सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

Here is the line-by-line transcription of the Sanskrit text from the image into Devanagari script:

१५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० ४ सू० १०
भाष्यप्रकाशः।
'एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे' ॥ इति ।
अत्र कृष्णो विष्णुः स्वयं परमेश्वरः, तस्य पुत्रवत् साक्षादंश इत्यर्थः । ऋष्यादीनामंशांशि-
वचनादिति । न चैवं सति, 'मत्तः परतरं नान्यत् किंचिदस्ति धनञ्जय' इति गीतावाक्यविरोध इति
वाच्यम् । तथाविधवाक्यानां व्यक्तरूपरत्वात् । ईश्वरस्य चाव्यक्ततया व्यवहार्यत्वाभावात् । एतेनापि
विष्ण्वादीनां परमेश्वरत्वादिकं व्यक्तापेक्षया बोध्यम् । नित्यत्वं च 'आभूतसंप्लवं स्थानममृतत्वं हि
भाष्यते' इति स्मृतेर्बोध्यम् । अथवा, 'यो यो देवानां प्रत्यबुध्यत स एव तदभवत्' इतिश्रुतेर्विष्णु-
देवताया औत्पत्तिकब्रह्मात्मभावान्मत्तः परतरं नास्तीत्यादिवचनोपपत्तिः । वक्ष्यति चाऽऽचार्यः,
'शास्त्रदृष्ट्या तूपदेशो वामदेववत्' इति । अत एवानुगीतायां, 'परं हि ब्रह्म कथितं योगयुक्तेन
तन्मया' इति श्रीकृष्णवचनाद् भगवद्गीतायां परब्रह्मैव कार्यब्रह्मणा श्रीकृष्णेनाहमित्युपदिष्टमिति
निर्णीतम् । किंच । अन्येषामपि ज्ञानिनां ब्रह्मभावेऽपि विष्ण्वावेव मुख्यतो ब्रह्मभावान्मत्तः परतरं
नास्तीति वचनमुक्तं, नान्यस्य । तस्य सर्वज्ञानिमुख्यत्वमुक्तं मोक्षधर्मे,
'अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः ।
एकस्तद्वेद भगवान् धाता नारायणो विभुः ॥
नारायणादृषिगणः' इत्यादिना ।
तथा शिवस्यापि मत्तः परतरं नास्तीति वचनं बोद्धव्यम् । किंच । योगयुक्ता ये जीवाः पूर्व-
पूर्वेषु सर्गेषु करणवर्गेण सह च सायुज्यमुक्त्वा परमेश्वरतां गतास्ते वासुदेवव्यूहेऽन्तर्भवन्ति । तत्र
च व्यूह एक एव वासुदेवो नित्येश्वर इतरे तदंशा वासुदेवाः । तथा संकर्षणप्रद्युम्नोऽनिरुद्धाख्य-
व्यूहरूपिणो विभूतिगणाः पूर्वसिद्धाः । त एते यथायोग्यं महदादिविराडन्तरूपेण ब्रह्मविष्णु-
रुद्ररूपेण चांशावताराः परमेश्वरस्य भवन्ति । 'आगच्छन्ति यथाकालं गुरोः संदेशकारिणः' इति
मोक्षधर्मात् । तथाच ये हरिहरादयः परमेश्वरकोटयस्तेषां, मत्तः परतरं नास्तीति वचनमुपपद्यत
एव । यद्यपि तेषां जगद्व्यापारवर्जमैश्वर्यं तथापि परमेश्वरात्मकतया सर्वस्रष्टृत्वसर्वधारत्वा-
रश्मिः।
मृडयन्तीति सुखयन्तीत्यर्थः । अत्रार्थे प्रमाणमाहुः ऋष्यादीनामिति । वाक्यैशस कला इति
समास मलाहुः अंशांशीति । तथा चांशसापेक्षणात्कृष्णोंश इत्यर्थः साधुः । ऋष्यादीनामंशाः
पुत्रादयस्ते सन्त्येषां तैंश्चिन इत्यर्थः । व्यक्तरूपरत्वादिति तथा च व्यक्तं 'मत्तः परतरं नान्यत्'
इत्यर्थः । परमेश्वरत्वबोधकानां संगतिमाह एतेनेति । विष्ण्वादिनित्यत्वबोधकानां संगतिमाह
नित्यत्वं चेत्यादि । एकस्यांशांशिभावः उक्तः स. विरुद्ध इति पक्षान्तरमाहुः अथवेति ।
'प्रत्यबुध्यत' यथावदात्मानं प्रतिबोधितवान् । औत्पत्तिकेति नित्यब्रह्मात्मभावस्तत्कृतः स कृष्ण-
सादभिज्ञान्ततः इत्यर्थः । तर्ह्यन्येषामपि ब्रह्मभाव एतादृशः स्याद्ब्रह्मज्ञे आत्मनोप्यविभाग इति ।
ब्रह्मात्मभावादित्रासमसंन्दोऽधिक इत्यत आह किं चेत्यादि । ब्रह्मभावादिति कृष्णरूपात् ।
वचनमिति तस्य वचनमुक्तं नान्यस्येत्यर्थः । योगयुक्ता इति । स्मार्गेपि मानसीसेवायां
योगत्वेन व्याख्यानात् । अन्ये तु 'पतन्त्यधो नादृतयुष्मदङ्घ्रयः' इतिवाक्यविषयाः । करणेति
सूक्ष्मदेहेन । द्वितीयस्कन्धेति । इतर इति कृष्णाद्याः । परमेति परमेश्वर आत्मा येषां गणानां
252

