विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
( २ )
तृतीय—श्री नागरमहोदयानां पुस्तकं गवेषणापूर्णसमालोचनात्मकोपोद्घातयुक्तं पञ्चषहस्तलिखितपुस्तकानां मुद्रितपुस्तकयोश्चाऽऽधारेण पाठभेदविचारपूर्वकं महता परिश्रमेण सम्पाद्य मुद्रितं सर्वेषामेवाऽस्मदादीनां प्रशंसास्पदम् । परन्तु यत्र कुत्रचित्पाठभेदविचारे कार्यसम्पादनरभसादन्यवारपाठाद्वा पाठभेदनिर्णये स्खलनं वरीवर्ति । तत्तत्स्थानान्युत्सृज्य सर्वत्रैवाऽस्मिन्पुस्तकेऽस्यैव पुस्तकस्य पाठक्रमः स्वीकृतः ।
श्रीनागरमहोदयैर्जैसलमेरबृहज्ज्ञानकोपभाण्डारस्थाद्धस्तलिखितात्पुस्तकात् म- हता श्रमेण टिप्पणीसंग्रहं कृत्वा चरितचन्द्रिका नाम्ना सा परिशिष्टरूपेण स्वपुस्तके संगृहीता, केनाऽपि कविरहस्यकुशलेनैव धीमतैषा गुम्फितेत्यत्र नाऽस्ति सन्देहालेशावसरः । ईशवीय १२८६ वर्षतोऽपि प्राचीनेऽस्मिन् हस्तलिखिते पुस्तके टिप्पण्येषा स्वप्राचीनत्वं प्रकटयत्येव । कुत्रचित् “अस्य शब्दस्यार्थावगमो न जायते” इति स्पष्टं लिखित्वा टिप्पणीकृता विदुषा निरहङ्कारं स्वपाण्डित्यं परिचायितम् । गुणिनो न दुराग्रहा इति स्वगुणित्वमपि प्रकटितम् । टीकाया अभावेऽप्यर्थावबोधविषये टिप्पण्येषा बहुषु स्थलेषु विदुषां पाठकानामतीवोपकारिणीति निश्चयप्रचम् ।
बहुषु संस्कृतविद्यालयेषु विश्वविद्यालयपु चैतत्पुस्तकं पाठ्यपुस्तकत्वेन निर्धारि- तमपि न कुत्राप्याऽऽपणे लभ्यमिति हेतोर्हिन्दूविश्वविद्यालयीय-संस्कृतसाहित्या- नुसन्धानसमित्याऽ (The Sanskrit Sahitya Research Committee, B. H U) स्य महाकाव्यस्य प्रकाशनं नितान्तमावश्यकं मत्वा मयि तत्सम्पादनभार- स्समारोपितः । कठिनमप्येतत्कार्यं विघ्नपरम्परामनुभवताऽपि मया साहित्य- व्याकरणाचार्य एम. ए. पदवीविभूषितानां सम्प्रति हिन्दू विश्वविद्यालयीय-संस्कृत महाविद्यालये साहित्यविभागाध्यक्षपदं भूषयतां श्री पं. रामकुबेरमालवीयानां हार्दिकसाहाय्येन श्री जगज्जननीसङ्कटहरणीकृपयैव संस्कृतव्याख्याभाषाटीकाभ्यां सहितं सप्तसर्गान्तमेतन्महाकाव्यं सम्पाद्य प्रकाश्य च विद्वत्करकमलेषु सादरं स्थाप्यते । पाठ्यपुस्तकत्वेन निर्धारितमेतन्महाकाव्यं टीकाभूषितञ्चेत् परीक्षार्थिनां महदुपकारकं भवेदिति निर्धार्य सरलसङ्क्षिप्तटीकारचना कृता । यद्येतया विद्यार्थिनां परीक्षासु कथमप्युपकारश्चेदस्मत्परिश्रमः साफल्यं गच्छेत् ।
सप्तसर्गान्तमेतन्महाकाव्यं पृथक् पुस्तकरूपेण प्रकाश्योऽष्टमसर्गात् अष्टाद- शसर्गान्तमेतद्द्वितीयभागरूपेण प्रकाश्यमेष्यति । प्रायः सप्तसर्गान्तमेवैतन्महा-
( ३ ) काव्य सर्वत्र पाठ्यपुस्तकत्वेन नियोजित दृश्यते । स्वभावत एवाकिञ्चनाना संस्कृतच्छात्राणा सम्पूर्णमहाकाव्यक्रये धनबाधा मा भूदिति धिया सप्तसर्गान्तिभागो बुद्धया पृथक् प्रकाशित । अस्य महाकाव्यस्य महत्त्व किमु वर्णनीयम् । विविधच्छन्दसामलङ्काराणा नूतनोत्प्रेक्षाणा गभीरध्वनीनाञ्चाऽऽकरेऽस्मिन् महाकाव्ये कालिदासभारव्याद्यपर- कीर्तिमतो महाकवीना पदे पदे रमरण भवतीत्येत्काव्यानुशीलनचणाना नाऽविदितम् । रसमाधुरीप्रवाहपरम्पराणा निधिरूपमेतन्महाकाव्य ब्रह्मास्वाद- सहोदरानन्द समर्प्य हर्षयंत्येव पाठकान् । ऐतिहासिकमिद महाकाव्य सस्कृत- विद्वांस ऐतिहासानभिज्ञा इति पाश्चात्याना सबलमाक्षेप दूरत एव शतधा करोति । ऐतिहासिके काव्ये भूगोलस्य ज्ञान सापेक्षम् । अतोऽत्र तात्कालिक-भारत- मानचित्र प्रकाशितम् । तेन चरितनायकस्य विजययात्रासु भारते कुत्र कुत्र गमन जातमिति छात्राणा सुस्पष्ट भवेत् । विद्यार्थिना सौकर्यार्थमत्र परिशिष्टेषु प्रधाननाम्नामनुक्रमणिकाऽकारादिक्रमेण सप्तसर्गान्तर्गतश्लोकसूची सूक्तिसग्रहश्च सकलिता । तत्रैव ग्रन्थनायक ग्रन्थ- ञ्चाऽवलम्ब्याऽद्यावत्प्रकाशिताना लेखाना पुस्तकानाञ्च सूची संयोजिता । येन सोभाग्यात्सस्कृतछात्रेषु येषाञ्चिदस्मिन्विषये विशिष्टाध्ययने नवीनाविष्करणे चैच्छा जागर्ति चेत्तेषामायासमन्तरेव सर्वं पूर्वजात विदित भवेत् । टीकालेखने श्रीमत्ता पण्डितवर्याणा श्री रामकुवेरमालवीयाना साहाय्य प्रत्येक सर्गान्ते प्रेम्णा स्वीकृतमेवेति ते धन्यवादार्हा । श्रीमन्त पूज्यवर्येभ्य श्री बलदेवो- पाध्यायेभ्य एम् ए साहित्याचार्येभ्यो हिन्दूविश्वविद्यालयीय-भारतीविद्यालया- (College of Indology) ध्यापकेभ्य सहस्रशो धन्यवादा वितीर्य्यन्ते । यैर्भाषा- टीकायामन्यत्र च यथोचितपरामर्शप्रदानेन परमनुगृहीतोऽहम् । श्री प. राज- नारायणशर्माणो हिन्दू विश्वविद्यालयीय संस्कृतमहाविद्यालयव्याकरणविभागाध्यक्षा धन्यवादेरभिनन्द्यन्ते । यैस्सहर्षं सर्वदय कठिनाप्रयुक्तशब्दसिद्धौ स्वानुपमशब्द- शास्त्रज्ञानेन शब्दसिद्धिं ससाध्य महानुपकार कृत । श्रीमन्तो वटुकनाथशास्त्रि- खिस्ते-महोदया एम् ए साहित्याचार्या राजकीयसस्कृतमहाविद्यालयसाहित्यशास्त्रा- ध्यापका साशीर्वाद् धन्यवादानर्हन्ति । यैरामूलचूल सस्कृतहिन्दीव्याख्यासहित लेखरूपमिद निभाल्य बहुषु स्थलेषु विशेषतोऽलङ्कारनिवेशे कविमात्रगम्यदुरूह- विचाराणा निर्देशं कुर्वद्भिरस्य गुणाधिक्यमुत्पादितम् । विद्याधुर्य्यतो विनायक-
