भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( २१५ ) अन्वयः तद्दन्तिपदसंघट्टत्रुटन्मौक्तिकशुक्तिकः अम्बुधिः भयोद्भ्रान्तहृदय- स्फुटनभ्रमं चक्रे । व्याख्या तस्य विक्रमाङ्कदेवस्य दन्तिनो हस्तिन 'दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विप' इत्यमर । तेषा पदाना चरणाना सघट्ट आमर्दस्तेन त्रुटन्ति स्फुटन्ति मौक्तिकानि मुक्ताफलानि यासु ता शुक्तयो मुक्तास्फोटा 'मुक्तास्फोटः स्त्रियां शुक्ति' इत्यमर । यस्मिन् सोऽम्बुधि सागरो भयेन त्रासेनोद्भ्रान्त विह्वलं यद्धृदयं तस्य स्फुटन विच्छेदस्तस्य भ्रम भ्रान्ति चक्रे । शुक्तिस्फोटनजनित- शब्देन समुद्रस्य हृदय स्फुटति किमिति प्रेक्षकाणा भ्रान्तिर्जातेति भाव । अत्र भ्रान्तिमानलङ्कार । भाषा उसके हाथियो के पाव के नीचे दब कर टूटने वाली मोतियो की सीपो से अर्थात् उनके शब्दो से, प्रेक्षको को, भय से विह्वल समुद्र का हृदय ही तो नही फट रहा है, ऐसा भ्रम हुआ । अन्विष्यन्मरणोपायं दुःखात्तत्सैन्यलुण्ठितः । कालकूटं हरग्रस्तं शुशोच पयसां निधिः ॥१६॥ अन्वयः तत्सैन्यलुण्ठितः पयसा निधिः दुःखात् मरणोपायम् अन्विष्यन् हरग्रस्तं कालकूट शुशोच । व्याख्या तस्य विक्रमाङ्कदेवस्य सैन्यैर्यत्प्रलुण्ठितं हस्त्यश्वपदात्याहृतमेतद्भावित पयसां जलानां निधि समुद्रो दुःखाच्चमूसङ्क्षोभजन्यक्लेशान्मरणस्य मृत्योरुपायं यत्नमन्विष्यन् ध्यायन् हरेण शिवेन ग्रस्त स्वगले स्थापितं कालकूटं, कालकूटंनाम पूर्वं समुद्रे स्थितमुग्रं विषं शुशोच शोकेन सस्मार । मरणस्य सरलोपायमन्यं कञ्चिदमन्यमान कालकूटस्यैव तादृश सामर्थ्यं निदिध्यानानन्तरस्य या हरग्रस्त्वेक-

( २१८ ) भाषा विक्रमाङ्कदेव के हाथियों के, समुद्र के भीतर घुस कर उसका मन्थन करने से, घबड़ा कर उनके दाँतों में लपटे हुए सर्पों से ऐसा प्रकट होता था मानों हाथियों ने समुद्र की अतड़ियाँ खींच ली हों । तद्भयात्सिंहलद्वीप-भूपतिः शरणागतः । विशश्रामाश्रमपदे लोपामुद्रापतेर्मुनेः ॥२०॥ अन्वयः तद्भयात् शरणागतः सिंहलद्वीपभूपतिः लोपामुद्रापतेः मुनेः आश्रमपदे विशश्राम । व्याख्या तस्माद्विक्रमादित्याद्भूय भीतिस्तस्माच्छरणमागतो रक्षार्थं तत्समीपे समुप- स्थितः सिंहलद्वीपस्य सीलोननाम्ना प्रसिद्धस्य द्वीपस्य भूपतिर्नृपतिर्लोपामुद्रायाः अगस्त्यपत्न्याः पतेर्मुनेरगस्त्यस्य 'अगस्त्यः कुम्भसम्भवः । मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी' इत्यमरः । आश्रमपदे विशश्राम विश्रान्तिमाजगाम । सिंहलद्वीपस्याऽपि युद्धं विना विजयोऽनेन कृत इति भावः । अगस्त्याश्रमप्राप्त्या तस्य तापसाश्रमस्वीकारोऽपि सूचितः । भाषा उसके भय से शरण में आया हुआ सीलोन का राजा, अगस्त्यमुनि के आश्रम में विश्राम करने लगा अर्थात् राजपाट छोड़कर तपस्या करने लगा । धुनानेन धनुश्चित्रं कृतास्तेन मुखेन्दवः । गाङ्गकुण्डपुरस्त्रीणां गलत्कुण्डलमण्डलाः ॥२१॥ अन्वयः धनुः धुनानेन तेन गाङ्गकुण्डपुरस्त्रीणां मुखेन्दवः गलत्कुण्डलमण्डलाः कृताः (इति) चित्रम् ।