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २५३

भाष्यप्रकाशः ।

ष्टुपदेशोऽपि तेषु युज्यत एव । ननु यद्येवं तदा गीतादिषु विष्ण्वादिदेवैश्वर्यमेव कुत उक्तं, न
परमेश्वरतदैश्वर्ये वेति चेन्न ।
'एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः' ॥
इति प्रश्नप्रतिवचनाभ्यां विष्णुदेवाद् भेदेन परमेश्वरकथनात् । 'अनादिमत् परं ब्रह्म न
सत्तन्नासदुच्यते' इत्यादिना च परमेश्वरसैश्वर्याधिक्यनादिति । ये त्वीश्वरस्यान्तर्याम्यतिरिक्तविष-
यापि योगिनामिव लीलाशरीरमिच्छन्ति, तेषां मते, 'न तस्य कार्यं करणं च विद्यते', 'अप्राणो
ह्यमनाः शुभ्रः', 'अक्षरात् परतः परः' इत्यादिश्रुतीनां, 'अरूपवदेव हि तत्प्रधानत्वात्' इत्यागामि-
सूत्रस्य च विरोधः । कार्यं शरीरम् । करणं बुद्ध्यादि । बुद्ध्यादिना हि शरीरं प्रेर्यत इति ।
'सर्वदेहविवर्जितः' 'अशरीरः शरीरेषु सर्वेषु निवसत्यसौ' इति, 'देहद्वयस्थितो नित्यः सर्व देहवि-
वर्जितः' । इति भारतादिष्वीश्वरस्य देहद्वयप्रतिषेधात् । अतो विष्ण्वादिदेवानामेव स्थित्यादिलक्षण-
स्वाधिकारपालनाय मत्स्यादयो लीलावताराः । ते च परब्रह्मणः प्रकृष्टशक्तितया आवेशावतारतया
वा परमेश्वरत्वेनोपास्या इति । तथाच श्रुतिः—
'यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' ॥
'यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम्' ॥
इति । नन्वेवं परब्रह्मणः सकाशाद् विष्ण्वादिदेवानां भिन्नत्वे विष्णुशिवप्रकरणस्थानि
सृष्ट्यादिवाक्यानि ब्रह्मनिरूपणे साध(क)नतया विचारकैः किमित्युपन्यस्यन्त इति चेत्तयोरीश्वर-
कोटितया परमेश्वरेण सह व्यवहारसाम्यादिति गृहाण । अत एव, 'त्रयाणामेकभावानां यो न
पश्यति वै भिदाम्' इत्यादिभिस्त्रयाणामेव देवानां स्वाभाविकब्रह्मात्मभावसाम्यात् सर्वोपनिषत्सु
त एवोपासनार्थं ब्रह्मतयोपदिश्यन्त इति । परब्रह्मणश्च स्वतः नामरूपाद्यभावः ।
'न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः ।
सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ॥
नामरूपे न यस्यैको योऽस्तित्वेनोपलभ्यते' ।
इत्यादिरूपविष्णुपुराणादिवाक्यात् । आत्मनः पर इति जीवादतिरिक्ते । अतः परब्रह्मणो
नामरूपाद्यभावान्मुख्यविकारयोर्हरिहरयोर्नामरूपाभ्यामेव शास्त्रेषु प्रायशो व्यपदेशः । अत एव
वैष्णवाः शैवाश्च विष्ण्वाद्यतिरिक्तं परमेश्वरमविद्वांसो ब्रह्ममीमांसाशास्त्रं विष्ण्वादिपरतया व्याच-
क्षाणा अविवेकिन एवेति मन्तव्यम् । एवं पञ्चसूच्यां संक्षेपतः प्रदर्शितः शास्त्रार्थ इतः परं
प्रपञ्च्यत इत्याह ।

