भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

आचाराध्यायः १५५ पौर्वदेहिकं कर्म । तस्मात्पुरुषकाराभावे न दैवमस्तीति पुरुषकारे यत्नो विधातव्यः ॥ ३४९ ॥ भाषा—( इष्ट या अनिष्ट ) फल की प्राप्ति दैव ( भाग्य ) और पुरुष ( अपने कर्म ) से होती है। इसमें दैव ( भाग्य ) [ इस जन्म में अल्प प्रयत्न से अधिक फल के रूप में ] अभिव्यक्त पूर्व शरीर द्वारा किया गया कर्म ही होता है ॥ ३४९ ॥ इदानीं मतान्तराण्याह— केचिद् १दैवात्स्वभावाद्वा कालात्पुरुषकारतः । संयोगे २केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ ३५० ॥ केचिदिष्टानिष्टलक्षणं फलं दैवादेवेच्छन्ति । केचित्स्वभावात्स्वयमेव भवति, न कारणमपेक्षत इति । केचित्कालात् । केचित्पुरुषकारत एवेति । इदानीं स्वमतमाह—दैवादीनां संयोगे समुच्चये फलं भवतीति कुशलबुद्धयो मन्वादयो मन्यन्ते ॥ ३५० ॥ भाषा—कुछ लोग ( इष्ट या अनिष्ट ) फल को भाग्य या स्वभाव से उत्पन्न मानते हैं; कुछ लोग समय को और कुछ लोग पौरुष या कर्म को फल का कारण मानते हैं । कुछ बुद्धिमानों ने इन सबके संयोग ( मिलने ) से फल की उत्पत्ति मानी है ॥ ३५० ॥ एकैकस्मात्फलं न भवतीत्यत्र दृष्टान्तमाह— यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिद्ध्यति ॥ ३५१ ॥ नात्र तिरोहितमस्ति ॥ ३५१ ॥ भाषा—जिस प्रकार एक पहिए से रथ चल सकता, उसी प्रकार पौरुष के विना भी भाग्य या दैव की सिद्धि नहीं होती है ॥ ३५१ ॥ लाभाय परराष्ट्रं गन्तव्यमित्युक्तम् । लाभश्च त्रिविधः हिरण्यलाभो मूललाभो मित्रलाभश्चेति, तेषु मित्रलाभो ज्यायान् । ततस्तत्प्राप्त्युपाये यत्नो विधातव्यः । तत्प्राप्त्युपायश्च सत्यवचनमित्याह— हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत ४तत्प्राप्त्यै रक्षेत्सत्यं समाहितः ॥ ३५२ ॥ १. केचिद्दैवाद्धठात्केचित्केचित् । २. सिद्ध्यन्त्यर्था मनुष्याणां तेषां योनिरतु पौरुषम् । ३. लाभेषु ( = हिरण्य-भू-मित्रलाभानां मध्ये ) । ४. तत्प्राप्तौ ।

१५६ याज्ञवल्क्यस्मृतिः यस्मात् हिरण्यभूमित्रलाभेभ्यो मित्रलब्धिर्वरा उत्कृष्टा तस्मात्तत्प्राप्त्यै यतेत यत्नं कुर्यात् सामादिभिः । सत्यं च रक्षेत् । समाहितः सावधानः । सत्यमूलत्वा- न्मित्रलाभस्य ॥ ३५२ ॥ भाषा—सुवर्ण भूमि के लाभ से मित्र की प्राप्ति उत्कृष्ट है । अतः एव मित्र की प्राप्ति के लिए यत्न करना चाहिए और सावधान होकर सत्यता की रक्षा करनी चाहिए ॥ ३५२ ॥ इदानीं राज्याङ्गान्याह— १स्वाम्यमात्या जनो दुर्गं कोशो दण्डस्तथैव च । मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ॥ ३५३ ॥ 'महोत्साह' ( आ० ३०९ ) इत्याद्युक्तलक्षणो महीपतिः स्वामी, अमात्याः मन्त्रिमपुरोहितादयः, जनो ब्राह्मणादिप्रजाः, दुर्गं धन्वदुर्गादि, कोशः सुवर्णादि- धनराशिः, दण्डो हस्त्यश्वरथपत्तिलक्षणं चतुरङ्गबलम् । मित्राणि सहजकृत्रिम- प्राकृतानि, एताः स्वाम्याद्याः राज्यस्य प्रकृतयो मूलकारणानि । एवं राज्यं सप्ताङ्गमुच्यते ॥ ३५३ ॥ भाषा—राजा, अमात्य ( मन्त्री, पुरोहित आदि ), प्रजा, दुर्ग, कोश, दण्ड ( सेना ) और मित्र—ये राज्य के मूल कारण हैं; अतः राज्य को सप्ताङ्ग कहा जाता है ॥ ३५३ ॥ तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ ३५४ ॥ तदेवंविधं राज्यं प्राप्य दुर्वृत्तेषु वञ्चकशठधूर्तपरदारपरद्रव्यापहारिहिंसकादिषु नृपो दण्डं पातयेत् प्रयोजयेत् हि यस्माद्धर्म एव दण्डरूपेण पूर्वं ब्रह्मणा निर्मितः। तस्य च दण्ड इति यौगिकी संज्ञा—'दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत्' ( ११।१२८ ) इत्यादिगौतमस्मरणात् ॥ ३५४ ॥ भाषा—इस प्रकार का राज्य प्राप्त करके राजा दुराचारियों अर्थात् अपराधियों को दण्ड देवे; क्योंकि आदि काल में ब्रह्मा ने दण्ड के रूप में धर्म की ही सृष्टि की है ॥ ३५४ ॥ स २नेतुं न्यायतोऽशक्यो ३लुब्धेनाकृतबुद्धिना । सत्यसंधेन शुचिना सुसहायेन धीमता ॥ ३५५ ॥ १. स्वाम्यमात्यौ । २. न्यायतः शक्यो ( =न्यायतो यथाशास्त्रं नेतुं प्रणेतुं शक्यः) । ३. ऽलुब्धेन कृतबुद्धिना ( = अलुब्धेन न्यायधनव्ययकारिणा कृत- बुद्धिना लब्धप्रज्ञेन ) ।

आचाराध्यायः १५७ स पूर्वोक्तो दण्डो लुब्धेन कृपणेनाकृतबुद्धिना चञ्चलबुद्धिना न्यायतो न्यायानुसारेण नेतुं प्रयोक्तुं शक्यो न भवति। कीदृशेन तर्हि शक्य इत्याह— सत्यसन्धेनाप्रतारकेण । शुचिना जितारिषड्वर्गेण । सुसहायेन पूर्वोक्त- सहायसहितेन । धीमता नयानयकुशलेन स दण्डो न्यायतो धर्मानुसारेण नेतुं शक्यः ॥ ३५५ ॥ भाषा—दण्ड को लोभी और चंचल बुद्धि वाला व्यक्ति न्यायपूर्वक नहीं चला सकता; सत्यशील, पवित्र, उत्तम सहायकों से युक्त एवं नीतिशास्त्र का विद्वान् ही उसे ( न्याय से ) चला सकता है ॥ ३५५ ॥ यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् । जगदानन्दयेत्सर्वमन्यथा ^२तत्प्रकोपयेत् ॥ ३५६ ॥ स दण्डः शास्त्रोक्तमार्गेण प्रयुज्यमानः सन् देवासुरमानवैः सहितं इदं सर्वं जगदानन्दयेत् हर्षयेत् । अन्यथा शास्त्रातिक्रमेण प्रयुक्तश्चेज्जगत्प्रको- पयेत् ॥ ३५६ ॥ भाषा—शास्त्र के अनुसार प्रयोग में लाये जाने पर दण्ड देवता, राक्षस और मनुष्यों सहित इस सम्पूर्ण संसार को आनन्दित करता है अन्यथा ( शास्त्र के विपरीत प्रयुक्त होने पर ) वह उसे कुपित ही करता है ॥ ३५६ ॥ न केवलमधर्मदण्डेन ^३जगत्प्रकोपः, अपि तु प्रयोक्तुरदृष्टादृष्टहानिरपीत्याह— अधर्मदण्डनं ^४स्वर्गकीर्तिलोकविनाशनम् । सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ ३५७ ॥ यः पुनः शास्त्रातिक्रमेण लोभादिना दण्डः कृतः स पापहेतुत्वात्स्वर्गं कीर्तिं लोकांश्च विनाशयति । शास्त्रोक्तमार्गेण तु ^५कृतो धर्महेतुत्वात्स्वर्गकीर्ति- जयानां हेतुर्भवति ॥ ३५७ ॥ भाषा—( लोभ आदि के वशीभूत होकर ) शास्त्र के विपरीत दण्ड देने से राजा के स्वर्ग, कीर्ति और ( उत्तम ) लोक का नाश हो जाता है । सम्यक् ( शास्त्रानुसार ) दण्ड देना राजा के स्वर्ग, यश और विजय का कारण होता है ॥ ३५७ ॥ अपि भ्राता सुतोऽर्थ्यो वा श्वशुरो मातुलॊऽपि वा । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ ३५८ ॥ १. ऽसुरमानुषम् । २. तु प्रकोपयेत् । ३. प्रकोपनमपि तु । ४. स्वर्गं कीर्ति लोकांश्च नाशयेत् । ५. कृतः सोऽपापहेतुत्वात् ।

