कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
इति नायकसहायदूतककर्मविमर्शः पञ्चमं प्रकरणम्, पञ्चमश्चाध्यायः ।
६२ सटीकं कामसूत्रे [ १ अधिकरणे,
तत्रापि यदि दूतस्य गुणाः स्युरतो गुणतो विमृश्यते—
पटुता धाष्ट्र्यमिङ्गिताकारज्ञताऽनाकुलत्वं परमर्मज्ञता प्रमा- णता प्रतारणं देशज्ञानं कालज्ञता विषयबुद्धित्वं लघ्वी प्रतिपत्तिः सोपाया दूतगुणाः ॥ ४० ॥
पटुता प्रज्ञाऽनुबद्धया वाचा वक्तुं कुशलता, धाष्ट्र्यं प्रागल्भ्यमिति, इङ्गितमन्यथा वृत्तिः, आकारो वदननयनादिगतविकारः, तज्ज्ञतया तद्- नुरूपमनुतिष्ठति, कालज्ञता; कालेऽस्मिन्प्रोत्साहयितुं शक्यत इति, विष- ह्या विमर्शक्षमा बुद्धिर्यस्येति विगृह्य भावप्रत्ययेन योज्यः, लघ्वी प्रतिपत्तिः सोपाया चेति दूतगुणा इति, कार्यं विमृश्य तदेवोपायपूर्वकमनुष्ठानं न कार्यातिपातनम् ॥ ४० ॥
इदानीमधिकरणार्थानुष्ठाने फलं प्रयोजनं चाह—
भवति चात्र श्लोकः—
आत्मवान्मित्रवान्युक्तो भावज्ञो देशकालवित् । अलभ्यामप्ययत्नेन स्त्रियं संसाधयेन्नरः ॥ ४१ ॥
इति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे नायकसहायदूतककर्मविमर्शः पञ्चमोऽध्यायः ।
आत्मवानिति । तत्र त्रिवर्गप्रतिपत्त्या विद्यासमुद्देशेन चात्मन्याहित- गुणत्वादात्मवान्, सहायविमर्शेन मित्रवान्, युक्त इति । नागरकवृ- त्तानुष्ठानेन युक्तः स्वकर्मनिष्ठः, भावज्ञो नायकस्य नायिकायाश्च विमर्शेन तत्स्वरूपज्ञ इत्यर्थः, दूतककर्मचित्तपरिमर्शनेनेति फलम्, अलभ्यामप्यय- त्नेन स्त्रियं विपरिमर्शितां साधयत इति फलप्रयोजनम्, एवंभूतस्य हि स्त्रीसाधनयोग्यत्वाद् ॥ ४१ ॥
इति नायकसहायदूतककर्मविमर्शः पञ्चमं प्रकरणम्, पञ्चमश्चाध्यायः ।
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां- साधारणे प्रथमेऽधिकरणे नायकसहायदूतककर्मविमर्शः पञ्चमोऽध्यायः ।
समाप्तं चेदं साधारणं प्रथममधिकरणम् ।
सांप्रयोगिकं द्वितीयमधिकरणम्।
प्रथमोऽध्यायः।
स्त्रियं साधयत इत्युक्तं, स्त्रीसाधनं चावापः स चाविज्ञातशास्त्रस्य न युज्यत इत्यावापात्प्राक्तन्त्रं सांप्रयोगिकमुच्यते, तत्रापि संप्रयोगे प्रथमं-रतं, तस्मिन्प्रमाणादिभिर्ज्ञातस्वरूपे यथायथमालिङ्गनादयः प्रयुज्यमाना-रत्यर्था इति प्रमाणकालभावेभ्यो रतावस्थापनमुच्यते, हेतौ पञ्चमी, प्रमाणादिना तस्य व्यवस्थापनमित्यर्थः, तत्र लिङ्गसंयोगाद्भावकालाविति ताभ्यामपि प्राक्प्रमाणतस्तावद्रतावस्थापनमाह—
शशो वृषोऽश्व इति लिङ्गतो नायकाविशेषाः ॥ १ ॥
लिङ्गत इति। लिङ्ग्यन्ते स्त्रीत्वादयोऽनेनेति लिङ्गम्, लोकप्रतीत्या लिङ्गं मेहनमुच्यते, तत्र पौंस्नमुन्नतं स्त्रीणां निम्नं, प्रमाणं च शास्त्रव्यवहारयोः, अल्पात्पौंस्नाच्छश इव शशः, तथा समाद्वृषः, महतोऽश्वः, इति नायकभेदाः ॥ १ ॥
नायिका पुनर्मृगी वडवा हस्तिनी चेति ॥ २ ॥
नायिका पुनरिति। पुनःशब्दो विशेषणार्थः, लिङ्गस्य भिन्नत्वात्संज्ञाभेदः प्रयुज्यत इति पूर्वाचार्यैर्मृग्यादिभिरुपमिताः, न शशादिभिः, तथा चाहुर्लक्षणम्—
‘षण्णव द्वादशेत्येवमायामेन यथाक्रमम्।
शशादिभेदभिन्नानां त्रिधा साधनसंस्थितिः ॥
परिणाहेन तुल्या स्यादायामस्य प्रमाणतः।
नियता नेति, के चित्तु परिणाहे प्रचक्षते ॥
स्त्रीणां साधनमार्गोऽपि तद्वदेव प्रभिद्यते।
आयामपरिणाहाभ्यां मृग्यादीनां शशादिवत् ॥ इति ॥ २ ॥
तत्र सदृशसंप्रयोगे समरतानि त्रीणि ॥ ३ ॥
तत्रेति। नायकस्य नायिकायाश्च भेदे, सदृशो विसदृशो वा संप्रयोगः स्यादित्याह—सदृशसंप्रयोग इति। शशस्य मृग्या, वृषस्य वडवया, अश्वस्य हस्तिन्या सह सदृशः सम्प्रयोगो रन्ध्रेन्द्रियसमाप्तिलक्षणः, अल्पत्वादिभिर्लिङ्गसादृश्यात्, तस्मिन्सति त्रीणि समरतानि, रन्ध्रसाधनयोराश्रयाश्रयिभावेन यन्त्रसाम्यात् ॥ ३ ॥
६४ सटीक कामसूत्रे [ २ अधिकरणे,
विपर्ययेण विषमाणि षट् ॥ ४ ॥
शशस्य वडवया हस्तिन्या च, वृषस्य मृग्या हस्तिन्या च, अश्वस्य मृग्या वडवया चेति विसदृशः संप्रयोगः, लिङ्गवैषम्यात्, तस्मिन्सति षड् विषमाणि रतानि यन्त्रवैषम्यात् ॥ ४ ॥
विषमेष्वपि रतेषु व्यवहारार्थं विशेषसंज्ञामाह—
विषमेष्वपि पुरुषाधिक्यं चेदनन्तरसंप्रयोगे द्वे उच्चरते ॥ ५ ॥
पुरुषाधिक्यं चेदिति । यदा लिङ्गतः पुरुषाधिक्यं स्त्रिया न्यूनत्वं तदाऽनन्तरो व्यवहितो वा संप्रयोगः स्यात्, तत्राश्वस्य वडवया वृषस्य मृग्येति त्रैलोम्येऽनन्तरसंप्रयोगः, तस्मिन् समरताद् द्वे उच्चरते, साधनस्योच्चतया रन्ध्रमवपीड्य व्याप्रियमाणत्वात् ॥ ५ ॥
व्यवहितमेकमुच्चतररतम् ॥ ६ ॥
व्यवहितमिति । अश्वस्य मृग्या सह व्यवहितसंप्रयोगः, वडवया व्यवधानात्, तस्मिन्सति उच्चरतादुच्चतररतम्, साधनस्यात्युच्चतया निष्पीडितेन कथं चिद्व्यापारात् ॥ ६ ॥
विपर्यये पुनर्द्वे नीचरते ॥ ७ ॥
विपर्यये द्वे, पुनरिति, पुनःशब्दो विशेषणार्थः, स्त्रिया आधिक्ये त्वनन्तरसंप्रयोगे शशस्य वडवया, वृषस्य हस्तिन्येत्यानुलोम्येन समरताद् द्वे नीचरते, साधनस्य निकृष्टतया रन्ध्रं सम्यगनवपूर्य्य व्यवहारात् ॥ ७ ॥
व्यवहितमेकं नीचतररतं च ॥ ८ ॥
व्यवहिते वडवयाऽन्तरिते संप्रयोगे शशस्य हस्तिन्या सहेति नीचरतान्नीचतररतम्, तत्रानवपूर्य्यैव व्यवहारात् ॥ ८ ॥
एषामुत्तमादीन्याह—
तेषु समानि श्रेष्ठानि ॥ ९ ॥
तेष्विति । नवसु रतेषु षड्भ्यो विषमरतेभ्यः समानि श्रेष्ठानि प्रशस्तानि, तत्र यन्त्रसाम्यादुभयोः परस्परसुखातिशयात् ॥ ९ ॥