रश्मिः ।

तत्फलं वा । अविभागाद्वैतादेवेति । ऐश्वर्यादिति अहं परं यस्येति बहुव्रीहिणेत्यर्थः । अन्तर्या-
मीति अन्तर्यामिब्राह्मणे स्फुटमिदम् । देहद्वयेति स्थूलसूक्ष्मदेहद्वय इत्यर्थः । व्यष्टिसमष्ट्यात्मकदेह-
द्वयेति वा । व्यवहारेति अविभागाद्वैतेन तथा । पञ्चसूच्यामिति एतत्सूत्रपर्यन्तायां जन्माद्यस्येति

253

२५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० १०
भाष्यप्रकाशः ।
तदप्यविचाररमणीयमेव । सदेव सोम्येदमग्र आसीदित्यनेन निरूपिताया आदिसृष्टेः
पूर्वं केवलं ब्रह्मैव, नान्यदित्यस्यार्थस्य साधने तदभिमताविभागलक्षणाद्वैतस्याऽवान्तरसृष्टिप्राक्काल-
विषयत्वव्युत्पादनेन तदानीं तदभिमतप्रकारेण प्रधानादिसमन्वयस्याशक्यवचनतया जीवा-
दृष्टसाप्याभावेन प्रथमव्याख्यानगतपूर्वपक्षस्यैवासंगतत्वेन तदपाकरणाय सूत्रप्रवृत्तेर्वक्तुमशक्य-
त्वात् । द्वितीयव्याख्यानं तु न दुष्टम् । सांख्ययोगयोः सर्वांशेन श्रुतिविरुद्धत्वोपपादनं
त्वसंगतमेव ।
'अक्षपादप्रणीते च काणादे सांख्ययोगयोः ।
त्याज्यः श्रुतिविरुद्धोंऽशः श्रुत्येकशरणैर्नृभिः ॥
जैमिनीये च वैयासे न विरोधोऽस्ति कश्चन' ।
इति पराशरोपपुराणीयवाक्यविरोधात् । नच योऽभ्युपगमवादत्वेनोक्तो नित्येश्वरदूषणादिः
स एव त्याज्योऽस्त्विति वाच्यम् । तदुक्तषडध्याय्यां तस्याभ्युपगमवादत्वगमकानुपलम्भात् ।
नित्यानित्यवस्तुविवेकव्यतिरिक्तांशान्तरेऽपि तथात्वात् । 'कालः स्वभावो नियतिर्यदृच्छा भूतानि
योनिः पुरुष इति चिन्त्यम्' इति श्रुत्या तथा निश्चयात् । एवं योगेऽपि द्रष्टव्यम् । जीवात्मज्ञान-
मात्रेण मोक्षाङ्गीकारस्यापि तथात्वात् ।
'येऽन्येऽरविन्दाक्ष ! विमुक्तमानिनस्त्वय्यस्तभावादविशुद्धबुद्धयः ।
आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः' ॥
इति श्रीभागवते विविक्तजीवात्मज्ञानाद्विमुक्तमानिनां पातकथनेन तथा निश्चयादिति ।
