भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

देवताः ॥' देवताश्चात्र श्मशानवासिन्यः तत्र १पूर्वदग्धाः 'श्मशानवासिनो देवाः शवानां परिकीर्तिताः' इति तेनैवोक्तम् । अतस्तान्देवान्चिरमृतं च प्रेतमुद्दिश्य धूपदीपादिभिः पिण्डरूपेण चान्नेन तत्र पूजा कार्येत्युक्तं भवति ॥ तथा वपनं च दशमेऽहनि कार्यम् ; 'दशमेऽहनि संप्राप्ते स्नानं ग्रामाद्बहिर्भवेत् । तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च ॥' इति देवलस्मरणात् ॥ तथा स्मृत्यन्तरेऽपि—'द्वितीयेऽहनि कर्तव्यं क्षुरकर्म प्रयत्नतः । तृतीये पञ्चमे चाऽपि सप्तमे वाऽप्रदानतः ॥' इति श्राद्धप्रदानादवार्गनियम इति यावत् । वपनं च केषामित्याकाङ्क्षायामापस्तम्बेनोक्तम्—'अनुभाविनां च परिवापनम्' इति । अयमर्थः—शावं दुःखमनुभवन्तीत्यनुभाविनः सपिण्डाः, तेषां चावि- शेषेण वपनमुताल्पवयसामित्यपेक्षायामिदमेवोपतिष्ठते—'अनुभाविनां च परि- वापनम्' इति । अनु पश्चाद्भवन्तीत्यनुभाविनोऽल्पवयसस्तेषां वपनमिति । अनुभाविनः पुत्रा इति केचिन्मन्यन्ते; 'गङ्गायां भास्करक्षेत्रे २माता पित्रोर्गुरो- र्मृतौ । आधानकाले सोमे च वपनं सप्तसु स्मृतम् ॥' इति नियमदर्शनात् ॥ अशुचित्वेन सकलश्रौतस्मार्तकमाधिकारनिवृत्तौ प्रसक्तायां केषुचिदभ्यनुज्ञा- नार्थमाह— ३वैतानौपासनाः कार्याः क्रियाश्च श्रुतिचोदनात् ॥ १७ ॥ वितानोऽग्नीनां विस्तारस्तत्र भवा वैतानाः त्रेताग्निसोध्या अग्निहोत्रदर्श- पूर्णमासाद्याः क्रिया उच्यन्ते । प्रतिदिनमुपास्यत इत्युपासनो गृह्याग्निस्तत्र भवा औपासनाः सायं प्रातर्होमक्रिया उच्यन्ते । ता वैतानौपासना वैदिक्यः क्रियाः कार्याः । कथं वैदिकत्वमिति चेत् ,—श्रुतिचोदनात् । तथा हि—'यावज्जीव- मग्निहोत्रं जुहुयात्' इत्यादिश्रुतिभिरग्निहोत्रादीनां चोदना स्पष्टैव । तथा 'अहरहः स्वाहा कुर्यादन्नाभावे केनचिदाकाष्ठात्' इति श्रुत्यौपासनहोमोऽपि ५चोद्यते । अत्र च श्रौतत्वविशेषणोपादानात्स्मार्तक्रियाणां दानादीनामननुष्ठानं गम्यते । अत एव वैयाघ्रपादेनोक्तम् – 'स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके । श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयात् ॥' इति श्रौतानां च कार्यत्वा- भिधानं नित्यनैमित्तिकाभिप्रायेण; यथाह पैठीनसिः—'नित्यानि विनिवर्तेरन्वं- तानवर्जं शालाग्नौ चैके' इति । 'नित्यानि विनिवर्तेरन्' इत्यविशेषेण आवश्य- कानां नित्यनैमित्तिकानां निवृत्तौ प्रसक्तायां 'वैतानवर्जम्' इत्यग्नित्रयसाध्या- वश्यकानां पर्युदासः; 'शालाग्नौ चैक' इति गृह्याग्नौ भवानामप्यावश्यकानां पाक्षिकः पर्युदास उक्तः । अतस्तेष्वाशौचं नास्त्येव । काम्यानां पुनः शौचा-


१. भूतपूर्वदग्धाः । २. गुरौ मृते । ३. वैतानो । ४. चोदनाः । ५. बध्यते ।

४०६ याज्ञवल्क्यस्मृतिः

भावादननुष्ठानम् । मनुनाप्यनेनैवाभिप्रायेणोक्तम् ( ५।८४ )—'प्रत्यूहेन्ना- ग्निषु क्रिया' इति । अग्निषु क्रिया न प्रत्यूहेदिति अनग्निसोध्यानां पञ्चमहा- यज्ञादीनां निवृत्तिः । अत एव संवर्तः—'होमं तत्र प्रकुर्वीत शुष्कान्नेन फलेन वा । पञ्चयज्ञविधानं तु न कुर्यान्मृत्युजन्मनोः ॥' इति वैश्वदेवस्याग्निसाम्य- स्वेऽपि वचनान्निवृत्तिः । 'विप्रो दशाहमासीत वैश्वदेवविवर्जितः' इति तेनैवो- क्तत्वात् ॥ 'सूतके कर्मणां त्यागः संध्यादीनां विधीयते' इति यद्यपि संध्याया विनिवृत्तिः श्रूयते, तथाप्यञ्जलिप्रक्षेपणादिकं कुर्यात् । 'सूतके सावित्र्या चाञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्यं ध्यायन्नमस्कुर्यात्' इति पैठीनसिस्मरणात् । यद्यपि 'वैतानौपासनाः कार्या' इति सामान्येनोक्तं, तथाप्यन्येन कारयितव्यम् । 'अन्य एतानि कुर्युः' इति पैठीनसिस्मरणात् । बृहस्पतिनाप्युक्तम्—'सूतके मृतके चैव अशक्तौ श्राद्धभोजने । प्रवासादिनिमित्तेषु हावयेन्न तु हापयेत् ॥' इति । तथा स्मार्तत्वेऽपि पिण्डपितृयज्ञश्रवणाकर्माश्वयुज्यादिकश्च नित्यहोमः कार्य एव; 'सूतके तु समुत्पन्ने स्मार्तं कर्म कथं भवेत् । पिण्डयज्ञं चरुं होम- मसगोत्रेण कारयेत् ॥' इति जातूकर्ण्यस्मरणात् । यद्यपि साङ्गे कर्मण्यन्य- कर्तृत्वं, तथापि स्वद्रव्यत्यागात्मकं प्रधानं स्वयं कुर्यात् ; तस्यानन्यनिष्पा- द्यत्वात् । अत एवोक्तम्—'श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयात्' इति; यत्पुनः—'दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते' इति होमप्रतिषेधः, स काम्याभिप्रायो वैश्वदेवाभिप्रायो वा व्यवस्थापनीयः । तथा सूतकान्नभोजन- मपि न कार्यम् ; 'उभयत्र दशाहानि कुलस्यान्नं न भुज्यते' इति यमस्मरणात् उभयत्र जननमरणयोः । 'दशाहानि' इत्याशौचकालोपलक्षणम् । कुलस्य सूतक- युक्तस्य संबन्ध्यन्नं असकृत्त्यैनं भोक्तव्यं, सकृत्त्यानां पुनर्न दोषः; 'सूतके तु कुलस्यान्नमदोषं मनुरब्रवीत्' इति तेनैवोक्तत्वात् । अयं च निषेधो दातृभोक्त्रोर- न्यतरेण जनने मरणे वा ज्ञाते सति वेदितव्यः; 'उभाभ्यामपरिज्ञाते सूतकं नैव दोषकृत् । एकेनापि परिज्ञाते भोक्तुर्दोषमुपावहेत् ॥ इति षट्त्रिंशन्मते दर्शनात् । तथा विवाहादिषु सूतकोत्पत्तेः प्राग् ब्राह्मणार्थं पृथक्कृतमन्नं भोक्तव्य- मेव; 'विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । पूर्वसंकल्पितार्थेषु न दोषः परि- कीर्तितः' ॥' इति बृहस्पतिस्मरणात् । तथापरोऽपि विशेषः षट्त्रिंशन्मते दर्शितः—'विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । परैरन्नं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः ॥ भुञ्जानेषुतु विप्रेषु त्वन्तरा मृतसूतके । अन्यगेहोदकाचान्ताः सर्व ते शुचयः स्मृताः ॥' इति । तथाशौचपरिग्रहत्वेऽपि केषुचिद्द्रव्येषु दोषा- भावः । यथाह मरीचिः—'लवणे मधुमांसे च पुष्पमूलफलेषु च । शाक- षाडवगुम्बप्सु दधिसर्पिःपयस्सु च ॥ तिलौषधाजिने चैव पक्कापक्के स्वयं ग्रहः । दन्येषु चैव सर्वेषु नाशीचं मृतसूतके ॥' इति । पक्वं भक्ष्यजातं मोदकादि,

