणैः अलङ्कृतः अपि तावत् कृतार्थतां न उपेति यावत् दोर्विक्रमलब्धकीर्तिना सुतेन पुत्रिणां धुरि न आरोहति ।

( ११३ ) व्याख्या नृपो राजा प्रतापेन प्रभावेण 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्य- मरः । शौर्यादिगुणैर्वीरतादिगुणैश्चाऽलङ्कृतः सम्भूषितोऽपि कृतार्थतां जन्म- साफल्यं तावन्नोपैति प्राप्नोति यावत् दोष्णोर्भुजयोर्विक्रमेण पराक्रमेण लब्धोपा- र्जिता कीर्तिर्यशो येन तेन सुतेन पुत्रेण पुत्रिणां पुत्रवतां धुरि प्राधान्ये नाऽऽरोहति न परिनिष्ठितो भवति । भाषा राजा, प्रताप वीरता आदि गुणों से विभूषित होने पर भी तब तक अपने जन्म की सफलता को प्राप्त नहीं करता जब तक भुजबल के पराक्रम से कीर्ति को कमाने वाले पुत्र से पुत्रवान् लोगों में अग्रणी नहीं होता । निशम्य देवस्य नितान्तदुःखिता कथामिति श्रोत्रपथप्रमाथिनीम् । जगाद किञ्चिन्न नरेन्द्रसुन्दरी परं निशश्वास तरङ्गितालका ॥३६॥ अन्वयः इति श्रोत्रपथप्रमाथिनीं देवस्य कथां निशम्य नितान्तदुःखिता नरेन्द्र- सुन्दरी किञ्चित् न जगाद परं तरङ्गितालका (सती) निशश्वास । व्याख्या इतीत्थं श्रोत्रयोः कर्णयोः पन्था मार्गस्तस्य प्रमाथिनीं तां कर्णकुहरदुःखदायिनीं देवस्य राज्ञः कथां वार्तां निशम्य श्रुत्वा नितान्तमत्यन्तं दुःखिता पीडिता नरेन्द्रनन्दिनी राजमहिषी किञ्चित्किमपि न जगाद नोवाच परं केवलं तरङ्गिता इतस्ततः प्रक्षिप्ताः कुन्तलाः केशा यस्या सा सती निशश्वास दीर्घमुत्सृज्य श्वासं प्रवाहितवती । केशस्य स्थानच्युतिर्दीर्घनिश्वासश्च दुःखचिह्नम् । परमदुःखि- ताऽभूदित्यर्थः । भाषा इस प्रकार राजा की कर्णकटू बातें सुनकर अत्यन्त दुःखी रानी ने कोई उत्तर नहीं दिया । केवल बिखरे बालों वाली उस रानी ने जोर से सांस भरा ; अर्थात् अत्यन्त दुःखी हुई ।

( ११४ ) स धीरमुर्वीन्दुधीरलोचनामथाङ्कमारोप्य कृपार्द्रमानसः । हरन्निवातङ्ककलङ्कमुज्ज्वल-द्विजावलीकान्तिजलैरवोचत ॥३७॥ अन्वयः अथ सः उर्वीन्दुः कृपार्द्रमानसः सन् अधीरलोचनां धीरम् अङ्कम् आरोप्य उज्ज्वलद्विजावलीकान्तिजलैः आतङ्ककलङ्कं हरन् इव अवोचत । व्याख्या अथाऽनन्तर स्वपत्न्या दुःखितदशानिरीक्षणानन्तरं सः प्रसिद्ध उर्व्याः पृथिव्या इन्दुश्चन्द्र. पृथिवीशोभादायको राजा कृपया दययाऽऽर्द्रं परिप्लुतं मानस मनो यस्य स एवम्भूतस्सन् अधीरे चञ्चले लोचने नेत्रे 'लोचनं नयनं नेत्रमीक्षणञ्चक्षु- रक्षिणि' इत्यमर । यस्याः सा तां कुब्जेन चञ्चललोचनां धीरं यथास्यात्तथा धैर्यमवलम्ब्याऽङ्कं स्वोत्सङ्कमारोप्य प्रतिष्ठाप्योज्ज्वला शुभ्रा द्विजानां दन्तानां 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । आवली पङ्क्तिस्तस्य कान्तयः एव जलानि तैरातङ्क एव व्यथैव कलङ्को मालिन्यं तं हरन्निवाऽपमृजन्निवाऽवोचतोक्तवान् । हास्येन