वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
४३८ वीरमित्रोदयस्य राजनीतिप्रकाशे कार्या नृपै राष्ट्रविवृद्धिहेतोः सर्वप्रयत्नेन भृगुप्रवीर ॥इति। इति नीराजनशान्तिः । आश्विनशुक्लनवम्यां राज्ञो भद्रकालीपूजाभिहिता । विष्णुधर्मोत्तरे, राम उवाच । विधिना पूजयेत्केन भद्रकालीं नराधिपः । नवम्यामाश्विने मासि शुक्लपक्षे नरोत्तम ॥ पुष्कर उवाच । पूर्वोत्तरे तु दिग्भागे शिबिरात्सुमनोहरे । भद्रकालीगृहं कुर्याच्चित्रवस्त्रैः स्वलङ्कृतम् ॥ भद्रकालीं पटे कृत्वा तत्र सम्पूजयेद्द्विज । आश्विने शुक्लपक्षस्य नवम्यां प्रयतस्ततः ॥ तत्र खड्गं च वर्म्माद्यं छत्रं केतुं च पूजयेत् । राजलिङ्गानि सर्वाणि तथा शस्त्राणि पूजयेत् ॥ पुष्पैर्गन्धैः फलैर्भक्ष्यैर्भोज्यैश्च सुमनोहरैः । बहुभिश्च विचित्राभिः प्रेक्षादानैस्तथैव च ॥ रात्रौ जागरणं कुर्यात्तत्रैव वसुधाधिपः । एवं हि सम्पूज्य जगत्प्रधानं यात्रा तु देया वसुधाधिपेन । प्राप्नोति सिद्धिं परमां महीशो जनस्तथान्योऽपि हि वित्तशक्त्या॥ इत्याश्विनशुक्लनवम्यां भद्रकालीपूजा । ( १ ) शुक्लपक्षे तु अष्टम्याम् इति मुद्रितविष्णुधर्मोत्तरे पाठः । ( २ ) अत्र-“एवं सम्पूजयेद्देवीं वरदां भक्तवत्सलाम् । का- त्यायनीं कामगमां वररूपां वरप्रदाम् ॥ पूजिता सर्वकामैश्च सा युद्धे वसुधाधिपम् । ” इत्याधिकं मुद्रितविष्णुधर्मोत्तरे वर्तते ।
देवीपुराणोक्ताश्विनशुक्लनवम्यां देवीपूजा । ४३९ अथ प्रकारान्तरेणाश्विनशुक्लनवम्यां देवीपूजा । देवीपुराणे, ब्रह्मोवाच । हते घोरे महावीरे सुरासुरभयङ्करे । देव्या उपासका देवाः प्रभूता राक्षसास्तथा ॥ आगता घातितं दृष्ट्वा महिषं तं सुदुर्जयम् । ब्रह्मविष्णुयमेशाना इन्द्रचन्द्रयमानिलाः ॥ आदित्या वसवो रुद्रा ग्रहा नागाश्च गुह्यकाः । समेत्य सर्वे देवास्ते देवीं भक्त्या च तुष्टुवुः ॥ वरं च सर्वलोकानां प्रददौ भयनाशिनी । बलिं ददुश्च भूतानां महिषाजामिषेण तु ॥ पुरेषु शङ्खभेर्य्यश्च शतशोऽथ सहस्रशः । कृता दुन्दुभिनादाश्च पटुशब्दाः समर्दलाः ॥ पताकाध्वजयन्त्रादिघण्टाचामरशोभितम् । तद्दिनं कारयाञ्चक्रुर्देवीभक्ताः सुरोत्तमाः ॥ एवं तस्मिन्दिने वत्स भूतप्रेतसमाकुलम् । कृताथ सर्वदेवैश्च महापूजाथ शाश्वती ॥ आश्विने मासि मेधान्ते महिषारिनिबर्हिणीम् । देवीं सम्पूजयित्वा ये अर्द्धरात्रेऽष्टमीमुखे ॥ घातयन्ति पशून् भक्त्या ते भवन्ति महाबलाः । बलिं च ये प्रयच्छन्ति सर्वभूतविनायकी ॥ तेषां तु तुष्यते देवी यावत्कल्पं तु शाङ्करम् । क्रीडन्ति विविधैर्भोगैर्देवलोके सुदुर्लभे ॥ नाधयो व्याधयस्तेषां न च शत्रुभयं भवेत् । न च देवग्रहा दैत्या न सुरा न च पन्नगाः ॥