तथा परमेश्वरस्य ब्रह्मविष्णुमहेश्वरातिरिक्तस्य कारणसत्त्वोपाधिकत्वस्थापनमप्यसंगततमम् ।
शिवतत्त्वविवेकस्थापितस्योङ्कारवाच्यस्य गुणसाम्योपाधिकस्य सर्वेश्वरस्यैव कारणसत्त्वोपाधिकस्यापि
रश्मिः ।
सूत्रद्वयमिति । एतदपि विशिष्टाद्वैततुल्यमिति दूषयन्ति तदपीत्यादि । तदभिमतेत्यादि त्रिगुणा-
त्मकरज्जुवन्त्रिगुणात्मकमन्नविष्णुशिवात्मकमेकमेव नित्यज्ञानेच्छानन्दादिमत्सद्वैकरूपकारणसत्त्वोपाधिकं
ब्रह्मकार्यं तत्कारणं ब्रह्म इत्येवं तदभिमतेत्यादि । तदानीमिति प्रथमसृष्टिकाल इत्यर्थः । अती-
तार्थमात्रपरत्वकल्पनेपि साकारप्रतिपादकत्वेनादोषत्याहुः द्वितीयेति । अभ्युपगमवादत्वेनेति
आग्रहवादो युक्तिरहितोऽभ्युपगमवादः । ननु किं तेनेत्यत आहुः नित्यानित्येत्यादि । तथात्वा-
दिति श्रुतियुक्तिविरुद्धत्वेनाभ्युपगमवादत्वादित्यर्थः । तदर्थं श्रुतिविरोधमाहुः काल इत्यादि ।
अत्र योनिवादनिरोसात्प्रधानवादोप्यभ्युपगमवाद इति निश्चयादित्यर्थः । 'एतेन योगः प्रत्युक्तः'
इतिसूत्रादष्टाङ्गयोगे किंचिदाहुः एवं योग इति । षडङ्गयोगसौपनिषदत्वात् । शिवतत्त्वेत्यादि
'अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति नाभिर्हृदयं कण्ठं मूर्धा तत्र चतुष्पादं ब्रह्म विभाति
जागरिते ब्रह्मा सुप्ते विष्णुः सुषुप्तौ रुद्रस्तुरीयमक्षरं स आदित्यो विष्णुश्च' इति ब्रह्मादिभ्यः परमेश्वर-
शब्दं सर्वदेवतात्मकं तत्त्वान्तरं दर्शितम् । स एव 'न तत्र देवा ऋषयः पितर ईशते' इति श्रुत्यानन्ये-
श्वरः । 'एको देवः सर्वभूतेषु गूढः' इति श्रुत्यान्तर्यामी चेति ब्रह्मोपनिषदि । अपि च जगत्कारणं
ब्रह्म मायोपाधिकचैतन्यमित्यविवादं ब्रह्मविष्णुरुद्रास्तु तदीयगुणविशेषोपाधिचैतन्यरूपः 'सैषा चित्रा
शुद्धा षडङ्गरा सर्वं गुणमिच्छाज्ञेरेष्वपि गुणमिव्वा सर्वज्ञं ब्रह्मविष्णुशिश्वरूपिणी' इति श्रुतेः । ततश्चोपा-
254

