विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
वि० ध०
दि० ख०
अ० ८८
॥२३१॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने धर्मवर्णनन्नाम सप्तशीतितमोऽध्यायः ॥ ८७ ॥ पुष्कर उवाच ॥
निद्रां जह्याद् गृही राम नित्यमेवाशूगोदये ॥ वेगोत्सर्गं ततः कृत्वा दन्तधावनपूर्वकम् ॥ १ ॥ स्नानं समाचरेत्प्रातः सर्वकल्मषनाशनम् ॥
वेगोत्सर्गं न कुर्वीत फालकृष्टे तथा शुचौ ॥ २ ॥ गोष्ठे न चार्थो न तटे द्रुमच्छायासु शाद्वले ॥ पथि भस्मनि तोये च नग्नेन न च
गोपथे ॥ ३ ॥ नान्यर्कोनांगनातोयेषु प्रतिवाते तथैव च ॥ न वेगतो न कार्येण वेगोत्सर्गं समाचरेत् ॥ ४ ॥ उदङ्मुखस्तु
सन्ध्यासु दिवा च भृगुनन्दन ॥ दक्षिणामिमुखो रात्रौ नाकाशे तु कथञ्चन ॥ ५ ॥ कर्णस्थब्रह्मसूत्रस्तु बद्धाच्छादितमस्तकः ॥
अभ्युद्धृताभिरिद्भिस्तु शौचं संमाचरेत्त ॥ ६ ॥ कृतशौचः शुचौ देशे प्राङ्मुखः सुसमाहितः ॥ उदङ्मुखस्त्व धर्मज्ञ तथान्तर्जलोदरेव
च ॥ ७ ॥ उपस्पृशेच्च धर्मज्ञ शुद्धपादकरः सदा ॥ एकहस्तापितेनाऽथ फेणबुद्बुदिना तथा ॥ ८ ॥ अविपक्वेन तोयेन नतु नोपस्पृशेद्वुधः ॥
अङ्गुष्ठस्य भवेद्देवं ब्राह्ममङ्गुलिमूलके ॥ ९ ॥ पैत्रं तर्जनिमूले स्यात्कनिष्ठान्याश्च मातुलम् ॥ ब्राह्मेण त्रिः पिबेदापः प्रमृज्यात्तु ततो मुखम् ॥ १० ॥
वायुद्भिः संस्पृशेत्पश्चाश्यूर्ध्वान नाभिमथ च ॥ उपस्पृश्य ततः पश्चादक्षयेद्दन्तधावनम् ॥ ११ ॥ भुक्त्वा च निर्लेपद्रुमं नित्यमेव समाहितः ॥
उदङ्मुखः प्राङ्मुखो वा न गाम्याशायराद्यमुखः ॥ १२॥ मांसंमक्ष भक्षयेच्च नोर्धशुष्कं न पिच्छलम्॥ सुशिरं मधुरं चाम्लं वित्वचं पत्रसंयुतम्॥ १३॥
समपर्वमथात्स्यूलं कुब्जंकीटविनाशितम् ॥ शाल्मल्व्यश्वत्थमथ्यत्नां धवकिंशुकयोरपि ॥ १४॥ कोविदारशमीपीलुश्लेष्मातकविभीतकान् ॥ वर्जयेद्
न्तकाष्ठेषु गुग्गुलं कुसुकं तथा ॥ १५॥ वटासनार्कखदिरात्कवीरांश्च भक्षयेत् ॥ जात्यश्वबिल्वबदरं मूलं च कुकुमस्य च ॥ १६॥ अरिमंदं प्रियङ्गुं च
कण्टकिन्याश्च भार्गव ॥ प्रक्षाल्य भक्षयेत्पूर्वं प्रक्षाल्यैव च संत्यजेत् ॥ १७॥ पतितेऽमिदग्धुधवं शस्तं शान्ताशान्तिमुखे दिनम् ॥ सौभाग्यकामो वर्जयेत्
भक्षयेन्नाकुकं सुप्सयतः ॥ १८॥ मुखभागेन धर्मज्ञ वाग्यतश्चैव भक्षयेत् ॥ मलशौचं ततः कृत्वा सम्यक् स्नानमथाचरेत् ॥ १९ ॥ न स्नातनमात्र्य
रेद्बुध्वा नाविज्ञाते जलाशये ॥ नातुरो नाशुचैनेरानाक्रान्ते नभस्तले ॥ २०॥ अप्रशस्ते निशि स्नानं राहोरन्यत्र दर्शनात् ॥ परांभसि तथैवाल्पे
नासिरस्कः कथञ्चन ॥ २१ ॥ नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ॥ क्रियास्नानं तथा षष्ठं पोडा स्नानं प्रकीर्तितम् ॥ २२ ॥ स्नाति रात्रौ
शयानस्य स्रवन्ति पुरुषस्य चा॥तस्मात्सर्वप्रयत्नेन प्रातःस्नानं समाचरेत्॥२३॥प्रातःस्नायी सदा राम नर्कं न च पश्यति ॥ यः करोति सदा
राम स्नानं तु सवनद्वयम् ॥ २४ ॥ स तु स्वर्गमवाप्नोपि त्रिदशैरपि पूज्यते ॥ तथा त्रिषवणस्नायी स्वर्गलोके महीयते ॥ २५ ॥ मानुष्यं
॥२३१॥
प्राप्य भवति रूपयौवनसंयुक्तः ॥ धनधान्यवति स्फीते कुले चैव प्रसूयते ॥ २६॥ रूपौदार्यगुणोपेताः प्रियश्लाघ्यात्यनिन्दिताः ॥ धर्मे मतिश्वास्य भवेद्यशसा च विराजते ॥ २७ ॥ तस्मात्सदा धर्मपरेण राम तीर्थेषु मुख्येषु सरस्सु चैव ॥ स्नानं च कार्यं सुमलापहर्तृ नाकप्रदं कामकरं सुखाय ॥२८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करेणोपाख्याने स्नानवर्णनो नामाष्टाशीतितमोऽध्यायः ॥ ८८॥ पुष्कर उवाच॥ माल्यं लक्ष्मीकरं नाम नित्यं शिरसि धारयेत् ॥ नान्यत्र धारयेन्मालो बहिर्गन्ध्यं न धारयेत् ॥ १॥ यच्च कण्टकिसम्भूतं कृष्णं रक्तं च भार्गव ॥ कण्टकियोऽपि यज्जातं शुक्लं धार्यं तु तद्भवेत् ॥२॥ कृष्णरक्ते तथा धार्ये यदि स्यातां जलोद्भवे ॥ चन्दनेनानुलेपेन कुङ्कुमागुरुभिस्तथा ॥३॥ कर्पूरेण तथाङ्गालि शुभेन च प्रियङ्गुना ॥ वस्त्रं नान्यधृतं धार्यं न रक्तं मलिने तथा ॥४॥ जीर्णं नापदशं चैव श्वेतं धार्यं प्रयत्नतः ॥ उपानहं नान्यधृतं ब्रह्मसूत्रं च धारयेत् ॥ ५ ॥ हीनेन्द्रिरीकांश्च बालैर्वृद्धैर्बुभुक्षितैः ॥ व्यालैर्दन्तावहैश्च न ब्रजेच्च कदाचन ॥ ६ ॥ स्नानभोजनपानादि तेषामादौ न चाचरेत् ॥ नैकः प्रपद्येद्ध्वानं नाद्यान्मार्कसहायवान् ॥ ७ ॥ न रात्रौ न च मध्याह्ने न च देवे प्रवर्षति ॥ न चातिविपमे वाते सन्ध्वयोश्च तथा द्विज ॥ ८ ॥ नासन्निरूहितपाने वा न वेगान्न च सन्ततम् ॥ सातपश्छत्रदात्राणः सोष्णीषश्च तथा चरेत् ॥ ९ ॥ चतुष्पथं न सः कुर्याद्दिव्यान्तांश्च वनस्पतीन् ॥ मङ्गल्यानि च सर्वाणि पथि कुर्यात्प्रदक्षिणम् ॥ १० ॥ अमङ्गल्यानि वामानि कर्तव्यानि विजानता ॥ वस्त्रस्य भूमिपालस्य स्नातकस्याथ चक्रिणः ॥ ११॥ भारक्रान्तस्य गुर्विण्याः पन्था देयः प्रयत्नतः ॥ व्यालयुद्धं न चेक्षेत विना विषममास्थितः ॥१२॥ न पश्येच्चार्कमुद्यन्तं नास्तं यान्तं न चाम्भसि ॥ तिरस्कृतं तु वस्त्रेण न क्रुद्धस्य गुरोर्मुखम् ॥ १३॥ न स्त्रीं स्रवन्ती नोदक्यां न नग्नां नान्यसङ्ग ताम् ॥ न पत्नीं भोजनस्वप्नस्नानासक्तां विसूपणाम् ॥ १४ ॥ नाञ्जयन्तीं स्वके नेत्रे नरश्लीलं किञ्चिदेव तु ॥ नानास्थानं न पश्येच्च न पश्येच्च महानसम् ॥ १५॥ जलाशयस्तटस्थांश्च न पश्येत्तु कदाचन ॥ हीनाङ्गैरधिकाङ्गैश्च बालैर्वृद्धैर्बुभुक्षितैः ॥ १६ ॥ व्यालैर्दन्तावैश्च न ब्रजेत् कदाचन ॥ स्नानभोजनपानादि तेषामादौ न चाचरेत् ॥ १७ ॥ चतुष्पथस्तुपादाङ्गारशन्त्यवेश्मवाटवीस्तथा ॥ १८ ॥ कार्पासास्थि तथा भस्म नाक्रमेदश्व कुस्तितम् ॥ अन्तःपुरं ऋतुगृहं परदूतगृहं तथा ॥ १९ ॥ नरोहेद्विषमां नावं न वृक्षं न च पर्वतम् ॥ न लोहेन न काष्ठेन नाश्मना च फलद्रुमात् ॥ २० ॥ न पातयेत् कुर्वीत सर्वत्र च कुतूहलम् ॥ अर्धायतनशालेषु सर्वत्र स्यात्कुतूहली ॥ २१॥ दण्डेन करपातैर्वा न कुर्यान्मधु वादनम् ॥ तृणच्छेदं न कुर्वीत न च लोष्टामिम्मर्दनम् ॥ २२ ॥ नखानां भक्षणं चैव दन्तानां कट्टनं तथा ॥ छेदनं च
वि० ध० ॥ २४०॥
द्वि०खं० अ० ८९