४४० वीरमित्रोदयस्य राजनीतिप्रकाशे पीडयन्ति सुराध्यक्ष देवीपादसमाश्रितान् । यावद्भूवायुराकाशं जलं वह्निः शशी ग्रहाः ॥ तावच्च चण्डिका पूज्या भविष्यति सदा भुवि । प्रावृट्काले विशेषेण आश्विने चाष्टमीषु च ॥ महाशब्दो नवम्यां च लोके ख्यातिं गमिष्यति । एतत्तदेव राजेन्द्र स्वर्गवासफलप्रदम् ॥ परापरविभागं तु क्रियायोगेन कीर्त्तितम् ॥ इन्द्र उवाच । आश्विनस्य सिते पक्षे नवम्यां प्रतिवत्सरम् । श्रोतुमिच्छाम्यहं तात उपवासव्रतादिकम् ॥ ब्रह्मोवाच । शृणु शक्र प्रवक्ष्यामि यथा त्वं परिपृच्छसि । महासिद्धिप्रदं धन्यं सर्वशत्रुनिबर्हणम् ॥ सर्वलोकोपकारार्थं विशेषादपि वृष्टिषु ॥ कर्त्तव्यं ब्राह्मणैश्चैस्तु क्षत्रियैर्लोकपालकैः । गोधनार्थं तथा वैश्यैः शूद्रैः पुत्रसुखार्थिभिः । सौभाग्यार्थं तथा स्त्रीभिरन्यैश्च धनकाङ्क्षिभिः ॥ महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् । कर्त्तव्यं देवराजेन्द्र देवीभक्तिसमन्वितैः ॥ कन्यासंस्थे रवौ शक्र शुक्लामार्थय नन्दिकाम् । अपाचिताश्यथैकाशी नक्ताशी त्वथ वाग्बदः ॥ प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः । जपहोमसमायुक्तः कन्यका भोजयेत्सदा ॥ अष्टम्यां नव गेहानि दारुजाति शुभानि च । एकं वा वित्तभावेन कारयेत्सुरसत्तम ॥
देवीपुराणोक्ताश्विनशुक्लनवम्यां देवीपूजा । ४४१ तस्मिन्देवी प्रकर्त्तव्या हैमी वा राजतापि वा । मूर्द्धाक्षिलक्षणोपेता खड्गे शूलेऽथ पूजयेत् ॥ सर्वोपहारसम्पन्नवस्त्ररत्नफलादिभिः । कारयेद्रथदोलादिबलिपूजां च दैविकम् ॥ पुष्पादिद्रोणबिल्वाढ्यजातीपुन्नागचम्पकैः । विचित्रां रचयेत्पूजामष्टम्यां समुपावसेत् ॥ दुर्गाग्रतो जपेन्मन्त्रमेकचित्तः शुभान्वितः । तदर्द्धयामिनीशेषे विजयार्थं नृपः पशुम् ॥ पञ्चाब्दं लक्षणोपेतं गन्धधूपसुगन्धितम् । विधिवत्कालिकालीति जप्त्वा खड्गेन घातयेत् ॥ तदुत्थं रुधिरं मांसं गृहीत्वा पूजनादिषु । नैर्ऋतेभ्यः प्रदातव्यं महाकौशिकिमन्त्रितम् ॥ तस्याग्रतो नृपः स्नायाच्छत्रुं कृत्वाथ पिष्टजम् । खड्गेन घातयित्वा तु दद्यात्स्कन्दविशाखयोः ॥ ततो देवीं स्नापयेत्प्राज्ञः क्षीरसपिंर्जलादिभिः । कुङ्कुमागुरुकर्पूरचन्दनैश्चार्च्य धूपयेत् ॥ देयानि पुष्परत्नानि वासांसि त्वहतानि च । नैवेद्यं सुप्रभूतं तु देयं देव्याः सुभावितैः ॥ देवीभक्ताश्च पूज्यन्ते कन्यकाप्रमदादयः । द्विजान् दीनान्यपाखण्डानन्नदानेन तर्पयेत् ॥ नन्दाभक्ता नरा ये तु महाव्रतधराश्च ये । पूजयेत्तान् विशेषेण यस्मात्तद्रूपमम्बिका ॥ मातृणां चैव देवीनां पूजा कार्या तदा निशि । ध्वजच्छत्रपताकादि उच्छ्रयेदम्बिकागृहे ॥ रथयात्राबलिक्षेमं स्फुटवाद्यरवाकुलम् । ५६
कारयेत्तुष्यते येन देवी पशुनिपातनैः ॥ अश्वमेधमवाप्नोति भक्तितः सुरसत्तम । महानवम्यां पूजेयं सर्वकामप्रदायिका ॥ सर्वेषु वत्स वर्णेषु तव भक्त्या प्रकीर्त्तिता । कृत्वाऽऽप्नोति यशो राज्यं पुत्रायुर्धनसम्पदः ॥ इति इति देवीपुराणे महानवम्यां देवीपूजा । अथ चिह्नेषु देवीपूजाविधिः । तत्र देवीपुराणे, ब्रह्मोवाच । क्षीराशी कार्त्तिकारम्भे देव्या भक्तिरतो नरः । शाकयावक एकाशी प्रातःस्नायी शिवारतः ॥ पूजयेत्तिलहोमं तु दधिक्षीरघृतादिभिः । कुर्याद्देव्यास्तु मन्त्रेण शृणु पुण्यफलं हरे ॥ महापातकसंयुक्तो युक्तो वाप्युपपातकैः । मुच्यते नात्र सन्देहो यस्मात्सर्वगता शिवा ॥ अन्यो वा भावनायुक्तस्त्वनेन विधिना शिवाम् । स्वयं वा अन्यतो वापि पूजयेत्पूजयीत वा ॥ न तस्य भवति व्याधिर्न वा शत्रुकृतं भयम् । नोत्पातग्रहदौस्थ्यं वा न च राष्ट्रं विनश्यति ॥ सदा स्वभावसम्पन्ना ऋतवः शुभदा घनाः । निष्पत्तिः सर्वसस्यानां तस्करा न भवन्ति च ॥ प्रभूतपयसो गावो ब्राह्मणाश्च क्रियापराः । स्त्रियः पतिव्रताः सर्वा रूपनिर्वृतिकारिणः ॥ फलपुष्पवती धात्री सस्यानि रसवन्ति च ।