१५८ याज्ञवल्क्यस्मृतिः अर्घोऽर्हार्हः आचार्यादिः। शेषः प्रसिद्धः। एते भ्रातृसुतादयोऽपि स्वधर्मा- च्चलिता दण्ड्याः, किमुतान्ये । यतः स्वधर्माच्चलितः अदण्ड्यो नाम राज्ञः कोऽपि नास्ति। एतच्च मातापित्रादिव्यतिरेकेण। तथा च स्मृत्यन्तरम्— ‘अदण्ड्यौ मातापितरौ स्नातक^१पुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशौचाचार- वन्तस्ते हि धर्माधिकारिणः’ इति ॥ ३५८ ॥ भाषा—भाई, पुत्र आचार्य आदि व्यक्ति, श्वशुर या मामा—कोई भी अपने धर्म से विचलित हो तो राजा के लिये अदण्ड्य नहीं होता (अर्थात् राजा को उसे अवश्य दण्ड देना चाहिए) ॥ ३५८ ॥ यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् । इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥ ३५९ ॥ किंच, यस्तु राजा दण्ड्यान् स्वधर्मचलनादिना दण्डयोग्यान् सम्यक शास्त्रदृष्टेन मार्गेण धिग्धनदण्डादिना दण्डयति, वध्यान्वधार्हान् घातयति तेन राज्ञा भूरिदक्षिणैः क्रतुभिरिष्टं भवति। बहुदक्षिणक्रतुफलं प्राप्नोतीत्यर्थः। न च फलश्रवणाद्दण्डप्रणयनं काम्यमिति मन्तव्यम्, अकरणे प्रायश्चित्त- स्मरणात् । यथाह वसिष्ठः (१९।४०-४४)—‘दण्ड्योत्सर्गे राजैकरात्रमुपवसेत्’, ‘त्रिरात्रं पुरोहितः’, ‘कृच्छ्रमदण्ड्यदण्डने पुरोहितः’, ‘त्रिरात्रं राजा’ इति ॥ ३५९ ॥ भाषा—जो राजा दण्डनीय व्यक्तियों को सम्यक् (शास्त्रानुसार) दण्ड देता है और वधयोग्य व्यक्तियों को मारता है, वह अधिक दक्षिणा वाले यज्ञों का फल प्राप्त करता है ॥ ३५९ ॥ ‘दुष्टे सम्यग्दण्डः प्रयोक्तव्यः’ (आ० ३५४) इत्युक्तं, दुष्टपरिज्ञानं च व्यवहारदर्शन मन्तरेण न भवतीति तत्परिज्ञानाय व्यवहारदर्शनमहरहः स्वयं कर्तव्यमित्याह— इति सञ्चिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥ ३६० ॥ इत्येवमुक्तप्रकारेण क्रतुतुल्यं फलं दण्ड्यदण्डने, स्वर्गादिनाशं चादण्ड्य- दण्डने सम्यग्विचिन्त्य पृथक्पृथग्वर्णादिक्रमेण, सभ्यैर्वक्ष्यमाणलक्षणैः परिवृतः, प्रतिदिनं व्यवहारान्वक्ष्यमाणमार्गेण^२ दुष्टादुष्टपरिज्ञानार्थं राजा स्वयं पश्येत् ॥ ३६० ॥ १. परिव्राजकपुरोहित । २. वक्ष्यमाणधर्मेण ।

\centerline{आचाराध्यायः} \hfill १५६ भाषा—इस प्रकार यज्ञ के समान फल का विचार करके राजा प्रतिदिन सभ्य अर्थात् श्रेष्ठ जनों के साथ स्वयं पृथक्-पृथक् (वर्ण आदि के क्रम से) व्यवहारों (वादों या मुकदमों) को देखे ॥ ३६० ॥ कुलानि जातीः श्रेणीश्च गणान्जानपदानपि । स्वधर्माच्चलितान् राजा विनीय स्थापयेत्पथि ॥ ३६१ ॥ कुलानि ब्राह्मणादीनाम्, जातयो मूर्धावसिक्तप्रभृतयः, श्रेणयस्ताम्बूलिका- दीनाम्, गणा हेलाबुकादीनाम्, जानपदाः, कारुकादयः, एतान्स्वधर्माच्च- लितान्प्रच्युतान् राजा यथापराधं विनीय दण्डयित्वा पथि स्वधर्मे स्थापयेत् । ‘दण्डं दुर्बृत्तेषु निपातयेत्’ (आ ३५४) इत्युक्तं, स च दण्डो द्विविधः— शारीरोऽर्थदण्डश्चेति । यथाह नारदः—‘शारीरश्चार्थदण्डश्च दण्डो हि द्विविधः स्मृतः । शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्तितः ॥ कौकिण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च ॥’ इति । द्विविधोऽप्यपराधानुसारेणानेकधा भवति । आह स्म—‘शारीरो दशधा प्रोक्तो ह्यर्थदण्डस्त्वनेकधा’ इति ॥ ३६१ ॥ भाषा—ब्राह्मण आदि कुलों, मूर्धावसिक्त आदि जातियों, ताम्बूलिक आदि श्रेणियों गणों और जनपदों को अपने धर्म से भ्रष्ट होने पर राजा दण्ड देकर पुनः धर्मसंमत मार्ग में प्रतिष्ठित करे ॥ ३६१ ॥ तत्र कृष्णलमाषसुवर्णपलादिशब्दैरर्थदण्डा वक्तव्याः, ते च प्रतिदेशं भिन्नपरिमाणार्था इत्येकरूपापराधेऽपि देशभेदेन न्यूनाधिकदण्डो मा भूदिति कृष्णलादिशब्दानां नियतपरिमाणविषयत्वं दण्डव्यवहारे दर्शयितुमाह— जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ ३६२ ॥ गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ॥ ३६३ ॥ पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । जालकान्तरप्रविष्टादित्यरश्मिस्थितं यद्रजस्तत् त्रसरेणुरित्युक्तं योगीश्वरा- दिभिस्तत्त्वदर्शिभिः । ते च त्रसरेणवोऽष्टौ लिक्षा स्वेदजयूकाण्डम् । ता लिक्षास्तिस्रो राजसर्षपो राजिका । ते राजसर्षपास्त्रयो गौरसर्षपः सिद्धार्थः । गौरसर्षपाः षड् यवो मध्यः मध्यमः, न स्थूलो न सूक्ष्मः । एतेन गौरसर्षपा अपि मध्यमा इति गम्यते । तथा राजसर्षपा अपि ‘मध्यम’ शब्दादेव । सर्षपादि- \rule{0.3\linewidth}{0.5pt} १. काठिन्यादि । \hspace{2em} २. मध्यस्त्वत्रयस्तु ते ।