( २१९ ) व्याख्या धनुश्चापं धुनोनेन संचालयता टङ्कारयता वा तेन विक्रमाङ्कदेवेन 'गाङ्ग- कुण्डस्य गाङ्गकुण्डचोलपुरनामकस्य पुरस्य नगरस्य स्त्रीणां ललनानां मुखेन्दव आननचन्द्रा गलन्ति भूमौ पतन्ति कुण्डलमण्डलानि कर्णभूषणसमूहा येभ्यस्ते स्रस्तोत्तंससमूहाः कृता विरचिता इति चित्रमाश्चर्यकरम् । गाङ्गकुण्ड-चोलपुरस्य विजयः कृतस्तेन युद्धे मृतानां पतीनां नाशात् स्त्रीणामाभूषणत्यागः संजात इति भावः । अथवा कर्णफोटकेन भयंकरधनुष्टङ्कारेण पूरिताना कर्णाना शम्पना- तद्गतभूषणपतनं जातमिति भावः । अत्रधनु कम्पनेन कुण्डलाना निपत- नोक्तेयाऽसङ्गत्यलङ्कारः । "कार्यकारणयोभिन्नदेशतायामसंगतिः" इति लक्षणात् । भाषा उसके धनुष की टङ्कार करते रहने से गङ्गकुण्ड चोलपुर की स्त्रियों के मुखचन्द्र, कान के आभूषणों से रहित हो गए, यह एक आश्चर्य की बात है । अर्थात् धनुष के कर्ण के लिये असह्य, टङ्कारों से कान का पर्दा फटने लगने से कानों को जोर से हिलाने पर, उनमें के आभूषण गिर गए । अथवा पतिमरण से आभूषण धारण करना बन्द हो गया । यशःकूर्चिकया चित्रं दिग्भित्तिषु निविष्टया । द्रविडीगण्डफलके तेनावर्त्यत पाण्डिमा ॥२२॥ अन्वयः तेन दिग्भित्तिषु निविष्टया यशःकूर्चिकया द्रविडीगण्डफलके पाण्डिमा अवर्त्यत इति चित्रम् । व्याख्या तेन कुमारेण विक्रमाङ्कदेवेन दिश एव भित्तयस्तासु निविष्टया संप्राप्तिया यशसः स्वकीर्ते कूर्चिका यशोरूपश्वेतीकरणद्रव्यपदार्थस्य लेपनयन्त्रं तया द्रविडीनां द्राविडाङ्गनानां गण्डफलके कपोलस्थले पाण्डिमा शुक्लत्वमवर्त्यत प्रावर्त्यत शुक्लत्वं कृतमित्यर्थः । इति चित्रमाश्चर्यकरम् । पतिमरणात् खेदात् १ राजेन्द्र चोल (गंगैगोण्ड) निर्मापिता चोलराजधानी । कावेरीनद्यास्तटे विद्यमानाऽसीत् । सम्प्रति गङ्गकुण्डचोलपुरनाम्ना प्रसिद्धा ।

४. चन्द्रलेखा स्वयंवर व विवाह प्रसंग

० ( २२० )' शुद्धकुङ्कुमादिरक्तीकरणलेपाभावाच्च शुक्लत्वं जातमिति भावः । अत्राप्य- सङ्गत्यलङ्कारः ।

भाषा दिशा रूपी भीतों पर उसके यशरूपी सफेदी की कूची के फिरने से द्रविड़ देश की ललनाओं के कपोलस्थल सफेद पड़ गये, यह एक आश्चर्य की बात है । अर्थात् द्रविड़ देश के वीरों को मारडालने से उनकी स्त्रियों के कपोलस्थल दुःख से अथवा केसरिया चन्दन आदि का प्रयोग न होने से सफेद पड़ गये थे ।

गलितोत्तुङ्गशृङ्गत्वद् द्विषां तेन जिगीषुणा । अपि लूनशिरस्केव राजधानी व्यधीयत ॥२३॥

अन्वयः जिगीषुणा तेन द्विषां राजधानी अपि गलितोत्तुङ्गशृङ्गत्वात् लूनशिरस्का इव व्यधीयत ।

व्याख्या जेतुमिच्छुर्जिगीषुस्तेन जिगीषुणा विजयैषिणा तेन विक्रमाङ्कदेवेन द्विषां शत्रूणां 'द्विड्विपक्षाहितामित्र दस्युशात्रवशत्रवः' इत्यमरः । राजधानी धीयन्ते राजानोऽस्यामिति धानी, राज्ञो धानी राजधानी प्रधानपुरी अपि गलितानि भग्नानि सन्ति पतितान्युत्तुङ्गान्यत्युच्चानि शृङ्गाणि शिखराणि 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । यस्याः सा तस्या भावो गलितोत्तुङ्गशृङ्गत्वं तस्मात् कारणाल्लूनं छिन्नं शिरो मस्तकं यस्याः सा लूनशिरस्केव 'शेषाद्विभाषेति कप्' व्यधीयत सम्पादिता । तस्या अत्युच्चप्रासादशिखरपतनात् राजधानी छिन्नमस्तकेव भाति स्मेति भावः । अत्रोत्प्रेक्षालङ्कारः ।

भाषा विजय की इच्छा रखने वाले विक्रमाङ्कदेव ने शत्रु की राजधानी के ऊँचे २ शिखरों के टूट कर नीचे गिर पड़ने के कारण, मानो उसे भी सिर कटी बना दिया ।

तत्तत्प्रतापमवोचन्त वस्त्रैर्विगलदश्रुभिः । पुरन्ध्रयो नरेन्द्राणां जलाद्र्रैस्समतां गतैः ॥२४॥

( २२४ ) · इत्यमरः । सूत्रं भग्नावशेषचिह्नपररेखैव शेषोऽवशिष्टांशो यस्याः सा पक्षे प्रकर्षेणाऽऽकारे सूत्रमेव शेषो यस्याः साऽभूत् । श्लेषानुप्रणितः समासोक्तिरलङ्कारः । भाषा उस राजकुमार के भुजबल से त्रस्त और क्षणभर में जिसके बहुमूल्य रत्न नष्ट हो गए हैं ऐसी द्रविड़ राजा की राजधानी काञ्ची प्राकार (बाहरी दीवार) के नष्ट हो जाने से उसके चिह्न की लकीर मात्र शेष रह गई हो ऐसी हो गई थी । पक्ष में उस राजकुमार के बाहु से हिलाई गई द्रविड़ देश रूपी कामिनी की करधनी, हिलाने से बहुमूल्य रत्नों के गिर पड़ने के कारण, आकार में डोरा मात्र शेष रह गया हो, ऐसी हो गई थी । तेनानास्पदमात्मीय—प्रतापोत्कर्षरागिणा । चक्रेऽनङ्गप्रतापस्य १वेङ्गिभूपाङ्गनाजनः ॥२६॥ अन्वयः आत्मीयप्रतापोत्कर्षरागिणा तेन वेङ्गिभूपाङ्गनाजनः अनङ्गप्रतापस्य अनास्पदं चक्रे । व्याख्या आत्मनोऽयमित्यात्मीयः प्रतापः प्रभावस्तस्योत्कर्षोऽभिवृद्धिस्तस्य रागिणाऽ- भिलाषुकेण तेन राजकुमारेण वेङ्गिभूपस्याऽङ्गनाजनो रमणीसमूहोऽनङ्गप्रतापस्य कामदेवप्रभावस्याऽनास्पदमभाजनं चक्रे कृत । वेङ्गिभूपस्य पराजयादापति- सागरमग्नास्तदङ्गनाः कामसम्बन्धिविलासरतिक्रीडादीन् सकलान् सुखान्य्विस्मृत- वत्य इति भावः । अथवा पतिमरणात्तासां कामक्रीडा सर्वथा लुप्तेति भावः । भाषा अपने प्रताप का उत्कर्ष चाहने वाले उस राजकुमार ने वेङ्गिभूपाल की रानियों को कामदेव के प्रताप का अस्थान कर दिया । अर्थात् राजा के मर जाने से उनमें काम वासना लुप्त हो गई । १ वेंगिदेशो भारतस्य दक्षिणपूर्वे गोदावरीकृष्णानयोर्मध्ये विद्यमान आसीत् ।

