भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

आचाराध्यायः १४३ अलब्धलाभाय धर्मशास्त्रानुसारेण यतेत । यत्नेन लब्धं तत् परिपालयेत् स्वयमवेक्ष्य रक्षेत् । पालितं ^१तत्परतया रक्षितं नीत्या ^२वणिक्पथादिकया वृद्धिं नयेत् । वृद्धं च पात्रेषु त्रिविधेषु धर्मार्थकामयुक्तेषु निक्षिपेद्दद्यात् ॥ ३१७ ॥ भाषा-अप्राप्त लाभ की प्राप्ति के लिये ( धर्मानुसार ) प्रयत्न करना चाहिए यत्न से प्राप्त वस्तु की रक्षा करना चाहिए । रक्षित वस्तु की नीतिपूर्वक ( वाणिज्यादि से ) वृद्धि करनी चाहिए और बढ़े हुए धनादि को ( धर्म अर्थ और काम ) पात्रों में लगाना चाहिए ॥ ३१७ ॥ पात्रे निक्षिप्य किं कुर्यादित्याह- दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु^३ कारयेत् । आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥ ३१८ ॥ यथोक्तविधिना भूमिं दत्त्वा स्वत्वनिवृत्तिं कृत्वा निबन्धं वा एकस्य भाण्ड- भरकस्येयन्तो रूपकाः, एकस्य पर्णभरकस्येयन्ति पर्णानीति वा निबन्धं कृत्वा लेख्यं कारयेत् । किमर्थम् ? आगामिनः एष्यन्तो ये भद्राः साधवो नृपतयो भूपास्तेषां 'अनेन दत्तम् , अनेन प्रतिगृहीतम्' इति परिज्ञानाय । पार्थिवो भूपतिः । अनेन भूपतेरेव भूमिदाने निबन्धदाने वाऽधिकारो न भोगपतेरिति दर्शितम् ॥ ३१८ ॥ भाषा-राजा भूमि देकर या उसका निर्धारण करके भविष्य के साधु- वृत्ति वाले राजाओं के ज्ञान के लिये लिखवा दे ॥ ३१८ ॥ 'लेख्यं कारयेत्' ( आ० ३१८ ) इत्युक्तं, कथं कारयेदित्याह- पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥ ३१९ ॥ प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् । स्वहस्तकालसंपन्नं शासनं कारयेत्स्थिरम् ॥ ३२० ॥ कार्पासिके पटे ताम्रपट्टे^४ ताम्रफलके वा आत्मनो वंश्यान् प्रपितामहपि- तामहपितॄन् बहुवचनस्यार्थवत्त्वात् वंशवीर्यश्रुतादिगुणोपवर्णनपूर्वकमभिलेख्य आत्मानं च शब्दात् प्रतिग्रहीतारं, प्रतिग्रहपरिमाणं दानच्छेदोपवर्णनं चाभि- लेख्य । प्रतिगृह्णात इति प्रतिग्रहो निबन्धस्तस्य रूपकादिपरिमाणम् । दीयत इति दानं क्षेत्रादि तस्य छेदः छिद्यतेऽनेनेति छेदः ^५नद्याघाटौ ^६निवर्तनं तत्प- १. तत्परतया रक्षेत् । २. वाणिज्यादिकया । ३. च । ४. पट्टे फलके वा । ५. नद्याघाटौ । ६. निवर्त्तनंपरिमाणं च ।

१४४ याज्ञवल्क्यस्मृतिः रिमाणं च तस्योपवर्णनं, 'अमुकनद्या दक्षिणतोऽयं ग्रामः क्षेत्रं वा, पूर्वतोऽमुक- ग्रामस्य' एतावन्निवर्तनमित्यादिनिवर्तनपरिमाणं च लेख्यम् । एवं आघाटस्य नदीनगरवर्त्मादेः संचारित्वेन भूमेर्न्यूनाधिकभावसंभवात्तन्निवृत्त्यर्थम्, स्वहस्तेन स्वहस्तलिखितेन मतं मे अमुकनाम्नः अमुकपुत्रस्य यदत्रोपरि लिखितमित्यनेन संपन्नं संयुक्तं, कालेन च द्विविधेन शकनृपातीतरूपेण संवत्सररूपेण च दानकालेन चन्द्रसूर्योपरागादिना संपन्नं स्वमुद्रया गरुडवाराहादिरूपयोपरि बहिश्चिह्नितमङ्कितं स्थिरं दृढं शासनं १शिष्यन्ते भविष्यन्तो नृपतयोऽनेन 'दानाच्छ्रेयोऽनुपालनम्' इति शासनं कारयेत्, महीपतिर्न भोगपतिः । संधिविग्रहाधिकारिणा २येन केनचिल्लेख्यम् ; 'संधिविग्रहकारी तु भवेद्यत्तस्य लेखकः । स्वयं राज्ञा समा दिष्टः स लिखेद्राजशासनम् ॥' इति स्मरणात् । दानमात्रेणैव दानफले सिद्धे शासनकरणं भोगाभिवृद्धया फलातिशयार्थम् ॥ ३१९-३२० ॥ भाषा—(कपास आदि के) वस्त्र पर या ताम्रपट्ट पर अपनी मुद्रा (मुहर) अङ्कित करके राजा अपने वंश के पूर्वपुरुषों के नाम तथा अपना नाम दान के वस्तु की मात्रा और (खेत आदि हो तो) चौहद्दी का विवरण लिखावे और तब अपने हाथ से पितृनाम सहित अपना नाम एवं तिथि लिखकर उस राजाज्ञा को पुष्ट (प्रामाणिक) बनावे ॥ ३१९-३२० ॥ इदानीं राज्ञो निवासस्थानमाह— रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् । तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥ ३२१ ॥ रम्यं रमणीयं अशोकचम्पकादिभिः । पशव्यं पशुभ्यो हितं पशुवृद्धिकरम् । आजीव्यमुपजीव्यं कन्दमूलपुष्पफलादिभिः । जाङ्गलं यद्यप्यल्पोदकतृणपर्वतो देशो जाङ्गलस्तथाप्यत्र ३सजलतृणपर्वतो देशो 'जाङ्गल' शब्देनाभिधीयते । तं देशमावसेदधिवसेत् । तत्रैवंविधे देशे जनानां कोशस्य सुवर्णादेरात्मनश्च रक्षणार्थं दुर्गं कुर्वीत । तच्च षड्विधम् । यथाह मनुः ( ७।७० )—'धन्व- दुर्गं महीदुर्गमब्दुर्गं वा वार्क्षमेव वा । नृदुर्गं गिरिदुर्गं च समाश्रित्य वसेत्पुरम् ॥' इति ॥ ३२१ ॥ भाषा—रमणीक, पशुओं की (चारे आदि से) वृद्धि के योग्य जीवन- निर्वाह में (कन्दमूल, पुष्प और फल से) सहायता देने वाले एवं वनप्राय देश में निवास करें। उस स्थान पर परिजनों, कोश एवं अपनी रक्षा के लिये दुर्ग बनवावे ॥ ३२१ ॥ १. शास्यन्ते । २. नान्येन ग; 'न येन केनचित्' । ३. समजल ।