शब्दाः न केवलमुन्मानवचनाः किंतु तदुन्मितद्रव्यवचना इति गम्यते, तथा प्रस्थपरिमता यवाः प्रस्थ उच्यते । एवं सर्षपाद्युन्मितं द्रव्यं सर्षपादिशब्दैः । सर्षपादिशब्दानां च केवल्योन्मानवचनत्वे त्रसरेणू'नुपसंहृत्योन्मातुमशक्यत्वात्तद् द्वारेण कृष्णलादिव्यवहारो न स्यात् । तत्र स्थूल-स्थूलतर-स्थूलतम-सूक्ष्म- सूक्ष्मतर-सूक्ष्मतम-मध्यसर्षपाद्युन्मानभेदेन प्रतिदेशं व्यवहारभेदे स्थिते दण्ड- व्यवहारे मध्य इति नियम्यते । ते मध्यमा यवास्त्रय एकः कृष्णलः । ते कृष्णलाः पञ्चैको माषः । ते माषाः षोडशैकः सुवर्णः। ते सुवर्णाश्चत्वारः पलमिति संज्ञाः कथिता इति । पञ्च वापि पलं प्रकीर्तितं नारदादिभिः । तत्र स्थूलैस्त्रिभिर्यवैः कृष्णलपरिकल्पनायां व्यावहारिकनिष्कस्य षोडशांशः कृष्णलो भवति । तैः पञ्चभिर्माषः । माषैः षोडशभिः सुवर्णः । स च व्यावहारिकैः पञ्चभिर्निष्कैरेकः सुवर्णो भवति । ते चत्वारः पलमिति । निष्काणां विंशतिः पलम् । यदा तु सूक्ष्मैस्त्रिभिर्यवैः कृष्णलः परिकल्प्यते तदा व्यावहारिकनिष्कस्य द्वात्रिंशत्तमो भागः कृष्णलो भवति । तस्मिन्पक्षे सुवर्णः सार्ध निष्कद्वयं भवति । पलं च दशनिष्कम् । यदा तु मध्यमयवैः कृष्णलपरिकल्पना तदा निष्कस्य विंशतितमो भागः कृष्णलः, सुवर्णश्चतुर्निष्कः, षोडशनिष्कं पलम् । एवं पञ्चसुवर्णं पलमिति । पक्षे विंशतिनिष्कं पलम् । एवमन्यदपि निष्कस्य चत्वारिंशो भागः कृष्णलः, द्विनिष्कः सुवर्णोऽष्टनिष्कं पलमित्यादिलोकव्यवहारानुसारेणास्मादेव सूत्रादूह- नीयम् ॥ ३६२-३६३ ॥ भाषा-जाली ( खिड़की) से भीतर प्रवेश करने वाली सूर्य-किरण में दिखलाई पड़ने वाले धूलिकण त्रसरेणु कहलाते हैं । आठ त्रसरेणु मिल कर एक लिक्षा होती है और तीन लिक्षा का एक राजसर्षप कहा जाता है। तीन राजसर्षप का एक गौरसर्षप होता है, छः गौरसर्षप का एक मध्यमयव और तीन मध्यमयव का एक कृष्णल होता है। पाँच कृष्णल का एक माष और सोलह माष का एक सुवर्ण होता है चार या पाँच सुवर्ण का एक पल कहा गया है ॥ ३६२-३६३ ॥ एवं सुवर्णस्योन्मानं प्रतिपाद्येदानीं रजतस्याह- द्वे कृष्णले २रूप्यमाषो धरणं षोडशैव ते ॥ ३६४ ॥ शतमानं तु दशभिर्धरणैः पलमेव तु । निष्कं सुवर्णाश्चत्वारः— द्वे कृष्णले पूर्वोक्ते, रूप्यमाषो रूप्यसंबन्धी माषः । ते रूप्यमाषाः षोडश धरणम् । 'पुराण' इत्यस्यैव संज्ञान्तरम्, 'ते षोडश स्याद्धरणं पुरा- १. रेणूनामुपसंहृत्य । २. रौप्य ।

आचाराध्यायः १६१ षाश्चव राजतः इति (८।१३६) मनुस्मरणात् । दशभिर्धरणैः शतमानं पलमिति चाभिधीयते । पूर्वोक्ताश्चत्वारः सुवर्णा एको राजतो निष्को भवति ॥३६४॥ इदानीं ताम्रस्योन्मानमाह— कार्षिकस्ताम्रिकः पणः ॥ ३६५ ॥ पलस्य चतुर्थोऽशः कर्ष इति लोकप्रसिद्धः । कर्षेणोन्मितः कार्षिका । ताम्रस्य विकारस्ताम्रिकः । कर्षसंमितस्ताम्रविकारः पणसंज्ञो भवति, कार्षा- पणसंज्ञकश्च; 'कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः' इति । (८।१३६) मनुवचनात् । पञ्चसुवर्णपलपक्षे विंशतिमाषः पणो भवति । तथा सति — 'माषो विंशतिमो भागः पणस्य परिकीर्तितः' इत्यादि व्यवहारः सिद्धो भवति । चतुःसुवर्णपलपक्षे तु षोडशमाषः पणो भवति । अस्मिंश्च पक्षे सुवर्ण-कार्षा- पण-पणशब्दानां समानार्थत्वेऽपि पण-कार्षापणशब्दौ ताम्रविषयावेव । एवं तावद्धेमरूप्यताम्राणामुन्मानमुक्तम् ; दण्डव्यवहारोपयोगित्वात् । कांस्यरी- तिकादीनामपि लोकव्यवहाराङ्गभूतानामेवोन्मानं द्रष्टव्यम् ॥ ३६५ ॥ भाषा—दो कृष्णल का एक रूप्यमाष होता है । सोलह रूप्यमाष का एक धरण होता है । दश धरणों का एक सौ मान वाला पल होता है । (पूर्वोक्त) चार सुवर्ण का एक निष्क कहलाता है । एक कर्ष (पल के चतुर्थांश) के बराबर ताँबे के सिक्के या तोल को पण कहा जाता है ॥ ३६४-३६५ ॥ स्वशास्त्रपरिभाषामाह— साशीतिपणसाहस्रो दण्ड उत्तमसाहसः । तदर्धं मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥ ३६६ ॥ पणानां सहस्त्र पणसहस्रम्; तत्परिमाणमस्येति पणसाहस्त्रः । अशीत्या सह वर्तत इति साशीतिः । अशीत्यधिकपणसहस्रपरिमितो यो दण्डः स 'उत्तमसाहस'संज्ञो वेदितव्यः । तदर्धं मध्यमः तस्य साशीतिपणसहस्रस्यार्ध- चत्वारिंशदधिकपणपञ्चशतपरिमितो दण्डो 'मध्यमसाहस' संज्ञः । तदर्धमधमः तस्य चत्वारिंशदधिकपञ्चशतपणस्यार्धं सप्तत्यधिकपणशतद्वयपरिमितो दण्डः 'अधमसाहस' संज्ञः स्मृत उक्तो मन्वादिभिः । यत्त—'पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमं पञ्च विज्ञेयः सहस्रं चैव चोत्तमः' इति (८।१३८) मनुनावक्तं तत्पक्षान्तरमसंपतिपूर्वापराधविषयं द्रष्टव्यम् ॥ ३६६ ॥ भाषा—एक हजार अस्सी पण का दण्ड उत्तम साहस में होता है, उससे भी आधा मध्यम साहस में दण्ड होता है । मध्यम साहस के आधा दण्ड अधम या प्रथम साहस के लिये होता है ॥ ३६६ ॥ ११ या०

१६२ याज्ञवल्क्यस्मृतिः

दण्डभेदानाह- धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा । योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे ॥ ३६७ ॥

धिग्दण्डो धिग्धिगिति कुत्सनम्, वाग्दण्डस्त, परुषशापवचनात्मकः, धन- दण्डो धनापहारात्मकः, वधदण्डः शरीरोऽवरोधादिजीवितान्तः, एते चतु- र्विधा दण्डाः व्यस्ता एकैकशः समस्ताः द्वित्राः त्रिचतुरो वाऽपराधानुसारेण प्रयोक्तव्याः । उक्तक्रमेण पूर्वपूर्वासाध्ये उत्तर उत्तरः प्रयोक्तव्यः । यथाह मनुः ( ८।१२६ ) 'धिग्दण्डं प्रथमे कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीये धनदण्डं तु वधदण्डमतः परम् ॥' इति ॥ ३६७ ॥

भाषा-धिग्दण्ड ( धिक्कार के वचन ), वाग्दण्ड ( कठोर वचनों द्वारा फटकारना ), धन दण्ड, और वध ( शारीरिक दण्ड )-इन दण्डों में सबका या एक एक का अपराध के अनुसार प्रयोग करना चाहिए ॥ ३६७ ॥

दण्डव्यवस्थानिमित्तान्याह- ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा । वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ ३६८ ॥

यथापराधं ज्ञात्वा तदनुसारेण दण्डप्रणयनं कुर्वीत । एवं देशकालवयः- कर्मवित्तानि ज्ञात्वा तदनुसारेण दण्ड्येषु दण्डार्हेषु दण्डप्रणयनं कुर्यात् । तथा बुद्धिपूर्वाबुद्धिपूर्वसकृदावृत्त्यनुसारेण च । यद्यपि राजानमधिकृत्यायं राजधर्मकलाप उक्तस्तथापि वर्णान्तरस्यापि विषयमण्डलादिपरिपालनाधि- कृतस्यायं धर्मो वेदितव्यः । 'राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः' (मन. ७।१) इत्यत्र पृथङ्नृपग्रहणात्करग्रहणस्य रक्षार्थत्वात् , रक्षणस्य च दण्डप्रणयनायत्तत्वादिति ॥ ३६८ ॥

भाषा-अपराध, देश, समय, शक्ति, आयु, कार्य और धन का पता लग करके ही दण्डनीय व्यक्तियों को ( अपराधियों को ) दण्ड देना चाहिए ॥ ३६८ ॥

इति श्रीपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकविज्ञानेश्वर- भट्टारकस्य कृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्रविवृतौ सदाचारः प्रथमोऽध्यायः ॥

उत्तमोपपदस्येयं शिष्यस्य कृतिरात्मनः । धर्मशास्त्रस्य विवृत्तिर्विज्ञानेश्वरयोगिनः ॥