अपक्वं तण्डुलादि, 'स्वयंग्रह' इति स्वयमेव स्वाम्यनुज्ञातो गृह्णीयादित्यर्थः । एकापक्वाभ्यनुज्ञानमसत्सत्रप्रवृत्तविषयम् ; 'असत्सत्रप्रवृत्तानामाममन्नमगहितम् । भुक्त्वा पक्वान्नमेतेषां त्रिरात्रं तु पयः पिबेत् ॥' इत्यङ्गिरःस्मरणात् । अत्र 'पक्व' शब्दो भक्ष्यव्यतिरिक्तौदनादिविषयः ॥ शवसंसर्गनिमित्ताशौचे त्वङ्गिरा विशेष उक्तः- 'आशौचं यस्य संसर्गादापतेद्गृहमेधिनः । क्रियास्तस्य न लुप्यन्ते गृहाणां च न तद्भवेत् ॥' इति, -तदाशौचं केवलं गृहमेधिन एव; न पुनस्तद्गृहे भवानां भार्यादीनां तद्द्रव्याणां च भवेदित्यर्थः । अतिक्रान्ताशौचेऽप्ययमेवार्थः स्मृत्यन्तरे दर्शितः-'अतिक्रान्ते दशाहे तु पश्चाज्जानाति चेद्गृही । त्रिरात्रं सूतकं तस्य न तद्द्रव्यस्य कर्हिचित् ॥' ( मनुः ५।७६ ) इति ॥ १७ ॥ भाषा-एक दिन मिट्टी के ( दो ) पात्रों में पृथक्-पृथक् जल और दूध आकाश में ( शिक्या-सिकहर-पर ) रखना चाहिए । श्रुति के आदेश से अग्निहोत्र आदि वैतानिक और एवं गृह्याग्नि से किये जाने वाला उपासन कर्म एवं सायं-प्रातः होम क्रिया करनी चाहिए ॥ १७ ॥ एवमाशौचिनो विधिप्रतिषेधरूपान्धर्मानभिधायाधुना आशौचनिमित्तं कालनियमं चाह- त्रिरात्रं दशरात्रं वा शावमाशौचमिष्यते । ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ १८ ॥ शवनिमित्तं शावम् । 'सूतक'शब्देन च जननवाचिना तन्निमित्तमाशौचं लक्ष्यते । एवं च वदता जननमरणयोराशौचनिमित्तत्वमुक्तं भवति । तच्च जनन- मरणमुत्पन्नज्ञातमेव निमित्तम् । 'निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च' ( मनुः ५।७७ ) इत्यादि लिङ्गदर्शनात् । तथा ( मनुः ५।७५ ) -'विगतं तु विदे- शस्थं शृणुयाद्यो ह्यनिर्दशम् । यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥' इत्यादि- वाक्यान्यसामर्थ्याच्च । उत्पत्तिमात्रापेक्षत्वे ह्याशौचस्य दशाहाद्याशौचकालनिय- मास्तत्तत्प्रभृतिका एवेति अनिर्दशज्ञातिमरणश्रवणे दशरात्रशेषमेवा शौचमर्थात्सि- द्धयतीति 'यच्छेषं दशरात्रस्य' इत्यनारम्भणीयं स्यात् । तस्माज्ज्ञातमेव जननं मरणं च निमित्तम् । तच्चोभयनिमित्तमप्याशौचं त्रिरात्रं दशरात्रं चेष्यते मन्वादिभिः ॥ अत्राशौचप्रकरणे अहर्ग्रहणं रात्रिग्रहणं चाहोरात्रोपलक्षणार्थम् । मन्वादिभिः 'इष्यते' इति वचनं तदुक्तसपिण्डसमानोदकरूपविषयभेदप्रदर्शनार्थम् ॥ तथा हि ( मनुः ५।५९ ) -'दशाहं शावमाशौचं सपिण्डेषु विधीयते ।', 'जनने- ऽप्येवमेव स्यान्निपुणां शुद्धिमच्छताम् ॥' ( मनुः ५।६१ ) 'जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते' । ( मनुः ५।७१ ) 'शवस्पृशो विशुद्ध्यन्ति त्र्यहात्तूदकदा- १. अनुज्ञातमन्न ।

४०८ याज्ञवल्क्यस्मृतिः यिनः ॥' ( मनुः ५।६४ ) इत्येतैर्वाक्यैस्त्रिरात्रदशरात्रयोः समानोदकसपिण्ड- विषयत्वेन व्यवस्था कृता । अतः सपिण्डानां सप्तमपुरुषावधिकानामविशेषेण दशरात्रम् , समानोदकानां त्रिरात्रमिति ॥ यत्पुनः स्मृत्यन्तरवचनम्-‘चतुर्थे दशरात्रं स्यात्षण्णिशः पुंसि पञ्चमे । षष्ठे चतुरहाच्छुद्धिः सप्तमे त्वहरेव तु ॥’ इति, तद्विगीतत्वाच्चादरणीयम् । यद्यप्यविगीतं तथापि मधुपर्काङ्गपश्वालम्भनव- ल्लोकविद्विष्टत्वान्नानुष्ठेयम् । 'अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु, (आ० १५६) इति मनुस्मरणात् । नच सप्तमे प्रत्यासन्ने सपिण्ड एकाहो विप्रकृष्ट्राष्टमादिषु समानोदकेषु त्र्यहमिति युक्तम् । एवमविशेषेण सपिण्डादामाशौचे प्राप्ते कचि- द्वियमार्थमाह । ऊनद्विवर्षे संस्थिते उभयोरेव मातापित्रोर्दशरात्रमाशौचं न सर्वेषां सपिण्डानाम् । तेषां तु वक्ष्यति ‘आ दन्तजन्मनः सद्यः’ ( प्रा० २३ ) इति । तथा च पैङ्ग्यः—‘गर्भस्थे प्रेते मातर्दशाहं, जात उभयोः, कृते नाम्नि सोदराणां च' इति । अथवा अयमर्थः-ऊनद्विवर्षे संस्थिते उभयोर्मातापि- त्रोरेव अस्पृश्यत्वलक्षणमाशौचं न सपिण्डानाम् । तथा स्मृत्यन्तरे—‘ऊनद्विवर्षे प्रेते मातापित्रोरेव नेतरेषाम्' इति अस्पृश्यत्वलक्षणमभिप्रेतम् । इतरस्य पुनः कर्माण्यनधिकारलक्षणस्य सपिण्डेष्वपि ‘आ दन्तजन्मनः सद्यः’ ( प्रा० २३ ) इत्यादिभिर्विहितत्वात् । अत्र दृष्टान्तः—सूतकं मातुरेव हीति । यथा सूतकं जनननिमित्तमस्पृश्यत्वलक्षणमाशौचं मातुरेव केवलं तथोनद्विवर्षोपरमे मातापि- त्रोरेवास्पृश्यत्वमिति । ऊनद्विवर्षे सपिण्डानामस्पृश्यत्वं प्रतिषेधताऽन्यत्रास्पृश्य- त्वमभ्यनुज्ञातं भवति । तथा च देवलः—‘स्वाशौचकालाद्द्विज्ञेयं स्पर्शनं च त्रिभागतः । शूद्रविट्क्षत्रविप्राणां यथाशास्त्रं प्रचोदितम् ॥' इति । एतच्चानुपनीत- प्रयाणनिमित्ते अतिक्रान्ताशौचे च त्रिरात्रादौ वेदितव्यम् । उपनीतविषयेऽपि तेनैवोक्तम्—‘दशाहादित्रिभागेन कृते संचयने क्रमात् । अङ्गस्पर्शनमिच्छन्ति वर्णानां तत्त्वदर्शिनः ॥ त्रिचतुःपञ्चदशभिः स्पृश्या वर्णाः क्रमेण तु । भोज्यान्नो दशभिर्विप्रः शेषा द्वित्रिपञ्चोत्तरैः ॥’ इति । द्वयुत्तरैर्दशभिः त्र्युत्तरैर्द्वादशभिः पञ्च- त्तरैः पञ्चदशभिरिति द्रष्टव्यम् ॥ १८ ॥ भाषा-शव सम्बन्धी (मृत्यु के कारण) आशौच तीन दिन या दस दिन का होता है दो वर्ष से कम आयु के बालक का आशौच माता-पिता को होता है और सूतक ( जन्म के समय का आशौच ) केवल माता को ही होता है ॥ १८ ॥

जनननिमित्तमस्पृश्यत्वलक्षणमाशौचमाह- पित्रोस्तु सूतकं मातुस्तदङ्गदर्शनाद् ध्रुवम् । तदहर्न प्रदूष्येत पूर्वेषां जन्मकारणात् ॥ १९ ॥

प्रायश्चित्ताध्यायः ४०६ सूतकं जनननिमित्तमस्पृश्यत्वलक्षणमाशौचं पित्रोर्मातापित्रोरेव, न सर्वेषां सपिण्डानाम् । तच्चास्पृश्यत्वं मातृध्रुवं दशाहपर्यन्तं स्थिरमित्यर्थः । कुतः ? तदसृग्दर्शनात् तस्याः संबन्धिस्वेनासृजो दर्शनात् । अत एव वसिष्ठः (४।२३) —'नाशौचं विद्यते पुंसः संसर्ग चेन्न गच्छति । रजस्तत्राशुचि ज्ञेयं तच्च पुंसि न विद्यते ॥' इति । पितुस्तु ध्रुवं न भवति स्नानमात्रेणास्पृश्यत्वं निवर्तते, यथाऽऽह संवर्तः—'जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते । माता शुद्ध्येद्द- शाहेन स्नानात्तु स्पर्शनं पितुः ॥' इति । 'माता शुद्ध्येद्दशाहेन' इत्येतच्च संव्य- वहारयोग्यतामात्रम् । अदृष्टार्थेषु पुनः कर्मसु पैठीनसिना विशेष उक्तः—'सूतिकां पुत्रवतीं विंशतिरात्रेण कर्माणि कारयेत् । मासेन स्त्रीजननीम्' इति । अङ्गिरसा च सपिण्डानाम् अस्पृश्यत्वाभावः स्पष्टीकृतः—'सूतके सूतिकावर्ज्य संस्पर्शो न निषिध्यते । संस्पर्शे सूतिकायास्तु स्नानमेव विधीयते ॥' इति । यस्मिन्द्दिवसे कुमारजननं तदहर्न प्रदुष्येत् । तन्निमित्तदानाद्यधिकारापहारकृन्न भवतीत्यर्थः । यस्मात्तस्मिन्नहनि पूर्वेषां पित्रादीनां पुत्ररूपेण जन्म उत्पत्तिस्तस्मात्तदहर्न प्रदु- ष्येत् । तथा च वृद्धयाज्ञवल्क्येनोक्तम्—'कुमारजन्मदिवसे विप्रैः कार्यः प्रति- ग्रहः । हिरण्यभूगवाश्वाजवासःशय्यासनादिषु ॥ तत्र सर्वं प्रतिग्राह्यं कृतान्नं नतु भक्षयेत् । भक्षयित्वा तु तन्मोहाद् द्विजश्चान्द्रायणं चरेत् ॥' इति ॥ व्यासेनाप्यत्र विशेष उक्तः—'सूतिकावासनिलया जन्मदा नाम देवताः । तासां यागनिमित्तं तु शुचिर्जन्मनि कीर्तिता ॥ प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा । त्रिष्वेतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥' मार्कण्डेयेनाप्युक्तम्—'रक्षणीया तथा षष्ठी निशा तत्र विशेषतः । रात्रौ जागरणं कार्य जन्मदानां तथा बलिः ॥ पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः । रात्रौ जागरणं कुर्युर्दशम्यां चैव सूतके ॥' इति ॥ १९ ॥ भाषा—जन्म का सूतक (अस्पृश्यत्व) माता-पिता को ही होता है (सभी सपिण्डों को नहीं), उसमें भी माता का रुधिर दिखाई पड़ने से उसे निश्चित रूप से (दस दिन तक) सूतक होता है। जिस दिन बालक का जन्म होता है वह दिन दान आदि के लिए अशुद्ध नहीं होता, क्योंकि पूर्वपुरुष (पितर) ही पुत्र के रूप में जन्म लेते हैं ॥ १९ ॥ आशौचमध्ये पुनर्जन्मने मरणे वा जाते 'प्रतिनिमित्तं नैमित्तिकमावर्तते' इति न्यायेन पुनर्द्दशाहाद्याशौचप्राप्तौ तदपवादमाह— अन्तरा जन्ममरणे शेषाद्होभिर्विशुद्धयति । वर्णापेक्षया वयोवस्थापेक्षया वा यस्य यावानाशौचकालस्तदन्तरा तत्समस्य ततो न्यूनस्य वाऽऽशौचस्य निमित्तभूते जनने मरणे वा जाते पूर्वां शौचा- वशिष्टैरेवाह्नोभिर्विशुद्धयति । न पुनः पश्चादुत्पन्नजननादिनिमित्तं पृथ-

