वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
विहिता राजधर्माः । १३३ यथा नातीतमर्थं वै पश्चात्तापेन शोचति ॥ अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः । इन्द्रियाणामनैश्वर्यादैश्वर्याद्भूश्यतीह सः ॥ संनियच्छति योगेन उत्थितं कामहर्षयोः । स श्रियो भाजनं राजन् पश्चाद्यस्तु न मुह्यति ॥ नावमान्या बुद्धिमद्भिरवरोत्कृष्टमध्यमाः । न हि मानप्रदग्धानां कश्चिदस्ति मदः क्वचित् ॥ अवृत्तेर्भयमन्त्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥ अन्त्यानाम्, अधमानां मर्त्यानाम् । अवृत्तेः, जीविकानाशात् भयम् । कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम् । प्रसादयति यो लोकं तं लोको न प्रसीदति ॥ तमुद्दिश्य लोको न प्रसीदति नावसन्नो भवति । यो नोद्धतं जातु करोति वेषं न पौरुषेणापि विकत्थते च । नीत्या हि किञ्चित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसां ॥ इति । राज्ञोऽधिकमित्यनुवृत्तौ— गौतमः, योगश्च विजये भये विशेषेण चर्या च रथधनुर्भ्याम् । इति । योग उपायः । विजये, शत्रूणां तद्राष्ट्रादेश्च । भये विशेषे- , भये शत्रुप्रभृतिभ्य उपस्थिते, विशेषेणोपायः कार्य इत्य- : । चर्या पर्यटनम् । रथधनुर्भ्यामिति वाहनायुधानामुपलक्ष- म्, दृष्टार्थत्वात् । मनुः, नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरैः ॥ नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् । तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ अमाययैव वर्त्तेत न कथञ्चन मायया । बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ तथा, तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः । तीक्ष्णश्चैव मृदुश्चैव राजा भवति संमतः ॥ इति । उद्यतदण्डः, दण्डो हस्त्यश्वादियुद्धादिशिक्षाभ्यासः, स उ- द्यतस्संव्यापारो यस्य स तादृशः । अथ वा दण्डो दण्ड्यानां दण्डनं तदुद्यतं यस्य स तादृशः । विवृतपौरुषः, विवृतं प्रकाशी- कृतं पौरुषम् अस्त्रविद्याप्रकर्षादिकं यस्य स तथा । संवृतसंवा- र्यः, संवृतं परैरज्ञायमानं संवार्यं संवरणार्हं मन्त्राकारचेष्टितादि यस्य स तथा । उद्विजते बिभेति । तेन च प्रतापख्यातिर्भवती- त्यर्थः । अमायया अच्छद्मना । वर्तेत, अमात्यादिष्विति शेषः । अहितेषु तु क्वचिच्छद्मापि विहितमेव । शङ्खलिखितौ, राजा स्वाधीनवृत्तिरात्मप्रत्ययकोशः स्वयं कृत्यानुदर्शी विप्रस्वनिवृत्तश्चिरं भद्राणि पश्यति । इति । आत्मप्रत्ययकोशः, आत्मनः स्वस्य प्रत्ययो विज्ञानं यस्य तादृशकोशवान् । यमः, समः सर्वेषु भूतेषु नयानयविशारदः । नैकः कार्याणि यः कुर्यात्सोऽत्यन्तं पाति मेदिनीम् ॥ अत्यन्तं चिरकालम् । तथा,
विहिता राजधर्माः १३५ अन्तर्दोषं समुत्पन्नमाकारेणोपलक्षयेत् । शङ्केषु शङ्कितो नित्यं रक्षेच्छक्त्या सदोत्थितः ॥ पापानां निग्रहं कुर्यात्साधूनां परिपालनम् । यथाक्रमं च वृद्धानां काले काले निषेवणम् ॥ इति । शङ्केषु, पूर्वकृतापकारादिना शङ्कास्पदेषु । नारदः, सतामनुग्रहो नित्यमसतां निग्रहस्तथा । एष धर्मः स्मृतो राज्ञामर्थश्चापि भवेत्ततः ॥ तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् । दर्शनं व्यवहाराणामात्मनश्चापि रक्षणम् ॥ इति । राज्ञः कर्त्तव्यमित्यनुवृत्तौ- शङ्खलिखितौ, स्वपक्षे परपक्षे च स्थानवृद्धिक्षयाश्रयः । स्थानादीनां विभागश्च काले द्रव्यार्थसङ्ग्रहः ॥ इति । स्वपक्षे स्थानवृद्धिः, परपक्षे स्थानक्षयः, तयोराश्रयणम् । स्थानादीनाम्, अवस्थानस्थलानां दुर्गकोशादीनां च । विभागः, उचिताधिकारिभ्यस्तसमर्पणम् । काले यथोचितकाले । द्रव्यस्य, वस्त्रधान्यादेः, अर्थस्य, सुवर्णरजतादेः सङ्ग्रहः । राजधर्मानुवृत्तौ- मार्कण्डेयपुराणे, अहो तितिक्षामाहात्म्यमहो दानफलं महत् । पद्भ्यां गतो हरिश्चन्द्रः पुरश्चेन्द्रत्वमागतः ॥ इति । अत्र तितिक्षादानयोः सर्वसाधारणधर्मत्वेऽपि राज्ञोऽवश्य- कर्त्तव्यत्वेन तितिक्षायाश्चातिदुष्करत्वेन राजधर्मेषु विशिष्यो- पादानम् ।
१३६ वीरमित्रोदयस्य राजनीतिप्रकाशे यमः, याचितो नेति न ब्रूयादीक्षितो नानृतं वदेत् । सङ्ग्रामे न निवर्त्तेत तं देवाः क्षत्रियं विदुः ॥ दाता यज्वा च शूरश्च देवद्विजपरायणः । समः सर्वेषु भूतेषु चिरं पालयते महीम् ॥ तथा, पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः । भृत्या यमुपजीवन्ति स राजा शक्रलोकभाक् ॥ इति कात्यायनः, शौर्यविद्यार्थबाहुल्यात्प्रभुत्वाच्च विशेषतः सदा चित्तं नरेन्द्राणां मोहमायाति कारणात् ॥ तस्माच्चित्तं प्रबोद्धव्यं राजधर्मे सदा द्विजैः । पवित्रं परमं पुण्यं स्मृतिवाक्यं न लङ्घयेत् ॥ इति । द्विजैः, करणभूतैः, राज्ञा स्वचित्तं राजधर्मे प्रबोद्धव्यम् । गौतमः, ब्राह्मणं च पुरोदधीत विद्याभिजनवाग्रूपवयः- शीलसम्पन्नं न्यायवृत्तं तपस्विनं, तत्प्रसूतः कर्माणि कुर्वीत, ब्रह्मप्रसूतं हि क्षत्रमृद्ध्यते न व्यथत इति च विज्ञायते, यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस्तान्याद्रियेत, तदधीनमप्येके योगक्षेमं प्रतिजानते, शान्तिपुण्याहस्वस्त्ययनायुष्मङ्गलसंयुक्तान्याभ्युद- यिकानि विद्वेषणसंव्रननाभिचारद्विपद्वृद्धियुक्तानि च शालाग्नौ कुर्याद्यथोक्तमृत्विजोऽन्यानि । इति । पुरोदधीत, पुरोहितं कुर्यात् । सर्वेषु कर्मसु पुरो धीयत इति पुरोहितः । तत्प्रसूतः तदनुज्ञातः । तत्प्रसूत इत्यत्र त- च्छब्दानुकर्षणीयत्वेन ब्राह्मणं निर्दिशति — ब्रह्मप्रसूतमिति । ब्रह्म, ब्राह्मणस्तेन प्रसूतं तदनुज्ञातम्। ऋद्ध्यते समृद्धो भवति ।
... ऋद्ध्यभावः" Look at Gautama: "द्विषद्-ऋद्धि..." or "द्विषद्राद्धि..."! In Gautama Dharmasutra: "द्विषद्राद्ध्यनायुष्याणि" or "द्विषदृद्धि..."! Wait, Haradatta or Maskarin's commentary on Gautama Dharmasutra: "द्विषद्राद्धिः द्विषतां शत्रूणाम् ऋद्ध्यभावः" OR "द्विषदृद्धिः" OR "द्विषद्राद्दिः"? WAIT! LOOK AT THE WORD IN THE IMAGE: "द्विषदन्नाद्दिः" -> WAIT! Look at the characters again: Is it "द्विषद्राद्दिः,"??? LOOK AT IT: द् [d] वि [vi] ष [ṣa] द [da] रा [rā] -> WAIT! Is that 'रा'??? A vertical line with a top bar, but wait: is it 'रा' or 'न्ना'? Wait, look at 'रा' in 'राजा' (line 11): 'रा'! In line 10, between 'द' and 'द्दिः', what is there? There is: 'रा' or 'द्वा' or 'न्ना'? Wait, if it's "द्विषद्राद्दिः": Wait, Gautama Dharmasutra text: "द्विषद्राद्ध्यनायुष्याणि" (dvī