( २२५ ) आक्रान्तरिपुचक्रेण १चक्रकोटपतेः परम् । लिखिताश्चित्रशालासु तेनामुच्यन्त दन्तिनः ॥३०॥ अन्वयः आक्रान्तरिपुचक्रेण तेन चक्रकोटपतेः चित्रशालासु लिखिताः दन्तिनः परम् अमुच्यन्त । व्याख्या आक्रान्तं समाक्रान्तं विजितमित्यर्थः । रिपुचक्रं शत्रुचक्रवालं येन तेन विजितारिसमूहेन तेन विक्रमाङ्कदेवेन चक्रकोटनामकस्थानस्य पतिः स्वामी तस्य चक्रकोटदेशाधिपत्य चित्राणां शालासु गृहेषु चित्रमन्दिरेषु लिखिताश्चित्रिता दन्तिनो गजाः परं केवलममुच्यन्त मुक्ताः । चक्रकोटपतेस्सकला गजा स्वायत्तीकृता इत्यर्थः । अत्र केवलं चित्रलिखिता गजा एव त्यक्ता इत्युक्त्या सर्वाऽपि गजसेना स्वायत्तीकृतेति प्रतीत्याऽर्थापत्तिरलङ्कारः । भाषा शत्रु समूह को जीतने वाले उस राजकुमार विक्रमाङ्कदेव ने चक्रकोट के राजा की चित्रशाला में चित्रित हाथियो को ही केवल छोड़ दिया अर्थात् उसके सव हाथी ले लिये । कृतकार्यः परावृत्य कियत्यप्यध्वनि स्थितः । अथ गम्यत्वमरतेरकस्मादेव सोऽगमत् ॥३१॥ अन्वयः अथ कृतकार्यः सः परावृत्य कियति अध्वनि अपि स्थितः (सन्) अकस्मात् एव अरतेः गम्यत्वम् अगमत् । व्याख्या अथ दिग्विजयानन्तरं कृतं कार्यं दिग्विजयलक्षणं येन सः सम्पादितोद्देश्यः १ वङ्गिदेशस्योत्तरतश्चक्रकोटनगरमासीत् । एतत्प्रदेशो हस्तिनामभिख्याता 'आइने अकबरी' पुस्तकेनाऽपि समर्थ्यते । १५

( २३२ ) भाषा उसके भुजबल ने चोलराजाओं के अन्त पुर की दरबानी, चञ्चल पूंछ रूपी दण्डे को धारण करने वाले सिंहों को सौंप दी । अर्थात् उस नगर से सब मनुष्यों के भाग जाने पर नगर के वीरान जंगल हो जाने से उसके अन्त पुर को गुफा समझ उसमें शेर रहने लगे । चिन्तया दुर्बलं देहं द्रविड़ो यत्पलायितः । संकटाद्रिदरीद्वार-प्रवेशे बहुमन्यत ॥२६॥ अन्वयः यत्पलायितः द्रविड़ः संकटाद्रिदरीद्वारप्रवेशे चिन्तया दुर्बलं देहं बहु अमन्यत । व्याख्या यस्माद्विक्रमाङ्कदेवात्पलायित समराङ्गण स्वगृहञ्च परित्यज्य द्रुतगति- मवलम्ब्य प्रधावितो द्रविड़ो द्रविड़देशनृप संकट सवाधमल्पावकाशमित्यर्थ । ‘संकट नातु सबाध’. इत्यमरः । यदद्रे पर्वतस्य दरीणा कन्दराणा ‘दरी तु कन्दरो वा स्त्री’ इत्यमरः । द्वार ‘स्त्री द्वार्द्वार प्रतीहार’ इत्यमरः । तस्य प्रवेशस्तस्मिन् पर्वतकन्दराणामल्पावकाशद्वारप्रवेशे चिन्तया पराजयचिन्तया दुर्बल सामर्थ्यहीनमत एव कृश देह शरीर बहुमन्यत प्रशंसितवान् । शरीरस्य स्थूलत्वेऽल्पावकाशाद्रिदरीद्वारे प्रवेशाभावे स्वसंरक्षणमसम्भवमिति स्वकृशत्वं प्रशंसितवानिति भावः । भाषा विक्रमाङ्कदेव के भय से घर दुवार छोड़ कर भागा हुआ द्रविड़ देश का राजा, पर्वत की कन्दराओं के सकुचित द्वार में (छिपने के लिये) घुसने योग्य, चिन्ता से कृश भये हुए अपने शरीर की बहुत प्रशंसा करने लगा । अर्थात् शरीर स्थूल होने से वह उस कन्दरा में न घुस सकता और उसको छिपने का अवसर न मिलता । इसलिये अपने दुबले पतले शरीर की सराहना करने लगा । दृश्यन्तेऽद्यापि तद्भीति-विद्रुतानां द्रुमालिषु । १अलकाश्चोलकान्तानां कर्पूरतिलकाङ्किताः ॥२७॥ १ अलिका इत्यपि पाठभेद ।