आचाराध्यायः १५३ तत्र तत्र च निष्णातानध्यक्षान्कुशलाञ्छुचीन् । प्रकुर्यादायकर्मान्तव्ययकर्मसु चोद्यतान् ॥ ३२२ ॥ किंच, तत्र तत्र ¹धर्मार्थकामादिषु अध्यक्षान् योग्यानधिकारिणः प्रकुर्यान्नियु- ञ्जीत । यथाहुः- 'धर्मकृत्येषु धर्मज्ञानर्थकृत्येषु पण्डितान् । स्त्रीषु क्लीबान्नियु- ञ्जीत नीचांश्चिच्छ्रेषु कर्मसु ॥' इति । कीदृशान् ? निष्णातानन्यव्यापारान् । कुशलान् तत्तद्व्यापारचतुरान् , शुचीन् चतुर्विधोपधाशुद्धान् । आयकर्मसु सुवर्णाद्युत्पत्तिस्थानेषु व्ययकर्मसु सुवर्णादिदानस्थानेषु च उद्यताननलसान् । चशब्दात्प्राज्ञत्वादिगुणयुक्तान् । उक्तं च-'प्राज्ञत्वमुपधाशुद्धिरप्रमादोऽभियुक्तता । कार्येषु व्यसनाभावः स्वामिभक्तिश्च योग्यता ॥' इति ॥ ३२२ ॥ भाषा-तत्तत (धर्म, अर्थ, काम आदि) कर्मों में, आयकर्म और व्यय कर्म में योग्य, कार्यकुशल, पवित्र एवं कर्त्तव्यनिष्ठ अध्यक्षों को नियुक्त करे ॥ ३२२ ॥ 'भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च' (आ० ३१५) इति सामा- न्येन स्वस्वदानमुक्तम्, इदानीं नृपाणां विक्रमार्जितस्य दाने फलातिशयमाह- नातः परतरो धर्मो नृपाणां यद्रणार्जितम् । विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ ३२३ ॥ अस्मादुत्कृष्टतमो धर्मो नृपाणां न विद्यते यद्रणार्जितं द्रव्यं विप्रेभ्यो दीयते । यच्च प्रजाभ्योऽभयदानम् ॥ ३२३ ॥ भाषा-राजाओं के लिए इससे बढ़कर कोई धर्म नहीं है कि युद्ध में अपहृत धन ब्राह्मणों को दान करें और अपनी प्रजाओं को अभयदान दें ॥३२३॥ 'रणार्जितं देयम्' इत्युक्तं, द्रव्यार्जनाय रणे प्रवृत्तस्य विपत्तिरपि संभवतीति 'न धर्मो नाप्यर्थ इति ततो निवृत्तिरेव ²श्रेयसीत्यत आह- य आहवेषु वध्यन्ते भूम्यर्थमपराङ्मुखाः । अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ ३२४ ॥ ये भूम्यर्थमाहवेषु प्रवृत्ता अपराङ्मुखा अभिमुखा वध्यन्ते मार्यन्ते ते स्वर्गं यान्ति। योगाभ्यासरता यथा । यद्यकूटैरविषदिग्धादिभिरायुधैर्योद्धारो भवन्ति ॥ ३२४ ॥ भाषा-जो भूमि के लिये युद्ध में सन्मुख लड़ते हुए अकूट (विष से न बुझे हुए) हथियारों से मारे जाते हैं वे योगियों के समान (मृत्यु के उपरान्त) स्वर्ग को जाते हैं ॥ ३२४ ॥ १. धर्मादिस्त्यादिषु । २. ज्यायसी । १० या०

[Header] १४६ याज्ञवल्क्यस्मृतिः

पदानि क्रतुतुल्यानि भग्नेष्वविनिवर्तिनाम् । राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥ ३२५ ॥ किंच, स्ववलेषु करितुरगरथपदातिषु भग्नेष्वविनिवर्तिनां परबलाभिमुख- यायिनां पदानि क्रतुतुल्यान्यश्वमेधतुल्यानि विपर्यये दोषमाह-विपला- यिनां पराङ्मुखानां हतानां राजा सुकृतमादत्ते ॥ ३२५ ॥ भाषा—अपनी (हाथी, घोड़े, रथ, पैदल आदि) सेना के नष्ट हो जाने पर भी शत्रु की सेना की ओर लड़ते हुए राजा के प्रत्येकपग यज्ञों के तुल्य होते हैं (अर्थात् जितने पग जाता है उतने यज्ञों का फल पाता है) और वह चोट खाकर पलायन करने वालों के शुभ कर्मों के पुण्य प्राप्त करता है ॥ ३२५ ॥

तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् । न हन्याद्विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥ ३२६ ॥ अपि च, तवाहमिति यो वदति तं क्लीबं नपुंसकं निर्हेतिं निरायुधं परसंगतमन्येन सह युद्ध्यमानं विनिवृत्तं युद्धाद्विनिवृत्तं युद्धप्रेक्षकं युद्ध- दर्शिनं । 'न हन्यात्' इति सर्वत्र संबन्धः । 'आदि' ग्रहणादश्वसारथ्यादीनां ग्रह- णम् । यथाह गौतमः ( १०।१७-१८)—'न दोषो हिंसायामाहवेऽन्यत्र व्यश्वसारथ्यानायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढोन्मत्तदूतगो- ब्राह्मणादिभ्यः' इति । शङ्खोऽप्याह—'न पानीयं पिबन्तं न भुञ्जानं नोपानहौ मुञ्चन्तं नावर्माणि सवर्माणं न स्त्रियं न करेणुं न वाजिनं न सारथिनं न सुतं न दूतं न ब्राह्मणं न राजानमराजा हन्यात्' इति ॥ ३२६ ॥ भाषा—'मैं तुम्हारा ही हूँ' ऐसा कहनेवाले, नपुंसक, शस्त्रहीन, दूसरे के साथ युद्ध में संलग्न, (युद्ध से) निवृत्त और युद्ध देखने के लिये आये हुए व्यक्ति को नहीं मारना चाहिए ॥ ३२६ ॥

कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् । व्यवहारांस्ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥ ३२७ ॥ कृतरक्षः पुरस्यात्मनश्च रक्षां विधाय प्रतिदिनं प्रातः काल उत्थाय स्वयमे- वायव्ययौ पश्येत् । ततो व्यवहारान् दृष्ट्वा मध्याह्नकाले स्नात्वा कामतो यथाकालं भुञ्जीत ॥ ३२७ ॥ भाषा—(पुर की और अपनी) रक्षा करके वह स्वयं आय और व्यय का लेखा देखे, इसके बाद व्यवहार (वाद-मुकदमे) देखे और तब स्नान करके समय से भोजन करे ॥ ३२७ ॥

आचाराध्यायः १४७ १हिरण्यं व्यापृतानीतं भाण्डागारेषु२ निक्षिपेत् । पश्येच्चचारांस्ततो दूतान्प्रेषयेन्मन्त्रिसंगतः ॥ ३२८ ॥ तदनन्तरं हिरण्यं व्यापृतैर्हिरण्याद्यानयननियुक्तैरानीतं स्वयमेव निरीक्ष्य भाण्डागारेषु निक्षिपेत् । ततश्चारां३स्पशान्प्रत्यागतान् पश्येत् । ये परराज्ये वृत्तान्तपरिज्ञानाय परिव्राजकतापसादिरूपेण गूढचारिणः प्रेषितास्ताँश्चारान्दृष्ट्वा क्वचिन्निवेशयेत् । तदनन्तरं दूतांश्च पश्येत् । दूताश्च ये प्रकटमेव ४राज्यान्तरं- प्रति गतागतमाचरन्ति । ते च त्रिविधाः-निसृष्टार्थाः, संदिष्टार्थाः, ५शासनह- राश्चेति । तत्र निसृष्टार्था राजकार्याणि देशकालोचितानि स्वयमेव कथयितुं क्षमाः, उक्तमात्रं ये परस्मै निवेदयन्ति ते संदिष्टार्थाः, शासनहरास्तु राजलेख- हारिणः, तान्पूर्वप्रेषितानागतान्मन्त्रिसङ्गतः पश्येत् । दृष्ट्वा तद्वार्तामाकलय्य पुनः पुनः प्रेषयेत् ॥ ३२८ ॥ भाषा-(स्वर्ण आदि लाने के लिए) नियुक्त व्यक्तियों द्वारा लाये गये स्वर्ण को (देखकर) भण्डार में रखे; तब गुप्तचरों से बातें करे और फिर मन्त्री के साथ बैठकर दूतों को निर्दिष्ट कार्य करने के लिये भेजे ॥ ३२८ ॥ ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः । बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ ३२९ ॥ तदनन्तरमपराह्ने स्वैरं यथेष्टमेकोऽन्तःपुरविहारी स्यात् । मन्त्रिभिर्वा विश्वासिभिः कलाकुशलैः परिहासवेदिभिः परिवृतः स्त्रीभिश्च रूपयौवनवैदग्ध्य- शालिनीभिः-'भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥' इति (७।२२१) मनुस्मरणात् । ततो विशिष्ठै- र्वस्त्रकुसुमविलेपनालंकृतः हस्त्यश्वरथपदातिबलानि दृष्ट्वा सेनान्या सेना- पतिना सह तद्रक्षणादि देशकालोचितं चिन्तयेत् ॥ ३२९ ॥ भाषा-तब (अपराह्न में) इच्छानुसार (अन्तः पुर में) विहार करे अथवा मन्त्रियों के साथ बैठे । पुनः अपनी सेनाओं का निरीक्षण करके सेना- पतियों के साथ (देशकालोचित) विचार विमर्श करे ॥ ३२९ ॥ संध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् । गीतनृत्तैश्च६ भुञ्जीत पठेत्स्वाध्यायमेव च ॥ ३३० ॥ ततः सायंकाले संध्यामुपास्य, सामान्येन प्राप्तस्यापि पुनर्वचनं कार्याकुल- त्वाद्विस्मरणार्थम् । अनन्तरं ये पूर्वदृष्टाः क्वचित्स्थाने निवेशितास्तेषां चाराणां १. हिरण्यादिकं । २. गारे न्यसेत्ततः । ३. श्चारान्विश्वस्तान् । ४. राज्यान्तं । ५. शासनहस्ताश्चेति । ६. नृत्तैश्च ।