१३८ वीरमित्रोदयस्य राजनीतिप्रकाशे दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ इति । महाभारते, पुरोहितप्रधानो हि राजा हितमवाप्नुयात् । सदाऽऽचरति यो धर्मं नृपो ब्राह्मणदेशितम् ॥ तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति । तस्य धर्मस्य सिद्धस्य भागी राज्ञः पुरोहितः ॥ इति । ब्रह्मपुराणे, द्वौ लक्षहोमौ कुर्वीत तथा संवत्सरं प्रति । एकं च कोटिहोमं च यत्नात्सर्वाभयप्रदम् ॥ अथर्ववेदविहितं समन्त्री सपुरोहितः । नित्यान्याहार्यकाम्यानि तथा नैमित्तिकानि च ॥ ग्रहणे सूर्यशशिनोर्भूकम्पोत्पातदर्शने । तत्क्षणे च महाशान्तिः कर्त्तव्याऽनिष्टनाशिनी ॥ इति । याज्ञवल्क्यः, श्रौतस्मार्त्तक्रियाहेतोर्वृणुयादृर्त्विजस्तथा । यज्ञांश्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान् ॥ भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि । अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ॥ इति । राजेत्यनुवृत्तौ- शङ्खलिखितौ, दद्याद्दानमर्चयित्वा ब्राह्मणाय, निमित्तपूर्वं शेषेभ्यः, कृपणातुरानाथव्यङ्गविधवावालवृद्धानौषधावसथाशनाच्छादनै- र्बिभृयात् । इति । शेषेभ्यः क्षत्रियादिभ्यः । निमित्तपूर्वं सेवाद्युपाधिना । राजधर्मेषु-
विहिता राजधर्माः । १३९
आपस्तम्बः, भृत्यानामनुरोधेन क्षेत्रं वित्तं च द- दद्ब्राह्मणेभ्यो यथार्हमनन्तान् लोकान् जयति । इति । भृत्यानां, राजरक्षणोपयुक्तानाममात्यानुजीविप्रभृतीनाम् । अनुरोधेन तद्दृश्यपीडनेन । यथार्हं, वृत्तशीलविद्याकुटुम्बादिकं विचार्य । कात्यायनः, वेदध्वनिप्रभावेन देवाः स्वर्गनिवासिनः । तेऽपि तत्र प्रमोदन्ते तृप्तास्तु द्विजपूजनात् ॥ तस्माद्यत्नेन कर्तव्या द्विजपूजा सदा नृपैः । तेन भूयोऽपि शक्रत्वं नरेन्द्रत्वं पुनः पुनः ॥ इति । सत्कर्मणा शक्रत्वं प्राप्य पुण्यक्षये पुनर्नरेन्द्रत्वं, प्राप्नुया- दितिशेषः । अत एवोक्तम् — अनेनैव, सुराध्यक्षश्च्युतः स्वर्गान्नृपरूपेण तिष्ठति । कर्त्तव्यं तेन तन्नित्यं येन तत्त्वं समाप्नुयात् ॥ इति । तत्त्वं सुरेशत्वम् । यस्य राज्ञो राज्यं स्वयं प्राप्तं तत्प्रेतकृ- त्यं राजा कुर्यात्तन्मातापित्रादींश्चावश्यं बिभृयात् । तदाह- वासिष्ठः, राजनि च दद्यात्प्रेते प्रासङ्गिकम् । अनेन माता- पितृवृत्तिर्व्याख्याता, राजमहिषीपितृवृत्तिर्व्याख्याता । राजम- हिषीपितृव्यमातुलान् राजा बिभृयात्, तद्वधूश्च । अन्याश्च राज- पत्न्यो ग्रासाच्छादनं लभेरन् । अनिच्छन्त्यो वा व्रजेयुः । क्लीबोन्मत्तान् राजा बिभृयात्तद्गामित्वादृक्थस्य । इति । अस्यार्थः । राजनि प्रेते मृते यः पुत्रातिरिक्तोऽपि राजा भवति, स प्रासाङ्गिकं, मरणप्रसङ्गेनावश्यकं तच्छ्राद्धादि, कुर्यादि- त्यर्थः । यस्तु पितृमरणोत्तरं राजा भवति तं प्रति श्राद्धादिविधा-
१४० वीरमित्रोदयस्य राजनीतिप्रकाशे नस्याप्यवयवप्रसङ्गात, सामान्यत एव प्राप्तेः । अनेन, तच्छ्राद्धादि- विधानेन । मातापितृवृत्तिः, मृतराज्ञो मातापित्रोर्भरणादिरूपा । व्याख्याता, अवश्यं कर्त्तव्येत्यर्थः । अन्याश्च राजपत्न्यः, तद- वरोधवासिन्योऽविवाहिता अपि, एता ग्रासाच्छादनं लभेरन्निति, अनेन पूर्वोक्तं नां भरणविधानं पूर्वराजकृततद्वृत्यनुच्छेदपर- म् । तत्रापि मातापित्रोर्यावती पूर्वराजकृता वृत्तिः सा सर्व्वापि दातव्या, राजमहिषीपितृव्यमातुलानां तु भरणं मानपुर- सरम् । अवश्यं तद्धरणीयजनपोषणं यथा भवति तथा विधे- यम् । तदवरोधवासिनीनामन्यासां विवाहितानामविवाहितानां च ग्रासाच्छादनमात्रं दद्यात्, पृथक्पृथङ्निर्देशात् । अत एव सर्वशेषे "तद्गामित्वादृक्थस्य" इति हेतूपन्यासः । रिक्थस्य तत्तदायस्य । तद्गामित्वात् नूतनराजगामित्वात् । क्लीवोन्मत्तान् । पूर्वराजान्तःपुरादावधिकृतान् क्लीवान्, उन्मादोऽसावधानता सा च रोगवयःप्रभृतिदोषकृता तद्युक्ततया पूर्वराजेनावश्यभृतान् । आपस्तम्बः, आवसथे सवेशंश्रोत्रियानतिथीन् वासये- त्तेषां यथागुणमावसथाः शय्याऽन्नपानं च देयं गुरुनमात्यांश्च नातिजीवेत् । इति । देयं, राज्ञेतिशेषः । नातिजीवेत्, अतिक्रम्य न जीवेत् । गुरूणाममात्यानां च जीविकां कृत्वैव स्वजीविकां कुर्य्यादित्यर्थः। मनुः, श्रोत्रियं व्याधितार्त्तौ च बालवृद्धावकिञ्चनौ । महाकुलीनमार्य्यं च राजा सम्पूजयेत्सदा ॥ इति । राजेत्यनुवृत्तौ गौतमः, विभृयाद्ब्राह्मणांश्छ्रोत्रियान्निरुत्साहांश्चाब्राह्मणानकरांश्च-
विहिता राजधर्माः । १४१ पकुर्वाणांश्च । इति । निरुत्साहान्, कर्त्तव्यार्थे स्थिरः प्रयत्न उत्साहस्तद्रहितान्, अलसानितियावत् । अब्राह्मणान्, ब्राह्मणातिरिक्तान् क्षत्रिया- दीन् । अथ वा अब्राह्मणान् श्रोत्रियत्वादिगुणरहितान् ब्राह्म- णान् । अकरान्, येभ्यः करो न गृह्यते, किन्तु मासि मास्येकै- कदिनं कर्म कार्यते तादृशान् शिल्प्यादीन् । अत एव- मनुः, यस्य राज्ञस्तु विषये ब्राह्मणः सीदति क्षुधा । तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ॥ श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् । संरक्षेत्सर्वतश्चैनं पिता पुत्रमिवौरसम् ॥ संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् । तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ इति । अत्र हि मनुवाक्ये-“ब्राह्मणः सीदति क्षुधा” इति प्रथम- मुपक्रम्य, “श्रुतवृत्ते विदित्वास्य” इत्यनेन श्रोत्रियस्यैवाव- श्यभरणीयत्वमुपसंहृतम् । तदेकमूलकतया गौतमवाक्येऽपि श्रोत्रियस्यावश्यभरणीयत्वमुक्त्वा तदतिरिक्तस्य जातिमा- त्रब्राह्मणस्य भरणे निरुत्साहत्वं हेतुत्वेनोपन्यस्तं वेदितव्यम् । शङ्खलिखितौ, राजन्यवैश्यावप्यजीवन्तौ राजानमुपति- ष्ठेयातां तावुभौ शक्तितः संविभक्तावुपकुर्यातां स्वस्वधर्मानुष्ठा- नेन शिल्पिनः कारवश्च शूद्राः । इति । अजीवन्तौ, स्वस्ववृत्त्या जीविकामलभमानौ । एतद्वाक्ये- ऽपि- संविभक्तौ कृतजीविकौ, तावुभौ राजन्यवैश्यौ, राज्ञः शक्तितो यथासामर्थ्यमुपकुर्याताम्, अपिशब्दात् शिल्प्यादयः शूद्रा अपि जीविकामलभमाना राज्ञा कृतसंविभागाः, स्वस्वध-
१४२ वीरमित्रोदयस्य राजनीतिप्रकाशे र्मानुष्ठानेन राज उपकुर्युरित्युक्तम् । तथा चोपकुर्वतामेव क्षत्रि- यादीनां त्रयाणां वर्णानां राज्ञोऽवश्यभरणीयत्वं, न त्वनुपकुर्व- ताम् । पूर्वोदाहृतगौतमवाक्ये निरुत्साहांश्च ब्राह्मणानित्यनेना- नुपकुर्वतामपि जातिमात्रब्राह्मणानामवश्यभरणीयत्वे निरुत्साहत्वं हेतुरुपन्यस्तः । अन्यथा हि अनुपकुर्वतामपि स्वराष्ट्रवर्त्तिनां सर्वेषामवश्यभरणीयत्वेनैतेषामभरणे राज्ञो महान् दोषोऽश- क्यानुष्ठानता च स्यात् । हरदत्तस्तु पूर्वोदाहृतं गौतमवाक्यमेवं व्याख्यातवान् । बिभृयात् श्रोत्रियान् ब्राह्मणान्, श्रोत्रिया अधीतवेदाः तान्, ब्राह्मणानन्नादिदानेन बिभृयात् । निरुत्साहांश्चाब्रा- ह्मणान्, जीवनार्थं यत्नं कर्तुमसमर्थान् अब्राह्मणान् क्षत्रियादीनपि बिभृयात्, किं पुनर्ब्राह्मणान् । पूर्वसूत्रे तु अ- र्जने समर्थानपि श्रोत्रियान् स्वयमाहूय बिभृयादिति । अकरांश्च, येभ्यः पूर्वैः करो न गृहीतस्तान् अकरान्, बिभृयात्, तेभ्यः स्वयं करं नोत्पादयेत् । उपकुर्वाणांश्च, अधीयाना ब्रह्मचारिण उपकुर्वाणास्तांश्च बिभृयादन्नादिदानेन, यद्यर्थिनः, स्वयंजी- वनवतश्च करादिव्यावर्त्तनेन । उपकुर्वाणा, लोकोपकारिणो वैद्यादय इति केचित् । यमः, अभेद्यमच्छेद्यमनादिमक्षयं निधिं पुराणं पालयन्ति ये । महीपतिस्तानभिपूज्य वै द्विजान् भवेदजेयो दिवि देवराडिव ॥ पुराणं निधिं, वेदरूपम् । शक्यं हि कवचं भेत्तुं नाराचेन शरेण वा । अपि वज्रसहस्रेण ब्राह्मणाशीः सुदुर्भिदा ॥ इति । तथा,
