विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( २३९ ) धनुष चला कर सब राजाओं को जीत कर लक्ष्मी प्राप्त करने वाला श्री के समान अत्यधिक पराक्रमी, विक्रम चिह्न वाला अर्थात् विक्रमाङ्कदेव पुत्र पाया है । तेनैव युवराजत्वं समारोप्य यशस्विना । एष साम्राज्यभारस्य वोढा सोमेश्वरः कृतः ॥५४॥ अन्वयः यशस्विना तेन एव एषः सोमेश्वरः युवराजत्वं समारोप्य साम्रा- भारस्य वोढा कृतः । व्याख्या यशः कीर्तिर्विद्यते यस्य स यशस्वी तेन यशस्विना कीर्तिमत्ता तेन विक्रमाङ्क देवेन एषोऽयं सोमेश्वरो मम ज्येष्ठपुत्रः सोमदेवो युवराजत्वं युवराजपद समारोप्य प्रतिष्ठाप्य साम्राज्यस्य भारतस्य सकलराज्यकार्यभारस्य वोढा धारयिता कृतः । भाषा उस यशस्वी विक्रमादित्य ने ही मेरे ज्येष्ठ पुत्र सोमदेव को युवराज पद पर बैठाकर सम्पूर्ण राज्य कार्य का भार उसको सौंप दिया । इति मे कृतकृत्यस्य माहेश्वरशिरोमणेः । गिरिजानाथनगरे समारोहणमुत्सवः ॥५५॥ अन्वय इति कृतकृत्यस्य माहेश्वरशिरोमणेः मे गिरिजानाथनगरे समारोहणम् उत्सवः (अस्ति) । व्याख्या इतीत्थं कृतानि साधितानि कृत्यानि सर्वकार्याणि येन स तस्य कृतकृत्यस्य सम्पादितसांसारिकसकलकृत्यस्य महेश्वरस्य शिवस्येमे इति माहेश्वराः शङ्कर- भक्तास्तेषां शिरोमणिर्मूर्द्धन्यस्तस्य मे मम गिरिजायाः पार्वत्या नाथस्य शिवस्य
( २४० ) पुरे शिवलोके कैलासे समारोहणं गमनमुत्सव आनन्दोऽस्ति । कृतकृत्यस्य मेऽधुना शिवलोकप्राप्तिः प्रभूतप्रमोदावहेति भाव । भाषा इस प्रकार सांसारिक समस्त कार्यों को सफलता पूर्वक सम्पादन करने वाले और शङ्कर के भक्त शिरोमणि, मेरा, पार्वतीपति महादेव की कैलास नगरी में जाना, उत्सव है । आत्मानमुन्मदद्वाःस्थ—गलहस्तितसेवकाः । अगम्यमपि दैवस्य विदन्ति हतपार्थिवाः ॥५६॥ अन्वयः उन्मदद्वाःस्थगलहस्तितसेवकाः हतपार्थिवाः आत्मानं दैवस्य अगम्यम् अपि विदन्ति । व्याख्या द्वारि तिष्ठन्तीति द्वाःस्था द्वारपाला उन्मदा मदोन्मत्ताश्च ते द्वास्थाश्चो- न्मदद्वास्थास्तैर्गलहस्तिता गले हस्तं दत्वा दूरं प्रापितास्सेवका राजभक्ता यैस्ते हता अज्ञानेन हताः सम्यग्ज्ञानपराङ्मुखाः पार्थिवा राजान आत्मानं स्वं दैवस्य विधेः 'विधिर्विधाने दैवे च' इत्यमरः । अगम्यमप्यविषयमपि विदन्ति जानन्ति । अज्ञानिनो राजानो मदेन दैवमपि तिरस्कुर्वन्तीति भावः । भाषा मदोन्मत्त दरबानों द्वारा गर्दनिया देकर राजभक्त लोगों को हटा देने वाले अज्ञानी राजा लोग अपने को दैव से भी अगम्य समझने लगते हैं । अर्थात् दुरभिमान से दैव भी उनका कुछ बिगाड़ नहीं सकता ऐसा समझने लगते हैं । मम शुद्धे कुले जन्म चालुक्यवसुधाभृताम् । कियत्पोऽपि गताः श्रोत्र-मैत्रीं शास्त्रार्थविप्रुषः ॥५७॥ अन्वयः चालुक्यवसुधाभृतां शुद्धे कुले मम जन्म कियत्यः शास्त्रार्थविप्रुषः अपि श्रोत्रमैत्रीं गताः ।
( २४१ ) व्याख्या चालुक्यस्य चालुक्यवंशस्य वसुधां पृथ्वीं बिभ्रति पालयन्तीति चालुक्यवसुधा- भृतस्तेषां चालुक्यभूपालानां शुद्धे निर्मले कुले वंशे मम जन्म जनुः । 'जनुर्जन्म- जन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । कियत्यो बहुसंख्याताः शास्त्रार्थविप्रुषोऽपि शास्त्रार्थरूपजलविन्दवोऽपि 'पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्' इत्य- मरः । श्रोत्रेण कर्णेन सह मैत्रीं परिचयं गताः प्राप्ताः कर्णगोचरं गता इत्यर्थः । श्रेष्ठचालुक्यवंशे जन्मना सह शास्त्रार्थोऽपि कर्णगोचरीकृत इति भावः । भाषा चालुक्यवंशीय राजाओं के विशुद्ध कुल में मेरा जन्म हुआ है। शास्त्रार्थ के कितने ही छींटे मेरे कानों में पड़े हैं। अर्थात् शास्त्रार्थों का भी मैंने बहुत श्रवण किया है । जानामि करिकर्णान्त-चञ्चलं हतजीवितम् । मम नान्यत्र विश्वासः पार्वतीजीवितेश्वरात् ॥५८॥ अन्वयः (अहं) हतजीवितं करिकर्णान्तचञ्चलं जानामि । मम पार्वतीजीविते- श्वरात् अन्यत्र विश्वासः न । व्याख्या अहं हतजीवितमधमजीवनं करीणो हस्तिनः कर्णस्तस्यान्तः प्रान्तभागस्त- द्वच्चञ्चलमस्थिरं जानामि वेद्मि । 