देवीपुराणोक्ता चिह्नेषु देवीपूजा । ४४३ भवेयुर्नात्र सन्देहाम्बिकाविधिपूजनात् ॥ जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ अनेनैव तु मन्त्रेण जपहोमं तु कारयेत् । प्रातस्तु संस्मृता वत्स महिषघ्नी प्रपूजिता ॥ अघं नाशयेत क्षिप्रं यथा सूर्योदये तमः । सिंहारूढा ध्वजे यस्य नृपस्य रिपुहा उमा ॥ द्वारस्था पूज्यते वत्स न तस्य रिपुजं भयम् । कपिसंस्था महामाया सर्वशत्रुविनाशिनी ॥ वृषे यथेप्सितं दद्यात्कलभे श्रियमुत्तमाम् । हंसे विद्यार्थकामांस्तु बर्हिणेऽभीष्टपुत्रदा ॥ गरुत्मति महामाया सर्वरोगविनाशिनी । महिषस्था महामारीं शमयेद्ध्वजसंस्थिता ॥ करिगा सर्वकार्येषु नृपैः कार्या त्रिशूलिनी । पद्मस्था चर्चिका रौप्या धर्मकामार्थमोक्षदा ॥ प्रेतस्था सर्वभयहा नित्यं पशुनिपातनैः । पूजिता देवराजेन्द्र नीलोत्पलकरा वरा ॥ भवेत्तु सिद्धिकामस्य चिह्नाग्रे संव्यवस्थिता । चिह्नानि, राज्ञो ध्वजपताकादीनि, तेषामग्रे । गन्धपुष्पार्चितां कृत्वा वस्त्रहेमसुचर्चिताम् ॥ फलशालियवैः शूकवर्द्धमानैर्विभूषिताम् । शोभनामुच्छ्रयेदग्रे पताकां वा मनोरमाम् । चामरं कलशं शङ्खं सातपत्रं वितानकम् ॥ भवेत्तु सिद्धिकामस्य नृपस्य फलदायकम् । नमो विश्वेश्वरि दुर्गे चामुण्डे चण्डहारिणि ।
४४४ वीरमित्रोदयस्य राजनीतिप्रकाशे ध्वजं समुच्छ्रयिष्यामि वसोर्धारां सुखावहाम् ॥ इति । इति चिह्नेषु देवीपूजाविधिः । अथाश्ववृद्धिर्नृपैराश्विनशुक्लप्रतिपदमारभ्य महानवमीया- वदश्वशान्त्यर्थं लोहाभिसारिकं कर्म कार्यम् । यथोक्तम्— देवीपुराणे, आश्वयुक्शुक्लप्रतिपत्स्वात्तियोगे शुभे दिने । पूर्वमुच्चैःश्रवा नाम प्रथमं श्रियमाहरत् ॥ तस्मात्साश्वैर्नरैस्तत्र पूज्योऽसौ श्रद्धया सदा । पूजनीयाश्च तुरगा नवमीं यावदेव हि ॥ शान्तिः स्वस्त्ययनं कार्यं तदा तेषां दिने दिने । धान्यं भल्लातकं कुष्ठं वचासिद्धार्थकांस्तथा ॥ पञ्चवर्णेन सूत्रेण ग्रन्थि तेषां तु बन्धयेत् । वायव्यैर्वारुणैः सौरैः शाक्रैर्मन्त्रैः सवैष्णवैः ॥ वैश्वदेवैस्तथा मन्त्रैर्होमः कार्यो दिने दिने । तुरगा रक्षणीयास्तु पुरुषैः शस्त्रपाणिभिः ॥ नैव ताड्याः क्वचित्तत्र न च वाह्याः कथञ्चन । इति । भविष्योत्तरेऽपि विशेष उक्तः । कन्यागते सवितरि शुक्लपक्षेऽष्टमी तु या । मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ॥ तस्यां सदा पूजनीया चामुण्डा मुण्डमालिनी । तस्यां ये ह्युपयुज्यन्ते प्राणिनो महिषादयः ॥ सर्वे ते स्वर्गतिं यान्ति घ्नतां पापं न विद्यते । यावन्न चालयेद्गात्रं पशुस्तावन्न हन्यते ॥ न तथा बलिदानेन पुष्पधूपविलेपनैः ।