२. द्वितीय प्रकाश: प्रजा-पालन, कर-व्यवस्था (राजस्व), सीमा-रक्षा एवं दुर्ग-निर्माण
विहिता राजधर्माः। १४३ पूर्वरात्रान्तरात्रेषु द्विजा यस्य ह्यधीयते । स राजा सह राष्ट्रेण वर्द्धते ब्रह्मतेजसा ॥ राजा यत्कुरुते पापं प्रमादात्सह तेन च । वसन्तो ब्राह्मणा राष्ट्रे जप्येन शमयन्ति तत् ॥ ब्राह्मणान् पूजयेन्नित्यं प्रातरुत्थाय भूमिपः । ब्राह्मणानां प्रसादेन वसन्ति दिवि देवताः ॥ यदरुच्या हरन्त्येते शुभं वा यदि वाऽशुभम् । तत्तथा नान्यथा कुर्याद्ब्राह्मणा ह्यत्र कारणम् ॥ इति । मनुः, नाब्रह्म क्षत्रमृध्नोति१ नाक्षत्रं ब्रह्म वर्द्धते । ब्रह्म क्षत्रेण संयुक्तमिह चामुत्र वर्द्धते ॥ इति । यमः, राजा वृक्षो ब्राह्मणास्तस्य मूलं पौराः पर्णं मन्त्रिणस्तस्य शाखाः। तस्माद्राज्ञा ब्राह्मणा रक्षणीया मूले गुप्ते नास्ति वृक्षस्य नाशः ॥ आसन्नं हि दहत्यग्निर्दूराद्दहति ब्राह्मणः । प्ररोहत्यग्निना दग्धं ब्रह्मदग्धं न रोहति ॥ ब्राह्मणानां च शापेन सर्वभक्षो हुताशनः । समुद्रश्चाप्यपेयश्च विफलस्तु पुरन्दरः ॥ विफलः वृषणरहितः । चन्द्रमा राजयक्ष्मी च पृथिव्यामूषराणि च । वनस्पतीनां निर्यासो दानवानां पराजयः ॥ अनन्तान्येव तेजांसि ब्राह्मणानां महात्मनाम् । तस्माद्विप्रेषु नृपतिः प्रणमेन्नियमेन च ॥ इति । महाभारते, १ वर्धते इत्यर्थः ।
१४४ वीरमित्रोदयस्य राजनीतिप्रकाशे अष्टौ पूर्वनिमित्तानि नरस्य विरमिष्यतः । ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणांश्च विरुद्ध्यते ॥ ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति । रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ नैतान् स्मरति कृत्येषु याचितश्चाभ्यसूयति । एतान् दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥ तथा तत्रैव भीष्मवाक्यम्— एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत । ब्राह्मणानामनुज्ञातमत्यन्तं सुखमिच्छता ॥ कर्तव्यं पार्थिवेनेह तद्विद्धि भरतर्षभ । श्रोत्रियान् स्नातकान् वृद्धान्नित्यमेवाभिपूजयेत् । पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् । सान्त्वेन भोगदानेन नमस्कारैस्तथैज्यया ॥ एतत्कृत्यतमं राज्ञां नित्यमेवाभिलक्षयेत् । यथात्मानं यथा पुत्रांस्तथैतान् परिपालयेत् ॥ ये चाप्येषां पूज्यतमास्तान्नृपः प्रतिपूजयेत् । तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ॥ इति । राज्ञां खड्गादिषु देवीपूजनमावश्यकं सर्वदा कर्तव्य- त्वेनोक्तम्— देवीपुराणे, नामभेदेन सा भिन्ना अभिन्ना परमार्थतः । शिवा नारायणी गौरी चर्चिका विमला उमा ॥ सा वन्द्या पूजनीया च सततं तत्तद्भावितैः । विजयार्थं नृपैः खड्गे छुरिकापादुके पटे ॥ चामुण्डां चित्ररूपां च लिखितां चाथ पुस्तके ।
विहिता राजधर्माः । १४५