'क्षणभङ्गुराः प्राणाः' इति श्रुतेः । मम पार्वत्या गिरिजाया जीवितस्य जीवनस्येश्वरः शिवस्तस्मादन्यत्र स्थाने विश्वासो ममाऽऽस्था नाऽस्ति । सत्यत्वस्य स्थिरत्वस्य नित्यत्वस्य वा सत्ता शिवं विहाय नाऽन्यत्र । अतः शिवसायुज्यप्राप्तिरेव मम मुख्यमुद्देश्यमिति भावः । भाषा मैं इस अधम जीवन को हाथियों के कान के प्रान्त भाग के सदृश चञ्चल समझता हूँ। मेरी पार्वतीपति शंकर को छोड़ कर अन्यत्र आस्था नहीं है। परंतु मैं शिवसायुज्य की कामना करता हूँ। १६
( २४२ ) उत्सङ्गे तुङ्गभद्रायास्तदेष शिवचिन्तया । वाञ्छाम्यहं निराकर्तुं देहग्रहविडम्बनाम् ॥५९॥ अन्वयः तत् एषः अहं तुङ्गभद्रायाः उत्सङ्गे शिवचिन्तया देहग्रहविडम्बनां निराकर्तुं वाञ्छामि । व्याख्या तत्तस्मात्कारणात् शिवसायुज्यप्राप्तिहेतोः एषोऽहं तुङ्गभद्रायास्तुङ्गभद्रा- नाम्न्या नद्या उत्सङ्गेऽङ्के तटे इत्यर्थः । शिवचिन्तया शिवध्यानेन देहस्य शरीरस्य ग्रहो ग्रहणं धारणमित्यर्थः । तस्य विडम्बनामुपद्रवं जन्मग्रहणदुःखं निराकर्तुमपनेतुं वाञ्छामि समभिलषामि । शिवसायुज्येन पुनर्जन्मग्रहणदुःखं मा भवत्वित्यभिलषामीति भावः । भाषा शिवसायुज्य मुक्ति प्राप्त होने के लिये मैं तुङ्गभद्रा नदी के तट पर शङ्कर का ध्यान करते हुए फिर से जन्म लेने के दुःख को सदा के लिये दूर कर देने की कामना रखता हूँ । यातोऽयमुपकाराय कायः श्रीकण्ठसेवया । कृतघ्नव्रतमेतस्य यत्र तत्र विसर्जनम् ॥६०॥ अन्वयः अयं कायः श्रीकण्ठसेवया उपकाराय यातः । एतस्य यत्र तत्र विसर्जनं कृतघ्नव्रतम् । व्याख्या अयं कायो देहः श्रीकण्ठस्य शिवस्य सेवया परिचर्ययोपकाराय स्वाभीष्ट- सिद्ध्यर्थं यातो गतः । एतस्य वपुषो यत्र तत्र तीर्घादन्यत्र विसर्जनं त्यागः कृतं घ्नन्तीति कृतघ्नाः परोपकारविस्मरणशीलास्तेषां व्रतमनुष्ठानं कार्यमित्यर्थः । कृतघ्ना एव येनाभीष्टसिद्धिं साधयन्ति तस्य कार्यनिष्पादनानन्तरं तादृशं योग्यं समादरं न कुर्वन्ति । एवमेवानेन देहेन शिवसेवाद्धारा मम महानुपकारो जातस्तस्मादस्य तीर्थस्थानेष्वेव परित्यागो युक्ततर इति भावः ।
( २४४ ) नान्तरं गत्वा तत्र किञ्चिद्विश्रम्य पुनः प्रस्थानैस्तां दक्षिणापथस्य दक्षिणप्रदेशस्य जाह्नवीं गङ्गां तुङ्गभद्रामबीभद्राक्षीद् ददर्श । भाषा इसके बाद अपने प्रेमियों के प्यारे उस राजा ने मार्ग में थोडे ही ठहरावों (पडावो) को देकर दक्षिणापथ की गङ्गा, तुङ्गभद्रा नदी का दर्शन किया । तुङ्गभद्रा नरेन्द्रेण तेनामन्यत मानिना । तरङ्गहस्तैरुत्क्षिप्य क्षिपन्तीवेन्द्रमन्दिरे ॥६३॥ अन्वयः मानिना तेन नरेन्द्रेण तुङ्गभद्रा तरङ्गहस्तैः उत्क्षिप्य इन्द्रमन्दिरे क्षिपन्ती इव आमन्यत । व्याख्या मानश्चित्तसमुन्नतिरस्याऽस्तीति मानी तेन मानिना 'गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः' इत्यमरः । तेन नरेन्द्रेणाऽऽहवमल्लदेवनृपेण तुङ्गभद्रा दक्षिणापथगङ्गा तरङ्गा वीचय एव हस्ताः करास्तैस्तरङ्गरूपकरैरुत्क्षिप्योर्ध्वं प्रक्षिप्येन्द्रस्य मन्दिरे स्वर्गे (राजानं) क्षिपन्तीव प्रापयन्तीवाऽमन्यत मेने । अत्रोत्प्रेक्षालङ्कार । तुङ्गभद्रायां तरङ्गाभिरूपहस्तैर्नराणां स्वर्गलोकप्रापणस्य क्रियाया उत्प्रेक्षणात् । भाषा उस उन्नत चित्त राजा ने, तुङ्गभद्रा नदी, अपने तरङ्गरूपी हाथों से मानो उसे स्वर्ग में इन्द्र के मन्दिर में उछाल रही हो, ऐसा समझा । उद्दण्डा तेन डिण्डीर-पिण्डपङ्क्तिरदृश्यत । विमानहंसमालेव प्रहिता पद्ममद्मना ॥६४॥ अन्वयः तेन उद्दण्डा डिण्डीरपिण्डपङ्क्तिः पद्मसद्मना प्रहिता विमानहंसमाला इव अदृश्यत ।
