भारतकोश
संग्रह पर लौटें

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

( २६९ ) स जातु जातुषीं मेने मन्ये नरपतिश्रियम् । एतद्विलयभीत्येव क्षात्रं तेजो यदत्यजत् ॥१०४॥ अन्वयः सः नरपतिश्रियं जातु जातुषीं मेने (इति अहम्) मन्ये । यत् एतद्विल- यभीत्या इव (सः) क्षात्रं तेजः अत्यजत् । व्याख्या सः सोमदेवो नरपते राज्ञः श्रियं लक्ष्मीं नरपतिश्रियं राजलक्ष्मीं जातु कदाचित् जतुषो लाक्षाया विकारो जातुषी तां जातुषीं लाक्षामयीं मेने विज्ञात- वानित्यहं मन्ये कल्पयामि । यद्यस्मात्कारणादेतस्या लाक्षामयलक्ष्म्या विलयो द्रवीभूतत्वं तस्माद्भीतिस्तया लाक्षामयलक्ष्म्या द्रवीभूतत्वात्तस्या विलयो माऽभूदिति भीत्येव सः सोमदेव क्षात्रं क्षत्रियसम्बन्धि तेजः प्रताप-मत्यजत् तत्याज । उष्णत्वादिति यावत् ।, क्षात्रतेजोहीनस्सञ्जात इति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा मैं समझता हूँ कि सोमदेव ने राजलक्ष्मी को लाख की बनी समझ लिया था । इसी कारण से क्षात्र तेज की गर्मी से कहीं वह पिघल कर नष्ट न हो इस हेतु से उसने क्षात्र तेज को ही छोड़ दिया था। ज्ञातास्वादः स्वयं लक्ष्म्याः पिशाच्या इव चुम्बनात् । रुधिरं कण्ठरन्ध्रेभ्यः सर्वेषामाचकाङ्क्ष सः ॥१०५॥ अन्वयः पिशाच्याः इव लक्ष्म्याः चुम्बनात् स्वयं ज्ञातास्वादः सः सर्वेषां कण्ठ- रन्ध्रेभ्यः रुधिरम् आचकाङ्क्ष । व्याख्या पिशाच्या राक्षस्या इव लक्ष्म्याः श्रियश्चुम्बनात् मुखचुम्बनात् पिशाच्या दधि- रक्तानुरक्तवातस्याः चुम्बनात् स्वयं सोमदेवो ज्ञातोऽनुभूतो रुधिरस्याऽऽस्वादः स्वादुत्वं येन सोऽनुभूतशोणितास्वाद सः सोमदेव सर्वेषां जनानां कण्ठरन्ध्रेभ्यो

( २७० ) गलच्छिद्रेभ्यो रुधिरं रक्तमाचकाङ्क्ष पातुमैच्छत्। प्रजानां महत्कष्टप्रदोभूत्या तासां गलरक्तमपि पातुमैच्छदिति भावः। काव्यलिङ्गमलङ्कारः। भाषा पिशाची के सदृश राजलक्ष्मी का मुख चुम्बन करने से पिशाची के मुख में लगे हुए रक्त के स्वाद का स्वयं अनुभव कर वह राजा प्रजाओ के गले घोंट कर उनका खून पीने की इच्छा करने लगा। अर्थात् कर आदि लगा कर प्रजाओं को अत्यधिक कष्ट देने लगा। उद्धूतचामरोद्दाम—समीरासङ्गिनेव सः। रजसा पूर्यमाणोऽभून्मार्गं द्रष्टुमनीश्वरः ॥१०६॥ अन्वयः उद्धूतचामरोद्दामसमीरासङ्गिना रजसा इव पूर्यमाणः सः मार्गं द्रष्टुम् अनीश्वरः अभूत्। व्याख्या उद्धूतं वेगेन चालितञ्चामरं प्रकीर्णकं 'चामरं तु प्रकीर्णकम्' इत्यमरः। तस्योद्दाम उत्कटः समीरः पवनस्तस्याऽसङ्गः सम्बन्धोऽस्त्यस्येति तत्तेन वेगसंचा- लितप्रकीर्णकजनितोत्कटपवनसम्बन्धेनेव तत्सम्बन्धादायतेनेव रजसा धूल्या रजो- गुणेन वा पूर्यमाणो पूरितनेत्रोऽत्यन्तं संपुष्टो वा स सोमदेवो मार्गं पन्थानं विवेकयुक्तकार्यं वा द्रष्टुमवलोकयितुं विचारयितुं वाऽनीश्वरोऽभूदसमर्थ इत्येत्यर्थः। अभूत् बभूव। भाषा जोर से डुलाए जाने वाले चंवरो से जोर से बहने वाले वायु के सम्बन्ध से उड़ी हुई धूर (आँखो में पड़ जाने से) पक्ष में चंवर डुलाये जाने के राजकीय ऐश्वर्य के सम्बन्ध से उत्पन्न रजोगुण के कारण से वह राजा सन्मार्ग का अवलोकन करने में असमर्थ हो गया। तेजोनिधीनां रत्नानां संभारं धारयन्नपि। बभूव दैवोपहतस्तमःस्तोमैस्तिरोहितः ॥१०७॥

