वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
४१८ वीरमित्रोदयस्य राजनीतिप्रकाशे आरोप्या प्रतिमा तत्र सुसूक्ष्मा च सुशोभना ॥ कूटागारं च वोढव्यं गजैरश्वैर्नरैर्वृषैः । देशकालानुसारेण वस्त्रमाल्याद्यलङ्कृतैः ॥ सबलेनानुगन्तव्यं राज्ञा देवस्य पृष्ठतः । सुदूरे चानुगन्तव्यं तत्प्रयुक्तैश्च मन्त्रिभिः ॥ यस्य यस्य समीपे तु स देवो याति पूजितः । तेनातिथ्यं च कर्त्तव्यं तस्मै धूपादिभिस्तथा ॥ क्ष्वेडितोत्कृष्टशब्दैश्च जयवाद्यस्वनेन च । यथागमं च कर्त्तव्यं नगरे च प्रदक्षिणम् ॥ ततो देवगृहं प्राप्य सम्पूज्य प्रतिमां नयेत् । महान्तमुत्सवं कुर्वन् गीतनृत्तसमाकुलम् ॥ तस्यां रात्रौ ततो देया दीपाः शतसहस्रशः । रङ्गभूमौ दिदृक्षूणां प्रकाशार्थं महात्मनः ॥ तैस्तैः सुभाषितैः श्लोकैर्हर्षयित्वा जनांस्तथा । सर्वेषामनुकम्पार्थं धर्मचक्रं प्रवर्त्तयेत् ॥ रङ्गोपजीविनां पश्येत् तृतीयेऽहनि कौशलम् । यथाशक्ति धनं तेभ्यो दद्याद्दम्भं च वर्जयेत् ॥ प्रेक्षाकाले प्रधानास्ते पूजितव्याः क्रमेण तु । सम्मानपूर्वं विधिवत्ताम्बूलकुसुमादिभिः ॥ यात्रावसाने भूतानि पूजनीयानि सर्वदा । पूजोपचारैर्बलिभिस्तथा नक्तञ्चरानपि ॥ अदृष्टविग्रहानेव दिदृक्षूणां महोत्सवम् । सन्ध्यायां परया भक्त्या त्यक्त्वा सन्देहमात्मनः ॥ सर्वमस्तीति विज्ञाय चेतसा निर्मलेन च । एकान्ते देवताः पूज्या वैशाखे मासि पूर्ववत् ॥
कौमुदीमहोत्सवः । ४१९ गृहे गृहस्थैः सम्पूज्याः स्त्रियश्च गृहदेवताः । आचारान् पालयेदेतान् यस्तु राजा समाहितः ॥ सपुत्रपौत्रसंयुक्तो दीर्घायुर्धनवान् भवेत् । सर्वत्र जयमाप्नोति याति स्वर्गे च शाश्वतम् ॥ यदेतद्वैष्णवं वाक्यं देशेऽस्मिन् लङ्घ्यते जनैः । तदा सस्यानि नश्यन्ति घोरैरुदकविप्लवैः ॥ अतिवृष्टिरनावृष्टिर्दुर्भिक्षं च तथा मृतिः । दम्भाभिमानलोभांस्तु तस्मात्त्यक्त्वा प्रयत्नतः ॥ यदुक्तं विष्णुना वाक्यं तत्कुर्यात्कृतनिश्चयः । इति । इति ब्रह्मपुराणोक्तदेवयात्राप्रकरणम् । अथ कौमुदीमहोत्सवः । तत्र स्कन्दपुराणे, प्रातः प्रभृति राजा च आज्ञापयति कौमुदीम् । देवरात्रौ च देवस्य रुद्रस्यासुरनाशिनीम् ॥ सुसंमृष्टोपलिप्ताभी रथ्याभिः क्रियतां पुरम् । वासोभिः संहतैः सर्वे भवन्तु पुरवासिनः ॥ स्रग्विणश्च शिरःस्नाताः सदाम्पत्या यथाक्रमम् । गायन्तु गायनाश्चैव नृत्यन्तु नटनर्तकाः ॥ उच्छ्रीयन्तां पताकाश्च गृहवीथ्यापणेषु च । गृहाणि चोपलिप्तानि नित्यमेव भवन्तु वः ॥ पुष्पप्रकरतुष्टानि धूपैर्नानाविधैरपि । स्रग्दामवन्ति सर्वाणि वनमालाकुलानि च ॥ ब्राह्मणाश्चैव भोज्यन्तां क्रियन्तां बलयस्तथा । ब्रह्मघोषश्च सर्वत्र पुण्याहोदीरणानि च ॥
४२० वीरमित्रोदयस्य राजनीतिप्रकाशे दीपा रात्रौ च सर्वत्र राजमार्गे गृहेषु च । अनन्तराः क्रियन्तां वै प्रचुरं स्नेहवर्त्तयः ॥ तरुणाः सह योषिद्भिः समन्तात्पर्यटन्तु च । रममाणा हसन्तश्च गायन्तो नृत्तसेविनः ॥ भाण्डवाद्यानि वाद्यन्तां नृत्यन्तां दिव्ययोषितः । महादेवस्य पूजां च गन्धपुष्पादिकीं शुभाम् ॥ उपहारांश्च विविधान् शयनानि महान्ति च । बलयः पुष्कलाश्चैव भक्ष्यभोज्यैरलङ्कृताः ॥ दीपांश्च विविधाकारान् पानानि कृशरांस्तथा । फलानि च विचित्राणि मांसं पक्वं तथाऽऽमकम् ॥ सुवर्णमणिचित्राणि ईश्वराय प्रयच्छत । वध्यन्तां पशवश्चात्र भोज्यन्तां च द्विजोत्तमाः ॥ यो न कुर्यादिदं सर्वं पुरवासी नरः कचित् । पातयेत्तस्य शारीरं दण्डं राजा महायशाः ॥ राजापि संयतः शान्तः शुचिः प्रयतमानसः । दिवसे दिवसे रुद्रं स्नापयेत प्रयत्नवान् ॥ पञ्चगव्येन शुद्धेन तैलेन च सुगन्धिना । क्षीरेण सर्पिषा दध्ना रसैश्च बहुभिः शुभैः ॥ पुष्पैः फलैश्च बीजैश्च रत्नैश्चाद्भिः समन्वितैः । भस्मना गन्धयुक्तेन उदकेन सुगन्धिना ॥ एकैकशः स्वयं राजा घटानां दशभिः शतैः । दिवसे दिवसे व्यास त्र्यम्बकं सोऽभिषेचयेत् ॥ गन्धैः पुष्पैश्च धूपैश्च जाप्यैर्बलिभिरेव च । पूजयित्वा ततो राजा विप्रानन्यांश्च भोजयेत् ॥ सत्कृत्वा पशुभिर्मेध्यैर्वस्त्रैर्मणिभिरेव च ।
' in 'ध्व': that's 'ध' + 'व'. Look at line 1: "देवीपुराणोक्तेन्द्रध्वजो..." -> 'ध्व'. What does 'द्व' look like in this font? Look at line 7: "दैवज्ञः". Look at line 22: "तथा". Look at line 12: "ध्वजार्थे वर्जयेद्त्स". In line 21: Is it 'द्व'? Wait, look at the first part: वि - द्यु - द् Then: 'व' ? 'ज्र' ? Wait, look at 'ज्र': In 'वज्र': A 'ज' with a diagonal stroke '्र' is 'ज्र'! Does the character before 'ह' look like 'ज्र'? Look at 'ज' in line 21: "परिवर्जयेत्" -> 'र्ज'. Look at 'ज' in line 18: "यवनजां" -> 'ज'. In line 21, the character has: a left-facing curve, a middle horizontal, a vertical line, and a diagonal slash to the bottom-left! THAT IS A 'ज्र' (jra) with a ra-phala! Look at it carefully: It has the three prongs of 'ज', a vertical stem, and a slanted leg going down-left: 'ज्र'! Wait, and what is above it? An anusvara?
४२२ वीरमित्रोदयस्य राजनीतिप्रकाशे ततः सम्पूजयेद्वृक्षं प्राङ्मुखोदङ्मुखोऽपि वा । नमो वृक्षपते वृक्ष त्वामर्चयति पार्थिवः ॥ ध्वजार्थमन्यथा नेदं तत्त्वया उपगम्यताम् । रात्रौ देयो बलिः श्वभ्रे दिक्षु वृक्षे तथैव च ॥ वासं वने महावृक्ष कृत्वा ह्यन्यत्र गम्यताम् । ध्वजार्थे देवराजस्य रक्षितं त्वां नयाम्यहम् ॥ पूजयित्वा ततो वृक्षं बलिं भूम्यां प्रदापयेत् । प्रभाते छेदयेद्वृक्षं शुभस्वप्नादिदर्शनैः ॥ उदङ्मुखः प्राङ्मुखो वा मध्वक्तेनाथ परशुना । पूर्वोत्तरं पतन् शस्तो निःशब्दो निर्व्रणः शुभः ॥ अलग्नः पादपेऽन्यस्मिन्नन्यथा तु परित्यजेत् । अष्टाङ्गुलं त्यजेन्मूलमग्रं तत्र जले क्षिपेत् ॥ तथा तं चानयेद्वृत्तं शकटेन वृषैरथ । युवाभिर्बलसम्पन्नैः प्रयत्नात्पुरतः पुरम् ॥ नीयमाना यदा यष्टिः समा वा चतुरस्रिका । वृत्ता वा भङ्गमादत्ते राजपुत्रपुरोहितौ ॥ पीड्येते इति शेषः । आराभङ्गे बलं भिन्द्यान्नेम्या भङ्गे क्षयस्तथा । रथस्य त्वक्षभङ्गे तु शान्तिं तत्र तु कारयेत् ॥ इन्द्रं यच्छेतिमन्त्रेण जातवेदोमयेन वा । तथा नीत्वा शुभे लग्ने पुरे तामुपवेशयेत् ॥ द्वारे शोभां पुरे रथ्याहट्टेष्वपि च कारयेत् । पटुभिः पटहनिनादैर्वैश्यासङ्घस्य मङ्गलैः ॥ द्विजानां वेदशब्दैश्च तां नयेद्यत्र चोच्छ्रयेत् । तत्रस्थां चित्रकर्मारनिर्मितैस्तां तु वेष्टयेत् ॥