( ४ ) जोशीति नामधेयस्य लेखनकार्य साहाय्यमपि न विस्मरणीयम्, जगज्जनन्यनुग्रहात् स चिरं जीयात् । प्रकाशका श्री रामकृष्णदासमहोदया साशीर्वादधन्यवादयोग्या । मै हिन्दूविश्वविद्यालयीयविविधकार्यभाराग्महता विलम्बेनाऽपि भवतु, चतुर्वारमपि संशोधनार्थं प्रार्थितं प्राथमिकपत्रं (Proof) मस्थलितरूपेणाऽस्मत्सविधे संप्रेष्य स्वकर्तव्यपरायणता प्रकटिता । धीमद्भूयो डा० जॉर्ज ब्यूह्लर, के कृष्णम्मा- चारियर, ए बी कीथ, रामनाथ दीक्षित, महावीर प्रसाद द्विवेदी, कल्हण, शास्तिमुरारीलाल-नागरप्रभृतिभ्यः सर्वेभ्यो मान्येभ्यो लेखकेभ्यस्तेषां पुस्तक- हेलावलोकनेन बहुश उपकृतत्वात् धन्यवादान् समर्पयामि । अन्ये च चरित- चन्द्रिकाटिप्पणीकारा, ये केऽपि ते भवन्तु मम हार्दिकान् धन्यवादानर्हन्ति । एतेषां टिप्पण्या टीकालेखने महती सहायता जातेत्यमाय निरूप्य विरमाम्यति- विस्तरात् । वाराणसी विजया दशमी संवत् २०१४ वै० विश्वनाथशास्त्री भारद्वाजः सम्पादक
॥ श्री ॥ श्री काशी हिन्दूविश्वविद्यालयकुलपतिः श्री डा० वेणीशङ्कर झा पीयूषप्रतिमं रसायनमिदं वाग्देवताया नवं काव्यं विल्हणनिर्मितं विवरणं नाम्ना “रमाख्यं” दधत् । वेणीशङ्कर झा ! मनीषिमुकुटालङ्कार ! युष्मत्करा- म्भोजं बिन्दतु रत्नकाञ्चनसमाश्लेषः समुन्मीलतु ॥ समर्पयिता भारद्वाजो विश्वनाथशास्त्री
॥ श्री ॥ ॥ श्री गणेशाय नम ॥ ॥ श्री सङ्कष्टनाशिन्यै नमः ॥ —भूमिका— अयि सुरसरस्वतीपरिचरणपरा शास्त्रधुरन्धरा विपश्चिद्वरा महानुभावा ! प्रथितयशस्सु तत्रभवत्सु न ह्येतत्तिरोहितं यद्वाङ्मये काव्यस्य कीदृश महित- मास्पदमिति । काव्यं नाम लोकोत्तरवर्णननिपुणकविकर्म । कवेर्भावः कर्म वा काव्यमी- दृश्या व्युत्पत्त्या कविशब्दात् "गुणवचनब्राह्मणादिभ्यः कर्मणि" चेति सूत्रेण ष्य- ञ्प्रत्यये कृते काव्यपदसिद्धिरिति वैयाकरणी प्रसिद्धिः । कवते (वर्णयति), कौति, कुवते (शब्दायते) वेति कविः । "कुङ्" शब्दे इति भौवादिकात्तौदादिकाद्वा "कु" शब्दे इत्यादादिकाद्वा धातोः "अपि इ" इति सूत्रेणेप्रत्यये कृते कविपद- निष्पत्तिरिति शाब्दिकी व्युत्पत्तिः । निरुक्ते (१२-१३-१) यास्काचार्येण कविशब्दस्य मेधावीत्यर्थं प्रतिपाद्य 'कविः क्रान्तदर्शनो भवति कवतेर्वा' इति व्युत्पादितम् । वैदिकनिघण्टौ (२-१४), "कवते" इति रूपं गत्यर्थकधातुषु पठितम् । "गत्यर्थाः सर्वे ज्ञानार्थाः" इति न्यायात्कविशब्दस्य क्रान्तदर्शी मेधावी वेत्यर्थस्संगच्छते । वैदिकनिघण्टौ (३-१५) मेधाविशब्दस्य पर्यायवाचकेषु शब्देषु कविशब्दः पठितः । तादृशस्य कवेः कृतिः काव्यमिति पूर्वमेव प्रतिपादितम् । काव्यलक्षणं यथाह मम्मटभट्टः—"तद्दोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वाऽपि" इति । निर्दोषं सगुणं स्फुटास्फुटालङ्कारञ्च शब्दार्थयुगलं काव्यमिति लक्षणस्यैतस्य निष्कर्षः । श्रीमतां पुरतस्ससम्मानमुपस्थाप्यमानमेत- द्विक्रमाङ्कदेवचरिताभिधानं पद्यरत्नं च निरवदोषाभावात्प्रसादादिगुणसहितत्वा- दुपमाद्यलङ्कारमहितत्वाच्च स्फुटमेव काव्यकोटिमेवाऽङ्गीक्रियते । विश्वनाथकविराजस्य "वाक्यं रसात्मकं काव्यम्" इति लक्षणमपि प्रस्तुत- प्रबन्धस्य वीरशृङ्गारादिरसभूषितत्वात्काव्यत्वाभ्युपगमानुगुणमेव । तच्च काव्यं दृश्यत्वेन श्रव्यत्वेन च भेदद्वयविभक्तम् । तत्र चाभिनेयत्वात् दृश्यत्वस्य, प्रस्तुतकृतेः श्रव्यत्वं निर्विवादम् । तस्यचाख्यायिकाद्यनेकप्रकाराणि ।
( २ ) तत्र चाऽस्य प्रस्तुतग्रन्थस्याष्टादशसर्गनिबद्धत्वान्महाकाव्यस्य१ लक्षणान्तरसद्भा- वाच्च महाकाव्यत्वमुररीक्रियते । उपजीव्यस्य कथाभागस्य भेदाच्च तत्काव्यमभिनवरुभालोचनेक्षिकया पुनर्द्वि- प्रकारकम् । यस्योपजीव्यकथाभाग पुराणाद्गृहीतस्तत्पौराणिकमेवमेव यस्य च काव्यस्य नूतनेतिहासस्तदैतिहासिकम् । एवञ्चाऽस्य विक्रमाङ्कदेवचरितस्य कथाभागो नूतनेतिहासाद्गृहीतस्तत एवेदं महाकाव्यमैतिहासिकमिति निर्विवादम् । संस्कृतसाहित्य रत्नष्वपि बहुष्वैति- हासिककाव्येषु पद्यकाव्ये विक्रमाङ्कदेवचरितं गद्यकाव्ये हर्षचरितञ्चेति काव्य द्वितयमेवैतिहासिकरूपेण सातिशयं प्रथितम् । १ महाकाव्यलक्षणं यथा साहित्यदर्पणे— सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः । सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ॥ एकवंशभवा भूपा कुलजा बहवोऽपि वा । शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ॥ अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः । इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ॥ चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् । आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा ॥ क्वचिन्निन्दा खलादीनां सतां च गुणवर्णनम् । एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः ॥ नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह । नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते ॥ सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् । सन्ध्यासूर्येन्दुरजनी—प्रदोषध्वान्तवासराः ॥ प्रातर्मध्याह्नमृगया-शैलर्तुवन-सागराः । सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः ॥ रणप्रयाणोपयममन्त्रपुत्रोदयादयः । वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ॥ कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा । नामास्य सर्गोपादेयकथया सर्गनाम तु ॥ श्लोकाः ३१५-३२७