स्वभावं गोपयन् पत्न्या सान्त्वनमकरोत् । अत्रोत्प्रेक्षाऽलङ्कारः । भाषा अपनी पत्नी को दुःखी देखने के अनन्तर राजा के हृदय मे दया का संचार होकर उसने चंचल नेत्र वाली रानी को, धीरज के साथ अपनी गोद म बैठाकर मानो सफेद दांतों की कतार की कान्ति रूपी जल से पीड़ा रूपी धब्बे को धोते हुए कहा अर्थात् हँसते हुए रानी से कहा । अलं विषादेन करोषि किं मुखं कपोष्णनिःश्वासविधूसराधरम् । अभीष्टवस्तुप्रतिबन्धिनामहं कृताग्रहो निग्रहणाय कर्मणाम् ॥३८॥ अन्वयः विषादेन अलं, मुखं कपोष्णनिःश्वासविधूसराधरं कि करोषि । अहं अभीष्टवस्तुप्रतिबन्धिनां कर्मणां निग्रहणाय कृताग्रहः (अस्मि) । व्याख्या विषादेनाऽलं शोक परिहर्तव्यः । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्'

( ११५ ) इत्यमरः। मुखं स्वाननं कवोष्णः कोष्णः 'कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति' इत्यमरः। बाडतो निश्वासस्तेन विधूसरो मलिनोऽधर अपरोष्ठो यस्मिन् सत् कि किमर्थं करोषि विदधासि। अहमभीष्टमीप्सितं यद्वस्तु पुत्रप्राप्तिरूपं तत्प्रतिबध्नन्ति प्रतिरुद्धन्ति तेषां कर्मणामिहजन्मनि पूर्वजन्मनि वा कृतानां दुष्कर्मणां निग्रहार्थं समूलमुन्मूलनाय कृत आग्रह अभिनिवेशो येन स बद्धपरिकरोऽस्मि । भाषा अब दुख दूर करो। अपने मुख को गरम श्वास से सूखे अधरोष्ठ वाला क्यों बनाती हो। में पुत्र रूपी अभीष्ट सिद्धि के प्रतिबन्धक सम्पूर्ण इस जन्म के या पूर्व जन्म के कर्मों को नष्ट करने के लिये कटिवद्ध हो गयो हूँ। अधीतवेदोऽस्मि कृतः१ श्रुतागमः श्रमोऽस्ति भूयानितिहासवर्त्मसु । गुरुष्ववज्ञाविमुखं सदा मनस्तदभ्युपायोऽत्र मया न दुर्लभः ॥३६॥ अन्वयः (अहं) श्रुतागमः (सन्) अधीतवेदः अस्मि। इतिहासवर्त्मसु भूयान् परिश्रमः कृतः। मनः गुरुषु सदा अवज्ञाविमुखम् अस्ति। धत् मया अत्र अभ्युपायः न दुर्लभः। व्याख्या अहं श्रुता गुरुमुखादाकर्णिता आगमाः शास्त्राणि येन एवम्भूतस्सन् अधीताः सम्यगभ्यस्ता वेदा ऋग्यजुस्सामाथर्ववेदा येन सोऽस्मि। इतिहासाना रामायण- महाभारतादीनां वर्त्मसु तत्प्रतिपादितमार्गेष्वपि भूयान्महान्परिश्रमः कृतः। मम मनः गुरुषु पूज्येषु सदा सर्वदैवावज्ञाया अपमानात्पराङ्मुखं विमुखमस्ति । तत्तस्मात्कारणादत्र पुत्रवस्तुनि मयाऽभ्युपायो न दुर्लभः किन्तु सुलभस्सु- साध्यश्चेति भावः। भाषा मैने गुरुमुख से सब शास्त्रो का श्रवण कर वेदो को पढा है। रामायण- महाभारतादि इतिहास प्रतिपादित मार्गों का परिश्रम से पालन किया है। १ कृतश्रुतागम—इत्यपि पाठ ।