देवीपुराणोक्तेन्द्रध्वजोच्छ्रायविधिः । ४२३ वस्त्रैस्तदैव कृत्तोनैः शुभैः सूक्ष्मैर्यथाक्रमम् । नन्दोपनन्दसंज्ञाश्च कुमार्यः प्रथमांशके ॥ प्रथमांशके, प्रथमभागे । देव्यो जायाविजयाख्याः षोडशांशैर्व्यवस्थिताः । अम्बिकां शत्रुजरित्रीं नत्त्वाथ ध्वजदैवतम् ॥ ध्वजस्य परिमाणे ताः सम्पाद्यैव विनिर्दिशेत् षोडशांशविहीनानि कुर्याच्छेपाणि बुद्धिमान् ॥ वाससां चित्रवर्णानां स्वयम्भूः प्रथममदात् । सुभक्तां चतुरस्रां च विश्वकर्मा द्वितीयकम् ॥ अष्टास्रिं च स्वयं शक्रो नीलरक्तामदात्पुरा । कृष्णं यमेन दत्तं च वरुणेन महांशुकम् ॥ माञ्जिष्ठं जलजाकारं वायुर्देवोऽपि षष्ठकम् । नीलवर्णं च तत्प्रादात्स्कन्दो बहुविचित्रितम् ॥ वृत्तं तु दहनः प्रादात्सुवर्णं तच्च अष्टमम् । वैडूर्यसदृशं चेन्द्रो ग्रैवेयं पुनरप्यदात् ॥ चक्राङ्काकृतिवत्सूर्यो विश्वेदेवास्तु पञ्चकम् । नीलं नीलोत्पलाभासमृषयोऽपि च तद्ददुः ॥ शुक्रेण गुरुणा न्यस्तं विशालं तच्च मूर्द्धनि । ग्रहैरपि विचित्राणि तानि दत्तानि मातृभिः ॥ यद्यद्येनैव दत्तं तु केतोस्तत्तस्य भूषणम् । तत्तैवं तद्विजानीयाद्यन्त्रादिभिरथोच्छ्रयेत् ॥ कर्षन्ती प्रवरां भूमिं यष्टी राष्ट्रं निहन्ति च । बालानां तलशब्देन देशघातं विनिर्दिशेत् ॥ नृपघातकरी शीर्णा सर्वशान्ता शुभावहा । शाम्भूसूर्ययमेन्द्रेन्दुधनदानां च वारुणैः ॥
४२४ वीरमित्रोदयस्य राजनीतिप्रकाशे वह्नेर्नागस्य मन्त्रैश्च होतव्या दधि चाक्षताः । शुक्लं स्कन्दं गुरुं रुद्रमप्सरोभिः प्रपाठयेत् ॥ हुत्वा च विधिवद्वह्निं ज्वाला लक्षेच्च बुद्धिमान् । सुतेजाः सुमनोदीप्ता महती रविसप्रभा ॥ रक्ताशोकसमाकारा रथभेरीस्वना शुभा । शङ्खदुन्दुभिमेघानां नादाः शस्तास्तु पावके ॥ कदलीष्विक्षुदण्डेषु पताकाश्च समुच्छ्रयेत् । अन्याश्च विविधाः शोभाः शक्रकेतौ समुच्छ्रयेत् ॥ प्रौष्ठपद्यामथाष्टम्यां शुक्लायां शोभने दिने । आश्विने चाथ शुक्लायां श्रवणेनाथ उच्छ्रयेत् ॥ अत्रापि शुक्लायामष्टम्यामितिद्रष्टव्यम् । घोषैश्च नटवृन्दैश्च पटुभेरीनिनादितम् ॥ वितानध्वजशोभाढ्यं पताकाभिः समुज्ज्वलम् । विष्ण्वीशशक्रमन्त्रेण सिंह रक्षाकृतेन च ॥ दृढमातृकरन्ध्रस्थं शुभतोरणमार्गणम् । अवलम्बितमुत्थानमभग्नपीठकं समम् ॥ न द्रुतं च समुत्थाप्यः केतुर्वासवजो विभो । उच्छ्रितं रक्षयेत्प्राज्ञः काकोलूककपोतयोः ॥ न तत्र लङ्घनं दद्यादन्येषामपि पक्षिणाम् । यन्त्रेण चोच्छ्रयं कुर्यादिन्द्रकेतोर्यथाविधि ॥ यथा सुसंस्कृतं पूज्यं सुखयन्त्रसुयन्त्रितम् । रात्रौ जागरणं कुर्यादिन्द्रमन्त्रानुकीर्तनम् ॥ पुरोहितः सदैवज्ञः शुभशान्तिरतः सदा । केतुपातो नृपं हन्यात्पताका महिषीवधम् ॥ पीठको युवराजस्य सचिवमनुकम्पनम् ।
देवीपुराणोक्तेन्द्रध्वजोच्छ्रायविधिः । ४२५
राष्ट्रं तोरणपातेन ध्वज अन्नक्षयो भवेत् ॥ पतिते शक्रदण्डे च नृपमन्यं समादिशेत् । कृमिजालसमुत्थाने शलभात्तस्कराद्भयम् ॥ सुसमे संस्थिते शान्तिर्नृपस्य नगरस्य च । तिष्ठत्येवोच्छ्रितो यावत्तावद्युगसमाः समाः । निरता यजने केतो रञ्जीरन्निन्द्रकन्यकाः ॥ पतिते तु तथा कार्या पूजोत्थाने तु यादृशी । रात्रौ शुभं कृत्यतमं नादृष्टं काकपोतकैः ॥ नृपतिः सह राष्ट्रीयैर्यश्चैवं कारयेत्क्रतुम् । नगरे वा पुरे खेटे यद्येवं कुरुते नृपः ॥ पौरन्दरं नगरद्वारे वृषसिंहसमुच्छ्रितम् । केतुं समस्तघोराणां नाशनं जयदं मतम् ॥ एनं पूर्वं हरिः केतुं प्राप्तवान् वृषवाहनात् । ततो ब्रह्माथ तेनैव ब्रह्मणा शक्रमागतः ॥ तेन सोमस्य तद्दत्तं ततो दक्षे समागतः । तदाप्रभृति कुर्वन्ति नृपा अद्यापि चोच्छ्रयम् ॥ एवं यः कारयेद्राजा केतुं विजयकारकम् । तस्य पृथ्वी धनोपेता सद्दीपा वशगा भवेत् ॥ इति । इति देवीपुराणोक्त इन्द्रध्वजोच्छ्रायविधिः । विष्णुधर्मोत्तरेऽपि स विशेषत उक्तः । राम उवाच । शक्रसम्पूजनं कार्यं कथं राज्ञा सुरोत्तम । सम्यक् भाद्रपदे मासि तन्ममाचक्ष्व पृच्छतः ॥ पुष्कर उवाच । असुरैस्तु सुरा भग्नाः पुरा युद्धे भृगूत्तम । ५४