लोहाभिसारिकाविधिः । ४४५ यथा सन्तुष्यते मेषैर्महिषैर्विन्ध्यवासिनी ॥ वलिदानं च मांसमाषसहितौदनेन क्रियमाणम् । एवं च विन्ध्यवासिन्यां नवरात्रोपवासिना । एकभक्तेन नक्तेन स्वशक्त्याऽयाचितेन च ॥ पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे । स्नातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैः क्षत्रियैर्नृपैः ॥ वैश्यैः शूद्रैर्भक्तियुक्तैर्म्लेच्छैरन्यैश्च मानवैः । स्त्रीभिश्च कुरुशार्दूल तद्विधानमिदं शृणु ॥ जलाभिलाषी नृपतिः प्रतिपत्प्रभृति क्रमात् । लोहाभिसारिकं कर्म कारयेद्यावदष्टमी ॥ इति । लोहाभिसारिकविधानं च— तत्रैवोक्तम्, प्रागुदक्प्रवणे देशे पताकाभिरलङ्कृते । मण्डपं कारयेद्दिव्यं नवसप्तकरं वरम् ॥ नवसप्तकरं, षोडशहस्तप्रमाणमित्यर्थः । आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम् । मेखलात्रयसंयुक्तं योन्या स्वच्छन्दलाभया ॥ राजचिह्नानि सर्वाणि शस्त्राण्यस्त्राणि यानि च । आनीय मण्डपे तानि सर्वाण्यण्यधिवासयेत् ॥ ततस्तु ब्राह्मणः स्नातः शुक्लाम्बरधरः शुचिः । ॐकारपूर्वकैर्मन्त्रैस्तलिलैर्जुहुयाद्घृतम् ॥ लोहनामाऽभवत्पूर्वं दानवः सुमहाबलः । स देवैः समरे क्रुद्धैर्बहुधा शकलीकृतः ॥ तदङ्गसम्भवं लोहं सर्वं यद्दृश्यते क्षितौ । शस्त्रास्त्रमन्त्रैर्होतव्यं पायसं घृतसंयुक्तम् ।
४४६ वीरमित्रोदयस्य राजनीतिप्रकाशे हुतशेषं तुरङ्गाणां राजानमुपहारयेत् ॥ लोहाभिसारिकं कर्म तेनैतदृषिभिः स्मृतम् । धृतपल्ययनानश्वान् गजांश्च समलङ्कृतान् ॥ भ्रामयेन्नगरे नित्यं नन्दिघोषपुरस्कृतम् । प्रत्यहं नृपतिः स्नात्वा सम्पूज्य पितृदेवताः ॥ पूजयेद्राजचिह्नानि फलमाल्यविलेपनैः । तस्याभिसरणाद्राज्ञो विजयः समुदाहृतः ॥ पूजामन्त्रान् प्रवक्ष्यामि पुराणोक्तानहं तव । यैः पूजिता प्रयच्छन्ति कीर्तिमायुर्यशोबलम् ॥ इति । एते च मन्त्रा यात्राप्रकरणेऽभिहिता इति तत्रैवानुसन्धेयाः इति लोहाभिसारिकं कर्म । अथ गवोत्सर्गः । तत्र देवीपुराणे, कृष्णपक्षे त्वमावास्या कार्तिकस्य ततः परे । योऽह्नि कुर्याद्गवोत्सर्गमश्वमेधफलं लभेत् ॥ सुवर्णदाने गोदाने भूमिदाने च यत्फलम् । तत्फलं कोटिगुणितं गवोत्सर्गेण लभ्यते ॥ तस्मान्मनोरमे स्थाने शाद्वले गर्तवर्जिते । शर्करा अश्मरहिते शङ्खभेरीनिनादिते ॥ स्तम्भद्वयं समारोप्य पूर्वपश्चिमसंस्थितम् । तत्र दर्भमयी कार्या शरवंशभवाथवा ॥ मध्ये कम्बलसंयुक्ता दीर्घारज्जुः सुशोभना । उभयोः पार्श्वयोर्विप्रा वेदध्वनिसमन्विताः ॥ एवंविधानतः कृत्वा उत्सर्गं कारयेत्ततः ।
गवोत्सर्गो देवीपुराणोक्तवसोर्द्धाराविधिश्च । ४४७ प्रथमं गच्छते होता यजमानसमन्वितः ॥ ब्रह्मक्षत्रविशः शूद्रास्तथा गावः प्रजाः पुनः । तथान्ये वर्णबाह्यास्तु चण्डालपरिवर्जिताः ॥ गच्छन्ति मुदिता हृष्टा हास्यतोषसमन्विताः । यस्त्वेवं कुरुते राजा पुरे ग्रामेऽथ पत्तने ॥ नश्यन्ति षेतयः सर्वा प्रजानां नन्दनं चिरम् । नाकाले म्रियते राजा पुत्रपौत्रैश्च वर्द्धते ॥ देवा भवन्ति सुप्रीतास्तथा वै मातरस्तथा । गोलोकं च लभेद्वत्स सर्वान् कामानवाप्नुयात् ॥ ईतयः प्रसिद्धाः । यथा— अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥ इति । इति गवोत्सर्गः । अथ वसोर्धारा । तत्र देवीपुराणे, विद्याधर उवाच । यथा सा सर्वगा देवी सर्वेषां च फलप्रदा । तथाहं श्रोतुमिच्छामि वसोर्द्धारां सविस्तराम् ॥ अगस्त्य उवाच । ब्रह्मणा या समाख्याता देवराजस्य पृच्छतः । विधिश्च पापहा श्रोतुः शृणुष्वावहितो मम ॥ वसोर्द्धारास्थिता देवी सर्वकामप्रदायिका । तथा ते कथयिष्यामि शृणु पुण्यविवृद्धये ॥ सर्वेषामेव देवानामुक्ता देवी मयोत्तमा ।