निरुपाधिकपरमेश्वरप्रतिनिधित्वेनैव ब्रह्मोपनिषन्नृसिंहतापनीयमैत्रायणीयाथर्वशिखासु सिद्धत्वात् ।
इदं यथा तथा प्रहस्ताख्ये वादे निपुणतरमुपपादितमिति नेह प्रपञ्च्यते । नच निरुपाधिकस्य
निराकारत्वं शङ्क्यम् । 'आनन्दरूपममृतं यद्विभाति' इति मुण्डके, 'अकारं ब्रह्माणं नाभौ उकारं विष्णुं
हृदये मकारं रुद्रं भ्रूमध्ये ॐकारं सर्वेश्वरं द्वादशान्ते आनन्दामृतरूपं प्रणवं षोडशान्ते' इति
तापनीये, 'आनन्दमात्रकरपादमुखोदरादिः' इति पञ्चरात्रस्मृतौ, 'अथवा परमात्मानं परमानन्द-

रश्मिः ।
धिभेदे उपहितभेदसौहित्यात् , गुणमूर्तिम्यः परं मायोपाधिकं जगत्कारणं ब्रह्मेति सिद्धम् । तच्चोमास-
हायं परमेश्वरं प्रभुम् , 'ऋतं सत्यं परं ब्रह्म'इति कैवल्योपनिषच्छ्रुतेरतद्वपुरित्यप्पय्यदीक्षितास्तन्न वदन्ति
तादृशेश्वरसेवेत्यर्थः । प्रतिनिधित्वेनेति अत्रैवं ज्ञेयम् । यन्मूर्तित्रयातीतं तुरीयं तत्त्वं परं ब्रह्मेति
प्रत्यपादि तन्मन्दम् । ब्रह्मोपनिषद्येव पूर्वोक्तानन्तरं पठ्यते तेषां मध्ये यत्परं ब्रह्म विभाति स्वयमम-
नस्कमश्रोत्रमपाणिपादं ज्योतिर्वर्जितं नेत्यक्षरस्वरूपं निरूप्य तस्य ब्रह्मलोकत्वप्रसिद्धयै 'तत्र लोका
न लोका देवा न देवा वेदा न वेदा यज्ञा न यज्ञा माता न माता पिता न पिता स्नुषा न स्नुषा
चाण्डालो न चाण्डालः पौल्कसो न पौल्कसः श्रमणो न श्रमणः पशवो न पशवस्तापसो न तापसः
इत्येकमेव परं ब्रह्म विभाति' इत्यनेन तत्र लोकादीनां ब्रह्मत्वमुच्यते न तु लोकादयो निषिध्यन्ते ।
एकेनैव लोकादिपदेन चारितार्थ्यात् । ततो हृदयाकाशे तद्विज्ञानमाकाशं तत्सुषिरमाकाशमित्यनेन
तस्य भक्तहृदयाकाशत्वलोकादीनां ब्रह्मत्वोक्तेर्निरूप्य प्रायपाठानुरोधप्राप्तप्रथमार्यससम्या ततस्तादृश-
हृदि वेद्यं पूर्णं ब्रह्म ज्ञापयितुं तद्धेयं हृदयाकाशे 'यस्मिन्निदं सं च विचरति' 'यस्मिन्निदं