साधारणव्यवहारमातृकाप्रकरणम्

व्यवहाराध्यायः साधारणव्यवहारमातृकाप्रकरणम् अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनं परमो धर्मः। तच्च दुष्टनिग्रह- मन्तरेण न संभवति। दुष्टपरिज्ञानं च न व्यवहारदर्शनमन्तरेण संभवति। तच्चव्यवहारदर्शनमहरहः कर्तव्यमित्युक्तं (आ० ३६०)—'व्यवहारान्नृपः पश्येत्सभ्यैः परिवृतोऽन्वहम्' इति। स च व्यवहारः कीदृशः, कतिविधः, कथं चेतीतिकर्तव्यताकलापो नाभिहितः, तदभिधानाय द्वितीयोऽध्यायः प्रारभ्यते— व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह । धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ १ ॥ व्यवहारानिति । अन्यविरोधेन स्वात्मसंबन्धितया कथनं व्यवहारः । यथा कश्चिदिदं क्षेत्रादि मदीयमिति कथयति, अन्योऽपि तद्विरोधेन मदीयमिति । तस्यानेकविधत्वं दर्शयति बहुवचनेन । नृप इति न क्षत्रियमात्रस्यायं धर्मः किंतु प्रजापालनाधिकृतस्यान्यस्यापीति दर्शयति । पश्येदिति पूर्वोक्तस्यानुवादो धर्म- विशेषविधानार्थः । विद्वद्भिर्वेदव्याकरणादिधर्मशास्त्राभिज्ञैः । ब्राह्मणैर्न क्षत्रिया- दिभिः । 'ब्राह्मणैः सह' इति तृतीयानिर्देशादेषामप्राधान्यम् । 'सहयुक्तेऽप्रधाने' ( पा. २।३।१९ ) इति स्मरणात् । अतश्चादर्शनेऽन्यथादर्शने वा राज्ञो दोषो न ब्राह्मणानाम् । यथाह मनुः ( ८।१२८ )—'अदण्ड्यान्दण्डयन् राजा दण्ड्यांश्चैवा- प्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥' इति । कथम् ? धर्मशा- स्त्रानुसारेण, नार्थशास्त्रानुसारेण । देशादिसमयधर्मस्यापि धर्मशास्त्राविरुद्धस्य धर्मशास्त्रविषयत्वान्न पृथगुपादानम् । तथा च वक्ष्यति (व्य० १८६)—'निजधर्मा- विरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥' इति क्रोधलोभविवर्जित इति । 'धर्मशास्त्रानुसारेण' इति सिद्धे 'क्रोधलोभवि- वर्जितः' इति वचनमादरार्थम् । क्रोधोऽमर्षः, लोभो लिप्सातिशयः ॥ १ ॥ भाषा—राजा क्रोध और लोभ त्यागकर (नीति के) विद्वान् ब्राह्मणों के साथ धर्मशास्त्र के अनुसार व्यवहारों (वादों, मुकदमों) पर विचार करे ॥ १ ॥ १. दर्शनेन विनेति व्यवहारदर्शनं । २. चापिगच्छति । ११ या०

१६४ याज्ञवल्क्यस्मृतिः सभ्यानाह— श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः । राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ २ ॥ किं च, श्रुताध्ययनसंपन्नाः श्रुतेन मीमांसाव्याकरणादिश्रवणेन अध्ययनेन च वेदाध्ययनेन संपन्नाः, धर्मज्ञाः, धर्मशास्त्रज्ञाः, सत्यवादिनः सत्यवचन- शीलाः, रिपौ मित्रे च ये समाः रागद्वेषादिरहिताः, एवंभूताः सभासदः सभायां संसदि यथा सीदन्त्युपविशन्ति तथा दानमानसत्कारैः राज्ञा कर्तव्याः । यद्यपि 'श्रुताध्ययनसंपन्नाः' इत्यविशेषेणोक्तं, तथापि ब्राह्मणा एव । यथाह कात्या- यनः—'स तु सभ्यैः स्थिरैर्युक्तः प्राज्ञैमौलैर्द्विजोत्तमैः । धर्मशास्त्रार्थकुशलैरर्थ- शास्त्रविशारदैः ॥' इति । ते च त्रयः कर्तव्याः, बहुवचनस्यार्थवत्त्वात् 'यस्मिन्देशे निषीदन्ति विप्रा वेदविदस्त्रयः' इति (८।११) मनुस्मरणाच्च । बृहस्पतिस्तु सप्त पञ्च त्रयो वा सभासदो भवन्तीत्याह—'लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा । यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥' (१।११) इति । नच 'ब्राह्मणैः सह' इति पूर्वश्लोकोक्तानां ब्राह्मणानां 'श्रुताध्ययनसंपन्नाः' इत्यादि विशे- षणमिति मन्तव्यम् ; तृतीयाप्रथमान्तनिर्दिष्टानां विशेषणविशेष्यभावासंभवात्, 'विद्वद्भिः' इत्यनेन पुनरुक्तिप्रसङ्गाच्च । तथा च कात्यायनेन ब्राह्मणानां सभासदां च स्पष्टं भेदो दर्शितः—'सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः । ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥' इति । तत्र ब्राह्मणा अनियुक्ताः, सभासद- स्तु नियुक्ता इति भेदः । अत एवोक्तम्—'नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वक्तुमर्हति' इति । तत्र नियुक्तानां यथावस्थितार्थकथनेऽपि यदि राजाऽन्यथा करोति तदाऽसौ निवारणीयः, अन्यथा दोषः । उक्तं च कात्यायनेन—'अन्या- येनापि तं यान्तं येऽनुयान्ति सभासदः । तेऽपि तद्भागिनस्तस्माद्बोधनीयः स तैर्नृपः ॥' इति । अनियुक्तानां पुनरन्यथाभिधानेऽनभिधाने वा दोषो नतु राज्ञोऽनिवारणे—'सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अब्रुवन्विब्रुव- न्वापि नरो भवति किल्बिषी ॥' इति (८।१३) मनुस्मरणात् 'रिपौ मित्रे च' इति चकाराल्लोकरञ्जनार्थं कतिपयैर्वणिग्भिरप्यधिष्ठितं सदः कर्तव्यम् । यथाह कात्यायनः—'कुलशीलवयोवृत्तवित्तवद्भिरमत्सरैः । वणिग्भिः स्यात्कतिपयैः कुलभूतैरधिष्ठितम् ॥' इति ॥ २ ॥ भाषा—राजा वेदादि के अध्ययन से युक्त, धर्मशास्त्र के ज्ञाता, सत्यवादी तथा शत्रु एवं मित्र के प्रति समान भाव वाले (रागद्वेषरहित) पुरुषों को सभासद् बनावे ॥ २ ॥ १. च भेदः स्पष्टो । २. सभां वा न प्रवेष्टव्यं ।

व्यवहारोध्यायः १६५ 'व्यवहारान्नृपः पश्येत्' (व्य० १) इत्युक्तं, तत्रानुकल्पमाह— अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु । सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ ३ ॥ कार्यान्तरव्याकुलतया व्यवहारानपश्यता नृपेण पूर्वोक्तैः सभ्यैः सह सर्वधर्मवित् सर्वान्धर्मशास्त्रोक्तान्सामयिकांश्च धर्मान्वेत्ति विचारयतीति सर्वध- र्मवित् ब्राह्मणो न क्षत्रियादिर्नियोक्तव्यो व्यवहारदर्शने । तं च कात्यायनो- क्तगुणविशिष्टं कुर्यात् । यथाह—'दान्तं कुलीनं मध्यस्थमनुद्वेगकरं स्थिरम् । परत्र भीरुं धर्मिष्ठमुद्युक्तं क्रोधवर्जितम् ॥' इति । एवंभूतब्राह्मणासंभवे क्षत्रियं वैश्यं वा नियुञ्जीत, न शूद्रम् । यथाह कात्यायनः—'ब्राह्मणो यत्र न स्यात्तु क्षत्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥' इति । नार- देन त्वयमेव मुख्यो दर्शितः—'धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः । समाहितमतिः पश्येद्व्यवहाराननुक्रमात् ॥' इति । प्राड्विवाकमते स्थितो न स्वमते स्थितः, राजा चारचक्षुषा परसैन्यं पश्यतीतिवत् । तस्य चेयं यौगिकी संज्ञा । अर्थिप्रत्यर्थिनौ पृच्छतीति प्राट्, तयोर्वचनं विरुद्धमविरुद्धं च सभ्यैः सह विवि- नक्ति विवेचयति वेति विवाकः, प्राट् चासौ विवाकश्च प्राड्विवाकः । उक्तं च— 'विवादानुगतं पृष्ट्वा ससभ्यस्तत्प्रयत्नतः । विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः ॥' इति ॥ ३ ॥ भाषा—किसी कार्यवश (या अस्वस्थता आदि से) व्यवहार न देख सकने पर राजा को सभासदों के साथ सभी धर्मों को जानने वाला ब्राह्मण इस कार्य के लिए नियुक्त करना चाहिए ॥ ३ ॥ प्राड्विवाकादयः सभ्या यदि रागादिना स्मृत्यपेतं व्यवहारं विचारयन्ति तदा राज्ञा किं कर्तव्यमित्यत आह— रागाल्लोभाद्भयाद्वाऽपि स्मृत्यपेताधिकारिणः । सभ्याः पृथक्पृथग्दण्ड्या विवादाद्विगुणं दमम् ॥ ४ ॥ अपि च, पूर्वोक्ताः सभ्या रजसो निरङ्कुशत्वेन तदभिभूता रागात्स्नेहाति- शयाल्लोभाल्लिप्सातिशयाद्भयात्संत्रासात्स्मृत्यपेतं स्मृतिविरुद्धं, 'आदि' शब्दादा- चारापेतं कुर्वन्तः पृथक्पृथगेकैकशो विवादाद्विवादपराजयनिमित्ताद्दमाद्द्विगुणं दमं दण्ड्याः, न पुनर्विवादास्पदीभूताद् द्रव्यात् । तथा सति स्त्रीसंग्रहणादिषु दण्डाभावप्रसङ्गः । रागलोभभयानामुपादानं रागादिष्वेव द्विगुणो दमो नाज्ञान- १. व्यग्रतया । २. धर्मान् शास्त्रोक्तान् । ३. ब्राह्मण एव । ४. विवक्ति विवेचयति वा ।