तरशब्दाङ्किते द्वे कनिष्ठे ॥ १० ॥
तरशब्दाङ्किते कनिष्ठे, उच्चतरनीचतरशब्दाङ्किते अधमे, अत्र यन्त्रस्यातिपीडनादतिशैथिल्याच्च स्पर्शसुखस्याभावात् ॥ १० ॥
शेषाणि मध्यमानि ॥ ११ ॥
शेषाणि चत्वारि, उच्चरते द्वे नीचरते द्वे मध्यमानि, श्रेष्ठकनिष्ठत्वाभावात्, तत्र ह्यनतिपीडनादनतिशैथिल्याच्च स्पर्शसुखस्य समत्वात् ॥ ११ ॥
१ अध्याये ] प्रमाणकालभावरतावस्थापनप्रकरणम् । ६५
तत्रापि मध्यमानां विशेषमाह-
साम्येऽप्युच्चाङ्कं नीचाङ्गाज्ज्याय इति प्रमाणतो नव रतानि ॥१२॥
ज्येष्ठकनिष्ठत्वाभावाद्रतस्य साम्येऽपि माध्यस्थ्येऽपीत्यर्थः, उच्चाङ्कं नीचाङ्गाज्ज्याय इति । उच्चरते हि योषित उत्फुल्लकादिना प्रसार्य जघनं संविष्ठायाः साधनाधिक्यात्कण्डूतिप्रतीकाराधिकलाभः, नीचरते तु सम्पुटकादिनाऽवहासितजघनाया अपि न तत्प्रतीकारोऽस्ति ।
यथोक्तम्-
तन्वल्पसाधनः कामी चिरकृत्योऽपि वा नरः ।
कण्डूतेरप्रतीकारान्नातिस्त्रीप्रिय उच्यते' ॥ इति ॥ १२ ॥
भावतो रतावस्थापनमाह-
यस्य संप्रयोगकाले प्रीतिरुदासीना वीर्यमल्पं क्षतानि च न सहते स मन्दवेगः ॥ १३ ॥
भावतो हि कालस्य पश्चाद्भावित्वात्फलरूपाभावात्तस्यापरिच्छेदात्, तथा हि-हेतुफलभेदादत्र द्विविधो भावः, तत्र कामिताऽऽख्यो हेतुः, तस्मिन्सति संप्रयोगाद् रतान्ते च भावः फलम्, तस्मादुभयरूपाद्रतमवस्थाप्यते, स च मृदुमध्यमातिमात्रभेदात्त्रिविधः, तत्र यस्य संप्रयोगेरुच्छा मनाग्भवति रतिर्वा, वीर्यमल्पं संप्रयोगे मन्दो व्यापारः शुक्रधातुर्वा स्तोकः, क्षतानि च नायिकया दन्तनखैः प्रयुज्यमानानि, उपलक्षणत्वात्प्रहरणं च न सहते य इत्यर्थाद्विभक्तिविपरिणामः स मृदुभावत्वान्मन्दवेगो मृदुराग इत्यर्थः ॥ १३ ॥
तद्विपर्यये मध्यमचण्डवेगौ भवतः ॥ १४ ॥
तद्विपर्यय इति । यथोक्तस्य विपर्यये; यस्य संप्रयोगे प्रीतिर्मध्या वीर्यं मध्यं क्षतानि च यः सहते स मध्यमभावत्वान्मध्यवेग इत्येको विपर्ययः, संप्रयोगे प्रीतिरधिका वीर्यं महत् क्षतानि चात्यर्थं सहते सोऽधिकभावत्वाच्चण्डवेग इति द्वितीयो विपर्ययः ॥ १४ ॥
तथा नायिकाऽपि ॥ १५ ॥
तथेति । पुरुषवद्, यस्य संप्रयोग इत्यादिना मन्दमध्यचण्डवेगा इति नायिकास्तिस्रः ॥ १५ ॥
अत्रापि प्रमाणवदेव नव रतानि ॥ १६ ॥
अत्रापीति । भावेऽपि, प्रमाणवदेवेति । सदृशसम्प्रयोगे समरतानि त्रीणि, विपर्यये विषमाणि षट् ॥ १६ ॥
तद्वत्कालतोऽपि शीघ्रमध्यचिरकाला नायकाः ॥ १७ ॥
९ का० सू०
६६ सटीके कामसूत्रे [ २ अधिकरणे,
तद्वदिति। यथा भावप्रमाणाभ्यां तथा कालतो नव रतानि, भावोत्पत्तिनिमित्तस्य कालस्य शीघ्रादिभेदेन त्रैविध्याद् यदाह-“शीघ्रमध्यचिरकालाः” इति, शीघ्रेण कालेन रतिर्यस्य, तथा मध्यचिरकालाभ्याम्, नायका इति। नायकश्च नायिका चेति 'पुमान्स्त्रिया' । १ । २ । ७ । इत्येकशेषनिर्देशः ॥ १७ ॥
तत्र स्त्रियां विवादः ॥ १८ ॥
तत्रेति। नायकयोः स्त्रीपुंसयोः, स्त्रियां विवादः, स्त्रीविषये मतभेद इत्यर्थः ॥ १८ ॥
तत्रौद्दालकेर्मतम्—
न स्त्री पुरुषवदेव भावमधिगच्छति ॥ १९ ॥
यादृशं सुखं विसृष्टिप्रभवं पुरुषोऽनुभवति तादृशमेव न स्त्री, शुक्राभावात् ॥ १९ ॥
किमर्थं तर्हि पुरुषेण संप्रयुज्यत इत्याह—
सातत्याच्चस्याः पुरुषेण कण्डूतिरपनुद्यते ॥ २० ॥
सम्बाधकस्य स्वभावतः कृमिजुष्टत्वात्तत्र निसर्गसिद्धा कण्डूतिः, तथा चोक्तम्—
रक्तजाः कृमयः सूक्ष्मा मृदुमध्योग्रशक्तयः ।
स्मरसद्मसु कण्डूर्ति जनयन्ति यथाबलम् ॥
सा त्वस्याः पुरुषेणापनीयते, सातत्यादिति। अनवरतसाधनव्यापारेणेत्यर्थः, अन्यथा तत्प्रतिबन्धे कण्ड्वा उत्कोप एव स्यात् ॥ २० ॥
अपरद्रव्येणापि सा स्वयमपनयतीति चेदाह—
सा पुनराभिमानिकेन सुखेन संसृष्टा रसान्तरं जनयति ॥ २१ ॥
सेति। सा च कण्डूतिरपनीयमाना शलाकिकया कर्णकण्डूतिरिव, आभिमानिकेनेति। आभिमानिकं चुम्बनादिसुखं वक्ष्य(१)ति, तेन संसृष्टाऽनुगता, रसान्तरमिति। सुखान्तरं जनयति, यत्कण्डूत्यपनोदसुखं यच्च चुम्बनादिसुखं तयोः संसृष्टयो रसान्तरत्वात् ॥ २१ ॥
तस्मिन्सुखबुद्धिरस्याः ॥ २२ ॥
तस्मिन् रसान्तरे सुखबुद्धिरस्याः सुखिताऽस्मीति, कण्डूतिप्रतीकारमात्रे तु न सुखबुद्धिः, तस्याप्राधान्यात्, ततः 'स्पर्शविशेषविषयाऽऽ-
(१) “आलिङ्गनचुम्बननखच्छेद्ये”त्यादिनाऽग्रिमेणैतदधिकरणस्थद्वितीयाध्यायगतेन बाभ्रव्यमतीयेन सूत्रेण।
१ अध्याये ] प्रमाणकालभावैरतावस्थापनप्रकरणम् । ६७
भिमानिकसुखानुविद्धा फलवत्यर्थप्रतीतिः' प्राधान्यादित्येतद्विशेषल-(१)क्षणं न तुल्य(२)म्, विशेषो यदत्र न फलवती, शुक्राभावात्, तच्च रसान्तरमारम्भात्प्रभृति सन्तानेन सर्वथा कण्डूत्यपनोदात्प्रवर्तते पुरुषसुखं तु विसृष्टिभावित्वाद्, अत एव तयोः स्वरूपतः कालतश्च न सादृश्यमिति न कालभावाभ्यां नव रतानि ॥ २२ ॥
पुरुषप्रीतेश्चानभिज्ञत्वात् ॥ २३ ॥
न च पुरुषवद्रतिं स्त्री नाधिगच्छतीति कथमेतदुपलभ्यते, यस्मात्पुरु(३)षप्रीतेश्चेतोधर्मत्वेनातीन्द्रियायाः प्रत्यक्षेणानभिज्ञत्वात्, कस्य धातुः पुरुष(४)स्येत्यर्थः, चशब्दात्स्त्रीप्रीतेश्च ॥ २३ ॥
यदा स्त्री पुरुषायमाणा स्वव्यापारेणात्मनः प्रीतिं जनयति तत(५)श्च तद्(६)संवेदनादेव स्वभा(७)वाद्रीतिरस्त्या इति कथमुपलभ्यते, पृष्ट्वा ज्ञास्यतीत्यपि नास्तीत्याह—
कथं ते सुखमिति प्रष्टुमशक्यत्वात् ॥ २४ ॥