४१० याज्ञवल्क्यस्मृतिः

द्वपृथगाशौचं कार्यम् । यदा पुनरल्पाद्वर्तमानाशाैचाद्दीर्घकालमाशौचमन्तरा पतति तदा न पूर्वशेषेण शुद्धिः । यथाऽऽहोशनाः—‘स्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद्यदि । न पूर्वेण विशुद्धिः स्यात्स्वकालेनैव शुद्ध्यति ॥’ इति । यमोऽप्याह—‘अघवृद्धिमदाशौचं पश्चिमेन समापयेत्’ इति । अत्र ‘चान्तरा जन्ममरणे’ इति यद्यप्यविशेषेणाभिहितं, तथापि न सूतकान्तर्वर्तिनः शावस्य पूर्वाशौचशेषेण शुद्धिः । यथाहाङ्गिराः—‘सूतके मृतकं चेत्स्यान्मृतके त्वथ सूत- कम् । तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकम् ॥’ इति । तथा षट्त्रिंशन्मते- ऽपि- ‘शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् । शावेन शुद्ध्यते सूतिर्न सूतिः शावशोधिनी ॥’ इति । तस्मान्न सूतकान्तःपातिनः शावाशौचस्य पूर्वशेषेण शुद्धिः, किंतु शावान्तःपातिन एव सूतकस्य । तथा सजातीयान्तःपातित्वेऽपि शावस्य क्वचिदपूर्वशेषेण शुद्धेरपवादः स्मृत्यन्तरे दर्शितः—‘मातर्यग्रे प्रमीताया- मशुद्धौ म्रियते पिता । पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम् ॥’ इति । अयमर्थः—मातरि पूर्वं मृतायां तन्निमित्ताशौचमध्ये यदि पितुरुपरमः स्यात्तदा न पूर्वशेषेण शुद्धिः, किंतु पितुः प्रायणनिमित्ताशौचकालेनैव शुद्धिः कार्या । तथा पितुः प्रायणनिमित्ताशौचमध्ये मातरि स्वर्यातायामपि न पूर्वशेषमात्राच्छुद्धिः किंतु पूर्वाशौचं समाप्योपरि पक्षिणीं क्षिपेत् इति ॥ तथाऽऽशौचसन्निपातकाल- विशेषकृतोऽप्यपवादो गौतमेनोक्तः ( १४।७, ८ )—‘रात्रिशेषे सति द्वाभ्यां प्रभाते तिसृभिः’ इति । अयमर्थः—रात्रिमात्रावशिष्टे पूर्वाशौचे यद्याशौचान्तरं सन्नि- पतेत्तर्हि पूर्वाशौचं समाप्यानन्तरं द्वाभ्यां रात्रिभ्यां शुद्धिः । प्रभाते पुनस्तस्या रात्रेः पश्चिमे यामे जननाशौचान्तरसन्निपाते सति तिसृभी रात्रिभिः शुद्धिः, न पुनस्तच्छेषमात्रेण । शातातपेनाप्युक्तम्—‘रात्रिशेषे द्वयहाच्छुद्धिर्यामशेषे शुचिस्त्र्यहात्’ इति । प्रेतक्रिया पुनः—‘सूतकसंनिपातेऽपि न निवर्तत’ इति तेनैवो- क्तम्—‘अन्तर्दशाहे जननात्पश्चात्स्यान्मरणं यदि । प्रेतमुद्दिश्य कर्तव्यं पिण्डदानं स्वबन्धुभिः ॥ प्रारब्धे प्रेतपिण्डे तु मध्ये चेज्जननं भवेत् । तथैवाशौचपिण्डांस्तु शेषान्दद्याद्यथाविधि ॥’ इति । तथा शावाशौचयोः सन्निपातेऽपि प्रेतकृत्यं कार्यम्; तुल्यन्यायत्वात् । तथा जातकर्मादिकमपि पुत्रजन्मनिमित्तकमाशौचान्त- रसन्निपातेऽपि कार्यमेव । यथाह प्रजापतिः—‘आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन शुद्ध्यति ॥’ इति ॥

पूर्णप्रसवकालजननाशौचमभिधायाधुना अप्राप्तकालगर्भनिःसरणनिमित्तमा- शौचमाह— गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् ॥ २० ॥

पाठा०—१. अहोवृद्धिमत् । २. शावस्य ।

प्रायश्चित्ताध्यायः ४११ स्रवतिर्यद्यपि लोके द्रवद्रव्यकर्तृके परिस्पन्दे प्रयुज्यते, तथाऽप्यत्र द्रवाद्ववद्रव्यसा- धारणरूपेऽधःपतने वर्तते । कुतः ? द्रवत्वस्य प्रथममास एव संभवात्तत्र च 'मास- तुल्या निशाः' इति बहुवचनानुपपत्तेः । गर्भस्रावे यावन्तो गर्भग्रहणमासास्त- त्समसंख्याका निशाः शुद्धेः कारणम् । एतच्च स्त्रिया एव; 'गर्भस्रावे मासतुत्या रात्रयः स्त्रीणां, स्नानमात्रमेव पुरुषस्य' इति वृद्धवसिष्ठस्मरणात् । यत्पुनर्गौतमेन 'त्र्यहं च' (१४।१८) इति त्रिरात्रमुक्तं,-तन्मासत्रयादर्वाग्वेदितव्यम्; 'गर्भस्रुत्यां यथामासमचिरे तूत्तमे त्रयः । राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव तु ॥ अष्टाहन तु शूद्रस्य शुद्धिरेषा प्रकीर्तिता ॥' इति मरीचिस्मरणात् । अचिरे मासत्रयादर्वाक् गर्भस्रावे उत्तमे ब्राह्मणजातौ त्रिरात्रमित्यर्थः । एतच्च षष्ठमासपर्यन्ते द्रष्टव्यम् । सप्तमादिषु पुनः परिपूर्णमेव प्रसवाशौचं कार्यम् ; तत्र परिपूर्णाङ्गगर्भस्य जीवतो निर्गमदर्शनात् । तत्र च लोके 'प्रसव'शब्दप्रयोगात्, 'षण्मासाभ्यन्तरे यावद्गर्भस्रावो भवेद्यदा । तदा माससमैस्तासां दिवसैः शुद्धिरिष्यते ॥ अत ऊर्ध्वं स्वजात्युक्तं तासामाशौचमिष्यते । सद्यःशौचं सपिण्डानां गर्भस्य पतने सति ॥' इति स्मरणात् ॥ एतच्च सपिण्डानां सद्यःशौचविधानं द्रबभूतगर्भपतने वेदितव्यम् । यत्पुनर्वसिष्ठवचनम् (४।३४) —'ऊनद्विवार्षिके प्रेते गर्भस्य पतने च सपिण्डानां त्रिरात्रम्' इति,-तत्पञ्चमषष्ठयोः कठिनगर्भपतनविषयम्; 'आचतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः । अत ऊर्ध्वं प्रसूतिः स्याद्दशाहं सूतकं भवेत् ॥ स्रावे मातुस्त्रिरात्रं स्यात्सपिण्डाशौचवर्जनम् । पाते मातुर्य- थामासं पित्रादीनां दिनत्रयम् ॥' इति मरीचिस्मरणात् ॥ सप्तममासप्रभृति मृतजनने जातम्ते वा सपिण्डानां जनननिमित्तं परिपूर्णमाशौचम् ; 'जातम्ते मृतजाते वा सपिण्डानां दशाहम्' इति हारीतस्मरणात् , ''अतः सूतके चेदो- त्थानादाशौचं सूतकवत्' इति पारस्करवचनाच्च । आ उत्थानादासूतिकाया उत्था- नाह्नाहामिति यावत् । सूतकवदिति शिशूपरमनिमित्तोदकदानरहित मित्यर्थः । बृहन्मनुरपि—'दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवैः । शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते ॥' इति । तथा च स्मृत्यन्तरोऽपि—'अगतदशाहोपरतस्य सूतिकाद्दोभिरेवाशौचम्' इति । एवमादिवचननिचयपर्यालोचनया सपिण्डानां जनननिमित्ताशौचसंकोचो नास्तीति गम्यते । यत्पुनर्बृहद्विष्णुवचनम्—'जाते मृते मृतजाते वा कुलस्य सद्यःशौचम्' इति,-तच्छिशूपरमनिमित्तस्याशौचस्य स्नानाच्छुद्धिप्रतिपादनपरं न प्रसविनिमित्तस्य । तथा च पारस्करः—'गर्भे यदि विपत्तिः स्याद्दशाहं सूतकं भवेत्।' सपिण्डानां प्रसविनिमित्तस्य विद्यमानत्वात् ।- 'जीवञ्जातो यदि प्रेयात्सद्य एव विशुद्ध्यति' इति प्रेताशौचाभिप्रायम् । तथा च १. पर्यंतम् । २. अत ऊर्ध्व प्रसबो दशाद्दम् ।