नखैर्लेखां वृथा चेष्टां विवर्जयेत् ॥ २३ ॥ मुखाद्वादनं चैव ह्यधोऽधश्चैवं तथा वृथा ॥ अवगुंठन्य शिरो रात्रौ न शयीत कदाचन ॥ ॥ २४ ॥ पर्यटेन्न तथा रात्रौ विना राम प्रदीपिकाम् ॥ नाद्वारेण पशुगृहं नाद्वारेण रिपोर्गृहम् ॥ २५ ॥ प्रविशेन च तिष्ठेच्च निद्रितं न च बोधयेत् ॥ नाक्षिपेत्परवाक्यं तु न च रक्तं विरोगयेत् ॥ २६ ॥ कथाभङ्गं न कुर्वीत न च वासोविपर्ययम् ॥ नोर्ध्वजातुश्चिरं तिष्ठेत्पतन्तीं न लघयेत् ॥ २७॥ परक्षेत्रे चरन्तीं गां पाययन्तीं च वत्सकम् ॥ नाचक्षीत तथाप्यन्यस्य शक्रचापं न दर्श येत् ॥ २८ ॥ भद्रं भद्रमिति ब्रूयान्नानिष्टं वर्त्तयेत्क्वचित् ॥ पालाशमासनं वर्ज्यं पादपीठं च पादुके ॥ २९ ॥ सुरापं गुरुभूपानां ब्राह्मणानां विशेष तः ॥ नाक्रमेच्च तथा छायां श्वपचस्य च भार्गव ॥ ३० ॥ द्विजोयोश्च दम्पत्योर्भूयोर्ध्रूयमानयोः ॥ अग्निब्राह्मणयोश्चैव द्विजभूपालयो स्तथा ॥ ३१ ॥ शिष्योपाध्याययोश्चैव न च मध्ये न पूजयोः ॥ तैले जले तथा वक्रामादर्शं च मलान्विते ॥ ३२ ॥ न पश्येन्न तथा पश्ये दुपक्तं दिवाकरम् ॥ नोच्छिष्टस्तारकाङ्गाहुः स्तुतिनाशं हुताशनम् ॥ ३३ ॥ न तिष्ठेत्पतिव्रतां च तथा च प्रतिभास्करम् ॥ न संहताभ्यां पाणि भ्यां कण्डूयेदात्मनः शिरः ॥ ३४ ॥ रोहनं च तथा नग्नः कुर्यात्तोयावगाहनम् ॥ निष्कारणं नदीपारं बाहुभ्यां न तरेत्तथा ॥ ३५ ॥ न प्रशस्तेऽङ्गी तोये नदीमत्यां कथंचन ॥ न गिरौ पर्वतं राम न राज्ञः पुरतो नृपम् ॥ ३६॥ असंतये पितृदेवं नदीपारं न च व्रजेत् ॥ भोजनं वर्जयेन्नावि दीवनं च तथाम्भसि ॥ ३७॥ नैवाप्सु प्रक्षिपेद्विष्ठान्नमेध्यं रुधिरं विषम् ॥ समालये नाचरेत्स्नानं न दिवासा विकारणाम् ॥३८॥ आत्मनश्च तथा राम नैव तपनयेत्सलजम् ॥ स्नातः शिरो नावधुनन्नीग्भ्योस्तोयमुद्धरेत् ॥ ३९ ॥ तद्दिने चाङ्गुलितांगं तथा स्नानं विवर्जयेत् ॥ शिरःस्नातश्च तैलेन स्पृशे दङ्गं न किञ्चन ॥ ४० ॥ वाससा वामभागस्य रजसा पूर्ववाससा ॥ संमार्जनं रजोवर्ध्यः खराश्वाष्ट्रैस्तथैव च ॥ ४१ ॥ मेध्यानि च तथा राम गोगजाश्वजजांसि च ॥ नाधः कुर्वीत दहनं न च पादौ प्रतापयेत् ॥ ४२ ॥ दृर्शनं मार्जयेत्पादौ न च कांस्ये प्रधापयेत् ॥ गोगजाश्वानपुच्छेषु खरस्य च विशेषतः ॥ ४३ ॥ गृह्णन्नुदकं तस्माद्विद्रुपो हस्तस्त्यजेत् ॥ अकस्मात्स्पृश्यतास्तास्ताः स्वजोगंस्पर्शनं तथा ॥ ४४ ॥ हीनं वा न वहेद्दाम श्रुतरूपधनादिभिः ॥ हीनेनं च वसेत्सार्धं न देशे वैधवर्जिते ॥ ४५ ॥ न भूपालविहीने च न संवत्सराद्वर्जिते ॥ दुष्टकूपान्विते राम तथा च बहुनायके ॥ ४६ ॥ हीनायके बालपतौ शूद्रराज्ये तथैव च ॥ म्लेच्छवेषो न कर्तव्यो म्लेच्छभाषा तथैव च ॥ ४७ ॥ चण्डालैः पतितै म्लेच्छैर्भाषणं न कदाचन ॥ नकारं कायतः कृत्वा कीर्तयेत्केशवं विभुम् ॥ ४८ ॥ नासंवृतमुखः कुर्याद्धासं जृम्भां तथा क्षुतम् ॥
॥२४०॥
गोपयेज्जन्मनक्षत्रमृणसारं गृहे मलम् ॥ ४९ ॥ प्रभोरप्यवमानं स्वं तस्य दुश्चरितं च यत् ॥ नानुकूल्यं तथा कार्यान्मोध्याणां सुखेषुस्ना ॥ ५० ॥ युक्त्या च कामसेवी स्याच्छास्त्रमत्तः सुखी भवेत् ॥ वेगरोधं न कर्तव्यमन्यत्र क्रोधवेगतः ॥ ५१ ॥ नोपेक्षितव्यो व्याधिः स्याद्विदूरेण्योऽपि भार्गव ॥ ज्ञात्वा भुक्ता च धर्मज्ञ मृत्तिकामः सुरार्चने ॥ ५२ ॥ मलानानां संस्पर्शे मलानां चैव भार्गव ॥ वाससञ्च पर्यायोने रथ्याचंक्रमणे तथा ॥ ५३ ॥ आचमेच्च तथा राम तथा स्वप्नोत्थितो नरः ॥ न हुंकुर्याच्छ्वं पूज्यं विभृयान्त्रिधारिणीम् ॥५४॥ न मुक्त्वामं प्रायस्यत्रीञ्चिसेवां विवर्जयेत् ॥ पादेन नाक्रमेत्पादं न कण्डूयेन्न शोचयेत् ॥५५॥ नास्ति वर्जयेच्छ्वधूमं च गिरं चारूशीलसंयुताम् ॥ प्रत्यक्षं वा परोक्षं वा कस्यचिन्नाप्रियं वदेत् ॥ ५६ ॥ वेदशास्त्रनरेन्द्रर्षिद्विनिन्दां विवर्जयेत् ॥ नास्ति क्यमन्तं चैव चेतसो दूषणं तथा ॥ ५७ ॥ स्त्रीणामीर्ष्या न कर्तव्या विश्वासं तासु वर्जयेत् ॥ लाडितास्ताडिताः कार्या देहे स्वे स्त्रीकुमारिकाः ॥ ॥ ५८ ॥ सर्वेषामेव धर्माणां कर्तव्यं श्रवणं तथा ॥ नमस्कारं च देवानां सर्वेषामेव कारयेत् ॥ ५९ ॥ सर्वेषां चरितं राम धर्मतो न विकुत्सयेत् ॥ न चाचरेच्च धर्मज्ञ ते हि तेजोपहाहताः ॥६०॥ धर्मस्यार्थस्य कामस्य पीडा वर्ज्या परस्परम् ॥ देवस्य वयसश्चैव शिल्पस्य स्वकुलस्य च ॥ ६१॥ आचरेत्सदृशं वेषं व्यवसायानुरूपतः ॥ स्नात एवासु विभृयात्सोष्णीषे धौतवाससी ॥ ६२ ॥ अनुलियेत्तथांगानि सितं माल्यं च धारयेत् ॥ नासंस्कृतं च विभृयात्काञ्चनं पुरुषोत्तम ॥६३॥ निराशनस्य सुप्तस्य शयानस्य तथैव च ॥ तथा भुक्तवतो राम स्नातस्य भाषितस्य च ॥६४॥ यात्राद्युद्द्योतसूक्तस्यापि श्मश्रुकर्म विवर्जयेत् ॥ वैष्णवं वारुणं त्वाष्ट्रं सावित्रं वासवं तथा ॥ ६५ ॥ वायव्यमश्विन्दूकं पौष्णं शाक्रमाश्विनमेव च ॥ मैत्रादित्ये तथा पुष्यः शंवचऋणं भवेत् ॥ ६६ ॥ नक्षत्राणामथेतेषां मुहूर्तेश्च हितप्रदाः॥ अर्कर्किभोमवाराश्च रिक्ताश्च तिथयस्तथा ॥ ६७ ॥ प्रतिपच्च तथा षष्ठी वर्जयेत्क्षौरकर्मणि ॥ वर्जयेज्जन्मनक्षत्रं नानुकूलं तथैव च ॥ ६८ ॥ जन्मनाक्षत्रगे सौम्ये शिरःस्नानेन यत्नतः ॥ पूजा सोमस्य कर्तव्या नक्षत्रस्य तथात्मनः ॥ ६९ ॥ श्राद्धं कुर्यात्प्रयत्नेन वह्निब्राह्मणपूजनम् ॥ वाहनायुधच्छत्राद्यं पूजनीयं प्रयत्नतः ॥ ७० ॥ सुराणामर्चनं कार्यं केशवस्था विशेषतः ॥ समं स्वलंकृतस्तिष्ठेच्छुस्नातश्च मानवः ॥ ७१ ॥ निर्मलानि च कार्याणि दन्तक्षालनानि च ॥ अष्टमीं च तथा षष्ठीं नवमीं च चतुर्दशीम् ॥ ७२ ॥ शिरोऽभ्यङ्गं न कुर्वीत पर्वसन्ध्यौ तथैव च ॥ तथैवामलकस्नानं सप्तमीषु विवर्जयेत् ॥७३॥ विना तु सततं स्नानं न स्नायादष्टमीषु च ॥ अमावास्यां सुरादिंषु नववस्त्रं न धारयेत् ॥ ७४ ॥ न च भौमदिने राम तैलाभ्यक्तेषु चाप्यथ ॥
४१
सावित्रं रौहिणं मैत्रामादित्यं तिष्यमाश्विनम् ॥ ७५ ॥ उत्तरात्रितयं चित्रा वायव्यं वसुदैवतम् ॥ इन्द्राग्निदैवतं पौष्णं तानि शस्तानि निर्दि-
शेत् ॥ ७६ ॥ नक्षत्राणामथैतेषां मुहूर्त्तश्च हितप्रदः ॥ परद्रोहं तथा हिंसां प्रयत्नेन विवर्जयेत् ॥ ७७ ॥ केशग्रहणमङ्गानां शिरस्येतां तथैव च ॥
दूरादावसथान्मूत्रं पुरीषं च समुत्सृजेत् ॥ ७८ ॥ पादप्रक्षालनं चैव भिन्नभाण्डादिकं च यत् ॥ सर्वमेतन्त्यजेत्प्राज्ञो येन स्याद्धर्मसंज्ञम् ॥ ७९ ॥
तण्डुलोदकनिक्षेपं विपरीतं तु कारयेत् ॥ तथैकमनसा कार्यं देवतानां च पूजनम् ॥ ८० ॥ वह्निसंपूजनं चैव न चास्नानेन भार्गव ॥ माल्या-
नुलेपनादीनि न प्रद्यात्तु कस्यचित् ॥ ८१ ॥ अन्ये च देवताविप्रगुरूणां भृगुनन्दन ॥ कोविदारगणार्शाकं चतुर्थी पिप्पली तथा ॥ ८२ ॥
वर्ज्जयेन्मांसं सुकार्थी सर्वमेव तु ॥ राजद्विष्टं न कर्त्तव्यं विरोधं च महाजनैः ॥८३॥ शुष्कैर्वैरं विवादं च प्रयत्नेन विवर्जयेत् ॥ न वसेच्च तथा
वासं वास्तुविद्याविगर्हितम् ॥८४॥ आगाराणाञ्चाधुवातां च परोच्छिष्टां तथैव च ॥ उपराञ्चैव वल्मीकान्मृदं शौचे विवर्जयेत् ॥८५॥ येनेन्द्रियवशो
प्रीति तेन सार्द्धमरिन्दम ॥ न कुर्यादर्थसंबन्धं दारसंबर्शनं तथा ॥८६॥ आत्माभिभवनं निन्दां परस्य च विवर्जयेत् ॥ दृढभक्तो भवेन्नित्यं कृतज्ञश्च
विशेषतः ॥८७॥इन्द्रियाणां जये योगमतिष्ठेच्च सदा नरः ॥ इन्द्रियाणां जयाच्चैव लोकयोः सुखमाप्नुयात् ॥८८॥ अभिभाला तु धर्मज्ञो योगेक्षं-
मार्थमीश्वरम् ॥ गृहं प्रविश्य कुर्वीत स्वाध्यायं सततं बुधः ॥८९॥ अर्थलाभेऽपि महति स्वाध्यायं न समुत्सृजेत् ॥ कुळान्यकुलतां यान्ति
स्वाध्यायस्य विवर्जनात् ॥ ९० ॥ यस्तु वर्षशतं पूर्णं त्वरण्ये तपते तपः ॥ ऋचमेकां च योऽध्येति समौ स्यातां न चाधिकः ॥ स्वाध्या-
याडनन्तं स्नातः कृतजप्यः समाहितः ॥ ९१॥ संपूज्यं देववत्कुर्यात्तस्यान्येषांमयत्नस्य जनार्दनस्य ॥ संपूजनाद्यस्य समस्तयज्ञैः कृतैः फलं शीघ्रम्
वाप्नुवन्ति ॥ ९२ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०गर्गं प्रति पुष्करोपाख्याने आचाराध्यायो नामैकोननवतितमोऽध्यायः ॥ ८९ ॥