( २२३ ) अन्वयः द्रुमालिषु तद्भीतिविद्रुतानां चोलकान्तानाम् अलकाः अद्यापि कर्पूरति- लकाङ्किताः दृश्यन्ते । व्याख्या द्रुमाणां वृक्षाणामाल्यः पक्तयस्तासु द्रुमाणामाल्यो येषु वा घनेषु तस्माद्रा- जकुमाराद्भीतिभयं तया विद्रुतानां पलायितानां, चोलकान्तानां चोलदेशस्थका- मिनीनामलकाः केशपाशा अद्यापि कर्पूरेण कर्पूरमिश्रितेन तिलकेनाऽङ्किता शोभिताः दृश्यन्ते इति विरोधः । पक्षे कर्पूरनामकतिलकनामकवृक्षैराङ्किताः सम्बद्धा इति परिहारः । पतिमरणात्तद्भीतिविद्रुतानां स्त्रीणां अलकाः कर्पूर- तिलकेनाऽङ्किता दृश्यन्त इति विरोधस्तत्परिहारस्तु कर्पूरतिलकवृक्षेषु व्यासक्ता अलका इति भावः । अत्र श्लेषानुप्रणितो विरोधाभासालङ्कारः । भाषा उस राजा के भय से वृक्षों के समूह में से या जंगलों में से भागने वाली चोल देश की नारियों के केश आज भी कपूरमिश्रित तिलक से शोभित दिखाई देते हैं । विधवा होकर, भागने वाली स्त्रियों के केश में तिलक, इस विरोध के दूर करने के लिय उन स्त्रियों के कर्पूर और तिलक के वृक्षों से फंसे हुए केश दिखाई देते हैं ऐसा अर्थ करने से विरोध दूर हो जाता है । क्षणाद्विगलितानर्घ्य-पदार्था द्रविडचितेः । प्राकारसूत्रशेषाभूत् काञ्ची तद्बाहुकम्पिता ॥२८॥ अन्वयः तद्बाहुकम्पिता क्षणात् विगलितानर्घ्यपदार्था द्रविडक्षितेः काञ्ची प्राकार- सूत्रशेषा अभूत् । व्याख्या तस्य विक्रमाङ्कदेवस्य बाहुना भुजेन कम्पिता घर्षिता पक्षे सञ्चालिता क्षणात् क्षणमात्रादेव विगलिता भ्रष्टा पक्षे पतिता अनर्घ्यपदार्था बहुमूल्यरत्नादि- पदार्था यस्याः सा द्रविडक्षितेर्द्रविडराजपृथिव्याः काञ्ची तन्नामनगरी पक्षे रसना प्राकारस्य प्राचीरस्य 'प्राकारो वरणः सालः प्राचीरं प्रान्ततो वतिः'

( २२६ ) स विक्रमाङ्कदेवः परावृत्य निवृत्य कियत्यध्वन्यपि मार्गेऽपि स्थितस्सन् विजय- प्रदेशात्परावृत्य स्वदेशमार्गे कियदद्दूर समागतोऽपि सन्नकस्मादेवाशङ्कितोपनत- मरतेरुद्वेगस्य यन्त्यत्व पात्रत्वमगमत् प्राप्त. । भाषा बाद में दिग्विजय का कार्य सम्पन्न कर लौटते हुए मार्ग में कुछ दूर भी आजाने पर, वह अकस्मात् अशान्ति का पात्र बन गया अर्थात् वह उद्विग्न हो उठा। स शङ्कातङ्कमासाद्य स्फुरणाद्वामचक्षुषः । श्रेयोऽस्तु तातपादाना-मिति सास्रमवोचत ॥३२॥ अन्वयः सः वामचक्षुषः स्फुरणात् शङ्कातङ्कम् आसाद्य तातपादानां श्रेयः अस्तु इति सास्त्रम् अवोचत । व्याख्या स राजकुमारो वाम दक्षिणेतर चक्षुर्नयन तस्य वामनयनस्य स्फुरणाच्च- लनात् शङ्कया सन्देहस्याऽऽशङ्क भयमासाद्य प्राप्य तातपादाना पूज्यचरणाना (मम पितु.) श्रेय कल्याणमस्त्विति घचोऽखेनाऽश्रुणा सहित यथास्यात्तथाऽवोच- तोक्तवान् । भाषा बाईं आंख के फडकने से सन्देह से भयभीत होकर उसने आंसू बहाते हुए पिता जी का शुभ हो, ऐसा कहा । अद्दश्यैः कैश्चिदागत्य चिन्तया शून्यचेतसः । तस्यामङ्गलवार्तेव कापि कर्णे न्यधीयत ॥३३॥ अन्वयः अद्दश्यैः कैश्चित् इव आगत्य चिन्तया शून्यचेतसः तस्य कर्णे का अपि अमङ्गलवार्ता न्यधीयत ।

( २२७ ) व्याख्या अवृष्टपरदृष्टिगोचरैः कैश्चिदियाऽनिर्दिष्टनामकैरिवाऽऽगत्य संप्राप्य चिन्तयाऽऽ- ध्यानेन 'स्याच्चिन्तास्मृतिराध्यानम्' इत्यमरः । शून्यं चेतश्चित्तं यस्य तस्य विवेकरहितहृदयस्य 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । तस्य विक्रमाङ्कदेवस्य कर्णे श्रोत्रे काऽपि काचित् विचित्राऽप्यमङ्गलवार्ताऽशुभवृत्तान्तो न्यधीयत स्थापिता कथितत्यर्थः । भाषा प्रत्यक्ष पहिचान में न आने वाले लोगो के समान कुछ लोगो ने मानो आकर चिन्ता से शून्य हृदय उस राजपुत्र के कान में कोई अमङ्गल बात कही। शुभाशुभानि वस्तूनि संमुखानि शरीरिणाम् । प्रतिबिम्बमिवायान्ति पूर्वमेवान्तरात्मनि ॥३४॥ अन्वयः संमुखानि शुभाशुभानि वस्तूनि शरीरिणाम् अन्तरात्मनि प्रतिबिम्बम् इव पूर्वम् एव आयान्ति । व्याख्या संमुखानि सम्मुखमागतानि सन्निकटवर्तीनीत्यर्थः । शुभं मङ्गल्यमशुभममङ्गल्यं तानि मङ्गल्यामङ्गल्यरूपानि वस्तूनि घटनाः शरीरिणां प्राणिनामन्तरात्मनि प्रति- बिम्बमिव प्रतिच्छायामिव प्रागेवाऽऽयान्ति पूर्वमेव समागच्छन्ति । भवितव्यतायाः परिज्ञानं प्राणिनामन्तः प्रथममेव सूचितम्भवतीति भावः । भाषा निकट भविष्य में होने वाली शुभ और अशुभ घटनाएं प्राणियों के हृदय में प्रतिबिम्ब के समान पहिले ही प्रतिबिम्बित हो जाती हैं। अवगाहितनिःशेष-शास्त्रनिर्मलधीरपि । अकारणमसौ प्राप्तः कुमारो यदधीरताम् ॥३५॥