१४८ याज्ञवल्क्यस्मृतिः गूढभाषितमन्तर्वेश्मनि शस्त्रपाणिः शृणुयात् । उक्तं च मनुना (७।२२३) - 'संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥' इति । ततो नृत्यगीतादिभिः कंचित्कालं क्रीडित्वा कक्षान्तरं प्रविश्य भुञ्जीत, 'गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेद्वोजनार्थं च स्त्रीभिरन्तःपुरं सह ॥' इति (मनुः ७।२२४) स्मरणात् । ततोऽविस्मरणार्थं यथाशक्ति स्वाध्यायं पठेत् ॥ ३३० ॥ भाषा-(सायंकाल) सन्ध्योपासना करके गुप्तचरों के रहस्यमय वचनों को (अकेले बैठकर) सुने । तब गीत और नृत्य का आनन्द ले, भोजन करे और स्वाध्याय का अध्ययन करे ॥ ३३० ॥ संविशेत्तूर्यघोषेण प्रतिबुद्ध्येत्तथैव च । शास्त्राणि चिन्तयेद् बुद्ध्या सर्वकर्तव्यतास्तथा ॥ ३३१ ॥ तदनन्तरं तूर्यशङ्खघोषेण संविशेत्स्वप्यात् । तथैव तूर्यादिघोषेण प्रतिबुद्ध्येत् । प्रतिबुद्ध्य च शास्त्रविद्भिर्विश्वासिभिः सह एकाकी वा पश्चिमे यामे शास्त्राणि चिन्तयेत् सर्वकर्तव्यताश्च सर्वकार्याणि च । एतच्च स्वस्थं प्रत्युच्यते । अस्वस्थः पुनः सर्वकार्येष्वन्यं नियोजयेत् । यथाह मनुः (७।२२५) -'एतद्वृत्तं समातिष्ठेद्रेरोगः पृथिवीपतिः । अस्वस्थः सर्वमेवैतन्मन्त्रिसुख्ये निवेशयेत् ॥' इति ॥ ३३१ ॥ भाषा-तदनन्तर तूर्य और शंख ध्वनि के साथ सोवे और इसी प्रकार जागे । अपनी बुद्धि से शास्त्रों का और किये जाने वाले सभी कार्यों का चिन्तन करे ॥ ३३१ ॥ प्रेषयेच्च ततश्चारान् स्वेष्वन्येषु च साँदरान् । ऋत्विक्पुरोहिताचार्यैराशीर्भिरभिनन्दितः ॥ ३३२ ॥ दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद् गां काञ्चनं महीम् । नैवेशिकानि च तँतः श्रोत्रियेभ्यो गृहाणि च ॥ ३३३ ॥ अनन्तरं तत्रस्थ एव विश्वस्तान्स्वान् चारान् दानमानसत्कारैः पूजितान् स्वेषु सामन्ताधिकारिषु अन्येषु च महीपतिषु प्रेषयेत्तत्तच्चिकीर्षितपरिज्ञानाय । ततः प्रातः संध्यामुपास्याऽग्निहोत्रं हुत्वा पुरोहितर्त्विगाचार्यादिभिराशीर्भिरभि- नन्दितो ज्योतिर्विदो दृष्ट्वा तेभ्यश्च ग्रहादिस्थितिं विदित्वा शान्तिकादीनि च १. स्त्रीवृत्तोऽन्तःपुरं पुनः । २. एतद्विधान । ३. सर्वमेतन्तु भृत्येषु विनियोजयेत ४. सादरम् । ५. न्दृष्ट्वाङ्गाः । ६. तथा श्रोत्रियाणां ।

·आचाराध्यायः १४६ पुरोहितायादिश्य वैद्यांश्च दृष्ट्वा तेभ्यश्च स्वशरीरस्थितिं निवेद्य प्रतिविधानं चादिश्य गां दोग्ध्रीं काञ्चनं महीं च नैवेशिकानि विवाहोपयोगीनि कन्यालं- कारादीनि गृहाणि च सुधावलितादीनि श्रोत्रियेभ्योऽधीतवेदेभ्यो ब्राह्मणेभ्यः । ‘दद्यात्’ इति प्रत्येकं संबध्यते ॥ ३३२-३३३ ॥ भाषा—तब गुप्तचरों को आदर के साथ अपने मन्त्रियों आदि के निकट अथवा दूसरे राजाओं के समीप भेजे । ( प्रातः सन्ध्या और अग्निहोत्र के उपरान्त ) ऋत्विज्, पुरोहित और आचार्य से आशीर्वाद ग्रहण करे । ज्योतिषी और वैद्य से मिले ( उनसे क्रमशः ग्रहस्थिति और शारीरिक स्वास्थ्य की जान- कारी प्राप्त करे ), इसके बाद श्रोत्रिय ( वेदज्ञ ) ब्राह्मणों को दुधार गाय, सोना, भूमि, विवाह योग्य अलंकारादि उपकरण और वासभवन का दान करे ॥ ३३२-३३३ ॥ ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु । स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥ ३३४ ॥ किंच, ब्राह्मणेष्वधिक्षिप्तस्वपि क्षमी क्षमावान् । स्निग्धेषु स्नेहवत्सु मित्रादिष्वजिह्मः अवक्रः । अरिषु क्रोधनः । भृत्यवर्गेषु प्रजासु च हिताचरणेना- हितनिवर्तनेन च पितेव दयावान् । 'स्यात्' इति प्रत्येकं संबध्यते ॥ ३३४ ॥ भाषा—राजा को ब्राह्मणों के प्रति क्षमाशील होना चाहिए ( मित्रादि ) अनुराग रखने वालों के प्रति सरल, शत्रुओं के प्रति क्रोधी तथा सेवकों एवं प्रजा के प्रति पिता के समान ( दयावान् एवं हितकारी ) होना चाहिए ॥ ३३४ ॥ प्रजापालनफलमाह— पुंण्यात्षड्भागमादत्ते न्यायेन परिपालयन् । सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् ॥ ३३५ ॥ यस्मान्न्यायेन शास्त्रोक्तमार्गेण प्रजाः परिपालयन् परिपालितप्रजोपहित- पुण्यात् षड्भागं षष्ठं भागमादत्ते । यस्माच्च सर्वेभ्यो भूम्यादिदानेभ्यः प्रजानां परिपालनमधिक्फलम् । तस्मात् ‘प्रजासु यथा पिता तथैव स्यात्’ इति गतेन संबन्धः ॥ ३३५ ॥ भाषा—न्यायपूर्वक प्रजा का पालन करने पर राजा प्रजाओं के पुण्य का छठंवा भाग प्राप्त करता है । अतएव भूमि आदि सभी प्रकार के दान से उत्पन्न पुण्यफल से प्रजापालन का फल अधिक होता है ॥ ३३५ ॥ १. भृत्यवर्गे च । २. पुण्यषड्भाग । ३. धर्मशास्त्रोक्तेन ।