४१२ याज्ञवल्क्यस्मृतिः शङ्खनोक्तम्—'प्राङ्नामकरणात्सद्यःशौचम्' इति । यत्पुनः कात्यायनवचनम्— अनिवृत्ते दशाहे तु पञ्चत्वं यदि गच्छति । सद्य एव विशुद्धिः स्यान्न प्रेतं नोदक- क्रिया ॥' इति, - तदपि वैष्णवेन समानार्थम् । यद्वा तु 'न प्रेतं नैव सूतक'मिति पाठस्तदा सूतकमस्पृश्यत्वं नैव पित्रादीनां भवतीत्यर्थः । अथवाऽयमर्थः - अन्त- र्दशाहे यदि शिशुरुपरमस्तदा न प्रेताशौचम् । यदि तत्र सपिण्डजननं तदा सूतक- मपि नैव कार्यं, किंतु पूर्वाशौचेनैव शुद्धिरिति । यत्तु बृहन्मनुवचनम्— 'जीवञ्जातो यदि ततो मृतः सूतक एव तु । सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ॥ इति । यच्च बृहत्प्रचेतोवचनम्— 'मुहूर्तं जीवितो बालः पञ्चत्वं यदि गच्छति । मातुः शुद्धिर्दशाहेन सद्यः शुद्धास्तु गोत्रिणः ॥' इति, तत्रेयं व्यवस्था - जनना- नन्तरं नाभिवर्धनात्प्राङ् मृतौ पित्रादीनां जनननिमित्तमाशौचं दिनत्रयम् । सद्यः- शौचं त्वग्निहोत्रार्थम् ; 'अग्निहोत्रार्थं स्नानोपस्पर्शानात्तत्कालं शौचम्'इति शङ्ख- स्मरणात् । नाभिवर्धनोत्तरकालं तु शिशुप्रायणेऽपि जनननिमित्तं संपूर्णमाशौचं सपिण्डानाम् । 'यावन्न छिद्यते नाळं तावन्नाप्नोति सूतकम् । छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते ॥' इति जैमिनिस्मरणात् । मनुनाऽप्ययमर्थो दर्शितः (५।६६)-'रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावे विशु- द्ध्यति । रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥' इति पूर्वभागस्यार्थो दर्शितः । उत्तरस्य त्वयमर्थः- रजसि निःसरणादुपरते निवृत्ते रजस्वला स्त्री स्नानेन साध्वी दैवादिकर्मयोग्या भवति । स्पर्शनादिविषये पुनरनुपरतेऽपि रजसि चतुर्थे- ऽहनि स्नानाच्छुद्धा भवति । तदुक्तं वृद्धमनुना - 'चतुर्थेऽहनि संशुद्धा भवति व्यावहारिकी' इति । तथा स्मृत्यन्तरम् - 'शुद्धां भर्तुश्चतुर्थेऽह्नि स्नानेन स्त्री रजस्वला । दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्ध्यति ॥' 'पञ्चमेऽहनि' इति रजो Calderानिवृत्तिका लोपलक्षणार्थम् । यदा रजोदर्शनादारभ्य पुनः सप्तदश दिनाभ्यन्तरे रजोदर्शनं तदा अशुचित्वं नास्त्येव; अष्टादशे त्वेकाहाच्छुद्धिः, एकोनविंशे द्वयहात् , तत उत्तरेषु त्र्यहाच्छुद्धिः । यथाहान्त्रिः- 'रजस्वला यदि स्नाता पुनरेव रजस्वला । अष्टादशदिनादर्वागशुचित्वं न विद्यते ॥ एकोनविंशतेर्वागे- काहं स्यात्ततो द्वयहम् । विंशत्प्रभृत्युत्तरेषु त्रिरात्रमशुचिर्भवेत् ॥' इति ।— यत्तु 'चतुर्दशदिनादर्वागशुचित्वं न विद्यते' इति स्मृत्यन्तरं, तत्र स्नानप्रभृतिष्व- मभिप्रेतमतो न विरोधः । अयं चाशुचित्वप्रतिषेधो यस्या विंशतिदिनोत्तरकाल- मेव प्रायशो रजोदर्शनं तद्विषयः । यस्याः पुनरारूढयौवनायाः प्रागेवाष्टादशदिना- त्प्राचुर्येण रजोनिर्गमस्तस्यास्त्रिरात्रमेवाशौचम् । तया च यावत्त्रिरात्रं स्नानादि- रहितया स्थातव्यम् ; 'रजस्वला त्रिरात्रमशुचिर्भवति सा च नाञ्जीत नाभ्यञ्जीत

१. सूतकाहोभिः । २. सद्यः शौचास्तु ।

प्रायश्चित्ताध्यायः ४१३ नाप्सु स्नायादधः शयीत न दिवा स्वप्यात् न ग्रहाक्षिरिचेत नाग्निं स्पृशेत् नाश्नीयान्न रज्जुं सृजेत् न च दन्तान्धावयेत् न हसेन्नच किंचिदाचरेत् अखर्वेण पात्रेण पिबेदञ्जलिना वा पात्रेण लोहितायसेन वेति विज्ञायते' (४-७) इति वसिष्ठस्मरणात् । आङ्गिरसेऽपि विशेषः—'हस्तेऽश्नीयान्मृन्मये वा हविर्भुक् क्षितिशायिनी । रजस्वला चतुर्थेऽह्नि स्नात्वा शुद्धिमवाप्नुयात् ॥' इति । पराशरेऽपि विशेषः— 'स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला । पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत् ॥ सिक्तगात्रा भवेदद्भिः साङ्गोपाङ्गा कथंचन । न वस्त्रपीडनं कुर्यान्नान्य- द्वासाश्च धारयेत् ॥' इति उशनसाऽप्यत्र विशेषो दर्शितः—'ज्वराभिभूता या नारी रजसा च परिप्लुता । कथं तस्या भवेच्छौचं शुद्धिः स्यात्केन कर्मणा ॥ चतुर्थेऽहनि संप्राप्ते स्पृशेदन्थाऽशुचिस्त्रियम् । सा सचैलावगाह्यापः स्नात्वा स्नात्वा पुनः स्पृशेत् । दशद्वादशकृत्वो वा आचमेच्च पुनः पुनः ॥ अन्ते च वाससां त्यागस्ततः शुद्धा भवेच्च सा । दद्याच्छक्त्या ततो दानं पुण्याहेन विशु- द्ध्यति ॥' इति । अयं चातुरमात्रे स्नानप्रकारोऽनुसरणीयः ।. 'आंतुरे स्नान उत्पन्ने दशकृत्वो ह्यनातुरः । स्नात्वा स्नात्वा स्पृशेदेनं ततः शुद्ध्येत्स आतुरः ॥' (७।१०) इति पराशरस्मरणात् । यदा तु रजस्वलायाः सूतिकाया वा मृतिर्भवति तदायं स्नान- प्रकारः—'सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः । कुम्भे सलिलमादाय पञ्चगव्यं तथैव च ॥ पुण्यर्भिरभिमन्त्र्यापो वाचा शुद्धिं लभेत्ततः । तेनैव स्नाप- यित्वा तु दाहं कुर्याद्यथाविधि ॥' रजस्वलायास्तु—'पञ्चभिः स्नापयित्वा तु गव्यैः प्रेतां रजस्वलाम् । वस्त्रान्तरावृतां कृत्वा दाहयेद्विधिपूर्वकम् ॥' इति । एतच्च रजोदर्शनपुत्रजन्मादि; यद्युदयोत्तरकालमुत्पन्नं तदा तद्दिवसप्रभृ- त्याशौचाहोरात्रगणन। कार्या। यदा तु रजन्यां रजोदर्शनपुत्रजन्मादि जातं तदार्ध- रात्रीप्राक् जननाद्युत्पत्तौ पूर्वदिवसैकदेशव्यापित्वेऽपि आशौचस्य तत्पूर्वदिवस- प्रभृत्यैव गणन। कार्येत्येकः कल्पः । रात्रिं त्रेधा विभज्याद्ये भागद्वये जननादौ जाते पूर्वदिनं ग्राह्यमिति द्वितीयः । प्रागुदयादित्यपरः । यथाह कश्यपः — 'उदिते तु यदा सूर्ये नारीणां दृश्यते रजः । जननं वा विपत्तिर्वा यस्याहस्तस्य शर्वरी ॥ अर्ध- रात्रावधिः कालः सूतकादौ विधीयते । रात्रिं कुर्यात्त्रिभागां तु द्वौ भागौ पूर्व एव तु ॥ उत्तरांशः प्रभातेन युज्यते ऋतुसूतके । रात्रावेव समुत्पन्ने मृते रजसि सूतके ॥ पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविः ॥' इति । यतेषां च कल्पानां देशाचारतो व्यवस्था विज्ञेया । १. आशौचपूर्वदिनम् । २. यावन्नाभ्युदितो रविः ।

४१४ याज्ञवल्क्यस्मृतिः इदं चाशौचमाहिताग्नेरुपरमे संस्कारदिवसप्रभृति कर्तव्यम्। अनाहि- ताग्नेस्तु मरणदिवसप्रभृति संचयनं तूभयोरिति संस्कारदिवसप्रभृतीति विवेच- नीयम् । यथाहाङ्गिराः—'अनग्निमत उत्क्रान्तेः साग्नेः संस्कारकर्मणः । शुद्धिः संचयनं दाहान्मृताहस्तु यथाविधि ॥' इति । 'साग्नेः संस्कारकर्मणः' इति श्रवणादाहिताग्नौ पितरि देशान्तरमृते तत्पुत्रादीनामासंस्कारात्संध्यादिकर्मलोपो नास्तीत्यनुसंधेयम् । तथा च पैठीनसिः—'अनग्निमत उत्क्रान्तेराशौचं हि द्विजातिषु । दाहादग्निमतो विद्याद्देशस्थे मृते सति ॥' इति ॥ २० ॥ भाषा—एक आशौच के भीतर ही जन्म या मरण आ जावे तो उसके बाद प्रथम आशौच के जितने दिन शेष हों उतने ही दिनों में शुद्धि होती है। गर्भस्राव होने पर जितने मास का गर्भ रहा हो उतने ही दिन में शुद्धि होती है ॥ २० ॥ सपिण्डत्वादिना दशाहादिप्राप्तौ कचिन्मृत्युविशेषेणापवादमाह— हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् । नृपोऽभिषिक्तः क्षत्रियादिः 'गो'ग्रहणं शृङ्गिदंष्ट्रयादितिरश्चामुपलक्षणार्थम्, 'विप्र'ग्रहणमन्यजोपलक्षणम् ; एतैर्हतानां संबन्धिनो ये सपिण्डास्तेषाम्, विषोद्वन्धनादिभिः बुद्धिपूर्वमात्मानं ये व्यापारयन्ति ते आत्मघातिनः ; 'आत्म- घाति'ग्रहणं 'पाखण्ड्यनाश्रिता' ( प्रा० ६-११ ) इत्येकयोगोपात्तपतितपा- त्रोंपलक्षणार्थम् । तत्संबन्धिनां चान्वक्षममुगतमक्षमन्वक्षं सद्यः शौचमित्यर्थः । तत्संबन्धिनां च सान्वक्षं यावद्दर्शनमाशौचं न पुनर्दशाहादिकम् । तथा च गौतमः ( १४।९—१२ )—'गोब्राह्मणहतानामन्वक्षं राजक्रोधाच्चायुद्धे प्रायोऽ- नाशकशस्त्राग्निविषोदकोद्वन्धनप्रपतनैश्चेच्छताम्' इति । 'क्रोध'ग्रहणं प्रमादव्या- पादितनिरासार्थम् । 'अयुद्ध'ग्रहणं युद्धहतस्यैकाहमाशौचमस्तीति ज्ञापनार्थम् ; 'ब्राह्मणार्थे विपन्नानां योषितां गोग्रहेऽपि च । आहवेऽपि हतानां च एकरात्रम- शौचकम् ॥' इति स्मरणात् । एतच्च युद्धकालमृतेनैव कालान्तरविपन्नस्य । समरमूर्धनि हतस्य पुनः सद्यः शौचम् । यथाह मनुः ( ५।९८ )— 'उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च । सद्यः संतिष्ठते यज्ञस्तथाऽऽशौचमिति स्थितिः ॥' इति ॥— ज्ञातस्यैव जननादेशौचनिमित्तत्वाज्जन्मदिनादुत्तरकालेऽपि ज्ञाते दशाहा- दिप्राप्तावपवादमाह— प्रोषिते कालशेषः स्यात्पूर्णे दत्त्वोदकं शुचिः ॥ २१ ॥

१. यथातिथीति । २. विप्रगोनृपहतानामन्वक्षं । ३. शौचमित्यर्थः न पुनः । ४. स्यादशेषे त्र्यहमेव च ।