सर्वमोतप्रोतमिति तल्लक्षणमुक्तम् । तथा च ब्रह्म प्रतिनिधीयतेस्मिन् इति प्रतिनिधिरक्षरं तत्त्वेनेत्यर्थः ।
नृसिंहतापनीयेत्यादि यदप्यप्पय्यदीक्षितेन 'अकारं ब्रह्माणं नाभौ उकारं विष्णुं हृदये मकारं रुद्रं
भ्रूमध्ये' इति नाभिहृदयभ्रूमध्येष्‍वकारादिमात्रात्रयवाच्यानां ब्रह्मादीनामुपासाविधानानन्तरं ॐकारं
सर्वेश्वरं द्वादशान्त इति द्वादशान्तोपासं तेभ्यः परं तत्त्वान्तरं तापनीये दर्शितमित्युक्तम् । तत्रापि
तदनन्तरं सप्तात्मानं चतुरात्मानं चतुःसप्तात्मानं चतुरात्मानमानन्दामृतरूपं प्रणवषोडशान्तर इति
मर्कैसाहित्यलिङ्गेन प्रतिनिधेरेवोक्तेर्युक्तत्वात् । यदपि तेन मैत्रेयोपनिषदि 'तमो वा इदमेकमास'
इत्यारभ्य 'तत्परेणेरितं विषमत्वं प्रयात्येतद्वै रजसो रूपम्' इत्यादिना तपोधिष्ठातुः परस्य संकल्पेनावि-
षाम्यस्य तमसो गुणविभागं निरूप्य तस्य प्रागुक्ता अभ्यास्तनवो ब्रह्मा रुद्रो विष्णुरिति 'अथ यो ह
खलु वा वास्य राजसोंशो योयं ब्रह्माथ यो ह खलु वा वास्य तामसोंशोसौ योयं रुद्रोथ यो ह खलु
वा वास्य सात्त्विकोंशोसौ योयं विष्णुः' इति तेभ्यः परं तत्त्वान्तरं दर्शितमित्युक्तम् । तत्रापि ततः पूर्वं
ब्रह्मणो वा एता अग्यास्तनवः परस्यामृतस्याशरीरस्येत्युक्तत्वात् तस्यैव तमोभवनादिरुच्यते इति प्रति-
निधिरेव तत्त्वन्तरम् । यत्त्वथर्वशिखायां शिव उच्यत इति तदप्योंकारप्रणवनाम्नो निर्वचनाद् ब्रह्म-
विष्णुरुद्रेन्द्राः संप्रसूयन्ते इति वचनात् प्रतिनिधित्वेन सिद्धम् । नात्र प्रसवविरोधः संपद्याविर्भावात् ।
तदुक्तं मैत्रायणीये 'ब्रह्मणो वा एता अग्यास्तनवः परस्यामृतस्याशरीरस्य तस्यैव लोके प्रतिमोदन्ति' इति ।
एतदेवाहुः निपुणतरमुपपादितमिति । यत्तत्तदाध्याहारे गौरवं मत्वाहुः किंचेति । अग्रिमाधिकरणे

१. धात्रिला नाया वा। २. ॐकारो भक्तः, साहित्यं प्रतिपाद्यप्रतिपादकभावसंवन्धेन ।
११ ब्र० सू० २० 255

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

२५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ४ सू० १०
भाष्यप्रकाशः
विग्रहम्' इति योगियाज्ञवल्क्यस्मृतौ चानन्दाकारस्यैव सिद्धत्वात् । नच, 'न तस्य कार्यं करणं च
विद्यते' इत्यस्य विरोधः । तस्य तत्संबन्धि यत् ततः कार्यं जन्यं न, किं त्वजन्यमेव । किंच,
तस्येति षष्ठ्या भेदो निरूप्यते । तथाच जीववत् स्वरूपातिरिक्तं ज्ञानक्रियादिषु करणमिन्द्रियादिकं
च तस्य नास्ति । अथवा नित्यत्वादाकारस्य तद्धेतुभूतं करणं क्रिया, सापि नास्ति । अत एव, न
तत्सम इत्यादीति तदर्थात् । एतेनैव 'अप्राणो ह्यमनाः शुभ्रः' इत्यस्याप्यविरोधः सिद्धः ।
नाप्यरूपवत्सूत्रस्य विरोधः । तत्रापि रूप्यते निरूप्यते व्यवह्रियत इति रूपं सर्वव्यवहारविषयत्वं
तद्युक्तं रूपवद्विश्वम् । ब्रह्म तु तद्विलक्षणम् । यद्वा रूप्यते व्यवह्रियतेऽनेनेति रूपं करचरणादि
तद्वत् तद्युक्तं ब्रह्म न, किंतु तद्विलक्षणम् । करादेरपि ब्रह्माभेदाद्रूपरूपं ब्रह्मैव, नतु रूपवदिति ।
ननु कुत एतदवगम्यत इत्याकाङ्क्षायां तन्निगमकं सूत्रशेषेणाह 'तत्प्रधानत्वात्' इति । सर्वेषां
वेदान्तानां प्राधान्येन ब्रह्मप्रतिपादकत्वात् । तथाच ब्रह्मप्रकरणे निरूपित आकारो ब्रह्माभिन्न
एवेति । नचाऽऽकारनिरूपकाणां ब्रह्मपरिचायनार्थत्वात् तेषां ब्रह्माभिन्नकराद्याकारनिरूपकत्वेऽपि
न प्राधान्येन ब्रह्मप्रतिपादकत्वप्रतिरोध इति शङ्क्यम् । 'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो
रसघन एवं वा अरे अयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञान(घन) एव' इतिश्रुतौ बाह्याभ्यन्तर-
भेदराहित्यबोधने ज्ञानाकारत्वस्यैव सिद्धत्वात् । आकारभूतकरादिराहित्येन केवलज्ञानात्मकतायां
बाह्याभ्यन्तरत्वप्रतीतिराहित्येन तन्निषेधानुपपत्तेः । अकृत्स्त्वादिप्रतीतिराहित्येन कृत्स्नघनपदयो-
र्वैयर्थ्यापत्तेश्च । अतः केवलसच्चिदानन्दात्मकब्रह्माभिन्नकरचरणाद्याकाराङ्गीकारे न कस्यापि
विरोधः । यत् पुनस्तलवकारादिश्रुत्या परमेश्वरस्य साक्षादुपास्यत्वाभाव उक्तः स तु तामेव श्रुतिं
विरुणद्धि । पूर्वार्धे मनःप्रभृतिरहितं तत्प्रेरकं यदुक्तं, तदेव ब्रह्म त्वं विद्धि, नेदं प्रेर्यत्वेनानुभू-
यमानं जीवात्मरूपं न विद्धि । यत् प्रेरकं तत् किमित्यत आह । यदिदं सच्चिदानन्दाकारमुपासते
वैदिकोपासका इति तत्रार्थात् । अनुपास्यत्वेऽभिप्रेते तु द्वितीयेंदंकारं न वदेदेव । नेदं यदुपासत
इत्येतावत्तैव चारितार्थ्यात् । 'यस्यामतं तस्य मतम्' इत्यत्रापि, 'यमेवैष वृणुते तेन लभ्यस्तस्यैष
आत्मा विवृणुते तनुं स्वाम्' इति वरणहेतुकतनुविवरणस्य श्रुत्यन्तरे श्रावणाद् वरणाभावे यस्यामत-
मविदितं तस्य मतं, यस्य पुनस्तदभावेऽपि मतं स न वेदेति । यद्वा, अनिरुक्तश्रुतौ ब्रह्मणो
वाक्यपरिच्छेद्यत्ववारणाद् यस्यामतममिरुक्तत्वात् सम्यक्तया अज्ञातं तस्य मतम् । यस्य पुनस्त-
द्विपरीतं स न वेदेति । अविज्ञातं करचरणादिविशिष्टतया जानतं, विज्ञातं तदभिन्नतया
रश्मिः।
वक्ष्यन्ति च ब्रह्मणि त्विन्द्रियाद्यभावादानन्देनैव कार्यं क्रियते इति । अविरोध इति आकारहेतुभूतः
प्राणादिर्नास्तीत्यविरोध इत्यर्थः । एवेतीति करादीनां प्रत्येकं सच्चिदानन्दात्मकत्वादेवकारः ।
सर्वेषामिति समासस्तु तस्य प्रधानत्वं तत्प्रधानत्वं तस्य ब्रह्मणः प्रधानत्वात् मुख्यत्वादिति
भाष्यात् । अविभागाद्वैतवादी शङ्कते न चाकारेति । बाह्याभ्यन्तरेत्यादि । कृत्स्नेति शेषः ।
यद्वा सप्तम्यन्तं पदं तृतीयान्तं वा । उक्त इति तथा च श्रुतिरित्यादिनोक्तः । अस्मिन् व्याख्याने
वरणाभावेऽपि ब्रह्मावबोध आयाति स सिद्धान्तविरुद्ध इति भिन्नां व्याख्यामाहुः यद्वेत्यादि ।
अनिरुक्तेत्यादि तल्लिङ्गनेत्यादिसूत्रविषयभूतायामित्यर्थः । सम्यक्तयेति इदमित्थमित्येत्यर्थः ।
256