प्रकृतस्य महाकाव्यस्य सर्वप्रथमं तावच्छार्मण्य (Germany) देशीयो विद्वद्वरो डा० जॉर्ज बूह्लर महोदय स्वमित्रेण डा० एच्० याकोबीमहाशयेन साकं राजस्थानप्रदेशे पर्यटन् १८७४ तमे खृष्टाब्दे जैसलमेरस्थित-जैनवृहज्ज्ञानकोश- भान्डारेऽतिप्राचीनां प्रतिलिपिमासादितवान् । स च काव्यस्यास्यानितरसाधा- रणतामाकलयन्नात्मसमुत्साहाय्येन दिवससप्तकाभ्यन्तर एवास्य प्रतिलिपिं विधाय तस्मिन्नेव हायनान्तरे चाऽऽङ्ग्लभूमिकया समं महाकाव्यमिदं सर्वसुलभञ्चकार । इत्थञ्चाऽस्य महाकाव्यस्यैकस्या एव प्रतिलिपेरवाप्त्या बह्वोंऽशा अशुद्धिग्रस्ता । तदनन्तरं डा० रामकृष्णभाण्डारकर-वेङ्कटराममहोदयादयश्चालुक्यवंशेतिहासे प्रकृतकृतौ विक्रमाङ्कदेवचरिते च नवन्वान्बहून्विषयान्प्रकाशपथमासादयामासु । एवं सत्यपि काव्यमूलरूपं तदवस्थमेव (अशुद्धिबहुलम्) आसीत् । कालक्रमाद्बूह्लरसंस्करणे समाप्तिमासादिते काशीस्थज्ञानमण्डलमुद्रायन्त्रालया- न्महामहोपाध्याय-पण्डितप्रवर-गुरुवर-श्रीरामावतारशर्मणान्ना सम्पादितं प्रकृत- महाकाव्यस्य संस्करणान्तरञ्च प्रकाशभावमानीयत । परमत्र संस्करणेऽपि पूर्व- संस्करणाशुद्धीनां निराकरणस्य का कथा ? नवन्वान्यशुद्धयन्तराण्यपि लोचन- पथमतिथितां प्रयान्ति, यत् सहृदयानां खेद्यते चेत् । अत्र धीमतां गुरुवर्याणां नाऽल्पसुयोगो मनसि विचिकित्सामुत्पादयति । समाप्तेप्रायेदस्मिन्नपि संस्करणेऽस्य काव्यस्य महत्त्वं लोकप्रियताञ्च निरीक्ष्य शास्त्रिमुरारिलालनागर एम्० ए० साहित्याचार्यमहोदयं परिश्रमातिशयेन जैसलमेरवृहज्ज्ञानकोशभाण्डारात्, पुण्यपत्तनस्थ-भाण्डारकरप्राच्यगवेषणासंस्थात (Bhandarkar Oriental Research Institute Poona), अन्यतश्च प्रस्तुनयस्य पञ्चषड्ढस्तलिखितानि पुस्तकान्यासाद्य शुद्धपाठनिर्धारणे श्लाघ्यं प्रयासं कृत्वा महाकाव्यमिदं काशीस्थसरस्वतीभवनत (Princess of Wales Saraswati Bhavana Text Series) प्रकाशितम् । परञ्चात्राऽपि यत्र तत्र सम्पादनप्रमादादपभ्रंशपाठाः पाठभेदनिर्णय प्रमादो जात इय दृश्यते यथा— अरमदर्शितदन्तवारिणा तेन वारिनिधिराविलीकृतः । इत सन्ततमदस्य विधामातश्चमुश्रियतमस्य दतिनः ॥ (सर्ग ५ श्लो० १६) इत्यत्र तेनेति पाठात्सतीति पाठः साधुतरः प्रतिभाति । एवमेव हस्तद्वयोपाद्गृहीतलील-दोलागुणानां जघने वधूनाम् । अस्युतस्तम्नुकूलबध विश्वप्यभूद्बुद्धयसितो मनोभूः ॥ (सर्ग ७ श्लो २९)
( ४ ) इत्यत्र 'असंवृते स्रस्तदुकूलबन्धे' इत्येव पाठ समुचित । एवमादिस्थलानि विहाय सर्वत्र प्रस्तुतपुस्तके अस्यैव पाठ संगृहीत । नागर- महोदयैरुपोद्घाते डा० वूह्लरमहादेयकृतैतिहासिकविषयस्य सुतरां बहुषु स्थलेषु खण्डनं कविलिखितघटनायाश्च याथार्थ्यं साधितम् । तत्काव्यान्ते चरित- चन्द्रिकानाम्ना जैसलमेरबृहज्ज्ञानकोशभाण्डारस्थपुस्तकाट्टिप्पणीसंग्रहो नागरमहो- दयस्य संस्करणं सुवर्णं सुगन्धयुक्तमिवाऽकरोत् । टिप्पणोकार क इति यद्यपि न ज्ञातं तथापि तस्य पाण्डित्यप्रकर्षो विद्योतत एव । तदिदं विक्रमाङ्कदेवचरिताख्यं महाकाव्यमष्टादशसर्गनिबद्धम् । तत्राऽऽद्येषु सप्तदशसु सर्गेषु चालुक्यवंशोत्पत्तितज्जातनृपवर्णनपुरस्सरं विक्रमाङ्कदेवचरितं प्रतिपादितम् । अन्तिमे चाऽष्टादश सर्गे महाकविरात्मवर्णनकथाप्रसङ्गे स्वाभिजनं कश्मीरदेशं तत्पालकान्भूपालांश्चाऽवर्णयत् । संस्कृतसाहित्ये महाकाव्यस्याऽस्याऽसाधारणं स्थानम् । एतत्कर्ता विलक्षण- काव्यविच्छित्ति-प्रकाशन प्रवणो विचक्षणवरोज्ज्वल्यमधुरकल्पनाचणो बिल्हणः । विक्रमाङ्कदेवचरितस्य प्रकाशनात्प्रागपि कविवरो बिल्हणो भारतीयमहाकविषु प्रधानभावेन संस्मृतः । एतत्कृता १चौरपञ्चाशिका वा चौरीसुरतपञ्चाशिका कर्णसुन्दरी नाटिका च रसिकमानसेषु हर्षोल्लासप्रकाशिका वर्तते । एवञ्च सुभाषितसंग्रहग्रन्थेष्वपि बिल्हणविरचितानि बहूनि पद्यानि संगृहीतानि । सूक्तिसंग्रहणप्रवणजल्हणसंकलितायां सूक्तिमुक्तावल्यामेव बिल्हणस्याऽष्टाधिकानि शतसंख्याकानि पद्यानि विलसितानि । किमधिकेन । प्रसादाभिधानेन गुणेन वैदर्भी रीत्या चाऽयं महाकवि काव्यनिर्माणं कविकुलगुरो कालिदासस्य शैलीं बिभर्ति । शार्दूलविक्रीडितस्रग्धरादिषु वृत्तेषु कवेरस्य शैली भवभूति-श्रीहर्षादि- सदृशी दरीदृश्यते । किञ्च कविरयं तत्र तत्र स्वप्रबन्धे कालिदासादिमहाकवीनां छायां स्ववैशिष्ट्यं सस्याप्येवाऽनुचकारेत्यधिकमस्य महत्त्वं किं निवेद्यते । काव्यकलेवरपीवरत्वभीत्याऽस्माभिः कृतिरियं भागद्वये कृतविभागा । तथा च सर्गसप्तकमितोऽयं प्रथमो भागः । अथाऽत्र सर्गसप्तकं यावदस्य महाकाव्यस्य स्तोकमालोचनमनुष्ठीयते । १ चौरपञ्चाशिकाया प्रथमं प्रकाशनं शार्मण्य (Germany) देशीये डा० सॉल्फमहोदयै १८८६ खृष्टाब्दे शार्मण्यभाषाप्रथितभूमिकया सह कृतम् । परञ्चाऽस्य नूतनं विस्तृतं संस्करणमपेक्षितम् ।