प्रायश्चित्ताध्यायः ४१५ प्रोषिते देशान्तरस्थे यन्नशेन प्रथमदिवस एव सपिण्डजननादिकं न ज्ञायते तस्मिन्सपिण्डे कालस्य दशाहाद्यवच्छिन्नस्य यः शेषोऽवशिष्टकालः स एव शुद्धि- हेतुर्भवति । पूर्णे पुनराशौचकाले दशाहादिके प्रेतायोदकं दत्त्वा शुद्धिर्भवति । उदकदानस्य ज्ञानपूर्वकत्वात्स्नात्वोदकं दत्त्वा शुचिर्भवति । तदुक्तं शुचिर्भवति । तदुक्तं मनुना ( ५।७७ ) - 'निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमाप्लुत्य शुद्धो भवति मानवः ॥' इति । 'पूर्णे दत्त्वोदकं शुचिः' इति प्रेतोदकदानसहचरितस्याशौचकालस्य शुद्धिहेतुत्वविधानात् । जन्मन्यति- क्रान्ताशौचं सपिण्डानां नास्तीति गम्यते । पितुस्तु निर्दशेऽपि जनने स्नान- मस्येव; 'श्रुत्वा पुत्रस्य जन्म च' इति वचनात् । एतच्च 'पुत्र'ग्रहणं जन्मनि सपिण्डानामतिक्रान्ताशौचं नास्तीति ज्ञापकम् । अन्यथा 'निर्दशं ज्ञातिमरणं श्रुत्वा जन्म च निर्दशम्' इत्येवावक्ष्यत् । न चोक्तम् । तथा च देवलः - 'नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिनेष्वपि' इति । तस्माद्विपत्तावेवातिक्रान्ताशौचमिति स्थितम् ॥ केचिदन्यथैमं श्लोकं पठन्ति- 'प्रोषिते कालशेषः स्यादाशेपे त्र्यहमेव तु । सर्वेषां वत्सरे पूर्णे प्रेते दत्त्वोदकं शुचिः ॥' इति । 'प्रोषिते प्रेते सर्वेषां ब्राह्मणक्षत्रियादीनामविशेषेण कालशेषः शुद्धिहेतुः । अशेपे पुनरतिक्रान्ते दशाहादौ सर्वेषां त्र्यहमेवाशौचम् । संवत्सरे पूर्णे यदि प्रोषितप्रायणमवगतं स्यात्तदा सर्वो ब्राह्मणादिः स्नात्वोदकं दत्त्वा शुचिः स्यात् । तथा च मनुः ( ५।७६ ) - 'संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति' इति । अयं च त्र्यहो दशाहादूर्ध्वं मासत्रयादर्वाग्द्रष्टव्यः । पूर्वोक्तं तु सद्यःशौचं नवममासादूर्ध्वमर्वा- क्संवत्सराद् द्रष्टव्यम् । यत्पुनर्वासिष्ठं वचनम् - 'ऊर्ध्वं दशाहाच्छ्रुत्वैकरात्रम्' इति, -तदूर्ध्वं षण्मासेभ्यो यावन्नवमम् । यद्यपि गौतमवचनम् ( १४।१९ )- 'श्रुत्वा चोर्ध्वं दशम्याः पक्षिणी' इति, तन्मासत्रयादूर्ध्वमर्वाक्चष्ठात् । तथा च वृद्धवसिष्ठः - 'मासत्रये त्रिरात्रं स्यात्षण्मासे पक्षिणी तथा । अहस्तु नवमाद- र्वागूर्ध्वं स्नानेन शुद्ध्यति ॥' इति । एतच्च मातापितृव्यतिरिक्तविषयम् । 'पितरौ चेन्मृतौ स्यातां दूरस्थोऽपि हि पुत्रकः । श्रुत्वा तद्दिनमारभ्य दशाहं सूतकी भवेत् ॥' इति पैठीनसिस्मरणात् । तथा च स्मृत्यन्तरेऽपि-'महागुरु- निपाते तु आर्द्रवस्त्रोपवासिना । अतीतेऽब्देऽपि कर्तव्यं प्रेतकार्यं यथाविधि ॥' इति । संवत्सरादूर्ध्वमपि प्रेतकार्यमाशौचोदकदानादिकं कार्यं, न पुनः स्नानमा- त्राच्छुद्धिरित्यर्थः । पितृपत्न्यामपि मातृव्यतिरिक्तायां स्मृत्यन्तरे विशेषो दर्शितः - 'पितृपत्न्यामपेतायां मातृवर्जं द्विजोत्तमः । संवत्सरे व्यतीतेऽपि त्रिरात्र- मशुचिर्भवेत् ॥' इति । यस्तु नद्यादिव्यवहिते देशान्तरे मृतस्तत्सपिण्डानां १. मिति स्थितिः । २. प्रोषिते सर्वेषां ।

४१६ याज्ञवल्क्यस्मृतिः दशाहादूर्ध्वं मासत्रयादर्वागपि सद्यःशौचम् ; 'देशान्तरमृतं श्रुत्वा क्लीबे वैखानसे यतौ । मृते स्नानेन शुद्ध्यन्ति गर्भस्रावे च गोत्रिणः ॥' इति । देशान्तरलक्षणं च बृहस्पतिनोक्तम् - 'महानद्यन्तरं यत्र गिरिर्वा व्यव- धायकः । वाचो यत्र विभिद्यन्ते तद्देशान्तरमुच्यते ॥ देशान्तरं वदन्त्येके षष्टियोजनमायतम् । चत्वारिंशद्वदन्त्यन्ये त्रिंशदन्ये तथैव च ॥' इति । इदं चातिक्रान्ताशौचमुपनीतोपरमविषयम् । न पुनर्वयोवस्थाविशेषाशौचविषयमपि । तथा चोक्तं व्याघ्रपादेन - 'तुल्यं वयसि सर्वेषामतिक्रान्ते तथैव च । उपनीते तु विषमं तस्मिन्नेवातिकालजम् ॥' इति । अयमर्थः - वयसि त्रिवर्षादिरूपे यदा- शौचं 'आ दन्तजन्मनः सद्यः' (प्रा० २३) इत्यादिवाक्यविहितं तत्सर्वेषां ब्राह्म- णादिवर्णानां तुल्यमविशिष्टम् । अतिक्रान्ते च दशाहादिके त्र्यहादि यदाशौचं तदपि सर्वेषामविशिष्टम् । उपनीते पुनरुपरमे दशद्वादशपञ्चदशत्रिंशद्दिनानीत्येवं विषममाशौचं ब्राह्मणादीनाम् । तस्मिन्नेवोपनीतोपरम एव अतिकालजमतिक्रा- न्ताशौचं भवति न वयोवस्थाशौचातिक्रम इति ॥ २१ ॥ भाषा - राजा, गौ और ब्राह्मण द्वारा मारे गये एवं स्वयं आत्महत्या करके मरे हुए व्यक्तियों के सम्बन्धी की शुद्धि तत्काल होती है। दूसरे देश में मरे हुए व्यक्ति के लिये (मृत्यु का समाचार ज्ञात होने पर) दस दिनों में जितने दिन शेष रहते हैं उतने दिन में शुद्धि होती है और यदि समय पूरा हो गया हो तो उदक दान देकर ही उसके गोत्र वाले शुद्ध हो जाते हैं ॥२१॥ क्षत्रियादिषु दशरात्रस्य सपिण्डाशौचस्यापवादमाह- क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु । त्रिंशद्दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ॥ २२ ॥ क्षत्रियवैश्यशूद्राणां सपिण्डजनने तदुपपरमे च यथाक्रमेण द्वादशपञ्चदश- त्रिंशद्दिनान्याशौचं भवति । न्यायवर्तिनः पुनः शूद्रस्य पाकयज्ञद्विजशुश्रूषादि- रतस्य तदर्धं तस्य मासस्यार्धं पञ्चदशरात्रमाशौचम् । एवं च 'त्रिरात्रं दशरात्रं वा' (प्रा० १८) इत्येतद्दशरात्रमाशौचं पारिशेष्याद् ब्राह्मणविषये व्यवतिष्ठते स्मृत्यन्तरेषु तु क्षत्रियादीनां दशाहादयोऽप्याशौचकल्पा दर्शिताः । तथाह पराशरः - 'क्षत्रियस्तु दशाहेन स्वकर्मनिरतः शुचिः । तथैव द्वादशाहेन वैश्यः शुद्धिम्वाप्नुयात् ॥' तथा च शातातपः - 'एकादशाहाद्राजन्यो वैश्यो द्वादशभि- स्तथा । शूद्रो विंशतिरात्रेण शुद्ध्येत मृतसूतके ॥' वसिष्ठस्तु - 'पञ्चदशरात्रेण राजन्यो विंशतिरात्रेण वैश्य' इति । अङ्गिरास्त्वाह - 'सर्वेषामेव वर्णानां सूतके मृतके तथा । दशाहाच्छुद्धिरेतेषामिति शातातपोऽब्रवीत् ॥' इत्येवमनेकोच्चाव- १. वैखानसो वानप्रस्थः । २. पुनरुपरते । ३. त्रिरात्रं चेति ।