( २२८ ) अन्वयः यद् अवगाहितनिःशेषशास्त्रनिर्मलधी अपि असौ कुमारः अकारणम् अधीरतां प्राप्तः । व्याख्या यद्यस्मात् कारणादवगाहितानि विलोडितानि निःशेषशास्त्राणि सकलागमा- स्तैर्निर्मला विशदा धीर्बुद्धिर्यस्य सः 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । निर्मथितसकलशास्त्रतत्त्वतया विशदप्रज्ञोऽपि असौ कुमारो विक्रमाङ्क- देवोऽकारण कारणरहितं यथा स्यात्तथाऽधीरता चाञ्चल्य प्राप्त । सचिन्तो भूदित्यर्थः । यदित्यनेन पूर्वश्लोकार्थ सम्बध्यते । भाषा इस कारण से सम्पूर्ण शास्त्रों के अध्ययन से निर्मल बुद्धि वाला भी वह राजकुमार निष्कारण ही अधीर हो उठा । सर्वस्वदानमालोच्य दुर्निमित्तप्रशान्तये । अप्रयाणमसौ चक्रे ततः कृष्णानदीतटे ॥३६॥ अन्वयः ततः असौ दुर्निमित्तप्रशान्तये सर्वस्वदानम् आलोच्य कृष्णानदीतटे अप्रयाणं चक्रे । व्याख्या ततस्तदनन्तरमसौ प्रसिद्ध कुमारो दुर्निमित्तस्य वामाक्षिस्फुरणरूपदुश्शकुनस्य प्रशान्तये निवारणाय सर्वस्वस्य विजयापहृताना सकलवस्तूना दान पात्रेषु वितरणं समालोच्य निर्धार्य कृष्णानद्यास्तटे तीरेऽप्रयाणमवस्थान चक्रे । तत्रैव स्थितोऽभू- दित्यर्थ । भाषा इसके अनन्तर वह (बाँई आँख का फडकना रूप) बुरे शकुन की शान्ति के लिये, विजय में प्राप्त सब वस्तुओं का दान कर देने का निश्चय कर, कृष्णा नदी के तट पर रुक गया ।

( २२९ ) स तत्क्षणात्परिम्लान-मुखं संमुखपातिनम् । ददर्श राजधानीतः प्रधानं दूतमागतम् ॥३७॥ अन्वयः सः तत्क्षणात् राजधानीतः आगतं परिम्लानमुखं संमुखपातिनं प्रधानं दूतं ददर्श । व्याख्या स विक्रमाङ्कदेवस्तत्क्षणात् तस्मिन्नेव समये राजधानीत कल्याणपुरत आगत प्राप्त परिम्लान म्लानिपुरीत मुखमाननं यस्य त चिन्तितवदनमित्यर्थ । समुखमग्रे पतति समागच्छतीति समुखपाती त समुखमागच्छन्त प्रधान विशिष्ट दूतं सन्देशहर 'स्यात्सन्देशहरो दूत' इत्यमर । ददर्श दृष्टवान् । भाषा उसी समय उसने कल्याणपुर से आए हुए उदास मुख वाले सामने उपस्थित मुख्य दूत को देखा । अथ कुलकेन दूतं वर्णयति कविः— अप्रियावेदने जिह्वा-मवगम्य पराङ्मुखीम् । कथयन्तमिवानर्थं श्वासैरत्यर्थमायतैः ॥३८॥ अन्वयः अप्रियावेदने जिह्वा पराङ्मुखीम् अवगम्य अत्यर्थम् आयतैः श्वासैः अनर्थं कथयन्तम् इव (तं राजनन्दनः पप्रच्छ ।) इति द्विचत्वारिंशत्तमेन श्लोकेन सम्बन्धः । व्याख्या अप्रियस्याशुभवृत्तान्तस्याऽऽवेदने कथने जिह्वां रसनां पराङ्मुखीं विमुखो- मनुरुक्तामित्यर्थ । अवगम्य ज्ञात्वाऽत्यर्थमत्यन्तमायतैर्दीर्घं श्वासं श्वसनं करणैरनर्थमनिष्टं कथयन्तमिव विज्ञापयन्तमिव (राजनन्दन पप्रच्छेति द्विचत्वा- रिशत्तमश्लोकेन सम्बन्ध ) । अत्रोत्प्रेक्षालङ्कार ।