पुष्कर उवाच॥स्वाचान्तः प्रयततः स्नातः प्रविशेद्वेवतागृहम् ॥ नमस्कारं तु कुर्वीत तत्र भक्त्या समाहितः ॥ १॥आपोहिष्ठेति तिसृभिस्ततोऽर्घ्यं विनि-
वेद्येत् ॥ हिरण्यवर्णा इति च पाद्यं च तिसृभिर्द्विजः ॥ २ ॥ शन्न आप इत्यनेन देयं सौदामनं भवेत् ॥ इदमापः प्रवहत स्नानमन्त्रः प्रकीर्तितः ॥
॥ ३॥ रथे अक्षेषु च तथा चतस्रस्त्वनुलेपने ॥ युवा सुवास इति च मन्त्रो वासस ईरितः ॥ ४ ॥ पुष्पे पुष्पवतीत्येव धूपं धूरसि चाप्यथ ॥
तेजोऽसि शुक्रमसि दीपं दद्याद्विचक्षणः ॥ ५ ॥ दधिक्राव्णो इति तथा मधुपर्कं निवेदयेत् ॥ हिरण्यगर्भ इत्यष्टौ ऋचः प्रोक्ता निवेदने ॥ ६ ॥
अन्नस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः ॥ चामरव्यजने मात्रां छत्रं यानासने तथा ॥७॥ यत्किञ्चिद्देवमादिः स्यात्त्वावित्वेण निवेदयेत् ॥ पौरुषं
च जयेत्सर्वं तदेव जुहुयात्तथा ॥ ८ ॥ अर्चाभावे तथा वेद्यां स्थले पूर्णघटे तथा ॥ नदीतीरेऽथ कमले केशवं पूजयेन्नरः ॥ ९ ॥ सर्वाशुभानां परिघातकारि संपूजनं देववरस्य विष्णोः ॥ कृत्वा नृवान्किञ्चनप्रप्नुमर्याति यन्नैक्यतां याति पितामहस्य ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने देवकर्माध्यायो नाम नवतितमोऽध्यायः ॥ ९० ॥ पुष्कर उवाच ॥ नक्तं गृहीतमुदकं देवकर्मणि वर्जयेत् ॥ चन्द्- नागहृत्कर्पूरं मृगदर्पं तथैव च ॥ १ ॥ जातीफलं तथा दद्यादनुलेपस्य कारणात् ॥ अतोऽन्यं नैव दातव्यं किञ्चिद्देवानुलेपनम् ॥ २ ॥ दारिद्र्यं पद्म- कः कुर्याद्वासस्थं रक्तचन्दनम् ॥ उशीरंश्च तु विंश्रेशं मन्ये कुर्यादुपद्रवम् ॥ ३ ॥ न वस्त्रं मलिनं देयं नीलं रक्तं तु यद्भवेत् ॥ तौ दत्त्वा देव- देवाय शोकमाप्नोत्यसंशयम् ॥ ४ ॥ कृत्रिमं तु न दातव्यं त्वन्यदेवगृहोद्भवम् ॥ द्विज ॥ प्रतिरूपकृतं दत्त्वा क्षिप्रं पृष्ट्वा वियुज्यते ॥ ५ ॥ पुष्पं कण्टकिकं संजातं तथा गन्धविवर्जितम् ॥ उग्रगन्धं न दातव्यं त्वन्यदेवगृहोद्भवम् ॥ ६ ॥ श्मशानचेत्यद्रुमजं भूमावशानिपातितम् ॥ कलिका न तु दातव्या देवदेवस्य चक्रिणः ॥ ७ ॥ शुक्लान्ववर्णं कुसुमं न देयं च तथा भवेत् ॥ सुगन्धि शुक्लं देयं स्याज्जातं कण्टकिते द्रुमौ ॥ ८ ॥ दत्वा कण्टकसंभूतं कुसुमं परिभूयते ॥ शुक्लान्ववर्णं दातव्यं कुसुमं कुंकुमस्य यत् ॥ ९ ॥ पद्मोत्पले च घर्मेग्न तथा वै पीतयूथिकाम् ॥ तथा च वन्यकं दद्याच्छ्वेतकं तकिर्जं च यत् ॥ १० ॥ रक्ताशोकस्य कुसुममसतीकुसुमं तथा ॥ वृक्षाणुवंदिविद्विश्च शुक्लं रक्तिकृतं च यत् ॥ ११ ॥ ताद्रूक्तमपि दातव्यं बिल्वपत्रं तथैव च ॥ दूर्वाग्रं च तथा पत्रं भृङ्गिराजस्य तु ॥ १२ ॥ पत्राणि च सुगन्धीनि तथा देयानि चक्रिणः ॥ मध्योऽन्यवर्णो यस्य स्याच्छुक्लस्य कुसुमस्य च ॥ १३ ॥ पुष्पं शुक्लं तु तद्विद्यान्मनोज्ञं केशवप्रियम् ॥ बन्धुजीवकपुष्पाणि रक्तान्द्यपि च दापयेत् ॥ १४ ॥ अनुक्तरक्तकुसुमं दानाद्भोभाग्यमाप्नुयात् ॥ सुगन्धि दत्त्वा नाप्नोति शुभं वा यदि वाशुभम् ॥ १५ ॥ मृगदर्पं विना किञ्चिद्देयं चेज्जौवस संभवम् ॥ देवदेवस्य दातव्यं दीपे मज्जानमेव वा ॥ १६ ॥ नीलां रक्तां दशां दीपे प्रयत्नेन विवर्जयेत् ॥ अन्या च दीपमात्रं तु तथा वर्जं प्रयत्नतः ॥ १७ ॥ कृष्णागरु स्तथा देवधूपं देवस्य यत्नतः ॥ अभक्षं चाप्यहद्यं च नैवेद्यं न निवेदयेत् ॥ १८ ॥ केशकीटाद्यपन्नं च नरांशविहितं च यत् ॥ मूषिकालांगलो- पेतमवधूतत्वमक्षतम् ॥ १९ ॥ न भक्ष्यमन्नमक्षारं माहिषं क्षीरमेव च ॥ वराहमत्स्यमांसं च मांसं पञ्चनखस्य च ॥ दुरामोदौ तथा वर्ज्यो देवकर्मणि पंडितैः ॥ २० ॥ निवेश्य चित्तं पुरुषोत्तमस्य भक्तिं समास्थाय तथा विशुद्धाम् ॥ करोति श्रद्धां सततं यथोक्तां स याति लोकं मधुसूदनस्य ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुष्पादिदेयादेयकथननममैकनवतितमोऽध्यायः ॥ ९१ ॥ पुष्कर उवाच ॥
वि० ध० ॥२४२॥
द्वि० खं० अ० ९२
ततोऽग्निशरणं गत्वा स्मार्ताऽग्नौ विधिपूर्वकम् ॥ वैश्वदेवं तु कर्तव्यं हुतोत्सृष्टं तु लौकिके ॥ १ ॥ यत्र क्वचन वा राम दीप्यमानेऽथ चोदके ॥
परिसमूह्य पर्युक्ष्य परिस्तीर्य परिस्तरेत् ॥ २ ॥ सर्वारम्भप्रामुख्युदङ् जुहुयात्प्रयतस्ततः ॥ वासुदेवाय देवाय प्रभवे नाध्ययेन च ॥ ३ ॥ अग्नये
चैव सोमाय मित्राय वरुणाय च ॥ इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च ॥ ४ ॥ विश्वेभ्यश्चैव देवेभ्यः प्रजानां पतये तथा ॥ अनुमत्यै
तथा राम धन्वन्तरिण एव च ॥ ५ ॥ वास्तोष्पतये तथा देव्यै ततः स्विष्टकृतेऽग्नये ॥ चतुर्थ्यन्तेन नत्वा च हुत्वेतेभ्यो बलिं हरेत् ॥ ६ ॥ मरु-
त्क्षेपोक्तसावित्रिभिः पूर्वाणाभिभतः परम् ॥ अम्बानामांसि धर्मज्ञ दुर्गा नामानि चोच्चयेत् ॥ ७ ॥ निवन्तीं च पनिकां च प्रभवन्तीं तथैव च ॥ मेध-
वन्तीं च नामानि सर्वेषामेव भार्गवा ॥८॥ आग्नेयाद्या क्रमेणाय ततः सूक्तियु निक्षिपेत् ॥ निर्दित्यै चसुभागेय च सुभङ्गल्यै च भार्गव ॥ ९॥ भद्रंकल्यै
ततो दत्त्वा स्तूणायै च तथा श्रियै ॥ हिरण्यकेश्र्व्यै च तथा वनस्पतय एव च ॥१०॥ धर्माधर्माभ्यां च द्वारे गृहमध्ये ध्रुवाय च ॥ मृत्यवे च बहिर्-
द्याद्दारुणायोदकाश्रये ॥ ११ ॥ भूतेभ्यश्च बहिर्द्यादच्छरेण धनदाय च ॥ इन्द्राद्येन्दुरुपेण्यो दद्यात्पूर्वेण मानवः ॥ १२ ॥ यमाय तत्पुरुषेभ्यो
द्याद्दक्षिणतस्ततः ॥ वरुणाय तत्पुरुषेभ्यो दद्यात्पश्चिमतस्ततः ॥ १३ ॥ सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरम् ॥ ब्रह्मणे ब्रह्मपुरुषेभ्यो मध्ये
द्यात्तथैव च ॥ १४ ॥ आकाएं च तथैवोर्ध्वं स्थण्डिले च तथा क्षितौ ॥ दिवाचरेभ्यश्च दिवा रात्रौ रात्रिवराय च ॥ १५ ॥
बलिं वहिस्तथा दद्यात्सायं प्रातस्तु प्रत्यहम् ॥ पिण्डनिर्वापणं कार्यं सायं प्रातंस्तु कारयेत् ॥ १६ ॥ पित्रे तु प्रथमं पिण्डं तन्पित्रे तत्पनं-
न्तरम् ॥ ततो दद्याच्च तत्पित्रे मात्रे च तदनन्तरम् ॥ १७ ॥ पितृमात्रे ततो दद्याच्छूद्भवै तदनन्तरम् ॥ दक्षिणाग्रेषु दर्भेषु बलिंस्तु
विशेषतः ॥ १८ ॥ यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा ॥ निवेद्यैतच्च तत्सर्वं शुभं पात्रं विशेषतः ॥ १९ ॥ पुष्पैर्धूपेन दीपेन पूजयं-
स्तस्ततं पितॄन् ॥ नामगोत्रे सदा वाच्ये पिण्डनिर्वापणे तथा ॥ २० ॥ पिण्डं दद्याच्च काकानां तत्र मन्त्रमिमं पठेत् ॥ ऐन्द्रा वरुणावायव्या याम्या
वै नैर्ऋतास्तथा ॥ २१ ॥ ते काकाः प्रतिगृह्णन्तु इमं पिण्डं मयोद्धृतम् ॥ ततः पिण्डं शुनां दद्यान्मन्त्रं तत्र निबोध मे ॥ वैवस्वतकुले जातौ
द्वौ श्यामशबलौ शूनौ ॥ ताभ्यां पिण्डं प्रदास्यामि पथि रक्षन्तु मां सदा ॥ २३ ॥ ततो ग्रासं गवां दद्यादन्न मन्त्रं निबोध मे ॥ सौरभेय्यः सर्व-
हिताः पवित्राः पापनाशिनीः ॥२४॥ प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ॥ ततः स्वस्त्ययनं कार्यं भिक्षा देया च भिक्षवे ॥२५॥ दत्वा तु
॥२४२॥
^१ आर्षत्वात्साधुः ।