ष्वाशौचकल्पा दर्शिताः; तेषां लोके समाचाराभावाञ्ज्ञातीव व्यवस्थाप्रदर्शनमुपयो- गीति नात्र व्यवस्था प्रदर्श्यते । यदा पुनर्ब्राह्मणादीनां क्षत्रियादयः सपिण्डा भव- न्ति तदा हारीताद्युक्तमाशौचकल्पोऽनुसरणीयः ।—‘दशाहाच्छुद्ध्यते विप्रो जन्म- हानौ स्वयोनिषु । षड्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ॥’ इति । विष्णुरप्याह ( २२।२३,२४ )—‘क्षत्रियस्य विट्शूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्राभ्यां वैश्यस्य शूद्रे सपिण्डे षड्रात्रेण शुद्धिर्हीनवर्णानां तूतकृष्टेषु सपिण्डेषु जातेषु मृतेषु वा तदाऽऽ- शौचव्यपगमे शुद्धिः’ (२२।२१) इति बौधायनेन स्वविशेषेण दशाह इत्युक्तम्- ‘क्षत्रविट्शूद्रजातीया ये स्युर्विप्रस्य बान्धवाः । तेषामाशौचे विप्रस्य दशाहाच्छु- द्विरिष्यते ॥’ इति । अनयोश्च पक्षयोरपदनापक्षिव्यवत्वेन व्यवस्था । दास्यादीनां तु स्वामिशाौचेन स्पृश्यत्वं, कर्मानधिकारस्त्वं तु मासादाचिरेव । तदाहाङ्गिराः— ‘दासी दासश्च सर्वो वै यस्य वर्णस्य यो भवेत् । तद्वर्णस्य भवेच्छौचं दास्रया मास- स्तु सूतकम् ॥’ इति प्रतिलोमानां त्वाशौचाभाव एव; ‘प्रतिलोमा धर्महीनाः’ इति मनुस्मरणात् । केवलं मृतौ प्रसवे च मलापकर्षणार्थं मूत्रपुरीषोत्सर्गवत् शौचं भवत्येव ॥ २२ ॥ भाषा—(सपिण्ड व्यक्ति के जन्म एवं मृत्यु पर) क्षत्रिय को बारह दिन का, वैश्य को पन्द्रह दिन का और शूद्र को तीस दिन का आशौच होता है; किन्तु न्यायवर्ती (द्विज की सेवा में रहने वाले) शूद्र को पन्द्रह दिन का ही आशौच होता है ॥ २२ ॥ वयोवस्थाविशेषादपि दशाहाद्याशौचस्यापवादमाह— आ दन्तजन्मनः सद्य आ चूडा़न्नैशिकी स्मृता । त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् ॥ २३ ॥ यावता कालेन दन्तानामुत्पत्तिस्तस्मिन्काले अतीतस्य बालस्य तत्संब- न्धिनां सद्यः शौचं चूडाकरणादर्वाङ्म्तस्य संबन्धिनां नैशिकी निशायां भवा अहोरात्रव्यापिन्यशुद्धिः । व्रतादेश उपनयनं ततोऽर्वाक् चूडायाश्चोर्ध्वमती- तस्य त्र्यहमशुद्धिः । अत्र च ‘आ दन्तजन्मनः सद्य’ इति यद्यप्यविशेषेणा- भिधानं तथाप्यग्निसंस्काराभावे द्रष्टव्यम् ; ‘अदन्तजाते बाले प्रेते सद्य एव शुद्धिर्नास्याग्निसंस्कारो नोदकक्रिया' इति वैष्णवे अग्निसंस्काररहितस्य सद्यः शौचविधानात् । सति त्वग्निसंस्कारे ‘अहस्त्वदत्तकन्यासु बालेषु च’ (प्रा० २४) इति वक्ष्यमाण एकाहः । तथा च यमः—‘अदन्तजाते तनये शिशौ गर्भच्युते तथा । सपिण्डानां तु सर्वेषामहोरात्रमशौचकम् ॥’ इति । नामकरणात्प्राक्सद्यः- शौचमेव नियतम् । ‘प्राङ्नामकरणात्सद्यःशुद्धिः’ इति शङ्खस्मरणात् । ३चूडाकर्मं १. स्वाम्याशौचेन । २. ऽनधिकारस्तु । ३. कर्म द्वितीये ।

४१८ याज्ञवल्क्यस्मृतिः च प्रथमे तृतीये वा वर्षे स्मर्यते—'चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥' इति स्मरणात् । ततश्च दन्तजनना- दूर्ध्वं प्रथमवार्षिकचूडाकर्मपर्यन्तमेकाहः । तत्र त्वकृतचूडस्य दन्तजनने सत्यपि त्रिवर्षं यावदेकाह एव । तथा च विष्णुः ( २२।२९ )—'दन्तजातेऽप्यकृतचूडे- ऽहोरात्रेण शुद्धिः' इति । तत ऊर्ध्वं प्रागुपनायात् त्र्यहः । यत्तु मनुवचनम् (५।६७)—'नृणामकृतचूड़ानामशुद्धिर्नैशिकी स्मृता । निवृत्तचूडकानां तु त्रिरा- त्राच्छुद्धिरिष्यते ॥' इति । तस्याप्ययमेव विषयः । यत्तूनद्विवर्षमधिकृत्य तेनै- वोक्तम् ( ५।६९ )—'अरण्ये काष्ठवत्त्यक्त्वा १क्षिपेयुस्त्र्यहमेव तु' इति । यच्च वसिष्ठवचनम् ( ४।३५ )—'ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रम्' इति,-तत्संवत्सरचूडाभिप्रायेण । यत्तु अङ्गिरोवचनम्—'यद्यप्यकृतचूडो वै जातदन्तश्च संस्थितः । तथापि दाहयित्वैनमाशौचं त्र्यहमाचरेत् ॥' इति,—तद्वृ- र्षत्रयादूर्ध्वं २कुलधर्मपेक्षया चूडोत्कर्षे वेदितव्यम् ; 'विप्रे न्यूनत्रिवर्षे तु मृते शुद्धिस्तु नैशिकी' इति तेनैवाभिहितत्वात् । नचायमेकाहो दन्तजननाभाव इति शङ्कनीयम् । नहि न्यूनत्रिवर्षस्य दन्तानुत्पत्तिः संभवति । तथा सत्यपि दन्तजनने अकृतचूडस्यैकाहं वदता विष्णुवचनेन विरोधश्च दुष्परिहरः स्यात् । तस्मात्प्राचीनैव व्याख्या ज्यायसी । यत्तु कश्यपवचनम्—'बालानांमदन्तजा- तानां त्रिरात्रेण शुद्धिः' इति, —तन्मातापितृविषयम् ; 'निरस्य तु पुमान्शुक्रमु- ३पैरुपस्पृशाद्भिशुद्ध्यति । बैजिकादभिसंबन्धादनुरुन्ध्यादघं त्र्यहम् ॥' इति जन्यज- नकसंबंधोपाधिकतया त्रिरात्रस्मरणात् । ततश्चायमर्थः—'प्राङ्नामकरणात्सद्यः शौचं तदूर्ध्वं दन्तजननादर्वागग्निसंस्कारक्रियायां एकाहः । इतरथा सद्यः शौचम् । जातदन्तस्य च प्रथमवार्षिकाच्चौलादर्वागेकाहः । प्रथमवर्षादूर्ध्वं त्रिवर्ष- पर्यन्तं कृतचूडस्य त्र्यहम् । इतरस्य त्वेकाहः । वर्षत्रयादूर्ध्वमकृतचूडस्यापि त्र्यहम् । उपनयनादूर्ध्वं सर्वेषां ब्राह्मणादीनां दशरात्रादिकमिति ॥ २३ ॥ भाषा—दाँत निकलने से पहले ही ( बालक की ) मृत्यु होने पर तत्काल शुद्धि होती है; चूडाकरणसंस्कार होने से पहले मृत्यु होने पर एक दिनरात आशौच रहता है; उसके उपरान्त व्रतबन्ध होने के पहले ( मृत्यु होने पर ) तीन दिन रात और उसके बाद ( व्रतबन्ध हो चुकने के बाद ) मृत्यु हो तो दश दिन आशौच रहता है ॥ २३ ॥ इदानीं स्त्रीषु च वयोवस्थाविशेषेणापवादमाह— अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । १. क्षिपेत् तत् त्र्यहमेव । २. कुलवर्णधर्मापेक्षया । ३. मुपस्पृश्य इति ।

प्रायश्चित्ताध्यायः ४१६ अदत्ता अपरिणीता याः कन्यास्तासु कृतचूडासु वाग्दानात्प्रागहोरात्रं विशेषेण शुद्धिकारणं सपिण्डानाम्, सापिण्ड्यं च कन्यानां त्रिपुरुषपर्यन्तमेव । 'अप्रत्तानां तु स्त्रीणां त्रिपुरुषी विज्ञायते' (४।१८) इति वसिष्ठस्मरणात् । बालेषु चानुत्पन्नदन्तेषु अग्निसंस्कारे सत्येकाहो विशोधनम् । अकृतचूडायां तु कन्यायां सद्यः शौचम् । 'अचूडायां तु कन्यायां सद्यः शौचं विधीयते' इत्या- पस्तम्बस्मरणात् । वाग्दानादूर्ध्वं तु संस्कारात्प्राक्पतिपक्षे पितृपक्षे च त्रिरात्रमेव । यथाऽऽह मनुः (५।७२) 'स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुद्ध्यन्ति बान्धवाः । यथोक्तेनैव कल्पेन शुद्ध्यन्ति तु सनाभयः ॥' इति । बान्धवाः पतिपक्ष्यास्त्रिरा- त्रेण शुद्ध्यन्ति । सनाभयस्तु पितृपक्ष्याः सपिण्डा यथोक्तेनैव कल्पेन 'निर्वृत्तचूड- कानाम्' इत्यादिनोक्तेन त्रिरात्ररूपेण, न पुनर्द्वादशरात्ररूपेण; विवाहात्प्राक् तस्या- युक्तत्वात् । अत एव मरीचिः- 'वारिपूर्वं प्रदत्ता तु या नैव प्रतिपादिता । असंस्कृता तु सा ज्ञेया त्रिरात्रमुभयोः स्मृतम् ॥' इति । उभयोः पतिपितृपक्षयोः । विवाहादूर्ध्वं तु विष्णुना विशेषो दर्शितः (२२।३३, ३४)-'संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे, तत्प्रसवमरणे चेत्पितृगृहे स्यातां तदैकरात्रं त्रिरात्रं च' इति । तत्र प्रसवे एकाहः प्रयाणे त्रिरात्रमिति व्यवस्था । इदं च वयोवस्थाशौचं सर्ववर्णसाधारणम् । 'क्षत्रस्य द्वादशाहानि' (प्रा० २२) इति तद्वर्णविशेषोपादा- नेनाभिधानात् । अत एव मनुना अनुपात्तवर्णविशेषाशौचविधेः साधारण्यप्रति- पादनार्थं चातुर्वर्ण्याधिकारे सत्यपि पुनः 'चतुर्णामपि वर्णानां यथावदनुपूर्वशः' इत्युक्तम् । तथाङ्गिरसाप्युक्तम्- 'अविशेषेण वर्णानामर्वाक्संस्कारकर्मणः । त्रिरा- त्रात्तु भवेच्छुद्धिः कन्यास्वह्ना विधीयते ॥' इति व्याघ्रपादवचनं च 'तुल्यं वयसि सर्वेषाम्'इति प्राक् प्रदर्शितम् । अतो यथा 'पिण्डयज्ञावृता देयम्' (प्रा० १६) इत्यादिः पिण्डोदकदानविधिः सर्ववर्णसाधारणः। यथा वा समानोदकाशौचविधिः 'अन्तरा जन्ममरणे' (प्रा० २०) इति संनिपाताशौचविधिश्च यद्वच्च 'गर्भस्रावे मासतुल्या निशा' (प्रा० २०) इति स्रावाशौचविधिश्च, 'प्रोषिते कालशेषः स्यादशेषे द्वयहमेव तु' (प्रा० २१) इति विदेशस्थाशौचविधिश्च, यथा वा गुर्वाद्या- शौचविधिः सर्ववर्णसाधारणः तथा वयोवस्थानिमित्तमप्याशौचं सर्ववर्णसाधा- रणमेव भवितुमर्हति । अत एव 'क्षत्रे षड्भिः कृते चौले वैश्ये नवभिरुच्यते । ऊर्ध्वं त्रिवर्षाच्छूद्रे तु द्वादशाहो विधीयते ॥' तथा 'यन्न त्रिरात्रं विप्राणामाशौचं संप्रदृश्यते । तत्र शूद्रे द्वादशाहः षण्णव क्षत्रवैश्ययोः ॥' इत्यादीनि ऋष्यशृङ्गादि- वचनानि विगीतत्वबुद्ध्याऽनाद्रियमाणैर्धारेश्वरविश्वरूपमेधातिथिप्रभृतिभिराचार्यै- र्यमेव साधारणः पक्षोऽङ्गीकृतः । अविगीतानि चार्तानांर्तक्षत्रियादिविषयतया व्याख्येयानि ॥ १. इति वसिष्ठस्मरणात् । २. यदूर्ध्वं । २७ या०