( २७१ ) अन्वयः दैवोपहत (सः) तेजोनिधीनां रत्नाना संभार धारयन् अपि तमस्तोमैः तिरोहितः बभूव । व्याख्या दैवेन विधिना 'दैव दिष्टं भागधेय भाग्य स्त्री नियतिर्विधि ' इत्यमर' । भाग्येनोपह्तो निरस्तो दुर्भोग्यकवलित इत्यर्थ । स सोमदेवस्तेजसां प्रभाणां निधय आकरास्तेषां प्रभाकराणा रत्नाना मणीना सम्भार समूहो धारयन् बहन्नपि तमसामन्धकाराणामज्ञानाना स्तोमैस्समूहैस्तिरोहित प्रच्छन्नो बभूवाऽभूत् ॥ रत्नरूपस्य प्रकाशकारणस्य विद्यमानत्वेऽपि प्रकाशाभावस्य तमसो वर्णनाद्विशे- षोक्तिरलङ्कार । 'विशेषोक्तिरखण्डेषु कारणेषु फलावच' । भाषा दुर्भाग्य से कवलित वह राजा तेजस्वी, व प्रकाश देने वाले रत्नसमूहो को धारण करते हुए भी अन्धकार स (अज्ञान से) आवृत हो गया । उपरि प्रतिबन्धेन ध्यात्वेव नमतोऽखिलान् । अधोगमनमेवासौ विह्वलो बहुमन्यत ॥१०८॥ अन्वयः असौ उपरि प्रतिबन्ध्वेन विह्वलः ( सन् ) अखिलान् नमतः ध्यात्वा इव अधोगमनम् एव बहु अमन्यत । व्याख्या असौ सोमदेव उपरि ऊर्ध्वं प्रतिबन्धेन प्रतिरोधेन गन्तुमक्षमत्वेनाऽखिलान् सर्व्वान् जनान् नमतॊ नति कुर्व्वतोऽधोगच्छतो वा ध्यात्वेव विचार्य्यंवाऽधोगमनमथ पतनमेव बहु नितातोपयोग्ग्यमन्यत धितातवान् । दैवहतंस्य तस्योन्नतिकरण- मसम्भवमिति स्वपुरत सर्व्वान् जनान् प्रणतान् दृष्ट्या सोऽप्यधःपतनमेवोप- योगीति निर्धारितवानिति भाव । उत्प्रेक्षालङ्कार । भाषा यह राजा उन्नति के मार्ग पर आरुढ न हो सकने के कारण घबडा कर सब लोगो को नीचे झुक कर नमस्कार करते हुए देख कर मानो वह नीचे झुकने को अर्थात् अधः पतन को ही उपयोगी समझने लगा ।

( २७२ ) पिशाच इव सर्वेषां छलान्वेषणतत्परः। नासौ किमपि कर्तव्यं विवेद मदमूर्च्छया ॥१०६॥ अन्वयः असौ पिशाचः इव सर्वेषां छलान्वेषणतत्परः (सन्) मदमूर्च्छया किम् अपि कर्तव्यं न विवेद । व्याख्या असौ सोमदेवः पिशाच इव राक्षस इव सर्वेषां जनानां छलस्य कपटव्यवहार- स्यान्वेषणे संपादने तत्परः परायणस्सन् मदेन राजमदेन या मूर्च्छा विवेकाविवेक- शून्यत्वं तया किमपि किञ्चिदपि कर्तव्यं राज्यभारवहनकर्त्तव्यं न विवेद न जानाति स्म । यथा पिशाचः सर्वान् जनान् दुःखयितुं तत्परो भवति तथैवाऽयं राजाऽपि मदेन सर्वाः प्रजाः कपटव्यवहारेण पीडयन् स्वकर्तव्यं न पालयति स्मेति भावः । उपमालङ्कारः । भाषा वह राजा सोमदेव राजमद की बेहोशी में विवेक शून्य हो कर राक्षस के समान सब को कष्ट देने में तत्पर अर्थात् सबके साथ कपट व्यवहार करने में तत्पर होने से अपने कर्तव्य पथ से च्युत हो गया । न्यरज्यत समस्तोऽपि लोभैकवसतेर्जनः । त्यागो हि नाम भूपानां विश्वसंवननौषधम् ॥११०॥ अन्वयः समस्तः अपि जनः लोभैकवसतेः (तस्मात्) न्यरज्यत । हि भूपानां त्यागः विश्वसंवननौषधं नाम (अस्ति) व्याख्या समस्तोऽखिलोऽपि जनः प्रजाजनः लोभस्याऽपरग्रहस्यैका वसतिः स्थानं तस्मादत्यन्तलोभसंतप्तात् सोमदेवात् व्यरज्यत विरक्तो जातः स्नेहसाहित्यं संप्राप्त इति भावः । हि यस्मात्कारणात् भूपानां नृपाणां त्यागो लोभरहितदानादिकं विश्वस्य संसारस्य संवननस्य वशीकरणस्य 'वशक्रिया संवननं मूलकर्म तु कार्मणम्' इत्यमरः । औषधं भेषजं नामाऽस्ति । अर्थान्तरन्यासालङ्कारः ।

( २७१ ) भाषा अत्यन्त लोभी उस राजा सोमदेव से सब प्रजा विरक्त हो गई अर्थात् उससे ई स्नेह नहीं रखता था । क्योंकि राजाओं में, लोभ रहित दानादि क्रिया संसार के समस्त प्राणियों को अपने वश में करलेने का प्रधान औषन है । अकार्येऽपि कुमारस्य तात्पर्यमसनोदसौ । किं लक्ष्मीसुखमुग्धानामसम्भाव्यं दुरात्मनाम् ॥१११॥ अन्वयः असौ अकार्ये अपि कुमारस्य तात्पर्यम् अतनोत् । लक्ष्मीसुखमुग्धानां रात्मनाम् असम्भाव्यं किम् । अथवा असौ कुमारस्य अपि अकार्ये तात्पर्यम् अतनोत् । शेषं पूर्ववत् । व्याख्या असौ सोमदेवोऽकार्येऽपि प्रजापीडनरूपदुराचारेवि कुमारस्य विक्रमाङ्कदेवस्य त्पर्यमिच्छामतनोत् प्रकटीचकार । यत्प्रजापीडनं भवति तद्विक्रमाङ्कदेवे- ष्टमेव भवतीति प्रकटीचकारेति भावः । अथवा असौ सोमदेवः कुमारस्याऽपि क्रमाङ्कदेवस्याऽप्यकार्ये मारणे तात्पर्यमिच्छामतनोदकरोत् । अथवा—असौ मदेवः कुमारस्य विक्रमाङ्कदेवस्य तात्पर्यं सद्विचारमप्यकार्येऽसद्विचारेऽतनोत् तवान् परिणतवानित्यर्थः । विक्रमाङ्कदेवस्य सत्परामर्श दोषं निक्षिप्य तं निकरं स्वविरुद्धञ्च गृहीतवानित्यर्थः । यस्मात् लक्ष्म्याः सम्पत्त्याः सुखेनऽऽनन्देन ग्धानां मूढानामज्ञासिनां दुरात्मनां दुष्टस्वभावानां पापरतानामित्यर्थः । त्मानामसम्भाव्यमकरणीयं किम् न किमपीत्यर्थः । अत्रार्थान्तरन्यासो नामा- ङ्कारः पूर्वार्द्धस्योत्तरार्द्धेन समर्थनात् । भाषा राजा सोमदेव अपने किये हुए प्रजापीडनादि बुरे कार्यों में कुमार वक्रमाङ्कदेव की भी सम्मति है ऐसा प्रकट करने लगा । अथवा राजा ोामदेव कुमार विक्रमाङ्कदेव को मारडालने की भी इच्छा करने लगा । अथवा राजा सोमदेव कुमार विक्रमाङ्कदेव की अच्छी सलाह को भी बुरी