४२६ वीरमित्रोदयस्य राजनीतिप्रकाशे ब्रह्माणं शरणं जग्मुः सर्वभूतहिते रतम् ॥ ते तमूचुः सुराः सर्वे निर्जिता दानवैर्वयम् । तानुवाच ततो ब्रह्मा क्षीरोदे मधुसूदनम् ॥ गच्छध्वं सहिताः सर्वे स वः श्रेयः करिष्यति । एवमुक्ताः सुराः सर्वे क्षीरोदे केशवं ययुः ॥ ददृशुश्च तदा देवं वासुदेवं जगद्गुरुम् । अमृताध्मातमेघाभं शङ्खचक्रगदाधरम् ॥ तुष्टुवुश्च महाभागं त्रिदशास्तं पुनः पुनः । सर्वेषामीश्वरं देवं भुवनस्यैककारकम् ॥ देवा ऊचुः । नमस्ते पुण्डरीकाक्ष शरणागतवत्सल । देवारिबलदर्पघ्न त्रिदशेन्द्रसुखप्रद ॥ चामीकराभवसन तार्क्ष्यप्रवरकेतन । शेषपर्यङ्कशयन लक्ष्मीहृदयवल्लभ ॥ सुरासुरशिरोरत्ननिघृष्टचरणाम्बुज । उन्निद्रचारुकमलविराजितकराम्बुज ॥ सदैव देव भग्नानामस्माकमसुरैर्भवान् । गतिस्तेन स्म सम्प्राप्ता दैत्यभग्नास्त्वदन्तिकम् ॥ प्रसीद देवदेवेश जहि तानसुराधमान् । येऽस्माकं देवदेवेश पीडयन्ति सदैव तु ॥ श्रीभगवानुवाच । ध्वजमेतं प्रदास्यामि भवतामरिनाशनम् । दृष्टमात्रेण येनेह विद्रविष्यन्ति दानवाः ॥ पुष्कर उवाच । एतदुक्त्वा ध्वजं तेषां ददौ विष्णुरनुत्तमम् ।
विष्णुधर्मोत्तरोक्त इन्द्रध्वजोच्छ्रायविधिः । ४२७ सौवर्णमुत्थितं दिव्यं शक्रध्वजमितिश्रुतम् ॥ तमादाय सुराः सर्वे प्रययुर्दानवालयम् । देवानुपगतान् श्रुत्वा दानवा निर्ययुस्ततः ॥ सुसन्नद्धबलाः सर्वे प्रगृहीतायुधास्ततः ॥ दृष्ट्वा ते च बलं तेषां शक्रकेतुं विराजितम् ॥ तत्तेजसा महाभाग मूढीभूताः क्षणेन तु । मूढीभूतास्ततो दैत्यास्त्रिदिशैर्विनिपातिताः ॥ केचिद्भग्ना दिशो जग्मुः समुद्रं विविशुस्ततः । ततो लब्धजयः शक्रः पूजयामास तं ध्वजम् ॥ पूजयित्वा नृपतये वसवे प्रददौ तदा । गर्गोक्तेन विधानेन तं च पूजितवान् वसुः ॥ तेनास्य तुष्टो भगवानिदं वचनमब्रवीत् । इन्द्र उवाच । येऽप्यन्ये भूमिपाः श्रेष्ठाः शक्रध्वजमहोत्सवम् । अद्यप्रभृति धर्मज्ञ करिष्यन्ति समाहिताः ॥ तेषां तु विविधा वृद्धिर्भविष्यति सदा द्विज । दुर्भिक्षं मरणं व्याधिः परचक्रभयं तथा ॥ सर्वाण्येतानि नश्यन्ति कृते शक्रध्वजोत्सवे । पुष्कर उवाच । ततः प्रभृति राजानो राम शक्रमहोत्सवम् । कुर्वन्ति गर्गकथितं सर्वामयविनाशनम् ॥ धन्यं यशस्यं रिपुनाशनं च कीर्तिप्रदं धर्मफलप्रदं च । कार्यं नरेन्द्रैर्विजयाय यत्नाच्छक्रोत्सवं तत्कथयामि तुभ्यम् ॥ पुष्कर उवाच । शिबिरात्पूर्वदिग्भागे भूमिभागे तथा शुभे ।
४२८ वीरमित्रोदयस्य राजनीतिप्रकाशे प्रागुदक्प्रवणे कुर्याच्छक्रार्थं भवनं शुभम् ॥ वासोभिः शयनैः शुद्धैर्नानारागैस्तथैव च । ततः शक्रध्वजस्थानं मध्ये सम्प्राप्य यत्नतः ॥ मघवन्तं पटे कुर्यात्तस्य भागे तु दक्षिणे । वामभागे पटे कुर्याच्छचीं देवीं तथैव च ॥ प्रोष्ठपादसिते पक्षे प्रतिपत्प्रभृति क्रमात् । तयोस्तु पूजा कर्त्तव्या सततं वसुधाधिपैः ॥ वनप्रवेशविधिना शक्रयष्टिं ततो नृपः । आनयेद्धोरथेनाथ वाऽऽनयेत्पुरुषैरयम् ॥ अर्जुनस्याजकर्णस्य प्रियकस्य धवस्य च । सुरदारुतरेश्चैव तथैवोदुम्बरस्य च ॥ चन्दनस्याथ वा राम पद्मकस्याथ वा यदि । अलाभे सर्व्ववृक्षाणां यष्टिं कुर्वीत वैणवीम् ॥ सुवर्णनद्धां सर्वज्ञ तां च सम्यक्प्रवेशयेत् । प्रोष्ठपादासिते पक्षे अष्टम्यां रिपुसूदन ॥ क्रमप्रमाणा विज्ञेया शक्रयष्टिस्ततो नृप । चतुर्भिरङ्गुलैर्हीना साग्रे भवति शर्मदा ॥ अष्टाङ्गुलं तथा मूले छित्त्वा तोयेऽथ तां क्षिपेत् यायादुद्धृत्य नगरं सम्यगेव प्रवर्त्तते । तस्याः प्रवेशे नगरं पताकाध्वजमालि च ॥ सिक्तराजपथं कुर्यात्तथालङ्कृतनागरम् । नटनर्त्तकसङ्कीर्णं तथा पूजितदैवतम् ॥ सम्पूजितगृहं राम तथा पूजितवानयम् । पौरैरनुगतो राजा सुवेशैः फलपाणिभिः ॥ अष्टम्यां वाद्यघोषेण तां तु यष्टिं प्रवेशयेत् ।
विष्णुधर्मोत्तरोक्त इन्द्रध्वजोच्छ्रायविधिः । ४२९ प्राक्शिरस्कां ततः कुर्याद्वस्त्रैः सञ्छादितां शुभैः ॥ पूजितां पूजयेत्तां तु यावत्स्याद्द्वादशीदिनम् । एकादश्यां सोपवासो नृपः कुर्यात्सनागरम् ॥ सांवत्सरेण सहितो मन्त्रिणा च पुरोधसा । रात्रौ जागरणं कार्यं नागरेण जनेन तु ॥ स्थाने स्थाने महाभाग देया प्रेक्ष्या तथा मधु । पूजयेन्नृत्यगीतेन रात्रौ शक्रं नराधिपः ॥ द्वादश्यां तु शिरःस्नातो नृपतिः प्रयतस्ततः । यन्त्रेणोत्थापनं कुर्याच्छक्रकेतोः समाहितः ॥ सुयन्त्रितं तु तं कुर्याद्गृहस्तम्भचतुष्टयम् । पूजयेत्तन्महाभागं गन्धमाल्यान्नसम्पदा ॥ नित्यं च पटयोः पूजां यष्टिपूजां च कारयेत् । बलिभिस्तु विचित्राभिस्तथा ब्राह्मणपूजनैः ॥ नित्यं च जुहुयान्मन्त्रैः पुरोधाः शाक्रवैष्णवैः । नित्यं गीतेन नृत्येन तथा शक्रं च पूजयेत् ॥ द्वादश्यां पूजयेद्राजा ब्राह्मणान्धनसञ्चयैः । विशेषेण च धर्मज्ञ सांवत्सरपुरोहितौ ॥ उत्थाने च प्रवेशे च शक्रं स्तूयान्नराधिपः । वक्ष्यमाणेन मन्त्रेण कुशलश्च पुरोहितः ॥ पूजयेदुच्छ्रितं केतुं भूषणैर्विविधैरपि । छत्रेण च तथा वस्त्रैर्माल्यदामैस्तथैव च ॥ एवं सम्पूजयेद्राम तथा दिनचतुष्टयम् । पञ्चमे दिवसे प्राप्ते शक्रकेतुं विसर्जयेत् ॥ पूजयित्वा महाभाग बलेन चतुरङ्गिणा । नीत्वा करीन्द्रैस्त्रितयं ततो नद्यां प्रवाहयेत् ॥
४३० वीरमित्रोदयस्य राजनीतिप्रकाशे वाद्यघोषेण महता सङ्गीतिस्तत्र कीर्त्तिता । पौरा जानपदास्तत्र क्रीडां कुर्युस्तदाम्भसि ॥ उत्सवं च तदा कार्य जलतीरगतैर्महत् । एतद्विधानं नृपतिस्तु कृत्वा प्राप्नोति वृद्धिं धनवाहनानाम् । नाशं तथा शत्रुगणस्य राम महत्प्रसादं त्रिदशाधिनाथात् ॥ इति। शक्रध्वजोच्छ्रायकाले राज्ञा शक्रस्याशीर्वादरूपाः केचिन्म- न्त्रा विष्णुधर्मोत्तरोक्ताः पठनीयाः। ते च— पुष्कर उवाच । शृणु मन्त्रानिमान् सम्यक् सर्वकल्मषनाशनान् । प्राप्ते शक्रध्वजोच्छ्राये यान् पठेत्प्रयतो नृपः ॥ वर्द्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन । देवदेव महाभाग त्वं हि वर्द्धिष्णुतां गतः ॥ त्वं प्रभुः शाश्वतश्चैव सर्वभूतहिते रतः । अनन्ततेजा विरजा यशोविजयवर्द्धनः ॥ अप्रभुस्त्वं प्रभुर्नित्यमुत्तिष्ठ सुरपूजित । ब्रह्मा स्वयम्भूभगवान् सर्वलोकपितामहः ॥ रुद्रः पिनाकभृदृप्तः शतभृद्देवसंस्तुतः । योगस्य नेता कर्त्ता च तथा विष्णुरुरुक्रमः ॥ तेजस्ते वर्द्धयन्त्वेते नित्यमेव महाबलाः । अनादिनिधनो देवो ब्रह्मगोपः सनातनः ॥ अग्नेस्तेजोमयो भागो रुद्रात्मा पार्वतीसुतः । कार्त्तिकेयः शक्तिधरः षड्वक्त्रोऽसिगदाधरः ॥ स ते वरेण्यो वरदस्तेजो वर्द्धयतां विभो । देवसेनापतिः स्कन्दः सुरप्रवरपूजितः ॥ आदित्या वसवो रुद्राः साध्या देवास्तथाश्विनौ ।