४२० याज्ञवल्क्यस्मृतिः गुर्वादिव्वतिदेशमाह— गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ॥ २४ ॥ गुरुरुपाध्यायः, अन्तेवासी शिष्यः, अनूचानोऽङ्गानां प्रवक्ता, मातुल^१ग्रहणे- नात्मबन्धवो मातृबन्धवः पितृबन्धवश्च योनिसंबद्धा उपलक्ष्यन्ते । ते च ‘पत्नी- दुहितरः’ ( व्य० १३५ ) इत्यत्र दर्शिताः । श्रोत्रिय एकशाखाध्यायी; ‘एकां शाखामधीत्य श्रोत्रियः’ इति बौधायनस्मरणात् । एषूपरतेष्वहोरात्रमाशौचम् । यस्तु मुख्यो गुरुः पिता तदूपरमे सपिण्डत्वादूद्वादशाहमेव । यस्तु पिता पुत्रानुपनीय संस्‍कृत्य वेदानध्याप्य वेदार्थं ग्राहयित्वा वृत्तिं च विदधाति, तस्य महागुरुत्वात्तदूपरमे द्वादशरात्रं वा । ‘महागुरुषु दानाध्ययने वर्जयेरन्’ इति आश्वलायनेनोक्तं द्रष्टव्यम् । आचार्योपरमे तु त्रिरात्रमेव । यथाह मनुः ( ५।८० )—‘त्रिरात्रमाहुराशौचमाचार्ये संस्थिते सति । तस्य पुत्रे च पत्न्यां च दिवारात्रमिति स्थितिः ॥’ इति । यदा स्वाचार्यादेरन्त्येष्टिं करोति तदा दशरात्रमाशौचम् ( ५।६५ )—‘गुरोः प्रेतस्य शिष्यस्तु पितृमेधं सं^२माचरेत् । प्रेताहारैः समं तत्र दशाहेन विशुद्ध्यति ॥’ इति तेनैवोक्तत्वात् । श्रोत्रि- यस्य तु समानग्रामीणस्यैतदाशौचम्; ‘एकाहं सब्रह्मचारिणि समानग्रामीणे च श्रोत्रिये’ ( ४।२६,२७ ) इत्याश्वलायनस्मरणात् । एकाचार्योपनीतः सब्रह्म- चारी । एतच्चासन्निधाने द्रष्टव्यम् । संनिहिते तु शिष्यादौ त्रिरात्रादि । यथाह मनुः ( ५।८१ )—‘श्रोत्रिये तूपसंपन्ने त्रिरात्रमशुचिर्भवेत् । मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥’ इति । उपसंपन्ने मैत्री- प्रातिवेश्यस्वादिना^३ संबद्धे शीलयुक्ते वा । ‘मातुल’ग्रहणं मातृष्वस्रादेरुपल- क्षणार्थम् । बान्धवा इत्यात्मबन्धवो मातृबन्धवः पितृबन्धवश्चोच्यन्ते । तथा च बृहस्पतिः—‘त्र्यहं मातामहाचार्यश्रोत्रियेष्वशुचिर्भवेत्’ इति । तथा प्रचेताः— ‘मृते चर्त्विजि याज्ये च त्रिरात्रेण विशुद्ध्यति’ इति । तथा च वृद्धवसिष्ठः— ‘संस्थिते पक्षिणीं रात्रिं दौहित्रे भगिनीसुते । संस्कृते तु त्रिरात्रं स्यादिति धर्मो व्यवस्थितः ॥ पित्रोरूपरमे स्त्रीणामूढानां तु कथं भवेत् । त्रिरात्रेणैव शुद्धिः स्यादित्याह भगवान्यमः ॥ श्वशुरयोर्भगिन्यां च मातुल्यां च मातुले । पित्रोः स्वसरि तद्वच्च पक्षिणीं क्षपयेन्निशाम् ॥’ तथा—‘मातुले श्वशुरे मित्रे गुरौ गुर्वङ्ग- नासु च । अशौचं पक्षिणीं रात्रिं मृता मातामही यदि ॥’ तथा च गौतमः ( १४।२० )—‘पक्षिणीमसपिण्डे योनिसंबद्धे सहाध्यायिनि च इति । योनिसंबद्धा मातुलमातृष्वस्त्रीयपितृष्वस्त्रीयादयः । तथा जाबालः—‘एकोदकानां तु त्र्यहो गोत्रजानामहः स्मृतम् । मातृबन्धौ गुरौ मित्रे मण्डलाधिपतौ तथा ॥’ इति । १. संबन्धा उप । २. समारभेत् । ३. त्मादिसंबन्धे ।

प्रायश्चित्ताध्यायः ४२१ विष्णुः (२२।४६) - 'असपिण्डे स्ववेश्मनि मृत एकरात्रम्' इति; तथा वृद्धः- 'भगिन्यां संस्कृतायां तु भ्रातर्यपि च संस्कृते । मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते ॥ शालके तत्सुते चैव सद्यःस्नानेन शुद्ध्यति । ग्रामेश्वरे कुलपतौ श्रोत्रिये च तपस्विनि । शिष्ये पञ्चत्वमापन्ने शुचिर्नक्षत्रदर्शनात् ॥ ग्राममध्यगतो यावच्छवस्तिष्ठति कस्यचित् । ग्रामस्य तावदाशौचं निर्गते शुचितामियात् ॥' इत्यादीन्याशौचविशेषप्रतिपादकानि स्मृतिवचनान्यन्वेषणीयानि । ग्रन्थगौरव- भयादत्र न लिख्यन्ते । एषु चैकविषयगुलध्वशौचप्रतिपादकतया परस्परविरु- द्धेषु संनिधिविदेशस्थापेक्षया व्यवस्थाऽनुसंधातव्या ॥ २४ ॥ भाषा - अपरिणीता कन्या के वाग्दान के पहले मरने पर एक दिन-रात में ही आशौच की शुद्धि होती है। इसी प्रकार गुरु, शिष्य, वेदाङ्ग के प्रवक्ता, मामा और श्रोत्रिय के मरने पर भी एक दिन-रात में शुद्धि होती है ॥ २४ ॥ अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च । निवासराजनि प्रेते१ तदहः शुद्धिकारणम् ॥ २५ ॥ किंच । अहरित्यनुवर्तते । अनौरसाः क्षेत्रजदत्तकादयः, तेषु जातेषूपरतेषु चाहोरात्रमाशौचम् । तथा स्वभार्यास्वन्यगतास्वन्यं प्रतिलोमव्यतिरिक्तं आश्रि- तासु अतीतासु चाहोरात्रमेव न पुनः सत्यपि सापिण्ड्ये दशरात्रम् । प्रतिलोमा- श्रितासु चाशौचाभाव एव; 'पाखण्ड्यनाश्रिताः स्तेना' (प्रा० ६) इत्यनेन प्रतिषे- धात् । एतच्च 'भार्या पुत्रश्च'शब्दयोः संबन्धिशब्दत्वात् यत्प्रतियोगिकं भार्यात्वं पुत्रत्वं च तस्यैवेदमाशौचम् । सपिण्डानां त्वाशौचाभाव एव । अत एव प्रजा- पतिः- 'अन्याश्रितेषु दारेषु परपत्नीसुतेषु च । गोत्रिणः स्नानशुद्धाः स्युस्त्रिरात्रेणैव तत्पिता ॥' इति । स्वैरिण्याद्यास्तु यमाश्रितास्तस्य तु त्रिरात्रमेव । यथाह विष्णुः (२२।४३) - अनौरसेषु पुत्रेषु जातेषु च मृतेषु च । परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥' इति त्रिरात्रमत्र प्रकृतम् । अनयोश्च त्रिरात्रैकरात्रयोः संनिधिविदे- शस्थापेक्षया व्यवस्था । यदा तु पितुस्त्रिरात्रं तदा सपिण्डानामेकरात्रम् ; यथाह मरीचिः- 'सूतके मृतके चैव त्रिरात्रं परपूर्वयोः । एकाहस्तु सपिण्डानां त्रिरात्रं यन्न वै पितुः ॥' इति । किंच, निवसन्त्यस्मिन्निति निवासः स्वदेश उच्यते; तस्य यो राजा स्वामी विषयाधिपतिः स यस्मिन्नहनि अतीतस्तदहर्मात्रं शुद्धिकारणम् । रात्रौ चेदतीतस्तदा रात्रिमात्रम् । अत एव मनुः ( ५।८२ ) - 'प्रेते राजनि सज्ज्योतिर्यस्य स्याद्विषये स्थितः' इति । ज्योतिषा सह वर्तते इति सज्ज्योतिरा- शौचम् । अह्नि चेद्यावत्सूर्यदर्शनं रात्रौ चेद्यावन्नक्षत्रदर्शनमित्यर्थः ॥ २५ ॥ १. तदा ।