१६६ याज्ञवल्क्यस्मृतिः मोहादिष्विति नियमार्थम् । नच 'राजा सर्वस्येष्टे ब्राह्मणवर्जम्' ( ११।१ ) इति गौतमवचनान्न १ ब्राह्मणो दण्ड्या इति मन्तव्यम्; तस्य प्रशंसार्थत्वात् ॥ यत्तु 'षड्भिः परिहार्यो राजाऽवध्यश्चाबन्ध्मश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चापरि- हार्यश्च' (गौ. ८, १२-१३) इति, तदपि 'स एष बहुश्रुतो भवति लोकवेदवे- दाङ्गविद्वाकोवाक्येतिहासपुराणकुशलस्तदपेक्षस्तद्वृत्तिश्चाष्टचत्वारिंशत्संस्कारैः सं- स्कृतस्त्रिषु कर्मष्वभिरतः षट्सु वा सामयाचारिकेष्वभिविनीत' (गौ. ८।४- ११) इति, प्रतिपादितबहुश्रुतविषयं; न ब्राह्मणमात्रविषयम् ॥ ४ ॥ भाषा-( किसी के प्रति ) स्नेह, लोभ या भय के वशीभूत होकर व्यवहार में धर्म के विरुद्ध आचरण करने वाले सभासदों से उस विवाद के पराजय के निमित्त जितना द्रव्य हो उसके दुगुना द्रव्य पृथक् पृथक् दण्डस्वरूप लेना चाहिए ॥ ४ ॥ व्यवहारविषयमाह- स्मृत्याचारव्यपेतेन मार्गेणाऽऽधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥ ५ ॥ । धर्मशास्त्रसंमाचारविरुद्धेन मार्गेण परैराधर्षितोऽभिभूतो यद्राज्ञे प्राडि वाकाय वा आवेदयति विज्ञापयति चेद्यदि, तदावेद्यमानं व्यवहारपदं प्रतिज्ञोत्तरसंशय- हेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारस्तस्य पदं विषयः । तस्य चेदं सामान्यलक्षणम् । स च द्विविधः-शङ्काभियोगस्तत्त्वाभियोगश्चेति । यथाह नारदः ( १।२७ )- 'अभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्काऽ- सतां तु संसर्गात्तत्वं होढाभिदर्शनात् ॥' इति । होढा लोप्त्रं, लिङ्गममिति यावत् । तेन दर्शनं, साक्षाद्वा दर्शनं होढाभिदर्शनं तस्मात् । तत्त्वाभियोगोऽपि द्विविधः-प्रतिषेधात्मको विध्यात्मकश्चेति । यथा-'मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति', 'क्षेत्रादिकं ममायमपहरति' इति च । उक्तं च कात्यायनेन- 'न्याय्यं स्वं नेच्छते कर्तुमन्याय्यं वा करोति यः' इति । स पुनश्चाष्टादशधा भिद्यते । यथाह मनुः ( ८।४-७ ) - 'तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः । संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ वेतनस्यैव चाऽऽदानं संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥' इति ॥ १. न ब्राह्मणो दण्ड्य इति । २. राज्ञा बध्यश्चावध्यश्च । ३. वेदाङ्गवि- द्धाक्वेतिहास । ४. समयाचार ।

व्यवहाराध्यायः १६७ एतान्यपि साध्यभेदेन पुनर्बहुत्वं गतानि । यथाह नारदः ( १।२० )—‘एवमेव प्रभेदोऽन्यः शतमष्टोत्तरं भवेत् । क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥’ इति ॥ 'आवेदयति चेद्राज्ञे' इत्यनेन स्वयमेवागत्यावेदयति, न राजप्रेरितस्तत्पुरु- षप्रेरितो वेति दर्शयति । यथाह मनुः ( ८।४३ )—‘नोत्पादयेत्स्वयं कार्यं राजा वाप्यस्य पूरुषः । न च प्रापितमन्येन ग्रसेतार्थं कथंचन ॥’ इति ॥ परैरिति परेण पराभ्यां परैरित्येकस्यैकेन द्वाभ्यां बहुभिर्वा व्यवहारो भवतीति दर्शयति ॥ यत्पुनः—'एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति नारद (कात्यायन ?) वचनं, तद्भिन्नसा- ध्यद्वयविषयम् । 'आवेदयति चेद्राज्ञे' इत्यनेनैव राज्ञा पृष्टो विनीतवेष आवेद्- येत् । आवेदितं च युक्तं चेन्मुद्रादिना प्रत्यर्थ्याह्वानमकल्पादीनां चानाह्वानमित्या- र्थसिद्धिमिति नोक्तम् । स्मृत्यन्तरे तु स्पष्टार्थमुक्तम् । यथा 'काले कार्यार्थिनं पृच्छेद् गृणन्तं पुरतः स्थितम् । किं कार्यं का च ते पीडा मा भैषीर्ब्रूहि मानव ॥ केन कस्मिन्कदा कस्मात्पृच्छेदेवं सभागतम् । एवं पृष्टः स यद्ब्रूयात्तत्सभ्यैर्ब्रा- ह्मणैः सह ॥ विमृश्य कार्यं न्याय्यं चेदाह्वानार्थमतः परम् । मुद्रां वा निक्षिपेत्त- स्मिन्पुरुषं वा समादिशेत् ॥ अकल्पबालस्थविरविषमस्थक्रियाकुलान् । कार्याति- पातिव्यसनिनृपकार्योत्सवाकुलान् । मत्तोन्मत्तप्रमत्तार्तभृत्यांश्चाह्वानयेन्नृपः ॥ न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् । सर्ववर्णोत्तमां कन्यां वा ज्ञातिप्रभुकाः स्मृताः ॥ तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः । निष्कुला याश्च पतिता- स्तासामाह्वानमिष्यते ॥ कालं देशं च विज्ञाय कार्याणां च बलाबले । अकल्पादी- नपि शनैःशनैराह्वानयेन्नृपः ॥ ज्ञात्वाभियोगं येऽपि स्युर्वने प्रव्रजितादयः । तान- प्याह्वानयेद्राजा गुरुकार्येष्वकोपयन् ॥' इति । आसेधव्यवस्थाप्यर्थसिद्धैव नारदेनोक्ता ( १।४७ ५३ )—‘वक्तव्येऽर्थे ह्यतिष्ठन्तमुत्क्रामन्तं च तद्वचः । आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥ स्थानासेधः कालकृतः प्रवासात्कर्मण- स्तथा । चतुर्विधः स्यादासेधो नासिद्धस्तं विलङ्घयेत् ॥ आसेधकाले आसिद्ध आसेधं योऽतिवर्तते । स विनेयोऽन्यथाकुर्वन्नासेद्धा दण्डभाग्भवेत् ॥ नदीसं- न्तारकान्तारदुद्देशोपप्लवादिषु । आसिद्धस्तं परासेधमुत्क्रामन्नापराध्नुयात् ॥ निर्वे- ष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः । अभियुक्तस्तथाऽन्येन राजकार्योद्यतस्तथा ॥ गवां प्रचारे गोपालाः सस्यावापे कृषीवलाः । शिल्पिनश्चापि तत्कालमायुधीयाश्च विग्रहे ॥’ इति । आसेधो राजाज्ञयाऽवरोधः । अकल्पादयः पुत्रादिकमन्यं वा सुहृदं ³प्रेषयेयुः, नच ते परार्थवादिनः; 'यो न भ्राता न च पिता न पुत्रो न १. स्मृतम् । २. पृच्छेत्प्रणतं । ३. प्रेषयन्ति, प्रेषयिष्यन्ति ।