( २७४ ) समझने लगा । क्योकि लक्ष्मी के सुख से मूढता को प्राप्त दुष्ट पापियो के लिय क्या अकर्त्तव्य है अर्थात् वे सब प्रकार के अन्याय के कार्य कर सकते हैं । भ्रामयन्नङ्कुशं दर्पात् द्विपेन्द्रमधिरुह्य सः । अख्यातिबीजवापाय चखानेव नभस्थलीम् ॥११२॥ अन्वयः सः द्विपेन्द्रम् अधिरुह्य दर्पात् ऽंकुशं भ्रामयन् अख्यातिबीजवापाय इव नभस्थलीं चखान । व्याख्या स सोमदेवो द्वाभ्यां मुखतुण्डाभ्यां पिबन्तीति द्विपास्तेषामिन्द्र श्रेष्ठं गजेन्द्र- मधिरुह्य समारुह्य दर्पादहङ्काराइङ्कुशं सृणि 'अङ्कुशोऽस्त्री सृणि स्त्रियाम्' इत्यमर । गजनियन्त्रणकारकं शस्त्रं भ्रामयन् संचालयन्नख्यातेर्दुर्यशसो बीजानां वापायेव रोपणायेव नभस्थलीं गगनस्थलीं चखान निखातवान् । हस्तिपका- दङ्कुशं गृहीत्वा दर्पेणाऽभ्रमिषं भ्रामयतस्तस्याऽपकीर्तिर्लोकहास्यञ्च जातम् । तत्कार्यं नभस्थल्यामख्यातिबीजरोपणायेव नभस्थलीकर्षणरूपमिति कविरुत्प्रेक्षते अर्थात् न केवलं पृथ्व्यां किन्तु नभस्थल्यामपि तस्याऽयश प्रसृतमिति भावः । अत्रोत्प्रेक्षालङ्कार । भाषा उत्तम गज पर सवार होकर, अभिमान से अङ्कुश को आकाश में चारो ओर फेरने वाले सोमदेव ने मानो अपयश के बीज को बोने के लिये आकाश रूपी खेत को जोता । अर्थात् इस लोक में ही नही किन्तु ऊर्ध्व लोक में भी उसका अपयश फैल गया । प्रणयप्रवणैवासीत् तस्य श्रीः सपरिग्रहा । परं नाङ्गीकरोति स्म विक्रमाङ्कः कलङ्किनीम् ॥११३॥ अन्वयः सपरिग्रहा श्रीः तस्य प्रणयप्रवणा एव आसीत् परं विक्रमाङ्कः कलङ्किनीं न अङ्गीकरोति स्म।

. ( २७५ ) व्याख्या सपरिग्रहा सपरिच्छदा श्री राज्यलक्ष्मीस्तस्य विक्रमाङ्कदेवस्य प्रणयेन प्रेम्णा प्रवणोन्मुखा प्रणयप्रवणा प्रीतितत्परैवाऽऽसीत् । परं किन्तु विक्रमाङ्को विक्रमाङ्कदेवः कलङ्किनीं सोमदेवसंसर्गात्कलुषितां तां नाङ्गीकरोति स्म न स्वीकरोति स्म । अमात्यादयः सर्वेऽपि राज्याङ्गभूतास्तं विक्रमाङ्कदेवं राजा- सने स्थापयितुमैच्छन् । परं सः सोमदेवसंसर्गादपवित्रं राजासनं न स्वीचकारेति भावः । भाषा यद्यपि राज्याङ्गभूत मन्त्री आदि से युक्त राज्यलक्ष्मी विक्रमाङ्कदेव के पास उसके प्रेम में तत्पर होकर आ रही थी । अर्थात् मन्त्री लोग सोमदेव को राज- गद्दी से उतार कर इसे राजा बनाना चाहते थे । परन्तु उसने उस गद्दी को सोमदेव के संसर्ग से कलङ्कित समझ स्वीकार नहीं किया । बहुना किं प्रलापेन तथा राज्यं चकार सः । यथेन्दुमित्रे चालुक्य-गोत्रे प्राप कलङ्कताम् ॥११४॥ अन्वयः बहुना प्रलापेन किम् । सः तथा राज्यं चकार यथा इन्दुमित्रे चालुक्य- गोत्रे (सः) कलङ्कतां प्राप । व्याख्या बहुना प्रलापेनाऽतिसंजल्पनेन किं किं प्रयोजनं न किमपीत्यर्थः । स सोमदेव- स्तथा तादृशं राज्यं राजकार्यं चकार कृतवान् यथा येनेन्दुमित्रे चन्द्रसदृशधवले चालुक्यगोत्रे चालुक्यनृपाणां वंशे सः सोमदेवः कलङ्कतां कलुषतां प्राप प्राप्तः । अनेनैव धवले चालुक्यवंशे कलङ्कः स्थापित इति भावः । भाषा अधिक कहने से क्या लाभ ? सोमदेव राजा ने ऐसा राज्य किया जिससे चन्द्रमा के सदृश निर्मल चालुक्य वंश में यह कलङ्क हो गया । न शशाक निराकर्तुमग्रजस्य दुराग्रहम् । राज्यग्रहगृहीतानां को मन्त्रः किं च भेषजम् ॥११५॥

