भारतकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

वास्तु युक्तिः । ४१ आयामे राज-दण्डौ द्वौ प्रसरे राजदण्डकः । शतद्वारोपसहितः प्रकोष्ठैर्दशभिर्युतः ॥ २७६ ॥ दिक्पाला रक्षकाश्चास्य कुजश्चास्याधिदेवता । नानावर्णेन चित्रेण वसनेन विभूषितः ॥ २७७ ॥ अत्र स्थित्वा नरपतिः सुचिरं सुखमश्नुते । यस्मिन्त्राज्ये प्रतिष्ठेह विमलोऽग्टह-सत्तमः ॥ २७८ ॥ दुर्भिक्षं नात्र्जायेत नेतयो ( ५ ) न च विप्लवः । नरोगोनापि शोकश्च नैवोत्पात-भयन्तथा ॥ पत्यादि-( ६ ) गुणबाहुल्य मन्यत्कथितंबुधैः ॥ २७९ ॥ दैर्घ्यं द्विशतम्- २००, प्रस्थे-एकशतम् १०० ॥ आयाम-परिणाहाभ्यां राज्ञः षोडशहस्तकः । द्वाराणि षोडशैवास्य गुरुश्चास्याधिदेवता ॥ २८० ॥ रचिकादे वताचास्य शुक्लवस्त्रैर्

अवस्थित्वा नर-पतिः सुखं विजयते रिपून् ॥ २८४ ॥ दैर्घ्ये एकशतम् १०० , प्रस्थे पञ्चाशत् ५० ॥ इति केलिः । राज-हस्तेन कोणःस्या देवं केलि-चतुष्टयं । चतुर्द्दशैव द्वाराणि राहुरस्याधिदेवता ॥ २८५ ॥ नक्तंचरा रक्षकाश्च नाना स्वर्णाम्बरादिकम् । अयं जयः प्रकटितः सर्व्वत्रैव जय-प्रदः ॥ २८६ ॥ आयामे राजहस्तःस्यात्परिणाहोऽष्टहस्तकम् । नानारूपं कुटोरूपः (९) वीरो नाम जयप्रदः ॥ २८७ ॥ बृहस्पतिर्द्देवताऽस्य रक्षकाश्चास्य खेचराः । विचित्र-वसनोपेतः सर्व्वकामार्थ-दायकः ॥ २८८ ॥ दैर्घ्ये एकादश- ११, प्रस्थे अष्टौ = । इति धीरः । (केलि-प्रभेदोवा) ॥ योयस्य गदितोवर्ण स्तथास्याच्चामरोऽपिच । राज-हस्तान्त

वास्तुयुक्तिः । ४३ इति सिंहासन-स्थानमिति राष्ट्रस्य मस्तकम् । इतोऽन्ये चित्तहर्षार्थाः प्रासादाः पृथिवीभुजः ॥ २६३ ॥ जलयन्त्रादयो * येऽन्ये तेषां नास्ति विनिश्चयः । खजन्म-गेह-संस्थो यो नृपतिःशुभ-चेतनः ॥ २६४ ॥ सचिरं(११) पृथिवीं शास्ति सर्व्वार्थान् साधयत्यपि । योवा तत्पर-गेहस्थो दुर्मोहाद्धरणीपतिः । न चिरं पाति वसुधां घोरं रोगञ्चविन्दति ॥ २६५ ॥ खलग्न-पति-मित्रस्य गृहवारोनदुष्यति । परञ्च,— हीरकस्य † विशुद्धस्य ब्रह्मजातेर्महाद्युतेः । सूर्यांश्रु-स्पर्शमात्रेण वमतोदीप्ति-मच्छिखाः ॥ २६६ ॥ गृहाग्रे धारयेद्राजा तद्वज्रं वज्रधारणम् ॥ २६७ ॥ वास्तुवस्तु,— गेहेषु मणि-विन्यासो विधेयः सदनो