( २३० ) भाषा अप्रिय बात कहने को जीभ प्रस्तुत नहीं है ऐसा समझ कर मानो जोर २ से सास भर कर अनिष्ट बात कहने वाले (दूत को राजपुत्र ने पूछा ।) यह ४२ वे श्लोक से सम्बन्धित है । निर्यद्द्भिरतिमात्रोष्णै-र्मुखनिश्वासवायुभिः । निवेदयन्तं दुर्वार्ता-वज्रानलमुपस्थितम् ॥३९॥ अन्वयः निर्यद्भिः अतिमात्रोष्णैः मुखनिश्वासवायुभिः उपस्थितं दुर्वार्तावज्रानलं निवेदयन्तम् (दूतं पप्रच्छेत्यन्वयः ।) व्याख्या निर्यद्भिर्निगच्छद्भिरतिमात्रोष्णैः प्रकामोष्णैर्मुखस्य वदनस्य निश्वासवा- युभिः श्वसनपवनैरुपस्थितं विद्यमानं दुर्वार्ताऽशुभवृत्तान्त एव वज्राग्निः कुलिश- वह्निस्तं निवेदयन्तं प्रकटयन्तम् (दूतं पप्रच्छेति सम्बन्धः ।) मुखनिश्वासवायु- करणकदुर्वार्तारूपवज्राग्निप्रकटनक्रियाया दूते उत्प्रेक्षितत्वादुत्प्रेक्षा रूपकानु- प्राणिता । भाषा विद्यमान दुर्वार्ता रूपी वज्राग्नि को अपने मुख से हांपने में निकलने वाले अत्यन्त गरम २ श्वास रूपी वायु से प्रकट करने वाले (राजदूत को पूछा ।) अग्नि के संसर्ग से श्वासवायु का गरम हो जाना स्वाभाविक है । ककुभां भर्तृभक्तानां पृच्छन्तीनां नृपस्थितिम् । विद्रवन्तमिवाभान्तमत्यन्तत्वरितैः पदैः ॥४०॥ अन्वयः नृपस्थितिं पृच्छन्तीनां भर्तृभक्तानां ककुभाम् अत्यन्तत्वरितैः पदैः विद्रवन्तम् इव आभान्तम् (दूतं पप्रच्छ ।) व्याख्या नृपस्य राज्ञः स्थितिमवस्थां पृच्छन्तीनां जिज्ञासमानानां भर्तृभक्तानां स्वामि-

( २३१ ) स्वयूपराजभक्तानां ककुभां दिशां दिशो दिग्ङ्गनाः प्रतीत्यर्थः । 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । अत्यन्तत्वरितैरत्यन्तशीघ्रगामिभिः पदैश्चरणैर्विद्रवन्तमिव धावन्तमिवाऽभान्तं भ्राजमानम् (दूतं पप्रच्छ ।) भाषा राजा की खबर पूछने वाली, अपने स्वामी की भक्त दिशाओ की तरफ अत्यन्त वेग से भाग चलने वाले (दूत को देखा ।) अनर्थवार्तावहन—महापातकदूषितम् । गणयित्वेव धैर्येण सर्वथापि निराकृतम् ॥४१॥ अन्वयः अनर्थवार्तावहनमहापातकदूषितं गणयित्वा इव सर्वथा अपि धैर्येण निराकृतं (दूतं पप्रच्छ ।) व्याख्या अनर्थवार्ताया अनिष्टवृत्तान्तस्य वहनेन प्रापणेन धारणेन वा यन्महापातकं महापापं तेन दूषितं कलुषितहृदयं गणयित्वेव विदित्वेव धैर्येण धीरतया कर्त्रा सर्वथाऽपि सर्वप्रकारेणाऽपि निराकृतं परित्यक्तं (दूतं पप्रच्छ ।) अनिष्टवृत्तान्तधारण- महापापयेमं विगणय्य धैर्येणाऽपि त्यक्तसङ्गममित्यर्थः । अत्रोत्प्रेक्षालङ्कारः भाषा अशुभ वार्ता को धारण करने के पाप से मानो दूषित समझ कर धैर्य से एकदम परित्यक्त अर्थात् अधीर (दूतको पूछा ।) । कृतप्रणाममासन्नमथ तं राजनन्दनः । कुशलं तातपादानामिति पप्रच्छ वत्सलः ॥४२॥ अन्वयः अथ वत्सलः राजनन्दनः आसन्नं कृतप्रणामं तं तातपादानां कुशलम् इति पप्रच्छ ।

.( २३२ ) व्याख्या अथाभ्यन्तरं वत्सलः पितृविषयकस्नेहवान् राजनन्दनो राजकुमार आसन्नं समीपागतं कृतप्रणामं कृतनमस्कारं तं दूतं तातपादानां मम पितृचरणानां कुशलं क्षेममस्तीति 'कुशलं क्षेममस्त्रियाम्' इत्यमर । पप्रच्छ पृष्टवान् । भाषा इसके अनन्तर पास में आकर प्रणाम करने वाले उस दूत को पिता का प्रेम रखने वाले राजपुत्र ने पिता जी कुशल तो है, ऐसा पूछा । पञ्चभिः कुलकं, पञ्चश्लोकात्मकं कुलक'मत्र समासमित्यर्थः । उपविश्य शनैः पार्श्वे स निरुत्साहया गिरा । कथयामास नासाग्र-विलुठद्बाष्पशीकरः ॥४३॥ अन्वयः सः पार्श्वे शनैः उपविश्य नासाग्रविलुठद्बाष्पशीकरः (सन्) निरुत्साहया गिरा कथयामास । व्याख्या स दूतः पार्श्वे समीपे शनैर्मन्दमुपविश्य स्थित्वा नासाग्रे नासिकाग्रे विलुठन्ती वर्तमाना बाष्पशीकरा अश्रुबिन्दवो यस्यैवं भूतस्सन् 'शीकरोऽम्बुकणा स्मृताः' इत्यमरः । निरुत्साहयोत्साहशून्यया गिरा वाचा 'गीर्वाग्वाणी सरस्वती' इत्यमरः । कथयामास उवाच । भाषा वह दूत धीरे से पास में बैठ कर, नासिका के अग्रभाग में आंसू की बूंद से युक्त होकर अनुत्साहित वाणी से बोलने लगा । विधेहि दृढमात्मानं मावधीरय धीरताम् । कुमार व्यापिपत्यैष दुर्वाताप्रलयाम्बुदः ॥४४॥ १ छन्दोयदपद पद्य तेन मुक्तेन मुक्तकम् । द्वाभ्यान्तु युग्मक सदानितक त्रिभिरिष्यते । कलापक चतुर्भिश्च पञ्चभि कुलक मतम् । २ निरुत्सबमेत्यपि पाठ