( ५ )
इह कविर्मङ्गलाचरणानन्तरमादौ रीतिचतुष्टये— अनभ्रवृष्टिः श्रवणामृतस्य सरस्वती-विभ्रम-जन्म-भूमिः । वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम् ॥ इत्यनेन पद्येन वैदर्भीमेव रीतिं प्रशशंस । प्रस्तुतकृतौ कवि वैदर्भीमेव रीतिं प्रायेण समालम्बते । यत्र परमरमणीयेन प्रकारेण स्वविनयवर्त्ति स्वस्य चोपजीव्यनरपतौ निरतिशया भक्तिश्च द्योतयता महाकविना बिल्हणेनोक्तं— गिरा प्रवृत्तिर्मम नीरसाऽपि भव्या भवित्री नृपतेश्चरित्रैः । के वा न शुष्का मुदमभ्रसिन्धुसम्बन्धिनीं मूर्धनि धारयन्ति ॥ (१-२८) एवञ्चास्य महाकवे श्रीहर्षेणाधस्तने पद्ये विशिष्टरूपेणाऽनुकरणं व्यधायि । पवित्रमत्राऽऽतनुते जगद्युगे स्मृता रसक्षालनयेव यत्कथा । कथं न सा मद्गिरमाविलामपि स्वतेविनीमेव पवित्रयिष्यति ॥ इति । (१-३) नैषधचरिते निम्नस्थपद्ये कविनिबद्घप्रस्तुताहवमल्लदेवस्य— किमश्वमेधप्रभृतिक्रियाफलैः सुतोऽस्ति चेन्नोभयलोकबान्धवः । ऋणं पितॄणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् ॥ (२-३४) इत्युक्ति कीदृशी सहृदयहृदमावर्जिका, कालिदासनिवद्धवस्तुदिलीपस्य— लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् । सन्ततिः शुद्धवंशा हि परत्रेह च शर्मणे ॥ (रघुवंशे १-६९) इति वचनं स्वप्रौढिप्राकर्येणाऽतिशेते इत्यत्र विपश्चिद्वरा एव प्रमाणम् । तस्यैवाऽऽहवमल्लदेवस्यात्मजाया प्रत्यत्मजोत्पादनमनूद्य— अपीतवेदोऽस्मि श्रुतः श्रुतागमः श्रमोऽस्ति भूपानितिहासवर्त्मसु । गुरुव्यवज्ञाविमुखं सदा मनस्तदभ्युपायोऽत्र मया न दुर्लभः ॥ (२-३९) आलापोऽय क्यविध प्रोढिपूर्णं आत्मविद्वासप्रकाशकश्चेत्ययमर्थो गुणग्राह- काणा विदुषामतिरोहित । एवञ्चात्रत्यमाहवमल्लतपोवर्णनं कालिदासस्य कुमारसम्भवस्थं पार्वतीवपोवर्णनं मनोहरविषयाऽनुहरति । ज्यायसि भ्रातरि यतंमाने जनकपरिकल्पितं स्वीय यौवराज्यं प्रतिषेधतो विक्रमाङ्कदेवस्य—
चालुक्यवंशोऽपि यदि प्रयाति पात्रत्वमाचारविपर्ययस्य । अहो ! महद्वंशसमाः किमन्यदगद्द्रुवोऽभूत्कलिकुञ्जरोऽयम् ॥ (३-३६) उक्तिरियं कालिदासस्य रघुवंशे यज्ञियमश्वमपहरन्तमिन्द्रं प्रति रघोः— त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु विध्यपस्रुपाः । स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः ॥ (रघुवंश ३-४५) वचनमदं स्वप्रौढिप्रकर्षेणातिक्रामतीत्यत्र विदुषां नो विप्रतिपत्तिः । एवञ्चाऽन्यत्र विक्रमाङ्कदेवदिग्विजयवर्णनं रघुवंशस्थित रघुदिग्विजयवर्णनमनु- करोतीत्ययं विषयः काव्यद्वितयशीलिनां विमलमतीनां कृतिनां मतिपथे स्फुटमेवाऽवभासते । दोषवर्जनपूर्वकं सतां गुणग्राहकत्वं कीदृश्या विच्छित्त्याऽ- त्राऽष्टमे पद्ये दृष्टान्तालङ्कारेण प्रदर्शितम्— दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः । क्षारभावमपनीय गृह्णते वारिधेः सलिलमेव वारिदाः ॥ (५-५१) अत्रैकत्र षष्ठसर्गस्येऽष्टमे पद्ये महाकविना "विललापे" ति प्रयोक्तव्यत्वे 'ललापे'ति प्रयुञ्जानेनाऽवाचकत्वं नाम दोषोऽपि प्रकाशितः । सप्तमसर्गीये चत्वारिंशत्तमे श्लोके "अक्षूणशब्दे" अप्रयुक्तत्वदोषः । परं तादृशि महाकवौ दूषणमिदं तस्य निरङ्कुशतामेव द्योतयति नत्वज्ञानम् । सोमदेवस्याश्वानामिदं जवसमुचितधावनानुरूपा किमिति कृता पृथुला न नाय ! पृथ्वी । नभसि खुरपुटैरिति स्फुरद्भिर्विधिमिव ये स्म मुहुः प्रतिक्षिपन्ति ॥ (६-४९) वर्णनं महाकविश्रीहर्षकृतमद्योलिखितं नैषधाश्ववर्णनमतिशेते । प्रयातुमस्माकमियं कियत्पदं परा तमम्भोभिरपि स्थलायताम् । इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुत्थितं रजः ॥ (१-६९) इति । एवञ्च— रयस्थितानां परिवर्त्तनाय पुरातनानामिह वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥ (७-६) इह महाकविनोत्प्रेक्षालङ्कारमाश्रित्य रवेरुदीचीगमनं येन चित्ताकर्षकविधानेन समुपवर्णितं तत्प्रशंसनीयमेव । सप्तमे सर्गे कविना वसन्तादिवर्णनं कुर्व्वता कमनीयं काव्यकौशलं प्रकाशितमिति दिक् ।
( ७ ) इदानीमस्या धृतेस्तत्तल्लक्षणसद्भावित्वं वैशिष्ट्यमुपदर्शयितुमापातत प्रतीय- मानदोषाभासनिरसार्थञ्च स्तोकं प्रयतते । प्रस्तुतपुस्तकं महाकाव्यमिति पुरस्तादुपवर्णितमेव । अस्य नायकः सृष्टै- कादशशताब्द्यां चालुक्यसाम्राज्यतुष्टय कल्याण चालुक्यवंशोद्भूतो वीरवरो विक्रमाङ्कदेवः । नायकलक्षणं यथा साहित्यदर्पणे— त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्साही । दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवाञ्छेता ॥ इत्यञ्च चरितप्रणेत्रा स्वनायकस्य पूर्वोक्तगुणगणालङ्कृतत्व सम्पादनीयम् । एवञ्च नायकस्य भेदचतुष्टयमपि तत्रैव प्रदर्शितम् । यथा— धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च । धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥ इति । तत्र च प्रकृतनायको विक्रमाङ्कदेवो धीरोदात्त इतीयं वार्त्ता निम्नस्थलक्षणे- नाऽवगीयते । तद्यथा---- अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः । स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥ अविकत्थनो यथा— गौडकामरूपकाञ्चीकेरलमलयचक्रकोटद्रविडादि—भूपाला विजित्याऽपि क- ल्याणपुरं प्रस्थावतमानेन तेन विक्रमाङ्कदेवेन न कुत्राऽपि स्वमुखेन स्वपौरुषमुद्घो- षितम् । प्रत्युत द्राविडदूतस्य समागमे तेन स्वपराक्रममधरीकृत्योक्तम्— ईदृशीं गुजनतामजानता कार्मुकेण मुखरत्वमत्र मे । यत्कृतं किमपि तेन लज्जया भारती कथमपि प्रवर्तते ॥ (५ ५०) एवमेव—अङ्गानि चन्दनरसादपि शीतळानि यद्वातपं वमति बाहुरयं यशोभिः । चालुक्यगोत्रतिलक क्व यशस्त्वदीयं ते दुर्वृत्तभूपपरितापगुरुः प्रतापः ॥ (५ ८६) इत्यादिद्राविडदूतवचोक्तौ स तूष्णीम्भूय स्थितः । क्षमायान् यथा— जयकेशि-आलुपेश-द्रविड़क्षितिपति-रुद्राणीगादीन् शरणमागतान् स क्षाम्यति स्म । ज्येष्ठे भ्रातरि सोमेश्वरे बन्धनगामनीतेऽपि—
( ८ )
वितरितुमिदमप्रजस्य सर्वं पुनरुपजातमतिः स राजपुत्रः । (६-९३) इत्यय विषयस्तस्य क्षमावत्त्वं साधयत्येव । अतिगम्भीरो यथा- उभयतः समागतयोर्द्रविडपतिसोमेश्वरसैन्ययो. स्थितौ स गाम्भीर्येण- मदकरटिनमुत्कटप्रतापः प्रकटितवीरमृदङ्गधीरनादः । मथनगिरिमिवाधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार ॥ (६-६८) महासत्त्वो यथा- अन्तकः प्रतिभटक्षमाभृतां निर्दयप्रहणनोद्यतं ततः । तद्भवद्विरदपादचूर्णितं सैन्यमेककवलं चकार सः ॥ (५-७) विघटनमटवीमधर्धराणां विषमपथेषु विधाय लीलयैव । पुनरपि स जगाम तुङ्गभद्रां विरचितवन्दनमालिकां तरङ्गैः ॥ (५-२५) इत्यादिस्थलेषु राज्ञो महासत्त्वशालित्वं प्रकटितमेव । स्थेयान् यथा- प्राप्तमप्यनवपङ्कजङ्गितस्तद्दलं न सहसा जघान सः । अग्रतर्वधभुजोवीर्यशालिनः सङ्कटेऽप्यगहनास्तथाविधाः ॥ (५-६) इत्यत्रोक्तमेव । पुरतः पृष्ठतश्च समागतयोर्विपक्षसैन्ययो स. स्वधृतिमव- लम्बितवान् । निगूढभावो यथा- कीदृशो शशिमुखी भवेदिति स्पृश्यते स्म हृदये स चिन्तया । कामुकेषु नियमक्षमोध्वते नित्यकुण्डलितकार्मुकः स्मरः ॥ (५-४८) तथापि अव्यवीच्च मनसः प्रसन्नतां दन्तकान्तिभिरुदोरयन्निय । ओष्ठपुष्ठलुठितस्मिताञ्चलः कुन्तलीनयनपूर्णचन्द्रमाः ॥ (५-५९) इत्यनेनास्य निगूढभावकत्वं स्फुटायेव । दृढव्रतो यथा- आहवमल्लदेवस्य स्वपितुर्युवराजपदग्रहणे महत्याग्रहे वर्तमानेऽपि स वैदग्ध्येन चालुक्यवंशोऽवि यदि प्रयाति पात्रत्वमाचारविपर्ययस्य । अहो महद्दारुसमाः किमन्यदनङ्कुशतोऽभूत्कलिकुञ्जरोऽयम् ॥ (२-३६)
( ९ ) एतादृशैर्युक्तियुक्तैर्वचनैः स्वदृढव्रतत्वं प्रकटितवानिति । महाकविना बिल्हणेनेत्थमेव तत्र तत्र नायकस्य धीरोदात्तत्वं प्रतिपादितम् । अत्रैतिहासिकतत्त्वसंरक्षणपरा डा० वूह्लरादयो विपश्चिद्वरा विप्रवदन्ति— ‘महाकविना बिल्हणेन स्वकृतावैतिहासिकं तथ्यं विलोपीकृतमिति' । वस्तुतस्त्वे- तद्दूषणमापातत एव प्रतिभाति न तत्त्वदृष्ट्या । प्रकृतकृतिरितिहासमूलाऽपि काव्यमेव नेतिहासः । अत्र कविना प्राधान्येन प्रकाशनीयं कवित्वमेव, न त्वितिहासतत्त्वम् । यत्त्वत्रेतिहासतत्त्वं प्रकाशितं तदानुषङ्गिकत्वेन न प्रधानत्वेन । कल्पनाकाननसञ्चरणपराणामेतादृशानामेव कवीनां कृतिमृद्दिश्य— अपारे काव्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् । स चेत्कविर्वीतरागोनीरसं व्यक्तमेव तत् ॥ (अग्निपुराणे) एतादृश्यूक्तिः समजनि । किं बहुना, महाकवीनामेतादृशा कृते स्वनायकस्य मर्यादासंरक्षणार्थमालङ्कारिकैः सुधीभिः स्तोकरूपा स्वतन्त्रताऽपि प्रदत्ता । यथा सा साहित्यदर्पणे— यत्स्यादनुचितं वृत्तं नायकस्य रसस्य वा । विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥ इति । अतएव धीरोदात्तनायकेन श्रीरामचन्द्रेण छद्मना वालिहननमनुचितमिति धिया महानुभूतिना भवभूतिना वीरचरिते रामवधार्थमायातो वाली रामेण व्यापादित इति प्रतिपादितम् । अपरञ्च, काव्यसाधितं वस्तु मिथ्यारूपमितिहास- प्रकाशितमेव तथ्यमित्यत्र वा नाम विनिगमना ? इतिहासवर्णितमपि वस्तु वितथं विलोक्यते । यथा वङ्गेतिहासे सिराजुद्दौलाभिधानेन बङ्गाधीशेन कृष्ण- प्रकोष्टे (Black Hole of Calcutta.) बहव आँग्लदेशाभिजना निरुद्धास्तत्र च स्थानस्य सङ्कुचितत्वाद्वहुसंख्या उपरता अल्पा एवावशिष्टा इति यदि- तिहासे लिखितं तत्साम्प्रतं मिथ्यैवेति बहुभिर्विद्वद्भिः साधितम् । एवंविधे व्यतिकरे लोचनगोचरे सति प्रकृतेऽपि प्रकृतचरितनायकस्य तत्सदस्यैश्चप्रदर्शितं वृत्तं वितथमितिहासनिर्दिष्टमेव तथ्यरूपमित्यपि सर्वतोभावेन प्रतिपादयितुं न शक्यम् । कालान्तरे विस्तृतगवेषणानन्तरं प्रकृतकविसृष्टवृत्तस्य सत्यत्वसिद्धि- रपि संभाव्यते । श्री नागरमहोदयैः स्वोपोद्घाते डा० वूह्लरखण्डिता यास्मिं- दैतिहासिकघटनाः डा० वूह्लरमतखण्डनपूर्वकं सयत्नेन प्रमाणीकृता वर्तन्ते ।