Digitized By Siddhanta eGangotri Gyaan Kosha ४४ युक्तिकल्पतरौ- भोजोऽपि,- वास्तुखण्डाष्ट-* रूपःस्यात् यथार्थैर्नामभिः स्वकैः । यमद्वारात्समारभ्य यावदद्धारमिष्यते ॥ २९६ ॥ तद्यथा,- मृत्युर्भयं स्थिरश्चण्डो धनं विभव एव च । वीरस्तापश्च इत्यष्टौ वास्तुभागा यथाक्रमम् ॥ ३०० ॥ यमनैर्ऋत-तोयेश वायु-यक्षेश-शङ्कराः । इन्द्रोरग्निरितिप्रोक्ता विभागाणामधीश्वराः ॥ ३०१ ॥ मृत्यौ कारांलयं कुर्य्यात् भय-स्थानिच पत्तयः । स्थिरे सहचरानूक्षेत् चण्डे वाजि-गजादयः ॥ ३०२ ॥ धनेशान्यादिकं ( १ ) रक्षेत् विभवे कोष-रक्षणम् । राजपट्टे ‡ भवेद्धीरः तापे कश्चि ( २ ) न्त्रवालयेत् ॥ प्राचीर-प्रतिभागान्ते ( ३ ) दूति भोजस्य सम्मतम् ॥ ३०३ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ राजगृह-युक्तिः ॥ तत्र वास्तुप्लव-लक्षणम् । वास्तु-मानेन नियमो गृह-मानेन निर्णयः । पूर्व्वप्लवो वृद्धिकरो धनदस्योत्तर-प्लवः ॥ ३०४ ॥ (१) धनधान्यादिकं इति (क)-(ग) पुस्तक पाठः । (२) कश्चिन्नरा(चा)लयेत् इति (ख) पुस्तक पाठः । (३) प्राचीर भाग्यन्ते इति (ख) पुस्तक पाठः ।

  • अष्टः शङ्कः, पद्ममिति वा ‡ राजपट्ट्य पखरवान्तर्गतमैकग्वम् इति गौड़ाः । यस्मिन्नासने पट्टाख्ये नृपमहिष्यो- रभिषेको भवति तदेव राजपट्ट इति केचित् । नीलकान्तमथिरित्यन्ये देवीपुराणे तु अन्यथास्ति पट्टलक्षणम् । CC-0. Gurukul Kangri Collection, Haridwar.

वास्तुयुक्तिः । ४५ दक्षिणे मृत्युदो वास्तु र्धनहापश्चिम-प्लवः । कोणे रेखाद्वयं कृत्वा मध्यरेखाद्वयन्तथा ॥ ३०५ ॥ ऐशान-कोणतोरेखा दक्षिणाद्ये ( ४ ) र्ध्वजास्तथा । नाचामरो नामणिश्च नापताकापि नाध्वजः ॥ ३०६ ॥ नकुम्भादिर्नवितानो नाचित्रो नातिचित्रधृक् । नात्युच्चो नातिनीचोवा नाप्रकीर्णः प्रकीर्णकः । ३०७ ॥ नाधातु र्नागवाक्षश्च नचैकानेक-द्वारभाग् । नियमस्तु महोन्द्राणां सर्व्वसम्पत्ति-हेतवे ॥ ३०८ ॥ इति राज-गृहयुक्तिः । अन्येषान्तु यथा वास्तुमानेन नियमः ।— ध्वजोधूमस्तथा सिंहःश्वा ( ५ ) वृषोगर्दभो गजः । काक इत्येष गदितो वास्तुस्थानस्य निर्णयः । अयुग्मे सुखसम्पत्तिः युग्मञ्चविपदास्पदम् ॥ ३०९ ॥ एव मन्यत्रापि । ध्वजे विभूति र्विपदश्चधूमे, सिंहेविभोगः शुनि सर्व्वनाशः । वृषे सुखं गर्दभतो विनाशः ; गजे धनं काक-पदेच मृत्युः ॥३१०॥ कोणरेखा कोणसुचिः ( १ ) सुखसम्पत्ति-नाशिनी । पूर्व्व-पश्चिमतोदण्ड उदयाख्यः सुखावहः ॥ ३११ ॥ दक्षिणोत्तरतोदण्डो वंशहा यमदण्डकः । गृहानि पातयेद्धीमान् एषांदण्ड-( २ ) व्यधान्तरे ॥ ३१२ ।

( ४ ) दक्षिणाग्रैः इति (ग) पुस्तक पाठः । ( ५ ) श्वावतो इति (ख) पुस्तक पाठः । ( १ ) कोन सूचो (शुचि) इति (ख)-(ग) पुस्तक पाठः । ( २ ) दण्डः व्यधान्तरे ? इति (क) पुस्तक पाठः ।

तोहीना चतुःशालं ( ३ ) सुखावहम् ॥ ३१३ ॥ * Note:पूर्व्वतोहीनाorपूर्व्वतो हीना? It's पूर्व्वतोहीना. * ( ३ )has spaces inside. * सुखावहम् ॥ ३१३ ॥`

*   : `पश्चिमास्यं यजेद्वेश्म सिंहेतूदङ्मुखं शुभम् ।`
    *   `सिंहेतूदङ्मुखं`: `सिंहेतूदङ्मुखं` (ङ with subscript ख, `ङ्ख` or `ङ्मुखं`? `ङ्मुखं`: `ङ्` + `म`? No, wait! Look at the letter: `सिंहेतूदङ्मुखं` -> wait, is it `दङ्मुखं`? `द` + `ङ्` + `ख`? No, `दङ्मुखं` -> `द` with `ङ्मुखं`: `ङ्` + `म`? Look at `सिंहेतूदङ्मुखं`: `सिं` `हे` `तू` `द` `ङ्मु` `खं`! Wait, look at `दङ्मुखं`: `द` has a hook below? It's `दङ्मुखं`? No, `तूदङ्मुखं`? In `सिंहेतूदङ्मुखं`: `सिंहे` `तू` `दङ्मुख