१५० - याज्ञवल्क्यस्मृतिः चाटतस्करदुर्वृत्तमहासाहसिकादिभिः । पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥ ३३६ ॥ चाटाः प्रतारकाः विश्वास्य ये परधनमपहरन्ति, प्रच्छन्नापहारिणस्त- स्कराः, दुर्वृत्ता १ऐन्द्रजालिककितवादयः, सहो बलं सहसा बलेन कृतं साहसं महत् तत्साहसं च महासाहसं तेन वर्तन्त इति महासाहसिकाः २प्रसह्योपहारिणः, 'आदि' शब्दान्मौलिककुहकदुर्वृत्तयः । एतैः पीड्यमाना बाध्य- मानाः प्रजा रक्षेत् । कायस्था लेखका गणकाश्च तैः पीड्यमाना विशेषतो रक्षेत्, तेषां राजवल्लभतयातिमायावितया च दुर्निवारत्वात् ॥ ३३६ ॥ भाषा—लुटेरों, चोरों, ऐन्द्रजालिक आदि धूर्तों एवं दुस्साहसी डाकुओं आदि से पीडित प्रजा की रक्षा करे और विशेषतया कायस्थों (लेखकों एवं गणकों) से पीडित व्यक्तियों की रक्षा करे ॥ ३३६ ॥ अरक्ष्यमाणाः कुर्वन्ति यत्किञ्चित्किल्बिषं प्रजाः । तस्मात्तु नृपतेरर्धं यस्माद् गृह्णात्यसौ करान् ॥ ३३७ ॥ अरक्ष्यमाणाः प्रजाः यत्किञ्चित्किल्बिषं चौर्यपरदारगमनादि कुर्वन्ति तस्मात्पापादधं नृपतेर्भवति । यस्मादसौ राजा रक्षणार्थं प्रजाभ्यः करान् गृह्णाति ॥ ३३७ ॥ भाषा—राजा द्वारा अरक्षित प्रजा जो कुछ (चोरी आदि) पाप करती है, उसमें से आधा पाप उसका हो जाता है; क्योंकि वह रक्षा करने के लिये ही प्रजाओं से कर लेता है ॥ ३३७ ॥ ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् । साधून्समानयेद्राजा विपरीतांश्च३ घातयेत् ॥ ३३८ ॥ उत्कोचजीविनो द्रव्यहीनान्कृत्वा विवासयेत् । ४संदानमानसत्कारैःश्रोत्रियान्वासयेत्सदा ॥ ३३९ ॥ राष्ट्रे राष्ट्राधिकारेषु ये नियुक्तास्तेषां विचेष्टितं चरितं चारैरुक्तलक्षणैः सम्यक् ज्ञात्वा साधून्सुचरितान् संमानयेत् दानमानसत्कारैः पूजयेत् । विपरीतान्दुष्टचरितान्सम्पग्विदित्वा घातयेत् अपराधानुसारेण । ये पुन- रुत्कोचजीविनस्तान्द्रव्यरहितानकृत्वा स्वराष्ट्रात्प्रवासयेत् । श्रोत्रियान्सदान- मानसत्कारैः सहितान्कृत्वा स्वराष्ट्रे स्वदेशे सदैव वासयेत् ॥ ३३८-३३९ ॥ भाषा—जो राज्यकार्य में अधिकारयुक्त पदों पर नियुक्त हों उनका आचरण भलीभाँति गुप्तचरों द्वारा जानकर राजा उत्तमचरित्रवालों का १. ऐन्द्रजालिक । २. अपकारिणः । ३. स्तु । ४. सदानमान ।

आचाराध्यायः १५१ (दान आदि से) सम्मान करे और विपरीत आचरण वालों को (अपराध के अनुसार) दण्ड देवे। जो घूस लेकर जीविका चलाते हैं उनका धन छीन कर उन्हें कंगाल) बनाकर) देश से निकाल देना चाहिए। श्रोत्रिय (वेदाध्यय- नरत ब्राह्मणों) को दान, सम्मान और सत्कार के साथ सदा ही (अपने राज्य में) बसाना चाहिए ॥ ३३८-३३९॥ अन्यायेन नृपो राष्ट्रात्स्वकोशं १योऽभिवर्धयेत् । सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥ ३४० ॥ योऽसौ राजा स्वराष्ट्रादन्यायेन द्रव्यमादाय स्वकोशं अभिवर्धयेत् सोऽचिराच्छीघ्रमेव विगतश्रीको विनष्टलक्ष्मीको बन्धुभिः सह नाशं प्राप्नोति ॥ ३४० ॥ भाषा—जो राजा अन्यायपूर्वक अपनी प्रजा से (धन लेकर) अपने कोश की वृद्धि करता है वह शीघ्र ही श्रीहीन होकर बान्धवों सहित नष्ट हो जाता है ॥ ३४० ॥ प्रजापीडनसन्तापात्समुद्भूतो हुताशनः । राज्ञः कुलं श्रियं प्राणांश्चाऽदग्ध्वा न निवर्तते ॥ ३४१ ॥ प्रजानां तस्करादिकृतपीडनेन यः सन्तापस्तस्मादुद्भूतो हुताशन इव सन्तापकारित्वादपुण्यराशिः 'हुताशन'शब्देनोच्यते । स राज्ञः कुलं श्रियं प्राणांश्चादग्ध्वा नाशमनीत्वा न निवर्तते नोपशाम्यति ॥ ३४१ ॥ भाषा—प्रजापीडन के संताप की अग्नि राजा के कुल, शोभा और प्राणों को नष्ट किये बिना शान्त नहीं होती ॥ ३४१ ॥ य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालने । तमेव ३कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ ३४२ ॥ न्यायतः स्वराष्ट्रपरिपालने राज्ञो यो धर्मस्तं सकलं वक्ष्यमाणन्यायेन परराष्ट्रं वशं नयन् आत्मसात्कुर्वन्नाप्नोति धर्मषड्भागं च ॥ ३४२ ॥ भाषा—न्यायपूर्वक अपने राज्य का पालन करने में राजा का जो धर्म होता है वही धर्म वह दूसरे राष्ट्र को वश में करने पर पाता है ॥ ३४२ ॥ ४यस्मिन्देशे य आचारो व्यवहारः कुलस्थितिः । तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥ ३४३ ॥ १. योऽभिरक्षयेत् । २. प्राणानदग्ध्वा, प्राणाञ्चादग्ध्वा । ३. कृत्स्नू । ४. किं तु यस्मिन्य ।

१५२ याज्ञवल्क्यस्मृतिः

किंच, यदा परदेशो वशमुपागतस्तदा न स्वदेशाचारादिसङ्करः कार्यः, किं तु यस्मिन्देशे य आचारः कुलस्थितिर्व्यवहारो वा यथैव प्रागासीत्तथैवासौ परिपालनीयो यदि शास्त्रविरुद्धो न भवति । 'यदा वशमुपागतः' इत्यनेन वशोपगमनात्प्रागनियम इति दर्शितम् । यथोक्तम् ( मनुः ७।१९५)— 'उपसृप्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसाग्नोदकेन्धनम् ॥' इति ॥ ३४३ ॥ भाषा—अपने वश में आ जावे तो जिस देश में जो आचार, व्यवहार और कुल की मर्यादा हो उसका उसी रूप में वह पालन करे ॥ ३४३ ॥ मन्त्रमूलं यतो राज्यं तस्मान्मन्त्रं सुरक्षितम् । कुर्याद्यथाऽस्य न विदुः कर्मणामा फलोदयात् ॥ ३४४ ॥ यस्मात् 'तैः सार्धं चिन्तयेद्राज्यम्' ( आ० ३१२ ) इत्याद्युक्तं मन्त्रमूलं राज्यं तस्मान्मन्त्रं यत्नेन तथा सुरक्षितं कुर्यात्, यथाऽस्य राज्ञः कर्मणां संधिविग्रहा- दीनामाफलोदयात् फलनिष्पत्तेः प्रागन्ये मन्त्रं न जानन्ति ॥ ३४४ ॥ भाषा—राज्यकार्य का मुख्य आधार मन्त्र ( मन्त्रणा, गुप्त परामर्श ) है; अतएव मन्त्र को इस प्रकार गुप्त रखे कि राजा के कर्मों ( सन्धि-विग्रह आदि ) के फलीभूत होने के पूर्व उसकी जानकारी किसी को न मिल सके ॥ ३४४ ॥ अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः । क्रमश्रो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः ॥ ३४५ ॥ किंच, अरिः शत्रुः, मित्रं सुहृत् , उभयविलक्षण उदासीनश्च । ते च त्रयस्त्रिविधाः सहजाः कृत्रिमाः प्राकृताश्चेति । तत्र सहजोऽरिः सापत्नपितृव्य- तत्पुत्रादिः । कृत्रिमोऽरिः यस्यापकृतं येन वापकृतम् । प्राकृतस्त्वनन्तर- देशाधिपतिः । सहजं मित्रं भागिनेयपैतृष्वस्रीयमातृष्वस्रीयादि । कृत्रिमं मित्रं येनोपकृतं यस्य चोपकृतम् । प्राकृतमित्रमेकान्तरितदेशाधिपतिः । सहजकृत्रिम- मित्रशत्रुलक्षणरहितौ सहजकृत्रिमोदासीनौ । प्राकृतोदासीनो ^३द्व्यन्तरित- देशाधिपतिः । अरिः पुनश्चतुर्विधः—^४यातव्योच्छेत्तव्यपीडनीयकर्षणीयभेदेन । तत्र यातव्योऽनन्तरभूमिपतिर्व्यसनी हीनबलो विरक्तप्रकृतिः । विदुर्गो मित्रहीनो दुर्बलश्चोच्छेत्तव्यः । पीडनीयो मन्त्रबलहीनः । प्रबलमन्त्रबलयुक्तः कर्शनीयः, 'निर्मूलनात्समुच्छेदं पीडनं बलनिग्रहम् । कर्शनं तु पुनः प्राहुः