( २३३ ) अन्वयः हे कुमार आत्मानं दृढं विधेहि धीरतां मा अवधीरय एषः दुर्वाती- प्रलयाम्बुदः व्यासिपर्ति । व्याख्या हे कुमार ! हे राजकुमार ! विक्रमाङ्कदेव ! आत्मानं स्वं दृढं निश्चलं विधेहि कुरु । धीरतां धैर्यं माऽवधीरय मा तिरस्कुरु । एष अग्रे कथनीयो दुर्वार्तारूपोऽमङ्गल्यवृत्तान्तरूपः प्रलयाम्बुदः प्रलयकालिकमेघो व्यासिपर्ति व्यापारं करोति । प्रलयकालिकमेघजन्यकष्टसमं कष्टप्रदां वार्तां श्रोतुं धैर्ययुक्तो भवेति भावः । भाषा हे राजकुमार ! विक्रमाङ्कदेव ! अपने को कड़ा बनालो । धैर्य मत छोड़ो । आगे कहा जाने वाला बुरा वृत्तान्त रूपी प्रलयकाल का मेघ अब व्यापार करने जा रहा है । अर्थात् प्रलयकाल के मेघ से होने वाले कष्ट के समान कष्ट देने वाली दुखद वार्ता अब मैं सुनाने जा रहा हूँ । इसलिये दृढ़ होकर धैर्य से सुनो । आपाण्डुपाण्ड्यमालोल-चोलमाक्रान्तसिंहलम् । देवस्त्वद्विजयं श्रुत्वा भेजे सुखमयीं स्थितिम् ॥४५॥ अन्वयः देवः आपाण्डुपाण्ड्यम् आलोलचोलम् आक्रान्तसिंहलं त्वद्विजयं श्रुत्वा सुखमयीं स्थिति भेजे । व्याख्या देवो राजाऽऽहवमल्लदेव आपाण्डुरासमन्तात्पाण्डुः पाण्डुरः 'हरिणः पाण्डुरः पाण्डुः' इत्यमरः । पाण्ड्यः पाण्ड्यनृपो येन तमासमन्ताल्लोलश्चलश्चोलदेशभूपो येन तमाक्रान्तः सिंहलः सिंहलद्वीपो येन तं तव भवतो विजयं दिग्विजयं श्रुत्वाऽऽ- कर्ण्य सुखमयीं सुखैकानुभवभूतां स्थितिमवस्थां भेजे प्राप ।

( २३४ ) भाषा राजा आहवमल्ल देव ने पाण्ड्यराजा को निस्तेज करने वाले चोलराजा को घबड़ाहट में डालने वाले और सीलोन के राजा को परास्त करने वाले तुम्हारे विजय को सुन कर सुखमय अवस्था का अनुभव किया । अर्थात् राजा को अत्यन्त हर्ष हुआ । अकाण्डे विधि चाण्डालस्तस्मै दाहज्वरं ददौ । न कैश्चिदपि लभ्यन्ते निष्कम्पाः सुखसंपदः ॥४६॥ अन्वयः अकाण्डे विधिचाण्डालः तस्मै दाहज्वरं ददौ। कैश्चित् अपि निष्कम्पाः सुखसम्पदः न लभ्यन्ते । व्याख्या अकाण्डेऽनवसरे विधिर्ब्रह्मैव चाण्डालो दुष्टकार्यकर्ता तस्मै राज्ञे दाहज्वरं १ ज्वरविशेषं महासंतापकरं ज्वरमित्यर्थः । ददौ दत्तवान् । विधिवशात्तसमय एव स दाहज्वराक्रान्तोऽभूदित्यर्थः । कैश्चिदपि भाग्यवद्भिर्निष्कम्पाः कम्पेन चाञ्चल्येन रहिता निष्कम्पा विघ्नरहिताः सुखसम्पदः सुखसम्पत्तयो न लभ्यन्ते न प्राप्यन्ते । पूर्वार्द्धस्योत्तरार्द्धेन समर्थनादर्थान्तरन्यासालंकारः । भाषा बेमौके ही चाण्डाल विधि ने राजा को दाहज्वर से पीड़ित कर दिया । कोई भी मनुष्य विघ्न रहित सुखसम्पत्ति को नहीं प्राप्त कर सकते । अपरिश्रान्तसन्तापश्चन्दनालेपनेन सः । त्वदङ्कपालीपेयूपमाचकाङ्क्ष पुनः पुनः ॥४७॥ १ वेगस्तीक्ष्णोऽतिसारश्च निद्राल्यत्वं तथा वमिः । कण्ठोष्ठमुखनासानां पाक स्वेदश्च जायते ॥ प्रलापो वक्त्रकटुता मूर्च्छादाहो मदस्तृषा । पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ॥ इति दाहज्वरलक्षणम् । (चक्रपानिदत्तोक्तम्)

( २३५ )

अन्वयः सः चन्दनालेपेन अपरिश्रान्तसन्तापः सन् त्वदङ्गपालीपेयूषं पुनः पुनः आचकाङ्क्ष ।

व्याख्या स राजा बाह्यज्वरे संजाते सति चन्दनस्य श्रीखण्डस्याऽऽलेपेनाऽङ्गेषु सर्वतः प्रलेपेन न परिश्रान्तः शान्तिमुपगतः संतापो दाहो यस्यैवंभूतस्सन् तव विभ्रमाङ्क- देशस्याऽङ्कपाली आश्लेषः स एव पेयूषममृतं हृदयस्य शैत्यापादकत्वात्तत्परि- रम्भणरूपसुधां पुनः पुनः मुहुराचकाङ्क्षाऽभिलषितवान् ।

भाषा दाहज्वर से पीडित वह राजा सर्वाङ्ग में चन्दन के लेप से भी शान्ति न प्राप्त कर तुम्हारे आलिङ्गन रूप अमृत की कामना करने लगा ।

क्रमादर्धप्रबुद्धानि शिश्रिये वीक्षितानि सः । वासवस्येव दूतेषु कुर्वन्गजनिमीलिकाम् ॥४८॥

अन्वयः सः वासवस्य दूतेषु गजनिमीलिकां कुर्वन् इव क्रमात् अर्धप्रबुद्धानि वीक्षितानि शिश्रिये ।