ध्वजे वा कारयच्छत्रे स नृपो विजयेद्रिपून् । इति । कार्त्तिकेयपूजापि सर्वदा कर्त्तव्यत्वेन, विशेषतश्च रणे प्र- स्थितस्य राज्ञ आवश्यकत्वेनोक्ता भविष्यपुराणे— राज्ञां पूज्यः सदा प्रोक्तः कार्त्तिकेयो महीपते । कार्त्तिकेयादृते राज्ञां नान्यं पूज्यं प्रचक्षते ॥ सङ्ग्रामे गच्छमानो यः पूजयेत्कृत्तिकासुतम् । स शत्रूञ्जयते वीरो यथेन्द्रो दानवान् रणे ॥ तस्मात्सर्वप्रयत्नेन पूजयेच्छङ्करात्मजम् । पूजयानस्तु तं भक्त्या चम्पकैर्विविधैर्नृप ॥ मुच्यते सर्वपापेभ्यः सद्यो गच्छेच्छिवालयम् । नान्यं पूज्यमित्यनेन कार्त्तिकेयपूजाविधानस्यावश्यकत्वम्, न त्वन्यदेवतापूजानिषेधः । उदाहृतदेवीपुराणवचनेन देवीपू- जायाः, कूर्मपुराणादौ शिवविष्ण्वादिदेवतापूजाया अपि राज- कर्तृकत्वेन विशिष्ट्याभिधानात् । राजेत्यनुवृत्तौ अन्यदपि कर्त्तव्यत्वेनोक्तं ब्रह्मपुराणे— नित्यं सन्निहितान् देवान्मुनीन् नागांश्च पूजयेत् । पिशाचेभ्यो बलिं दद्यात्सन्ध्याकाले च नित्यशः ॥ इति । उक्तवृत्तस्य राज्ञः फलमाह मनुः— एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । विस्तार्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ इति । कात्यायनोऽपि— आत्मीये संस्थिता धर्मे नृपाः शक्रत्वमाप्नुयुः । अवीचिवासिनो ये तु व्यपेताचारिणः सदा ॥ ये तु व्यपेताचारिणः त्यक्तवर्णाश्रमधर्मास्ते सदा बहु- कालपर्यन्तमवीचिनामकनरकवासिनः । १९
१४६ वीरमित्रोदयस्य राजनीतिप्रकाशे गच्छेत्सम्यगविज्ञाय वशं क्रोधस्य यो नृपः । वसेत्स नरके घोरे कल्पान्तं तु न संशयः ॥ सम्यगविज्ञाय, स्वक्रोधनिमित्तं परापराधमनिर्णीय । कर्त्तव्यान्तरमप्युक्तं गरुडपुराणे— मनस्तापं न कुर्वीत आपदं प्राप्य पार्थिवः । समबुद्धिः प्रसन्नात्मा सुखदुःखसमो भवेत् ॥ वीराः कष्टमनुप्राप्ता न भवन्ति विषादिताः । प्रविश्य वदनं राहोर्विनोदति पुनः शशी ॥ तथा, कारणेन विना भृत्ये यस्तु कुप्यति पार्थिवः । स गृह्णाति विषोन्मादं कृष्णसर्पेण दंशितः ॥ तथा, लीलां करोति यो राजा भृत्ये सज्जनगर्विते । स वादे विग्रहे क्षिप्रं रिपुभिः परिभूयते ॥ लीलां क्रीडाम् । वादे, वाक्कलहे । विग्रहे, शस्त्रसाध्ये सङ्ग्रामे । तथा, तुल्यार्थं तुल्यसम्बन्धं मर्मज्ञं व्यवसायिनम् ॥ अर्द्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते । इति इति राज्ञो विहितधर्माः । अथ राज्ञः प्रतिषिद्धा धर्माः, मत्स्यपुराणविष्णुधर्मोत्तरयोः, मृगयां पानमक्षांश्च वर्जयेत्पृथिवीपतिः । एतान्यासेवमानास्तु विनष्टाः पृथिवीक्षितः ॥
प्रतिषिद्धा राजधर्माः । १४७ बहवो नृपशार्दूल सङ्गया येषां न विद्यते । दिवास्वप्नं वृथाऽट्यां च विशेषेण विवर्जयेत् ॥ वृथाऽट्या, वृथाऽटनम् । वाक्पारुष्यं न कर्त्तव्यं दण्डपारुष्यमेव च । परोक्षनिन्दा च तथा वर्जनीया महीक्षिता ॥ अर्थस्य दूषणं राजा द्विपकारं विवर्जयेत् । अर्थानां दूषणं चैकं तथाऽर्थेन च दूषणम् ॥ प्राकाराणां समुच्छेदो दुर्गादीनामसत्क्रिया । अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ॥ अदेशकाले यद्दानमपात्रे दानमेव च । अर्थेन दूषणं प्रोक्तमसत्कर्मप्रवर्त्तनम् ॥ तथा, न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते । न भाव्यं दारुणेना तितीक्ष्णादुद्विजते जनः ॥ काले मृदुर्यो भवति काले भवति दारुणः । राजा लोकं दयाऽपेक्षी तस्य लोकद्वयं भवेत् ॥ भृत्यैः सह महीपालः परिहासं विवर्जयेत् । भृत्याः परिभवन्तीह नृपं हर्षुकसङ्कथम् ॥ व्यसनानि च सर्वाणि भूपतिः परिवर्जयेत् । लोकसङ्ग्रहणार्थाय भृतकव्यसनी भवेत् ॥ शौण्डीरस्य नरेन्द्रस्य नित्यमुद्रिक्तचेतसः । जना विरागमायान्ति सदा दुःसेव्यभाविताः ॥ व्यसनानि, पुरुषार्थविक्षेपकाणि मृगयादीनि । तान्याह मनुः— मृगयाऽक्षा दिवास्वापः परिवादः स्त्रियो मदः ।