१. राज्यमतो मन्त्रं । २. प्राग्यावदन्त्ये । ३. द्व्यनन्तरदेशा । मध्यन्तरदेशा । ४. यातव्योच्छेदनीय ।

कोशदण्डापकर्षणात् १॥' इति । मित्रं द्विविधं-बृंहणीयं, कर्षणीयमिति । कोशबलहीनं बृंहणीयम् । कोशबलाधिकं कर्षणीयम् । 'अनन्तरस्तत्परः परः' इति प्राकृतारिमित्रोदासीनानाह-अनन्तरः प्राकृतोऽरिः, तत्परः प्राकृतं मित्रं, तस्मात्परः प्राकृत उदीनः, शेषाः पुनः प्रसिद्धत्वान्नोक्ताः । एतद्राजमण्डलं क्रमशः पूर्वादिदिक्क्रमेण चिन्त्यं तेषां चेष्टितं ज्ञातव्यम् । ज्ञात्वा च सामादिभि- रुपायैर्वध्यमानेरनुसंधेयम् २ । एवं पुरतः पृष्ठतः पार्श्वतश्च त्रयस्त्रय आत्मा चैक इति त्रयोदशराजकमिदं राजमण्डलं पद्माकारम् । पाष्णिग्राहान्क्रन्दासारादयस्त्वरि- मित्रोदासीनेष्वेवान्तर्भवन्ति, संज्ञाभेदमात्रं ग्रन्थान्तरे दर्शितमिति योगीश्वरेण न ३ पृथगुक्ताः ॥ ३४५ ॥ भाषा-(सीमा से) सटे हुए राज्य, उसके बाद के राज्य और उसके भी बाद के राज्य पर शासन करने वाले राजा क्रमशः शत्रु, मित्र और उदासीन होते हैं । इन राजमण्डलों पर क्रमशः (पूर्वादि दिशा से लेकर) ध्यान रखना चाहिए; और इनके साथ साम आदि उपायों का प्रयोग करना चाहिए ॥ ३४५ ॥ 'सामादिभिरुपक्रमैः' (आ० ३४५) इत्युक्तम् , इदानीं तानूपायानाह- उपायाः साम दानं च भेदो दण्डस्तथैव च । सम्यक्प्रयुक्ताः सिद्ध्येयुर्दण्डस्त्वगतिका गतिः ॥ ३४६ ॥ साम प्रियभाषणम् , दानं सुवर्णादेः भेदो भेदकरणं तत्सामन्तादीनां परस्परतो वैरस्योत्पादनेन, दण्ड उपांशु-प्रकाशाभ्यां धनापहारादिर्वधपर्यन्तो- ऽपकारः । एते सामादयः परिपन्थ्यादिसाधनोपायाः । एते च देशकालाद्यनुसारेण सम्यक्प्रयुक्ताः सिद्धयेयुः । तेषां च मध्ये दण्डस्त्वगतिका गतिः, उपायान्तर- संभवे सति न प्रयोक्तव्यः । एतच्च पीडनीयकर्षणीयाभिप्रायेण । यातव्योच्छे- त्तव्ययोस्तु दण्ड एव मुख्यः । एते सामादयो न केवलं राज्यव्यवहारविषयाः अपि तु सकललोकव्यवहारविषयाः यथा-'अधीष्व पुत्रकाधीष्व दास्यामि तव मोदकान् । यद्वाऽन्यस्मै प्रदास्यामि कर्णमुत्पाटयामि ते ॥' इति ॥ ३४६ ॥ भाषा-साम (प्रियभाषण), दान (सुवर्णादि उपहार देना,), भेद (फूट डालना), और दण्ड (धनापहरण और वध आदि कर्म) ये चार उपाय हैं; इनका उचित रूप से (देश, काल आदि के अनुसार) प्रयोग १. पकर्षणात् । २. रभिसन्धेयं । ३. न पृथगुक्तम् । ४. स्योत्पा- दनम् ।

१५४ याज्ञवल्क्यस्मृतिः करने पर सफलता मिलती है। और कोई उपाय न चलने पर ही दण्ड का आश्रय लिया जाता है ॥ ३४६ ॥ संधिं च १विग्रहं यानमासनं संश्रयं तथा । द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् ॥ ३४७ ॥ किंच, सन्धिव्यवस्थाकरणम्, विग्रहोऽपकारः, यानं परं प्रति यात्रा, आसनमुपेक्षा, संश्रयो बलवदाश्रयणम्, द्वैधीभावः स्वबलस्य द्विधाकरणम् । एतान्सन्धिप्रभृतीन्गुणान् यथावद्देशकालशक्तिमित्रादिवशेन कल्पयेत् ॥ ३४७ ॥ भाषा—सन्धि, विग्रह (अपकार), यान (चढ़ाई), उपेक्षाभाव, बल- वान का आश्रय तथा अपनी सेना का द्विधा विभाजन—इन गुणों का यथोचित (देश, काल, शक्ति, मित्र आदि का विचार करके) अवलम्बन करे ॥ ३४७ ॥ यानकालानाह— यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् । परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥ ३४८ ॥ यदा परराष्ट्रं सस्यैर्व्रीह्यादिभिर्गुणैश्च समजलेन्धनतृणादिभिरुपेतं सम्पन्नं शत्रुश्च हीनो बलादिभिः, आत्मा च हृष्टवाहनपूरुषः वाहनानि हस्त्यश्वादीनि तानि च पूरुषाश्च वाहनपूरुषाः हृष्टा वाहनपूरुषा यस्य स तथोक्तः । तदा परराष्ट्रमात्मसात्कर्तुं व्रजेत् ॥ ३४८ ॥ भाषा—जब शत्रु का राज्य अन्न आदि से भरा पूरा हो, शत्रु की सेना दुर्बल हो अपनी सेना के अश्वादि वाहन एवं सैनिक प्रसन्न (एवं उत्साहपूर्ण) हों तब आक्रमण करे ॥ ३४८ ॥ प्राणिनामभ्युदयविनिपातानां दैवायत्तत्त्वाद्यदि दैवमस्ति तदा स्वयमेव परराष्ट्रादि वशीभविष्यति, अथ नास्ति कृतेऽपि पौरुषे न भविष्यति, अतो व्यर्थ एवायं यात्राम्यास इत्यत आह— दैवे पुरुषकारे२ च कर्मसिद्धिर्व्यवस्थिता । तत्र दैवमभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥ ३४९ ॥ कर्मसिद्धिः फलप्राप्तिरनिष्टहानिलक्षणा । सा न केवलं दैवे व्यवस्थिता । अपि तु पुरुषकारेऽपि, लोके तथा दर्शनात्, चिकित्सकादिशास्त्रवैयर्थ्याच्च । अपि च पुरुषकाराभावे दैवमेव नास्तीत्याह—तत्र दैवमिति । यतः पूर्वदेहाजितं पौरुषमेव दैवमुच्यते । अल्पपुरुषकारानन्तरं महाफलोदयाभिव्यक्तं पौरुषं १. विग्रहं चैव याममासनसंश्रयौ । २. कारेऽपि ।