५२२ याज्ञवल्क्यस्मृतिः भाषा—औरस के अतिरिक्त अन्य ( क्षेत्रज, दत्तक आदि ) पुत्रों के जन्म एवं मृत्यु पर, और दूसरे पुरुष पर आश्रित रहने वाली पत्नियों की तथा स्वदेश के राजा की मृत्यु पर एक दिन-रात आशौच होता है ॥ २५ ॥ अनुगमनाशौचमाह— ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः कचित् । अनुगम्याम्भसि स्नात्वा १स्पृष्ट्वाऽग्निं घृतभुक्शुचिः ॥ २६ ॥ ब्राह्मणेन असपिण्डेन द्विजो विप्रादिः शूद्रो वा प्रेतो नानुगन्तव्यः । यदि स्नेहादिनानुगच्छति तदाऽम्भसि तडागादिस्थे स्नात्वाग्निं स्पृष्ट्वा घृतं प्राश्य शुचिर्भवेत् । अस्य च घृतप्राशनस्य भोजनकार्यविधाने प्रमाणाभावान्न भोजन- प्रतिषेधः । इदं समानोत्कृष्टजातिविषयम् । यथाह मनुः ( ५।१०३ )—'अनु- गम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च । स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुद्ध्यति ॥' इति । ज्ञातयो मातुलपिण्डाः । इतरेषां तु विहितत्वान्न दोषः । निकृष्टजात्यनुगमने तु स्मृत्यन्तरोक्तं द्रष्टव्यम् । तत्र शूद्रानुगमने—'प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः । अनुगच्छेन्नियमानं स त्रिरात्रेण शुद्धयति ॥ त्रिरात्रे तु ततस्तीर्णे नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध- यति ॥' इति पराशरोक्तम् । क्षत्रियानुगमने त्वहोरात्रम् ; 'मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रमाशौचं अस्निग्धे त्वहोरात्रं शवानुगमने चैकम्' इति वसिष्ठो- क्तम् । वैश्यानुगमने पुनः पक्षिणी । तथा क्षत्रियस्यान्तरवैश्यानुगमने अहो- रात्रं एकान्तरशूद्रानुगमने पक्षिणी वैश्यस्य शूद्रानुगमने एकाह इत्यूहनीयम् ॥ तथा रोदनेऽपि पारस्करेणोक्तम्—'मृतस्य बान्धवैः सार्धं कृत्वा तु परिदेवनम् । वर्जयेत्तदहोरात्रं दानं श्राद्धादिकर्म च ॥' इति । तथाऽलंकरणमपि न कार्यम् ; 'कृच्छ्रपादोसपिण्डस्य प्रेतालंकरणे कृते । अज्ञानादुपवासः स्यादाशक्तौ स्नाव- मिष्यते ॥' इति शङ्खेन प्रायश्चित्तस्याम्नातत्वात् ॥ २६ ॥ भाषा—ब्राह्मण को भिन्नगोत्र के द्विज या शूद्र वर्ण के मृतक के साथ नहीं जाना चाहिए । यदि ( स्नेहवश ) जावे तो जल में स्नान करके अग्नि का स्पर्श करके तथा घृत खाकर शुद्ध हो जाता है ॥ २६ ॥ सपिण्डाशौचे कचिदपवादमाह— महीपतीनां नाशौचं हतानां विद्युता तथा । गोब्राह्मणार्थे संग्रामे यस्य चेच्छति २भूमिपः ॥ २७ ॥ यद्यपि 'मही'शब्देन कृत्स्नं भूगोलकमभिधीयते तथाप्यत्र सकलायाः क्षिते- रेकभर्तृकत्वानुपपत्तेः 'महीपतीनां' इति बहुवचनानुरोधाच्च तदेकदेशभूतानि १. वह्निस्पृग्घृत । २. चेच्छन्ति पार्थिवा ।

प्रायश्चित्ताध्यायः ४२३ मण्डलानि लक्ष्यन्ते । तत्पालनाधिकृतानां क्षत्रियादीनामभिषिक्तानां नाशौचम् । तैराशौचं न कार्यमित्यर्थः । तथा विद्युद्धतानां गोब्राह्मणरक्षणार्थं विपन्नानां च संबन्धिनो ये सपिण्डास्तैरप्याशौचं न कार्यम् । यस्य च मन्त्रपुरोहितादे- र्भूमिपोऽनन्यसाध्यमन्त्राभिचारादिकर्मसिद्ध्यर्थमाशौचाभावमिच्छति तेनापि न कार्यम् । अत्र च महीपतीनां यदसाधारणत्वेन विहितं प्रजापरिरक्षणं तच्चेन दानमानसत्कारव्यवहारदर्शनादिना विना न संभवति तत्रैवाशौचाभावो न पुनः पञ्चमहायज्ञादिष्वपि । तथा च मनुः (५।९५) - 'राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते । प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥' इति । गौतमेनाप्युक्तम् ( १४।४५ )--'राज्ञां च कार्याविघातार्थम्' इति राजभृत्या- देरप्याशौचं न भवति । तथाह प्रचेताः- 'कारवः शिल्पिनो वैद्या दासीदासास्त- थैव च । राजानो राजभृत्याश्च सद्यःशौचाः प्रकीर्तिताः ॥' इति । कारवः सूप- कारादयः । शिल्पिनश्चित्रकारचैलनिर्णेजकादयः । अयं चाशौचाभावः किंविषय इत्यपेक्षायां कर्मनिमित्तैः शब्दैस्तत्तदसाधारणस्य कर्मणो बुद्धिस्थत्वात्तत्रैव द्रष्ट- व्यः । अत एव विष्णुः (२२।४८-५१) -'न राज्ञां राजकर्मणि न व्रतिनां व्रते न सत्रणां सत्रे न कारूणां कारुकर्मणि इति प्रतिनियतविषयमेवाशौचाभावं दर्शयति । शातातपीयेऽप्युक्तम्- 'मूल्यकर्मकराः शूद्रा दासीदासास्तथैव च । स्नाने शरीर- संस्कारे गृहकर्मण्यदूषिताः ॥' इति । इयं च दासादिष्वद्धिरपरिहरणीयतया प्राप्त- स्पर्शविषयेत्यनुसंधेयम् । अत एव स्मृत्यन्तरम् - 'सद्यःस्पृश्यो गर्भदासो भक्त- दासस्तथाह्नश्शुचिः ।' तथा- 'चिकित्सको यत्कुरुते तदन्येन न शक्यते ॥ तस्मा- द्विकित्सकः स्पर्शो शुद्धो भवति नित्यशः ॥' इति ॥ २७ ॥ भाषा - राजाओं का, बिजली गिरने से मरे हुए व्यक्तियों का, गौ और ब्राह्मण की रक्षा के लिए युद्ध में मारे गये पुरुषों का आशौच नहीं होता । जिस व्यक्ति का आशौच राजा न होने देना चाहे उसका भी आशौच नहीं होता ॥ २७ ॥ ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् । सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ २८ ॥ दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । आपद्यपि हि कष्टायां सद्यः शौचं विधीयते ॥ २९ ॥ किंच, ऋत्विजो वरणसंभृता वैतानोपासनाकर्तृविशेषाः । दीक्षया संस्कृता दीक्षितास्तेषां यज्ञियं यज्ञे भवं च कर्म कुर्वतां 'सद्यः शौचं विधीयत' इति १. रक्षार्थं शायनं । २. भृत्या वैद्या दासास्तथैव । ३. वरणकरण- संगता । वरणाभरणसंभृता ।

४२४ याज्ञवल्क्यस्मृतिः

सर्वत्रानुषङ्गः; दीक्षितस्य 'वैतानोपासनाः कार्या' ( प्रा. १७) इत्यनेन सिद्धे- ऽप्यधिकारे पुनर्वचनं यजमाने स्वयं कर्तृत्वविधानार्थं सद्यःस्नानेन विशुद्धयर्थं च; 'सत्रि' ग्रहणेन संततानुष्ठानतुल्यतयाऽङ्गसत्त्रप्रवृत्ता लक्ष्यन्ते; मुख्यानां तु सत्रिणां 'दीक्षित' ग्रहणेनैव सिद्धेः । 'व्रति'शब्देन कृच्छ्रचान्द्रायणादिप्रवृत्ताः स्नातक- व्रतप्रायश्चित्तप्रवृत्ताश्चोच्यन्ते; तथा 'ब्रह्मचारि' ग्रहणेन ब्रह्मचर्यादिव्रतयोगिनः श्राद्धकर्तुर्भोक्तुश्च ग्रहणम् , तथा 'स्मृत्यन्तरम्-'नियमस्थदस्यापि कृच्छ्रचान्द्रा- यणादिषु । निर्वृत्ते कृच्छ्रहोमादौ ब्राह्मणादिषु भोजने ॥ गृहीतनियमस्यापि नै स्यादन्यस्य कस्यचित् । निमन्त्रितेषु विप्रेषु प्रौ४...ब्धे श्राद्धकर्मणि ॥ निमन्त्रितस्य विप्रस्य स्वाध्यायादिरतस्य च । देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित् ॥ प्राय- श्चित्तप्रवृत्तानां दातृब्रह्मविदां तथा ॥' इति । सत्रिणां व्रतिनां सत्रे व्रते च शुद्धिनं कर्ममात्रे संव्यवहारे वा । तथा च विष्णुः (२२।४९,५०)-'न व्रतिनां व्रते, न सत्रिणां सत्रे' इति ॥ ब्रह्मचार्युपकुर्वाणको नैष्ठिकश्च । यस्तु नित्यं दातैव, न प्रतिग्रहीता स वैखानसो 'दातृ'शब्देनोच्यते । ब्रह्मविद्यतिः । एतेषां च त्रयाणा- माश्रमिणां सर्वत्र शुद्धिः; विशेषे प्रमाणाभावात् । दाने च पूर्वसंकल्पितद्रव्यस्य नाशौचम् ; 'पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति' इति क्रतुस्मरणात् । स्मृत्यन्तरे चात्र विशेष उक्तः- 'विवाहोत्सवयज्ञादिष्वन्तरा मृतसूतके । शेषमन्नं परैर्देयं दातृन्भोक्तृंश्च न स्पृशेत् ॥' इति । यज्ञे वृषोत्सर्गादौ विवाहे च पूर्व- संभृतसंभारे । तथा च स्मृत्यन्तरम्-'यज्ञे संभृतसंभारे विवाहे श्राद्धकर्मणि' इति । सद्यःशौचमत्र प्रकृतम् । 'विवाह'ग्रहणं पूर्वप्रवृत्तचौलोपनयनादिसंस्कार- कर्मोपलक्षणम् । 'यज्ञ'ग्रहणं च पूर्वप्रवृत्तदेवप्रतिष्ठारामाद्युत्सवमात्रोपलक्षणम् । - 'न देवप्रतिष्ठोत्सर्गविवाहेषु न देशविभ्रमे नापद्यपि च कष्टायामाशौचम्' ( २२।५३-५५ ) इति विष्णुस्मरणात् संग्रामे युद्धे । - 'संग्रामे समुपोलढे राजानं संनाहयेत्' ( गृ. सू. ३।१२।१ ) इत्याश्वलायनोक्तसंनहनविधौ प्रास्थानिकशान्तिहोमादौ च सद्यःशुद्धिः । देशस्य विस्फोटादिभिरुपसर्गैः, राज- भयाद्वा विप्लवे तदुपशमनार्थं शान्तिकर्मणि सद्यःशौचम् । विप्लवाभावेऽपि क्वचिद्देशविशेषेण पैठीनसिना शुद्धिरुक्ता-'विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि । न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत् ॥' इति । तथा कष्टायामप्यापदि व्या- ध्याद्यभिभवेन मुमूर्षावस्थायां दुरितशमनार्थे दाने । तथा संकुचितवृत्तेश्च क्षुत्परि- श्रान्तमातापित्रादिबहुकुटुम्बस्य तद्भरणोपयोगिनि प्रतिग्रहे सद्यःशुद्धिः । इयं च शुद्धिर्यस्य सद्यःशौचं विनाऽऽर्त्युपशमो न भवति अश्वस्तनिकस्य तद्विषया ।


१. याजमानेषु । २. स्नानविध्यर्थं । स्नानविशुद्ध्यर्थं । ३. तस्मादन्यस्य । ४. प्रवृत्ते । ५. ओपलक्षणम् ।