( २७६ ) अन्वयः (सः) अग्रजस्य दुराग्रहं निराकर्तुं न शशाक । राज्यग्रहगृहीतानां मन्त्रः कः भेषजं च किम् (अस्ति) । व्याख्या स विक्रमाङ्कदेवोऽग्रजस्य ज्येष्ठभ्रातुर्दुराग्रहं दुराचारं प्रजापीडनरूपं निराकर्तुं दूरीकर्तुं न शशाक न समर्थो बभूव । राज्यमेव ग्रहो दुष्टग्रहः पिशाचा- दिर्वा तेन गृहीतानामाक्रान्तानामाविष्टानां वा नृपाणां मन्त्रो ग्रहपिशाचादिदूरी- करणमन्त्रविशेषः को, न कोऽपीत्यर्थः । भेषजमौषधं च किम् न किमपीत्यर्थः । राजमदेनाऽऽविष्टानां नृपाणां कृते न कोऽप्युपाय इति भावः । भाषा कुमार विक्रमाङ्कदेव अपने बडे भाई के दुराचार को न रोक सका । राज्य रूपी क्रूर ग्रह से या पिशाचादि से गृहीत या आविष्ट राजाओ के लिये न कोई मन्त्र है न दवा है । अचिन्तयच्च किं कार्यं विपर्यस्तधियामुना । अकीर्तिसंविभागस्य गमिष्याम्यत्र पात्रताम् ॥११६॥ अन्वयः विपर्यस्तधिया अमुना किं कार्यम् अत्र अकीर्तिसंविभागस्य पात्रतां गमिष्यामि (इति) च अचिन्तयत् । व्याख्या विपर्यस्ता विपरीता धीर्बुद्धिर्यस्य तेन विपर्यस्तधिया 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मति.' इत्यमरः । विपरीतबुद्धियुक्तेनाऽमुना सोमदेवेन किं कार्यं मम किं प्रयोजनम् न किमपीत्यर्थः । अत्राऽस्मिन् स्थानेऽकीर्तेर्दुर्यशसः संविभागस्यां- शस्य पात्रतां भाजनत्वं गमिष्यामि प्राप्स्यामि इति चाऽचिन्तयद्विचारितवान् । सोमदेवेन पापरतेन सहाऽवस्थितो तेन सहाऽहमपि दुर्यशसोंऽशस्याऽऽश्रयो भविष्यामीति च विचारयामासेति भावः ।

( २७७ ) भाषा विपरीत अर्थात् निर्विवेक बुद्धिवाले सोमदेव से मुझे क्या करना है और यहाँ रहने से मैं भी दुर्याश के कुछ अंश का भागी हो जाऊँगा, ऐसा विक्रमाङ्कदेव ने विचार किया । 'त्यागमेव प्रशंसन्ति गुरोरुत्पथगामिनः । तदितः साधयाम्येष दक्षिणाम्बुधिसम्मुखः ॥११७॥ अन्वयः ( यत् सत्पुरुषाः) उत्पथगामिनः गुरोः त्यागम् एव प्रशंसन्ति । तत् एषः ( अहम् ) दक्षिणाम्बुधिसम्मुखः सन् इतः साधयामि । व्याख्या यद्यस्मात्कारणात् ( सत्पुरुषा ) उत्पथ कुमार्गं गच्छतीत्युत्पथगामी तस्योत्पथ- गामिन कुमार्गस्थितस्य गुरो पूज्यस्य ज्येष्ठस्य त्याग सर्वथैवाऽसहयोगमेव प्रशंसन्ति समाद्रियन्ते । तत्तस्मात्कारणादेषोऽह विक्रमाङ्कदेवो दक्षिणाम्बुधेर्द- क्षिणसमुद्रस्य सम्मुख उन्मुखस्सन्नितोऽस्मात्स्थानात् साधयामि गच्छामि । भाषा बड़ा के कुमार्गगामी होने पर उनका त्याग करना ही सज्जन लोग ठीक समझते हैं । इसलिये मैं यहाँ से दक्षिण समुद्र की ओर चला जाऊँगा । मया निपीड्यमानास्ते निविडं द्रविडादयः । आर्यं विपर्यस्तमपि प्रभवन्ति न बाधितुम् ॥११८॥ अन्वयः मया निबिडं निपीड्यमानाः ते द्रविडादयः विपर्यस्तम् अपि आर्यं बाधितुं न प्रभवन्ति । १ गुरोरप्यवलिप्तस्य कार्याकार्यमजानन । उत्पथप्रतिपन्नस्य परित्यागः विधीयते ॥ इत्युक्ते ।

( २७८ ) व्याख्या मया विक्रमाङ्कदेवेन निबिडमत्पन्तं निपीड्यमानास्संबाध्यमानाः पराजिता इत्यर्थः । ते द्रविडादयो द्रविड़देशनृपतिप्रभृतयो विपर्यस्तमत्याचारिणमप्याश्चर्यं ज्येष्ठभ्रातरं सोमदेवं बाधितुं पीडयितुं विजेतुमित्यर्थः । न प्रभवन्ति न समर्था भविष्यन्ति । दुराचारिण्यपि भ्रातरि सहजस्नेहात्तस्त दुराचारेण सम्भाविता- क्रमणकारिषु स्वयमाक्रमणं कृत्वा भ्रातूरक्षणाद्विक्रभाङ्कदेवस्य महापुरुषत्वं व्यज्यते । दुराचारिणां राज्ञां पराजयोऽपि ध्वन्यते । भाषा दक्षिण समुद्र की ओर जाकर द्रविड देश के राजा आदि को खूब पीसूंगा अर्थात् हराऊंगा जिससे कुमार्ग में प्रवृत्त भी मेरे बड़े भाई को वे तग न कर सकेंगे अर्थात् परास्त न कर सकेंगे। इति स मनसा निश्चित्यार्थं चुलुक्यशिखामणिः श्रवणसरणिं, भिन्दन्भेरीरवेण विनिर्ययौ । अपि च कुपितः क्ष्माभृत्सेनागजेषु निजेषुभिः कतिषु विदधे धैर्यध्वंसं न साहसलाञ्छनः ॥११६॥ अन्वयः -चुलुक्यशिखामणिः सः इति अर्थं मनसा निश्चित्य भेरीरवेण श्रवण- सरणिं भिन्दन् विनिर्ययौ । अपि च साहसलाञ्छनः कुपितः (सन्) निजेषुभिः कतिषु क्ष्माभृत्सेनागजेषु धैर्यध्वंसं न विदधे । व्याख्या चुलुक्यस्य चालुक्यवंशस्य शिखामणिश्चूडारत्नं स विक्रमाङ्कदेव इति पूर्वोक्त- प्रकारेणार्थं सर्वं वस्तुजातं मनसा हृदयेन निश्चित्य निर्धार्य भेर्या दुन्दुभे रवेण नादेन ‘भेरी स्त्री दुन्दुभिः पुमान्’ इत्यमरः । श्रवणयोः कर्णयोः सरणिं रन्ध्रं भिन्दन् विदारयन् विनिर्ययौ विनिजंगाम । अपि चाऽन्यच्च साहसमेवोत्साह एव लाञ्छनं चिह्नं यस्य सः साहसलाञ्छन उत्साहप्रती कुपितस्सन् क्रुद्धस्सन् निजेषुभिस्स्वकीयबाणैः कतिषु कियत्सु क्ष्माभृतः नृपस्य सोमदेवस्य सेनाया वाहिन्या गजा हस्तिनस्तेषु धैर्यस्य धीरताया ध्वंसं विनाशं न विदधे न कृतवान् ।

( २७९ ) किन्तु सर्वेषां नृपसेनागजानां धैर्यनाशं चक्रे। हरिणीच्छन्दः। 'रसयुगहयैन्सौ म्रौ स्लौ गो यदा हरिणी तदा' इति लक्षणात्। भाषा चालुक्य वंश के शिरोभूषण विक्रमाङ्कदेव ने मन में ऐसा निश्चय कर दुन्दुभी के निनाद से कान के पडदो को फाड़ते हुए, प्रस्थान कर दिया। साथ ही साथ साहसव्रती उसने क्रुद्ध होकर अपने बाणो से राजा की सेना के जितने ही हाथियो का धैर्य भग्न नही किया अर्थात् राजा सोमदेव की सेना के सब हाथियो को बाण मार कर भगा दिया। प्रत्यक्ता मधुनेव काननमही मौर्वीव चापोज्झिता शुक्तिर्मौक्तिकवर्जितेव कविता माधुर्यहीनेव च। तेनैकेन निराकृता न शुशुभे चालुक्यराज्यस्थितिः सामर्थ्यं शुभजन्मनां कथयितुं कस्यास्ति वाग्विस्तरः ॥१२०॥ अन्वयः एकेन तेन निराकृता चालुक्यराज्यस्थितिः मधुना प्रत्यक्ता काननमही इव, चापोज्झिता मौर्वी इव, मौक्तिकवर्जिता शुक्तिः इव, माधुर्यहीना कविता इव च न शुशुभे। शुभजन्मनां सामर्थ्यं कथयितुं कस्य वाग्विस्तरः (अस्ति)। व्याख्या एकेन तेन केवलमेकेनैव तेन विक्रमाङ्कदेवेन निराकृता परित्यक्ता चालुक्यस्य चालुक्यराजवंशस्य राज्यस्थिति राज्यदशा राज्यमर्यादा वा मधुना वसन्तेन चैत्रेण वा 'स्याच्चैत्रे चैत्रिको मधुः' इत्यमरः। प्रत्यक्ता प्रकर्षण त्यक्ता काननस्याऽ- रण्यस्य 'अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः। मही भूमिरिव, चापेन धनुषोज्झिता दूरीकृता मौर्वी इवेव, "मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः। मौक्तिकैर्मुक्ताभिर्वर्जिता रहिता शुक्तिरिव मुक्तास्फोट इव 'मुक्तास्फोटः स्त्रियां शुक्तिः' इत्यमरः। माधुर्येण माधुर्यगुणेन हीना विरहिता कविता काव्यमिव, च न शुशुभे न शोभिता बभूव। शुभं माङ्गलिकं जन्म जनुर्येषां ते शुभजन्मानस्तेषां 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भव' इत्यमरः। सामर्थ्यं शक्तिं कथयितुं

( २८० ) वक्तुं कस्य पुरुषस्य कवेरित्यर्थः । वाचां वाणीनां विस्तरो विस्तारोऽस्ति । न कस्यापीत्यर्थः । मालोपमार्थान्तरन्यासालङ्कारयोः सङ्करः । शार्दूलविक्री- डितञ्छन्दः । ‘सूर्याश्वैर्मसजस्ततः सगुरवः शार्दूलविक्रीडितम्’ इति लक्षणात् । भाषा अकेले विक्रमाङ्कदेव के चले जाने से अर्थात् न रहने से चालुक्य राज्य की परिस्थिति, वसन्त या चैत्र मास के बिना वनभूमि के समान, मौर्वी के बिना धनुष के समान, मोती के बिना सीप के समान, और माधुर्यगुण के बिना कविता के समान शोभित नहीं होती थी । सुमुहूर्त में उत्पन्न महात्माओं की शक्ति के वर्णन करने का वाक्-सामर्थ्य कौन रख सकता है अर्थात् कोई नहीं । इति श्री त्रिभुवनमल्लदेव—विद्यापति—काश्मीरकभट्ट श्री विल्हण-विरचिते विक्रमाङ्कदेवचरिते महाकाव्ये चतुर्थं सर्ग । नेत्राब्जास्रयुगाङ्कविक्रमशरत्कालेऽत्र दामोदरात् भारद्वाज-बुधोत्तमात्समुदितः श्री विश्वनाथः सुधीः । चक्रे रामकुबेरपण्डितवरात्संप्राप्तसाहाय्यक- ष्टीकायुग्ममिदं रमाकरणया सर्गे चतुर्थे क्रमात् ॥ ॐ शान्ति शान्ति शान्ति.

॥ श्रीः ॥ महाकवि श्री विल्हण विरचितं विक्रमाङ्कदेवचरितम् पश्चमः सर्गः। नैष दुर्मतिरि मं सहिष्यते राज्यकण्टकविशोधनोद्यतः । अग्रजादिति विशङ्क्य सङ्कटं सिंहदेवमनुजं निनाय सः ॥१॥ अन्वयः सः, राज्यकण्टकविशोधनोद्यतः दुर्मतिः एषः इमं न सहिष्यते इति अग्रजात् सङ्कटं विशङ्क्य अनुजं सिंहदेवं निनाय। व्याख्या स विक्रमाङ्कदेवो, राज्यस्य स्वराष्ट्रस्य कण्टकाः शत्रुरूपदायादास्तेषां विशोधनेऽपसारणे मारणे इत्यर्थः। उद्यतस्तत्परो स्वराष्ट्रदायादापदूरोकरणे समुद्यतो दुर्मतिर्दुबुद्धिरेष सोमदेव इमं सिंहदेवनामानं कनिष्ठभ्रातरं न सहिष्यते स्यानानुकूल्येन न मंस्यते तस्याऽपि विनाशो समुद्यतो भवेदिति भावः। इति हेतोरग्रजात्सोमदेवात्संकटं बाधां विशङ्कय विनवर्यानुजं कनिष्ठभ्रातरं सिंहदेवं जयसिंहापरनामान निनायऽऽत्मना सह नीतवान्। अस्मिन् सर्गे रथोद्ध- ताच्छन्दः—'रान्नराविह रथोद्धता लगौ' इति लक्षणात्। भाषा निष्कण्टक राज्य करने की इच्छा से, राज्य में बाधक दायादो को दूर कर देने में तत्पर, यह दुर्बुद्धि सोमदेव, कही छोटे भाई सिंहदेव उर्फ जयसिंह का भी अस्तित्व सहन न कर सके, ऐसे संकट की आशंका से, विक्रमाङ्कदेव ने उसको भी साथ ले लिया।

( २८२ ) गुप्तभूषणरवेव सर्वतस्तूर्यमङ्गलनिनादशान्तितः । श्रीरलक्ष्यत विलक्ष्यचेतसा तस्य पृष्ठचलितेव भूभुजा ॥२॥ अन्वयः विलक्ष्यचेतसा भूभुजा सर्वतः तूर्यमङ्गलनिनादशान्तितः गुप्तभूषणरवा इव श्रीः तस्य पृष्ठचलिता इव अलक्ष्यत । व्याख्या विगतं विनष्टं लक्ष्यं ज्ञानविषयो यस्मात्तद्विलक्ष्यं ज्ञानविषयरहितं चेतश्चित्तं यस्य स तेनाज्ञानिना भुवं पृथ्वीं भुनक्ति स्वोपभोगे समागमयतीति भूभुक् तेन भूमीश्वरेण सोमदेवेन सर्वतस्सर्वासु दिक्षु तूर्यस्य भेर्या मङ्गलनिनादः मङ्गलध्व- निस्तस्य शान्त्यास्तूर्यमङ्गलध्वनिसमाप्तितः 'पञ्चम्यास्तसिल्' इति तसिल् प्रत्ययः । गुप्तः प्रच्छन्नो भूषणानामलङ्काराणां रवस्स्वनो यस्याः सा भूषण- शब्दरहितेव श्री राज्यलक्ष्मीस्तस्य विक्रमाङ्कदेवस्य पृष्ठे पृष्ठतश्चलितेव चलन्ती- वालक्ष्यत दृष्टा । गते विक्रमाङ्कदेवे राज्यलक्ष्मीमपि तत्पश्चाद्गतामिवाऽ- नुमेति स्मेति भावः । अत्र माङ्गलिकतूर्यध्वन्यभावाद्भूषणशब्दशून्यत्वस्य पश्चाच्चलनस्य चोत्प्रेक्षणादुत्प्रेक्षालङ्कारः । भाषा विक्रमाङ्कदेव के प्रस्थान समय चारो ओर कही भी तुरही का मङ्गलनाद न होने से अज्ञानी राजा सोमदेव ने, राज्य लक्ष्मी मानो अपने आभूषणों के झंकारो को दवाकर उसके पीछे चली जा रही है, ऐसा अनुभव किया । अङ्कवर्तिनमशाङ्कुमः कथं नाहमेनमुपरुद्धवानिति । तल्पनिलुंठनशीर्णचन्दनः पर्यतप्यत विभावरीषु सः ॥३॥ अन्वयः आः । अङ्कवर्तिनम् अशङ्कम् एनम् अहं कथं न उपरुद्धवान् इति विभावरीषु तल्पनिलुंठनशीर्णचन्दनः सः पर्यतप्यत । व्याख्या आः । इत्यत्यन्तखेदे । अङ्के उत्सङ्गे वर्तते इत्यङ्कवर्ती तमङ्कवर्तिनं मदधीनं कल्याणपुरस्थ शङ्कया मत्तः स्वायतीकरणस्य सन्देहेन रहितमशङ्कमेनं विक्रमाङ्क-

( २८४ ) भाषा भय रूपी कीचड में फसे हुए सोमदेव के मन को अनेक युद्धो के बोझ को खीचने में समर्थ, उसके मदोन्मत्त हाथी भी खीच कर बाहर न कर सके । अर्थात् विक्रमाङ्कदेव के भय से पीड़ित सोमदेव अनेक युद्धो में विजय प्राप्त कराने वाले हाथियो के (शक्तिशाली गज सेना के) रहते हुए भी, शान्ति न प्राप्त कर सका । स व्यसर्जयदथ क्वथन्मनाः पुष्कलं बलममुष्य पृष्ठतः । किं न सम्भवति चर्मचक्षुषां कर्म लुब्धमनसामसात्त्विकम् ॥५॥ अन्वयः अथ क्वथन्मनाः सः अमुष्य पृष्ठतः पुष्कलं बलं व्यसर्जयत् । चर्मचक्षुषां लुब्धमनसां किम् असात्त्विकं कर्म न सम्भवति । व्याख्या अथाऽनन्तरं 'मङ्गलाऽनन्तरारम्भप्रश्नकात्स्न्र्येष्वथो अथ' इत्यमरः । क्वथद्द्रू- यमानं मनश्चित्तं यस्य स सोमदेवोऽमुष्य विक्रमाङ्कदेवस्य पृष्ठतः पश्चात् पुष्कलं पर्याप्तं 'श्रेयान् श्रेष्ठः पुष्कलस्यात्सत्तमञ्चातिशोभने' इत्यमरः । बलं सैन्यं व्यसर्जयत् प्रेषितवान् । चर्मणश्चक्षूंषि येषां ते तेषामदूरदर्शिनां लुब्धं लोभाकृष्टं मनो येषां ते तेषां लुब्धचेतसां किमसात्त्विकं तामसं कर्म कार्यं न सम्भवति, अपि तु सर्वमेव तामसिकं कार्यं सम्भवतीति भावः । अत्राऽर्थान्तर- न्यासोऽलङ्कारः । भाषा इसके अनन्तर पीडित हृदय सोमदेव ने विक्रमाङ्कदेव के पीछे एक बडी पलटन भेज दी । चर्मचक्षु अर्थात् अदूरदर्शी तथा लोभी मनुष्य कौन तामसिक कार्य नही कर सकते अर्थात् ये सब प्रकार के दुष्कर्म कर सकते हैं । ग्रासमप्यनयपङ्कशङ्कितस्तद्वलं न सहसा जघान सः । अप्रतर्क्यभुजवीर्यशालिनः सङ्कटेप्यगहनास्तथाविधाः ॥६॥