४४८ वीरमित्रोदयस्य राजनीतिप्रकाशे विशेषेण तु वह्निस्था आयुरारोग्यदा मता ॥ विजयं भूमिलाभं च मानवानां प्रियं तथा । विद्यासौभाग्यपुत्रादि कुण्डस्था सम्प्रयच्छति ॥ तस्मान्नृपेण भूत्यर्थं वसोर्द्धाराश्रिता शिवा । पूजनीया यथाशक्त्या सर्वकामफलप्रदा ॥ रुद्रादित्या ग्रहा विष्णुर्ब्रह्मा यक्षाः सकिन्नराः । हुताशनमुखाः सर्वे दृष्टादृष्टफलप्रदाः ॥ गोदानं भूमिदानं च रत्नसर्पिस्तिलादि च । दानानि च महान्त्याहुस्तेषां धारा विशिष्यते ॥ विप्राणां कोटिकोटीनां भोजयित्वा तु यत्फलम् । लभते तदवाप्नोति धारां दत्त्वा हुताशने ॥ व्यतीपाते न सन्देहः स च सूक्ष्मः प्रकीर्तितः । अयनं विषुवच्चैव दिनच्छिद्रं तथैव च ॥ दुष्प्रापं दानहोमानां धारायां लभ्यते नृप । तस्मान्नृपेण वृद्ध्यर्थं दृष्टादृष्टजिगीषुणा ॥ वसोर्द्धारा प्रकर्त्तव्या सर्वकामसुखावहा । समां वा अर्द्धमर्द्धं वा ऋतुमासार्द्धवासरम् ॥ समाम् अब्दम् । कृत्वा विभवरूपेण शाश्वतं लभते फलम् । एकाहमपि यो देवीं कल्पयित्वा हुताशने ॥ पातयेत्सर्पिषो धारां स लभेदीप्सितं फलम् । देवीमातृसमीपस्थं शिवविष्णुसमीपगम् ॥ भानोः प्रजापतेर्वापि वसोर्धारागृहं भवेत् । चिरन्तनेषु सर्वेषु स्वयं वा संस्कृतेषु च ॥ पर्वतेषु च दिव्येषु नदीनां सङ्गमेषु च ।
देवीपुराणोक्तवसुधाराविधिः । ४४९ गुहासु च विचित्रासु गृहगर्भेषु भूमिषु ॥ दत्त्वा समाहितान् कामान् विधिना लभते नृप । अथ सामान्यतो गेहं समसूत्रं जलोन्मुखम् ॥ वास्तुसंशुद्धविन्यासमेकादशकरं परम् । त्रीणि पञ्चाथवा सप्त दश वा नव कारयेत् ॥ विंशकं यावदेकोनत्रिंशदूर्ध्वं न कारयेत् । पकेष्टं शैलदार्वं वा सालिन्दं सहतोरणम् ॥ पञ्चसप्तनवास्यं वा गवाक्षकविभूषितम् । सर्वतोभद्रविन्यासं क्रमवृद्ध्या विवर्द्धितम् ॥ ऊर्ध्वं च धूमनिष्काशं सप्रकाशं विशेषतः । सदेवसङ्गहं कार्यमथवा देवतागमम् ॥ सदेवसङ्ग्रहं, प्राचीनस्थापितदेवप्रतिमम् । देवतागमं, तत्का- लातीतदेवप्रतिमम् । तस्य मध्ये भवेत्कुण्डं हस्तादिशुभलक्षणम् । चतुष्कमथ वा वृत्तं पङ्कजाकृति वाथ वा ॥ अथवेत्यनेन योनिकुण्डमुच्यते । अत एव “योन्यां कामफ- लप्रदम्” इसनेनाग्रे तत्फलमुक्तम् । पृथिवीजयदं शाक्रं वृत्तं कामफलप्रदम् । शाक्रं चतुरस्रम् । पङ्कजे जयमारोग्यं योन्यां कामफलप्रदम् । शेषाः कार्यविभागेन कुण्डाः कार्या विजानता ॥ सामान्यं सर्वहोमेषु शाक्रकुण्डं नरोत्तम । विस्तारखाततुल्यं तु त्रिमेखलसमन्वितम् ॥ चतुरस्रि द्वे च वा कुर्यादङ्गुलान् कुण्डमानतः । द्विगुणान् द्विगुणे कुण्डे होमसारेण कारयेत् ॥ ५७
..." or "षड्भिः पलैर्..."
Wait! In Surya Siddhanta / Jyotisha / Rajanitiprakasha:
The ghaṭikā yantra (clepsydra):
"दशभिः पलैस्ताम्रस्य कृतं पात्रं षडङ्गुलं विस्तृतम्..."