आचाराध्यायः १५५ पौर्वदेहिकं कर्म । तस्मात्पुरुषकाराभावे न दैवमस्तीति पुरुषकारे यत्नो विधातव्यः ॥ ३४९ ॥ भाषा—( इष्ट या अनिष्ट ) फल की प्राप्ति दैव ( भाग्य ) और पुरुष ( अपने कर्म ) से होती है। इसमें दैव ( भाग्य ) [ इस जन्म में अल्प प्रयत्न से अधिक फल के रूप में ] अभिव्यक्त पूर्व शरीर द्वारा किया गया कर्म ही होता है ॥ ३४९ ॥ इदानीं मतान्तराण्याह— केचिद् १दैवात्स्वभावाद्वा कालात्पुरुषकारतः । संयोगे २केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ ३५० ॥ केचिदिष्टानिष्टलक्षणं फलं दैवादेवेच्छन्ति । केचित्स्वभावात्स्वयमेव भवति, न कारणमपेक्षत इति । केचित्कालात् । केचित्पुरुषकारत एवेति । इदानीं स्वमतमाह—दैवादीनां संयोगे समुच्चये फलं भवतीति कुशलबुद्धयो मन्वादयो मन्यन्ते ॥ ३५० ॥ भाषा—कुछ लोग ( इष्ट या अनिष्ट ) फल को भाग्य या स्वभाव से उत्पन्न मानते हैं; कुछ लोग समय को और कुछ लोग पौरुष या कर्म को फल का कारण मानते हैं । कुछ बुद्धिमानों ने इन सबके संयोग ( मिलने ) से फल की उत्पत्ति मानी है ॥ ३५० ॥ एकैकस्मात्फलं न भवतीत्यत्र दृष्टान्तमाह— यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥ ३५१ ॥ नात्र तिरोहितमस्ति ॥ ३५१ ॥ भाषा—जिस प्रकार एक पहिए से रथ चल सकता, उसी प्रकार पौरुष के विना भी भाग्य या दैव की सिद्धि नहीं होती है ॥ ३५१ ॥ लाभाय परराष्ट्रं गन्तव्यमित्युक्तम् । लाभश्च त्रिविधः हिरण्यलाभो मूललाभो मित्रलाभश्चेति, तेषु मित्रलाभो ज्यायान् । ततस्तत्प्राप्त्युपाये यत्नो विधातव्यः । तत्प्राप्त्युपायश्च सत्यवचनमित्याह— हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत ४तत्प्राप्त्यै रक्षेत्सत्यं समाहितः ॥ ३५२ ॥ १. केचिद्दैवाद्धठात्केचित्केचित् । २. सिद्ध्यन्त्यर्था मनुष्याणां तेषां योनिरतु पौरुषम् । ३. लाभेषु ( = हिरण्य-भू-मित्रलाभानां मध्ये ) । ४. तत्प्राप्तौ ।

१५६ याज्ञवल्क्यस्मृतिः यस्मात् हिरण्यभूमित्रलाभेभ्यो मित्रलब्धिर्वरा उत्कृष्टा तस्मात्तत्प्राप्त्यै यतेत यत्नं कुर्यात् सामादिभिः । सत्यं च रक्षेत् । समाहितः सावधानः । सत्यमूलत्वा- न्मित्रलाभस्य ॥ ३५२ ॥ भाषा—सुवर्ण भूमि के लाभ से मित्र की प्राप्ति उत्कृष्ट है । अतः एव मित्र की प्राप्ति के लिए यत्न करना चाहिए और सावधान होकर सत्यता की रक्षा करनी चाहिए ॥ ३५२ ॥ इदानीं राज्याङ्गान्याह— १स्वाम्यमात्या जनो दुर्गं कोशो दण्डस्तथैव च । मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ॥ ३५३ ॥ 'महोत्साह' ( आ० ३०९ ) इत्याद्युक्तलक्षणो महीपतिः स्वामी, अमात्याः मन्त्रिमपुरोहितादयः, जनो ब्राह्मणादिप्रजाः, दुर्गं धन्वदुर्गादि, कोशः सुवर्णादि- धनराशिः, दण्डो हस्त्यश्वरथपत्तिलक्षणं चतुरङ्गबलम् । मित्राणि सहजकृत्रिम- प्राकृतानि, एताः स्वाम्याद्याः राज्यस्य प्रकृतयो मूलकारणानि । एवं राज्यं सप्ताङ्गमुच्यते ॥ ३५३ ॥ भाषा—राजा, अमात्य ( मन्त्री, पुरोहित आदि ), प्रजा, दुर्ग, कोश, दण्ड ( सेना ) और मित्र—ये राज्य के मूल कारण हैं; अतः राज्य को सप्ताङ्ग कहा जाता है ॥ ३५३ ॥ तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ ३५४ ॥ तदेवंविधं राज्यं प्राप्य दुर्वृत्तेषु वञ्चकशठधूर्तपरदारपरद्रव्यापहारिहिंसकादिषु नृपो दण्डं पातयेत् प्रयोजयेत् हि यस्माद्धर्म एव दण्डरूपेण पूर्वं ब्रह्मणा निर्मितः। तस्य च दण्ड इति यौगिकी संज्ञा—'दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत्' ( ११।१२८ ) इत्यादिगौतमस्मरणात् ॥ ३५४ ॥ भाषा—इस प्रकार का राज्य प्राप्त करके राजा दुराचारियों अर्थात् अपराधियों को दण्ड देवे; क्योंकि आदि काल में ब्रह्मा ने दण्ड के रूप में धर्म की ही सृष्टि की है ॥ ३५४ ॥ स २नेतुं न्यायतोऽशक्यो ३लुब्धेनाकृतबुद्धिना । सत्यसंधेन शुचिना सुसहायेन धीमता ॥ ३५५ ॥ १. स्वाम्यमात्यौ । २. न्यायतः शक्यो ( =न्यायतो यथाशास्त्रं नेतुं प्रणेतुं शक्यः) । ३. ऽलुब्धेन कृतबुद्धिना ( = अलुब्धेन न्यायधनव्ययकारिणा कृत- बुद्धिना लब्धप्रज्ञेन ) ।

आचाराध्यायः १५७ स पूर्वोक्तो दण्डो लुब्धेन कृपणेनाकृतबुद्धिना चञ्चलबुद्धिना न्यायतो न्यायानुसारेण नेतुं प्रयोक्तुं शक्यो न भवति। कीदृशेन तर्हि शक्य इत्याह— सत्यसन्धेनाप्रतारकेण । शुचिना जितारिषड्वर्गेण । सुसहायेन पूर्वोक्त- सहायसहितेन । धीमता नयानयकुशलेन स दण्डो न्यायतो धर्मानुसारेण नेतुं शक्यः ॥ ३५५ ॥ भाषा—दण्ड को लोभी और चंचल बुद्धि वाला व्यक्ति न्यायपूर्वक नहीं चला सकता; सत्यशील, पवित्र, उत्तम सहायकों से युक्त एवं नीतिशास्त्र का विद्वान् ही उसे ( न्याय से ) चला सकता है ॥ ३५५ ॥ यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् । जगदानन्दयेत्सर्वमन्यथा ^२तत्प्रकोपयेत् ॥ ३५६ ॥ स दण्डः शास्त्रोक्तमार्गेण प्रयुज्यमानः सन् देवासुरमानवैः सहितं इदं सर्वं जगदानन्दयेत् हर्षयेत् । अन्यथा शास्त्रातिक्रमेण प्रयुक्तश्चेज्जगत्प्रको- पयेत् ॥ ३५६ ॥ भाषा—शास्त्र के अनुसार प्रयोग में लाये जाने पर दण्ड देवता, राक्षस और मनुष्यों सहित इस सम्पूर्ण संसार को आनन्दित करता है अन्यथा ( शास्त्र के विपरीत प्रयुक्त होने पर ) वह उसे कुपित ही करता है ॥ ३५६ ॥ न केवलमधर्मदण्डेन ^३जगत्प्रकोपः, अपि तु प्रयोक्तुरदृष्टादृष्टहानिरपीत्याह— अधर्मदण्डनं ^४स्वर्गकीर्तिलोकविनाशनम् । सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ ३५७ ॥ यः पुनः शास्त्रातिक्रमेण लोभादिना दण्डः कृतः स पापहेतुत्वात्स्वर्गं कीर्तिं लोकांश्च विनाशयति । शास्त्रोक्तमार्गेण तु ^५कृतो धर्महेतुत्वात्स्वर्गकीर्ति- जयानां हेतुर्भवति ॥ ३५७ ॥ भाषा—( लोभ आदि के वशीभूत होकर ) शास्त्र के विपरीत दण्ड देने से राजा के स्वर्ग, कीर्ति और ( उत्तम ) लोक का नाश हो जाता है । सम्यक् ( शास्त्रानुसार ) दण्ड देना राजा के स्वर्ग, यश और विजय का कारण होता है ॥ ३५७ ॥ अपि भ्राता सुतोऽर्थ्यो वा श्वशुरो मातुलॊऽपि वा । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ ३५८ ॥ १. ऽसुरमानुषम् । २. तु प्रकोपयेत् । ३. प्रकोपनमपि तु । ४. स्वर्गं कीर्ति लोकांश्च नाशयेत् । ५. कृतः सोऽपापहेतुत्वात् ।