( ११६ ) मेरा मन सदैव बड़ों का अपमान करने से विरत रहा है। ऐसी परिस्थिति में मेरे लिये पुत्ररूपी वस्तु प्राप्त करने का उपाय दुर्लभ नहीं हो सकता। किमस्ति दुष्प्रापमसौ निषेव्यते कुलप्रभुर्बालमृगाङ्कशेखरः । करस्थितस्यापि चकोरलोचने न पात्रमालस्यहतास्तपस्विनः ॥४०॥ अन्वयः असौ कुलप्रभुः बालमृगाङ्कशेखरः (यदि) निषेव्यते (तर्हि) किं दुष्प्रापम् अस्ति। हे चकोरनयने आलस्यहताः तपस्विनः करस्थितस्य अपि पात्रं न । व्याख्या असौ प्रसिद्धः कुलस्य वंशस्य प्रभुरिष्टदेवता बालोऽर्द्धो मृगाङ्कश्चन्द्रः शेखरं शिरोभूषणं यस्य स शिवो यदि निषेव्यते सेवया प्रसन्नक्रियते तर्हि किं वस्तु दुष्प्रापं दुर्लभमस्ति, न किमपीत्यर्थः । हे चकोरवच्चपले नेत्रे नयने यस्यास्त- त्सम्बुद्धौ हे चकोरनयने चकोरचपलनयने आलस्येनाकर्मणा हता आलस्यवशी- भूतास्तपस्विनो वराका करे करतले स्थितस्य विद्यमानस्याऽपि वस्तुन पात्रं भाजनं न भवन्ति । कर्मशीलानामुद्योगिनां पुरुषाणां किमपि दुस्साध्यं नेत्यर्थः । अत्राऽर्थापत्यलङ्कारः । भाषा अपने वंश के इष्टदेव चन्द्रशेखर शंकर की यदि उपासना की जाय तो कोई वस्तु दुर्लभ नहीं है। हे चकोर के समान चञ्चल नेत्र वाली ! आलस से भरे अकर्मण्य लोगों को, पास की वस्तु भी प्राप्त नहीं हो सकती है। तदेष तावत्तपसे सह त्वया प्रभूतभावः प्रयते यतेन्द्रियः । विभावरीवल्लभखण्डमण्डनःस यावदायाति दयां जगद्गुरुः॥४१॥ अन्वयः यत् प्रभूतभावः एषः (अहं) यतेन्द्रियः सन् त्वया सह तावत् तपसे प्रयते यावत् विभावरीवल्लभखण्डमण्डनः जगद्गुरुः सः दयां आयाति ।

( ११७ ) व्याख्या ततस्तमात्कारणात्प्रभूतो बहलो भावो भक्तिभावो यस्य स एष अहं जितानि वशीकृतानीन्द्रियाणीन्द्रियसभूहो येन स वशीकृतेन्द्रियसमोहस्सन्न त्वया सह भवत्या सह तावत्कालपर्यन्तं तपसे तपश्चरणाय प्रयते महोयोगं करिष्ये यावत्कालं विभाार्या रजन्याः 'विभावरीतमस्विन्यौ रजनो यामिनी तमी' इत्यमर । वल्लभः प्रियश्चन्द्रस्तस्य खण्ड एव कलैव मण्डनं भूषणं यस्य स जगतां भुवनानां 'विष्टपं भुवनं जगत्' इत्यमरः। गुरु श्रेष्ठ सः शंकरो दयां कृपामार्याति प्राप्नोति । करुणाईमानसस्तनमभीष्टवरप्रदानं करोतीत्यर्थ । भाषा इसलिये दृढ भक्ति से युक्त, में तुम्हारे साथ इन्द्रियो को वश में करके अर्थात् सयम से तब तक तप करने में प्रयत्नशील रहूँगा जब तक अर्धचन्द्र से शोभित जगत्प्रभु शंकर को मेरे ऊपर दया न आ जाए । विधाय शान्त्यै कलुषस्य कर्मणस्तदेष सर्वेन्द्रियतापनं तपः । नयामि भक्त्या झटिति प्रसन्नतामखण्डया खण्डशशाङ्कशेखरम् ॥४२॥ अन्वयः तत् एषः (अहं) कलुषस्य कर्मणः शान्त्यै सर्वेन्द्रियतापनं तपः विधाय अखण्डया भक्त्या खण्डशशाङ्कशेखरं झटिति प्रसन्नतां नयामि । व्याख्या ततस्तमात्कारणादेषोऽहं कलुषस्य दुष्कृतस्य 'कलुषं वृजिनैनोध्वमंहो दुरित- दुष्कृतम्' इत्यमरः । कर्मणः क्रियाकलापस्य शान्त्यै विनाशाय सर्वेन्द्रियाणां नेत्रादीनां तापनं पीडनं यस्मिन्तत्तपो दुष्करतपस्यां विधाय कृत्वाऽखण्डयाऽविच्छिन्न- सन्तानया भक्त्या दृढभक्त्येत्यर्थः । खण्डश्चरसो शशाङ्कश्चन्द्रश्च सः शेखरं शिरोभूषणं यस्य तं शिवं झटिति द्राक् 'द्राक् झटित्यंजसान्ह्वाय द्राङ् मंखु सपदि द्रुते' इत्यमर । प्रसन्नतां प्रसादं नयामि प्रापयामि । अत्रानुप्रासोऽलङ्कारः । भाषा इसलिये में पुत्रप्राप्ति के बाधक पापकर्मों का नाश कर डालने के लिये समग्र इन्द्रियो को कष्टप्रद, घोर तपस्या कर, अविच्छिन्न दृढभक्ति से चन्द्रशेखर भगवान् शङ्कर को शीघ्र ही प्रसन्न करूंगा ।

( ११८ ) तथेति देव्या कृतसम्मतिस्ततः समस्तचिन्तां विनिवेश्य मन्त्रिषु । अभूदनुष्ठानविशेषतत्परः स पार्थिवः प्रार्थितवस्तुसिद्धये ॥४३॥ अन्वयः ततः देव्या इति तथा कृतसम्मतिः सः पार्थिवः समस्तचिन्तां मन्त्रिषु विनिवेश्य प्रार्थितवस्तुसिद्धये अनुष्ठानविशेषतत्परः अभूत् । व्याख्या ततस्तदनन्तरं देव्या पत्न्या 'एतद् भवदुक्तं पुत्रोत्पत्तिरूपं कार्यं तपस्साधनेन स्या- दिति हेतोस्तथैवास्तु, इति कृता सम्मतिर्येन स कृतनिश्चयस्स पार्थिवो राजा समस्तां संपूर्णां चिन्तां राज्यभारचिन्तां मन्त्रिष्वमात्येषु विनिवेश्य विनिक्षिप्य प्रार्थितस्याभीष्टस्य वस्तुनः पुत्रस्य सिद्धये प्राप्तयेऽनुष्ठानविशेषे विशिष्टानुष्ठाने तत्पर आसक्तोऽभूत् । 'तत्परे प्रसितासक्तौ' इत्यमरः । भाषा इसके अनन्तर, अपनी रानी की सम्मति मिलने पर, उस राजाने राजकाज का बोझ मन्त्रियों को सौंपकर अभीष्ट पुत्रप्राप्ति की सिद्धि के लिये विशिष्ट अनुष्ठान करना प्रारम्भ कर दिया । तपः स्वहस्ताहृतपुष्पपूजित-त्रिलोचनः स्थण्डिलवासधूसरः । तथा स राजर्षिरमाधयद्यथा महर्षयोऽस्मादपकर्षमाययुः ॥४४॥ अन्वयः सः राजर्षिः स्वहस्ताहृतपुष्पपूजितत्रिलोचनः स्थण्डिलवासधूसरः (सन्) तथा तपः असाधयत् यथा अस्मात् महर्षयः अपकर्षम् आययुः । व्याख्या स राजर्षि ऋषिव्रतगृहीतो नृपः स्वहस्ताभ्यां स्वकराभ्यामाहृतानि समानीतानि च तानि पुष्पाणि कुसुमानि तैः पूजितोऽभ्यर्चितस्त्रिलोचनः शंकरो येन सः स्थण्डिले भूमिविशेषे वासेन शयनादिना 'यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ' इत्यमरः । धूसरः सरजस्कस्तन् तपोग्रं तपस्तपश्चरणमसाधयत् कृतवान्

( ११३ ) यथा येन कारणेनाऽस्माद्वाष्पान्महर्षयोऽपि महर्षयोऽप्यपकर्यं निम्नकोटिमायु- प्राप्ताः । स्थण्डिल चत्वर, यागार्थं परिष्कृता भूमिस्तत्र शयनादिकं महद्द्भुतम् । भाषा अपन हाथो से तोडे हुए फूलो से शकर की पूजा करने वाले उस राजर्षि ने स्थण्डिल पर ही निवास करने से धूली से - धूसरित होकर ऐसी उग्र तपस्या की जिससे महर्षि लोग भी तपस्या में इससे नीचे हो गये । स सौकुमार्यैकधनोऽपि सोढवाँस्तपोधनैर्दुष्प्रसहं परिश्रमम् । रराज तीव्रे तपसि स्थितो नृपः शशीव चण्डद्युतिमण्डलातिथिः ॥४५॥ अन्वयः सौकुमार्यैकधनः अपि सः तपोधनैः दुष्प्रसहं परिश्रमं सोढवान् । तीव्रे तपसि स्थितः नृपः चण्डद्युतिमण्डलातिथिः शशी इव रराज । व्याख्या सुकुमारस्य भावस्सौकुमार्यं तदेव धनं द्रव्यं यस्य स परमकोमलाङ्गोऽपि तप एव धनं येषां तैस्तपस्विभिर्दुःखेन यथाकथञ्चित्प्रकर्षेण सोढुं शक्यं सहनायोग्य- मित्यर्थं परिश्रमं क्लेशं सोढवान्सहृत । तीव्रेऽत्युग्रे तपसि तपस्यायां स्थितो वर्तमानो नृपो भूपतिश्चण्डद्युतिस्सूर्यस्तस्य मण्डलस्य चक्रवालस्य 'चक्रवालं तु मण्डलम्' इत्यमरः । अतिथिसमीपस्थ शशी चन्द्र इव रराज शुशुभे । यथा सूर्यमण्डल- गतश्चन्द्रः कान्तिहीनो भवति तथैव परिश्रमाधिक्येन स नृपो म्लानस्सञ्जात इति भावः । अत्रोपमालङ्कारः । भाषा स्वभाव से ही अत्यन्त सुकुमार होने पर भी उसने तपस्वियों से भी अत्यन्त कठिनता से सहने योग्य क्लेश सहन किया । घोर तपस्या में लगा हुआ वह राजा सूर्यमण्डल के निकट आए हुए चन्द्रमा के समान म्लान दिखाई पड़ने लगा । नृपं कठोरव्रतचर्यया कृशं समाहिता सा नरनाथसुन्दरी । निशातशाणोल्लिखितं समन्वगात् प्रभेव माणिक्यमतीव निर्मला ॥४६॥

( १२० ) अन्वयः कठोरव्रतचर्यया कृशं नृपं सा समाहिता नरनाथसुन्दरी निशातशाणो- ल्लिखितं माणिक्यम् अतीव निर्मला प्रभा इव समन्वगात् । व्याख्या कठोरं कठिनञ्चतद्व्रतञ्च तपस्यारूपं कठोरव्रतं तस्य चर्याऽऽचरणं तया कृशं कृशतनुं नृपं राजानं सा प्रसिद्धा समाहिता समाधौ स्थिता, निश्चलचित्तेन तपः- परायणा नरनाथस्य राज्ञः सुन्दरी पत्नी निशातस्तीक्ष्णः शाणः कषोपलं 'शाणस्तु निकषः कषः" इत्यमरः । तेनोल्लिखितं घर्षितमत एव कृशं माणिक्यं मणिम- र्तीवात्यन्तं निर्मला स्वच्छा प्रभेव कान्तिरिब समन्वगादनुसृतवती । यथा माणिक्यस्य कषे घर्षणेन कृशता प्रभा चानुसरति तथैव कठोरव्रतेन कृशं नृपं तस्य राज्ञी समनुसृतवतीति भावः । अत्रोपमालङ्कारः । भाषा जिस प्रकार तेज सान पर चढ़ाए हुए माणिक्य में कृशता के साथ अत्यन्त उज्ज्वल चमक भी आजाती है उसी प्रकार कठोर तपस्या से कृश उस राजा का, तपस्या में लगी रानी बराबर निश्चल चित्त से साथ देती रही । मृगाङ्कचूडस्य किरीटनिम्नगा-तरङ्गवातैरिव वारितश्रमा । उपाचरत्सम्यगसौ नराधिपं स्वहस्तलिप्तेश्वरमन्दिराजिरा ॥४७॥ अन्वयः स्वहस्तलिप्तेश्वरमन्दिराजिरा मृगाङ्कचूडस्य किरीटनिम्नगातरङ्गवातैः वारितश्रमा इव असौ नराधिपं सम्यक् उपाचरत् । व्याख्या स्वहस्तेन निजकरेण लिप्तं गोमयादिनोपलिप्तमीश्वरस्य शिवस्य मन्दिरस्या- जिरमङ्गणं यया सा मृगाङ्कश्चन्द्रश्चूडे ललाटे यस्य तस्य शिवस्य किरीटरूपा मुकुटरूपा 'मुकुटं किरीटं पुंनपुंसकम्' इत्यमरः । या निम्नगा गङ्गानदी तस्यास्तरङ्गवातैर्वीचिपवनैर्वारितोऽपनीतः श्रमः क्लेशो यस्याः सा वारितश्रमे- तादृशी नृपपत्नी राजमहिषी नराधिपं राजानं सम्यक् प्रकारेण सिषेवे सेवितवती । अत्रोत्प्रेक्षालङ्कारः ।