कथमिति। कथं केन प्रकारेण तव सुखं, किं विसृष्ट्या यथाऽस्माकं, किं वाऽन्येनेति, तत्र स्त्रिया विसृष्टिसुखस्यासंवेदनात्प्रकारान्तरसु-
( १ ) भावादिविपर्यया रतिरतत्र लक्ष्या, लक्षणेऽर्थपदं च भङ्क्त्वा स्पर्शविशेषपरम्, तथा च स्पर्शविशेषविषयकाभिमानिकसुखविषयकफलविशिष्टप्रतीतिविषयत्वं प्रकृते रतित्वं-फलति, एवं च विषये विषय्युपचारेण निर्देशेन लक्षणं नासङ्गतम् , तस्य यथाश्रुतार्थकत्वे त्वसङ्गतिः प्रकृतानुपयोगश्च, फलं चेच्छाऽन्तरानधीनेच्छाविषयरूपं विसृष्टिप्रभवसुखं प्रकृते, तद्वैशिष्ट्यं च विषयितया, प्रतीतिश्च साक्षात्कृतिरूपा, नातो शब्दादिरूपायां तन्मितावति-प्रसङ्गः, साऽपि लौकिकसामग्रीप्रयोज्या जन्या च ग्राह्या,ऽन्यथा सामान्यप्रत्यासत्तिजायां-भगवत्समवेतायां च तत्रातिव्याप्तिः ।
अत्र प्रथमविशेषणानुपादाने चुम्बनादिजायाः कादाचित्क्या मन्दवेगसमवेततादृश-प्रतीतेर्विषयेऽतिव्याप्तिः, द्वितीयतदनुक्तौ चापरप्रकारजायास्तथा प्रतीतेर्विषये सा, तृतीय-तदभावे च रतादिपर्याये सम्प्रयोगे सेति ।
( २ ) न स्त्रीपुंसयो रतौ समन्वितम्, वस्तुतस्तु सिद्धान्ते ह्युक्तलक्षणे फलपदनिवेशो, न त्वौद्दालकिंमते, तदनिवेशनिबन्धनदोषनिरासस्तु रतभेदनिवेशेन विधेय इति ।
( ३ ) संप्रयुक्तपुरुषप्रीतेः ।
( ४ ) उदासीनस्य ।
( ५ ) अप्यर्थकश्चेज्ज्यायान् ।
( ६ ) कण्डूत्यपनोदजन्यविसृष्टिजन्यसुखयोरन्यतरस्यानिर्णयात् ।
( ७ ) स्वस्यात्मनो, भावाद्विसृष्टिसुखात्, ।
३८ सटीके कामसूत्रे [ २ अधिकरणे,
खस्य च पुरुषेणासंवेदनात् प्रष्टुमपि न शक्यते, किमुत तद्वचनात्परि- ज्ञानम्, तस्मात्पुरुषवद्भावं नाधिगच्छतीति ॥ २४ ॥
कथमेतदुपलभ्यत इत्याशङ्क्यौद्दालकिरुपलब्ध्युपायमाह—
कथमेतदुपलभ्यत इति चेत् पुरुषो हि रतिमाधिगम्य स्वेच्छ- या विरमति, न स्त्रियमपेक्षते, न त्वेवं स्त्रीत्यौद्दालकिः ॥ २५ ॥
पुरुषो हीति । पुरुषो रतिमधिगम्य विसृष्टिसुखमनुभूय कृतकृत्य- त्वात्स्वेच्छया व्यापाराद्विरमति, न स्त्रियमपेक्षते व्याप्रीयमाणामपि, न त्वेवं स्त्रीति, साऽपि यदि पुरुषवद्विसृष्टिसुखमधिगच्छेत्तदा तदधिगम्य पुरुषनिरपेक्षा स्वेच्छया यन्त्रविश्लेषपूर्वकं विरमेद्, न चैवम्, अन्यत्र पुरुषविरामात्, विरतेऽपि पुंसि पुरुषान्तरसापेक्षत्वात्, तथा हि केन- चित्पुंसा संप्रयुज्य तथाऽवस्थितैवापरैः संप्रयुज्यमाना का चिद् दृश्यते, अत एवोक्तम् ।
'अग्निस्तृप्यति नो काष्ठैर्नापगाभिः पयोदधिः । नान्तकः सर्वभूतैश्च न पुंभिर्वामलोचना ॥' इति ॥
तस्मात्स्वेच्छया विरामाभावान्न विसृष्टिसुखाधिगमो, यथा प्रा- ग्विसृष्टेः पुरुषस्येति ॥ २५ ॥
तन्नैतत्स्यानु चिरवेगे नायके स्त्रियोऽनुरज्यन्ते शीघ्रवेगस्य भावमनासाद्यावसानेऽभ्यसूयिन्यो भवन्ति, तत्सर्वं भावप्राप्तेरप्रा- प्तेश्च लक्षणम् ॥ २६ ॥
मा भूत्स्वेच्छया विरामोपलम्भात्स्त्रीषु विसृष्टिसुखानुभूतिः, अनुरा गदर्शनात्त स्यात्, तद्यथा, चिरवेगे नायके चिरमुपसृत्य; विसृष्टिसुखा- धिगमाद्रिरते स्त्रियोऽनुरज्यन्ते स्निह्यन्तीत्यर्थः, शीघ्रवेगस्य च नाय- कस्य क्षिप्रमुपसृत्य सुखाधिगमाद्विरतस्य रतान्तेऽभ्यसूयिन्यो द्वेषिण्यो- भवन्ति, तत्सर्वमिति । अनुरागो विरागश्चोभयं लक्षणं ज्ञापकमित्यर्थः, कस्येत्याह-भावस्य प्राप्तेरप्राप्तेश्चेति । तत्रानुरागो योषितां सुखप्राप्तिं- ज्ञापयति, विरागश्च दुःखाधिगमात्सुखाप्राप्तिं, विरागस्य विरुद्धकार्य- त्वात्, अनुरागविरागौ च सुखदुःखहेतुकौ पुरुषेषु दृष्टान्तत्वेन सिद्धौ, तेऽपि हि पुरुषायिते चिरं व्यापृत्य; विरतायां योषित्याधिगतसुखाश्चिर- वेगा अनुरज्यन्ते, तत्क्षणविरतायां च दुःखाधिगमादनवाप्य; ते रतिसुखं- विरज्यन्ते, तस्मात्पुरुषस्येव योषितोऽप्यनुरागोपलम्भाद्विसृष्टिसुखा- धिगमः प्रतीयत इति ॥ २६ ॥
१ अध्याये ] प्रमाणकालभावरतावस्थापनप्रकरणम् । ६९
तन्न ॥ २७ ॥
तन्न नेति । अनुरागो भावप्राप्तेर्लिङ्गमित्येतन्नास्ति, सा(१)धारणत्वादस्य ॥ २७ ॥
तदाह—
कण्डूतिप्रतीकारोऽपि हि दीर्घकालं प्रिय इति ॥ २८ ॥
कण्डूतिप्रतीकारोऽपि हीति । तस्माच्चिरवेगेन कण्ड्तेर्यः प्रतीकारः प्रतिक्रिया, दीर्घकालमिति । अतिचिरकालं सोऽपि स्त्रीणां प्रियो, न केवलं विसृष्टिसुखजननम् ॥ २८ ॥
एतदुपपद्यत एव ॥ २९ ॥
एतदुपपद्यत एव, न तु नोपपद्यते, एवेत्यनेनायोगव्यवच्छेदेन भवत्पक्षेऽप्येतदस्तीति दर्शयति, अन्यथा विसृष्टिसुखाधिगमेऽपि कण्डूतेरप्रतीकारान्न तत्रानुरागः, ततश्च किं विसृष्टिसुखाधिगमादनुरागोऽस्याः किं वा कण्डूतिप्रतीकारसमुत्थ इति संदिग्धः, तथाऽनधिगमात्, विरागोऽपि शीघ्रवेगे युज्यते ॥ २९ ॥
तस्मात्संदिग्धत्वादलक्षणमिति ॥ ३० ॥
तस्मादेत(२)दुभयं संदिग्धत्वाद्विसृष्टिसुखस्य प्राप्तेरप्राप्तेश्चालक्षणमज्ञापकम्, उभय(३)त्र वर्तमानत्वात्, तस्मात्स्वेच्छया विरामाविरामावेव ज्ञाप(४)कौ, तौ च स्त्रियां वर्त्तमानावर्तमा(५)नौ स्त इति न पुरुषवद्रतिमधिगच्छतीति स्थितम् ॥ ३० ॥
एतदेव मतमौद्दालकिगीतेन श्लोकेनाह —
संयोगे योषितः पुंसा कण्डूतिरपनुद्यते ।
तच्चाभिमानसंमृष्टं सुखमित्यभिधीयते ॥ ३१ ॥
कण्डूत्यपनोदसमुत्थं स्पर्शसुखमभिमानसंस्पृष्टमिति, कारणे कार्योपचारादाभिमानिकसुखानुविद्धं सुखमित्यभिधीयते योषिद्भिः ॥ ३१ ॥
बाभ्रव्यमतमाह—
( १ ) सपक्षभावप्राप्तिविपक्षकण्डूतिप्रतीकारोभयसम्बन्धित्वात् ,
( २ ) अनुरागविरागद्वयम् ।
( ३ ) विसृष्टिसुखप्राप्त्यप्राप्त्योः । तत्राद्ये कल्पेऽनुरागः स्पष्ट एव त्यप्रतीकारदशायाम् । द्वितीये तु विरागः स्पष्ट एवानुरागस्तु कण्डूतिप्रत
( ४ ) विसृष्टिसुखलाभातदलाभयोः ।
( ५ ) स्वेच्छया विरामोऽवर्त्तमानः, स्वेच्छयाऽविरामो वर्त्तमान
७० सटीके कामसूत्रे [ २ अधिकरण]
सातत्याच्छुश्रूषितारम्भात्प्रभृति भावमधिगच्छति पुरुषः पुन- रन्त एव ॥ ३२ ॥
द्वावपि विसृष्टिसुखमधिगच्छतः, स्त्री त्वारम्भाद्यन्त्रयोगात्प्रभृति सातत्यान्नैरन्तर्येण, सा हि पुरुषेणोपस्पृश्यमाणा अभिन्नजलभाण्ड-नैः क्लिन्नसम्बाधा भवतीति प्रत्यक्षसिद्धमेतत्, सुखं च पुरुषसंयोगे हि संस्पृष्टमनुविद्धमित्यारम्भात्प्रभृति स्त्री भावमधिगच्छति, पुरुषः पुनरन्त एव भावमधिगच्छति, तदानीं शुक्रविसर्गात् ॥ ३२ ॥
एतदुपपन्नतरम् ॥ ३३ ॥
एतदिति । यथोक्तमुपपन्नतरम्, प्रमाणसिद्धत्वात्, ततश्च तयोर्भिन्नकालत्वान्न सादृश्यमिति न कालतो नव रतानि, भावतस्तु सन्ति, विसृष्टिसुखसादृश्यात् ॥ ३३ ॥
ननु सम्बाधो व्रणस्वभावत्वादपनुद्यमानः क्लिश्यतीत्याह—
न ह्यसत्यां भावप्राप्तौ गर्भसंभव इति बाभ्रवीयाः ॥ ३४ ॥
न हीति । रसप्राप्तौ विसृष्टिसुखाधिगमे तृप्ता हि स्त्री गर्भं धत्ते यथाऽऽह चरकः—
'निष्ठीविका गौरवमङ्गसादस्तन्द्रा प्रहर्षो हृदयव्यथा च ।
तृप्तिश्च बीजग्रहणं स्वयोन्यां गर्भस्य सद्योऽनुगतस्य लिङ्गम् ॥
इति ।
तृप्तिश्च भावः, स च न शुक्रविसृष्टिं विनेत्यभिप्रायः, आर्तवं विसृजति न शुक्रमिति के चिद्, यथाऽऽह—
'कामाग्नितप्तचित्तस्त्रीपुंसयोरन्यदेहसंसर्गादरणीदण्डाभ्यामिव वह्निः शुक्रार्तवमथनाद्' इति.
अस्ति तावत्तृप्तिनिबन्धनं, किं तदिति चिन्त्यते, यदि तन्न शुक्रं कथं योषितो गर्भसम्भव उपपद्यते, यथा हि पुरुषसंसर्गात्स्त्री गर्भं धत्ते तथा योषित्संयोगादपि, यथोक्तं सुश्रुते—
'यदा नारी च नारी च मैथुनायोपपद्यते ।
अन्योन्यं मुञ्चतः शुक्रमनस्थिस्तत्र जायते' ॥ इति,
तस्माद्रसधातोरुत्पन्नोऽसृग्धातुरेव कस्यां चिदवस्थायामार्तवम्, शुक्रधातुस्तु मज्जधातोरुपद्यत इति ॥ ३४ ॥
अत्रापि तावेवाशङ्कापरिहारौ भूयः ॥ ३५ ॥
अत्रापीति । बाभ्रव्यमतेऽपि, तावेवेति । पूर्वोक्तावाशङ्कापरिहारौ वाच्यौ, तत्र यद्यारम्भात्प्रभृति भावाधिगमस्तदा चिरवेगेऽनुरज्यन्ते-
[१ अध्याय ] प्रमाणकालभावतावस्थापनप्रकरणम् । ७१
[शी]घ्रवेगस्य चावसानेऽभ्यस्तयि इत्ययं भेदो न युज्यते, उभयत्राप्या- र्भावाधिगमाद् दृश्यते च भेदः, यस्मादनुरागस्तस्मादन्ते पुरुषव- त्वदवस्थस्य प्राप्तिः, यतः सासृया तस्मान्नारम्भात्प्रभृतीत्याशङ्कापरिहारौ, न-कण्डूतिप्रतीकारोऽपि दीर्घकालः प्रियइति कण्डूत्यपनोदाभावाच्च [शी]घ्रवेगे च प्रद्वेषः, सत्यपि भावाधिगमे कण्डूत्यपनोदस्याधिककाल- स्याभावाद्, अथ वा दीर्घकालं भावजननपि प्रियमिति योज्यम्, स्त्री- ऽवस्थाधिकृतत्वात् । शीघ्रवेगे च विरज्यन्ते, चिरकालं भावस्याजननात् योषितो हि चिरानुबन्धनं भावमुत्पद्यमानमिच्छन्ति, तासामष्टगुणकाम- त्वाद्, एवं सति न पुंभिर्वामलोचनास्तृप्यन्तीति युक्तम्, तेषामेकगु- णकामत्वात्, न पुनर्विसृष्टिसुखाभावादिति, भूयश्चेति पुनराशङ्का- परिहारौ ॥ ३५ ॥
तदाह—
तत्रैतत्स्यात् सातत्येन रसप्राप्तावारम्भकाले मध्यस्थचित्तता नातिसहिष्णुता च ततः क्रमेणाधिको रागयोगः शरीरे निरपेक्षत्वम् अन्ते च विरामाभीप्सेत्येतदनुपपन्नमिति ॥ ३६ ॥
रतस्यारम्भकाले मध्यस्थचित्तता नखक्षतादीनामप्रयोगः, नातिस- हिष्णुता च नखक्षतादीनां प्रयुज्यमानानां नातिक्षमता, ततश्च क्रमेणा- रम्भादुत्तरकालं तरतमभेदादधिकरागयोग इति, मध्यस्थचित्ततायां विपर्ययः, शरीरेऽपि निरपेक्षत्वमित्यतिसहिष्णुतायां, अन्ते च विरामा- भीप्सा प्रयोगनिवृत्तीच्छा. एतत्सर्वमवस्थाऽन्तरं योषितः सातत्याद्र- सप्राप्तौ सत्यामनुपपन्नम्, प्रारम्भात्प्रभृत्येकरूपतया सातत्येन विसृ- ष्टिसुखस्य प्रवृत्तत्वात्, पुरुषस्य विसृष्ट्यवस्थायामेतदवस्थान्तरं दृश्यत इति ॥ ३६ ॥
तच्च न ॥ ३७ ॥
नैवानुपपन्नं, कुलालचक्रादिवदुपपद्यत एव ॥ ३७ ॥
सामान्येऽपि भ्रान्तिसंस्कारे कुलालचक्रस्य भ्रमरकस्य वा भ्रान्तावेव वर्तमानस्य प्रारम्भे मन्दवेगता ततश्च क्रमेण पूर्णं वेगस्येत्युपपद्यते ॥ ३८ ॥
भ्रमरकं काष्ठमयं क्रीडनकद्रव्यम्, तद्दीर्घेण सूत्रेणावेष्ट्य लाडि- का भ्रमयन्ति, यथा तयोर्दण्डे सूत्रप्रत्याक्षिप्ते भ्रान्तिसंस्कारे समानेऽप्या- दिमध्यावसानेषु भ्रान्त्यामेव वर्तमानयोः, अन्यथा भ्रान्त्यभावात्तत्सं- स्कारोऽस्तीति कथं प्रतीयेत ? प्रारम्भे मन्दवेगता मन्दभ्रमणं, ततः क्र-
७२ सटीक कामसूत्रे [ २ अधिकरणे,
मेण तरतमभेदेन पूरणं वेगस्य, यथा तत्कुलालचक्रं भ्रमरकं वा निश्च- लतरमिव स्थितमिति, एवं योषितोऽपि पुरुषेणोपसृतादिभिः प्रत्ययैरु- त्पद्यमाने विसृष्टिसुखे समानेऽप्यादिमध्यावसानेषु प्रारम्भकाले मन्द- वेगता मृद्धी रतिः तत्र मध्यस्थचित्तता नातिसहिष्णुता च, ततः क्रमेण पूरणं वेगस्याधिक्यं रतेः, यत्राधिकचित्तवृत्त्या शरीरनिरपेक्ष- त्वमिति ॥ ३८ ॥
सातत्येन भावस्य प्रवृत्तत्वात्कथं विरामाभीप्सेत्याह—
धातुक्षयाच्च विरामाभीप्सेति ॥ ३९ ॥
धातुक्षयाच्चेति । समुत्पन्ने कामिताऽऽख्ये भावे यः शुक्रधातुः स्थानाच्च्युतः स्वनाडीं प्रतिपद्यते तस्यारम्भात्प्रभृति शनैः शनैः स्य- न्दनात्क्षये निवृत्तरागत्वाद्धिरामाभीप्सेति ॥ ३९ ॥
तस्मादनाक्षेप इति ॥ ४० ॥
तस्मादनाक्षेप इति । अत्रोद्यं विसृष्टिप्रभवस्य भावस्य संतानेन प्रवृ- त्तस्यावस्थाऽन्तरमनुपपन्नमिति ॥ ४० ॥
अमुमेवार्थं बाभ्रव्यगीतेन श्लोकेनाह—
सुरतान्ते सुखं पुंसां स्त्रीणां तु सततं सुखम् । धातुक्षयनिमित्ता च विरामेच्छोपजायते ॥ ४१ ॥
॥ ४१ ॥
एवं पक्षद्वयमुपन्यस्य सिद्धान्तमाह—
तस्मात्पुरुषवदेव योषितोऽपि रसव्यक्तिर्द्रष्टव्या ॥ ४२ ॥
यत एवं विवादस्तस्माद्रसव्यक्ती रत्युत्पत्तिर्यथा पुरुषस्य विसृ- ष्टिरन्ते च तद्वदेव योषितोऽपि द्रष्टव्या ॥ ४२ ॥
पुरुषसुखेन हि स्त्रीसुखस्य वैसादृश्यं स्वरूपतः कालतो वा स्यात्, तदुभयथाऽपि न युज्यत इति प्रतिपादयन्नाह—
कथं हि समानायामेवाकृतावेकार्थमभिपपन्नयोः कार्यवै- लक्षण्यम् ॥ ४३ ॥
तत्र विजातीययोः पुरुषवडवयोः सम्प्रयुक्तयोर्भवेत्सुखवैसादृश्य- मित्याह— समानायामेवाकृताविति। तुल्यायां मनुष्यजातौ तुल्यजा- तीययोरपि स्नानभोजनादौ भिन्नेऽर्थे प्रवर्तमानयोः स्यादित्याह— एकमिति। एकं रताख्यमर्थमाभिमुख्येन प्रवृत्तयोः कथं कार्यवैलक्षण्यं स्यात्, तत्र विजातीययोः पुरुषवडवयोर्भावसुखस्य कार्यस्य स्वरूपतः कालतश्च भेदादित्यर्थः, ये च समानाकृतयः सन्त एककार्यमभिप्रप-
१ अध्याये ] प्रमाणकालभाववृत्तावस्थापनप्रकरणम् । ७३
१ अध्याये ] प्रमाणकालभाववृत्तावस्थापनप्रकरणम् । ७३
ज्ञास्तेषां सदृशं कार्यम्, न हि मेषयोः समानाकृत्योरेकस्मिन्युद्धलक्ष- णार्थे प्रवृत्तयोरभिघातः कार्यं कालस्वरूपाभ्यां भिद्यते ॥ ४३ ॥
पुनः पुनः शास्त्रकार एव परपक्षमुपोद्वलयन्नाह—
स्यादुपायवैलक्षण्यादभिमानवैलक्षण्याच्च ॥ ४४ ॥
स्यादुपायवैलक्षण्यादिति । भवेत्तत्र कार्यभेद उपायभेदादभिमान- भेदाच्चेत्यर्थः ॥ ४४ ॥
कथम् ? ॥ ४५ ॥
कथमिति ॥ ४५ ॥
स चोपायभेदो निरूप्यमाणः स्त्रीपुंसव्यापारव्यतिरेकेण नास्तीत्याह—
उपायवैलक्षण्यं तु सर्गात् कर्ता हि पुरुषोऽधिकरणं युवतिः ॥ ४६ ॥
उपायवैलक्षण्यं तु सर्गादिति । उपायभेदः, सृष्टेरित्यर्थः, एषैव हि सृष्टिः स्त्रीपुंसयोर्यदेकः कर्ताऽन्यश्चाधार इति ॥ ४६ ॥
तदेव योजयन्नाह—
अन्यथा हि कर्ता क्रियां प्रतिपद्यतेऽन्यथा चाधारः ॥ ४७ ॥
अन्यथेति । एकस्य निम्नं मेहनमपरस्योन्नतम्, ग्रास्यग्रासकभा- वान्मेहनयोः क्रियाभेदः ॥ ४७ ॥
तस्माच्चोपायवैलक्षण्यात्, सर्गादभिमानवैलक्षण्यमपि भवति ॥ ४८ ॥
तस्माच्चैवंभूतव्यापारात्मकत्वादुपायवैलक्षण्यान्न केवलं भवत्प- रिकल्पितः कार्यभेदोऽभिमानभेदोऽपि भवति ॥ ४८ ॥
तदेव दर्शयन्नाह—
अभियोक्ताऽहमिति पुरुषोऽनुरज्यते, अभियुक्ताऽहमनेनेति युवतिरिति वात्स्यायनः ॥ ४९ ॥
अभियोक्तेत्यादि । अहमेनां रन्तुमनुयुञ्ज इति कर्तृव्यापारापेक्षया पुरुषोऽभिमन्यमानोऽनुरज्यते, अहमनेनाभियुक्ता रन्तुमिति चाधार- व्यापारापेक्षया युवतिरभिमन्यमाना ऽनुरज्यते, ततश्च तावुत्पन्नाभिमा- नानुरागौ संप्रयोगे व्याप्रियमाणावपि कालस्वरूपाभ्यां सदृशं भावमभि- गच्छतो न तु क्रियाभेदमात्राद्विसदृशम्, ततो ह्यभिमानमात्रं भिद्यते न कार्यमित्येतत्तच्चेतसि कृत्वा शास्त्रकारो व्यक्ताभिप्रायं स्वपक्षं दर्श- यति स्वनाम्ना ॥ ४९ ॥
परस्यापि शास्त्रकारेणाभिमानवैलक्षण्यमभ्युपगच्छतोपायवैलक्ष- ण्यमभ्युपगत स्तस्मात्स्वयं कथं कार्यभेदः, परं नाभ्युपगच्छेदित्यभिप्रा- यो वर्तते तन्निराकर्तुं शास्त्रकारः प्रकटयति—
१० का० सू०
७४ | सटीके कामसूत्रे | [ २ अधिकरणे,
तत्रैतत्स्यादुपायवैलक्षण्यदेव हि कार्यवैलक्षण्यमपि कस्मान्न स्यादिति ॥ ५० ॥
उपायवैलक्षण्यवदिति । यथाऽनयोर्व्यापारो भिन्नोऽभ्युपगतस्तद्वदेव सुखाख्यमपि कार्यं भिन्नं कस्मान्नाभ्युपगम्यते तज्जन्यत्वादिति ५०॥
तच्च न ॥ ५१ ॥
तच्च नेति । तज्जन्यत्वे कार्यस्य न वैलक्षण्यमपि तूपायवैलक्षण्यमेव युक्तम् ॥५१॥
हेतुमदुपायवैलक्षण्यम् ॥ ५२ ॥
तस्माद्धेतुमदुपायवैलक्षण्यम् ॥ ५२ ॥ कुत इत्याह—
तत्र कर्त्राधारयोर्भिन्नलक्षणत्वाद् ॥ ५३ ॥
कर्त्राधारयोर्भिन्नलक्षणत्वादिति । स्वतन्त्रः कर्ता, अधिकरणमाधारः, तयोर्हेत्वोर्भिन्नस्वभावत्वात्तद्व्यापारावपि तज्जन्यत्वान्द्भिन्नावित्यर्थः ॥५३॥
यत्तु कार्यस्य तज्जन्यत्वेऽपि वैलक्षण्यमुक्तं तस्य निरूप्यमाणोऽन्योहेतुर्नास्तीत्याह—
अहेतुमत्कार्यवैलक्षण्यमन्याय्यं स्यात् ॥ ५४ ॥
अहेतुमदिति । अहेतुत्वाच्च कार्यवैलक्षण्यमित्यन्याय्यं युक्तिशून्यमभ्युपगतं स्यात् ॥ ५४ ॥
तामेव युक्तिं स्मारयन्नाह—
आकृतेरभेदादिति ॥ ५५ ॥
आकृतेरभेदादिति । समानामेव मनुष्यजातावेकाभिसन्धानयोः स्त्रीपुरुषयोर्व्यापारौ परस्परापेक्षौ कालस्वरूपाभ्यां सदृशं सुखं जनयतः॥५५॥
तत्रैतत्स्यात्, संहत्य कारकैरेकोऽर्थोऽभिनिर्वर्त्यते, पृथक्पृथक्स्वार्थसाधकौ पुनरिमौ तदयुक्तमिति ॥ ५६ ॥
देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्यादौ देवदत्तादिभिः कर्तृकरणाधारैः कारकैः संभूयौदनो दृश्यते, स्वकार्यसाधकौ पुनरिमौ स्त्रीपुंसौ, यतो युवतिराधारः पुरुषव्यापारापेक्षः स्वसन्तानेषु सुखाख्यं स्वार्थं साधयति, पुरुषश्च कर्ता स्त्रीव्यापारापेक्ष इति, एतच्च भिन्नार्थसाधकत्वं कारकाणामयुक्तम्, ओदनादावदृष्टत्वाद्, दृश्यते च स्त्रीपुंसयोः, तत्र भिन्नार्थसाधकत्वेऽपि कारकाणां यथा स्त्रीपुंसयोः सुखरूपं पृथक्कार्यं, तथा समानाकृतित्वेऽपि तदेव कार्यं कालस्वरूपाभ्यां विसदृशं स्यादित्यभिप्रायः ॥ ५६ ॥
१ अध्याय ] प्रमाणकालभावरतावस्थापनप्रकरणम् । ७५
तच्च न ॥ ५७ ॥
तच्च नेति । नैतद्युक्तं किं तु युक्तमेव ॥ ५७ ॥
युगपदनेकार्थसिद्धिरपि दृश्यते, यथा मेषयोरभिघाते कपित्थयोर्भेदे मल्ल्योर्युद्ध इति ॥ ५८ ॥
युगपदनेकार्थसिद्धिदर्शनाद्, यथा मेषयोरभिघात इति । अभिघातविषये युगपदनेकार्थसिद्धिर्दृश्यते, युगपद् द्विधा चाभिघातो भवतीत्यर्थः, एवं कपित्थयोर्भेदे मल्ल्योर्युद्ध इति, तथा स्त्रीपुंसयोः कारकयोः पृथक्कार्यं सदृशं च स्यादिति, मेषकपित्थमल्लग्रहणं तिर्यगचेतनमनुष्येष्वप्यस्य न्यायस्य प्रातिख्यापनार्थम् ॥ ५८ ॥
तत्र को भेद इति चेत्, तत्रैतत्स्यात्—
न तत्र कारकभेद इति चेद् ? ॥ ५९ ॥
मेषादियुद्धादावपि द्वावपि प्रतियोगिनौ कर्तारौ न तत्र कारकान्तरमिति ॥ ५९ ॥
इह तु कर्त्राधाराविति कथं न विसदृशं कार्यमित्याशङ्कयाह—
इहापि न वस्तुभेद इति ॥ ६० ॥
इहापीति । स्त्रीपुंसयोरपि न कश्चित्परमार्थतः कारकयोर्भेदः, अपि तु द्वावप्येतौ कर्तारौ क्रियां निर्वर्तयतः, केवलं करणाधिकरणादयो भेदा बुद्धिकल्पिता व्यवहारार्थं व्यवस्थाप्यन्ते ॥ ६० ॥
उपायवैलक्षण्यं तु सर्गादिति तदभिहितं पुरस्तात् ॥ ६१ ॥
एवं च सति 'उपायवैलक्षण्यं तु सर्गात्' । २ । १ । १ । ४६ । इति यदुक्तं तदभिहितं प्रतिविहितं पुरस्ताद् द्रष्टव्यम्, कर्त्राधारलक्षणस्यैव वास्तवत्वात् ॥ ६१ ॥
तेनोभयोरपि सदृशी सुखप्रतिपत्तिरिति ॥ ६२ ॥
तेन प्रतिविहितेनोभयोरपि स्त्रीपुंसयोः सदृशी सुखप्रसिद्धिः, कालस्वरूपाभ्यां सदृशं सुखमुत्पद्यत इत्यर्थः, अन्यथा कथं तयोरागज्वरोपशमः, तामेवात्यानन्दावस्थामधिकृत्योपस्थेन्द्रियमानन्देन्द्रियमिति गीयते ॥ ६२॥
अमुमेवार्थं शास्त्रकारः संग्रहश्लोकेनाह—
जातेरभेदाद्दम्पत्योः सदृशं सुखमिष्यते ।
तस्मात्तथोपचर्या स्त्री यथाऽग्रे प्राप्नुयाद्रतिम् ॥ ६३ ॥
दम्पत्योः स्त्रीपुंसयोः, एकार्थमभिप्रपन्नयोरित्यर्थः, एतावत्तु स्यात्, अवान्तरस्त्रीजातिभेदाद्यदपरमस्याः, कण्डूत्यपनोदसुखं यच्चोपमृद्यमाने
| ७४ | ७६ | सटीके कामसूत्रे | [ २ अधिकरणे, |
|---|
(वाम पृष्ठस्य अवशिष्टभागः)
तन्नैतत्स्या
स्यादिति ॥ ५
उपायवैलक्ष्
देव सुखाख्यम
तच्च नेति ।
तज्जन्यत्वे
तस्मा
कुत
तत्र
कर्त्राधारयो
तयोर्हेत्वोर्भिन्नरू
यत्तु कार्यरू
हेतुर्नास्तीत्याह-
अहे
अहेतुमदिति
भ्युपगतं स्यात्
तामेव युक्तिं स्
आकृतेरभेव
पुरुषयोर्व्यापारौ
तन्नैतत्स्य्
कस्वार्थसाधकं
देवदत्तः व
णधारैः कारवै
यतो युवां
चयति,
कारक
भिन्न
(मुख्य पृष्ठम्)
संबाधे स्यन्दनं शुक्रस्य, विसृष्टिसुखं तु पुरुषवदन्त एवेति यथोक्तम्—
'कण्डूत्यपगमात्स्त्रीणां क्षरणाच्च सुखं द्विधा ।
स्यन्दनं च विसृष्टिश्च शुक्रस्य क्षरणं द्विधा ॥
क्लिन्नता केवलस्यन्दाद्विसृष्टेर्मथनात्सुखम् ।
अन्ते त्वाश्चितवेगाया विसृष्टिर्नरवत्स्मृता' ॥
तत्रावसाने दंपत्योः समकाला चेद्रतिरुत्तमः पक्षः, समरतत्वात्, भिन्नकाला चेत्, पुरुषस्य प्रागधिगतभावत्वान् ध्वजभङ्गे न स्त्रीभावमधिरुच्छेत् तस्मात्समरताद्विषमरते तथा स्त्री चुम्बनालिङ्गनादिभिरुपचरणीया यथाऽग्रे प्राप्नुयाद्रतिम् , स्त्रिया प्रागधिगते भावे पुरुषो युक्तयन्त्रो वेगं कुर्यादात्मनो भावं निर्वर्तयितुमिति ॥ ६३ ॥
सदृशत्वस्य सिद्धत्वात्, कालयोगीन्यपि भावतोऽपि कालतः प्रमाणवदेव नव रतानि ॥ ६४ ॥
कालयोगीन्यपीति । अपिशब्दाद्भावयोगीन्यपि; अन्यथा कण्डूत्यपनोदसुखस्य विसृष्टिसुखस्य वा वैसादृश्यात्कथं भावतो नव रतानि ६४॥
रतिरतयोर्व्यवहारार्थं पर्यायानाह—
रसो रतिः प्रीतिर्भावो रागो वेगः समाप्तिरिति रतिपर्यायाः, संप्रयोगो रतं रहः शयनं मोहनं सुरतपर्यायाः ॥ ६५ ॥
फलावस्था रतिः, हेत्ववस्था च रतम्, तयोः पर्यायशब्दानामेकार्थविषयत्वेऽपि निमित्तं भिद्यते, यथा—ऐश्वर्ययोगादिन्द्रः, शक्तियोगाच्छक्रः, तत उपस्थेन्द्रियेण रसनादनुभवाद्रासः, फलावस्थायां सुखत्वेन चित्तपरिस्पन्देन रमणाद्रतिः, चित्तप्रणयनात्प्रीतिः, कामिताऽऽख्येन भावेन भाव्यमानत्वाद्भावः, कामिताऽऽख्योऽपि भाव्यते फलरूपोऽनेनेति भावः, चित्तरञ्जनाद्रागः, शुक्रधातोः सुखानुविद्धस्य नाडीसुखात्पृथग्भवनाद्वेगः, रतस्य समापनात्समाप्तिरिति, सङ्गतयोः स्त्रीपुंसयोः सम्यक्प्रकृष्टो योगः संप्रयोगः, हेत्ववस्थायां वाक्कायचित्तपरिस्पन्देन रमणाद्रतम्, दम्पतिव्यतिरिक्तमन्यं रहयतीति रहः, शयनीयप्रतिशब्द्यिकयोः शयनाच्छयनम्, अन्यथ्यागारेषु मोहनाद्वावश्यकत्वान्मोहनमिति ॥ ६५ ॥
प्रमाणकालभावजानां संप्रयोगाणामेकैकस्य नवविधत्वात्तेषां व्यतिकरे सुरतसंख्या न शक्यते कर्तुमतिबहुत्वात् ॥ ६६ ॥
प्रमाणकालभावजानां त्रयाणां रतानामेककस्य नवविधत्वात्समुदायेन
१ अध्याये ] प्रमाणकालभावतावस्थानप्रकरणम् । ७७
सप्तविंशतिः, द्विविधं रतम्—शुद्धं संकीर्णं च, तत्र शुद्धस्यासम्भवात्सं- कीर्णमेव युक्तमभिधातुमिति मन्यमानः शास्त्रकार आह—तेषामिति । सप्तविंशतिसंख्यानां व्यतिकरे संयोगे, तत्रापि न द्वाभ्याम्, असंभवात्, त्रिभिरेव व्यतिकरः, सुरतसंख्या न शक्यते वक्तुम्, प्रत्येकनिर्देशेनाति- बहुत्वात्, तेषु हि प्रत्येकं निर्दिश्यमानेषु ग्रन्थगौरवं स्यात्, संक्षेपेण च संख्यानस्य प्रयोजनं नास्ति, तस्मात्पूर्वसंख्ययैव योजनीयमित्यभिप्रायः, तत्र समं विषमं च संकीर्णकम्, तद्यथा—शशस्य मन्दशीघ्रवेगस्य मृग्या तथाविधया, शशस्य मध्यमध्यवेगस्य मृग्या तथाविधया, शशस्य शी- घ्रचिरवेगस्य मृग्या तथाविधया, शशस्य मन्दमध्यवेगस्य मृग्या तथा- विधया, शशस्य मन्दचिरवेगस्य मृग्या तथाविधया, शशस्य मध्यशी- घ्रवेगस्य मृग्या तथाविधया, शशस्य मध्यचिरवेगस्य मृग्या तथावि- धया; शशस्य चण्डशीघ्रवेगस्य मृग्या तथाविधया, शशस्य चण्ड- चिरवेगस्य मृग्या तथाविधया, इति सदृशसंप्रयोगे समानि नव सं- कीर्णरतानि ।
एषामेव नवानां शशानामेकैकस्य सदृशीं मृगीमेकां त्यक्त्वा शेषाभिरतथाविधाभिरष्टाभिर्योगे द्वासप्ततिरिति विषमाणि संकीर्णर- तानि, यथा शशस्य नवप्रकारस्य नवप्रकारया तथाविधया बडवया विषमाणि नव संकीर्णरतानि, अतथाविधाभिरष्टाभिर्योगे द्वासप्तति- रिति विषमाण्येव
एवं हस्तिन्या तावन्त्येव विषमाण्यतिविषमाणि चेति संक्षेपेण शश- स्य त्रिचत्वारिंशच्छतद्वयम्(२४३), तावदेव वृषस्याश्वस्य च, समुदा, येन चैकोनत्रिंशत्सप्तशतानि (७२९) ॥ ६६ ॥
तेषु तर्कादुपचारान्प्रयोजयेदिति वात्स्यायनः ॥ ६७ ॥
संकीर्ंणरतेषु बुद्ध्या परिच्छिन्नेषु तर्कादुपचारान्प्रयोजयेत्, प्रमा- णकालभावजेषु ये यथायथमालिङ्गनादय उपचारास्तान्तरहयित्वा संकी, र्णानिव योजयेत्, तथा तत्समरतमेव प्रायत्निकं स्यादित्यर्थः, अत्र बा- भ्रवीयाः श्लोकाः—
‘पौरुषं मेहनं यत्र मेहने परिघृष्यते । भावकालौ समानौ च तद्रतं श्रेष्ठमुच्यते ॥ भिद्यते मेहनं यत्र घृष्यते च न सर्वशः । विषमौ कालभावौ च कनिष्ठं तदुदाहृतम् ॥ सुरतं सर्वसाम्ये स्याद्वैषम्ये दुरतं स्मृतम् । मध्यमानि तु सर्वाणि तेषु चाहुर्बलाबलम् ॥
| ७८ | सटीके कामसूत्रे | [ २ अधिकरणे, |
|---|
बलीयान्सर्वतः कालः कालेऽपि हि शशोऽपि सन् ।
संस्पृशत्येव सर्वत्र हस्तिनीमेहनोदरम् ॥
एवं वाजी विरुध्येत मृगीकालप्रकर्षतः ।
तस्मात्प्रमाणमेवाहुर्बलीयः सर्वतः परे ॥
बलीयान्वेग इत्यन्ये यस्मादश्वोऽप्यवेगवान् ।
नैव साधयितुं शक्तो वेगः कालप्रकर्षणः ॥
एवं तु नैव खिद्येत मन्दवेगाऽपि नायिका ।
यथाविषयमेतासां तस्माज्ज्ञेयं बलाबलम् ॥
हीनो भावप्रमाणाभ्यां वेगवान्कालवर्जितः ।
कालप्रमाणहीनश्च तत्र शेषेण साधयेद्' इति ॥ ६७ ॥
तत्र स्वभावतो यो यस्य भावः कालश्च स भावान्तरं कालान्तरं च यदा प्रतिपद्यते तदा भावकालान्तरसंक्रान्तिः, तां दर्शयितुमाह—
प्रथमरते चण्डवेगता शीघ्रकालता च पुरुषस्य तद्विपरीतमुत्तरेषु, योषितः पुनरेतदेव विपरीतमधातुक्षयात् ॥ ६८ ॥
शीघ्रमध्यचिरवेगा(१)णां मन्दमध्यचण्डवेगानामन्यतमस्य प्रकृतिस्थस्य प्रथमरते स्वभेदापेक्षया शीघ्रवेगता चण्डवेगता च द्रष्टव्या, तदानीं प्रवृद्धत्वाद्रागश्चण्डायमानो द्रुतं प्रशाम्यति, तद्यथा—चिरचण्डवेगस्य प्रथमरते मध्यवेगता चण्डतरवेगता च कालभावाभ्याम्, मध्यमध्यवेगस्य शीघ्रवेगता चण्डवेगता च, शीघ्रमन्दवेगस्य शीघ्रतरवेगता मध्यवेगता च, शीघ्रमध्यवेगस्य शीघ्रतरवेगता चण्डवेगता च, शीघ्रचण्डवेगस्य शीघ्रतरवेगता चण्डतरवेगता च, मध्यमन्दवेगस्य शीघ्रवेगता मध्यवेगता च, मध्यचण्डवेगस्य शीघ्रवेगता चण्डतरवेगता च, चिरमन्दवेगस्य मध्यवेगता, चिरमध्यवेगस्य मध्यवेगता चण्डवेगता, चेति(२) नव प्रथमरते संक्रान्तिरुतानि, तद्विपरीतमुत्तरेष्विति, प्रथमरते यदुक्तं तस्य विपरीतं द्वितीयादिषु रतेष्वित्यर्थः, तत्र कामस्यैकगुणत्वात्पुरुषस्य प्रशान्तरागत्वाद् द्वितीये रते प्रकृतिस्थैव भावकालान्तरसंक्रान्तिः,
योषितः पुनरेतदेव विपरीतमिति । अत्रापि प्रकृतिस्थायाः प्रथमरते स्वभेदापेक्षया चिरवेगता मन्दवेगता च द्रष्टव्या, तस्या अष्टगुणोऽपि रागो निसर्गादेव प्रथमरतेन संधुक्ष्यते, ततश्च तदानीं मन्दायमानश्चिरेण-
( १ ) वैयधिकरण्ये षष्ठी ।
( २ ) कालभावाभ्यामिति क्रमेण सर्वत्रान्वितम् ।
१ अध्याये ] प्रमाणकालभावरतावस्थापनप्रकरणम् । ७९
१ अध्याये ] प्रमाणकालभावरतावस्थापनप्रकरणम् । ७९
प्रशाम्यति, तद्यथा—चिरचण्डवेगायाः प्रकृतिस्थायाश्चिरतरवेगता मध्यवेगता च कालभावाभ्याम्, मध्यमध्यवेगायाश्चिरवेगता मन्दवेगता च, शीघ्रमन्दवेगाया मध्यवेगता मन्दतरवेगता च, इत्येवं शेषास्वपि षट्(१)सु योज्यम्, तद्विपरीतमुरारेषु द्वितीये रते प्रकृतिस्थैवं संक्रान्तिः, ततः शनैः शनैः संधुक्षणात्प्रवर्धमानरागवेगयोः स्वभेदापेक्षया तृतीयादिरतेषु शीघ्रतरतमवेगताऽऽदयश्चण्डतरतमवेगताऽऽदयश्च धर्माः यावच्छुक्रधातुक्षय इति स्त्रीपुंसयोस्तुल्ये धातुक्षये विशेषः ॥ ६८ ॥
यत्पुरुषस्यादौ धातोरेकगुणत्वाद्योषितश्च पश्चादष्टगुणत्वात्तदाह—
प्राक् च स्त्रीधातुक्षयात्पुरुषधातुक्षय इति प्रायोवादः ॥६९॥
प्राक्चेति । प्रायोवाद इति । न पुम्भिर्वामलोचना तृप्यतीति, प्रमाणान्तरसंक्रान्ति च योषितो जघनप्रसारणावहासाभ्यां पुरुषस्य च वृद्धिविधिना वक्ष्यति ॥ ६९ ॥
शीघ्रमध्यचिरवेगा नायिका इत्युक्तम् , काः पुनस्ता इत्याह—
मृदुत्वादपमृदुत्वान्निसर्गाच्चैव योषितः । प्राप्नुवन्त्याशु ताः प्रीतिमित्याचार्या व्यवस्थिताः ॥७०॥
निसर्गात्स्वभावतो या स्त्रियो मृद्वङ्गयः, अमृद्वङ्गयोऽपि याश्चुम्बनादिभिर्बाह्यैरान्तरैश्चाङ्गुलिकर्मादिभिरुपमृद्यन्ते ताः शीघ्रतरं प्रीतिं प्राप्नुवन्ति ताः शीघ्रवेगा इत्यर्थः, तद्विपर्ययेण मध्यचिरवेगा इत्यर्थ इत्युक्तं, तथा पुरुषोऽपीति, तत्र मृदुत्वं स्वाभाविकं लक्षणम्, शेषं कृत्रिमम्, इत्याचार्या व्यवस्थिता इति । सर्वेषामेतदेव मतमव्यभिचारित्वात् ॥ ७० ॥
एतावदेव युक्तानां व्याख्यातं सांप्रयोगिकम् । मन्दानामवबोधार्थं विस्तरोऽतः प्रवक्ष्यते ॥ ७१ ॥
रतावस्थापनमात्रेण सांप्रयोगिकं संक्षेपेण व्याख्यातम्, युक्ता हि प्राज्ञाः शास्त्रेण विदित्वाऽऽलिङ्गनादीनुपचारांनुत्प्रेक्ष्य योजयन्ति न मन्दबुद्धय इति तदवबोधनार्थं विस्तराभिधानम् ॥ ७१ ॥
(१) शीघ्रमध्यवेगाया, मध्यवेगता मन्दवेगता च । शीघ्रचण्डवेगाया, मध्यवेगते । मध्यमन्दवेगायाः, चिरवेगता मन्दतरवेगता च । मध्यचण्डवेगाया, चिरवेगता मध्यवेगता च । चिरमध्यवेगायाः, चिरतरवेगता मन्दवेगता च । चिरमन्दवेगायाः, चिरतरवेगता मन्दतरवेगता च । एतच्च स्वभावस्थाया योषितः प्रथमरते कालभावाभ्यां क्रमेण ज्ञेयम् ।
प्रमाणकालभावेभ्यो रतावस्थापनं नाम षष्ठं प्रकरणम् ।
८० सटीक कामसूत्रे [ २ अधिकरणे,
प्रमाणकालभावेभ्यो रतावस्थापनं नाम षष्ठं प्रकरणम् ।
यथा त्रिधा रतमवस्थापितं तथा स्थूलसूक्ष्मरूपाभ्यां प्रीतिरपि व्यवस्थापिता, किं तु तद्व्यतिरेकेणान्या अपि प्रीतयोऽस्मिञ्छास्त्रे संभवन्तीति दर्शनार्थं प्रीतिविशेषा उच्यन्ते—‘अभ्यासाद्’ इत्यादिना ।
अभ्यासादभिमानाच्च तथा संप्रत्ययादपि । विषयेभ्यश्च तन्त्रज्ञाः प्रीतिमाहुश्चतुर्विधाम् ॥ १ ॥
तन्त्रज्ञाः=कामसूत्रज्ञाः ॥ १ ॥
आसां लक्षणमाह—‘शब्दादिभ्य’ इत्यादिना
शब्दादिभ्यो बहिर्भूता या कर्माभ्यास लक्षणा । प्रीतिः साऽऽभ्यासिकी ज्ञेया मृगयाऽऽदिषु कर्मसु ॥ २ ॥
कर्मसु क्रियमाणेषु तत्रत्याञ्शब्दादिविषयानाश्रित्य या स्यात्सा विषयप्रीतिरेव कर्माभ्यासलक्षणा कर्मणां पुनः पुनरनुष्ठानमभ्यासः तेन लक्ष्यमाणत्वात्तल्लक्षणा प्रीतिः सक्तिः साऽभ्यासेन निर्वृत्ताऽऽभ्यासिकी कर्माश्रयकलाभ्यासक्तानां भवति, यदाह—मृगयाऽऽदिष्विति । आखेटकं मृगया, व्यायामकी विद्या; आदिशब्दान्नृत्यगीतवाद्यचित्रपत्रच्छेद्याद्युपसंग्रहः ॥ २ ॥
अनभ्यस्तेष्वपि पुरा कर्मस्वविषयात्मिका । संकल्पाज्जायते प्रीतिर्या सा स्यादाभिमानिकी ॥ ३ ॥
पुरा पूर्वं कर्मस्वनभ्यस्तेष्वपीत्यपिशब्दादभ्यस्तेष्वपीति, येनापि मृगयाकर्म नाभ्यस्तमभ्यस्तं वा सोऽपि तत्कर्म कृत्वा मनसा सुखायते, आभ्यासिकी तु कर्माभ्यासादेवेति विशेषः, अविषयात्मिकेति, नापि विषयेभ्यः शब्दादिभ्य आत्मलाभः स्यादित्यर्थः, कुत स्तर्हीत्याह—सङ्कल्पाज्जायत इति, मनसः संकल्पात्मकत्वान्मानसीत्यर्थः, सा सा चैवंविधाऽऽभिमानिकीत्युच्यते, अभिमानोऽहंकारः स प्रयोजनमस्या इति ॥ ३ ॥
सा कथमस्मिञ्शास्त्रे सम्भवतांत्याह—
प्रकृतेर्या तृतीयस्याः स्त्रियाश्चैवोपरिष्टके । तेषु तेषु च विज्ञेया चुम्बनादिषु कर्मसु ॥ ४ ॥
तृतीया प्रकृतिर्नपुंसकं तस्याः, स्त्रियाश्च मुखचपलायाः प्रयुक्त्याऽौपरिष्टिके मुखे जघनकर्मण्यभ्यस्तेऽपि विज्ञेया, प्रयोजयितुः पुनः कायिकी विषयप्रीतः, तेषु तेषु चेति । स्वभेदभिन्नेषु चुम्बनादिषु,
१ अध्याये ] प्रीतिविशेषप्रकरणम् । ८१
आदिशब्दादालिङ्गननखदशनच्छेदग्रहणेष्वभ्यस्तेष्वनभ्यस्तेष्वपि रतिकाल प्रयोक्तुर्मानसी प्रीतिः, यस्या अपि प्रयुज्यन्ते तस्या अपि तत्र तत्र स्थाने प्रयुज्यमानेषु रागसंकल्पवशान्मानसी प्रीतिर्न कायिकी स्पर्शमात्रसंवेदनात्, दुःखाभिभूते तु काये तत्प्रीतिकारणाभावात् सा न कायिकी ॥ ४ ॥
नान्योऽयमिति यत्र स्यादन्यस्मिन्प्रीतिकारणे ।
तन्त्रज्ञैः कथ्यते साऽपि प्रीतिः संप्रत्ययात्मिका ॥ ५ ॥
स एवायमित्यर्थः, यत्र=क्व चन, अन्यस्मिन्निति । अपूर्वस्मिन्विषये पुंसि स्त्रियां वा, स एवायमिति पूर्वप्रीत्यध्यारोपणाय स्त्रियाः पुंसो वा चित्तवृत्तिः, प्रीतिकारण इति। प्रीतिहेतावध्यारोपननिबन्धनमेतत्, पूर्वप्रीतस्य ये गुणाः प्रीतिहेतवस्तेऽत्रापि सन्तीति दर्शयति, एवं च सा पूर्वप्रीतिः संप्रत्ययादुत्पन्नस्वभावत्वात्संप्रत्ययात्मिका, तन्त्रज्ञैः=कामसूत्रविद्भिः, कथ्यते, तथा च 'प्रियासादृश्यं गमनकारणम्, इति वक्ष्यति॥५॥
प्रत्यक्षा लोकतः सिद्धा या प्रीतिर्विषयात्मिका ।
प्रधानफलवत्त्वात्सा तदर्थाश्चेतरा अपि ॥ ६ ॥
शब्दादिविषयाननुकूलानलम्ब्य श्रोत्रादिद्वारेण या प्रीतिरुत्पद्यते सा विषयव्यवसायानुगतत्वात्प्रत्यक्षा सती लोकत एव सिद्धत्वान्नात्र लक्षणाभिनिवेशः, सा चैवंविधा नित्यनैमित्तिकनागरकवृत्ते द्रष्टव्या, प्रधानफलवत्त्वात्सेति । साक्षाद्विषयोपभोगफलेन युक्तत्वादित्यर्थः, इतरा अपि तिस्रस्तदर्थाश्चेति, विषयप्रीत्यर्था एव तदङ्गत्वात्, चशब्द-एवकारार्थः ॥ ६ ॥
प्रीतीरेताः परामृश्य शास्त्रतः शास्त्रलक्षणाः ।
यो यथा वर्तते भावस्तं तथैव प्रयोजयेत् ॥ ७ ॥
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रमाणकालभावेभ्यो रतावस्थापनं, प्रीतिविशेषा इति प्रथमोऽध्यायः ।
आदितः षष्ठः ।
चतस्रः शास्त्रतः परामृश्य निरूप्य, शास्त्रलक्षणा इति । तेषु तेषु स्थानेषु शास्त्रेणानेन लक्ष्यमाणत्वात्, यो यथा वर्तते भाव इति । कर्माभ्यासादीनां चतुर्णां प्रकाराणां येन प्रकारेण योऽभिप्रायो वर्तते स तेनैव
११ का० सू०