१४८ वीरमित्रोदयस्य राजनीतिप्रकाशे तौर्यत्रिकं वृथाऽट्या च कामजो दशको गणः ॥ तौर्यत्रिकं नृत्यगीतवाद्यानि । एतत्त्रिकमादाय दश काम- जानि व्यसनानि । पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयाऽर्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ वाक्पारुष्यं दण्डजं च पारुष्यमादायाष्टविधत्वं द्रष्टव्यम् । द्वयोरप्येतयोर्मूलं यं पूर्व कवयो विदुः । तं यत्नेन जयेल्लोभं तज्जये तावुभौ गणौ ॥ दश कामसमुत्थानि तथाऽष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥ आत्मनैव वियुज्यते, मरणमापद्यत इत्यर्थः । तत्र सप्त कष्टतमानि । यथाऽऽह मनुः— पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं सदा ॥ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः । पूर्वपूर्वं गुरुतरं विद्याद्व्यसनमात्मनः ॥ परिवादः, परदोषकथनम् । वृथाऽट्या, वृथाऽटनम्। पैशुन्यम्, अनभिव्यक्तदोषाविष्करणम् । साहसम्, साथोर्बन्धनादिनिग्रहः । द्रोहः, ब्रह्मवधः । ईर्ष्या, परगुणासहिष्णुता । परगुणेषु दोषावि- ष्करणमसूया । अर्थदूषणम्, अर्थापहारो देयानामदानं च । वा-
प्रतिषिद्धा राजधर्माः । १४९ क्पारुष्यम्, आक्रोशादि। दण्डपारुष्यम्, अल्पापराधेऽपि बहुला- र्थग्रहणं, शारीरदण्डो वा । व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः ॥ अधोऽधो व्रजति, नरकं प्रतिपद्यत इत्यर्थः । नरकाणां पा- ताल एव वर्णितत्वात् । विष्णुधर्मोत्तरे— न गाहेज्जनसम्बाधं न चाज्ञातं जलाशयम् । नापरीक्षितपूर्वं तु पुरुषैराप्तकारिभिः ॥ नारोहेत्कुञ्जरं व्यालं नादान्तं तुरगं तथा । व्यालम्, दुष्टम् । नाविज्ञातां स्त्रियं गच्छेन्नैव चाशुष्कवाससम् । अशुष्कवाससम्, आर्द्रवाससं, रजस्वलामित्यर्थः । तथा, नारोहेद्विषमां नावं नापरीक्षितनाविकाम् । तथा, देवतासु न वोच्छिन्द्यात्पूर्वदायान् कथञ्चन । प्राक्स्थितं च न चोच्छिन्द्यान्न चोच्छिन्द्यात्तथा जनात् ॥ उच्छेत्ता नरकं याति सह पूर्वैः पितामहैः । अपि स्वल्पं न हर्तव्यं देवद्रव्यं विजानता ॥ स्वल्पस्यापि फलं घोरं यस्माज्जन्मान्तरे भवेत् । षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥ देवद्रव्यापहरणान्नरकं प्रतिपद्यते । सन्तीह देवताः सौम्याः सन्त्युग्राश्चापि भारत ॥
१६० वीरमित्रोदयस्य राजनीतिप्रकाशे दर्शयन्ति रुषं सौम्याः राज्यभ्रंशादिभिर्नृणाम् । अस्मिंल्लोके रुषं क्रूरा नैव कुर्वन्ति देवताः ॥ तासां वित्तापहरणाद्राजा नरकमृच्छति । पूर्वैः पितामहैः सार्द्धं प्रागुक्तं कालमेव तु ॥ देवद्रव्यापहरणं नैव जातु भवेद् वृथा । सर्वस्वरहितान् कृत्वा देवद्रव्यापहारिणः ॥ अङ्कयित्वा द्विजश्रेष्ठ स्वराष्ट्राद्विप्रवासयेत् । त्रैविद्या वणिजो वैश्या लिङ्गिनो देवपालकाः ॥ तथा तत्प्रतिबद्धाश्च न कुर्युः कलहं मिथः । तेषां तन्नायकः स्वामी निग्रहानुग्रहे भवेत् ॥ रागद्वेषवियुक्तस्तु विवास्यश्चान्यथा भवेत् । तथा तत्रैव, ब्रह्मस्वं नैव चाऽऽदद्याद्ब्रह्मस्वं पालयेत्तथा । ब्रह्मस्वहरणाद्राम नरके पच्यते नरः ॥ न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं सप्र पूरुषान् ॥ ब्रह्मस्वं प्रणयाद् भुक्तं हिनस्त्यासप्तमं कुलम् । द्रोहाद् भुक्तं तदेवेह कुलानां पातयेच्छतम् ॥ सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलम् । हरन्नरकमाप्नोति यावदाभूतसम्प्लवम् ॥ अत्र सुवर्णशब्दः परिमाणविशिष्टसुवर्णवचनः । दृष्ट्वाऽविद्यं दुराचारं ब्राह्मणं न द्विषेत्क्वचित् ॥ ब्राह्मणानां परीवादान्नाशमाप्नोति मानवः । न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ॥ नैवास्ति ब्राह्मणवधात्पापं गुरुतरं क्वचित् ।