( १० ) ऐतिहासिकेन विदुषा सम कवेरिय कलहवार्ता नाऽनैव पाश्चात्यदेशेऽपि स्फुटमापद्यते । प्रतीच्यामैतिहासिकोपन्यासलेखकानागादिमो नूतनवाट (New way.) प्रकाशक सर् वाल्टर स्काट् (Sir Walter Scott) महाशयोऽपीत्थमेव दूषणभाजन समजति । आधुनिकानामाङ्गलेतिहासज्ञाना फ्रीमेनाभिधान कोविद परमप्रसिद्ध । उपन्यासप्रस्तुतायामतिहासविस्मृतौ रोष प्रदर्शयता कृतिनाऽमु- नाऽभिहित—'यूरोपदेशोद्भूते धर्मयुद्धयात्रायुगे (The age of the Crusades) ये किमपि ज्ञातुमीहन्ते तै स्काट्कृत 'आइवान हो' (Ivanho) नाम उपन्यासो न पाठ्य इति । अत्राऽपि समाधान पूर्ववदेव बोध्यम् । एवमेवाऽत्र कृतौ महाकविना चरितनायकस्य तत्त्कार्यकालानाम पौर्वापर्यविपर्ययोऽकारीति यद्द्षणमुपन्यस्त तत्रेय वार्ता—नेय कृति प्राधान्येनेतिहास प्रत्युत काव्यमेव । महाकविना स्वलेखनसौविध्यमाचरतेत्थमाचरितमतो नाऽत्र स उपालम्भभाजनम् । 'शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते' । इत्युक्तेरत्र वीरोऽङ्गी रसो यथायथमङ्गरूपाणि रसान्तराणि न बोद्धव्यानि । मङ्गलाचरणरूपे प्रथमश्लोके कृपाणमुपवर्णयता महाकविनाऽस्य महाकाव्यस्य वीररसाधायित्व द्योतितमेव । अत्र सत्स्वप्यलङ्कारान्तरेषु महान्कविर्विशेषत उपमोत्प्रेक्षादृष्टान्तार्थान्त- रन्याससमासोक्त्यनुप्रासादीन् बाहुल्येन लोचनगोचरीकरोति । यद्यपि स्वकृत्या कृतसुहृदयहृदयसवनन स नाऽय महाकविर्बिल्हण काश्मीरेषु प्राप्तजन्मत्यथाप्यस्य कल्याण चालुक्य-वंशस्य षष्ठविक्रमादित्यस्य विक्रमाङ्क- देवापरनामकस्य सभापण्डित आसीत् । भारते वर्षेऽस्य षष्ठविक्रमादित्यस्य शासन १०२६ त ११२७ खॄष्टाब्दपर्यन्त स्थितम् । काश्मीरेषु प्रवरपुरम् (श्रीनगरम्) प्रधाननगरमस्ति । तस्मात्क्रोशत्रये खोनमुखनामक ग्राम महाकविरय स्वजन्मनाऽलङ्कृतवान् । तत्र कौशिकगो- त्रोत्पन्ना ब्राह्मणा निवसन्ति स्म । तदन्वयमेवाऽय भूषितवान् । अस्य प्रपितामहो मुक्तिफलश पितामहो ऽराजकलश पिता च ज्येष्ठकलश आसीत् । अस्य मातुर्नाम नागादेवीति । अस्य ज्येष्ठभ्राता इष्टरामोऽनुजश्चाऽऽनन्दनामाऽऽसीत् । द्वावप्येतो भ्रातरी विद्वत्तया तत्र प्रसिद्धावास्ताम् । काश्मीरेष्वेव ससर्ववेदशास्त्राण्यधीत्य बाणभट्ट इवायमपि विदेशान्प्रति प्रतस्थे । मथुराया वृन्दावने च शास्त्रार्थविषयेषु पण्डितान्विजित्य क्रमश कान्य- कुब्जत प्रयाग समाजगाम । सत काश्या डाहलाधीशस्य कर्णनृपते. सभाया
( ११ ) श्रीगङ्गाधरनामानं कञ्चित् विशिष्टं पण्डितं पराजितवान् । ततो भोजराज- धानीं धारां प्राप्तः । परञ्च भोजस्य दिवङ्गतत्वात्तस्य तत्र गमनमसफलमेवाऽऽ- सीत् । ततः स गुर्जरदेशे समागत्य सोमनाथमहादेवस्य दर्शनं कृतवान् । सोमनाथात्रिर्गत्य स दक्षिणदेशे चिरं बभ्राम । सेतुबन्धरामेश्वरदर्शनानन्तरं स कल्याणनगरं ययौ । तत्र लब्धविद्यापतिपदवीकः स षष्ठ-विक्रमादित्यस्य चालुक्यवंशीयस्य सभां यावज्जीवं सम्भूषयति स्म । सर्वस्वं गृह्णाति कुन्तलपतिर्गृह्णातु तन्मे पुन- र्भाण्डागारमखण्डमेव हृदये जागर्ति सारस्वतम् । रे क्षुद्रास्त्यजत प्रमोदमचिरादेष्यन्ति मद्मन्दिरे हेलान्दोलितकर्णतालकरटिस्कन्धाधिरूढा ध्रियः ॥ १ ॥ अयि ! किमनिभं राजद्वारे समुद्धुरकन्धरे कुवलयदलस्निग्धे मुग्धे विमुञ्चसि लोचने । अमररमणीलीलाव्याद्विलोचनवागुरा- विषयपतितो न व्यावृत्तिं करिष्यति बिल्हणः ॥ २ ॥ उपर्युक्तं पद्यद्वयं काश्मीरासादित-चोरीसुरतपञ्चाशिकाग्रन्थे प्रारम्भ एवाऽस्ति । एताभ्यां पद्याभ्यां बिल्हणविक्रमादित्ययोः पूर्वं कदाचित्कं वैमनस्यं द्योत्यते । प्राचीनराजसभापण्डिताः स्वभावत एव नूतनमहापण्डितप्रवेशे विरोधिनो भवन्तीति नैतदसम्भवम् । श्री कृष्णम्माचारियरमहोदयस्त्वेतदेव वैमनस्यं पाश्चात्कालिकं विमृश्य महाकाव्यस्यास्याऽपूर्णत्वे कारणमिति कल्पयति । तन्मते खृष्टीय १०८५ वत्सरे विक्रमादित्यस्य नर्मदाटटयात्राऽत्र न वर्णितेत्यस्याऽपूर्णत्वम् । परन्तु नैतन्महा- काव्यमपूर्णम् । खृष्टीय १०८५ वर्षीया घटना महाकाव्यरचनान्तरभूतेति तस्या अत्र समावेशोऽसम्भवः । महाकाव्यं परिसमाप्यैवाऽन्तिमेऽष्टादशसर्गे महाकविना स्ववंशवर्णनं कृतमित्यपूर्णतायाः कल्पना निराधारैव । एवमेव 'इण्डियन एण्टिक्वेरी' पत्रसम्पादकस्य 'बिल्हण श्लेषालङ्कारस्य परमोपासक इत्यादि समालोचनं, श्रीमतो द्विवेदिमहोदयस्य महाकवेरस्य प्राचीन- कवीनामनुकरणदोषारोपणं, डा० वूह्लरमहोदयस्य चैतिहासिकघटनाऽपटुत्वेन दूषणं सर्वमिदं समालोचनमनालोचनपूर्वकमेव । न कोऽपि निर्दोष इति विचार्यैव महाकविना कालिदासेन कुमारसम्भवे भणित- एकोऽहि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः । इति
( १२ )