( २८५ ) अन्वय. अनयपङ्कशङ्कितः सः प्राप्तम् अपि तद्बलं सहसा न जघान । अप्र- तक्यँभुजवीर्यशालिनः तथाविधाः सङ्कटे अपि अगहनाः (भवन्ति) । व्याख्या अनय एवाऽनीतिरेव पङ्कः कर्दमस्तस्माच्छङ्कितः शङ्कायुक्तस्स विक्रमाङ्क- देवः प्राप्तं पश्चादागतमपि तस्य सोमदेवस्य बलं सैन्यं तद्वलं 'अनीकिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । सहसा झटिति न जघान न सङ्घतवान् । अप्रतर्क्यमचिन्त्य भुजयोर्वाणोर्वीर्यं पराक्रमस्तेन शालन्ते शोभन्त इत्यप्रतर्क्यभुजवी- र्यशालिनोऽचिन्त्यभुजशक्तिशोभितास्तथाविधा विक्रमाङ्कदेवसदृशा सङ्कटेप्या- पत्तावप्यगहना निराकुला भवन्ति । अत्राप्यर्थान्तरन्यासोऽलङ्कारः । भाषा अनीति रूपी कीचड़ से शङ्कित विक्रमाङ्कदेव ने सेना के पास में आ जाने पर भी उसका संहार नहीं किया । क्योकि कल्पनातीत भुजबल से शोभित विक्रमाङ्कदेव जैसे लोग आपत्ति आजाने पर भी घबराते नहीं । अन्तः प्रतिभटक्ष्माभृतां निर्दयग्रहणनोद्यतं ततः । तन्मदद्विरदपादचूर्णितं सैन्यमेककवलं चकार सः ॥७॥ अन्वयः ततः प्रतिभटक्ष्माभृताम् अन्तकः सः निर्दयग्रहणनोद्यतं सैन्यं तन्मद- द्विरदपादचूर्णितं (सत्) एककवलं चकार । व्याख्या ततस्सेनागमनानन्तरं प्रतिभटाः शत्रुरूपा ये क्ष्माभृतः पृथ्वीपालास्तेषां प्रति- पक्षभूपालाना मन्तको यमः स विक्रमाङ्कदेवो निर्दयं दयारहितं क्रूरतापूर्वक- मित्यर्थे । यद्ग्रहणं मारणं तदर्थमुद्यतं प्रवृत्तं संन्यं बलं ते प्रसिद्धा मदद्विरदा मदान्धा गजास्तेषां पादैश्चरणैश्चूर्णितं मर्दितं सदेककवलमेकग्रासं क्षणमात्रेणैव शीर्णमित्यर्थः । चकार कृतवान् । पृष्ठतः समागतं सोमदेवसैन्यं सहसाऽऽक्रम- णोद्यतं दृष्ट्वा स्वगजपादघातद्वारा नाशितवानिति भावः । रूपकमलङ्कारः ।

( २८६ ) भाषा सोमदेव की सेना के आजाने पर विपक्षी राजाओं के लिये यमस्वरूप विक्रमाङ्कदेव ने क्रूरता से मार काट करने में प्रवृत्त उसकी सेना को, उन मदोन्मत्त हाथियों के पाँवो तले कुचला कर क्षण भर में नष्ट कर दिया । किं बहुप्रलपितैः पुनः पुनः प्रत्यनीकपृतनाः समागताः । कालवक्त्रकुहरे निवेश्य स स्वाङ्गशेषमकरोन्महीपतिम् ॥८॥ अन्वयः पुनः पुनः बहुप्रलपितैः किम् । सः समागताः प्रत्यनीकपृतनाः काल- वक्त्रकुहरे निवेश्य महीपतिं स्वाङ्गशेषम् अकरोत् । व्याख्या पुनः पुनः भूयो बहुप्रलपितैर्बहुभाषितैः किं न किमपि प्रयोजनम् । स विक्रमाङ्कदेवः समागताः समराङ्गणं प्रत्यागता प्रत्यनीकस्य विपक्षस्य शत्रोरि- त्यर्थः । पृतनास्सेनाः (कर्म) 'अस्त्रियां समरानीकरणाः कलहविग्रहो' इत्यमरः । ध्वजिनी वाहिनी सेना पृतनाऽनीकिनोचमूः' इत्यमरः । कालस्य यमस्य वक्त्रं मुखमेव कुहरं बिलं 'अथ कुहरं सुषिरं विवरं बिलम्' इत्यमरः । तस्मिन्निवेश्य प्रवेश्य महीपतिं पृथ्वीपतिं सोमदेवं स्वस्याऽङ्गं शरीरमेव शेषमवशिष्टांशो यस्य तं स्वशरीरमात्रावशेषं निस्सहायमित्यर्थः । अकरोत् कृतवान् । भाषा बार २ बहुत कहने से क्या लाभ । उसने आई हुई विपक्षी पलटनो को यमराज के मुख रूपी बिल में डालकर राजा सोमदेव को केवल शरीर मात्र शेष बना दिया । अर्थात् उसकी सब सेना नष्ट कर डाली । राजहंसमिव बाहुपञ्जरे श्रीविलासभुवि लालयन्यशः । तत्र तत्र शतपत्रलोचनश्चित्रमभ्युदयमाससाद सः ॥६॥ अन्वयः शतपत्रलोचनः सः श्रीविलासभुवि बाहुपञ्जरे राजहंसम् इव यशः लालयन् (सन्) तत्र तत्र चित्रम् अभ्युदयम् आससाद ।

( २८७ ) व्याख्या शतपत्रे कमले इव लोचने नेत्रे यस्य सः कमलनेत्रस्त विक्रमादित्यः नृपो राजलक्ष्म्याः शोभाया या विलासभुवि क्रीडास्थाने बाहुर्भुज एष पञ्जरस्तस्मिन् भुजपञ्जरे राजहंसमिव मरालमिव शुभ्रं यशः कीर्तिं लालयन् सुखपूर्वकं पालयन् सन् तत्र तत्र सर्वत्र स्थाने चित्रमाश्चर्ययुवतमभ्युदयं समुन्नतिमासाद्य प्राप्तवान् । भाषा कमल के समान नेत्र वाले उस विक्रमाङ्कदेव ने राजलक्ष्मी या शोभा की विलास भूमि अपनी भुजा रूपी पिंजड़े में हंस के समान श्वेत यश को प्रेमपूर्वक पालन करते हुए सर्वत्र आश्चर्य जनक अभ्युदय प्राप्त किया । अर्थात् अपने भुजबल से शत्रुओं को परास्त कर यश फैलाते हुए सर्वत्र आश्चर्य जनक अभ्युदय किया । मन्युपङ्ककलुषं समुद्वहन् भ्रातृदुश्चरितचिन्तनान्मनः । सुप्रसन्नपयसा प्रसन्नतां द्रागनीयत स तुङ्गभद्रया ॥१०॥ अन्वयः भ्रातृदुश्चरितचिन्तनात् मन्युपङ्ककलुषं मनः समुद्वहन् सः सुप्रसन्नपयसा तुङ्गभद्रया द्राक् प्रसन्नताम् अनीयत । व्याख्या भ्रातुस्सोमदेवस्य दुश्चरितं कुचरित्रं तस्य चिन्तनात् स्मरणात् मन्युः क्रोध एव दैन्यमेव वा 'मन्युर्दैन्ये क्रधौ क्रुधि' इत्यमरः । पङ्कः कर्द्दमस्तेन कलुष मलिनं मनो हृदयं समुद्वहन् धारयन् स विक्रमाङ्कदेवः सुप्रसन्नं निर्मलं पयो जलं यस्या- स्तया तुङ्गभद्रया नद्या द्राग् झटिति प्रसन्नतां निर्मलत्वमनीयत प्राप्तः । तुङ्ग- भद्रादर्शनेन तत्र स्नात्वा च प्रसन्नचित्तो बभूवेति भावः । अत्र रूपकालङ्कारः । भाषा अपने भाई सोमदेव के कुकर्मों का विचार करने से उत्पन्न क्रोध या विषाद रूपी कीचड़ से मलिन हृदय को धारण करने वाला विक्रमाङ्कदेव निर्मल जल वाली तुङ्गभद्रा नदी को देख कर (और उसमें स्नान कर) शीघ्र ही प्रसन्न हो गया ।