वास्तुयुक्तिः । ४७ स्ववास्तु-वृक्षतोदोषः कुल-सम्पत्ति-नाशनः । वर्जयेत् पूर्व्वतोऽश्वत्थं प्लक्षं दक्षिणतस्तथा ॥ ३२२ ॥ ऐशान्यांरक्त-पुष्पञ्च आग्नेय्यां क्षीरिणस्तथा । यत्र तत्र स्थितावृक्षा विल्व दाड़िम-केशराः ॥ ३२३ ॥ पनसा नारिकेलाश्च (१०) शुभं कुर्व्वन्ति निश्चयम् । निशा नीली पलाशश्च चिञ्चा(वा) श्वेतापराजिता ॥ ३२४ ॥ कोविदारश्च सर्व्वत्र सर्व्वं निघ्नन्ति मङ्गलम् । गृहपातन मिच्छन्ति नागस्य स्वपने * क्रमात् ॥ ३२५ ॥ पूर्वादिषु शिरःकृत्वा नागः शेते त्रिभिस्त्रिभिः । भाद्राद्यैर्व्वाम-पार्श्वेन तस्य क्रोडेऽगृहं शुभम् ॥ ३२६ ॥ तत्र प्रमाणम्— स्वामि-हस्त-प्रमाणे न ज्येष्ठपत्नी-सुतेन(वा) च । गृहाद्यन्तर-संस्थानं मापयेदभितो नरः ॥ ३२७ ॥ तत्र सामान्य-लक्षणम् । गृह भूमि-समाहृत-पिण्डपदम्, वसु-लोचन-वाण-गजैर्गुणितम् । रवि-भूधर-भूधर-योग-हृतम् ; द्रविण (द्रविण ?) (११) व्यनुसङ्कलितम् ॥ ३२८ ॥ एकाशीतिगुणे हस्ते दिवाणैक-हते चते । षड्वाणे न च सम्भक्ते पिण्डःस्यात सर्व्ववेश्मनः ॥ ३२९ ॥ (१०) नालीकेड़ (नारिकेलश्च) (ख)-(ग) पुस्तक पाठः । (११) प्रविण इति इति (क)-(ग) पुस्तक पाठः ।

  • नागस्य शयने,—ज्योतिःशास्त्रे गृहारम्भे नागशुद्धिरभिहितास्ति। नागानां शिरशि गृहारम्भोऽनिष्टम् । तेषान्तु क्रीड़े शुभम् ।

४८ युक्तिकल्पतरौ— तद्यथा,— ध्वजादि-गेह-संस्थाने गृहमानं शुभावहम् । दीर्घे पुत्र-(१२) फलं गेहं सिंहस्थाने प्रकीर्त्तितम् ॥ ३३० ॥ दीर्घे भानुः परिणाहे सप्तचैराङ्गुलिद्वयम् । इदं पुत्र-फलं गेहं वृषस्थानेऽप्युदीरितम् ॥ ३३१ ॥ दीर्घे षष्ट' (१३)...सचतुरङ्गुलम् । इदं धनफलं गेहम् गजस्थाने ह्युदीरितम् ॥ ३३२ ॥ दीर्घे षट् प्रहरे पञ्च चतस्रोऽङ्गुलयोरपि । इदं पुत्रकलं गेहं गजस्थाने प्रकीर्त्तितम् ॥ ३३३ ॥ दीर्घे त्रयोदशभुजाङ्गुलयश्चैक-विंशतिः । प्रहरेऽष्टौ (१४) सुखफलं गजस्थाने गृहं विदुः ॥ ३३४ ॥ इति द्वादशकं प्रोक्तं गृहाणां सर्व्वसम्मतम् । एवं गृहं समाचर्य्य गृहस्थः शुभ (१५) मिच्छति ॥ ३३५ ॥ भोजस्तु,— आयाम-परिणाहाभ्यां योऽङ्ग-पिण्डो (१६) विजायते । येन केनापि चाङ्गेन शोधनीयः स इष्यते ॥ ३३६ ॥ (१२) पुत्रफलमिति (क) पुस्तक पाठः । (१३) अत्रै तत् (क)-(ख)--(ग)पुस्तके नास्ति तदन्तरा लुटितमिवमन्ये । इति पाठम् । (१४) प्रसरेऽष्टौ इति (क) पुस्तक पाठः । (१५) सुखम् इति (ख) पुस्तक पाठः । (१६) योऽङ्ग-पिण्डोविराजते इति (ख) पुस्तक पाठः । —अत्र ध्रुवाङ्ग-पिण्डाङ्गादिकं ज्योतिःशास्त्रीय-वास्तुप्रकरणोक्तं ज्ञेयम् ।

गृहयुक्तिः । ४९ एक-द्वि-पञ्च-सप्तानि शुभान्यन्यानि चान्यथा । आयाम-परिणाहाभ्यां सार्द्ध-द्वादश-हस्तकम् ॥ ३३७ ॥ एकन्तु मङ्गलं नाम गृहं सुख-विवर्द्धनम् । आयाम-परिणाहाभ्यां सार्द्धहस्त-चतुर्दश ॥ ३३८ ॥ इदं ‘कमलकं’ नाम गृह-सम्पत्ति-कारकम् । आयाम-परिणाहाभ्यां सार्द्ध-हस्तस्तु षोडश ॥ ३३९ ॥ इदं हि सर्व्वतोभद्रं स्वामिनः सुखकारकम् । आयाम-परिणाहाभ्यां सार्द्धाष्टादश-हस्तकम् ॥ ३४० ॥ ‘कल्याण’नाम वेश्मदं धन-धान्य-सुखप्रदम् । आयाम-परिणाहाभ्यां सार्द्धविंशति-हस्तकम् ॥ ३४१ ॥ इदं हि सुखदं नाम भर्तुः सुख-विवर्द्धनम् । मया-यदिदमुद्दिष्टं गृहपञ्चकमद्भुतम् ॥ ३४२ ॥ न तेषु स्थान-

५० युत्तिकल्पतरौ— अथासन-युक्तिः । [ अत्र सिंहासन-युक्तिरुच्यते ] विशेषाख्यं सामान्य-मासनं द्विविधं मतम् । सिंहासनं विशेषाख्यं सामान्यं खट्वादिकम् (१) । राज्ञो वरतम(२)न्नाम श्रौसिंहासनमुच्यते ॥ ३४७ ॥ शुभे मुहूर्त्ते शुभ-मास-योगे, सुवारवेला-तिथिचन्द्र-योगे । काले निरुत्पात-निरिति-भावे (†) ; सिंहासनावस्थ-विधिं वदन्ति ॥ ३४८ ॥ स्थिरराशि-स्थिते भानौ चन्द्रे च स्थिर-भोदिते । आसनारम्भ मिच्छन्ति गृहारम्भोऽपि येषु च ॥ ३४९ ॥ एतेन गृहारम्भ-सिंहासनयोरारम्भः । तत्र क्रमः,— बाण-वेदाग्नि-(४) पक्तानि सोपानादि-युगैः क्रमात् । चत्वारिंशत्तथा त्रिंशद् विंशतिः

आसनयुक्तिः । ५१ सिंहान्वितानि ज्ञेयानि चरणानि युगे (५) क्रमात् । पद्मः शङ्खो गजो हंसः सिंहो भृङ्गो मृगो हयः ॥ ३५१ ॥ अष्टौ सिंहासनान्येति नीति-शास्त्र-विदो विदुः । आदित्यादि-दशाजानां भूपतीनां यथाक्रमम् ॥ ३५२ ॥ राज्ञः स्वहस्तैरष्टाभिरायाम-परिणाहयोः । ‘राज पात्र’मिदं नाम सोपानं पुरुषोन्नतम् ॥ ३५३ ॥ तदर्द्धमानन्तन्मध्ये राजासनमुदाहृतम् । अर्द्धोन्नत-मिदं रम्यं प्रोक्तं कलि-महीभुजाम् ॥ ३५४ ॥ दिगष्टर्द्धार्ब्बि-(६) कोणः स्याद्ब्रह्मादीनां यथाक्रमम् ॥ ३५५॥ अथाष्टानां लक्षणानि । गम्भारी-काष्ठ-घटितः पद्ममालोप-चित्रितः । पद्मराग-विचित्राङ्गः शुद्ध-काञ्चन-संस्कृतः (७) ॥ ३५६ ॥ चरणाग्रे पञ्चकोषात् पद्मराग-विचित्रिताः । दिक्ष्वष्टौ पुत्तिका राज द्वादशाङ्गुलि-सम्मिताः ॥ ३५७ ॥ राजासन-चतस्रस्तु एवं द्वादश-पुत्तिकाः । रत्नैश्च नवभिः कार्य्यं निर्मााणञ्चान्तराऽन्तरा ॥ ३५८ ॥ रक्तावस्त्रावृतं ह्येतत् ‘पद्म-सिंहासनं’ मतम् । अत्रोषित्वा नरपतिः प्रतापमति-विन्दति ॥ ३५९ ॥ भद्रन्वाकाष्ठ(८)घटितः शङ्खमालोपशोभितः । शुद्धस्फटिक-चित्राङ्गः शुद्ध-रौप्योपशोभितः ॥ ३६० ॥


( ५ ) युगैः क्रमात् इति (ख)-(ग) पुस्तक पाठः । ( ६ ) दिगष्टर्द्धर्ब्बि इति (ख) दिगष्टार्द्धवि-(ग) पुस्तक पाठः । ( ७ ) सम्भृत इति (ख)-(ग) पुस्तक पाठः । ( ८ ) भद्रश्री इति (ख) भद्रं वा (ग) पुस्तक पाठः ।

५२ युक्तिकल्पतरौ— चरणाग्रे शङ्खनाभिः पुत्रिका-सप्त विंशतिः । स्थाने स्थाने विधातव्याः शुद्ध-स्फटिक-संस्कृताः ॥ ३६१ ॥ शुक्लपट्टावृतं ह्येतत् 'शङ्खसिंहासनं' मतम् । पनसे नोपघटितो गजमालोपशोभितः ॥ ३६२ ॥ विद्रुमैरपि वैदुर्य्यैः (६) काञ्चनेनापि शोभितः । चरणाग्रे गजशिरः पुच्छादेकैकपुत्रिका ॥ ३६३ ॥ माणिक्य रचिता रक्त-वस्त्रादिकं (१०) विभूषणम् । 'गजसिंहासन'नाम साम्राज्य-फलदायकम् ॥ ३६४ ॥ शालकाष्ठेन घटितो हंसमालोपशोभितः । पुष्परागैः काञ्चनेन कुरुविन्दैश्च चित्रितः ॥ ३६५ ॥ चरणाग्रे हंसरूपं पुत्रिकास्त्वेकविंशतिः । गोमेदकोपघटिताः (११) पोतवस्त्र-विभूषणम् (१२) ॥ ३६६ ॥ 'हंससिंहासनं' नाम सर्व्वानिष्ट-विनाशनम् (१३) । चन्दनेनोपघटितः सिंह मालोप-(१४)शोभितः ॥ ३६७ ॥ शुद्ध-हीरकरचित्वाङ्गः शुद्धकाञ्चन-निर्मितः । चरणानां सिंह-लेखः पुत्रिकाश्चैकविंशतिः ॥ ३६८ ॥ मुक्ताशुक्तिभिरन्यैश्च निर्मलैरेव भूषणम् । शुद्धशुक्लावृतं ह्येतत् 'सिंह-सिंहासनं' मतम् ॥ ३६६ ॥ ( ६ ) वैदूर्य्यैः इति (ग) पुस्तक पाठः । ( १० )—कं विभूषितम् इति (ख)-(ग) पुस्तक पाठः । ( ११ ) घटिता, घटितो इति (ख)-(ग) पुस्तक पाठः । ( १२ ) विभूषितम् इति (ख) विभूषणः (ग) पुस्तक पाठः । ( १३ ) प्रणाशनम् इति (ख) पुस्तक पाठः । ( १४ ) मानोपशोभितम् इति (ग) पुस्तक पाठः ।

आसनयुक्तिः । ५३ अतोषयित्वा नरपतिः कृत्स्नां साधयति क्षितिम् । भृङ्ग-मालोपसहितं शुद्धचम्पक-कल्पितत् ॥ ३७० ॥ शुद्धैर्मारकतैर्युक्तं पादाग्रे पद्मकोषिकाः । द्वाविंशतिः पुत्रिकास्तु नील-वस्त्रादि-भूषणम् ॥ ३७१ ॥ ‘भृङ्ग-सिंहासनं’ नाम शत्रुक्षय-जयप्रदम् । निम्ब-काष्ठेन घटना भृङ्गमालोपशोभितम् (१५) ॥ ३७२ ॥ इन्द्रनीलैर्महानीलैः काञ्चनेनापि चित्रितम् । चरणाग्रे मृगशिरश्चत्वारिंशच्च पुत्रिकाः ॥ ३७३ ॥ नीलवस्त्रादि-युक्तञ्च ‘मृगसिंहासनं’ मतम् । लक्ष्मो-विजय-सम्पत्ति-नैरूज्य-प्रदसत्तमम् ॥ ३७४ ॥ केशरे(वे) णोपघटितं हयमालोपशोभितम् । समस्तवस्त्रैर्भूषा च पुत्रिकाः पञ्चसप्ततिः ॥ ३७५ ॥ चरणाग्रे हयशिरः चित्रवस्त्रादि-भूषणम् । ‘हयसिंहासनं’ नाम लक्ष्मी-विजय-वर्धनम् ॥ ३७६ ॥ इत्येतत्कथितं सारं महासिंहासनाष्टकम् । यथा भोजेन लिखितं यथाञ्चान्यैश्चपण्डितैः ॥ ३७७ ॥ एतस्यातिक्रमं दम्भाद् यः कुर्यात् पृथिवो-पतिः । अचिरादेव कुरुते तस्य मृत्यु(१६) रितिक्रमम् ॥ ३७८ ॥ परासनस्थो यो राजा यो राजा च निरासनः । स परैर्हन्यते सिंहैरिव मत्त-गजाधिपः ॥ ३७९ ॥ स्वलग्न-मित्रासन-मध्य-संस्थिति- र्नदुष्यतीति प्रवदन्ति तज्ज्ञाः ॥ ३८० ॥ इति श्रीभोजराजीये विशेषासनोद्देशः ॥ (१५) मानोपरशोभितम् इति (ग) पुस्तक पाठः । (१६) तस्य मृत्युम् इति (ख) पुस्तक पाठः ।

५४ युक्तिकल्पतरौ— अथ सामान्यासनोद्देशः । ब्रह्म-क्षत्रिय-वैश्यानां चतुःषट् स्व स्व-कोष्ठिकाः । खट्टिकाः (१७) सुखसम्भूताः शुक्लरक्तासिताम्बराः ॥ ३८१ ॥ इति खट्टिकोद्देशः । अष्टाभिः काष्ठ-खण्डैश्च खट्टेति प्रतिचक्षते * ॥ ३८२ ॥ अथैषां लक्षणानि । तिष्ठेद् यदालम्ब्य खट्टा तज्ज्ञेयं चरणाद्वयम् । शिरस्थं व्युपधानं स्यात् (१८) अधःस्थं स्यान्निरूपकम् ॥ ३८३ ॥ आलिङ्गने उभे पार्श्वे प्राह भोज-महीपतिः । आलिङ्गने चतुर्हस्ते व्युपधानं निरूपके । तदर्द्धेन तदर्द्धेन चत्वारश्चरणा इति ॥ ३८४ ॥ सर्व्व षोड़शिका (खट्टा) यथा,— आलिङ्गने सार्द्धवेदे व्युपधाने निरूपके । सार्द्धद्वये च चरणा हस्तैक-परिसम्मिताः ॥ ३८५ ॥ सर्व्वाष्टादशधा खट्टाः (१६) सर्व्व-कामफलप्रदाः ॥ ३८६ ॥ आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके । तदर्द्धेन तदर्द्धेन चत्वारश्चरणा इति ॥ ३८७ ॥ (१७) ताः खट्टा इति (ग) पुस्तक पाठः । —अत्र क्षुद्रा इयं खट्टा इति खट्टिका । (१८) व्युपधेयं स्यात् इति (ख) पुस्तक पाठः । (१९) दशधा खट्टा इति (ग) पुस्तक पाठः ।

  • “सर्व्वविंशतिका”—इत्यारभ्य “शरण्याश्चरणा” इत्यन्तः सार्द्धश्लोकः (ख) पुस्तके नास्ति ।

आसनयुक्तिः । ५५ सर्व्व-विंशतिकाः (२०) खट्टा धनधान्य-जयप्रदाः । आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके । त्रिहस्तसम्मिते पादा (१) हस्तैक-परिसम्मिताः ॥ ३८८ ॥ सर्व्वत्रिंशतिकाः खट्टा एवमप्युपजायते । आलिङ्गने षड् हस्ते च व्युपधाने निरूपके ॥ ३८९ ॥ त्रिहस्त-सम्मिते पादाश्चत्वारश्चरणा इति । चतुर्विंशतिका खट्टा सर्व्व-रोग क्षयङ्करौ ॥ ३९० ॥ आलिङ्गने चाष्ट हस्ते व्युपधाने निरूपके । चतुर्हस्ते सार्द्धहस्ताश्चत्वारश्चरणा इति ॥ ३९१ ॥ सर्व्वत्रिंशतिका खट्टा सर्व्वकामार्थ-दायिनी । एवमष्टविधाः खट्टाः समानेनोपदर्शिताः ॥ ३९२ ॥ आदित्यादि-दशाजानां नृणां सम्पत्ति-दायकाः । कार्य्याः शिल्पिभिरेतासु विविधाकृति-कल्पनाः । सर्व्व-षोड़शिका खट्टा सर्वेषामेव मुच्यते (२) ॥ ३९३ ॥ अष्टौ खण्डानि यस्याः स्युश्चतुर्हस्त-सुतानि च (३) 'श्रीसर्व्वमङ्गला' नाम खट्टेषा पृथिवी-पतेः ॥ ३९४ ॥ इयं यदा सच्छदना तदा सर्व्वजयाऽभिधा । यात्रासिद्धिः सर्व्व-सिद्धिर्विजया चाष्टमङ्गला ॥ ३९५ ॥ एकैकहस्त-वृद्ध्या तु (४) भवेत्तच्च मतःपरम् । जयोऽथ मङ्गलः श्रेयान् चित्रकान्तः परो महान् ॥ ३९६ ॥ (२०) सप्तविंशतिका इति (ख) पुस्तक पाठः । ( १ )—श्चरणाश्चरणा इति (ख) पुस्तक पाठः । ( २ ) एवमुद्यते इति (क) पुस्तक पाठः ( ३ ) युतानि च (शतानि च) इति (ग) पुस्तक पाठः । ( ४ ) बुद्धास्तु इति (ख) पुस्तक पाठः ।

५६ युक्तिकल्पतरौ— एकैक हस्त वृद्ध्या तु मञ्चानामिति लक्षणम् ॥३९७॥ यात्रासिद्धिं समारभ्य येऽमी षोडशकीर्त्तिताः । आदित्यादि-दशाजानामाद्यन्तैक द्वयं क्रमात् ॥ ३९८ ॥ दूर-दर्शी दीर्घ-दर्शी दुर्लङ्घ्योऽथ दुरासदः । यथोत्तरं दशगुणा पादैक (५) परिणाहिनः ॥ ३९९ ॥ प्रासादसंज्ञकाः कार्या राज्ञा सुखमभीप्सता । चत्वार एते सर्व्वेषां भूपतीनां सुखावहाः ॥ ४०० ॥ श्रीभोजमते च,— सर्व्वं त्रिंशतिकां यावत् आरभ्योभय-षोडशीम् । खट्टाणामिति नामानि अष्टौ हस्त-(६) द्वयाधिको ॥ ४०१ ॥ तद्यथा,— मङ्गला विजया पुष्टिः क्षमा तुष्टिः सुखासनम् । प्रचण्डा सर्व्वतोभद्रा खट्टाना मष्टकं विदुः ॥ ४०२ ॥ आसां पूर्ववद् विभागः । पराशरसंहितायान्तु,— अष्टाभिः काष्ठ-खण्डैस्तु योऽयं पिण्डो(७) विभाज्यते । स चेत्समो भवेत् खट्टा प्रशस्ता स्याद् यतोऽन्यथा ॥ ४०३ ॥ समे सर्व्वाय-सम्पत्तिर्विषमे विपदास्पदम् । तस्मात् खट्वाङ्ग-(८)पिण्डो यः समःकार्य्यः स सूरिभिः ॥ ४०४ ॥ ( ५ ) पदैक इति (ख) पुस्तक पाठः । ( ६ ) ह्रस्वा

आसनयुक्तिः । ५७ इदन्तु सामान्यं सर्वसम्मतञ्च काष्ठ-नियमस्तु पूर्ववदेव ॥ ४०५ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खट्टोद्देशः ॥ अथ पीठोद्देशः । धातु-पाषाण-काष्ठैश्च पीठस्त्रिविध उच्यते । धातवश्च शिलाश्चैव काष्ठानि विविधानि च । तदत्र संप्रवक्ष्यामि यथेषामुपपद्यते (९) ॥ ४०६ ॥ अथ मानम् । हस्तद्वयन्तु दैर्घ्येण तदर्द्धं परिणाहतः । तदर्द्धेनोन्नतः पीठः 'सुख' इत्यभिधीयते ॥ ४०७ ॥ हस्तद्वय-द्वयाधिक्यात् पञ्चपीठा भवन्ति हि । सुखो (१०) जयः शुभः सिद्धिः सम्पच्चेति यथाक्रमम् ॥ ४०८ ॥ धनभोग-सुखैश्वर्य्य-वाञ्छितार्थ-प्रदायकः । सम-दीर्घ-सुखावाप्तिर्विषमे विषमापदः ॥ ४०९ ॥ आयाम-परिणाहाभ्यां हस्त-द्वयमितो हि यः । 'राजपीठ' इति ज्ञेयः सकलार्थ-प्रसाधकः । अत्राभिषेक-मिच्छन्ति क्षितिपस्य पुराविदः ॥ ४१० ॥ दैर्घ्योन्नति-परिणाहैः षड्हस्तमितो हि यः । राज्ञां चित्त-प्रसादार्थं केलि-पीठाभिधानकम् ॥ ४११ ॥ (९) उपयुज्यते (उपगद्यते) इति (ख)-(ग) पुस्तक पाठः । (१०) सुखा इति (ख)-(ग) पुस्तक पाठः । ८

(ञ्च): it has a horizontal-ish loop ञ् connected to below/beside it. Now look at line 4: First word: काञ्चनो! Wait, look at the third character: with ? Wait, let's look at काञ्चनो: + = का Then ञ्च? Wait, in line 4: ञ्च -> wait, does it have ? Let's look at the letters: Letter 1: with -> का Letter 2: Letter 3: with ? No, ? Wait, could it be काञ्चनराजपीठः? Let's zoom in on line 4: का followed by ? No, it has न्क? Wait, look at: , , , , , , , , space, , , , . Wait, why would it be कानकोराज पीठः? Let's search Yuktikalpataru: In Yuktikalpataru, the shloka is: "काञ्चनो

आसनयुक्तिः । ५८ अभिषेके च यात्रायां उत्सवे जय-कर्म्मणि । अयस्कान्तोपघटितः * संग्रामे पीठ इष्यते ॥ ४२१ ॥ गरुड़ोद्गार-(१४) रचिते वर्षासु नृपतिर्वसेत् । शुद्धरत्न-मयं पीठं भजते घन-गर्जिते ॥ ४२२ ॥ सामान्य-प्रास्तरः पीठो विलासाय (१५) महीभुजाम् । एषां मानं गुणांश्चापि विज्ञेया धातुपीठवत् ॥ ४२३ ॥ अथ काष्ठपीठाः । तद्यथा, मानन्तु पूर्व्ववदेव । सम्पत्ति-सुखवृद्ध्यर्थं गाम्भारि-जनितो जयः । जारको रोगनाशाय सुख-शत्रु-विनाशनः ॥ ४२४ ॥ ‘सिद्धिः’ सर्व्वार्थ-संसिद्ध्यै विजयाय च वैरिणाम् । ‘शुभः’ स्यादभिषेके च सम्पद्देरि-निवारणः ॥ ४२५ ॥ पालाशो राजकः पीठः सुख-सम्पत्ति-कारकः । ‘जयः’ स्यादभिषेके च शुभः शत्रु-विनाशनः ॥ ४२६ ॥ सुखो रोग-विनाशाय सिद्धिः सर्व्वार्थदायिका । सम्पदूच्चाटन-विधौ विज्ञेयः पीठ-लक्षणम् ॥ ४२७ ॥ चान्दनस्तु सुखः पीठोऽभिषेके महीभुजाम् । जयः स्याद्रोग-नाशाय शुभः सौख्यं प्रयच्छति ॥ ४२८ ॥ (१४) गरुड़ोद्गार इति (ख) पुस्तकपाठः । (१५) विश्रालाय इति (ख) पुस्तक पाठः ।

  • अयस्कान्तश्चुम्बकः, कान्तलौह इति केचित् ।

६० युक्तिकल्पतरौ— तारको गृह्तुष्ट्यर्थं अन्ये तु (१६) रति-दुस्करा ? । यत्नतो निर्मितास्ते तु साम्राज्य-फलदायकाः ॥ ४२८ ॥ कालेयको जारकोऽपि भूभुजामभिषेचने । पोठा नगरका- १७) दीना मन्ये चन्दन-वद्विदुः ॥ ४३० ॥ वाकुलस्तु शुभः पोठो भूभुजामभिषेचने । जयो रोग-विनाशाय सुख-सम्पत्ति-कारकः ॥ ४३१ ॥ सिद्धिः सिद्धि-प्रदा सम्पत् संग्रामे विजय-प्रदः । जावको (१८) जरणायस्यादिति भोजस्य सम्मतम् ॥ ४३२ ॥ एवं सुगन्धि-कुसुमाः ससारा ये च पादपाः । वाकुलेन समः कार्य्यः एवं पीठस्य निर्णयः ॥ ४३३ ॥ ये शुष्ककाष्ठा वृक्षास्तु मृदवो लघवोऽथवा । गाम्भारौ * सदृशः पीठस्तेषां कार्य्यस्तथा गुणः ॥ ४३४ ॥ फलिनश्च ससाराश्च रक्तसाराश्च ये नगाः । तेषां पानसवत् पीठस्तथैव गुणमावहेत् ॥ ४३५ ॥ —*— अथनिषेधः । विज्ञेयो निन्दितः पीठः लोहोत्थः सर्वधातुजे । शिलोत्थः शार्करो वञ्जरः कर्करश्च विशेषतः ॥ काष्ठजेषु च पीठेषु नासारा नातिसारिणः ॥ ४३६ ॥ ( १६ ) अन्यत्तरति (अन्य तु) ) (क)—(ग) पुस्तक पाठः । ( १७ ) नागरका इति (ख) पुस्तक पाठः । ( १८ ) जारक (जीवक) इति (क)-(ग) पुस्तक पाठः ।

  • "गाम्भारौ निर्मितं शस्तं नान्यदारुमयं शुभम्" इति तन्त्रशास्त्रे ।