इन्द्रध्वजोच्छ्रायविधाविन्द्रप्रार्थनामन्त्राः । ४३१ मरुद्गणा लोकपालाश्चन्द्रः सूर्योऽनिलोऽनलः ॥ देवाश्च ऋषयश्चैव यक्षगन्धर्वराक्षसाः । समुद्रा गिरयश्चैव नद्यो भूतानि यानि च ॥ तेजस्तपांसि सत्यं च लक्ष्मीः श्रीः कीर्त्तिरेव च । प्रवर्द्धयन्तु ते तेजो जय शक्र शचीपते ॥ इति । इत्याशीर्वादरूपान् मन्त्रान् पठित्वा इन्द्रप्रार्थनां कुर्यात् । प्रार्थनारूपाश्च मन्त्रास्तत्रैव पठिताः । तव चापि जयान्नित्यमिह सम्पद्यते शुभम् । प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ॥ तव प्रसादात्पृथिवी नित्यं सस्यवती भवेत् । शिवं भवतु निर्विघ्नं शाम्यन्तामीतयो भृशम् ॥ नमस्ते देवदेवेश नमस्ते बलसूदन । नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥ सर्वेषामेव लोकानां त्वमेकः परमा गतिः । त्वमेव परमं त्राणं सर्वस्यासि जगत्पते ॥ पाशो ह्यसि पथः स्रष्टुं त्वमनल्पान् पुरन्दर । त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥ त्वमेव धनविक्षेप्ता त्वामेवाहुः पुनर्धनम् । त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥ स्रष्टा त्वमेव लोकानां संहर्त्ता चापराजितः । त्वं ज्योतिः सर्वलोकानां त्वमादित्यो विभावसुः ॥ त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः । १ भृगुरङ्गिरसश्चैव विश्वेदेवा मरुद्गणाः । लोकपालास्त्रयश्चैव चन्द्रः सूर्योऽनिलोऽनलः ॥ इति मुद्रितविष्णुधर्मोत्तरे पाठः ।
४३२ वीरमित्रोदयस्य राजनीतिप्रकाशे त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥ त्वमेव चामृतं देव त्वं मोक्षः परमार्चितः । त्वं मुहूर्त्तो निमेषस्त्वं लवस्त्वं वै पुनः क्षणः ॥ शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा । संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥ त्वमुत्तमा सगिरिवरा वसुन्धरा सभास्वरं वितिमिरमम्बरं तथा। महोदधिःसातिमितिमिंगिलस्तथा महोर्मिमानुरुमकरो झषाकुलः॥ महायशास्त्वमिह सदा प्रपूज्यसे महर्षिभिर्मुदितमना महाद्युते । महर्षिभिः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये॥ त्वं विप्रैः सततामिहेज्यसे फलार्थं त्वं देवैरतुलबलौघ गीयसे त्वम्। त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्याधिगमयन्ति सर्ववेदैः॥ वज्रस्य भर्त्ता भुवनस्य गोप्ता वैश्वानरं वाहनमभ्युपैति । नमः सदाऽस्मै त्रिदशेश्वराय लोकत्रयेशाय पुरन्दराय ॥ अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः ॥ त्वमन्तकः सर्वहरः कृशानुः सहस्रशीर्षा शतमन्युरीश ॥ कविं सप्तजिह्वं त्रातारमिन्द्रं सवितारं सुरेशम् । हृदयाभिशक्रं वृत्रहणं सुषेणमस्माकं वीरा उत्तरे भवन्तु ॥ त्रातारमिन्द्रेन्द्रियकारणात्मन् जगत्प्रधानं च हिरण्यगर्भम् । लोकेश्वरं देववरं वरेण्यमानन्दरूपं प्रणतोऽस्मि नित्यम् ॥ इमं स्तवं देववरस्य कीर्त्तयेन्महात्मनस्त्रिदशपतेः सुसंयतः। १ वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हर्ता नमुचेर्निहन्ता । कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके ॥ यं वाजिनं गर्भमपां सुराणां वैश्वानरं वाहनमभ्युपैति । इति- मुद्रितविष्णुधर्मोत्तरे पाठः ।