प्रतिषिद्धा राजधर्माः । १५१ ब्रह्महा नरकं याति यावदाभूतसम्प्लवम् ॥ वर्षाणामयुतं राम पच्यते चावगूरिते । शोणितं यावतः पांसून् सङ्गृह्णाति द्विजन्मनाम् ॥ क्षतात्तावन्ति वर्षाणि क्षतकृन्नरके वसेत् । उपद्रुतो द्विजो येन त्यजेज्जीवितमात्मनः ॥ ब्रह्महत्या भवेत्तस्य नात्र कार्या विचारणा । इति । विष्णुः — स्वदत्तां परदत्तां च भुवं नापहरेद्ब्राह्मणेभ्यः । इति । मनुः — परामप्यापदं प्राप्तो ब्राह्मणं न प्रकोपयेत् । परामपि, कोषक्षयेण बलवद्राजविरोधेन चोत्कृष्टाम्, आपदं प्राप्तो राजा ब्राह्मणं न प्रकोपयेत् । तदीयधनाऽऽदानेन तदवग- णनया वा तन्मन्युं नोत्पादयेत् । ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ॥ यैः कृतः सर्वभक्षोऽग्निरपेयश्च महोदधिः । क्षयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान् ॥ लोकानलोकान् कुर्युस्ते लोकपालांश्च कोपिताः । देवान् कुर्युरदेवांश्च कः क्षिण्वंस्तान् समृध्नुयात् ॥ यान्समाश्रित्य तिष्ठन्ति देवा लोकाश्च सर्वदा । ब्रह्मैव च धनं येषां को हिंस्यात्तान् जिजीविषुः ॥ प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत् । एवं विद्वानविद्वांश्च ब्राह्मणो दैवतं महत् ॥ श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति । हूयमानश्च यज्ञेषु भूय एवाभिपूज्यते ॥ एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु ।
१५२ वीरमित्रोदयस्य राजनीतिप्रकाशे सर्वथा ब्राह्मणः पूज्यो दैवतं परमं हि तत् ॥ क्षत्रस्यापि प्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः । ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसम्भवम् ॥ अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ “परामप्यापदं प्राप्त” इत्यस्य निषेधस्य “ते ह्येनं कुपिता हन्युः”इत्यारभ्य “स्वासु योनिषु शाम्यति”इत्यन्तः सर्वोऽयमर्थ- वादः । ब्रह्मैव च धनं येषामिति । ब्रह्मैव वेद एव येषां ब्राह्मणा- नाम् अभ्युदयसाधनतया याजनाध्यापनादिना धनार्जनोपाय- त्वेन धनम् अवश्यापेक्षितमवश्यरक्षणीयं च, तान् ब्राह्मणान् जिजीविषुर्जीवितुमिच्छन् को हिंस्यात्पीडयेत् । अपराधिनोऽपि ब्राह्मणस्य दण्डनिवृत्त्यर्थं स्तुतिरियम् । मनुः— द्यूतं समाह्वयं चैव राजा राष्ट्रात्निवारयेत् । राज्यान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् ॥ प्रकाशमेतत्तास्कर्यं यद्देवनसमाह्वयौ । तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान भवेत् ॥ अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥ द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा । तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥ कितवान् कुशीलवान् चौरान् पाखण्डस्थांश्च मानवान् । विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात् ॥ एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः ।