युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
१८८ युक्तिकल्पतरौ— अथ गज परीक्षा। तत्र कालः। ऐन्द्रमित्रवरुणानिल पुष्याचन्द्रतोयरवि वारिजतारे। सूर्य्य-शुक्र गुरु सोमजवारे (१) श्रेयसे भवति कुञ्जरयानम् ॥ ५६ ॥ लग्ने चरे शुभसमाश्रित वीक्षिते वा. चन्द्रस्य दृष्टिरिभ-यानविधौ विरुद्धा। सौम्ये दिने करनिश्राटवसुश्रवण्यतोयेश- मैत्र (२) मदितिश्च शुभग्रहाहः ॥ ६० ॥ स्यात्कुञ्जरक्रयणदर्शनदानकालः शेषेषु दुःखफलमार्कसुतेऽह्नि (३) चैव। गजानामष्टधा भेदः संक्षेपेण प्रकाश्यते। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ६१ ॥ पुष्यदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः। एषां वंशप्रसूतत्वात्(ताद्वा) गजानामष्टजातयः ॥ ६२ ॥ ये कुञ्जराः पाण्डुरसर्व्वदेहाः सुदीर्घदन्ताः सितपुष्पदन्ताः। आलोमशा अल्पभुजो वलाढ्या महाप्रमाणा लघुपृष्टलिङ्गाः ॥६३॥ क्रुद्धाः समौके मृदवोऽन्यकाले नद्यम्बुपाना (४) बहुलोग्रदानाः। विस्तीर्णदानास्तनुलोमपुच्छा ऐरावतस्याभिजनप्रसूताः ॥ ६४ ॥
( १ ) सौम्यवासरे इति (क) पुस्तक पाठः। ( २ ) सामिदिनेकरनिश्राटवसुश्रवण्यतोयेश मैद्र इति (ख) पुस्तक पाठः। ( ३ ) सुताह्नि चैव इति (ग) पुस्तक पाठः। ( ४ ) लघ्वम्बु पाना इति (घ) पुस्तक पाठः।
अश्वयुक्तिः । १८९ तेष्वेव सर्वेषु विशुद्धवर्णा अतीव वृत्ताः प्रभवन्ति मुक्ताः । नाल्पेन पुण्येन महीपतीनां स्पृशन्ति भूमण्डलमध्यमेते ॥ ६५ ॥ दन्ता विभग्ना अपि युद्धरङ्गे पुनः प्ररोहन्ति पुरैव तेषाम् । ये कुञ्जराः कोमलसर्व्वदेहाः पुच्छा न दण्डाः खरग(द)ण्डदेशाः ॥ ६६॥ स्रवन्मदाः सन्ततरोषभाजोऽमर प्रियाः सर्व्वभुजो वलाढ्याः । सुतीक्ष्णदन्ता रसना गकानां ते पुण्डरीक प्रवरप्रसूताः । ते पद्मगन्धं विसृजन्ति रेतो दानञ्च नैषां वमथुः प्रभूता ॥ ६७ ॥ नतोयपानेऽभ्यधिका स्पृहाच श्रमेऽपि नैते वलमुत्सृजन्ति । अमी तु येषां निवसन्ति राज्ञां ते वै समस्तक्षितिशासनार्हाः ॥ ६८ ॥ ये कुञ्जराः कर्कशखर्व्वदेहाः कदापि माद्यन्ति गलन्मदास्र । आहार योगाद्दलवीर्य्यभाजो नात्यम्बुकामा बहुलोमगण्डाः । विरूपदन्तास्तनुपुच्छकर्णा ज्ञेया बुधैर्वामनवंशजाताः ॥ ६९ ॥ ये दीर्घदेहास्तनुदीर्घशुण्डाः कुदन्तभाजो मलपूर्ण देहाः । स्थविष्ठगण्डाः कलहप्रियाश्च ते कुञ्जराः स्युः कुमुदस्य वंशाः । अन्यद्विपान् दर्शनमात्रतस्तु निघ्नन्ति ते दुर्गमनाश्च पुंसाम् ॥ ७० ॥ ये स्निग्धदेहाः सलिलाभिलाषा महाप्रमाणास्तनुशुण्डदन्ताः । स्थविष्ठदन्ताः श्रमदुःसहाश्च ते कुञ्जराश्चाञ्जनवंशजाताः ॥ ७१ ॥ रेतश्च दानञ्च सृजन्ति शश्वदानूपदेशे प्रभवन्ति ये तु । ते पुष्पदन्ताभि(ति)जनप्रसूता महाजवास्ते तनुपुच्छभागाः ॥ ७२ ॥ सुदीर्घदन्ता बहुलोमभाजो महाप्रमाणाश्च सुकर्कशाङ्गाः । भ्राम्यन्तिनाध्वभ्रमणाभियोगान्नाहारपानादिषु चातिशक्तिः ॥७३॥ मरुप्रदेशे विचरन्ति ते वै मुक्ताफलानामिह जन्ममध्ये । महाशरीरातिसुकर्कशाङ्गा नारिष्टदन्ता मृदुशुक्लदन्ताः ॥ ७४ ॥ महाशनाः क्षीणपुरीष मूत्र- विस्तीर्ण कर्णास्तनुरोमगण्डाः ।
२०० युक्तिकल्पतरौ— ते सार्ब्भौमाभिजनप्रसूता विशुद्धमुक्ताः प्रभवन्ति (१) चैषु ॥ ७५ ॥ ये दीर्घशुण्डाः सुविभक्तदेहा महाजवाः क्रोधपरोतकाश्च । विस्तव्ध कर्णास्तनुपुच्छदन्ताः सदाशनाश्चैव वशा(सा)प्रियाश्च ॥ ७६ ॥ प्रवृद्धगण्डास्तनुलोमयुक्ताः ते सुप्रतीकप्रवरप्रसूताः (२) । महाप्रमाणामितमौक्तिकानि भवन्ति चैतन्निजगाद काप्यः ॥ ७७ ॥ एकजातिः समुत्पन्नो गजः स्तब्ध इति स्मृतः । लक्षणञ्च यथा प्रोक्तं शुद्धश्चेत्यत्र दृश्यते ॥ ७८ ॥ शुद्धद्विजाति सम्भूतस्तल्लक्षण समन्वितः । जारजो नाम विख्यातो यथास्वं बलवीर्य्यवान् ॥ ७९ ॥ द्विजातिद्वयजातो यः (३) स शूर इति कथ्यते । द्विजाति जारजोत्पन्न उद्भ्रान्त इति कथ्यते ॥ ८० ॥ एवं संयोगभेदेन गजजातिरनेकधा । तां यो जानाति तत्त्वेन स राज्ञः पात्रमर्हति ॥ ८१ ॥ ब्रह्मादिजातिभेदेन तेषां भेदश्चतुर्विधः । विशालाङ्गाः पवित्राश्च ब्राह्मणाः स्वल्पभोजिनः । शूरा(ला) विशाला वक्षाशाः क्रुद्धाः क्षत्रियजातयः ॥ ८२ ॥ अथ गुणाः । यथा रक्तं यथा खङ्गो यथा स्त्री ससयो यथा । परीक्ष्यन्ते गुणैरेवं गजानामपि निर्णयः ॥ ८३ ॥ रम्यो भौमो (४) ध्वजोऽधीरो वीरः शूरोऽष्टमङ्गलः । (१) प्रवदन्ति इति (क) पुस्तकपाठः । (२) तेज खयुक्ता प्रवरप्रसूताः इति (ख) पुस्तक पाठः । (३) द्वयसम्भूतः इति (ग) पुस्तक पाठः । (४) वीरो इति (घ) पुस्तक पाठः ।
गजयुक्तिः । २०१ सुनन्दः सर्व्वतो भद्रः स्थिरो गम्भीरवेद्यपि । वरारोह इति प्रोक्ता गजा द्वादश सत्तमाः ॥ ८४ ॥ तद्यथाह भोजः । विभक्तावयवः पुष्टः सुदन्तः सुमहानपि । तेजस्वी रम्य इत्युक्तो गजः सम्पत्तिवर्द्धकः ॥ ८५ ॥ अङ्कुशादि-प्रहारेण यस्य भीतिर्न जायते । स भीमोऽयं गजः शुद्धो राज्ञः सर्व्वार्थ-साधनः ॥ ८६ ॥ शुण्डाग्रात् पुच्छपर्य्यन्तं रेखा यस्यैव दृश्यते । ध्वजः शुद्धो गजी नाम साम्राज्य प्राणदायकः ॥ ८७ ॥ समौ कुम्भौ खराकारौ आवत्तौ तत्र चोच्छ्रयौ (१) । अधीरोऽयं गजो नाम्ना राज्ञां विप्रविनाशनः ॥ ८८ ॥ आवर्त्तः पृष्ठतो यस्य स्वनाभिमभिविन्दति । पुष्टाङ्गो बलवान् वीरो राज्ञामभिमतप्रदः ॥ ८९ ॥ महाप्रमाणः पुष्टाङ्गः सुदन्तश्चारुगण्डकः । भक्षणे भक्षणे श्रान्तः शूरो लक्ष्मो-विवर्द्धनः ॥ ९० ॥ सितौ दन्तौ सितः पुच्छः सिता रेखा सिता नखाः । रक्तकुम्भाक्षिवौय्याङ्गेर्विज्ञेयः सोऽष्टमङ्गलः ॥ ९१ ॥ अयं गजेन्द्रो यस्यास्ते तस्य स्यात् सकला मही । नारिष्टानीतयस्तत्र यत्रास्तेऽयं गजेश्वरः ॥ ९२ ॥ आयोजनशतं यावदनर्थं कुरुते क्षयम् । नाल्पपुण्यैरयं प्राप्यो मनुजेन्द्रैः कलौ युगे ॥ ९३ ॥ शुभौ दन्तौ शुभः शुण्डः शुभौ कुम्भौ शुभस्तनुः । ग(श्र)ण्डयोर्गण्डयोर्मध्ये आवर्त्तः शुभलक्षणः ॥ ९४ ॥ ( १ ) चीव्रतौ इति (क) पुस्तक पाठः । २६
२०२ युक्तिकल्पतरौ— ललाटमध्ये यस्यैव दृश्यते येन भूभुजा । ... ... ... ... ... ततो गुणीन्द्राः * ॥ ९५ ॥ शश्वन्मदस्रुति-परिप्लुतगण्डदेशा,- स्तोत्राङ्कुशेन विनिवारयितुं न शक्याः । ज्ञातिद्विषो नवपयोद(ध)रवा गभीराः ; पृथ्वीभुजां सकलसौख्यकरा भवन्ति ॥ ९६ ॥ अथ दोषाः । दीनःक्षीणोऽथ विषमो विरूपो विकलः खरः । विमदो आपकः काको धूमो जटिल इत्यपि ॥ ९७ ॥ अजिनो मण्डली श्वित्री हृतावर्त्तो महाभयः । राष्ट्रहा मुषली भालो निःसत्त्व (१) इति विंशतिः ॥ महादोषाः समाख्याता गजानां भोजभूभुजा ॥ ९८ ॥ तद्यथा । अतिक्षीणतरः क्षीणतनुदन्तोऽतिनिष्प्रभः । दीनाख्यः कुरुते दीनं
गजयुक्तिः । २०३ खरता सहजा यस्य शरीरेऽस्तौति लक्ष्यते । तनुदन्तकरो हस्तौ खरः कुलविनाशनः ॥ ४ ॥ नजायते मदो यस्य स्वकाले जायतेऽथवा । विरूपो विवशो वापि विमदं दूरतस्त्यजेत् ॥ ५ ॥ लघु प्रमाणः क्षौणाङ्गस्तनुशुण्ड शिरोदरः । अश्रान्तं श्वसिति (१) व्यग्रः पतेन्नेत्रयोर्मलम् ॥ ६ ॥ त्रिके पुच्छायतो वापि आवर्त्तो मण्डलोऽथवा । वहिः (द्भिः) प्रकुरुते लिङ्गं सर्व्वथा गतचेष्टवत् ॥ ७ ॥ भूभुजा नहि वोढव्योऽयं श्वापकाख्यो गजाधमः । यदीच्छेच्छाश्वतीं भूतिं शरीरारोग्यमेव वा ॥ ८ ॥ शङ्खदेशो यस्य भग्नौ स्कन्धदेशोऽति गुच्छकः (२) ! काकोऽयं कुरुते मृत्युं स्वामिनो नात्र संशयः ॥ ९ ॥ विषमौ शङ्खगौ दन्तौ यस्य शुण्डविरोधिनौ । भिद्यते वा विदीर्येतां स्वयं शून्यान्तरावुभौ ॥ कुरुते व्याधितं नाथं धूम्रनामा गजाधमः ॥ १० ॥ मूर्धजाः कर्कशा रूक्षा जटारूपानुवन्धिनः । यस्यायं जटिलो नागः कुरुते धनसंक्षयम् ॥ ११ ॥ स्कन्धे वा गात्रदेशे वा लग्नं चर्मोऽवलक्ष्यते । अजिनो नाम नागोऽयं
२०४ युक्तिकल्पतरौ— विरूपाण्युद्गतानीव मण्डली कुलनाशनः । तानि श्वेतानि यस्य स्युः श्वित्री स धननाशनः ॥ १४ ॥ हृदये उदरे चैव त्रिके पुच्छस्य मूलतः । गुदे मेढ्रे पदे चैव आवर्त्तेन हतश्रियम् ॥ १५ ॥ योगिनं कुरुते भूपं प्रवासिनमुपद्रुतम् (१) । गच्छतो यस्य गुल्फाभ्यां भवेत् संघर्षणं मुहुः । अपि सर्व्वगुणैर्युक्तस्त्याज्यश्च स महाभयः ॥ १६ ॥ राष्ट्रं धनं कुलं सैन्यं मैत्रं दारान् तथा प्रजाः । क्षपयत्य शुभो नागो दृष्टमात्रो न संशयः ॥ १७ ॥ तत्रापम्रियते लोकस्तत्र वज्रभयं भवेत् । व्याधि वह्निभयं वात्र यत्रास्ते स महाभयः ॥ १८ ॥ भृशं सन्ताड्यमानस्तु पादै कं यो न गच्छति । पृष्ठोदरं समाहृत्य रेखा रक्तसमा यदि ॥ १८ ॥ न्यस्ताग्रिमपदं स्थाने पश्चात् पातः पदे यदि । अपि सर्व्वगुणैर्युक्तो राष्ट्रहायं गजाधमः ॥ २० ॥ राष्ट्रादपाक्रियतेऽयं भूभुजा श्रियमिच्छता । राष्ट्रान्ते रक्षितो मोहात् कुरुते राष्ट्रसंचयम् ॥ २१ ॥ पादाश्चात्यन्तविषमा दन्तौ चान्योन्य विषमौ । पञ्जरो दृश्यते भग्न एको वाष्टौ (२) द्वयोऽथवा ॥ २२ ॥ दन्तौ वा चलतौ यस्य किं युवान (३) प्ररोहतः । कुम्भौ वा विषदौ यस्य मुषलौ स गजाधमः ॥ २३ ॥ (१) श्रुतम् इति (क) पुस्तक पाठः । (२) राष्टौ इति (ख) पुस्तकपाठः । (३) किमु वान इति (ग) पुस्तक पाठः ।
गजयुक्तिः । २०५ राष्ट्रदुर्ग (१) वलामात्य-क्षयकृत् तं परित्यजेत् । चर्म्मखण्ड इवाभाति भाले यस्याति कर्कशः ॥ २४ ॥ भालो स कुरुते नागो भर्तुः कुलधनक्षयम् । पुष्टो विशालः संहन्तः सत्कारोऽपि शुभोऽपि सन् ॥ न रणे साहसो यस्य स निःसत्त्वो गजाधमः ॥ २५ ॥ सर्व्वेषां गजदोषाणामुक्त एव महानयम् । येनैकेन गुणाः सर्व्वे तृणायन्ते सुनिश्चितम् ॥ २६ ॥ पालकाप्यस्तु * । क्षीणदन्ताङ्ग शुक्लत्वं विषमत्वं रदादिषु । शिरः क्षीणमधः पुष्टिरेते दोषा गजे मताः ॥ २७ ॥ गार्ग्यस्तु । ये कुञ्जरास्तनुरदास्तनुगण्डशुण्डाः, क्षीणाः सुदीनवपुषो गुरु दीर्घपुच्छाः । वश्यादिभिः खलु गुणैरहितो हिताय ; ते भूभुजामभिमता न हि वीक्षणीयाः ॥ २८ ॥ यो न स्रवेन्मदजलं तनुमूर्द्धभागो, निर्वीर्य्यतामुपगतो बहुभोजनेऽपि । नेच्छत्यसावुपगतानपरान् निहन्तुं ; भूमीभुजा नहि गजोऽयमवेक्षणीयः ॥ २९ ॥ दोषैर्दुष्टान् गजान् राजा न वीक्षेत कदाचन । न्यसेद्वा परराष्ट्रेषु नगरात् क्रियते बहिः ॥ ३० ॥ (१) राष्ट्रदुद्द्वला (क) पुस्तक पाठः ।
- पालकाप्यर्षिविरचित हस्त्यायुर्व्वेदः द्रष्टव्यः ।
२०६ युक्तिकल्पतरौ— दद्यात् द्विजेभ्यः शुद्धेभ्यो गणकायाथवा नृपः । दृष्ट्वा यदि गजान् दुष्टान् दद्याच्छृङ्गिशतं द्विजे ॥ ३१ ॥ पुरं नीराजयेद्वापि आत्मानं वाथवा सुतम् । देवोसूक्तेन † जुहुयादयुतं वाति(पि) तत्परः ॥ ३२ ॥ तिलान् वा जुहुयादग्नौ तत्प्रतीकार हेतवे । ब्रह्मादि जातिभेदेन जातिरुक्ता चतुर्विधा ॥ ३३ ॥ चतुर्विधानां भूपानां वाहने ते शुभप्रदाः । ये दोषा दोषवत्त्वानां त एव स्युः स्वजातितः ॥ ३४ ॥ ये व्याधयो नराणां स्युस्ते गजानामपि स्मृताः । चिकित्सापि तथा तेषां मात्राचैव गरीयसी ॥ ३५ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ गज परौक्षा * । अथ वृषपरौक्षा । अश्वेभलक्षणे ह्युक्त्वा वक्ष्यन्तेऽन्ये चतुष्पदाः । गावः कृतयुगे सृष्टाः स्वयमेव स्वयम्भुवा ॥ ३६ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र जातिभेदाश्चतुर्विधाः । शुक्लाङ्गाः शुचयोऽक्रुद्धा मृदवः शुद्धचेतसः ॥ ३७ ॥ अल्पाशिनो बहुवला वृषभा ब्रह्मजातयः । द्वयोर्लक्षण सम्बन्धात् त्रिगुणः स वृषाधमः ॥ ३८ ॥ त्रिलक्षण समावेशात् त्रिगुणः स वृषाधमः । पीताङ्गा मृदवः शुद्धा अक्रोधा भारवाहिनः ॥ ३६ ॥ † अहं रुद्रेभिरित्यादिना वेदोक्तेन श्रुति ।
- गजविषये, वह्निपुराण-गरुडपुराण-कालिकापुराण-वसन्तराज शाकुनानि द्रष्टव्यानि ।
वृषयुक्तिः । २०७ यदृच्छा भोजिनः चौणा वृषभा वैश्यजातयः । कृशाङ्गाः क्रूरहृदया अपवित्राः सदाशिनः ॥ ४० ॥ वृहहृषणरोषाश्च (१) वृषभाः शूद्रजातयः । द्वयोर्लक्षणसम्पर्कात् द्विजातिर्वृषभो भवेत् ॥ ४१ ॥ वात्यस्तु,— पृथ्वीतले समुत्पन्ना गजाश्वा ये चतुष्पदाः । गुणत्रयविभेदेन तेषां भेदत्रयं भवेत् ॥ ४२ ॥ एतन्मतानुसारेण भोजः प्राह महीपतिः । ये शुक्लाः शुचयः शुद्धा भृशं भारवहा अपि ॥ ४३ ॥ वद्धाशिनः स्वल्परोषास्ते वृषाः सात्विका मताः । व्यक्ताव्यक्तरुषः(षाः) शुद्धा दृढा भारवहाः शुभाः ॥ ४४ ॥ वद्धाशिनो बहुवलास्ते वृषा राजसा मताः । विवर्णा विकृताङ्गाश्च निर्वलाः स्वल्पभोजिनः ॥ ४५ ॥ अपवित्रा वृहद्रोषास्ते वृषास्तामसा मताः । लक्षणद्वयसम्बन्धात् द्विगुणो वृषभो भवेत् । त्रिलक्षणसमावेशात् त्रिगुणः स वृषाधमः ॥ ४६ ॥ अथ गुणाः । नीलः शुभो ध्वजो वामः क्षेमो भद्रः शिवः स्थिरः । भोजदेवेन लिखिता इत्यष्टौ वृषभा गुणाः ॥ ४७ ॥ तद्यथा,— श्वेतादन्यतरो वर्णः श्वेतः खुरविषाणयोः । ललाटपुच्छयोः श्वेतः स नीलः शुभमावहेत् ॥ ४८ ॥ यो हृष्टपुष्टो रम्यात्मा सुविभक्ततनुः शुभः । (१) वृहद्दंषाषरोषाश्च इति (क) पुस्तक पाठः ।
२०८ युक्तिकल्पतरौ— कुरुते धनवृद्धिं स दोषैर्मुक्तो यदा त्वयम् ॥ ४९ ॥ वर्णस्तु (१) सध्वजः पुच्छो रम्यश्च ध्वज उच्यते । भर्तुः कुलं धनं धान्यं विवर्द्धयति निश्चयम् ॥ ५० ॥ पूर्व्वार्द्धे चोन्नतो वस्तु परार्द्धे चैव नीचकः । निर्द्दोषो वाम इत्येष कुरुते रिपुसङ्क्षयम् ॥ ५१ ॥ चन्द्रकं दृश्यते यस्य ललाटे देवनिर्मितम् । क्षेमनामा वृषः कुर्यात् धनधान्यविवर्द्धनम् ॥ ५२ ॥ आवर्त्ताश्च शुभा यस्य शुक्तयश्चापि वा शुभाः । भद्रनामा वृषः कुर्यात् भर्तुः सर्व्वार्थ-साधनम् ॥ ५३ ॥ आवर्त्तं शुक्तिविज्ञानं हयेषु वृषभेष्वपि । पादाः सर्व्वे सिता यस्य पुच्छभालौ सितौ तथा ॥ ५४ ॥ महोक्षा चायते नेत्रे कर्णौ चाति लघू स्थिरौ । मुष्कयोः कृष्णता चैव शृङ्गे चातिशुभे दृढे ॥ ५५ ॥ तनुरोमा (२) महावेगः स्निग्धगम्भीर निस्वनः । शिव इत्येष कथितः शिवं प्रकुरुते ध्रुवम् ॥ ५६ ॥ चरणाः पञ्जराः स्थूलाः शिरः शुभ्रं भवेत्तनुः । आपुच्छादायता शुभ्रा रेखा मस्तकगामिनी ॥ ५७ ॥ रक्ताताल्वोष्ठजिह्वस्तु स्थिरः स्थैर्य्यकरः श्रियाः । नाल्पपुण्येन लभ्योऽयं वृषभः शुभलक्षणः ॥ ५८ ॥ गर्गस्तु,— महत्त्वं तनुलोमत्वं पुष्टता भारवाहिता (३) । कुमारकत्वमित्येते वृषभाणां गुणा मताः ॥ ५९ ॥ (१) षण्डस्तु रम्यः सध्वज इति (क) पुस्तकपाठः । (२) तानुरोमाः इति (ख) पुस्तकपाठः । (३) बारवाहिता इति (ग) पुस्तकपाठः ।
वृषयुक्तिः । २०९ अथ वृषभदोषाः । व्यङ्गो विवर्णो विषमः श्वित्री धूम्रश्चल खरः । एते सप्त महादोषा वृषभाणामुदीरिताः ॥ ६० ॥ विषाणौ विषमौ यस्य खुराश्च विषमास्तथा । नेत्रप्रा(क्रा)न्तेऽथ वा गात्रे पञ्जरे वैकृतं भवेत् ॥ ६१ ॥ व्यङ्ग इत्येष कथितो धनधान्य-विनाशकः । पूर्व्वार्द्धमन्यवर्णन्तु परार्द्धञ्चान्यवर्णकम् ॥ ६२ ॥ पृष्ठं क्रोडो विवर्णो वा विवर्णः कुलनाशनः । परार्द्धमुन्नतं यस्य पूर्व्वार्द्धञ्चाति नीचकम् ॥ ६३ ॥ गच्छतश्चरणौ लग्नौ शब्दायते खरखरः (१) । विषमो नाम वृषभः सम्पत्तिचयकारकः ॥ ६४ ॥ हिमकुन्देन्दुसङ्गाशा गात्रेषु लोमविन्दवः । श्वित्री नाम महादोषो दूरतस्तं परित्यजेत् ॥ ६५ ॥ शृङ्गाग्रे दौपिकाकारं ज्वलते केकरे दृशौ । कपिलः पुच्छभागश्चेत् स धूम्रो मृत्युमावहेत् ॥ ६६ ॥ दन्त शृङ्गखुरादीनां यद्येकोऽपि चलेत् स्वयम् । मुष्को वा (२) चलते यस्य स चलः कुलनाशनः ॥ ६७ ॥ आवर्त्ताः शुक्तयो रेखा विषमाश्च विसंस्थिताः । न्यूनाधिकाः पञ्जरास्तु खुरास्तु विषमास्तथा ॥ ६८ ॥ गुदान्मेढ्रान्तरे यावद्रेखा व्यक्तेव दृश्यते । विस्तृते विषमे घोणे(रे) जिह्वा चैवा(व)सिता भवेत् ॥ ६९ ॥ स खरो दूरतस्त्याज्यो भर्तुः सर्व्वार्थ-नाशनः । स्वल्पता दीर्घरोगत्वं क्षोणताभारवाहिता ॥ ७० ॥ (१) खरः खरः इति (क) पुस्तक पाठः । (२) मुष्कोरा इति (ख) पुस्तक पाठः । २७
२१० युक्तिकल्पतरौ— व्यङ्गत्वं मारकत्वञ्च वृषदोषा उदाहृताः । ब्रह्मादि-जातिभेदेन चत्वारो ये वृषा मताः ॥ ७१ ॥ चतुर्विधानां लोकानां त एव स्युः शुभावहाः । यो मोहादन्यजातीयं कुरुते वृषभं नरः ॥ ७२ ॥ तस्य नश्यन्ति वित्तानि धनमायुः कुलं वलम् । दुर्बलो वृषभोयत्र गो-जातिस्तत्रनश्यति ॥ ७३ ॥ वातपित्तकफोद्रेकाद् व्याधयो ये वृषे मताः । तेषामुपशमः कार्य्यो यथास्वं विधिना बुधैः ॥ ७४ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ वृषपरीक्षा । ——————*—————— अथ महिष परीक्षा । विपत्ते ह्यसन्नासं कुरुते येन हेतुना । भारं वहति वा दूरं महिषोऽस्मान्निरूप्यते । ब्रह्मक्षत्रियविट्शूद्रान्त्यजभेदेन पञ्चधा ॥ ७५ ॥ तद्यथा । भृशं कृष्णाः पवित्राश्च वृहद्वृषण घोणकाः । वह्नाशिनो मारकाश्च महिषा ब्रह्मजातयः ॥ ७६ ॥ केकराः कामलाः (१) स्थूला भृशं क्रुद्धाश्च मारकाः । वह्नाशिनो बहुवला महिषाः क्षत्रजातयः ॥ ७७ ॥ श्लथाङ्गाः क्षीणशृङ्गाश्च सुक्रुद्धाभारवाहिनः । अमारका बहुवला महिषाः वैश्यजातयः ॥ ७८ ॥ क्षीणाः क्षीणवलाः क्षीणशृङ्गघोणारुषश्च (२) ये । अल्पाशिनो भारसहा महिषाः शूद्रजातयः ॥ ७९ ॥ (१) कपिलां इति (क) पुस्तक पाठः । (२) घोणारुणाश्चः इति (ख) पुस्तक पाठः ।
मृगयुक्तिः । २११ सर्व्वदा जलमिच्छन्ति येऽल्पसत्त्वा महौजसः । भारसहाः कुण्ठशृङ्गास्तेऽन्यजा महिषा मताः ॥ ८० ॥ एषां दोषा गुणा वापि वृषवल्लक्षयेद्बुधः । पोषणञ्चापि संस्थानं वृषतुल्यं तथा मतम् ॥ ८१ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ महिषपरीक्षा । अथ मृगपरीक्षा । मृगनाभिं समादातुं कौतुकार्थं तथापुनः । मृगाःपोष्या महीन्द्राणां तेषां वक्ष्यामि लक्षणम् ॥ ८२ ॥ पृथिव्यव् वायुगगनास्तेजोऽधिकास्तु पञ्चधा । भिद्यन्ते नैकभेदास्तु समस्ता मृगजातयः ॥ ८३ ॥ तद्यथा । ये गन्धिनः क्षीणशरीरकर्णास्ते पार्थिवा गन्धमृगाः प्रदिष्टाः । सर्व्वाङ्गमेषां सुरभि प्रकामं पुण्ये प्रदेशे प्रभवन्ति ते तु ॥ ८४ ॥ ये वै विशाला गुरुदीर्घशृङ्गा अमांसलास्तीव्रखुर प्रदेशाः । आप्यास्तु ते वै प्रसरन्तिभूरि सर्व्वत्र देशे प्रभवन्ति चैव ॥ ८५ ॥ धावन्ति ये वातमिवान्तरीक्षे दीर्घास्तु ते वातमृगाः प्रदिष्टाः । ते यत्र यत्रैव भवन्ति शक्तास्तत्रैव सर्व्वाणि शुभानि सन्ति ॥८६॥ लघुप्रमाणा लघु वीर्य्यसत्त्वा निर्गन्धदेहाश्छगल-प्रमाणाः । ते गगना वेगकरा नराणां स्पृश्या न ते नापि निरीक्षणीयाः ॥८७॥ ये कृष्णवर्णा गुरुदीर्घशृङ्गाः क्रुद्धा भृशं यान्ति च वायुवेगाः(त्) । ते कृष्णसाराः खलु तेजसास्तु पुण्यप्रदेशे प्रभवन्ति ते तु ॥ ८८ ॥
२१२ युक्तिकल्पतरौ— भोजोऽप्याह । पार्थिवादिर्मृगः सर्व्वश्चतुर्जातिर्भवेत् पृथक् । सुशृङ्गास्तनुलोमानो ब्राह्मणा मृगजातयः ॥ ८९ ॥ क्रुद्धाः पञ्चरि (१) शृङ्गाश्च क्षत्रियाः खरलोमशाः । आवर्त्त शृङ्गास्तनवो हरिणा वैश्यजातयः ॥ ९० ॥ कुशृङ्गा वाप्यशृङ्गा वा शूद्राः खरतनूरुहाः । अश्वानां ये गुणा दोषास्ते ज्ञेया हरिणेष्वपि ॥ ९१ ॥ तथापि दोषाः पञ्चामी वच्यन्ते हरिणाश्रयाः । नेत्रयोरन्तरे यस्य लोमावर्त्तः स पापकृत् ॥ ९२ ॥ विषमौ विकतौ शृङ्गौ यस्य स क्षेमनाशनः । आवर्त्तः पृष्ठतो यस्य आनाभि-मभिविन्दति ॥ ९३ ॥ पश्चार्द्धे यस्य वावर्त्तस्तौ त्याज्यौ भयकारको । वर्णनेत्रपदादीनां वैकृताङ्गन-नाशनः ॥ ९४ ॥ गार्ग्यः । दोषवन् मृगजातीनां विजातीनामथापि वा । दर्शनात् स्पर्शनात् चैव गन्धादानाच्च पोषणात् । भवेयुर्विपदः सर्व्वास्तथा चैवाद्य पोषणात् ॥ ९५ ॥ शङ्खोऽपि । हरिणपोषणतो धरणीभुजांनहि भवेन्नरुद्भव-पीड़नम् । न परिवह्निरुजोरिपुजं भयं तदव तं हरिणं गुणिनं नृप ॥ ९६॥ इति श्रीभोजराजीये युक्तिकल्पतरौ मृगपरीक्षा ।
( १ ) पशुरि इति (क) पुस्तक पाठः ।
सारमेययुक्तिः । २१३ अथ सारमेय परीक्षा । मृगयार्थं शाकुनार्थं कौतुकार्थि-महोच्छिता (१) । श्वानः पोष्यास्ततस्तेषामथ वक्ष्यामि लक्षणम् ॥ गुणजाति प्रभेदेन शुनां भेदो ह्यनेकधा ॥ ९७ ॥ तद्यथा । सात्त्विका राजसाश्चैव तामसाश्च त्रिधा मताः । अश्रान्ता अपरिच्छीणाः पवित्राः स्वल्पभोजिनः ॥ ९८ ॥ श्वानस्ते सात्त्विकाः प्रोक्ता दृश्यन्ते च क्वचित् क्वचित् । क्रुद्धा बहुभुजो दीर्घा गुरु वक्षस्तनूदराः ॥ ९९ ॥ जाङ्गलस्था जाङ्घिकाश्च श्वानस्ते राजसा मताः । अल्पश्रमेण ये श्रान्ता ललज्जिह्वा गुरुदराः ॥ १०० ॥ श्वानस्ते तामसा ज्ञेयाः सम्प्लावनसमाश्रयाः । ब्रह्मादि जातिभेदेन चतुर्द्धा सर्व्व एव हि ॥ १ ॥ शुभ्रा दीर्घाः स्तब्धकर्णा लघुपुच्छास्तनूदराः । सुशुक्लनखदन्ताश्च श्वानस्ते ब्रह्मजातयः ॥ २ ॥ रक्ताङ्गास्तनुलोमानो ललत्कर्णास्तनूदराः । दीर्घा दीर्घा नखरदाः श्वानस्ते क्षत्रजातयः ॥ ३ ॥ ये पीतवर्णा मृदवस्तनुलोमान एव च । क्रुद्धाक्रुद्धा ललज्जिह्वास्ते श्वानो वैश्यजातयः ॥ ४ ॥ कृष्णवर्णास्तनुमुखा दीर्घरोमाण एव च । अक्रुद्धाः श्रमयुक्ताश्च ते श्वानः शूद्रजातयः ॥ ५ ॥ (१) मृगयत्वं भ्राईयर्थं कौतुकार्थं महोच्छिता इति (क) पुस्तक पाठः ।
२१४ युक्तिकल्पतरौ— लघु प्रमाणास्तु गुरुदरा ये येऽमेध्यभक्षा बहुपुत्रकाश्च । प्रवृद्धपुच्छा लघुसूक्ष्म दन्ता- स्ते चान्त्यजाः कुक्कुरजातयः स्युः ॥ ६ ॥ द्विजाति चिह्नंसंसर्गात् द्विजातिः श्वा भयावहः । लक्षणत्रयसम्बन्धात् त्रिजातिर्धननाशनः ॥ ७ ॥ भोजोऽपि,— द्विजातिर्वा त्रिजातिर्वा विजातिः श्वा महीभृताम् । भयं धनक्षयं शोकं विदधाति यथाक्रमम् ॥ ८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ श्वपरीक्षा । भरद्वाजस्तु वलिप्रकरणे— अजलक्षणमाह । तदनुसारिन भोजोऽपि,— नक्षत्राणां विभेदेन नराणान्तु गणत्रयम् । तेषां शुभाय निर्दिष्टं पशुवस्तत्रयं (१) वलौ ॥ ९ ॥ तद्यथा,— ये कृष्णाः शुचयश्चाङ्गाः पशवोऽन्ये तथैव च । देवजातिभिरुत्सृज्यास्ते सर्व्वार्थोपसिद्धये ॥ १० ॥ ये पीता हरिता वापि नरजातेरुदीरिताः । ये शुक्लाश्च महान्तो वा रक्षोजातेः शुभप्रदाः ॥ ११ ॥ ( १ ) पशुवस्तुलयं इति (क) पुस्तक पाठः ।
यानयुक्तिः । २१५ यो मोहादथवाज्ञानाद्दलिमन्यं प्रयच्छति । वध एव फलं तस्य नान्यत् किञ्चित् फलं भवेत् ॥ १२ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ अजादि लक्षणम् । अथ चतुष्पद्यानोद्देशः । ये ब्रह्मजात्यादि विभेदतोऽमी, मया निरुक्ता इह वाजिमुख्याः । दिशानया सर्व्वचतुष्पदानां ; भेदो विधेयो विदुषादरेण ॥ १३ ॥ यथा यथाश्वादिकपोषणेन, यानेन वा दोष गुणौ भवेताम् । तथा तथैवान्य चतुष्पटानां ; प्रकीर्त्तितौ दोषगुणौ बुधेन ॥ १४ ॥ वरमयानमपोषणमेव वा वरमिवान्य शरीर मपोषणम् । नखलु दोषयुतं चतुष्पदं स्पृशति पश्यति शोभनचेतनः ॥ १५ ॥ सुराविन्दूर्
२१६ युक्तिकल्पतरौ— अथ द्विपद्यानोद्देशः । मानुषैः पक्षिभिर्वापि तथान्यैर्द्विपदैरपि । यानं स्याद्द्विपदं नाम तस्य भेदो ह्यनेकधा ॥ १७ ॥ हंसैर्मयूरैः कङ्कालैरन्यैर्वापि विशेषतः । सामान्यञ्च विशेषश्च तस्य भेदो द्विधा भवेत् ॥ १८ ॥ तत्र सामान्यम् । यथा,— यानं यद्द्विपदाभ्यां सत्तद्दोलादि कमुच्यते (१) । चतुर्भियुं क्ति संयुक्तैर्दण्डधातुगुणाम्बरैः ॥ दोलेति कथ्यते तेषां नियमोऽयं प्रदर्श्यते ॥ १९ ॥ तत्र समयः । उपेन्द्र मूलाद्भि शिवाग्निवर्जं, शस्ते न्दुतारा (२) तिथि योगलग्ने । विष्टिक्षमापुत्र यमाह्ववर्जं ; दोलादिकारोहणमाद्यमिष्टम् ॥ २० ॥ दण्डकाष्ठस्य नियमे नियमश्चात्र दण्डवत् । कनकं रजतं ताम्रं लौहं धातुचतुष्टयम् ॥ २१ ॥ चतुर्विधानां सुद्दिष्टं ब्रह्मादीनां यथाक्रमम्(मात्) । सुराणाम (३) सुराणाञ्च चातुर्वर्ण्यमुदाहृतम् ॥ २२ ॥ ( १ ) यत्तद्द्यानादिकमुच्यते इति (क) पुस्तकपाठः । ( २ ) भावा इति इति (ख) पुस्तक पाठः । ( ३ ) गुह्यानाम् इति (ग) पुस्तक पाठः ।
यानयुक्तिः । २१७ त्रिहस्तसम्मितो मध्ये तदद्धं पार्श्वयोर्द्वयोः । विजयानाम दोलेयं विजयाय महोच्छिताम् ॥ २३ ॥ विजया मङ्गला क्रूरा शिवा लेशा शुभा क्रमात् । वितस्त्येकैकसंवृद्ध्या दोलाः षट् स्युः सुखान्नदाः (१) ॥ २४ ॥ कुम्भश्च पद्मकोषश्च शङ्खः पर्व्वत एव च । चतुर्विधानां दोलासुं कल्याणाय चतुष्टयम् ॥ २५ ॥ हंसः केकी शुको भृङ्गश्चतुष्टयमिदं क्रमात् । कुम्भाद्यग्रे निधातव्यं चतुर्विध महोच्छिताम् ॥ अत्रापि वक्रं(र्ग)विन्यासो विज्ञेयो नवदण्डवत् ॥ २६ ॥ भोजस्तु,— गजः प्रस्थानदोलायां रणदोलासु(च) केशरी । मृगो भ्रमणदोलायां क्रीड़ादोलासु षट्पदः ॥ २७ ॥ भुजङ्गमः शत्रुराज्ये वृषभो दान-कर्मणि । दोलोपरि (पर्य्यु) परि न्यस्यो वहुभिर्मुनि°शासनम् ॥ २८ ॥ यद्वक्रदण्डं यानं स्यात् तत् पर्य्यङ्कमिति स्मृतम् । त्रिहस्तसम्मितो यानस्तदर्द्धपरिणाहवान् ॥ २६ ॥ पर्य्यङ्कः क्षेमनामायं भर्तुः सर्व्वार्थ-साधकः । क्षेमो(मे) मृत्युर्जयो दुःखश्चत्वारस्ते यथाक्रमम् ॥ ३० ॥ वितस्त्येकैक संवृद्ध्या यथा चाण्नं सङ्गिनः । मणिधातुगुणादीनां नियमः पूर्व्ववन्मतः ॥ ३१ ॥ विशेषमथ वक्ष्यामि पर्य्यङ्कस्य यथाक्रमम् । शुक्तिश्च गजदन्तश्च मृगशृङ्गं तथैव च ॥ ३२ ॥ ( १ ) यथानन्दाः इति (क) पुस्तक पाठः । २८