इन्द्रध्वजभङ्गे फलाफलं शान्तिकं च । ४३३ अवाप्य कामान्मनसोऽभिरामान् स्वर्लोकमायाति च देहभेदे ॥ इति प्रार्थनामन्त्राः । इन्द्रध्वजभङ्गे फलाफलं विष्णुधर्मोत्तर एवोक्तम्— पुष्कर उवाच । इन्द्रध्वजशिरो भज्येत्पतेदिन्द्रध्वजो यदि । भज्यते शक्रयष्टिर्वा नृपतेर्नियतं वधः ॥ यन्त्रभङ्गे तथा ज्ञेयं रज्जुच्छेदे तथैव च । मातृकायास्तथा भङ्गे परचक्रभयं द्विज ॥ दिव्यान्तरिक्षभौमाः स्युरुत्पातास्तत्र वै यथा । तेषां तीव्रतमं ज्ञेयं फलमत्यन्तदारुणम् ॥ निलीयते चेत्क्रव्यादः शक्रयष्टौ यदा द्विज । राजा वा म्रियते तत्र स वा देशो विनश्यति ॥ इन्द्रध्वजोपकरणं यत्किञ्चिद्विजसत्तम । विनश्यत्यस्य विज्ञेया पीडा नगरवासिनाम् ॥ इन्द्रध्वजनिमित्ते तु प्रायश्चित्तमिदं स्मृतम् । इन्द्रयागं पुनः कुर्यात्सौवर्णेनेन्द्रकेतुना ॥ राज्यं दत्त्वा च गुरवे धनेन प्रतिमोचयेत् । सप्ताहं पूजयित्वा च ध्वजं दद्याद्द्विजातिषु ॥ शान्तिरैन्द्री भवेत्कार्या यष्टव्यश्च पुरन्दरः । महाभोज्यानि कार्याणि ब्राह्मणानां दिने दिने ॥ गावश्च देया द्विजपुङ्गवेभ्यो हिरण्यवासोरजतैः समेताः । एवंकृते शान्तिमुपैति पापं वृद्धिस्तथा स्यान्मनुजाधिपस्य ॥ इन्तीन्द्रध्वजदुर्निमित्तेषु फलाफलं शान्तिकं च । अथ नीराजनशान्तिः । विष्णुधर्मोत्तरे । ५५
४३४ वीरमित्रोदयस्य राजनीतिप्रकाशे राम उवाच । नीराजनविधिं त्वत्तः श्रोतुमिच्छामि सत्तम । कथं कार्या नरेन्द्रस्य शान्ती नीराजने प्रभो ॥ पुष्कर उवाच । पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे । विस्तीर्णं कारयेद्राजा सुमनोहरमाश्रमम् ॥ कटैर्गुप्तं कुशास्तीर्णं पताकाध्वजशोभितम् । तोरणत्रितयं तत्र प्राङ्मुखं कारयेच्छुभम् ॥ कार्यं षोडशहस्तं तु तोरणं तु समुच्छ्रितम् । वैपुल्यं दशहस्तं तु तत्र कार्यं भृगूत्तम । तोरणाद्दक्षिणे भागे तत्र कार्यमथाश्रमम् ॥ देवता च भवेद्यत्र तथाग्निहवनक्रिया । अष्टहस्तायतोत्सेधमुल्मुकानां तु वामतः ॥ कार्यं भवति शुष्काणां कूटं भृगुकुलोद्भव । पञ्चरङ्गकसूत्रेण शतग्रन्थि मनोरमाम् ॥ मध्यमे तोरणे कुर्याच्छतपाशीं तु मध्यगाम् । छादयित्वा कुशैस्तां तु मृदा संछादयेत्पुनः ॥ तस्याश्च लङ्घनं वर्ज्यं प्रयत्नात्सर्वजन्तुभिः । न लङ्घिता सा यावत्स्यात्प्रथमं राजहस्तिना ॥ चित्रां त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते । ततः प्रभृति कर्त्तव्या यावत्स्वातौ रविः स्थितः । आश्रमे प्रत्यहं देवाः पूजनीया द्विजोत्तम ॥ देवाः, हरिहरादिप्रतिमाः । तानेव दर्शयति- ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ ॥ विनायकः कुमारश्च वरुणो धनदो यमः ।
नीराजनशान्तिः । ४३५ विश्वान्देवान्महाभाग उच्चैःश्रवसमेव च ॥ अष्टौ महागजाः पूज्यास्तेषां नामानि मे शृणु । कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः ॥ सुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः । पूजा कार्या ग्रहर्क्षाणां तथैव च पुरोधसा ॥ ततश्च जुहुयाद्वह्रौ पुरोधास्सुसमाहितः । यथाभिमतदेवानां मन्त्रैस्तल्लिङ्गसंज्ञकैः ॥ तथा च मन्त्रहीनानां प्रणवेन महाभुज । प्रणवेन, प्रणवाद्येन नाममन्त्रेण ! समिधः क्षीरवृक्षाणां तथा सिद्धार्थकानि च । घृतं तिलांश्च धर्मज्ञ तथा चैवाक्षतानि च ॥ हुत्वा च कलशान् कुर्यात् सोदकान् गन्धसंयुतान् । पूजितान्माल्यगन्धैश्च वनस्पतिविभूषितान् ॥ पञ्चरङ्गकसूत्रेण कुर्याद्वस्त्रगतांस्तथा । भल्लातशालिसिद्धार्थवचाकुष्ठप्रियङ्गवः ॥ तोरणात्पश्चिमे भागे कलशैः पूर्वकल्पितैः । ततः संस्नापनीयाः स्युर्मन्त्रपूतैर्गजोत्तमाः ॥ तुरगाश्च महाभाग अलङ्कृत्य ततस्तु तान् । ततोऽभिषेकनागस्य तथा तत्तुरगस्य च ॥ अन्नपिण्डं ततो देयमभिमन्त्र्य पुरोधसा । तस्याभिनन्दने राज्ञो विजयः परिकीर्तितः ॥ त्यागे च तस्य विज्ञेयं महद्भयमुपस्थितम् । निष्क्रामयेत्तोरणैस्तु ततो हि प्रथमं गजान् ॥ तत्रापि प्रथमं राम अभिषिक्तगजोत्तमम् । तस्यादौ शतपार्शीं तु नरः पञ्चनखोऽपि वा ॥
४३६ वीरमित्रोदयस्य राजनीतिप्रकाशे जघन्यो लङ्घयेत्तां तु राज्ञो मरणमादिशेत् । जघन्यो नरः, शूद्रचाण्डालादिः । जघन्यः पञ्चनखः,स्वादिः दुर्भिक्षं तत्र विज्ञेयं खरोष्ट्रैश्चैव लङ्घने । लङ्घयेद्वामपादेन यदि तां नृपकुञ्जरः ॥ राज्ञीपुरोहितामात्यराजपुत्राहितं भवेत् । राज्ञस्तु मरणं ब्रूयादाक्रमेत्तां यदाऽपरः ॥ राज्ञोऽपि जयमाचष्टे लङ्घयन् दक्षिणेन ताम् । राजहस्तिनि निष्क्रान्ते सा त्वपास्या तदा भवेत् ॥ निष्क्रामेयुस्ततः सर्वे प्राङ्मुखास्तोरणैर्गजाः । ततोऽश्वाः सुमहाभाग ततस्तु नरसत्तमाः ॥ ततश्छत्रं ध्वजं चैव राजलिङ्गानि यानि च । आश्रमे तानि संस्थाप्य पूजयेदायुधानि च ॥ पञ्चरङ्गकसूत्रेण यास्ताः प्रतिसराः कृताः । दूष्यांदूष्येतिमन्त्रेण निबध्नीयात्पुरोहितः ॥ सर्वेषां नृपनागानां तुरगाणां च भार्गव । स्वगृहेषु ततो नेयाः कुञ्जरास्तुरगैः सह ॥ स्वातिस्थः सविता यावत्तावच्छायासु संस्थितान् । पूजयेत्सततं राम नाक्रोशैनैव ताडयेत् ॥ राजचिह्नानि सर्वाणि पूजयेदाश्रमे सदा । पूजयेद्वरुणं नित्यं यथोक्तद्विधिना द्विज ॥ भूतेज्या च तथा कार्या रात्रौ बलिभिरुत्तमैः । आश्रमं रक्षणीयं स्यात्पुरुषैः शस्त्रपाणिभिः ॥ वसेतामाश्रमे नित्यं सांवत्सरपुरोहितौ । १ तथाऽप्सु विधिवद्विज इति मुद्रितविष्णुधर्मोत्तरे पाठः ।
नीराजनशान्तिः । ४३७ अश्ववैद्यप्रधानश्च तथा नागभिषग्वरः ॥ दीक्षितैस्तैस्तथा भाव्यं ब्रह्मचारिभिरेव च । स्वातिं त्यक्त्वा यदा सूर्यो विशाखां प्रतिपद्यते ॥ अलङ्कुर्याद्दिने तस्मिन् वाहनं च विशेषतः । पूजिता राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः ॥ हस्तिनं तुरगं छत्रं खड्गं चापं च दुन्दुभिम् । ध्वजं पताकां धर्मज्ञ कालज्ञस्त्वभिमन्त्रयेत् ॥ अभिमन्त्र्य ततः सर्वान् कुर्यात्कुञ्जरधूर्गतान् । कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ॥ अश्ववैद्यप्रधानश्च तथा नागभिषग्वरः । ततोऽभिमन्त्रितं राजा समारुह्य तुरङ्गमम् ॥ निष्क्रम्य तोरणैर्नागमभिमन्त्रितमारुहेत् । तोरणेन विनिष्क्रम्य कुर्यात्सुरविसर्जनम् ॥ बलिं विसृज्य विधिवद्राजा कुञ्जरधूर्गतः । रत्नेरलङ्कृतः सर्वैर्वीज्यमानश्च चामरैः ॥ उल्मुकानां च निचयमादीपितमनन्तरम् । राजा प्रदक्षिणं कुर्यात् त्रीन्वारान्सुसमाहितः ॥ चतुरङ्गबलोपेतः सर्वसैन्यसमन्वितः । क्ष्वेडाकिलकिलाशब्दैः सर्ववादित्रनिस्वनैः ॥ वल्गितैश्च पदातीनां हृष्टानां मनुजोत्तम । एवं कृत्वा गृहं गच्छेद्राजा सैन्यपुरःसरः ॥ जनं सम्पूज्य च गृहात्सर्वमेव विसर्जयेत् । शान्तिर्नीराजनाख्येयं कर्त्तव्या वसुधाधिपैः ॥ क्षेम्या वृद्धिकरी राम नरकुञ्जरवाजिनाम् । धन्या यशस्या रिपुनाशनी च सुखावहा शान्तिरनुत्तमा च ।