( २४६ ) तत्रावतीर्य धौरेयो धीराणां धरणीपतिः । स्नात्वा चण्डीशचरणद्वन्द्वचिन्तापरोऽभवत् ॥६६॥ अन्वयः धीराणां धौरेयः धरणीपतिः तत्र अवतीर्य स्नात्वा चण्डीशचरणद्वन्द्व- चिन्तापरः अभवत् । व्याख्या धीराणां धैर्यवतां धौरेयो धुरीणः 'धूर्वहे धुर्य धौरेयधुरीणास्सधुरन्धराः' इत्यमरः । धरण्या धरायाः 'धरा धरित्री धरणी' इत्यमरः । पतिः स्वामी भूपतिराहवमल्लदेवस्तत्र तुङ्गभद्रानद्यामवतीर्य प्रविश्य स्नात्वा स्नानं विधाय चण्ड्याः पार्वत्या ईशः पतिश्चण्डीशस्तस्य शिवस्य चरणद्वन्द्वस्य पादयुगलस्य चिन्ता ध्यानं तत्र परो लग्नः शिवचरणयुगलध्यानतत्परोऽभवत् । भाषा धीरों का अग्रणी वह आहवमल्लदेव राजा तुङ्गभद्रा नदी में उतर कर और स्ना करके शकर भगवान् के चरण युगल के ध्यान में तत्पर हो गया । अदत्त चापरिच्छिन्नमखिन्नः काञ्चनोत्करम् । न कृच्छ्रेऽपि महाभागास्त्यागव्रतपराङ्मुखाः ॥६७॥ अन्वयः अखिन्नः (सः) अपरिच्छिन्नं काञ्चनोत्करं अदत्त च । महाभागाः कृच्छ्रे अपि त्यागव्रतपराङ्मुखाः न (भवन्ति) । व्याख्या अखिन्नः प्रसन्नमानसः स अपरिच्छिन्नममितं काञ्चनस्य सुवर्णस्योत्करं समूहं अदत्त च दानपात्रेभ्यः समर्पितवांश्च । महाभागा महाभाग्यवन्तो जनाः कृच्छ्रेऽपि कष्टे समापतितेऽपि त्यागव्रताद्दानानुष्ठानात्पराङ्मुखा विमुखा न भवन्ति । अत्रार्थान्तरन्यासो नामालङ्कारः । "सामान्यं वा विशेषो वा यदन्येन समर्थ्यते । यत्तु सोऽर्थान्तरन्यासस्साधर्म्येणेतरेण वा" ।
( २४७ ) भाषा और उस राजा न प्रसन्न चित्त से अपरिमित सुवर्ण के ढेरो का दान महा भाग्यशाली लोग कष्ट आन पर भी दानानुष्ठान से विमुख नही हैं प्रविश्य कण्ठदध्नेऽथ सरित्तोये जगाम सः। कल्लोलतूर्यनिर्घोषै—श्चन्द्रचूडामणेः पुरीम् ॥६८ अन्वय. अथ सः कण्ठदध्ने सरित्तोये प्रविश्य कल्लोलतूर्यनिर्घोषैः चन्द्रचूडाम[णेः] पुरीं जगाम । व्याख्या अथानन्तरं स राजा कण्ठदध्ने गलप्रमाणे कण्ठदघ्नमित्यत्र कण्ठ प्रमाणं मस्येति विग्रहे 'प्रमाणे द्वयसज्दघ्नञ्मात्रच' इति सूत्रेण दघ्नच् प्रत्यय सरितस्तुङ्गभद्रानद्यास्तोये जले प्रविश्य गत्वा कल्लोला उल्लोला 'महत्सूल्लोल- कल्लोलौ' इत्यमरः । एव तूर्याणि वाद्यविशेषा "तुरही" इति भाषायां प्रसिद्धा । तेषां निर्घोषैश्शब्दैस्सह चन्द्र एव हिमांशुरेव 'हिमांशुश्चन्द्रमाश्चन्द्र इन्दु कुमुदबान्धव' इत्यमरः । चूडामणिशिरोभूषणं यस्य तस्य शिवस्य पुरीं कैलास जगाम प्राप्तवान् । भाषा अनन्तर तुङ्ग भद्रा नदी म गल तक पानी में खड़े होकर लहरा के ऊंचे २ शब्द रूपी तुरही की ध्वनि के साथ वह राजा शवर की कैलास नगरी में चला गया । पद्ययुग्मेन राजकुमारभावस्थां वर्णयति कविः— इत्युक्त्या गिरते तत्र क्षुतनेत्राम्बुदुर्द्दिनः । हतासिधेनुः पार्श्वस्थैः साक्रन्दगलकन्दलः ॥६६॥ स्वभागादार्द्रभावेन पितृस्नेहाच्च तादृशः । तथा रुरोद वपुषा भृशंलुलुठितेन सः ॥७०॥
( २४८ ) अन्वयः इति उक्त्वा तत्र विरते (सति) कृतनेत्राम्बुदुर्द्दिनः पार्श्वस्थैः हृतासिधेनुः सान्द्रन्दद्गलकन्दलः सः स्वभावात् आर्द्रभावेन तादृशः पितृस्नेहात् च भूपृष्ठलुठितेन वपुषा तथा रुरोद । व्याख्या इति पूर्वोक्तमुक्त्वा कथयित्वा तत्र दूते विरते विश्राममुपगतवति सति कृतं सम्पादितं नेत्राम्बुभिर्नयननिर्गताश्रुजलैर्दुर्द्दिनं मेघावृतदिवसो येन सः 'मेघच्छन्नेऽह्नि दुर्द्दिनम्' इत्यमरः । अश्रुवृष्टिं कुर्वन्नित्यर्थः । पार्श्वे तिष्ठन्तीतो पार्श्वस्थास्तैः समीपचरैर्जनै हृता गृहीता असिधेनुश्छुरिका यस्य स 'छुरिका चासिधेनुका' इत्यमरः । आक्रन्देनाऽर्त्तनादेन सहितो गल एव कन्दलो नालो यस्य सः राजकुमारः स्वभावात्प्रकृत्यैवाऽऽर्द्रभावेन स्निग्धभावेन 'भावः सत्तास्वभावा- भिप्रायचेष्टात्मजन्मसु' इत्यमरः । तादृक्स्तथाभूतादनिर्वचनीयात्पितृस्नेहाच्च पितृप्रेम्णश्च भुवः पृष्ठे भूपृष्ठे भूमितले लुठितमितस्ततः परावर्तितं तेन वपुषा शरीरेण 'गात्रं वपु संहननं शरीरं वर्त्म विग्रहः' इत्यमरः । तथावं वक्ष्यमाण- प्रकारेण रुरोद रोदनं कृतवान् । भाषा इस प्रकार कह कर दूत के चुप होने पर अपने आंखो के आंसुओ से मेघ के ऐसी वृष्टि करने वाला, पास के लोगो ने कही दुख से वह अपना प्राणान्त न करले इस भय से जिसकी छुरी छीन ली है ऐसा फुक्काफाड कर रोने वाला, वह राजकुमार, स्वभाव से ही कोमल हृदय होने से तथा वैसे पितृस्नेह से जमीन पर लोट २ कर इस प्रकार विलाप करने लगा । एवंविधदुराचार—गृहीतनियमं यमम् । मन्यते स्म यथा वंशे तिग्मांशुराप कण्टकम् ।।७१।। यथा तिग्मांशुः अपि एवंविधदुराचारगृहीतनियमं यमं वंशे कण्टकं मन्यते स्म । व्याख्या स तथा रुरोवेति पूर्वपद्योक्तेन तथाशब्देन सहाऽन्वस्थो यथा शब्दः साकाङ्क्षः। स तथा रुरोद यथा येन कारणेन तिग्मांशुः सूर्यो यमपिताऽप्येवंविधदुराचाराय
तस्य पितृमारणरूपाय्याचाराय धर्मपरायणानां मृत्यव इत्यर्थः । गृहीतः स्वीकृतो नियमो निश्चयो येन तं यमं कृतान्तं वंशे सूर्यवंशे कण्टकं कुलकलङ्कं मन्यतेस्म ज्ञातवान् । भाषा राजकुमार विक्रमाङ्कदेव के वैसे रोने से यमराज के पिता सूर्य भी, उसके पिता के सदृश धर्मात्माओं को जान से मार डालने का दुराचार का काम करने के नियमी, अपने पुत्र यमराज को सूर्यवंश का कलङ्क समझने लगे । एतद्दुःखानभिज्ञेभ्यो दिनेभ्यः स्पृहयन्मुहुः । दिवसोऽपि यथात्मानं मन्दभाग्यममन्यत ॥७२॥ अन्वयः यथा एतद्दुःखानभिज्ञेभ्यः दिनेभ्यः मुहुः स्पृहयन् दिवसः अपि आत्मानं मन्दभाग्यम् अमन्यत । व्याख्या यथेति पदं पूर्वोक्तस्य तथा रुरोदेति वाक्यस्य तथा शब्देनान्वेति । स तथा रुरोद यथा येन कारणेनेताद्दुःखान्याहवमल्लमृत्युजन्यराजकुमारविलापादि- दुःखानि तेषामनभिज्ञा अपरिचितास्तेभ्यो दिनेभ्यो दिवसेभ्यो मुहुः पुनःपुनः स्पृहयन्नभिलषन् दिवसोऽपि राजकुमारकृतविलापदिवसोऽप्यात्मानं स्वं मन्दभाग्यं हतभाग्यममन्यत मेने । अन्यदिवसा मत्तो भाग्यवन्तो यैरित्थं महद्दुःखं नानु- भूतमिति चिन्तयति स्मेति भावः । भाषा राजकुमार विक्रमाङ्कदेव के वैसे रोने से वह दिन भी, ऐसे क्लेश से अनभिज्ञ अन्य दिवसों के समान ही हम होते तो अच्छा था, ऐसी अभिलाषा करते हुए अपने को हतभाग्य समझने लगा । “विशेषकम्” त्रिभिः पद्यैरथ वाक्यसमाप्तिर्भवति तद्विशेषकं संदानितकं तिलकं वा । अथ कालकलाः स्थित्वा कियतीरप्यसौ तथा । अचिन्तयदविश्रान्त-बाष्पसंतानदुर्दिनः ॥७३॥
( २५० ) अन्वयः अथ अविश्रान्तबाष्पसन्तानदुर्दिनः असौ कियतीः अपि कालकलाः तथा स्थित्वा अचिन्तयत् । व्याख्या अथ पितृमरणदुर्घटनावश्रवणानन्तरमविश्रान्तं निरन्तरं बाष्पसंतानस्याऽ- श्रुधाराया दुर्दिनं वृष्टिर्यस्मिन्सः, असौ विक्रमाङ्कदेवः कियतीरपि काश्चिदपि कालकलाः समयकलाश्चिरकालपर्यन्तं तथा तेनैव प्रकारेण स्थित्वोपविश्याऽ- चिन्तयत् चिन्तयामास । भाषा बाद में लगातार आंसुओं की झड़ी बरसाने वाले विक्रमाङ्कदेव ने चिरकाल तक उसी दशा में रहने के बाद विचार किया । तवादिकूर्म कर्माणि निषेधन्ति सुखस्थितिम् । प्रयाहि शेष निष्पेषादस्थिपञ्जरशेषताम् ॥७४॥ अन्वयः हे आदिकूर्म कर्माणि तव सुखस्थितिं निषेधन्ति । हे शेष निष्पेषात् , अस्थिपञ्जरशेषतां प्रयाहि । व्याख्या हे आदिकूर्म ! हे कच्छपावतार ! कर्माणि भाग्यानि तव सुखस्थितिं सुखेन स्थितिमाहवमल्लकर्तृकभूभारहरणस्य निरन्तरं जायमानत्वादल्पभू- भारधारणेन भूवस्तले सुखपूर्वकवासं निषेधन्ति न मन्यन्ते । हे शेष । नागराज ! निष्पेषाद्वाशोऽभावादूभूभारस्याऽधिक्यात्तस्य धारणेन तवाऽङ्गाना- मत्यन्तसम्मर्दनादस्थिपञ्जरः शेषोऽवशिष्टांशो यस्य स तस्य भावोऽस्थिपञ्जर- शेषता तामधिकभारवहनजन्यदुःखातिशयान्मांसांशपेणाऽस्थिमात्रावशिष्टस्वरूपं प्रयाहि प्राप्नुहि । भाषा हे आदिकूर्म ! हे विष्णु के अवतार रूप । दुर्भाग्य से तुम को अब चैन से रहने को नहीं मिल सकता । क्योंकि राजा आहवमल्लदेव के