१६८ याज्ञवल्क्यस्मृतिः नियोगकृत् । परार्थवादी दण्ड्यः स्याद्व्यवहारेषु विब्रुवन् ॥' (२।२३) इति नारदवचनात् ॥ ५ ॥ भाषा—यदि धर्मशास्त्र और समय के आचार के विरुद्ध ढंग से दूसरों द्वारा पीडित होकर राजा निवेदन करे तो वह व्यवहार का विषय होता है ॥ ५ ॥ प्रत्यर्थिनि मुद्रालेख्यपुरुषाणामन्यतमेनानीते किं कुर्यादित्यत आह— प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना । समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् ॥ ६ ॥ अर्थ्यते इत्यर्थः साध्यः, सोऽस्यास्तीत्यर्थी; तत्प्रतिपक्षः प्रत्यर्थी, तस्याग्रतः पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण पूर्वमावेदनकाले आवेदितं तथा, न पुनरन्यथा; अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात् ।—'अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । 'आहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥' ( नारदः १।३३ ) इति । आवेदनकाल एवार्त्तिवचनस्य लिखितत्वात्पुनर्लेखन- मनर्थकमित्यत आह—समामासेत्यादि । संवत्सरमासपक्षतिथिवारादिना— अर्थिप्रत्यर्थिनामब्राह्मणजात्यादिचिह्नितम् । 'आदि' शब्देन द्रव्यतत्सङ्ख्यास्थान- वेलाक्षमालिङ्गादीनि गृह्यन्ते ॥ यथोक्तम्—'अर्थबद्धमसंयुक्तं परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धं च निश्चितं साधनै- क्षमम् । संक्षिप्तं निखिलार्थं च देशकालाविरोधि च । वर्षर्तुमासपक्षाहोवेलादेश- प्रदेशवत् । स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ॥ साध्यप्रमाणसंख्यावदा- त्मप्रत्यर्थिनामवत् । परात्मपूर्वजानेकराजनामभिरङ्कितम् ॥ क्षमालिङ्गारमपीडाव- स्कथिताहर्तृदायकम् । यदावेदयते राज्ञे तद्भाष्येत्यभिधीयते ॥' इति । भाषा 'प्रतिज्ञा' 'पक्ष' इति नार्थान्तरम् । आवेदनसमये कार्यमात्रं लिखितं प्रत्यर्थिनोऽग्रतः समा- मासादिविशिष्टं लिख्यत इति विशेषः । संवत्सरविशेषणं यद्यपि सर्वव्यवहारेषु नोपयुज्यते, तथाप्याधिप्रतिग्रहक्रयेषु निर्णयार्थमुपयुज्यते; आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा' इति वचनात् । अर्थव्यवहारोऽपि एकस्मिन्संवत्सरे यत्सङ्ख्याकं यद्द्रव्यं यतो येन गृहीतं प्रत्यर्पितं च पुनरन्यस्मिन्वत्सरे तद्द्रव्यं तत्संख्याकं तत- स्तेन गृहीतं, याच्यमानो यदि ब्रूयात्सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे गृहीतं प्रत्यर्पितं नास्मिन्वत्सरे इत्युपयुज्यते । एवं मासाद्यपि योज्यम् । देश- स्थानादयः पुनः स्थावरेष्वेवोपयुज्यन्ते—'देशश्चैव तथा स्थानं संनिवेशस्तथैव च। १. आहूतम्प्रपलापी । २. साधने क्षमम् । ३. नियतार्थं ।

जातिः संज्ञाऽधिवासश्च प्रमाणं क्षेत्रनाम च ॥ पितृपैतामहं चैव पूर्वराजाऽनुकीर्त- नम् । स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥ इति स्मरणात् । देशो मध्य- देशादिः । स्थानं वाराणस्यादि । संनिवेशः तत्रैव पूर्वापरदिग्विभागपरिच्छिन्नः सम्यङ्निवेशो गृहक्षेत्रादिः । जातिः अर्थिप्रत्यर्थिनोर्ब्राह्मणत्वादिः । संज्ञा च देव- दत्तादिः । अधिवासः समीपदेशनिवासी जनः । प्रमाणं निवर्तनादि भूपरिमाणम् । क्षेत्रनाम शालिक्षेत्रं क्रमुकक्षेत्रं कृष्णभूमः पाण्डुभूमः इति । पितुः पितामहस्य च नामार्थिप्रत्यर्थिनोः पूर्वेषां त्रयाणाम् । राज्ञां नामकीर्तनं चेति । समामासादीनां यस्मिन् व्यवहारे यावदुपयुज्यते तन्न तावल्लेखनीयमिति तात्पर्यार्थः । एवं पक्ष- लक्षणे स्थिते पक्षलक्षणरहितानां पक्षवदवभासमानानां पक्षाभासत्वं सिद्धमेवेति योगीश्वरेण न पृथक्पक्षाभासा उक्ताः । अन्यैस्तु विस्पष्टार्थमुक्ताः । — अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् । असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥' इति । अप्रसिद्धं 'मदीयं शशविषाणं गृहीत्वा न प्रयच्छति' इत्यादि । निराबाधं अस्मद्गृहदीपप्रकाशेनायं स्वगृहे व्यवहरतीत्यादि । निरर्थं अभिधेयरहितं कच- टतपगजडदबेत्यादि । निष्प्रयोजनं यथा-अयं देवदत्तोऽस्मद्गृहसंनिधौ सुस्वरम- धीतेत्यादि । असाध्यं यथा-अहं देवदत्तेन सभ्रूभङ्गमुपहसित इत्यादि । एतत्त्सा- धनासंभवात्साध्यम् । अल्पकालत्वान्न साक्षिसंभवो लिखितं दूरतोऽपस्थाच्च दिव्यमिति । विरुद्धं यथाऽहं मूकेन शप्त इत्यादि । पुरराष्ट्रादिविरुद्धं वा—'राज्ञा विवर्जितो यश्च यश्च पौरविरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च ॥ अन्ये वा ये पुरग्राममहाजनविरोधकाः । अनादेयास्तु ते सर्वे व्यवहाराः प्रकी- र्तिताः ॥' इति ॥ यत्तु—'अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति' इति, तन्न यद्यनेकवस्तुसंकीर्ण इत्युच्यते, तदा न दोषः; मदीयमनेन हिरण्यं वासो रूप- कादि वाऽपहृतमित्येवंविधस्यादुष्टत्वात् । ऋणादानादिपदसंकरे पक्षाभास इति चेत्तदपि न । मदीया रूपका अनेन वृद्ध्या गृहीताः सुवर्णं चास्य हस्ते निक्षि- प्तम् , मदीयं क्षेत्रमयमपहरतीत्यादीनां पक्षत्वमिष्यत एव । किंतु क्रियाभेदात्क्र- मेण व्यवहारो न युगपदित्येतावत् ॥ तथाह कात्यायनः—'बहुप्रतिज्ञं यत्कार्यं व्यवहारे सुनिश्चितम् । कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सया ॥' इति तस्मा- दनेकपदसंकीर्णः पूर्वपक्षो युगपन्न सिद्ध्यतीति तस्यार्थः । अर्थिग्रहणात्पुत्रपित्रादि- ग्रहणं तेषामेकार्थत्वात् । नियुक्तस्यापि नियोगेनैव तदेकार्थत्वात्क्षेपात् ॥ —'अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जय- पराजयौ ॥' इति स्मरणात् नियुक्तजयपराजयौ मूलस्वामिनोरेव । एतच्च भूमौ फलके वा पाण्डुलेखेन लिखित्वा आवापोद्धारेण विशोधितं पश्चात्पत्रे निवेशयेत् ।