यो महाकविः स्वग्रन्थे काव्यार्थचौर्यं निन्दति स कथं तदेव कुर्यात् । ईदृग्भूतानां समालोचकानां कृत एव महाकविना विल्हणेनोक्तम् रसध्वनेरध्वनि ये चरन्ति संक्रान्तवक्रोक्ति—रहस्यमुद्राः । तेऽस्मत्प्रबन्धानवधारयन्तु कुर्वन्तु शेषाः शुकवाक्यपाठम् ॥ (१-२२) एतादृशस्य महाकाव्यरत्नस्य काऽपि विशदटीका न विद्यते । चरित- चन्द्रिकाऽभिधाना केवलमेका टिप्पणी कविहार्दभावप्रकाशनऽसमर्था । अत एवाऽयमस्माकं टीकालेखने समारम्भः । अस्मदीयायामस्यामभिनवव्याख्यायां रमानाम्न्यां यथामति कवितात्पर्यप्रकाशनपुरस्सरं रसध्वन्यलङ्कारच्छन्दःप्रभृतय आलङ्कारिका विषया वंशयेन प्रतिपादिताः । तदधस्तले च हिन्दीभाषामयोऽ- नुवादोऽपि सविस्तरं व्यक्तरूपेण न्यधायि । तत्राऽस्माभिः कियती सफलताऽ- धिगता, विषयेऽत्र सहृदया कोविदा एव प्रमाणम् । यथोक्तं कविकुलगुरुणा महाकविना कालिदासेन— आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ उपयुक्तसमयाभावेन सर्गसप्तकं यावदतिसंक्षिप्तया विज्ञपाठगत्याः काश्चि- द्विशेषता प्रकाशिताः । भागान्तरे वैशिष्ट्यान्तराणि चोपस्थापयिष्यन्त इति धिया साम्प्रतमेतावत्तैव विरम्यते । सर्गसप्तकस्यः कथासारः । प्रथमसर्गे— मङ्गलाचरणप्रस्तावनान्तरं प्रकृतचरितनायकचालुक्यकुलमूलपुरुषस्योत्पत्तिः प्रदर्शिता । सा चेत्थं-जातुष्विञ्चतुर्वदने प्रात सन्ध्यावन्दनपरे सुरपतिर्धरा- भारापनयनार्थमलौकिकपौरुषस्य कस्यचिन्महापुरुषस्याऽऽवश्यकतां निवेदयामास । तदनु वेधाः सन्ध्यासलिलपूर्णमात्मचुलुकमाडुलोके । तस्माच्च कमलासन- चुलुकाल्लोभत्रयत्राणप्रवीणः सुभटः आविरासीत् । स पुरुषः पुरुहूतं ‘धृतिमान् भव' इति प्रस्थाप्य सुरविपक्षक्षयदीक्षितोऽभूत् । तत एव चालुक्यकुलं समजनि । यत्र च हारीतमानव्यनामानावादिपूरुषौ बभूवतुः । तत्कुलजा युद्धदुर्धर्षा भूपाला अयोध्यां स्ववासस्थानं चक्रुः । केविच्च विश्वविजयक्रमेण विलासितया च दक्षिणस्यां दिशि निवासं विदधुः । किञ्चित्कालानन्तरं तैलपो नामातुलविक्रमो
भूपस्तद्वंशावतंसोऽभूत् । ततोऽनुपमशौर्याश्रय सत्याश्रयो नाम नरपति प्रादुर्बभूव । ततश्च समराङ्गणेषु मुहुर्मुहु प्राप्तजयो जयसिंह आविर्भूत । तस्माच्च त्रैलोक्य- मल्लापरनामक आहवमल्लाभिधानो विधुतावदानो नरनायक समजायत । अनुपमविक्रम स नरपालश्चोलदेश मालवराजधानी धाराञ्च जिगाय । डाहलपतिं कर्णञ्च विवर्णं चकार । एवमेव बहुष्वाहवेषु मल्ल स आहवमल्लो द्रविडप्रकाण्ड वीररसस्वाद्भाजनं विदधे, चोलराज्यश्रियञ्चाञ्चकषे ।
द्वितीयसर्गे—
प्रक्रान्तविक्रान्तचरित वाहवमल्लदेव सर्वा ककुभो विजित्य गुणिगण- मण्डिता कल्याणपुरीमात्मराजधानीरूपेण विदधे । समधिगतसम्पदतिशय पूरिताशेषमनोरथोऽपि स भूपतिस्तनयाभावेन दूयमानमानसोऽभूत् । तत स देव्या सम विमृश्य सकलराज्यकार्यभार मन्त्रिषु विनिवेश्य तनुजाऽऽसादनार्थं शङ्करानुष्ठाननिष्ठो बभूव । जातुचिद्दिभाते चन्द्रशेखरपरिचरणपरो नरवर स इमामशरीरिणीं गिरमाकर्णयति स्म—"भो नरपते ! कृतं तपसा । भगवान्पार्व- तीपतिस्त्वयि प्रसादाभिमुख संवृत्त । इय त्वदीया दयिता तनयत्रितयसमन्विता भविष्यति । तत्रापि शिवप्रसादाद्द्वितीयस्तनयोज्ज्वललो भविता" इति । अनन्तर नरदेवो व्रतपारणाविधिं विदध । ततश्च शुभ मुहूर्ते देवी सुतमेक- मसूत, यो नाम्ना सोमेश्वर संवृत्त । ततो माङ्गलिकेऽह्ने अन्य देव्या गर्भतो लोकोत्तर-गुणगणसमलङ्कृत समस्तशुभलक्षणलक्षित शिवप्रसादीकृतो द्वितीय- स्तनय समजति । निरतिशयहर्षप्रकर्षपरवशो महाराजश्चाऽऽत्मजस्य जातकर्मादि- सस्कार सम्पादयामास ।
तृतीयसर्गे—
नवप्रसूत प्रभूतशुभलक्षणपूरितो राजसुत आख्यया विक्रमाङ्कदेव इति ख्यातिमभजत् । स च बालोऽनितरसाधारणगुणवान्बाल एव प्रादर्शयद्रूपेण्व मातापितरौ प्रमोदमेदुरमानसौ । अचिरेणैव समयन विक्रमादित्यो विक्रमाङ्क- देवापरनामा समधिगतसमस्तविद्य संवृत्त । अत्रान्तरे नराधिपस्य जयसिंह- नामकस्तृतीयस्तनयोऽपि समजायत । अथ राजा प्रतापेनाऽऽदित्यसन्निभो द्वितीयम- प्यद्वितीयं विक्रमादित्याभिध तनूज यौवराज्यालब्कृत कर्तुमीयष । ज्येष्ठे भ्रातरि स्थितेऽपि स्वयोवराज्याभ्युपगमे महदनौचित्य पश्यन्नार्येोग्युचितपटु स
( १४ )
उक्तिविशेषैर्मुहुर्मुहुराग्रहग्रहग्रहिं स्वपितरं न्यषेधत् । इत्यञ्च सोमेश्वर सोम- देवापरनामधेय एव यौवराज्यपदभाग्जायत। वस्तुतस्तु विक्रमाङ्कदेव एव राज्यधु- राज्योढुं धोरपि भारमादिकमठो भूमिशेषयोरिव विशेषरूपेण वभार । तदनन्तरं पितुराज्ञया सर्वत्र रणोत्सवेषु विजयमवाप । एवञ्च स चोलाञ्जगाय, स्वशरणागतं मालवाधीशं निष्कण्टकं राज्ये समस्थापयत् । बहवो भूपाला कन्यकाप्रदानच्छलतोऽस्य सर्वस्वदानं चक्रुः ।
चतुर्थसर्गे—
विक्रमाङ्कदेवो दिग्विजय्यार्थं प्रयाणमकरोत् । तद्गजा मलयं मलयजरहि- तमकुर्वन् । स केरलदेशं जीवितेशदेशं प्रापयत् । तद्भयात्सिंहलभूपालस्तच्छरणं जगाम । एवञ्च विक्रमाङ्कदेवो गाङ्गकुण्डपुरं चोलदेशं च जिगाय । वेङ्गि- भूपालं चक्रकोटपतिञ्च स निर्वीयं चकार । एवञ्चापराक्रान्तो महाविश्रान्तो विक्रमाङ्कदेवः कृतकार्यं सन्निवार्यदैवगत्या स्वदेशप्रत्यावर्तनकाले बहुविधान्यप- शकुनानि प्रत्यक्षीचकार । ततश्च स तच्छान्त्यर्थं सर्वस्वदानमालोच्य कृष्णा- नदीतटे विशश्राम । तस्मिन्नेव समये कल्याणपुरात्समायातो दूत एतादृशीमभव्यां वार्तामश्रावयत्—“राजकुमार ! भवज्जनको भावत्कं पाण्ड्यचोलसिंहल- भूपालविजयं समाकर्ण्याऽमन्दमानन्दसन्दोहमन्वभूत् । परं नियतिदुर्गतिपरवशः स दाहज्वराभिभूत्या दक्षिणापथत्रिपथगां तुङ्गभद्रां प्राप्य सुवर्णदानपूर्वकं कण्ठदध्ने तन्तोये प्रविश्य चन्द्रशेखरपुरं प्रययौ” इति । इत्यञ्चाऽकाण्ड एव जनककैलाश- वासमाकर्ण्य परितप्तः स भृशं परिदेवयामास । अथ स सस्थितस्य तातस्योत्तर- क्रिया यथाविधि विधाय सत्वरमग्रजालोकनोत्कण्ठया कल्याणप्रयाणमुद्दिश्य जगाम ॥