( २५१ ) रहने से पृथ्वी का बोझ कम होकर, तुम्हारा भूभार कम होने से तुम्हें जो मिलता था यह अब उस राजा के मर जाने से तुम्हें प्राप्त न हो सकेगा शेष ! हे नागराज ! राजा आहवमल्लदेव के मर जाने से पृथ्वी का अधिक होकर उससे पीसे जाने के कष्ट से तुम्हारा मांस सूख कर हड्डिय अवशिष्ट रह जाएंगी । दिग्गजास्त्यजत स्वैर-क्रीडाविहरखादरम् । संभूय भूयः सर्वेऽपि धारयन्तु धरामिमाम् ॥७५॥ अन्वयः हे दिग्गजाः स्वैरक्रीडाविहरखादरं त्यजत सर्वे अपि भूयः संभूय इमां धरां धारयन्तु । व्याख्या हे दिग्गजाः ! हे दिक्कुञ्जराः ! स्वैरं स्वच्छन्दं यथास्यात्तथा यत्क्रीडासु विहरणं विहारार्थं संचलनं तस्मिन्नादरं स्नेहं त्यजत मुञ्चत । सर्वेऽपि भवन्त- स्सकला भूयः पुनरपि शत उत्पत्तिकालात्प्रागिव संभूय मिलित्वेमां धरां पृथ्वीं धारयन्तु वहन्तु । इदानीं युष्माकं पृथ्वीभारवहनकर्मणि सहायको राजाऽऽहव- मल्लदेवो भुवं परित्यज्य परलोकं गत इति भावः । भाषा हे दिग्गजो ! राजा आहवमल्लदेव के रहने से पृथ्वी स्थिर थी इसलिये तुम लोग आनन्द से स्वच्छन्द क्रीडा में घूमते थे । किन्तु अब राजा आहव- मल्लदेव पृथ्वी छोड़ कर परलोक को सिधार गये हैं, इसलिये अपना स्वच्छन्द क्रीड़ा प्रेम छोड़ो और सब मिलकर इस पृथ्वी को सम्हालो । बाहुराहवमल्लस्य सुवर्णस्तम्भविभ्रमः । पुरन्दरधुरां धर्तुं धात्रा व्यवहितः कृतः ॥७६॥ अन्वयः धात्रा सुवर्णस्तम्भविभ्रमः आहवमल्लस्य बाहुः पुरन्दरधुरां धर्तुं व्यव- हितः कृतः ।
( २५२ ) व्याख्या धाता विरञ्चिना 'धाताब्जयोनिर्द्रुहिणो विरञ्चि कमलासन' इत्यमरः। सुवर्णस्यस्तम्भ सुवर्णस्तम्भ काञ्चनस्तम्भस्तस्य विश्रमो विलासो भ्रान्तिर्वा यस्मिन् स काञ्चनस्तम्भसदृश आहवमल्लस्याऽऽहवमल्लदेवनृपस्य बाहुर्भुज पुरन्दरस्य पुरुहूतस्य 'वृद्धश्रवाःशुनासीरः पुरुहूत पुरन्दर' इत्यमरः। धुरा राज्यकार्यभार स्वर्गराज्यकार्यभारमित्यर्थः। धर्तुं वोढु व्यवहित कृतोऽस्मा- द्भूलोकान्महददूरे स्थापितः। नृपस्य पुण्यातिशयेन देवत्वप्राप्त्या पुरन्दरस्य राज्यकार्ये साहाय्यप्रदानार्थं ब्रह्मणा स व्यवहित इति भावः। काव्यलिङ्गालङ्कारः। भाषा ब्रह्मान्, सोने के खम्भ की शोभा वाले राजा आहवमल्लदेव के बाहु को स्वर्ग के राज्य कार्य में इन्द्र की सहायता करने के लिय इस पृथ्वी पर से दूर हटा दिया है। अर्थात राजा को इस पृथ्वी पर से स्वर्ग में हटा दिया है। निजासु राजधानीषु स्थितिं दधतु पार्थिवाः। तादृशः पुनरुत्साहो वीरसिंहासने कुतः ॥७७॥ अन्वयः पार्थिवाः निजासु राजधानीषु स्थितिं दधतु ! कुतः पुनः वीरसिंहासने तादृशः उत्साहः। व्याख्या पृथिव्या ईश्वरा पार्थिवा नृपा निजासु स्वीयासु राजधानीषु प्रधाननगरेषु स्थिति सुखेन निवास दधतु कुर्वन्तु । कुत कस्माद्धेतो पुन भूयो वीराणा सिंहासन सङ्ग्रामभूमिस्तस्मिन् तादृश पूर्वानुभूत उत्साहश्चित्तस्योन्नति । सम्प्रति नृपस्याऽऽहवमल्लदेवस्य युद्धप्रियस्याऽभावात्सर्वै राजानो युद्धभय त्यक्त्वा सुखेन निवसन्त्विति भाव । भाषा राजा लोग अब सुख से अपनी अपनी राजधानियो में रहें। आहवमल्लदेव राजा के न रहन से अब युद्ध भूमियो में वैसा उत्साह कहाँ। अर्थात् युद्धप्रिय राजा आहवमल्लदेव के न रहने से युद्ध का भय छोडकर सब राजा निश्चिन्त हो कर अपनी अपनी राजधानी में सुख से रहें।
( २५३ ) तद्बाहुदण्डविश्लेषे किं पौरुष करिष्यसि । प्रतिपालकवैधुर्यात् प्रताप परितप्स्यसे ॥७८॥ अन्वयः हे पौरुष ! तद्बाहुदण्डविश्लेषे किं करिष्यसि । हे प्रताप प्रतिपालकवैधुर्यात् परितप्स्यसे । व्याख्या हे पौरुष ! हे पुरुषार्थ ! "पुंभावे तत्क्रियायां च पौरुषम्' इत्यमरः । तस्याऽऽहवमल्लदेवनृपस्य बाहुदण्डो भुजदण्डस्तस्य विश्लेषे वियोगे किं करिष्यसि न किमपीत्यर्थं । तद्बाहुदण्डाभावे पुरुषार्थस्य सत्त्वं नास्तीति भावः । हे प्रताप ! हे तेजः । 'स प्रतापः प्रभावश्च यत्तेजः कोपदण्डजम्' इत्यमरः । प्रतिपालकस्य संरक्षकस्याऽऽश्रयदातुस्तदित्यर्थः । राज्ञ आहवमल्लदेवस्य वैधुर्या- द्राहित्यात् परितप्स्यसे दुःखजन्यसंतापं प्राप्तोऽसि । आहवमल्लदेवे नृपे गते सति पौरुषप्रतापयोराश्रयाभावात्परिताप इति भावः । अत्र विनोक्तिनामाऽलङ्कारः । भाषा हे पुरुषार्थ ! आहवल्लदेव राजा के वियोग में अब तू क्या करेगा । हे प्रताप ! आश्रय के अभाव में तू दुःखी हो रहा है। अर्थात् आहवमल्लदेव राजा के न रहने से पौरुष और प्रताप दोनों ही निराधार हो गये । पद्मे पद्माकरानैव पुनः सद्मत्वमानय । अयं त्वया पतिभ्रंश-संतापोऽन्यत्र दुःसहः ॥७६॥ अन्वयः हे पद्मे ! पुनः पद्माकरान् एव सद्मत्वम् आनय । त्वया अयं पति- भ्रंश-संतापः अन्यत्र दुःसहः । व्याख्या हे पद्मे ! हे लक्ष्मि ! 'लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया' इत्यमरः । पुन भूयोऽपि पद्मानां कमलानामाकरास्तत्समूहास्तानेव सद्मत्वं गृहत्व नवासस्थानत्वमानय प्रापय । त्वया भवत्याऽयमनुभूयमान पत्युर्नृपस्य भ्रंशो