१५८ याज्ञवल्क्यस्मृतिः अर्घोऽर्हार्हः आचार्यादिः। शेषः प्रसिद्धः। एते भ्रातृसुतादयोऽपि स्वधर्मा- च्चलिता दण्ड्याः, किमुतान्ये । यतः स्वधर्माच्चलितः अदण्ड्यो नाम राज्ञः कोऽपि नास्ति। एतच्च मातापित्रादिव्यतिरेकेण। तथा च स्मृत्यन्तरम्— ‘अदण्ड्यौ मातापितरौ स्नातक^१पुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशौचाचार- वन्तस्ते हि धर्माधिकारिणः’ इति ॥ ३५८ ॥ भाषा—भाई, पुत्र आचार्य आदि व्यक्ति, श्वशुर या मामा—कोई भी अपने धर्म से विचलित हो तो राजा के लिये अदण्ड्य नहीं होता (अर्थात् राजा को उसे अवश्य दण्ड देना चाहिए) ॥ ३५८ ॥ यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् । इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥ ३५९ ॥ किंच, यस्तु राजा दण्ड्यान् स्वधर्मचलनादिना दण्डयोग्यान् सम्यक शास्त्रदृष्टेन मार्गेण धिग्धनदण्डादिना दण्डयति, वध्यान्वधार्हान् घातयति तेन राज्ञा भूरिदक्षिणैः क्रतुभिरिष्टं भवति। बहुदक्षिणक्रतुफलं प्राप्नोतीत्यर्थः। न च फलश्रवणाद्दण्डप्रणयनं काम्यमिति मन्तव्यम्, अकरणे प्रायश्चित्त- स्मरणात् । यथाह वसिष्ठः (१९।४०-४४)—‘दण्ड्योत्सर्गे राजैकरात्रमुपवसेत्’, ‘त्रिरात्रं पुरोहितः’, ‘कृच्छ्रमदण्ड्यदण्डने पुरोहितः’, ‘त्रिरात्रं राजा’ इति ॥ ३५९ ॥ भाषा—जो राजा दण्डनीय व्यक्तियों को सम्यक् (शास्त्रानुसार) दण्ड देता है और वधयोग्य व्यक्तियों को मारता है, वह अधिक दक्षिणा वाले यज्ञों का फल प्राप्त करता है ॥ ३५९ ॥ ‘दुष्टे सम्यग्दण्डः प्रयोक्तव्यः’ (आ० ३५४) इत्युक्तं, दुष्टपरिज्ञानं च व्यवहारदर्शन मन्तरेण न भवतीति तत्परिज्ञानाय व्यवहारदर्शनमहरहः स्वयं कर्तव्यमित्याह— इति सञ्चिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥ ३६० ॥ इत्येवमुक्तप्रकारेण क्रतुतुल्यं फलं दण्ड्यदण्डने, स्वर्गादिनाशं चादण्ड्य- दण्डने सम्यग्विचिन्त्य पृथक्पृथग्वर्णादिक्रमेण, सभ्यैर्वक्ष्यमाणलक्षणैः परिवृतः, प्रतिदिनं व्यवहारान्वक्ष्यमाणमार्गेण^२ दुष्टादुष्टपरिज्ञानार्थं राजा स्वयं पश्येत् ॥ ३६० ॥ १. परिव्राजकपुरोहित । २. वक्ष्यमाणधर्मेण ।

\centerline{आचाराध्यायः} \hfill १५६ भाषा—इस प्रकार यज्ञ के समान फल का विचार करके राजा प्रतिदिन सभ्य अर्थात् श्रेष्ठ जनों के साथ स्वयं पृथक्-पृथक् (वर्ण आदि के क्रम से) व्यवहारों (वादों या मुकदमों) को देखे ॥ ३६० ॥ कुलानि जातीः श्रेणीश्च गणान्जानपदानपि । स्वधर्माच्चलितान् राजा विनीय स्थापयेत्पथि ॥ ३६१ ॥ कुलानि ब्राह्मणादीनाम्, जातयो मूर्धावसिक्तप्रभृतयः, श्रेणयस्ताम्बूलिका- दीनाम्, गणा हेलाबुकादीनाम्, जानपदाः, कारुकादयः, एतान्स्वधर्माच्च- लितान्प्रच्युतान् राजा यथापराधं विनीय दण्डयित्वा पथि स्वधर्मे स्थापयेत् । ‘दण्डं दुर्बृत्तेषु निपातयेत्’ (आ ३५४) इत्युक्तं, स च दण्डो द्विविधः— शारीरोऽर्थदण्डश्चेति । यथाह नारदः—‘शारीरश्चार्थदण्डश्च दण्डो हि द्विविधः स्मृतः । शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्तितः ॥ कौकिण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च ॥’ इति । द्विविधोऽप्यपराधानुसारेणानेकधा भवति । आह स्म—‘शारीरो दशधा प्रोक्तो ह्यर्थदण्डस्त्वनेकधा’ इति ॥ ३६१ ॥ भाषा—ब्राह्मण आदि कुलों, मूर्धावसिक्त आदि जातियों, ताम्बूलिक आदि श्रेणियों गणों और जनपदों को अपने धर्म से भ्रष्ट होने पर राजा दण्ड देकर पुनः धर्मसंमत मार्ग में प्रतिष्ठित करे ॥ ३६१ ॥ तत्र कृष्णलमाषसुवर्णपलादिशब्दैरर्थदण्डा वक्तव्याः, ते च प्रतिदेशं भिन्नपरिमाणार्था इत्येकरूपापराधेऽपि देशभेदेन न्यूनाधिकदण्डो मा भूदिति कृष्णलादिशब्दानां नियतपरिमाणविषयत्वं दण्डव्यवहारे दर्शयितुमाह— जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ ३६२ ॥ गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ॥ ३६३ ॥ पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । जालकान्तरप्रविष्टादित्यरश्मिस्थितं यद्रजस्तत् त्रसरेणुरित्युक्तं योगीश्वरा- दिभिस्तत्त्वदर्शिभिः । ते च त्रसरेणवोऽष्टौ लिक्षा स्वेदजयूकाण्डम् । ता लिक्षास्तिस्रो राजसर्षपो राजिका । ते राजसर्षपास्त्रयो गौरसर्षपः सिद्धार्थः । गौरसर्षपाः षड् यवो मध्यः मध्यमः, न स्थूलो न सूक्ष्मः । एतेन गौरसर्षपा अपि मध्यमा इति गम्यते । तथा राजसर्षपा अपि ‘मध्यम’ शब्दादेव । सर्षपादि- \rule{0.3\linewidth}{0.5pt} १. काठिन्यादि । \hspace{2em} २. मध्यस्त्वत्रयस्तु ते ।