पादटिप्पणी: १. पुत्रपौत्रादीनां ।

१७० याज्ञवल्क्यस्मृतिः पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेषयेत् । पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥' इति कात्यायनस्मरणात् । शोधनं च यावदुत्तरदर्शनं कर्तव्यं नातः परम् । अनवस्थाप्रसङ्गात् । अतएव नारदेनोक्तम्—'शोधयेत्पूर्ववादं तु यावन्नोत्तरदर्शनम् । अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् ॥' इति । पूर्वपक्षम्- अशोधयित्वैव यदोत्तरं दापयन्ति सभ्यास्तदा 'रागाल्लोभात्' इत्युक्तदण्डेन सभ्यान्दण्डयित्वा पुनः प्रतिज्ञापूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति ॥ ६ ॥ भाषा—पहले प्रत्यर्थी, (प्रतिपक्षी, प्रतिवादी या मुद्दई) के विषय में अर्थी (वादी, मुद्दालह) द्वारा पहले बताया गया (अभियोग) लिखे, और उसके आगे वर्ष, मास, पक्ष, दिन, नाम और जाति आदि अङ्कित करे ॥ ६ ॥ एवं शोधितपत्रारूढे पूर्वपक्षे किं कर्तव्यमित्यत आह— श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ । श्रुतो भाषार्थो येन प्रत्यर्थिनाऽसौ श्रुतार्थः, तस्योत्तरं पूर्वपक्षादुत्तरत्र भवतीत्युत्तरं लेख्यं लेखनीयम् । पूर्वावेदकस्यार्थिनः संनिधौ समीपे उत्तरं च यत्पूर्वोक्तस्य निराकरणं तदुच्यते । यथाह—'पक्षस्य व्यापकं सारमसंदिग्धमना- कुलम् । अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ॥' इति पक्षस्य व्यापकं निराकरणसमर्थम् । सारं न्याय्यं न्यायादनपेतम् । असंदिग्धं संदेहरहितम् । अनाकुलं पूर्वापरविरुद्धम् । अव्याख्यागम्यं अप्रसिद्धपदप्रयोगेण दुःश्लिष्ट- विभक्तिसमासाध्याहाराभिधानेन वा अन्यदेशभाषाभिधानेन वा यद् व्याख्येयार्थं न भवति तत्सदुत्तरम् ॥ तच्च चतुर्विधम्—संप्रतिपत्तिः, मिथ्या, प्रत्यवस्कन्दनं पूर्व- न्यायश्चेति । यथाह कात्यायनः—'सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा । पूर्व- न्यायविधिश्चैवमुत्तरं स्याच्चतुर्विधम् ॥' इति । तत्र सत्योत्तरं यथा—'रूपकशतं मह्यं धारयति' इत्युक्ते 'सत्यं धारयामि' इति । यथाह—'साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता' इति । मिथ्योत्तरं तु नाहं धारयामीति । तथा च कात्यायनः— 'अभियुक्तोऽभियोगंस्य यदि कुर्यादपह्नवम् । मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥' इति ॥ तच्च मिथ्योत्तरं चतुर्विधम्—'मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः । अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधम् ॥' इति । प्रत्यवस्कन्दनं नाम 'सत्यं गृहीतं प्रतिदत्तं प्रतिग्रहेण लब्धम्' इति वा । यथाह नारदः—'अर्थिना लिखितो योऽर्थः प्रत्यर्थी यदि तं तथा । प्रपद्य कारणं ब्रूयात्- प्रत्यवस्कन्दनं स्मृतम् ॥' इति । प्राङ्न्यायोत्तरं तु यत्राभियुक्त एवं ब्रूयात् 'अस्मिन्नर्थेऽनेनाहमभियुक्तस्तत्र चायं व्यवहारमार्गेण पराजितः' इति । उक्तं १. अभियुक्तस्य ।

व्यवहाराध्यायः १७१

च कात्यायनेन — 'आचारेणावसन्नोऽपि पुनर्लेखयते यदि । सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते ॥' इति । एवमुत्तरलक्षणे स्थिते उत्तरलक्षणरहिता- नामुत्तरवदवभासमानानामुत्तराभासत्वमर्थसिद्धम् । स्पष्टीकृतं च स्मृत्यन्तरे — 'संदिग्धमन्यत्प्रकृतादत्यल्पमतिभूरि च । पक्षैकदेशव्याप्यन्यत्तथा नैवोत्तरं भवेत् ॥ यद्व्यस्तपदमव्यापि निगूढार्थं तथाकुलम् । व्याख्यागम्यमसारं च नोत्तरं स्वार्थसिद्धये ॥ इति । तत्र संदिग्धं—'सुवर्णशतमनेन गृहीत'मित्युक्ते 'सत्यं गृहीतं सुवर्णशतं माषशतं वे'ति । प्रकृतादन्यद्यथा—'सुवर्णशताभियोगे पणशतं धारयामी'ति । अत्यल्पं—'सुवर्णशताभियोगे पणशतं धारयामी'ति । अति- भूरि—'सुवर्णशताभियोगे द्विशतं धारयामी'ति । पक्षैकदेशव्यापि—'हिरण्य- वस्त्राद्यभियोगे हिरण्यं गृहीतं नान्यदि'ति । व्यस्तपदं—ऋणादानाभियोगे पदान्तरेणोत्तरम्, यथा 'सुवर्णशताभियोगे अनेनाहं ताडितः' इति । अव्यापि— देशस्थानादिविशेषणाव्यापि यथा—'मध्यदेशे वाराणस्यां पूर्वस्यां दिशि क्षेत्रमनेनापहृत'मिति पूर्वपक्षे लिखिते, 'क्षेत्रमपहृतमि'ति । निगूढार्थं यथा— 'सुवर्णशताभियोगे किमहमेवास्मै धारयामी'त्यत्र ध्वनिना प्राड्विवाकः सभ्यो वा अर्थी वा अन्यस्मै धारयतीति सूचयतीति निगूढार्थम् । आकुलं पूर्वापरविरुद्धं यथा—'सुवर्णशताभियोगे कृते, सत्यं गृहीतं न धारयामी'ति । व्याख्यागम्यं— दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन व्याख्यागम्यम्, अदेशभाषाभिधानेन वा । यथा—'सुवर्णशतविषये पितृऋणाभियोगे, 'गृहीतशतवचनात् सुवर्णानां पितुर्न जानामी'ति । अत्र गृहीतशतस्य पितुर्वचनात् 'सुवर्णानां शतं गृहीत- मि'ति न जानामीति । असारं—न्यायविरुद्धं, यथा 'सुवर्णशतमनेन वृद्ध्या गृहीतं वृद्धिरेव दत्ता न मूल'मित्यभियोगे, 'सत्यं वृद्धिर्दत्ता न मूलं गृहीत' मिति । उत्तरमित्येकवचननिर्देशादुत्तराणां संकरो निरस्तः । यथाह कात्यायनः— 'पक्षैकदेशे यत्सत्यमेकदेशे च कारणम् । मिथ्या चैवैकदेशे च संकरात्तदनुत्तरम् ॥' इति । अनुत्तरत्वे च कारणं तेनैवोक्तम्—'न चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः । न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् ॥' इति । मिथ्याकारणोत्तरयोः संकरे अर्थिप्रत्यर्थिनोर्द्वयोरपि क्रिया प्राप्नोति—'मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि' इति स्मरणात् । तदुभयमेकस्मिन्व्यवहारे विरुद्धम् । यथा—'सुवर्णं रूपकशतं चानेन गृहीत'मित्यभियोगे, 'सुवर्णं न गृहीतं, रूपकशतं गृहीतं प्रतिदत्तं चे'ति । कारणप्राङ्न्यायसंकरे तु प्रत्यर्थिन एव क्रियाद्वयम्—'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम्' इति । तथा सुवर्णं गृहीतं प्रतिदत्तं,—रूपके व्यवहारमार्गेण पराजितः' इति । अत्र च प्राङ्-


१. रूपकशते ।

न्याये जयपत्रेण वा प्राङ्न्यायदर्शिभिर्वा भावियतव्यम्, कारणोक्तौ तु साक्षिलेख्यादिभिर्भावितव्यमिति विशेषः । एवमुत्तरत्रयसंकरेऽपि द्रष्टव्यम् । यथा—'अनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानी'त्यभियोगे, 'सत्यं सुवर्णं गृहीतं प्रतिदत्तं रूपकशतं न गृहीतं, वस्त्रविषये तु पूर्वन्‍यायेन पराजितः' इति । एवं चतुः- संकरेऽपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्य तस्यांशस्य तेन तेन विनाऽसिद्धेः क्रमेणोत्तरत्वमेव । क्रमश्चार्थिनः प्रत्यर्थिनः सभ्यानां चेच्छया भवति । यत्र पुनरुभयोः संकरे तत्र यस्य प्रभूतार्थविषयत्वं तत्क्रियोपादानेन पूर्वं व्यवहारः प्रवर्त्तयितव्यः, पश्चादल्पविषयोत्तरोपादानेन च व्यवहारो द्रष्टव्यः । यत्र तु संप्रतिपत्तेरुत्तरान्तरस्य च संकरस्तत्रोत्तरान्तरोपादानेन व्यवहारो द्रष्टव्यः । संप्रतिपत्तौ क्रियाभावात् ॥ यथा हारीतेन—'मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे । सत्यं चापि सहान्येन तत्र ग्राह्यं किमुत्तरम् ॥' इत्युक्त्वोक्तम्—'यत्प्रभू- तार्थविषयं यत्र वा स्यात्क्रियाफलम् । उत्तरं तत्र तज्ज्ञेयमसंकीर्णमतोऽन्यथा ॥' संकीर्णं भवतीति शेषः । शेषोपेक्षया ऐच्छिकक्रमं भवतीत्यर्थः । तत्र प्रभूतार्थं यथा—'अनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानी'त्यभियोगे; 'सत्यम् , सुवर्णं रूपकशतं च न गृहीतं, वस्त्राणि तु गृहीतानि प्रतिदत्तानि चे'ति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्त्तयितव्यः पश्चाद्वस्त्रविषयो व्यवहारः । एवं मिथ्याप्राङ्न्यायसंकरे कारणप्राङ्न्यायसंकरे च योजनीयम् । तथा तस्मिन्नेवाभियोगे, 'सत्यं सुवर्णं रूपकशतं च गृहीतं प्रति दास्यामि, वस्त्राणि तु न गृहीतानि, गृहीतानि प्रतिदत्तानी'ति वा वस्त्रविषये पूर्वं पराजित इति चोत्तरे संप्रतिपत्तेर्भूरिविषयत्वेऽपि तत्र क्रियाभावान्मिथ्या- युत्तरक्रियामादाय व्यवहारः प्रवर्त्तयितव्यः । यत्र तु मिथ्याकारणोत्तरयोः कृत्स्न- पक्षव्यापित्वं यथा—शृङ्गग्राहिकतया कश्चिद्वदति 'इयं गौर्मदीया अमुकस्मिन्काले नष्टा, अद्यास्य गृहे दृष्टे'ति । अन्यस्तु 'मिथ्यैतत्, प्रदर्शितकालात्पूर्वमेवास्म- द्गृहे स्थिता मम गृहे जाता वे'ति वदति । इदं तावत्पक्षनिराकरणसमर्थत्वात्ता- वुत्तरम् । नापि मिथ्यैव; कारणोपन्यासात् । नापि कारणम् ; एकदेशस्याप्य- भ्युपगमाभावात् । तस्मात्सकारणं मिथ्योत्तरमिदम्—अत्र च प्रतिवादिनः क्रिया, 'कारणे प्रतिवादिनि' इति वचनात् ॥ ननु 'मिथ्या क्रिया पूर्ववादे' इति पूर्ववा- दिनः कस्मात्क्रिया न भवति ? तस्य शुद्धमिथ्याविषयत्वात् । 'कारणे प्रति- वादिनी'त्येतदपि कस्माच्छुद्धकारणविषयं न भवति । नैतत्; सर्वस्यापि कारणो- त्तरस्य मिथ्यासहचरितरूपत्वाच्छुद्धकारणोत्तरस्याभावात् ॥ प्रसिद्धकारणोत्तरे