तत स कियद्भिरपि दिवसैः कल्याणपुरीं समासाद्याऽग्रे समागतेनाऽग्रजन्मना सम्मानितस्तेनैव समं समानसक्लेशं नरेशप्रासादं विवेश । तदनु तावुभावकृत्रि- माभिप्रियं प्रणयवृत्तिभिः कतिचिद्वासरानापयताम् । गुणगणज्येष्ठोऽपि स ज्यायांसं तातप्रतीकाशं भ्रातोद्ध्य समीक्ष्य समर्पयामास च तस्मै दिग्विजयोपार्जितं समस्तं वस्तुजातम् । ततश्चानिवार्यया भवितव्यतया सोमेश्वरो दुर्विनयोपरोऽ- भूयेन च स भूपो विमले चालुक्यकुले कलङ्करूपो बभूव । यदा विक्रमादित्य आत्मनोऽग्रजस्य दुराग्रहं निराकर्तुं न शशाक, तदाऽन्यच्छोभीत्या भेरीरवेण श्रवणविवरं भिन्दन्कल्याणपुराद्विनिर्ययौ ॥
( १५ )
पंचमसर्गे—
विक्रमादित्य कल्याणपुरत्यागसमये स्वाग्रजात्सङ्कटमाशङ्क्य नयविनयोपेत जयसिंहापरनामधेय स्वानुज सिंहदेवमपि निनाय। अथैतद्वृत्तमसहमानश्चा- लुक्येश्वर सोमेश्वरो विक्रमादित्यस्य पृष्ठत पुष्कल बल व्यसंजयत्। ततश्च निर्बंधप्रहरणपर तद्बलनिवहन्नपि महाविक्रमो विक्रमश्चूर्णित चकार। उत्तुङ्ग- शक्ति स तुङ्गभद्रा प्राप, युद्धेच्छया चोलसम्मुखवर्ती च बभूव। एव च स कञ्चित्काल यावद्दनवासमण्डलमध्युवास। स्वबलवाद्यनिनादैर्मलयदेशभूभुजा- मात्मपूर्वविक्रम स्मारयन्विक्रम पुरत उच्चचाल। तस्मिन्नेवान्तरे कोङ्गणदेश- नरेशो जयकेशी प्रार्थितादप्यधिक धन तस्मै समर्पयामास। आलुपपालकश्च तदन्तिके रणचापल त्यक्त्वा समृद्धिं चाऽगात्। तत स रणेच्छया चोलांश्चचाल। विक्रमबलाऽतिक्रमाऽक्षमश्चोलभूपाल सन्ध्यर्थं स्वसन्देशहर विक्रमान्तिक प्राहिणोत्। स दूतो विक्रम बहुश स्तुत्वा चोलभूपालो भवते स्वकुमारी समर्प- यितुमिच्छती' ति निवेदयामास। विक्रमोऽपि तत्प्रार्थनामभ्युपगच्छंस्तुङ्गभद्रानदी- तटमगात्। तत्रश्चोलपति स्वकन्या विप्राय समर्पितवान् ररक्ष चैव विक्रमबलाक्रमणाच्चोलाऽञ्चलाम्।
षष्ठसर्गे—
अथ चोलपति कन्यादानान्तर जामातुरभ्यनुज्ञा समवाप्य चचाल। ततो विक्रमादित्य किञ्चित्कालाऽन्तर दैवहतकतया दुर्विलसिताद्रणाङ्गण चोलपते सुरलोकप्रयाणमाकर्णयत्। परिदेवनादनु स चोलराजकुमारे धियमभिषक्तु काञ्ची प्रति समुच्चचाल। तत्र च विक्रमादित्य विलोक्य काञ्चीकामिन्यो बहुविधा शृङ्गारचेष्टाश्चक्रू। ततश्च स दुष्टवर्गं क्षयतेजस विधाय चोलेन्द्र- निर्माणित गङ्गाकुण्डपुर प्रययौ। तत्र च स परिपन्थिसैन्यनिधनपूर्वक चोल- राजकुमार राजपदमभिरोप्य मासमपर्यन्त तत्राऽवस्थाय भूयोऽपि तुङ्गभद्रा यव्राज। दिष्टाऽनिष्टतया कतिपयदिदिवसेषु गतेषु राजिगाऽभिधान वेङ्गिनाथ प्रकृति- विरोधहतस्य तस्य निकृष्टश्यालकस्य राज्यमपजहार। कुटिलमतिरसौ राजिग पुनर्विक्रमाक्रमणायोद्युध्य विक्रमाग्रज सोमेश्वर स्वसहायकमकृत। ततो विक्रमादित्य राजियवधार्थ कृतप्रयाणे सति सोमेश्वरस्तस्य पृष्ठ त्वरिततरमुपागत। अग्रजेन सम समरकरण परमकल्म मन्वानो विक्रमोऽश्रुपूर्णनयन उद्यतो न बभूव, युद्धनिराकरणार्थं बहून्यनुभववचनानि च तत्पार्श्वे विससर्ज। इत्थ च समरा- नुद्यत निद्रापरस्य च भगवत्प्रमथेश्वर शान्त्यर्थपरिरक्षणार्थं युद्धतत्पर चकार।
( १६ ) ततश्च रोमहर्षणो रणः प्रवृत्ते । किमपर द्रविडपतिराकुलमतित्वेन पलायितः सोमदेवश्च बन्धनागारे न्यविशत । ततश्च विक्रमस्तुङ्गभद्रा जगाम । अग्रजाय राज्य वितरितु कृतमति स शङ्करेण भूयोऽपि न्यषेधि । इत्थ चाऽनिच्छया स प्रतापाऽतिशयेन राजसिंहासनमारुरोह, स्वानुगतमनुज च वनवासमण्डला- खण्डल चकार । सप्तमसर्गे— अथाऽसौ निर्वापितचोलप्रतापो विक्रमादित्य कल्याणपुर प्रविवेश । अत्रान्तरे शृङ्गारवधूर्मानिकेतनसखियो वसन्त आविर्बभूव ।। वसन्तर्तोरभिनव-कल्पनो- त्प्रेक्षाकृतवर्णनेनैव सप्तमोऽय सर्ग समाप्तिमगात् । इति राज्ञो विक्रमाङ्कदेवस्य सम्बन्धे यानि पुस्तकानि लिखितानि ये च लेखाः प्रकाशितास्तेषा सूची परिशिष्टे निबद्धा । एभिर्विक्रमाङ्कदेवविषये बहुज्ञातं भवति । परन्तु विक्रमाङ्कदेवसूनुना विदुषा सोमेश्वर-तृतीयेण, येनाऽभिलषि- तार्थचिन्तामणिर्मानसोल्लासापरनामको ग्रन्थो व्यरचि¹, तेन विक्रमाङ्काभ्युदयाख्य चम्पूकाव्यमपि विरचित यस्य हस्तलिखित पुस्तक पट्टनस्थजैनभाण्डारे वरीवर्ति । परञ्च पुस्तकमेतत् खण्डितमिति महद्दुःखास्पदम् । अन्यथा तदाधारेण समालोचकाना कवेर्वेतिहासिकादिक मत साधु दुष्ट वेति निर्णय सुतरा सारल्येन सम्भाव्य. स्यात् । तत्पुस्तकावलोकनेन तत्र समाप्ति—सूचन पार्श्वतोऽवलोक्याऽ- नुमातु शक्यते यदस्य पुस्तकान्तरमपि कुत्रचिदवश्यं भवेदिति । आशासे यद्भविव्यत्काले कोऽपि गवेषणाकुशलो विद्वान् पुस्तकान्तरमस्याऽवाप्य प्रकाश्य च साधुवादाँल्लभतेति । अन्ते चाऽस्मिन्पुस्तकेऽस्मत्कृता प्रकाशनयन्त्रजाता वा ये दोषा गुणग्राहकाणां विदुषा लोचनपथे समागच्छेयुस्ते मर्षणीवास्तेषाञ्च सूचनयाऽनुग्राह्योऽय जन इति सदर्भञ्जमभ्यर्थनम् । यतो— गच्छतस्स्खलन क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः । इति । —शुभ भूयात्— ¹ सोलंकियो का प्राचीन इतिहास पृष्ठ १२५-१२६ ।