Wait, here:
"घृतनिष्क्रमणार्थाय कार्यं सम्यग्विपाश्चता (सम्यग्विपाश्चिता / सम्यग्विपश्चिता) ॥"
"पलैर्दशभिर्..." -> "नाड्येका तु यथा व्रजेत् ।"
"पञ्चाद्भिस्तु शतैर्होमः सप्तत्याथ षडग्रया ॥" (Wait, 576 ahutis? 500 + 70 + 6 = 576? 576 ahutis in a certain time!)
"यथा पूर्णा व्रजेत्तत्स तथा कुर्यान्न चान्यथा ।" (पूर्णा = pūrṇāhuti)
Yes! It's measuring time / dripping of ghee for ahutis during a sacrifice!
In one nāḍī (नाड्येका), how much ghee flows out?
"पलैर्दशभिर्..." -> wait, how many palas of ghee? Or a vessel of 10 palas?
Wait, could the word be:
द्रोणैर्? 1 drona = 16 prasthas = 6
देवीपुराणोक्तवसुधाराविधिः । ४५१ स्थूलरूपा तु तैस्तुष्टैस्तुष्टा देवी महाफला । कालादिबलिगन्धादि प्रतिष्ठावच्च कारयेत् ॥ यथासम्पत्ति सम्पन्नः सर्वकालं प्रदापयेत् । तदा मातृग्रहान् भूतान् लोकपालान्निवेशयेत् । हैमान् राजतताम्रान् वा स्वनिवेशोपलक्षितान् ॥ स्वर्णपुष्पबलिगन्धदक्षिणादि यथाक्रमम् । मातृणां लोकपालानां ग्रहाणां च यथाविधि ॥ हृदयेन प्रदेयं च मूलमन्त्रैः पुरातनैः । अथ वा सर्वसामान्यां वैदिकीमपि कारयेत् ॥ अथर्वविधिना वत्स पूर्वोक्तां वा यथा पुरा । प्रभूतमनं नैवेद्यैर्भूरिदक्षिणसंयुतैः ॥ कुर्यान्महाप्रयत्नेन नान्यथा च कदाचन । छेदे भयं विजानीयात्तदर्थं तत्र कारयेत् ॥ महाव्याहृतिहोमेन पात्रमत्र निवेशयेत् । मूलमन्त्रेण देव्यास्तु शृङ्गलं हृदयेन तु ॥ घृतं शिरसो मन्त्रेण शिखया चानुतापयेत् । कवचेन तथा वह्निं रक्षयित्वा प्रदापयेत् ॥ अस्त्रेण नेत्रमन्त्रेण सर्वं सर्वत्र निक्षिपेत् । लोकपालान् ग्रहान्नागान् द्वादशार्धेन पूजयेत् । शिवाद्यान्सनकाद्यांश्च देवाद्यानपि पूजयेत् ॥ नित्येषु च महाप्राज्ञ निमित्तेषु विशेषतः । अग्नेर्वर्णश्च गन्धश्च शब्दश्चाकृतयस्तथा ॥ विकाराश्च तदा वत्स बोद्धव्या सिद्ध्यासिद्धिदाः । तदन्ते वत्स सत्कार्या सर्वकामप्रदायिका ॥ येन सान्निध्यमायाति सर्वहोमेषु मङ्गला ।
तिकर्त्रे च वरदाय च" "नमस्ते स्कन्दमातस्ते स्कन्दपित्रे नमोनमः" "कुण्डे वा मण्डले वापि स्थण्डिले वाथ वा विभो" (wait, line 16 has 'तां विभो' or 'वा विभो'? Let's check!)
Let's check Line 16: "कुण्डे वा मण्डले वापि स्थण्डिले वाथ तां विभो ॥" Wait, look at 'तां विभो': It has 'त' with 'ा' and anusvara: 'तां विभो' or is it 'वा विभो'? Wait, the letter has a left loop: it is 'त'! With 'ा' and 'ं': 'तां विभो ॥' (or maybe 'वा विभो'? No, it has a flat top, clearly 'तां').
Let's look at Line 7 again:
Look at:
व सु [space]
Then:
आ
Then: an anusvara?
Then: look at the glyph!
Is that 'इ' or 'ह' or 'श'?
Wait! Look at:
आ
ं
श
्
व
ा
न
े
रू
प
ा
य
Wait, could it be:
वसु आंश्वानेरूपाय or वसु आंश्वानरूपाय?
Look at the character:
It has:
'आ'
then above the line, a dot (anusvara).