संस्कृतां भिक्षां गोदानफलमाप्नुयात् ॥ बालः सुवासिनी वृद्धा गर्भिण्या तुरकन्यकाः ॥२६॥ भृत्याँश्च भोजयेद्द्वाम पूजयित्वा तथातिथीन् ॥ नैकग्रा मीणमतिथिं विद्याद्ब्राह्मणं तथा ॥२७॥ अतिथिं भोजयेत्पूर्वं ततो भृत्याँश्च पूजयेत् ॥ राजन्यमथवा वैश्यं शूद्रं वा द्विजसत्तम ॥२८॥ वैश्वदेवे च संप्राप्तं भृत्यैः सह च भोजयेत्॥ वयोभ्यश्च तथा दद्याच्चाण्डालेभ्यस्तथा भुवि ॥२९॥ साधारणं तत्सर्वेषां शेषकं गृहिणां गृहे ॥ वैश्वदेवे च संप्राप्ते न कथंचिदवमानयेत् ॥३०॥ आदाय सुकृतं याति भग्नाशश्चातिथिर्गतः ॥ अध्वना यस्तु भग्नोय ब्राह्मणाय तथा दिवा ॥ ३१॥ सकृत्तु भोजनं दद्यात्तेन स्वर्गे महीयते ॥ देवा ब्राह्मणरूपेण चरन्ति पृथिवीमिमाम् ॥ ३२ ॥ तस्मात्संप्राप्तमतिथिं प्रयत्नेन तु पूजयेत् ॥ अतिथिं पूजयेद्योवै दशगोदंफलं लभेत॥ ३३॥ पादशौचं ततो दत्त्वा प्रातायातिथये गृहे ॥ गोदानफलमाप्नोति दत्त्वा चैव तथासनम् ॥३४॥ प्रतिश्रयप्रदानेन नाकपृष्ठे महीयते ॥ तालवृन्तानिलं कृत्वा तथा प्राताय मानवः ॥३६॥ गोदानफलमाप्नोति वायुलोकं स गच्छति ॥ तालव्यजनहस्तस्तु कृत्वा तदभिचारणम्॥३६॥ अतिथिर्भोजने प्राप्ते गोदानफलमाप्नुयात् ॥ शीताहतातिथिं प्राप्य काष्ठान्नप्रज्वालयेन्नरः ॥ ३७ ॥ प्रतापनेयमहान्भाग दर्शधेनुफलं लभेत ॥ ३९ ॥ ग्निदीप्तिमाप्नोति प्रकाशंच परं तथा ॥ ३८ ॥ तृष्णार्तायोदकं दत्त्वा पाने गोदानमाप्नुयात् ॥ श्रान्तसंवाहनं कृत्वा धेनुदानफलं लभेत ॥ ३९ ॥ रोगिणः परिचर्यां च कृत्वा दशगुणं लभेत ॥ पादाभ्यंगं नरः कृत्वा प्रातायातिथये गृहे ॥४०॥ गोदानफलमाप्नोति नागलोकं च गच्छति॥ प्रतिश्रयं तथा दीनं दत्त्वा चातिथये नरः॥४१॥ धेनुदानफलं प्राप्य सूर्यलोके महीयते ॥ चक्षुर्मांश्च प्रकाशंश्च विशेषैश्च जायते ॥४२॥ शयनीयप्रदानेन वस्तुदानफलं लभेत ॥ दन्तकाष्ठप्रदानेन सौभाग्यं महदाप्नुयात्॥४३॥शौचोदकप्रदानेन गोदानफलमाप्नोति ॥ मृत्प्रदानेन धर्मज्ञ विरोघो नाभिजाय यते॥४४॥दत्त्वावलेपनं मालां परां लक्ष्मीमुपासते ॥ तथौषधिप्रदानेन विरोगस्त्वभिजायते ॥ ४५ ॥ स्नानाभ्यङ्गप्रदानेन रूपवानभिजायते ॥ तथा स्नानीयदानेन गन्धर्वैः सह मोदते ॥ ४६ ॥ स्नानौदकप्रदानेन वारुणं लोकमाप्नुयात् ॥ उपानहः प्रदानेन विमानमघिरोहति ॥ ४७ ॥ तथा छत्रप्रदानेन गाणपत्यमवाप्नुयात् ॥ वस्त्रप्रदानाद्भवति रूपवान्शुभगास्तथा ॥ ४८ ॥ अश्वमेधमवाप्नोति तथा भूमिप्रदो नरः ॥ यानदः स्वर्गमाप्नोति पौण्डरीकपंदं तथा ॥४९॥ वारिधानींस्तथा दत्त्वा पूर्णाः शीतेन वारिणा ॥ सर्वां सभक्षाः प्राप्नोति गोलोके मानुषोत्तम ॥ ५० ॥ अत्र पेर्वारुकंयुक्तैः शर्कराघृतसंयुतैः ॥ सक्तुभिलवणोपेतैर्वृतैर्हितसंयुतैः ॥ ५१॥ तर्पयित्वातिथिं सम्यग्वारिधान्यैश्च गोरसैः ॥ गोलोकं चिरमाप्नोति नात्र कार्या विचारणा ॥ ५२ ॥ वृत्तिमाप्नोति च तथा पुत्रपौत्राभिजायते ॥ किमिच्छकेन संयोज्य चाक्षयंफलं लभेत ॥ ५३ ॥ तांबूलस्य
द्वि० खं० अ० ९२
वि० ध० ॥२४३॥
प्रदानेन गन्धर्वैः सह मोदते ॥ गतिमासावृतं कृत्वा स्वर्गलोके महीयते ॥ ५४ ॥ इतिहासमनाश्राव्य गोदानफलमाप्नुयात् ॥ गोप्रदानेन वित्तेन तोषयित्वा तथातिथिम् ॥ ५५ ॥ महत्फलमवाप्नोति गन्धर्वैः सह मोदते ॥ अनुब्रज्यातिथिं राम गोदानफलमाप्नुयात् ॥ ५६ ॥ तस्मात्सर्वप्रय- त्नेन पूजयेदतिथिं सदा ॥ राजन्यो विप्रदेवत्या नार्यश्च पतिदेवताः ॥ गृहस्थोऽथितिदेवत्यस्तस्मातं पूजयेत्सदा ॥५७॥ सततमिह नरो यः पूजनं चातिथीनां तृणजलमृदुवाक्यैः सारशक्त्या विदध्यात् ॥ सुरसदसि स पूज्यो देवतानां तथा स्याद्भवति च नरलोके जायमानः समृद्धः ॥ ॥ ५८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करवाक्ये वैश्वदेवकथनन्नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥ छ ॥ पुष्कर उवाच ॥ चन्द्रस्य यदि वा भानोर्गस्मिंरहनि भार्गव ॥ ग्रहणं तु भवेत्तन्न पूर्वं भोजनक्रिया ॥ १ ॥ नाचेत्समर्हे तस्मिंस्तैर्वास्त्वसुपा- गते ॥ यावत्स्यादुदयं तस्य नाश्नीयात्तावदेव तु ॥२॥ गोब्राह्मणक्षोपरागे न चाश्नीयात्तथान्ततः ॥ न राज्ञो विप्लवेऽनीत्यासुराणां चापिपूर्व तथा ॥ ॥ ३ ॥ न हुत्वा न च दत्त्वा च नाशोचे न च गर्हितम् ॥ नापथ्यं न च बालानां तथा भागैव पश्यताम् ॥ ४ ॥ प्रार्थितं बालकानां च दा- तव्यं स्यात्प्रयत्नतः ॥ बालानां प्रार्थितं दत्त्वा नाकलोके महीयते ॥ ५ ॥ बालका लालनीयाश्च धर्मकामैः सदा नरैः ॥ तेषां भोज्यप्रदानेन गोदानफलमाप्नुयात् ॥ ६ ॥ तेषां क्रीडनकं दत्त्वा मोदते नन्दने चिरम् ॥ आह्नादं यान्ति सततं अस्मिन्सङ्घश्च तैर्बालकाः ॥ ७ ॥ सौभाग्यं मह- दाप्नोति यत्रयत्राभिजायते ॥ तस्मात्सर्वप्रयत्नेन बालानग्रे तु भोजयेत् ॥८॥ अभुञ्जत्सु बालेषु न चाश्नीयात्कथञ्चन ॥ यो न दद्यान्न चाश्नी- यात्कदाचिदपि तन्मयम् ॥ ९ ॥ य एको मिष्टमश्नाति न ततोऽन्योऽस्ति पातकी ॥ नैकवासास्त्वथाश्नीयाद्भिन्नेभाण्डे न मानवः ॥ १० ॥ भि- न्नासनोपविष्टश्च शयनीयगतस्तथा ॥ अनार्द्रपाणिपादान्तस्तथा चैवार्द्रमस्तकः ॥ ११ ॥ नोत्सङ्गे भक्षयेद्द्रव्यान्न पाणौ लवणं तथा ॥ सकृ- द्दानं पृथक्पानं मांसेन पयसा निशि ॥ १२ ॥ दन्तच्छेदमनुष्णं च सतक्तु सुवर्जयेत् ॥ दधि रात्रौ न चाश्नीयाज्जलमञ्जलिना पिवेतू ॥ ॥ १३ ॥ सर्वं तैलसमृद्धं च नाद्यादस्तमिते रवौ ॥ वर्जनीया दिवा धानाः कोविदारः सदैव तु ॥ १४ ॥ दिवा धानाः सर्वं हन्ति रात्रौ च दधि सक्तुषु ॥ अलक्ष्मीः कोविदारेषु नित्यमेव कृतालया ॥ १५ ॥ निःशेषकृत्तथा राम न स्यादन्यत्र मक्षिकात् ॥ क्षीरस्य राम सक्तूनां पथ्यसस्यो- दकस्य च ॥ १६ ॥ शेषं तु कार्यमन्यत्र न तु निःशेषकृद्भवेत् ॥ क्षुधाय दद्यान्नोच्छिष्टं नोच्छिष्टश्च घृतं स्पृशेत् ॥ १७ ॥ मूर्धानं न स्पृशेद्धाम् न स्पृशेच्च हुताशनम् ॥ नाङ्कुत्त्वा च कर्तव्या सुमनास्तन्मनास्तथा ॥ १८ ॥ भुञ्जीत प्रयतो भूत्वा दिशश्चानवलोकयन् ॥ वामहस्तेन पानीयं
॥२४३॥
पीतोच्छिष्टं तथैव च ॥ १९ ॥ न पिबेन्न तथाश्नीयात्कृत्वा पर्युत्सितकं नरः ॥ पादप्रसारणं कृत्वा न च वेष्टितमस्तकः ॥ २० ॥ आचम्य तु ततः कार्यं दन्तकाष्ठस्य भक्षणम् ॥ भूयोऽप्याचम्य कर्तव्यं ततस्ताम्बूलधारणम् ॥२१॥ श्रवणं चेतिहासस्य ततः कुर्यात्समाहितः ॥ शास्त्रावेक्षा च कर्तव्या ततः सम्यग्भृगूत्तम ॥ २२ ॥ शास्त्रान्ववेक्षणं कृत्वा कृत्वा चक्रमणं ततः ॥ उपास्य पश्चिमां सन्ध्यां तिष्ठेत्प्रयतमानसः ॥ २३ ॥ पूर्वां सन्ध्यां जपेत्तिष्ठेदुपविष्टश्च पश्चिमाम् ॥ अर्कस्योदयनात्तावद्यावत्स्याद्भास्करदर्शनम् ॥ २४ ॥ पूर्वा सन्ध्यां जपेत्स्नातः पश्चिमां सति भास्क- रे ॥ उपविष्टो जपेत्तावद्यावत्तारकदर्शनम् ॥ २५ ॥ सम्पूजनं देववरस्य कृत्वा ततश्च कुर्यात्खलु वैश्वदेवम् ॥ भुक्त्वा ततोऽन्नं लघु यच्च हृद्यं ततः स्वपेद्दर्शितवंशशुक्ल्यम् ॥ २६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने भोजनविधिविधानं त्रिनवतितमोऽध्यायः ॥९३॥ पुष्कर उवाच ॥ आग्न्यालये श्मशाने वानेकवृक्षे चतुष्पथे ॥ महादेवगृहे वापि मातृवेश्मनि वा स्वपेत् ॥ १ ॥ न यक्षनागायतनै स्कन्दस्यायतने तथा ॥ कूलच्छायासु च तथा शर्करालोष्टपांसुषु ॥ २॥ प्रस्वपेच्च तथा दर्भे विना दीक्षां व्रतं न च ॥ धान्यगोदेवविप्राणां गुरूणां च तथोपरि ॥ ३ ॥ न चापि मित्रविषये नाशुचौ नाशुचिस्तथा ॥ नार्द्रपादश्च नग्नश्च नोत्तरापरमस्तकः ॥४॥ नाकाशे सर्वतः शून्ये न च चैत्यद्रुमे तथा ॥ न गच्छेदूर्विणीं नारीं न गच्छेत्सितमूर्धजाम् ॥५॥ रजस्वलां रोगवतीं नायोनों न बुभुक्षितः ॥ नाऽभ्यक्तो न तथाम्यक्तां न च पर्वणि भार्गव ॥ शुक्रमो- क्षमथाकाशे तिर्यग्योनौ च वर्जयेत् ॥६॥ एवं सदा यः कुरुते नृवीर सम्यग्यथोक्तं सुमनास्तरस्वी ॥ तस्याशु पापं विलयं प्रयाति श्रियं च मुख्यां लभते सुखं च ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने आचारकथनानन्नाम चतुर्नवतितमोऽध्यायः ॥९४॥ पुष्कर उवाच ॥ वैवाहिकेऽग्नौ कुर्वीत कर्म स्मातं सदा गृही ॥ दायकालहते वापि पितृमरणकालिके ॥ १ ॥ मातुर्वा शृण्वथ श्रौतं वैतानिका- ग्निषु ॥ २ ॥ देवतानां पितॄणां च ऋषीणां च तथा नरः ॥ २ ॥ ऋणवाञ्जायते यस्मात्तन्मोक्षे प्रयतेत्सदा ॥ देवानामनृणो जन्तुर्यज्ञैर्भवति मानद ॥ ३ ॥ स्वल्पवित्तश्च पूजाभिरुपवासैर्व्रतैस्तथा ॥ श्राद्धेन पूजया चैव पितॄणामनृणो भवेत् ॥ ४ ॥ ऋषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा ॥ हुतं चैवाहुतं चैव निर्वप्यं प्रहुतं तथा ॥ ५ ॥ प्राशितं च महाभाग पञ्चयज्ञान्न हापयेत् ॥ हुतमग्नौ विजानीयादहुतं बलिकर्म यत् ॥६ ॥ पिण्डनिर्वपणं राम निर्वप्यं परिकीर्तितम् ॥ प्रहुतं च यथायक्षं पितृयज्ञं तथैव च ॥ ७ ॥ प्राशनं च तथा प्रोक्तं यद्भुक्तं तदनन्तरम् ॥ पञ्चयज्ञान्सदा कुर्याद् गृही पापापनुत्तये ॥ ८ ॥ देवयज्ञं भूतयज्ञं पितृयज्ञं तथैव च ॥ मानुष्यमृषियज्ञं च कुर्यान्नित्यमतन्द्रितः ॥ ९ ॥
वि० ध० ॥२४४॥ द्वि० खं० अ० १६ ॥२४४॥
देवयज्ञं हुतं विद्याद्भूतयज्ञं बलिक्रिया ॥ पितृयज्ञं तथा पिण्डेन्ब्रह्मयज्ञं च भार्गव ॥ १० ॥ स्वाध्यायसेवा विज्ञेया तथै- वातिथिपूजनम् ॥ मनुष्ययज्ञो विज्ञेयः पञ्चयज्ञांस्त हापयेत् ॥ ११ ॥ विष्णुं यजेत्तथा देवं हविर्यज्ञैश्च सत्तभिः ॥ अग्न्याधानं महाभाग तथैवाग्निहोत्रक्रिया ॥ १२ ॥ दर्शं च पौर्णमासं च चातुर्मास्यं तथैव च ॥ द्विराग्रहायणेष्टिश्च पाके च यवचान्ययोः ॥ १३॥ विरूढा पशुबन्धश्च तथा सौत्रामणिद्विजः ॥ सप्तभिः सोमसंस्थाभिर्यजेद्देवं सनातनम् ॥ १४ ॥ अग्निष्टोमं महाभाग चात्यग्निष्टोममेव च ॥ उक्थं च पावनीं चैव प्रतिरात्रं तथैव च ॥ १५ ॥ वाजपेयञ्च धर्मज्ञ आतोर्यामं तथैव च ॥ अन्यैश्च विविधैर्यज्ञैः पौण्डरीकादिभिस्तथा ॥ १६ ॥ गोसवेनाश्वमेधेन राजसूयेन वा पुनः ॥ तथा पुरुषमेधेन सर्वमेधेन भार्गव ॥ १७ ॥ अन्यैश्च विविधैर्यज्ञैर्नामकल्पितैस्तथा ॥ यजनं देवदेवस्य वासुदेवस्य कारयेत् ॥ १८ ॥ यज्ञो विष्णुर्महातेजा यजमानः स एव हि ॥ त एव यज्ञपात्राणि यज्ञद्रव्याणि यानि च ॥ १९ ॥ तं यजेत्सततं राम सर्वदेवमयं हरिम् ॥ सत्येन चै वर्जयेच्च प्रत्यहं मुनिपुङ्गव ॥ २० ॥ पशुप्रत्ययनं कुर्यान्नात्मोप्तिकमेव च ॥ ईष्टे वैषा नरो कुर्यात्तथा स्वल्पधनो नरः ॥ २१ ॥ अत्यल्पत्वे धने सोमं पिवेद्द्रार्गवसत्तम ॥ आयुः प्रजन्यशो मेधां धनमन्नमृणं तथा ॥ २२ ॥ हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ॥ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यततये ॥ २३ ॥ अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ प्राजापत्यमदत्त्वा च अग्न्याधेयस्य दक्षिणा ॥ २४ ॥ अनाहिताग्निर्भवति ब्राह्मणो विमवेसति॥ सर्वदेवमयो विष्णुःप्रत्यहं तस्य पूजनम् ॥ २५ ॥ प्रतिमायामपि तथा कर्तव्यं भृगुसत्तम ॥ विष्णुमर्वाभि जानन्ति सर्वयज्ञेषु वै द्विजाः ॥ २६ ॥ पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम्॥ तत्तद्वनिकायेषु तथैव स्वयमेव वा ॥ २७ ॥ पूजा कार्या वह्निविद्वौ श्रद्धया भृगुनन्दन ॥ न तत्फलदं दक्षिणेयैर्यजेतेह कदाचन ॥ २८ ॥ विष्णुं र्द्वनिकायत्थं यथाश्रद्धमीरितम् ॥ तपसा पूजयेन्नित्यं तस्मादल्पधनो नरः ॥ २९ ॥ संपूज्य देवं परमान्नगन्धैर्धूपैः सुगन्धैश्च फलैश्च मुख्यैः ॥ तस्मादवाप्नोति स सर्वयज्ञांस्तस्मात्प्रपूज्यः सततं महात्मा ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने गृहस्थधर्म वर्णननाम पञ्चनवत्तितमोऽध्यायः ॥ ९५ ॥ राम उवाच ॥ कर्माणि श्रोतुमिच्छामि काम्यानि गृहिणामहम् ॥ तवतः समस्तधर्मज्ञ यादृगाण नृणांत्मन ॥ १ ॥ पुष्कर उवाच ॥ कृतोपवासो याग्यज्ञं सोपवासस्य भार्गव ॥ पुरोधाः शपनं कुर्यात्कृत्तिकासु यथाविधि ॥२॥ अकालमूलैः फलै श्चेन्मयैरथ काञ्चनैः ॥ उज्ज्वलैर्लक्षणैः पूर्णस्तथा तीथर्योदकैः शुभैः ॥ ३ ॥ अभिमन्त्र्याशिरोध्पाणां न्यग्रोधाश्वथयोरपि ॥ पत्रपूर्णस्तथा
युक्तिस्तिलैः कृष्णैर्द्विजोत्तम ॥ ४ ॥ वह्निं कुमारं शशिनं खड्गं वरुणमेव च ॥ पूजयेत्कृत्तिकाश्चैव गन्धमाल्यान्नसम्पदा ॥ ५ ॥ पीतरक्तैस्तथा वर्णैघृतदीप्तैस्तथैव च ॥ दशा गव्येन लाजामिरिमन्थेन चाप्यथ ॥ ६ ॥ कुसम्भैरोहिणीकामिश्च अपूपैश्च पृथग्विधैः ॥ देवतानां यथोक्तानां प्रियङ्गु जुहुयात्ततः ॥ ७ ॥ चन्दनश्च मयुराणां लोमानि मनुजोत्तम ॥ अग्रिमन्व्यगृहाद्धूमं कृत्वा रुक्माङ्गदं मणिम् ॥ ८ ॥ धारये दक्षिणां दद्याच्छक्त्या कनकमेव च ॥ श्वेतवासास्ततः पश्चात्पूजयेन्मधुसूदनम् ॥ ९ ॥ कर्मैतत्सततं कृत्वा वह्नायधानमथाप्नुयात् ॥ कर्मतद्वक्तुं रिपुनाशकारि सर्वाङ्गिकर्मप्रसमृद्धिदं च ॥ धन्यं यशस्यं च तथैव काम्यं नित्यं कृतं धर्मविदां वरिष्ठ ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयकाण्डे मा० सं० रामं प्रति पुष्करोपाख्याने कृत्तिकास्नानवर्णनन्नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥ राम उवाच ॥ अग्न्य्याधानमथाप्नोति शत्रुनाशमथापि वा ॥ स्वेच्छया कर्मणा केन सदा याद्योग्यताम्परम् ॥ १ ॥ शत्रुनाशकरं कर्म कथयस्व.ततः परम् ॥ तदहं श्रोतुमिच्छामि तत्र श्रद्धा सदा मम ॥ २ ॥ पुष्कर उवाच ॥ कृत्तोपवासो याम्यर्क्षे कृत्तिकासु सदैव तु ॥ पूजयेद्वासुदेवं तु कुङ्कुमेन सुग न्धिना ॥३॥ रक्तैश्च कुसुमैर्हृद्यैर्धूपं दद्याच्च गुग्गुलम् ॥ घृतेन दीपं दद्याच्च रक्तवर्णं तथैव च ॥४॥ निवेद्नीयं देवाय तथा सर्वं निवेदयेत् ॥ हुतव्यं सुसमिद्धेऽग्नौ तथैवान्नं शुभं हविः ॥ आयुधानि च देयानि ब्राह्मणेभ्यश्च दक्षिणा ॥५ ॥ कर्मैतद्युक्तं रिपुनाशकारि धार्यं सदा शत्रुगणप्रमाथि ॥ कृत्वैतदभ्यं रिपुनाशमाशु प्राप्नोति मर्त्यो न हि संशयोऽत्र ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने शत्रुनाशकर्मवर्णनन्नाम सप्तनवतितमोऽध्यायः ॥ ९७ ॥ राम उवाच ॥ कर्माणि त्वं समाचक्ष्व स्नानान्यन्यानि देवज ॥ केन स्नानेन धर्मज्ञ कं कं काममवाप्नुयात् ॥ १॥ पुष्कर उवाच ॥ पुरोधाः सोपवासस्तु सर्वस्नानानि कारयेत् ॥ सोपवासस्य धर्मज्ञ तथा सर्वत्र मानवः ॥ २ ॥ अका मबुलाः कलशाः कार्याः सर्वेषु भार्गव ॥ पूजा चन्द्रमसः कार्या वरुणस्य तथैव च ॥ ३ ॥ नक्षत्रदेवतानां च नक्षत्रस्य तथैव च ॥ सर्वगन्ध्याप्रमेयस्य वासुदेवस्य चाप्यथा ॥४॥येषां च पूजा कर्तव्या तेषां च जुहुयाद्धविः ॥ कार्यं स्नानं सदा कुर्यान्नक्षत्रं तु न लंघयेत् ॥ मन्त्र चेत्स्नानकलशं मन्त्रेणानेन भार्गव ॥५ ॥ मन्त्रः-“आपः सोमाद्याः संबभूवुः पवित्राभिः पावनः सोमसूर्यस्थिता वायुना नष्टदोषाश्च यौ नित्य मच्छेद्यस्ते सत्कृत्याप्सु स्युः स्वाहा शान्तिः श्रीर्निवृष्टिर्मह्यं भूयासं सर्वशिरः ॥ साऽश्रुस्वाहेति सूर्यः संस्थित।वायुनामाष्टदोषा ॥” कर्मतदुक्तं रिपु नाशकारि साधारणं स्नानमिदं पवित्रम् ॥ अतः परं ते कथयामि राम स्नानानि कार्यानि सुखप्रदानि ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे
वि० ध०
॥२४५॥
द्वि० खं०
अ० ९९
॥२४५॥
द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने साधारणस्नानवर्णनन्नामाष्टनवतिमितोऽध्यायः ॥ ९८ ॥ पुष्कर उवाच ॥ कृत्तिकास्नानमुक्तं ते वह्निकर्मप्रसाधनम् ॥ तथाग्निनाशनं मुख्यं वह्नुचाद्येयप्रदं तथा ॥ १॥ रोहिणीषु तथा स्नानं प्रोक्तं पुत्रप्रदं तव ॥ ब्रह्मवर्चसकामस्य स्नानं सौम्यमिदं शृणु ॥ २ ॥ पूर्णमोद्भवैः पत्रैः कृत्वा राम घटत्रयम् ॥ पूर्णचन्द्राङ्कितैः शुक्तैः सूत्रमाल्यैरलङ्कृतम् ॥ ३ ॥ तेन संस्नापितः पश्चात्क्षौमवासा यथाविधि ॥ देवतापूजनं कृत्वा घृतं हुत्वा हुताशने ॥ ४ ॥ ओङ्कारपूतं सोमाय क्षीरं हुत्वा तथा जले ॥ निवेदनीयं सोमाय तथा पितृभ्यस्त्रयम् ॥ ५ ॥ मृगशृङ्गेण धूपं च तथा दद्यादनन्तरम् ॥ सोमेन च मणिर्धार्यो जातरूपपरिष्कृतः ॥ ६ ॥ दक्षिणा चात्र दातव्या शुभ्रधेनुः पयस्विनी ॥ कृत्वा तृप्तित्वमाप्नोति ब्रह्मवर्चससुत्तमम् ॥ ७ ॥ घृताश्रमम्बुपूर्णेन स्नातः कुम्बेन मानवः ॥ पट्टिशांलङ्कृतेनाथ रक्तचन्दनवारिणा ॥ ८ ॥ रुद्राय मांसं रुचिरं तथा च मधु पायसम् ॥ कृष्णानि वासांसि तथा धूपं गुग्गुलम्वेव च ॥ ९॥ दूत्यादृष्टेन च तथा होमो मन्त्रैर्विधीयते ॥ कृष्णानि वासांसि तथा दातव्या दक्षिणा भवेत् ॥ १० ॥ मेषाश्वनखलोमानि गर्दभस्य विशेषतः ॥ आयसी तु मणौ कृत्वा द्वारि शस्त्रांनिधापयेत् ॥ ११ ॥ आद्रास्नानमिदं राम सर्वशत्रुविनाशनम् ॥ सर्वगन्धैः फलैर्बीजैः पूर्णं कृत्वा घटत्रयम् ॥ १२ ॥ स्नापनेन तैनं कर्तव्यमादित्यैस्तदनन्तरम् ॥ नवनीतं च कुल्माषं मत्स्यांश्चैव स्वरांस्तथा ॥ १३ ॥ निवेदयेच्चैव तथा मत्स्यानि सुरभीणि च ॥ घृताक्षताभ्यां धूपेन होमश्चैव विधीयते ॥ १४ ॥ तद्दिने तु नदीं यत्र योगे गच्छतु तां मृदा ॥ सुवर्णरूप्यपञ्चञ्च धारणीयास्तथा मणिः ॥ १५ ॥ दक्षिणा चात्र दातव्या राम धेनुः पयस्विनी ॥ स्नातः पुनर्बसावेव ज्ञातिश्रैष्ठ्यमवाप्नुयात् ॥ १६ ॥ पुन्नाम्ना सुमहाभाग यदीच्छेति तदाप्नुयात् ॥ गौरसर्षपकल्केन रामोत्सादितविग्रहः ॥१७॥ गव्याज्यपूर्णकुम्बेन स्नातः स्नास्तत्तथौषधैः ॥ अह्नात्सम्बरसंवीतः पायसं विनिवेदयेत् ॥ १८ ॥ शुक्लानि चैव माल्यानि वासांस्युपहतानि च ॥ होमश्च पायसेनात्र धूपं गन्धैश्च दापयेत् ॥ १९ ॥ मणिः शिरसि धार्यश्च दण्डेाथ ब्रह्मचारिणः ॥ सुवर्णगर्भे पुष्पेण स्नानं पुष्टिकरे भवेत् ॥२०॥ दक्षिणा चात्र दातव्या घृतं कनकसंयुतम् ॥ षड्ध्वजां नीलसूत्रेण नीलपुष्पैश्च वेष्टिताम् ॥ २१ ॥ सर्पपान्वेष्वेष्टयाम नागपुष्पेण शूरिणा ॥ वल्मीकानां सहस्तस्य तथैवाग्रमृदा द्विजः ॥२२॥तैः स्नातः सर्वनागेभ्यो मधुलाजां निवेदयेत्॥गन्धोदकं तथा धानाः षट्कृत्वाथ पुनःपुनः॥२३॥ क्षीरेण होमः कर्त्तव्यो धूपः सर्वत्वचा तथा ॥ सर्पत्वङ् नागपुष्पं च सुवर्णं च मणिर्भवेत् ॥ २४ ॥ दक्षिणा चात्र दातव्या शयनीयं मनोहरम् ॥ स्नानं सार्पेण ते प्रोक्तं भोग्यं सिद्धिकरं भवेत् ॥२५॥ श्रीमद् वा महाभाग कथितं कामतस्तव ॥ पुष्यवैरितिलैः कृष्णैर्घटषट्कं तु पूरयेत् ॥२६॥
वेष्टयेत्कृष्णमाल्यैश्च तेन स्नातोऽहताम्बरः ॥ दक्षिणाग्रेषु दर्भेषु सप्तपिण्डानुपाहरेत् ॥ २७ ॥ सुभास्वरो बर्हिषदो ह्यग्निष्वात्तांस्तथैव च ॥ क्रव्याद् औपहूताश्च आज्यपाश्च सुकालिनः ॥ २८ ॥ पितरः कथितास्तेषां पिण्डं दद्यात्क्रमेण च ॥ धूपं ब्रीहिर्यवैर्द्यात्तिलैर्होमं तु कारयेत् ॥ २९ ॥ दातव्या दक्षिणा चात्र तिलानांरजतमेव च ॥ वचा च कोरकं चैव त्रिवृतं धारयेन्मणिम् ॥ ३० ॥ पितृप्रसादं प्राप्नोति कर्मसिद्धिंमथापि च ॥ मघास्नानमिदं कृत्वा नित्यमेव समाहितः ॥ ३१ ॥ माक्षिकं च मधूकं च तथैव मधुयष्टिकाम् ॥ कृत्वा कुम्भद्वयं पूर्णं मघासु स्नापयेन्न- रम् ॥ ३२ ॥ शालिपिष्टं ततः स्नातो घृतेन मधुना युतम् ॥ गन्धमाल्यं बहुविधं बहुकृत्वा भगाय तु ॥ ३३ ॥ निवेद्यित्वा देयानि चित्रां- सानि चाप्यथ ॥ घृतेन धूपो दातव्यो होमः कार्यः प्रियङ्गुना ॥ ३४ ॥ दक्षिणा चात्र दातव्या चित्रवस्त्रांसि चाप्यथ ॥ पारावतस्य पक्षाणि चक्र- वाकस्य मानद ॥ ३५ ॥ त्रिवृतानि तथा कृत्वा मणिं शिरसि धारयेत् ॥ सौभाग्यं महदाप्नोति स्वालैव भगदैवते ॥ ३६ ॥ तिलमाक्षिकरुपेण स्नातः कुम्भद्वयेन तु ॥ अर्यम्णे पायसं दद्यात्पितरस्ते च वाससी ॥ ३७ ॥ धूपे शतावरी देया होमः कार्यस्तथाक्षतैः ॥ तेजोवन्ती प्रियङ्गुश्च त्रिवृतं धारयेन्मणिम् ॥ ३८ ॥ दक्षिणा चात्र दातव्या तथा रक्ते च वाससी ॥ उत्तराफल्गुनीस्नानं सर्वार्थप्रसिद्धिदम् ॥ ३९ ॥ वीर्यस्य वर्धनं चापि कर्तव्यमनुसुव्रता ॥ गजकामस्य ते स्नानं हस्ते पूर्व मयोदितम् ॥ ४० ॥ परसैन्यजयार्थाय स्नानं तदपि शस्यते ॥ मञ्जिष्ठां च समङ्गां च मिसिकान्तां च भार्गव ॥ ४१ ॥ कनकं रजतं चैव पूर्णकुम्भे विनिक्षिपेत् ॥ तेनाभिषिक्तश्चित्राणि माल्यवासांस्यनन्तरम् ॥ ४२ ॥ त्वाष्ट्रे निवे- द्येद्वक्तव्या होमं क्षीरेण कारयेत् ॥ दक्षिणा चात्र दातव्या चित्रवस्त्राणि मानद ॥ ४३ ॥ सर्वगन्धैस्तथा धूपं बलिं चित्रं तथैव च ॥ पृथक्प्रतिप्रसूतानां पुष्पाणां कनकैरवृतम् ॥ ४४ ॥ अष्ट्यादशनां च तथा मणि शिरसि धारयेत् ॥ एवं स्नातस्तु चित्रासु सौभाग्यं महदश्नुते ॥ ४५ ॥ सर्वभूतैषु चाधिवयं यदिच्छेति तदाप्नुयात ॥ रुक्ममश्वत्थपत्रं च खड्गशृङ्गं तथैव च ॥ ४६ ॥ पूर्णकुम्भे विनिक्षिप्य स्नातः शीधुसुरासवम् ॥ वायव्ये प्रयतो दद्यात्क्षीरं सपिलं दधि ॥ ४७ ॥ गन्धं धूपं तथा दद्याद्धोमं कार्य तथा घृतम् ॥ दक्षिणा चात्र दातव्या वासांसि विविधानि च ॥ ४८ ॥ द्वयश्वश्यामहरितहंसपक्षैः पयोऽन्वितम् ॥ धारयेच्च मणिं विद्वान्स्वातावेवं समाचरेत् ॥ ॥ ४९ ॥ वाणिज्ये सम्यगाप्नोति सिद्धिं च महतीं नरः ॥ विशाखासु तथा स्नानं कार्यं कुम्भद्वयेन तु ॥ ५० ॥ कृत्तिकासु महाभाग ततः शाकं
१ व्यञ्जनमिति पाठान्तरम् ।