शब्दाः न केवलमुन्मानवचनाः किंतु तदुन्मितद्रव्यवचना इति गम्यते, तथा प्रस्थपरिमता यवाः प्रस्थ उच्यते । एवं सर्षपाद्युन्मितं द्रव्यं सर्षपादिशब्दैः । सर्षपादिशब्दानां च केवल्योन्मानवचनत्वे त्रसरेणू'नुपसंहृत्योन्मातुमशक्यत्वात्तद् द्वारेण कृष्णलादिव्यवहारो न स्यात् । तत्र स्थूल-स्थूलतर-स्थूलतम-सूक्ष्म- सूक्ष्मतर-सूक्ष्मतम-मध्यसर्षपाद्युन्मानभेदेन प्रतिदेशं व्यवहारभेदे स्थिते दण्ड- व्यवहारे मध्य इति नियम्यते । ते मध्यमा यवास्त्रय एकः कृष्णलः । ते कृष्णलाः पञ्चैको माषः । ते माषाः षोडशैकः सुवर्णः। ते सुवर्णाश्चत्वारः पलमिति संज्ञाः कथिता इति । पञ्च वापि पलं प्रकीर्तितं नारदादिभिः । तत्र स्थूलैस्त्रिभिर्यवैः कृष्णलपरिकल्पनायां व्यावहारिकनिष्कस्य षोडशांशः कृष्णलो भवति । तैः पञ्चभिर्माषः । माषैः षोडशभिः सुवर्णः । स च व्यावहारिकैः पञ्चभिर्निष्कैरेकः सुवर्णो भवति । ते चत्वारः पलमिति । निष्काणां विंशतिः पलम् । यदा तु सूक्ष्मैस्त्रिभिर्यवैः कृष्णलः परिकल्प्यते तदा व्यावहारिकनिष्कस्य द्वात्रिंशत्तमो भागः कृष्णलो भवति । तस्मिन्पक्षे सुवर्णः सार्ध निष्कद्वयं भवति । पलं च दशनिष्कम् । यदा तु मध्यमयवैः कृष्णलपरिकल्पना तदा निष्कस्य विंशतितमो भागः कृष्णलः, सुवर्णश्चतुर्निष्कः, षोडशनिष्कं पलम् । एवं पञ्चसुवर्णं पलमिति । पक्षे विंशतिनिष्कं पलम् । एवमन्यदपि निष्कस्य चत्वारिंशो भागः कृष्णलः, द्विनिष्कः सुवर्णोऽष्टनिष्कं पलमित्यादिलोकव्यवहारानुसारेणास्मादेव सूत्रादूह- नीयम् ॥ ३६२-३६३ ॥ भाषा-जाली ( खिड़की) से भीतर प्रवेश करने वाली सूर्य-किरण में दिखलाई पड़ने वाले धूलिकण त्रसरेणु कहलाते हैं । आठ त्रसरेणु मिल कर एक लिक्षा होती है और तीन लिक्षा का एक राजसर्षप कहा जाता है। तीन राजसर्षप का एक गौरसर्षप होता है, छः गौरसर्षप का एक मध्यमयव और तीन मध्यमयव का एक कृष्णल होता है। पाँच कृष्णल का एक माष और सोलह माष का एक सुवर्ण होता है चार या पाँच सुवर्ण का एक पल कहा गया है ॥ ३६२-३६३ ॥ एवं सुवर्णस्योन्मानं प्रतिपाद्येदानीं रजतस्याह- द्वे कृष्णले २रूप्यमाषो धरणं षोडशैव ते ॥ ३६४ ॥ शतमानं तु दशभिर्धरणैः पलमेव तु । निष्कं सुवर्णाश्चत्वारः— द्वे कृष्णले पूर्वोक्ते, रूप्यमाषो रूप्यसंबन्धी माषः । ते रूप्यमाषाः षोडश धरणम् । 'पुराण' इत्यस्यैव संज्ञान्तरम्, 'ते षोडश स्याद्धरणं पुरा- १. रेणूनामुपसंहृत्य । २. रौप्य ।

आचाराध्यायः १६१ षाश्चव राजतः इति (८।१३६) मनुस्मरणात् । दशभिर्धरणैः शतमानं पलमिति चाभिधीयते । पूर्वोक्ताश्चत्वारः सुवर्णा एको राजतो निष्को भवति ॥३६४॥ इदानीं ताम्रस्योन्मानमाह— कार्षिकस्ताम्रिकः पणः ॥ ३६५ ॥ पलस्य चतुर्थोऽशः कर्ष इति लोकप्रसिद्धः । कर्षेणोन्मितः कार्षिका । ताम्रस्य विकारस्ताम्रिकः । कर्षसंमितस्ताम्रविकारः पणसंज्ञो भवति, कार्षा- पणसंज्ञकश्च; 'कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः' इति । (८।१३६) मनुवचनात् । पञ्चसुवर्णपलपक्षे विंशतिमाषः पणो भवति । तथा सति — 'माषो विंशतिमो भागः पणस्य परिकीर्तितः' इत्यादि व्यवहारः सिद्धो भवति । चतुःसुवर्णपलपक्षे तु षोडशमाषः पणो भवति । अस्मिंश्च पक्षे सुवर्ण-कार्षा- पण-पणशब्दानां समानार्थत्वेऽपि पण-कार्षापणशब्दौ ताम्रविषयावेव । एवं तावद्धेमरूप्यताम्राणामुन्मानमुक्तम् ; दण्डव्यवहारोपयोगित्वात् । कांस्यरी- तिकादीनामपि लोकव्यवहाराङ्गभूतानामेवोन्मानं द्रष्टव्यम् ॥ ३६५ ॥ भाषा—दो कृष्णल का एक रूप्यमाष होता है । सोलह रूप्यमाष का एक धरण होता है । दश धरणों का एक सौ मान वाला पल होता है । (पूर्वोक्त) चार सुवर्ण का एक निष्क कहलाता है । एक कर्ष (पल के चतुर्थांश) के बराबर ताँबे के सिक्के या तोल को पण कहा जाता है ॥ ३६४-३६५ ॥ स्वशास्त्रपरिभाषामाह— साशीतिपणसाहस्रो दण्ड उत्तमसाहसः । तदर्धं मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥ ३६६ ॥ पणानां सहस्त्र पणसहस्रम्; तत्परिमाणमस्येति पणसाहस्त्रः । अशीत्या सह वर्तत इति साशीतिः । अशीत्यधिकपणसहस्रपरिमितो यो दण्डः स 'उत्तमसाहस'संज्ञो वेदितव्यः । तदर्धं मध्यमः तस्य साशीतिपणसहस्रस्यार्ध- चत्वारिंशदधिकपणपञ्चशतपरिमितो दण्डो 'मध्यमसाहस' संज्ञः । तदर्धमधमः तस्य चत्वारिंशदधिकपञ्चशतपणस्यार्धं सप्तत्यधिकपणशतद्वयपरिमितो दण्डः 'अधमसाहस' संज्ञः स्मृत उक्तो मन्वादिभिः । यत्त—'पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमं पञ्च विज्ञेयः सहस्रं चैव चोत्तमः' इति (८।१३८) मनुनावक्तं तत्पक्षान्तरमसंपतिपूर्वापराधविषयं द्रष्टव्यम् ॥ ३६६ ॥ भाषा—एक हजार अस्सी पण का दण्ड उत्तम साहस में होता है, उससे भी आधा मध्यम साहस में दण्ड होता है । मध्यम साहस के आधा दण्ड अधम या प्रथम साहस के लिये होता है ॥ ३६६ ॥ ११ या०

१६२ याज्ञवल्क्यस्मृतिः

दण्डभेदानाह- धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा । योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे ॥ ३६७ ॥

धिग्दण्डो धिग्धिगिति कुत्सनम्, वाग्दण्डस्त, परुषशापवचनात्मकः, धन- दण्डो धनापहारात्मकः, वधदण्डः शरीरोऽवरोधादिजीवितान्तः, एते चतु- र्विधा दण्डाः व्यस्ता एकैकशः समस्ताः द्वित्राः त्रिचतुरो वाऽपराधानुसारेण प्रयोक्तव्याः । उक्तक्रमेण पूर्वपूर्वासाध्ये उत्तर उत्तरः प्रयोक्तव्यः । यथाह मनुः ( ८।१२६ ) 'धिग्दण्डं प्रथमे कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीये धनदण्डं तु वधदण्डमतः परम् ॥' इति ॥ ३६७ ॥

भाषा-धिग्दण्ड ( धिक्कार के वचन ), वाग्दण्ड ( कठोर वचनों द्वारा फटकारना ), धन दण्ड, और वध ( शारीरिक दण्ड )-इन दण्डों में सबका या एक एक का अपराध के अनुसार प्रयोग करना चाहिए ॥ ३६७ ॥

दण्डव्यवस्थानिमित्तान्याह- ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा । वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ ३६८ ॥

यथापराधं ज्ञात्वा तदनुसारेण दण्डप्रणयनं कुर्वीत । एवं देशकालवयः- कर्मवित्तानि ज्ञात्वा तदनुसारेण दण्ड्येषु दण्डार्हेषु दण्डप्रणयनं कुर्यात् । तथा बुद्धिपूर्वाबुद्धिपूर्वसकृदावृत्त्यनुसारेण च । यद्यपि राजानमधिकृत्यायं राजधर्मकलाप उक्तस्तथापि वर्णान्तरस्यापि विषयमण्डलादिपरिपालनाधि- कृतस्यायं धर्मो वेदितव्यः । 'राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः' (मन. ७।१) इत्यत्र पृथङ्नृपग्रहणात्करग्रहणस्य रक्षार्थत्वात् , रक्षणस्य च दण्डप्रणयनायत्तत्वादिति ॥ ३६८ ॥

भाषा-अपराध, देश, समय, शक्ति, आयु, कार्य और धन का पता लग करके ही दण्डनीय व्यक्तियों को ( अपराधियों को ) दण्ड देना चाहिए ॥ ३६८ ॥

इति श्रीपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकविज्ञानेश्वर- भट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्रविवृतौ सदाचारः प्रथमोऽध्यायः ॥

उत्तमोपपदस्येयं शिष्यस्य कृतिरात्मनः । धर्मशास्त्रस्य विवृत्तिर्विज्ञानेश्वरयोगिनः ॥