अन्नं चित्रं विशुद्धं च संस्कृतं घृतपायसैः । होमयेद्विधिवद्विप्रो बलिं चापि प्रदापयेत् ॥ सितवस्त्रधरो भूपः सबलः सहवाहनः । पूजयेच्छत्ररत्नादीन्मातरं पितरं द्विजान् ॥ आचार्यान् बान्धवांल्लोकान्सर्वाश्रमरताश्च ये । नटनर्त्तकवेश्याश्च कन्यका विधवाः स्त्रियः ॥ दीनान्धकृपणांश्चैव अन्नदानेन पूजयेत् । एवं निवेशनं कृत्वा नित्यं जप्यं शतं शतम् ॥ प्रातर्मध्याह्नसन्ध्यायां तत्र शान्तिः प्रकीर्त्तिता । भवते नृपराष्ट्रस्य पूर्वोक्तफलदायकम् ॥ इति । एवं वसोर्धारानिवेशनं विधाय तत्र धूमस्य वर्णभेदेन फलाफलम्— तत्रैवोक्तम, ब्रह्मोवाच, तप्तहाटकवर्णाभः सूर्य्यसिन्दूरकान्तिभृत् । शङ्खकुन्देन्दुपद्माभो घृतक्षीरनिभः शुभः ॥ जपाभः शङ्खपुष्पाभो लाक्षाजलजसन्निभः । शुभदः सर्वकार्याणां विपरीतो ह्यसिद्धिदः ॥ मेघदुन्दुभिशङ्खानां वेणुवीणास्वनःशुभः । वृषेभशिखिकाकानां कोकिलस्य न पूजितः ॥ कुङ्कुमागुरुकर्पूरमदरोचनगन्धवान् । मदो, मृगमदः । मांस्येलाकुष्ठतगरसितगन्धिश्च पूजितः ॥ हंसच्छत्रभगोकुम्भपद्माकरकृतिः शुभः ॥ सिंहबर्हिणशैलानां चामराकृतिरिष्टदः । सधूमोऽमृतगन्धी च शुकास्यचरणोपमः ॥
४५४ वीरमित्रोदयस्य राजनीतिप्रकाशे छिन्नज्वालोऽथ वा रोदी नेष्टः सर्वेषु पावकः । सुसंहतशिखः शस्त ऊर्ध्वं प्रज्वलितोऽथ वा ॥ लेलिहानः शुभः कुन्ददीप्तिमान् वरदोऽनलः । एवंविधः सदैवाथ यज्ञे वैश्वानरो हितः ॥ यात्रायां शक्रकेतौ च सर्वकार्येषु सिद्धिदः । न्यूना या वहते धारा मानात्सर्पिर्न सा शुभा ॥ नाधिका शस्यते विप्र दुर्भिक्षकलिकारिका । त्रुट्यते वहमाना या शाम्यते वा हुताशनः ॥ सापि चान्यं नृपं त्विच्छेद्या च धारा पतेद्बहिः । ऋजुनादा महारूपा मनोज्ञा प्रियकारिका ॥ सुवर्णा हेमवर्णा च धारा राज्यविवृद्धये । सन्तता पतते या च तनोतीव च पावकम् ॥ तनोति नृप राष्ट्रं सा वसोर्धारा न संशयः । सुगन्धि स्वस्थं विमलं कृमिकीटविवर्जितम् ॥ शस्यते वसुधारायां सर्पिर्गव्यं च पूजितम् । अभावाद्गव्यमाज्यं वा होतव्यं च सुशोभनम् ॥ घृतक्षौद्रपयोधारा सर्वपीडानिवारिणी । गुडूचीशकलैर्होमः सहकारदलैः शुभः ॥ अश्वत्थमालतीदूर्वा आयुरारोग्यपुत्रदाः । सौभाग्यं च श्रियं देवी प्रयच्छत्यविचारणात् ॥ आर्क्याद्या वा शुभा वत्स सफलाः सार्वकामिकाः होतव्याः सर्वकालं तु सातत्यात्समिधो नृप ॥ सर्वकालं घृतं प्रोक्तं निमित्ते च निमित्ततः । विशुद्धे सर्पिषो यानि तानि चात्र विचारयेत् ॥ ज्वालावच्च शुभं गन्धं सर्वहोमेषु लक्षयेत् ।
वसोर्धाराया माहात्म्यम् । ४५५ संयतैः संयताहारैः सर्वशास्त्रार्थपारगैः ॥ जपहोमरतैर्भूप धारा देया तु तद्विधैः । पाखण्डविकलान् लुब्धान् धर्मापेतान् बहिष्कृतान् ॥ सर्वकालप्रवादांश्च न वदेन्नावलोकयेत् । मृत्युञ्जयमहामन्त्रं चतुर्थ्यन्तं जपेत्तथा ॥ भाग्यवान् नित्यहोमे तु अन्यथा विफलं भवेत् । सामान्या या भवेद्धारा तत्र जप्यं शतं शतम् ॥ प्रातर्मध्याह्नसन्ध्यासु सर्वकामसमृद्धये । वसुद्रव्यं घृतं वाज्यममृतं हविष्कामिकम् ॥ तस्य धारा सदा देया वसोर्धारा हि सा मता । वसुनापत्यकामेन दक्षेण च महात्मना ॥ मया च विष्णुना शक्र रुद्रेण च सहोमया । आत्मानं च स्वरूपेण धारायां तु प्रपातितम् ॥ देवी सान्निध्यमायाता सर्वकामप्रदायिका । तस्मात्त्वमपि राजेन्द्र वसोर्धारां प्रदापय ॥ नातः परतरं पुण्यं विद्यते नृपसत्तम । वसोर्धाराप्रदानस्य एकाहमपि यद्भवेत् ॥ नृपेण पुष्टिकामेन परराज्यजिगीषुणा । देया धारा सदा वत्स रिपुनाशाय विद्धि ताम् ॥ विच्छेदो नित्यहोमस्य न कार्यस्तु कदाचन । महादोषमवाप्नोति यः कुर्याद्विमुखान् सुरान् ॥ द्रव्याभावे घृताभावे नृप तस्करजं भयम् । यदि नो वहते धारा तदा छिद्रं न विद्यते ॥ होमं कृत्वा क्षमापेत देवं देवीं नृपोत्तम । पुनः प्राप्ते भवेद्वत्स प्रतिष्ठा विधिचोदिता ॥
४५६ वीरमित्रोदयस्थ राजनीतिप्रकाशे महत्याश्विनमासे तु अष्टमी नवमीषु च । कार्तिकीयां माघचैत्रे तु चित्रायां रोहिणीषु च । वैशाख्यां तु प्रदातव्या ज्यैष्ठयां ज्येष्ठस्य सत्तम ॥ आषाढे द्वादशी प्रोक्ता अष्टमी पूर्णिमा नभे । नभस्ये रोहिणी वत्स चतुर्थ्यां भौमवासरे ॥ सङ्क्रान्तिषु च सर्वासु गुरुसौरभवासु च । चन्द्रसूर्योपरागेषु प्रतिष्ठा यज्ञकर्मणि ॥ पुत्रोत्सवे प्रदातव्या जन्मपुष्पाभिषेचने । जन्मदिनाभिषेके पुष्पाभिषेके च । मार्गे व्रतनिबन्धे तु सुघोरे केतुदर्शने । ग्रहकृत्योपशमने धारा देया शुभावहा ॥ एवं यो वाहयेद्धारां शास्त्रदृष्टेन कर्मणा । तस्य भूः सिद्ध्यते सर्वा सनागा सहसागरा ॥ अश्वमेधसमं पुण्यं दिनहोमात्प्रजायते । वाजपेयं शतं रात्रावाग्निष्टोमशतं तथा ॥ आधयो व्याधयस्तस्य न भवन्ति कदाचन । आयुरारोग्यमैश्वर्यं तदन्ते च शिवो भवेत् ॥ इति । तथा, हिमवद्धेमकूटे च विन्ध्ये माहेन्द्रपर्वते । वैदिशे तु जयन्ते वा महासेने च भूभृति ॥ गोपागिरौ महापुण्ये चित्रकूटेऽथ यामुने । कालञ्जरेऽथ वा काश्यां प्रयागे देवपर्वते ॥ उज्जयिन्यां च यो धारां दापयेद्वा महेश्वरि । एतेषु पुण्यदेशेषु विषुवायनेसङ्क्रमे ॥ पुष्करे नैमिषे वत्स देया पञ्चमुखेक्षिते ।
स्थानविशेषेण वसुधाराफलम् । ४५७ गिरौ धाराप्रदानेन ग्रहपीडा न जायते ॥ बहुवक्रगते देहे वत्सरं न भयं भवेत् । जन्मतारार्क्षपीडायां दत्ता धारा व्यपोहति ॥ जम्बूमार्गे सदापूजा धारापाते विशिष्यते । सर्वकामानवाप्नोति नर्मदायां महामुने । धारादानेन गङ्गायां कालिन्द्यां वा महाह्रदे ॥ दत्त्वा विधानविहितं न भयं जायते क्वचित् । शनिसूर्यकृतां पीडां गुरुभौमीं व्यपोहति ॥ यथापूजाविधानेन प्रतिसंवत्सरे स्थिता । पीडां निवारयेद्वत्स संवत्सरग्रहोद्भवाम् ॥ मन्त्रं जपेत्सङ्कथितं न भयं विद्यते क्वचित् । एकान्ते दुष्टरहिते पापजन्तुविवर्जिते ॥ धाराहोमश्च कर्त्तव्यो यथोक्तः श्रियमिच्छता । जिह्वायां पातयेद्धारां न द्रुतां न विलम्बिताम् ॥ सावधानेन मनसा मृत्युञ्जयनिपातिता । मन्त्रयोगाद्भवेत्सिद्धिर्दृष्टादृष्टप्रसाधिका ॥ ग्रहोद्भवां हरेत्पीडां त्रिविधामपि दुःस्थिताम् । ग्रहाश्च त्रिविधाः प्रोक्तास्तेषां मन्त्रा विधानतः ॥ अंशजा मूलमन्त्राश्च पीठपादगतास्तथा । होमकाले प्रयोक्तव्याः पूजाकाले तथैव च ॥ एवं सिद्धिमवाप्नोति इह स्वर्गापवर्गिकाम् । तावत्काले क्रियायोगाद्धारायां लभते मुने ॥ धारादानं प्रकर्त्तव्यं यत्र कुत्र घटादिभिः । तैर्मन्त्रैर्नित्यहोमे च पूर्वं च कथितो विधिः ॥ इति । इति देवीपुराणोक्तो वसोर्धाराविधिः । ५८