निवेदयेत् ॥ इन्द्राग्निभ्यां च वासांसि पीतरक्तानि चाप्यथ ॥ ५१ ॥ माल्यानि च महाभाग धूपं च घृतगुग्गुलम् ॥ होमार्थं च घृतं कुर्याद्दक्षिणा कनकं तथा ॥ ५२ ॥ गणाधिपत्यमाप्नोति कृत्वैवं नात्र संशयः ॥ सहस्रवीर्यं चानन्तां मधूकं च तथा मिशिम् ॥ ५३ ॥ पूर्णकुम्भत्रये कृत्वा कृतस्वस्तिकक्षणे ॥ अहताम्बरसंवीतः सर्वगन्धफलाक्षतैः ॥ ५४ ॥ मधुना च बलिं दद्यान्मन्त्राय च महात्मने ॥ वृश्चिकेन तथा धूपं गृहेहोमं च मानद ॥ ५५ ॥ पुरद्वारं कटाहाश्वं चूडाकाष्ठं सकाञ्चनम् ॥ धारयेद्दक्षिणं दद्यात्तया च कनकं द्विज ॥ ५६ ॥ एवं मैत्रे सदा स्नातः सर्वभूतैः समाप्ययात् ॥ मंत्रों मनुजशार्दूल पुरं वा कुरुते वशे ॥ ५७ ॥ तडगगणितीकूलनदीनदसमुद्भवैः ॥ तोयैः पूर्णं घटान्कृत्वा सर्वबीजसमन्वितान् ॥ ५८ ॥ सर्वरत्नोदधौपूर्णान्क्षीक्षारं तैः समाचरेत् ॥ क्षोमवासास्तु रत्नानि माल्यानि च फलानि च ॥ ५९ ॥ रत्नानि दद्याच्छक्राय प्राङ्मुखः सुसमाहितः ॥ धूपं दद्याच्च शीर्षेण विशाखानभिमन्त्रयेत् ॥ ६० ॥ छत्रं च दक्षिणा देया ज्येष्ठार्यां भृशुनन्दन ॥ स्नानमेव सदा कृत्वा राज्यमाप्नोत्यकण्टकम् ॥ ६१ ॥ कृषिकामस्य मूलेन स्नानमुक्तं मया पुरा ॥ तथा वाणिज्यकामस्य प्रागपाढासु भार्गव ॥ ६२ ॥ अथोत्तरासु पाढासु कुर्याद्दष्टचतुष्टयम् ॥ पुष्पबीजफलोपेतं तेन स्नातस्तु मानवः ॥ ६३ ॥ क्षौमवासाः सुरां चैव पायसं च निवेदयेत् ॥ शुद्धमित्रं च धर्मज्ञ माल्यावासांसि चेच्छया ॥ ६४ ॥ होमे च पायसं कुर्याद्रूपे गोऽभ्रुमेव च ॥ धान्यं पुष्पमथौबिल्वं मणिंधार्यः सकाञ्चनैः ॥ ६५ ॥ दक्षिणा चात्र दातव्या सुवर्णं रौप्यमेव च ॥ राजश्रेष्ठत्वमाप्नोति विवादेषु जयं तथा ॥ ६६ ॥ बिल्वं च तगरं चैव चन्दनं मधुपिष्टिकाम् ॥ त्रिपटुं च मधूकं च त्रिषु कुम्भेषु निक्षिपेत् ॥ ६७ ॥ संपादाद्दतं तोयं तन्मृदं च मृगत्तम ॥ तेन स्नातस्ततः स्नानं कुर्यात्सर्वोषधीद्विज ॥ ६८ ॥ कुल्त्थांश्र्वं मशाल्यन्नं मुख्यानि च फलानि च ॥ बलिं च विष्णवे दद्यान्सूर्यधूपं तथैव च ॥ ६९ ॥ राजच्छत्रस्य दण्डाग्रात्काष्ठं शक्रध्वजातथा ॥ सिंहद्रुममणिञ्चात्र शिरसि स्मृतः ॥ ७० ॥ दक्षिणा चात्र दातव्या धेनुः कांस्योपदोहिनी ॥ एवं तु श्रवणस्नायी राज्यमाप्नोत्यकण्टकम् ॥ ७१ ॥ अन्यद्देशाधिपत्यं वा राज्यमाप्नोति भार्गव ॥ अतिमुक्तकपत्राणि बिल्वस्य च तथा लिपेत् ॥ ७२ ॥ कुम्भेषु पञ्चसु ततः स्नानं तैस्तु समाचरेत् ॥ वास्तुभ्यस्तु बलिं दद्यात्सुवर्णं मारुतिके ततः ॥ ७३ ॥ धूपं वायसपक्षैस्तु होमः कार्यो घृतेन तु ॥ ब्रह्मचारिशिलोपाकपक्षं तथैव च ॥ ७४ ॥ काकमाचीं रुक्मयुतां मणिं शिरसि धारयेत् ॥ दक्षिणा चात्र दातव्या धेनु
१ आमिषम्' पाठान्तरम् ।
कांस्योपदोहिनी ॥ ७५ ॥ धनं प्राप्नोति सुमहद्दिवां वापि कन्यकाम् ॥ एवं स्नातो धनिष्ठासु नित्यमेव भृगूत्तम ॥ ७६ ॥ आरोग्यकारकं
स्नानं पूर्वमुक्तं तु वारुणम् ॥ रत्नोदकेन स्नातस्तु नरः कुम्भद्वयेन तु ॥ ७७ ॥ अजैकपादाय बलिं छागं दद्याच्च पायसम् ॥ शुक्लानि चैव
माल्यानि फलानि विविधानि च ॥ ७८ ॥ खड्गाङ्क्ष तथा धूपं होमं च पयसा तथा ॥ व्याघ्रदंष्ट्रा तथा लोमनखं कनकमेव च ॥ ७९ ॥ मणि
र्धार्यो भवेद्राम छागो देया च दक्षिणा ॥ अजैकपादे स्नातस्तु नित्यमेव समाहितः ॥ ८० ॥ उद्धरेत्तु निधिं राम शत्रून्वा विजयेद्ध्रुवम् ॥
आहिर्बुध्न्यं तथा स्नानं गोदुग्धं पुरा तव ॥ ८१॥ चन्दनं च हरिद्रा च दर्भमूलं तथैव च। कृत्वा कुम्भे नरः स्नायात्कृत्वा पिष्टेन कन्यकाम्॥
॥ ८२ ॥ स्नानालङ्कारवाक्षाल्यान्पुष्पे दद्याद्वलिं ततः ॥ मधुलजास्तथैवात्र धूपं दद्याद्घृतेन च ॥८३॥ होमं घृतेन कर्तव्यं दक्षिणा कनकं भवेत् ॥
ब्राह्मीं सुवर्चलां होमं होमगन्धों मणिर्भवेत् ॥ ८४ ॥ एवं पौष्णे सदा स्नातो यः सदा युज्यते नरः ॥ आश्विने सुप्रदं स्नानं पूर्वमुक्तं मया तव ॥
॥ ८५ ॥ वैजयन्तीं बलां चैव समङ्गां च भृगूत्तम ॥ इन्द्रहस्तां मधूकं च कुर्याद्राम घटत्रये ॥ ८६ ॥ तेन स्नातो
यमायाथ प्रपद्यात्तिलतण्डुलम् ॥ माल्यानि चैव चित्राणि पीतानि वसनानि च ॥ ८७ ॥ उभ्रशृङ्गं धूपार्थे होमार्थं च तथा तिलम् ॥
दक्षिणा चात्र दातव्या तिलं कनकमेव च ॥ ८८ ॥ दर्भमूलैर्मणिः कार्यः कनकेन च वेष्टितः ॥ एवं स्नातो नरो राम्यै दीर्घं जीवितमाप्नु
यात् ॥ ८९ ॥ स्नानानि मुख्यानि तवोदितानि कार्याणि पापप्रशमाय राम ॥ एतानि कार्याणि सदा द्विजेन्द्र धरणीतलेनाथ विचक्ष
णेन ॥ ९० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नक्षत्रस्नानकथनन्नाम नवनवतितमोऽध्यायः ॥ ९९ ॥ पुष्कर
उवाच ॥ उपोष्य चोत्तराषाढां ब्रह्मस्नानं विधीयते ॥ सूर्ये मध्यमपुत्राग्रे नरेन्द्रो ॥ सर्वबीजैस्तथा रत्नैः फलैः पुष्पैस्तथो
षधैः ॥ स्नातश्च सोदकैः कुर्यात्ततः पूजां स्वयम्भुवः ॥ २ ॥ धूपं च दद्याद्धर्मज्ञ कुशमूलैर्धृ...तैः ॥ होमं घृताक्तैः कुर्याद्यात्कनकमेव च ॥ ३ ॥
क्रियमाणे स्रुवे चूर्णं तथा चैव रणे द्विजः ॥ सोमं चूर्णं च त्रिवृतं मणिं शिरसि धारयेत् ॥ ४ ॥ स्नानं तु राज्यकामस्य
प्रोक्तमेतन्मया तव ॥ ब्रह्मवर्चसकामस्य स्वेच्छया च यथोदितम् ॥ ५ ॥ ग्राह्यं तव स्नानमिदं प्रदिष्टं सर्वाघविनाशाय शुगप्रथायन ॥
कार्यं सदा वा दिनमध्ययाते दिवाकरे कामकरं प्रशस्तम् ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने
अभिजित्स्नानवर्णनन्नाम शततमोऽध्यायः ॥ १०० ॥ राम उवाच ॥ स्नानमन्यत्समाचक्ष्व भगवन्पुष्टिकारणम् ॥ येन नित्यंकृतेनेह पुरुषः
४२
वि० ध० ॥२४७॥ दि० खं० अ० १०३
पृष्टिमाप्नुयात् ॥ १ ॥ पुष्कर उवाच ॥ श्रवणर्क्षममुप्राप्ते देवदेवं निशाकरे ॥ भक्त्या समाचरेत्स्नानं नदीदधिसमुद्रमे ॥२ ॥ निम्नगायां सरित्सि वा नदीसागरसङ्गमे ॥ स्नातः संपूजयेद्देवं विष्णुं माल्यानुलेपनैः ॥ ३ ॥ धूपदीपनमस्कारैस्तथा चैवान्नसम्यदा ॥ शाल्यन्नं दधिसंयुक्तं विष्णवे विनिवेदयेत् ॥ ४ ॥ पौरुषेण च सूक्तेन पायसं जुहुयात्ततः ॥ रजतं दक्षिणां दद्याद्ब्राह्मणाय भृगूत्तम ॥ उपवास विनाप्येतत्स्नानं पुष्टिप्रदं परम् ॥ ५ ॥ स्नातः समाप्नोति सदा मनुष्यः कामानभीष्टान्नृक्षणसंयोगे ॥ पापं समस्तं विजहाति राम धर्मं समाप्नोति यशश्च मुख्यम् ॥६॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुष्टिकारकश्रवणस्नानकथनन्नामैकोत्तरशततमोऽध्यायः ॥ १०१ ॥ पुष्कर उवाच ॥ जन्मनक्षत्रे सोमे सर्वौषधिसमन्विंतम् ॥ कुम्भं सुपूजितं कृत्वा स्नपनं तेन कारयेत् ॥ १ ॥ स्नातश्चैवं चेपयेद्देवं वासुदेवं जगत्पतिम् ॥ नक्षत्रदेवं चन्द्रं नक्षत्रं वारुणं तथा ॥२॥ वाचं चायुधपोतारं छत्रं संत्पूजयेत्तथा ॥ यथोक्तदेवतालीङ्गमंत्रैश्च जुहुयाद्घृतम् ॥ ३ ॥ शक्त्या च दक्षिणा देया ब्राह्मणेभ्यो भृगूत्तम ॥ ततोडुलितः सुरभिः स्रग्वी विविधभूषणः ॥ ४ ॥ तिष्ठन्मनुजशार्दूल हविष्याशी जितेन्द्रियः ॥ उपवासं विनाप्येतत्पावनं पापनाशनम् ॥ ५ ॥ मातृस्थानं तु जगतां जन्मतारा विधीयते ॥ चन्द्ररूपी च भगवान्पिता विष्णुः प्रकीर्तितः ॥ ६ ॥ तस्मात्सर्वप्रयत्नेन जन्मनक्षत्रसंस्थितम् ॥ भक्त्या तं पूजयेच्चन्द्रं जन्मक्षं च विशेषतः ॥७॥ पूजां सदा चन्द्रमस्तस्तु कृत्वा जन्मर्क्षसंस्थस्य भृगुप्र धान ॥ कामानवाप्नोति नरस्तु सर्वान्सुखी सदा स्याद्भुवि नष्टपापः ॥