( २५४ ) विनाशस्तस्य सन्तापो परयभावजन्यपरितापोज्यत्र कमलेभ्योऽन्यस्थाने दुस्सहो दुःखेन सोढुं शक्यः । कमलानां संयोग एव विरहावसरे वियोगाग्निसन्तापं निरस्य शरीरे शैत्यमापादयतीत्यतः पुनस्त्वया पूर्वनिवासस्थानं कमलमेवाऽऽश्रयणीयमिति भावः । अत्रोत्तरार्धेन पूर्वोक्तकमलसमाश्रयसमर्थनादर्थान्तरन्यासः । भाषा हे लक्ष्मी ! अब कमलो को ही फिर से अपना निवासस्थान बना ! स्वामी के नाश का यह दुःख कमलों के अतिरिक्त अन्य स्थान में रह कर सहन करना अत्यन्त कठिन है । अर्थात् पति विरह जनित सन्ताप को शान्त करने के लिये कमल जनित शैत्य ही लाभदायक हो सकता है । श्लाघ्यं शेषफणाचक्र-विटङ्कात्पतनं भुवः । अथवा स्नेहपाण्डित्यं मृत्पिण्डस्येदृशं कुतः ॥८०॥ अन्वयः भुवः शेषफणाचक्रविटङ्कात् पतनं श्लाघ्यम् । अथवा मृत्पिण्डस्य ईदृशं स्नेहपाण्डित्यं कुतः (सम्भवति) । व्याख्या भुवः पृथिव्याः पतिविनाशे शेषस्याऽनन्तसर्पराजस्य 'शेषोऽनन्तो वासुकिस्तु' इत्यमरः । फणानां स्फटानां 'स्फटायां तु फणा द्वयोः' इत्यमरः । चक्रं समूह एव विटङ्कमुच्चशिखरं 'कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्' इत्यमरः । तस्मात्पतनं पतनेन मरणं श्लाघ्यं वरम् । अथवा पक्षान्तरे मृत्पिण्डस्य मृत्तिका- शरीरस्य 'पिण्डो बोले बले सान्द्रे देहागारंकदेशयोः । देहमात्रे निवापे च गोल- सिल्हकयोरपि' इति मेदिनी । ईदृशं विशिष्टं स्नेहः प्रेम तस्य पाण्डित्यं विचार- प्राचुर्यं कुतः कस्माद्धेतोः सम्भवति नैव स्यादचेतनत्वादिति भावः । भाषा पृथ्वी को तो पृथ्वी पति के मर जाने पर शेष राज अनन्त के फनों के समूह रूपी उच्चशिखर से गिर कर मर जाना ही उचित है । परन्तु मिट्टी का शरीर रखने वाली पृथ्वी में इस प्रकार का प्रेम या सद्विचार कैसे सम्भव है । अर्थात् अचेतन पृथ्वी में इस प्रकार का उच्च प्रेमभाव उत्पन्न होना ही असम्भव है ।
( २५५ ) अपूर्वः कोपि दुर्मेधाः शङ्के वेधाः समुत्थितः । पुराणः क्लेशनिष्पन्नां स्वकृतिं नाशयेत्कथम् ॥८१॥ अन्वयः कः अपि अपूर्वः दुर्मेधाः वेधाः समुत्थितः (इति) शङ्के । पु (वेधाः) क्लेशनिष्पन्नां स्वकृतिं कथं नाशयेत् । व्याख्या कोऽपि कश्चिन्न पूर्वं प्राचीन इत्यपूर्वोऽर्वाचीनो दुष्टा दोषान्विता मे बुद्धिर्यस्य स दुर्बुद्धिर्वेधा ब्रह्मा 'स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड् विधि इत्यमर । समुत्थित संभूत (इति) शङ्के तर्कयामि । पुराण प्राचीनौ वेध ब्रह्मा क्लेशेन महत्प्रयासेन निष्पन्ना सम्पादिता स्वकृति राजाऽऽहवमल्लदेवोत्पाद नकार्यं कथं नाशयेत् समुन्मूलयेत् । अत्रोत्प्रेक्षालङ्कार । भाषा मालूम होता है कि कोई नवीन, बुद्धिहीन ब्रह्मा आ गया है । क्यो कि यदि पुराना ब्रह्मा होता तो परिश्रम से बनाई हुई राजा आहवमल्लदेव रूपी अपनी वस्तु को कैसे नष्ट करता । अहो शौर्यमहो धैर्यं चित्रं गाम्भीर्यविभ्रमाः । यत्सत्यं क्वचिदेकत्र गुणास्ते दुर्लभाः पुनः ॥८२॥ अन्वयः शौर्यं अहो ! धैर्यं अहो ! गाम्भीर्यविभ्रमाः चित्रम् ! यत् क्वचित् एकत्र पुनः ते गुणाः दुर्लभाः (तत्) सत्यम् । व्याख्या शौर्यं नृपाहवमल्लदेवनिष्ठं वीरत्वमहो आश्चर्यकारि । धैर्यं नृपाहवमल्लदेव- निष्ठं धीरत्वमहो अद्भुतम् । गाम्भीर्यस्य मर्यादाया विभ्रमा विलासाश्चित्रमा- श्चर्यावलम्बिन । यत् तदिति क्वचिदित्यादिवाक्यपरामर्शकम् । क्वचित् कस्मिंश्चिदेकत्रैकस्मिन् स्थाने आधारे वा पुनस्ते पूर्वोक्तास्सर्वे गुणा शौर्यादयो दुर्लभा दुष्प्रापास्तत् सत्यमवितथम् । आहवमल्लदेवे राज्ञि पञ्चत्व गते सति