१. कारणोत्तरे तु । २. प्रतिदास्यामि । ३. ऐच्छिकक्रममपेक्ष्याक्रमं भवतीत्यर्थः । ४. ऐच्छिकः क्रमो भवतीत्यर्थः । ५. एतत्प्रदर्शित ।

व्यवहाराध्यायः १७३

प्रतिज्ञातार्थैकदेशस्याप्यभ्युपगमैनैकदेशस्य मिथ्यात्वम्—यथा ‘सत्यं रूपकशतं गृहीतं न धारयामि, प्रतिदत्तत्वादिति । प्रकृतोदाहरणे तु प्रतिज्ञातार्थैकदेश- स्याप्यभ्युपगमो नास्तीति विशेषः ॥ एतच्च हारीतेन स्पष्टमुक्तम्—'मिथ्या- कारणयोर्वापि ग्राह्यं कारणमुत्तरम्' इति । यत्र मिथ्याप्राङ्न्याययोः पक्षव्यापित्वं यथा—'रूपकशतं धारयती'त्यभियोगे, 'मिथ्यैतदस्मिन्नर्थे पूर्वमयं पराजितः' इति । अत्रापि प्रतिवादिन एव क्रिया; 'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशे- त्क्रियाम्' इति वचनात् , शुद्धस्य प्राङ्न्यायस्याभावादनुत्तरत्वप्रसङ्गात्, संप्रति- पत्तेरपि साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकरणा- देवोत्तरत्वम् । यदा तु कारणप्राङ्न्यायसंकरः यथा—'शतमनेन गृहीत'मित्य- भियुक्तः प्रतिवदति 'सत्यं गृहीतं प्रतिदत्तं चेत्यस्मिन्नेवार्थे प्राङ्न्यायेनायं पराजितः' इति । तत्र प्रतिवादिनो यथारुचीति न क्वचिद्वादिप्रतिवादिनोरेक- स्मिन्व्यवहारे क्रियाद्वयप्रसङ्ग इति निर्णयः ॥

एवमुत्तरे पत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्वात्साधननिर्देशं कः कुर्या- दित्यपेक्षित आह—

ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम् ॥ ७ ॥

तत उत्तरानन्तरम् , अर्थी साध्यवान् सद्य एवानन्तरमेव प्रतिज्ञातार्थ- साधनं लेखयेत् । प्रतिज्ञातः साध्यः स चासावर्थश्चेति प्रतिज्ञातार्थः तस्य साधनं साध्यतेऽनेनेति साधनं प्रमाणम् । अत्र 'सद्यो लेखयेत्' इति वदतोत्तराभिधाने कालविलम्बनमप्यङ्गीकृतमिति गम्यते । तच्चोत्तरत्र विवेचयिष्यते । अर्थी प्रतिज्ञातार्थसाधनं लेखयेदिति वदता यस्य साध्यमस्ति स प्रतिज्ञातार्थसाधनं लेखयेदित्युक्तं, अतश्च प्राङ्न्यायोत्तरे प्राङ्न्यायस्यैव साध्यत्वात्प्रत्यर्थ्येवार्थी जात इति स एव साधनं लेखयेत् । कारणोत्तरेऽपि कारणस्यैव साध्यत्वात्कारण- वाद्येवार्थीति स एव लेखयेत् । मिथ्योत्तरे तु पूर्ववाद्येवार्थी स एव साधनं निर्दिशेत् । ततोऽर्थी लेखयेदिति वदता अर्थ्येव लेखयेन्नान्य इत्युक्तम् । अतश्च संप्रतिपत्त्युत्तरे साध्याभावेन भाषोत्तरवादिनोर्द्वयोरप्यर्थित्वाभावात्साधननिर्देश एव नास्तीति तावतैव व्यवहारः परिसमाप्यत इति गम्यते । एतदेव हारीतेन स्पष्टमुक्तम्—'प्राङ् न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम् । मिथोक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥' इति ॥ ७ ॥

भाषा—प्रत्यर्थी द्वारा सुनी हुई बात और उसका उत्तर अर्थी की उपस्थिति में लिखावे । (उत्तर के बाद) अर्थी अभियोग को सिद्ध करने वाला प्रमाण तत्काल लिखावे ॥ ७ ॥

१७४ याज्ञवल्क्यस्मृतिः ततः किमित्यत आह— तत्सिद्धौ सिद्धिमवाप्नोति विपरीतमतोऽन्यथा। तस्य साधनस्य प्रमाणस्य वक्ष्यमाणलिखितसाक्ष्यादिलक्षणस्य सिद्धौ निर्वृत्तौ सिद्धिं साध्यस्य जयलक्षणां प्राप्नोति । अतोऽस्मात्प्रकारादन्यथा प्रका- रान्तरेण साधनासिद्धौ विपरीतं साध्यस्यासिद्धिं पराजयलक्षणमाप्नोतीति संबन्धः ॥ एवं व्यवहाररूपमभिधायोपसंहरति— चतुष्पाद्व्यवहारोऽयं विवादेषूपदर्शितः ॥ ८ ॥ 'व्यवहारान्नृपः पश्येत्' (व्य० १) इत्युक्तो व्यवहारः सोऽयमित्थं चतु- ष्पाच्चतुरंशकल्पनया विवादेषु ऋणादानादिषूपदर्शितो वर्णितः । तत्र 'प्रत्यर्थि- नोऽग्रतो लेख्यं' इति भाषापादः प्रथमः । 'श्रुतार्थस्योत्तरं लेख्यम्' इत्युत्तरपादो द्वितीयः । ततः 'अर्थी लेखयेत्सद्यः' इति क्रियापादस्तृतीयः । 'तत्सिद्धौ सिद्धिम- प्नोति' इति साध्यसिद्धिपादश्चतुर्थः । यथोक्तम्—'परस्परं मनुष्याणां स्वार्थवि- प्रतिपत्तिषु । वाक्यन्यायाद्व्यवस्थानं व्यवहार उदाहृतः ॥ भाषोत्तरक्रियासाध्य- सिद्धिभिः क्रमवृत्तिभिः । आक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते ॥' इति । संप्रति- पत्त्युत्तरे तु साधनानिर्देशाद्भाषार्थस्यासाध्यत्वाच्च न साध्यसिद्धिलक्षणः पादोऽ- स्तीति द्विपात्त्वमेव । उत्तराभिधानानन्तरं सभ्यानामर्थिप्रत्यर्थिनोः कस्य क्रिया स्यादिति परामर्श लक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभि- धानाद् व्यवहर्तृसंबन्धाभावाच्च न व्यवहारपादत्वमिति स्थितम् ॥ ८ ॥ भाषा—उस साधन या प्रमाण की सिद्धि होने पर वह विजयी होता है, अन्यथा हार जाता है। यह व्यवहार चतुष्पद (पूर्वोक्त चार स्तर वाला) होता है जो ऋणदान आदि के विवादों में प्रदर्शित किया गया है ॥८॥ इति साधारणव्यवहारमातृकाप्रकरणम् । असाधारणव्यवहारमातृकाप्रकरणम् एवं सर्वव्यवहारोपयोगिनीं व्यवहारमातृकामभिधायाधुना कचिद्व्यवहार- विशेषे कंचिद्विशेषं दर्शयितुमाह— अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । १. इति व्यवहारमातृकप्राकरणम् । २. साधारणासाधारणव्यवहार ।