व्याख्या स राजा वासवस्येन्द्रस्य 'वासवो वृत्रहा वृषा' इत्यमरः । दूतेषु संदेश- हारकेषु स्वर्गदूतेष्वित्यर्थः । गजस्य हस्तिनो निमीलिकेव निमीलैव निमीलिका तां हस्तिसदृशबुद्ध्यापारं कुर्वन्निव विस्तारयन्निवोपेक्षां कुर्वन्निवेत्यर्थः । क्रमात् क्रमशःऽर्धप्रबुद्धान्यर्धविकसितानि वीक्षितानि दर्शनव्यापारान् शिश्रिये कर्तुमारेभे । शिवसायुज्येच्छुः स नृपः स्वर्गदूतानपि न बहुमन्यते स्म । रोगस्याऽसाध्यत्वान्म- रणकालिकार्धनिद्रितार्थप्रबुद्धनेत्रेक्षणमारभदिति भावः ।

भाषा वह राजा मानो इन्द्र के दूतो पर अर्थात् स्वर्गदूतो के उसे बुलाने आने पर हाथी की आँखो के समान आँखें बनाता हुआ, अधखुली आँखें ही रखने लगा ।

( २३६ ) शिवसायुज्य की इच्छा रखने वाले उस राजा को मानो स्वर्गदूतों का कोई महत्व ही नहीं है ऐसा प्रकट करते हुए वह मरणकालिक अधखुली आखें रखने लगा । अन्तर्दाहमियालोक्य प्रियां कीर्ति विनिर्गताम् । दर्शयन्दशनज्योत्स्ना-मथोवाच स मन्त्रिणः ॥४६॥ अन्वयः अथ सः मन्त्रिणः अन्तर्दाहम् आलोक्य विनिर्गतां प्रियां कीर्ति इव दशनज्योत्स्नां दर्शयन् उवाच । व्याख्या अथाऽनन्तर स राजा मन्त्रिण आमात्यान्प्रति मन्त्रिणामित्यर्थः अन्तर्दाहमन्तः सन्तापमालोक्य दृष्ट्वा विनिर्गता बहिर्नि सृता प्रिया हृद्या कीर्तिमिव यश इव शुक्लत्याद्दशनज्योत्स्ना दन्तचन्द्रिका 'चन्द्रिका कौमुदी ज्योस्ना' इत्यमरः । दर्शयन् प्रकटयन्नुवाच जगाद । भाषा इसके बाद वह राजा मन्त्रियो को घबड़ाया हुआ देख कर, बाहर निकलने वाली अपनी (सफेद) प्रिय कीर्ति के समान दन्तकान्ति को फैलाते हुए कहने लगा । क्षिप्ता मुकुटमाणिक्य-पट्टिकासु महीभुजाम् । टङ्केनेव प्रतापेन निजाज्ञाक्षरमालिका ॥५०॥ अन्वयः महीभुजां मुकुटमाणिक्यपट्टिकासु प्रतापेन टङ्केन इव निजाज्ञाक्षरमालिका क्षिप्ता । व्याख्या महीं भुञ्जन्ति ते महीभुजस्तेषा राज्ञां मुकुटाना किरीटाना माणिक्यान्येव- मणय एव पट्टिकास्तासु प्रतापेन प्रभावेन टङ्केनेव पाषाणदारणेनेव 'टङ्कः पाषाणदारण.' इत्यमरः । निजस्य स्वस्याऽज्ञानामादेशानामक्षराणि तद्रूपैक-

( २३८ ) अन्वयः विमुद्राभिः विभूतिभिः भूमिः अदरिद्रीकृता । साधूनां वेश्मसु श्रियः कुलवधूसाम्यं नीताः । व्याख्या विमुद्राभिरनन्ताभिर्विभूतिभि ऐश्वर्योपायैर्भूमिर्दरिद्रीकृता समृद्धा कृता । साधूनां सज्जनानां वेश्मसु गृहेषु 'गृह गेहोदवसित वेश्म सद्म निकेतनम्' इत्यमर । श्रियो लक्ष्म्यः कुलवधूभि प्रशस्तकुलोत्पन्नरमणीभिस्साम्यं समानता नीता प्रापिता । यथा कुलवधू स्थायित्व निश्चलत्त्व च भजते तथैव सतां गेहेषु लक्ष्म्या स्थायित्व निश्चलत्वञ्च प्रतिपादितमिति भावः । भाषा मैंने दान देकर अपरिमित सम्पत्ति के साधनो से पृथ्वी की कमी दूर कर दी । सज्जनो के घर में मैने लक्ष्मी को कुलवधू के समान स्थायी और निश्चल कर दिया । प्राप्तः कोदण्डपाण्डित्य-जातलक्ष्मीसमागमः । काकुत्स्थनिबिडस्थामा सूनुविक्रमलाञ्छनः ॥५३॥ अन्वयः कोदण्डपाण्डित्यजातलक्ष्मीसमागमः काकुत्स्थनिबिडस्थामा विक्रम- लाञ्छनः सूनुः (मया) प्राप्तः । व्याख्या कोदण्डे धनुषि लक्षणया तद्विद्याया 'धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्' इत्यमर । पाण्डित्येन प्रावीण्येन जात प्राप्तो लक्ष्म्या सह समागमो मेलन यस्य सः, काकुत्स्थस्येव रामचन्द्रस्येव निबिडं घनमधिकमित्यर्थः । स्थाम पराक्रमो यस्य सः, 'द्राघीय स्तर सहोबलशौर्याणि स्थाम शुष्मं च । शक्ति पराक्रम प्राणो विक्रमस्त्वतिशक्तिता' इत्यमरः । विक्रमः पराक्रमो लाञ्छनं लक्षणं चिह्न वा यस्य स विक्रमाङ्कदेवो नाम सूनुः पुत्रो मया प्राप्त । भाषा मैंने धनुर्विद्या की पण्डिताई से लक्ष्मी का समागम प्राप्त करने वाला अर्थात्