( २५६ ) समेषां पूर्वोक्तानां गुणानां समवायः पुनः कस्मिंश्चिदेकस्मिन् मनुष्ये दुर्लभ इति सत्यमिति भावः । भाषा अरे वह शौर्य ! अरे वह धैर्य ! अरे वे मर्यादा के कार्य ! यह सत्य है कि ये सब गुण एकही मनुष्य में फिर से नही मिल सकते जो आहवमल्ल देव में थे । कुण्ठी कृतारिशस्त्रस्य तस्य वज्रोपमाकृतेः । भाग्यानामेव मे दोषा-देष जातः परिक्षयः ॥८३॥ अन्वयः मे भाग्यानाम् एव दोषात् कुण्ठीकृतारिशस्त्रस्य वज्रोपमाकृतेः तस्य एषः परिक्षयः जातः । व्याख्या मे मम भाग्यानामेवदुर्भाग्यानामेवदोषादपराधात् कुण्ठीकृतानि व्यर्थीकृतान्य- रीणां शत्रूणां शस्त्राणि प्रहरणानि येन स तस्य व्यर्थीकृतशत्रुप्रहरणस्य वज्रस्य कुलिशस्य 'ह्रादिनीवज्रमस्त्रीस्यात्कुलिशं भिदुरं पविः । शतकोटिः स्वरुः शंबो दम्भोलिरशनिर्द्वयोः' इत्यमरः । उपमा सादृश्यं यस्यां सा वज्रोपमाकृतिकठि- नाऽऽकृतिर्देहो यस्य स तस्य वज्रोपमाकृतेर्वज्रवदतिकठोरशरीरस्य तस्याऽऽहवम- ल्लदेवस्य एष उपस्थितः परिक्षयो विनाशो जातः । भाषा मेरे ही दुर्भाग्य से शत्रुओं के शस्त्रों को कुण्ठित कर देने वाले और वज्र के समान अति कठोर शरीर वाले मेरे पिता आहवमल्लदेव राजा की मृत्यु हुई है । पाठान्तरम् । तदेव पूर्वोक्तश्लोकार्थं प्रकारान्तरेण वर्णयति कविः । मद्भाग्यदोषादेवैष जाने जातः परिक्षयः । अन्वयः एषः परिक्षयः मद्भाग्यदोषात् एव जातः (इति) जाने ।
( २५८ ) व्याख्या प्रधावन्त्योऽतितीव्रवेगेनाऽऽपतन्त्यः समुद्रपक्षे वहन्त्यः सम्मुखा अभिमुखा अनेका बह्व्यो वाहिन्यः सेना. पक्षे नद्यः 'वाहिनी नर्तकीदूत्यो स्रवन्त्यामपि वाहिनी' इत्यमरः । तासां गाहने विलोडने क्षमस्समर्थस्तथाविधस्तादृशः सत्त्वस्य बलस्य सत्त्वगुणस्य वा पक्षे सत्त्वानि जलजन्तवस्तेषां राशिः 'सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावान्यभावे बले प्राणेषु जन्तुषु' इति हेमचन्द्रः । निधिरम्भोधिरेव समुद्र इव दुष्प्रापो दुर्लभः । तीव्रवेगेन सम्मुखं समागच्छन्तीनां नदीनां गाहने समर्थः, जलजन्तूनां निधिसमुद्र इव तीव्रवेगेन सम्मुखं समागच्छन्तीनां सेनाना विलोडने समर्थ बलवान् सत्त्वगुणयुक्तो राजाऽऽहवमल्लदेवसदृशो नरो दुर्लभ इति भावः । अत्र श्लिष्टोपमालङ्कारः। भाषा वेग से सम्मुख आने वाली नदियो को अपने में मिला लेने में समर्थ, जलजन्तुओ के निधि समुद्र के समान, वेग से सम्मुख आने वाली सेनाओं को मथ डालने में समर्थ, सत्यगुण या बल का निधि राजा आहवमल्लदेव के ऐसा पुरुष दुर्लभ है । आर्येण सौकुमार्यैक-भाजनेन हहा कथम् । अयं विषादवज्राग्निरसहात मया विना ॥८६॥ अन्वयः सौकुमार्यैकभाजनेन आर्येण अयं विषादवज्राग्निः मया विना कथम् असहात, हहा । व्याख्या सौकुमार्यं कोमलता मार्दवं वा तस्यैकं भाजनं पात्रं तेन सोकुमार्यैकभाजनेन स्नेहार्द्रपरममृदुस्वभावेनाऽऽर्येण पूज्येन ज्येष्ठभ्रात्रा सोमदेवेनाऽयमनुभूयमानो विषाद एव पितृमरणशोक एव वज्राग्निः कुलिशवदविषहदुःखदहनो मया विना ममानुपस्थितौ कथं केन प्रकारेणाऽसहात सोढः । हहा इति खेदे । अहमेव ज्येष्ठ- भ्रातुरतिप्रियोऽस्मि । दुःखकाले चाऽतिप्रियवस्तुनिरीक्षणेन मानसे शान्तिस्स- ञ्जायते, दु खसहनस्य क्षमताऽपि संपद्यते । ममानुपस्थितौ कथं मे भ्राता तद्दुःखं सहने समर्थो जातः स्यादिति भावः ।
( २५९ ) भाषा