(( २८८ ) तत्करीन्द्रनिवहावगाहनैर्वाहिनी प्रतिपथेन सागमत् । दन्तिदानजलनिम्नगाः पुनर्लेभिरे प्रणयमापगापतेः ॥९१॥ अन्वयः सा वाहिनी तत्करीन्द्रनिवहावगाहनैः प्रतिपथेन अगमत्। दन्तिदान- जलनिम्नगाः आपगापतेः प्रणयं पुनः लेभिरे। व्याख्या सा प्रसिद्धा वाहिनी तुङ्गभद्रानदी 'वाहिण्यो नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी' इत्यमरः। तस्य विक्रमाङ्कदेवस्य करीन्द्रा गजेन्द्रास्तेषांनिवहा समूहा- स्तेषामवगाहनानि स्नानानि तैस्तत्करीन्द्रनिवहावगाहनैः प्रतिपथेन विपरीत- मार्गेणाऽगमत् प्रवहति स्म। दन्तिनां करिणां दानजलस्य मदजलस्य निम्नगा नद्य आपगानां नदीनां 'स्रवन्ती निम्नगापगा' इत्यमरः। पतिस्समुद्रस्तस्य प्रणयं स्नेहं सङ्गममित्यर्थः। पुनर्लेभिरे प्रापुश्च। तुङ्गभद्रायाः प्रतिकूलगमनेन मदजलनदीनाञ्च समुद्रसङ्गमेन गजेन्द्राणामत्याधिक्यं सूचितम्। अत्र लिङ्गसाम्या- न्नायक-नायिकाव्यवहारप्रतीतेः समासोक्तिरलङ्कारः। तुङ्गभद्राया दृष्टनायिका- व्यवहारश्च प्रतीयते। भाषा वह तुङ्गभद्रा नदी विक्रमाङ्कदेव के असंख्य बड़े २ हाथियो के एक साथ उसमें उतर कर स्नान करने से उलटी बहने लगी और हाथियो के मदजल की नदियां समुद्र में जा मिलीं। वारणः प्रतिगजं विलोकयंस्तद्विमर्दरसमांसलस्पृहः । आददे न विशदं नदीजलं शीलमीदृशममर्षशालिनाम् ॥९२॥ अन्वयः प्रतिगजं विलोकयन् तद्विमर्दरसमांसलस्पृहः वारणः विशदं नदीजलं न आददे। अमर्षशालिनाम् ईदृशं शीलम्। व्याख्या प्रतिगजं प्रतिमल्लहस्तिनं विलोकयन् संपश्यन् तस्य प्रतिगजस्य विमर्द्देन सम्मर्द्देन शरीरसंघट्टनेन वा यो रसो जलभानं दो वा तस्मिन्मांसला बलवती

( २९० ) अत्यजत् प्रतिगजं मतङ्गजः पार्श्वसङ्गतकरेणुलोभतः । यत्र तत्र भुजदण्डचण्डिमा चित्रमप्रतिहतो मनोभुवः ॥१४॥ अन्वयः मतङ्गजः पार्श्वसंगतकरेणुलोभतः प्रतिगजम् अत्यजत् । यत्र तत्र मनोभुवः भुजदण्डचण्डिमा अप्रतिहतः (इति) चित्रम् । व्याख्या मतङ्गजो नागः 'मतङ्गजो गजो नागः' इत्यमरः । पार्श्वे समीपे संगता मिलिता करेणुर्हस्तिनी 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । तस्या लोभतः प्रलोभात् प्रतिगजं प्रतिमल्लनागमत्यजत् विजहौ । यत्र तत्र सर्वत्र मनसा भवतीति मनोभूः कामस्तस्य मनोभुवः कामस्य भुजदण्डस्य दोर्दण्डस्य चण्डिमा शौर्यमप्रतिहतो निर्वाधगतिरिति चित्रमाश्चर्यकरम् । कामशरताडितस्सर्वं परित्यज्य तद्वशे भवतीति भावः । भाषा हाथी ने पास ही में विद्यमान एक हथिनी के लोभ से विपक्षी हस्ती को छोड़ दिया। क्या आश्चर्य की बात है कि कामदेव के भुजदण्ड के पराक्रम में रोक टोक करने वाला कोई नहीं है। अर्थात् सभी जीव् कामदेव के वशीभूत हैं। रुद्धवर्त्मसु गजेषु वाजिनः प्रापुरम्भसि निमज्जनं चिरात् । लब्धतीरतरुकण्टकैः पुनर्नेक्षितापि तटिनी क्रमेलकैः ॥१५॥ अन्वयः गजेषु रुद्धवर्त्मसु (सत्सु) वाजिनः अम्भसि चिरात् निमज्जनं प्रापुः । लब्धतीरतरुकण्टकैः क्रमेलकैः पुनः तटिनी ईक्षिता अपि न । व्याख्या गजेषु हस्तिषु रुद्धं प्रतिरुद्धं वर्त्म मार्गो यैस्ते रुद्धवर्त्मानस्तेषु रुद्धवर्त्मसु प्रतिवद्धमार्गेषु सत्सु 'अयन वर्त्म मार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः । वाजिनोऽश्वाः 'वाजिवाहार्बगन्धर्वहयसैन्धवसप्तयः' इत्यमरः । अम्भसि जले