८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने जन्मर्क्षस्नानवर्णनन्नाम द्वयुत्तरशततमोऽध्यायः ॥ १०२ ॥ पुष्कर उवाच ॥ चन्द्रमण्डलवृद्धौ तु तथा चैवोत्तरायणे ॥ शुभे दिवसनक्षत्रे मुहूर्ते च तथा शुभे ॥ १ ॥ तिष्याश्विनगते चन्द्रे हस्तश्रवणगेऽपि च ॥ प्राचीं वायव्ययोर्दीचां निष्क्रम्य नगरान्बहिराम् ॥ २ ॥ वास्तु विद्याविर्निद्दिष्टे भूमिभागे मनोहरे ॥ अष्टहस्तं शुभं कुर्याच्चतुरस्रं च मण्डलम् ॥ ३ ॥ वल्यर्थमपरं कुर्याद्वहिरेवंविधमेव च ॥ गोमये नोपलिप्ते तु सुधलेखासमन्विते ॥ ४ ॥ ध्वजातपत्रचन्दनमाल्याददामकुशाक्षतैः ॥ लाजागन्धादिभिश्चैवमर्ध्यैरभ्यर्च्य सम्भवेत् ॥५॥ लाजालाजोप हारेणस्तथैव च विभूषयेत् ॥ ततः प्रक्षालयेच्चम्तु चतुरुश्चेतु घटान्नवान् ॥ ६ ॥ प्रत्येकं कल्पयेद्दिङ्कान्कल्पिते मण्डलोदये ॥ सूक्तिञ्चैव महाभाग बीजमात्रसमन्वितान् ॥ ७ ॥ ततस्तु कल्पयेत्कुम्भान्सप्त सुव्याहृतोर्जलैः ॥ सर्वोषधियुतः कार्यः कुम्भ एको द्विजन्मना ॥ ८ ॥ सर्वबीजयुतो धान्यरत्नोपेतस्तथा परः ॥ तथा चैवापरं युक्तं कार्यं वृक्षाम्रपल्लवैः ॥ ९ ॥ पुष्पैश्चैवापरं युक्तं फलैश्चैवापरं तथा ॥ सर्वगन्धयुतं
॥२४७॥
वि० ध० ॥ २४८ ॥
द्वि० खं० अ० १०४
विनायकग्रहात्तैस्तु मूढचित्तोपघातिभिः १ ॥ येषां न सिद्ध्यते विद्या सत्यं येषां न रोहति ॥ ३ ॥ सीदत्यस्य कुटुम्बं च पण्यं नायाति विक्र- यम् ॥ न लभेत जयं युद्धे बलवानपि यो नरः ॥ ४ ॥ युक्तान्यपि च कार्याणि विपद्यन्ते पुनःपुनः ॥ कलहश्च भवेत्तेषां सुहृत्स्वजनबान्धवैः ॥ ॥ ५ ॥ गर्भः प्रस्स्रवते यस्या जातो वापि विनश्यति ॥ पुष्पं यस्याः क्षयं याति न च किञ्चित्प्रजायते ॥ ६ ॥ गृह्णाति या न बीजं च जनयेद्वाप्य- मातृवान् ॥ नाप्नोति च पतिं कन्या तस्मात्स्नेहमथापि वा ॥ ७ ॥ सौभाग्यं च न चायाति सुहृत्स्वजनबन्धुषु ॥ एवमुक्तेषु चान्येषु त्वयुक्तेषु च भार्गव ॥ ८ ॥ प्रसमीक्ष्य विधानज्ञः स्नानमेतत्समाचरेत् ॥ स्नापयेत्सरित्तीरे ग्रहविधानविचक्षणः ॥ ९ ॥ राजयक्ष्मभिभूता ये विषम- ज्वरिताश्च ये ॥ तेषां देवालये स्नानं कुर्याद्वा सिद्धसेविते ॥ १० ॥ छायोन्मादोपहता ये ये चापस्मारशोषिणः ॥ तेषां मुनिगणावासे तीर्थे वा स्नानमिष्यते ॥ ११ ॥ विनायकग्रहार्त्ता ये ये च मूढा विचेतसः ॥ सज्जनाचरिते देशे तेषां स्नानं विधीयते ॥ १२ ॥ त्रैविद्या येन सिद्ध्यन्ति गुणा येषां प्रपूजिताः ॥ तेषां स्नानमिहेष्टं हि सिद्धदेवस्य मन्दिरे ॥ १३ ॥ येषां नास्ति जयो युद्धे येषां स्वजनसंक्षयः ॥ कान्तारे वा वने तीर्थे तेषां स्नानं प्रशस्यते ॥ १४ ॥ सततं कलहो येषां जायते च यतस्ततः ॥ त्रिपथे वा तडागे वा स्नानं तेषां प्रकल्पयेत् ॥ १५ ॥ पक्षिभ्यां स्तनपयश्चारु गर्भो यस्याः स्रवेत्तथा ॥ अशोकसन्निधौ स्नाप्या जातो यस्याः विनश्यति ॥ १६ ॥ न च गृह्णाति या शुक्रं स्नाप्या सा सफले तरौ ॥ महोदधितटे स्नाप्या यस्यापत्यं विनश्यति ॥ १७ ॥ अमानुषान्या जनयेत्स्नापयेत्तां चतुष्पथे ॥ यादृशं वा च भर्तारं न लभेत वरा- ङ्गना ॥ १८ ॥ स्नापयेत्कदलीगेहे तां स्थाने वा वृक्षसंकुले ॥ रूपलावण्ययुक्ता या सौभाग्यं या न विन्दति ॥ १९ ॥ स्नानं वृद्धिकरं तस्या वेश्यागारे प्रकल्पयेत् ॥ २० ॥ समेऽजनसंकीर्णे शुचौ देशे विकण्टके ॥ सहायैः प्रवरैः सार्धं अहोरात्रोषितो द्विजः ॥ २१ ॥ स्नानकर्म प्रकुर्वीत सोपवासस्य मानद ॥ अहोरात्रासमर्थस्य कार्यं वा हविष्याशनम् ॥ २२ ॥ शरद्वसन्तयोः कार्यं स्नानं स्वस्थस्य भार्गव ॥ सर्वकालेष्वथार्त्तस्य ग्रहव्याधिनिबर्हणम् ॥ २३ ॥ मुहूर्त्ते तत्र सांवित्रे ब्राह्मणं स्नापयेद्द्विज ॥ मैत्रेऽथ विजये चैव राजन्यं स्नापयेत्तथा ॥ २४ ॥ वैश्यं पैतामहे शूद्रं शेषेषु स्नापयेत्तथा ॥ पञ्चमी सप्तमी शस्ता स्नपने ब्राह्मणस्य च ॥ २५ ॥ त्रयोदशी तृतीया च क्षत्रियस्य विशिष्यते ॥ द्वितीया दशमी चैव तथा वैश्यस्य मानद ॥ २६ ॥ षष्ठी चतुर्दशी चैव शूद्राणां स्नानकर्मणि ॥ एकादशी
॥ २४८ ॥
१ क्रूर इति पाठान्तरम् ।
द्वादशी च तथा कृष्णचतुर्दशी ॥ २७ ॥ सर्वेषामेव वर्णानां स्नानकर्मणि पूजिता ॥ ध्रुवेषु वैष्णवे पुष्ये रेवत्यां भगदैवते ॥ २८ ॥ हस्ते पुनर्वसौ सौम्ये ज्येष्ठायामथ वारुणे ॥ धनिष्ठायां तथा स्नानं सर्वेषामेव पूजितम् ॥ २९ ॥ वेत्रासनं भद्रपीठं वैदलं दारवं तथा ॥ वर्णाना मानुपूर्व्येण परिकीर्तितमासनम् ॥ ३० ॥ कृष्णाजिनं च वैयाघ्रं रौरवं बास्तमेव च ॥ पादोपधानं वर्णानामानुपूर्व्येण कल्पयेत् ॥ ३१ ॥ वृषाश्वरथ पृष्ठे च गजपृष्ठे तथैव च ॥ ॥ नरस्कन्धेऽथवाङ्गे वा प्रायशः स्नापयेच्छिशून् ॥ ३२ ॥ स्नातकामस्य तस्याथ पूर्वमुत्सारसः स्मृतम् ॥ यैर्द्रव्यैर्मु गुशार्दूल तानि वक्ष्याम्यतः परम् ॥ ३३ ॥ पुनर्नवां रोचनां च शताह्वांऽगुरुणीं त्वचम् ॥ मधूकं च रजन्यौ द्वे तगरं नागकेसरम् ॥ ३४ ॥ आसुरीं सर्जिकां चैव मांसीं रामठ चन्दनम् ॥ प्रियङ्गु सर्पपाम्बुष्ठं कुंकुमं बहुपुत्रिकाम् ॥ ३५ ॥ बलेन्दूहस्तौ ब्राह्मीं च पञ्चगव्यं तथैव च ॥ सक्तूनां मिश्रयित्वा च कार्पामुद्वर्तनं भवेत् ॥ ३६ ॥ ततः स्नानादिने प्राप्ते प्रावबुद्धसादयेत्पुनः ॥ ततो मनोहरे देशे मण्डलं कल्पयेद् बुधः ॥ ३७ ॥ चतुरस्रं गोमयेन सर्वतोऽष्टदिशं समम् ॥ सतोरणं चतुर्द्वारं प्राकारै रुपशोभितम् ॥ ३८ ॥ तत्र मध्ये लिखेत्पद्ममष्टपत्रं सुशोभितम् ॥ कर्णिकायां लिखेद्विष्णुं मेघामं पीतवाससम् ॥ ३९ ॥ कौस्तुभोद्भासितोरस्कं शङ्खचक्रगदाधरम् ॥ ब्रह्माणं दक्षिणे न्यस्य पद्मवर्णं समालिखेत् ॥ ४० ॥ अजिनाम्बरसंस्युक्तं श्वेतयज्ञोपवीतिनम् ॥ ४१ ॥ रजताभ्रनिभं वामे भागे रुद्रं समालिखेत् ॥ ४१ ॥ व्याघ्रचर्माम्बरधरं त्रिनेत्रं शूलपाणिणम् ॥ पूर्वपत्रे लिखेच्चक्रं सवज्रं च सुदर्शनम् ॥ ४२ ॥ गजपृष्ठाधिरूढं तु स्वर्णाभं पीतवाससम् ॥ प्राग्दक्षिणे तथा पत्रे लिखेद्वह्निं महाप्रभम् ॥ ४३ ॥ धूमाभवासनं देवं शुकयानगतं प्रभुम् ॥ अतसीपुष्पसंकाशं पीताम्बरधरं शुभम् ॥ ४४ ॥ सदण्डं महिषारूढं लिखेत्पत्रे तु दक्षिणे ॥ उष्ट्रारूढं विरू पाक्षं लिखेद्दक्षिणपश्चिमे ॥ ४५ ॥ रक्ताम्बरधरं कृष्णं खड्गपाणिं विभीषणम् ॥ पश्चिमे वरुणं देवं सपाशं हंसवाहनम् ॥ ४६ ॥ सशुक्लवसनं देवं स्वच्छवैडूर्यसन्निभम् ॥ पश्चिमोत्तरतो वायुं वायुमण्डलमध्यगम् ॥ ४७ ॥ लिखेच्छुभ्राम्बरं श्वेतं सर्वाभरणभूषितम् ॥ कुबेरमुत्तरे पत्रे व्यापयान गतं लिखेत् ॥ ४८ ॥ कवचोत्तमासंसंयुक्तं गदिनं कमलप्रभम् ॥ वृषारूढमथेशाने पत्र पूर्वोत्तरे लिखेत् ॥ ४९ ॥ व्याघ्रचर्माम्बरधरं भालचन्द्रं विभूषि तम् ॥ चतुर्भिः सागरैः पद्मं चतुरस्रं समन्ततः ॥ ५० ॥ यादोगणयुतैश्चैव क्रमेण परिवेष्टयेत् ॥ सागराणां तु पूर्वेण लिखेत्पद्मं मनोहरम् ॥ ५१ ॥ ततश्चक्रं तथा दण्डं वस्त्रं मकरमेव च ॥ शक्तिं ध्वजं त्रिशूलं तु क्रमेणैव तु विन्यसेत् ॥ ५२ ॥ ततः प्राकारसलिलान्पूर्वतश्च विन्यसेत् ॥ चतुरः
१ 'उत्सादनम्' इति पुस्तकान्तरे । २ 'यमम्' इति पाठान्तरम् । ३ 'चन्द्रामं वै' इति पाठान्तरम् ।