- हाय ! अत्यन्त कोमल हृदय, मेरे बड़े भाई सोमदेव ने इस शो काग्नि को मेरे वहाँ न रहने पर कैसे सहन किया होगा। अर्थात् दु प्रियवस्तु के पास रहने से दुख का वेग कम हो जाता है। मैं उसका अ प्रिय हूँ। अतः मेरी अनुपस्थिति में उसने इस दुख को कैसे सहन किया होग साक्रन्दमिति चान्यच्च स संचिन्त्य पुनः पुनः। शनैर्विवेकदीपेन पंन्थानं प्रत्यपद्यत ॥८७॥ अन्वयः सः इति अन्यत् च पुनः पुनः साक्रन्दं संचिन्त्य विवेकदीपेन शनैः पन्थानं प्रत्यपद्यत । व्याख्या स विक्रमाङ्कदेव इति च पूर्वोक्तं विषयञ्चान्यञ्च किञ्चिन्मनोगतञ्च पुनः पुनर्भूयोभूयस्साक्रन्दं सविलापं यथास्यात्तथा संचिन्त्य विचार्य विवेक एव सदस- द्विचार एव दीपः प्रकाशकारकस्तेन सदसद्विचारप्रकाशेन शनैः क्रमशः पन्थानं मार्गं स्वस्थतां प्रत्यपद्यत प्राप्तवान्। विवेकप्रकाशेन शोकतमो निरस्य शनैः यथाकथञ्चित् स्वस्थो बभूवेति भावः। भाषा वह विक्रमाङ्कदेव पूर्वोक्त तथा अन्य भी कुछ मानसिक बातों का रोते हुए बार बार विचार कर धीरे धीरे विवेक रूपी दीप के प्रकाश से (शोक रूपी अन्धकार को दूर कर) रास्ते पर आया। अर्थात् कुछ स्वस्थ हुआ। यथाविधि विधायाथ संस्थितस्य पितुः क्रियाम् । अग्रजालोकनोत्कण्ठा-प्रेरितः सोऽचलत्पुरः ॥८८॥ अन्वयः अथ सः संस्थितस्य पितुः क्रियां यथाविधि विधाय अग्रजालोकनो- त्कण्ठाप्रेरितः (सन्) पुरः अचलत्।
( : २६० : व्याख्या अथ किञ्चित्स्वास्थ्यप्राप्त्यनन्तरं स विक्रमाङ्कदेवः संस्थितस्य मृतस्य 'परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः' इत्यमर । पितुर्जन्मकस्य क्रिया तर्पणादि- कविधिं शास्त्रविधानमनतिक्रम्य वर्तत इति यथाविधि शास्त्रमर्यादानुकूलं विधाय कृत्वाऽग्रजस्य ज्येष्ठभ्रातुरवलोकने दर्शने उत्कण्ठ्योत्कटेच्छया प्रेरितो नियोजितस्तन् पुरोऽग्रे कल्याणपुरममार्गऽचलत् प्रतस्थे । भाषा कुछ स्वस्थ होने के अनन्तर, अपने मृत पिता की शास्त्रानुसार तर्पणादि क्रियाकर्म कर वह विक्रमाङ्कदेव, अपने बड़े भाई सोमदेव से मिलने की उत्कण्ठा से प्रेरित होकर कल्याणपुर के मार्ग पर आगे बढा । कियद्भिरपि सोऽध्वानमुल्लङ्घ्य दिवसैस्ततः । निःशब्दसैन्यसंघात-सहितः प्राविशत्पुरीम् ॥८६॥ अन्वयः ततः निःशब्दसैन्यसंघातसहितः सः कियद्भिः अपि दिवसैः अध्वानम् उल्लङ्घ्य पुरीं प्राविशत् । व्याख्या ततः कल्याणनगरं प्रति प्रस्थानानन्तरं निःशब्दाः (कु लेन) स्वनमकुर्वाणाः सैन्याः सैनिकास्तेषां सघातस्सङ्घस्तेन सहितो युक्तः स विक्रमाङ्कदेवः कियद्भिरपि कतिपयैरेव दिवसैर्दिनेरध्वानं पन्थानमुल्लङ्घ्य समतिक्रम्य पुरीं कल्याणनगरं प्राविशत् प्रविष्टः । भाषा इसके अनन्तर शब्द रहित अर्थात् बाजे गाजे से रहित, सेना समूह के सहित कुछ ही दिनों में रास्ता पार कर वह कल्याणपुर में प्रविष्ट हुआ । सरोजिनीव हंसेन नयनेव नरेन्द्रता । कविना सुखगोष्ठीव चन्द्रेणेव विभावरी ॥६०॥
२६१ :) लक्ष्मीरिव प्रदानेन कवित्वेनेव वाग्मिता । मेने तेनापवित्रेव पित्रा विरहिता पुरी ॥६१॥ अन्वयः तेन पित्रा विरहिता पुरी, हंसेन विरहिता सरोजिनी इव, नयेन विरहिता नरेन्द्रता इव, कविना विरहिता सुरसगोष्ठी इव, चन्द्रेण विरहिता विभावरी इव, प्रदानेन विरहिता लक्ष्मीः इव, कवित्वेन विरहिता वाग्मिता इव अपवित्रा मेने । व्याख्या तेन विक्रमाङ्कदेवेन पित्राऽऽहवमल्लदेवेन विरहिता वियुक्ता पुरी कल्याणपुरी हंसेन मरालेन विरहिता शून्या सरोजिनीव कमलिनीव, नयेन नीत्या विरहिता विहीना नरेन्द्रतेव राज्यलक्ष्मीरिव राजकर्मवेत्यर्थः । कविना सहृदयेन पण्डितेन विरहिता रिक्ता सुखस्याऽऽनन्दस्य रसस्य लक्षणया तदनुभवस्य तदनुभवकर्तुर्गोष्ठीव सभेव, चन्द्रेणेन्दुना विरहिता हीना विभावरीव रात्रिरिव कवित्वेन कविकर्म- णाऽलौकिकचमत्काराधायककाव्येनेत्यर्थः । विरहिता विना वाग्मितेव वाक्प्रावी- ण्यमिवाऽपवित्राऽमेध्याऽरमणीयेत्यर्थः । मेने बुद्धा । मालोपमा-विनोक्त्यो- रङ्गाङ्गितयोः सङ्करः । भाषा उसने पिता से रहित उस कल्याणपुर को, हंस से रहित कमलिनी, नीति से रहित राज्यकार्य, कवि से रहित रस भरी बातों से रसास्वाद देने वाली सभा, चन्द्रमा से रहित रात, दान से रहित सम्पत्ति और उत्तम काव्य रचना से रहित वाक्पटुता के समान, अपवित्र अर्थात् अरमणीय समझा । युगुलकम्—युग्मकम् १ । अग्रे समागतेनाथ मानितः सोऽग्रजन्मना । सह तेनैव सक्लेशं विवेश नृपमन्दिरम् ॥६२॥ अन्वयः अथ अग्रे समागतेन अग्रजन्मना मानितः सः तेन एव सह नृपमन्दिरं तं विवेश । १ युग्मकलक्षण ४२ श्लोकटिप्पण्या द्रष्टव्यम् ।