जानतामित्यादिति । अतो न परब्रह्मणोऽनुपास्यत्वाद्ध्येयत्वादिकं युक्तम् । यदपि परब्रह्मणः
स्वतो नामाद्यभावसाधनाय विष्णुपुराणादिवाक्यमुपन्यस्तं तत्रापि कल्पनापदात् काल्पनिकनामा-
दिनिवृत्तिरेवाभिप्रेता, न यावन्नामादिनिवृत्तिः । ‘ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ ।
ॐकारं प्रकृत्य ‘खं वाग्ज्ञो ब्रह्मणः साक्षाद्वाचकः परमात्मनः’ । ‘तस्य वाचकः प्रणवः’ इति गीता-
श्रीभागवतपातञ्जलसूत्राणां विरोधात् । वाचकस्यैव नामत्वात् । एवं सिद्धे सदादिनामकत्वे,
‘नारायणः शिवो विष्णुः शंकरः परमेश्वरः ।
एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम्’ ॥ इति वाराहपुराणवाक्यात् ,
‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते’ ॥
इत्यादिश्रुतिभ्यश्च नामान्तरस्वीकारेऽप्य

वासुदेवस्य गणनाच्च । यत्पुनः, 'कृष्णस्तु भगवान् स्वयम्' इत्येतत्स्वयंपदस्य पुत्रवत् साक्षात्
परमेश्वरांशः । ऋष्यादीनामंशांशिवचनादित्युकम् । तदप्यसंगतम् । भूभारहारकं कृष्णमंशेषूक्त्वा
तदंशित्वेन पुमांसं चोक्त्वा ब्रह्माण्डात्मकपुंरूपताभ्रमवारणाय तुशब्दोक्तिपूर्वकं स्वयं भगवत्त्व-
विधानस्याबोधात् । 'कृष्णमेन मवेहि त्वमात्मानमखिलात्मनाम्' इति, 'वसुदेवगृहे साक्षाद्
भगवान् पुरुषः परः' इत्यादिवाक्यानामप्यविचाराच्च । गीतायां तु
'परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे' ॥
इति वाक्यमपि प्रायो नावलोकितं, येन 'मत्तः परतरम्' इतिवाक्यस्य वामदेवव-
च्छास्त्रदृष्ट्या ज्ञानिमुख्यवाक्यत्वेन गतिश्चिन्तिता । नहि परब्रह्मत्ववक्तार ऋषयः सर्वे भ्रान्ता येनैवं
भगवदुक्ते गौणीं वृत्तिं ब्रह्मदृष्टिं च नावगच्छन्ति । तथा व्यक्तपरत्वेन गतिरप्यसंगतैव । अव्यक्त-
स्याक्षरत्वेन भगवद्धामतयैव सिद्ध्या भगवतस्ततोऽपि परत्वात् । नच व्यवहार्यत्वान्नेश्वरत्वमिति
युक्तम् । तस्य सूत्रव्याख्यान एवोपपादितत्वात् । यदपि मोक्षधर्मवाक्येन नारायणाङ्घ्रिभवत्वं
'प्राधान्यतो यानृष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः ।
आपीयतां कर्णकषायशोषाननुक्रमिष्ये त इमान् सुपेशान्' ॥ इत्युपक्रमः ।
'सोयं तेभिहितस्तात भगवान् विश्वभावनः ।
समासेन हरेर्नान्यदन्यस्मात्सदसच्च यत् ॥
इदं भागवतं नाम यन्मे भगवतोदितम् ।
संग्रहोग्यं विभूतीनां त्वमेतद्विपुलीकुरु' ॥ इत्युपसंहारः ।
अत्र पुरुषस्य भूम्न इत्यनेन भगवदवतारत्वमुपक्रमे । उपसंहारेपि भगवान् विश्वभावनः इत्यनेनै-
तेषां भगवत्त्वं सिद्धति । प्रथमस्कन्धे तु 'एतन्नानावताराणां निधानं बीजमव्ययम्' इत्यनेन
वक्ष्यमाणानामवताराणां मत्स्यादिरूपाणां पुरुषावतारे स्थानत्वमुद्गमहेतुत्वं चोक्तमिति पुरुषावतारत्व-
मुपक्रमे उपसंहारे च 'एते चांशकलाः पुंसः' इत्यनेन पुंसो विराजोवतारत्वं सिद्धतीत्युभयेषां भेदः ।
तथा च लीलावतारा भूमपुरुषस्यान्ये पुरुषस्य । गणनाञ्चेति तथा चैक एव वासुदेवो नित्येश्वर इतरे
तदंशा वासुदेवा इति भागः संमत इति भावः । अंशेष्विति ।
'एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
रामकृष्णाविति भुवो भगवानहरद्भरम्' ॥
इत्यनेन तेषूक्ता इत्यर्थः । पुमांसमिति 'एते चांशकला पुंसः कृष्णस्तु भगवान् स्वयम्' इत्यनेनेत्यर्थः ।
गौणीमिति आत्मीयवाचकत्वे स्वयमित्यत्र गौणी, पुत्रपितृगुणयोगाद्गौणी । सिद्धयेति
'अव्यक्तोक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम' ॥

परमेश्वरस्योक्तं, तत्र तु नारायणपदं यौगिकमेव । धातृपदविशेषितत्वात् । न तु रूढम् । अतो
यत्र नारायणपदेन परमेश्वर उच्यते तत्र रूढ्यैवोच्यते यथा महोपनिषदि । तत्र हि 'एको ह वै
नारायण आसीन्न ब्रह्मा न ईशानो नापो नाग्नीषोमौ' इत्यादिना ब्रह्मादिसर्वनिषेधेऽपामपि निषेधात् ।
स एकाकी नर एवेत्यनेन पुरुषाकारस्योक्ततया निराकारत्वस्यापि वारणात् । तस्य ध्यानान्तस्तस्य
यन्नस्तोममुच्यते, तस्मिन् पुरुषाश्चतुर्दशाऽजायन्तैका कन्येति प्रस्तुत्य, दशेन्द्रियाणि मन एकादशं
तेजो द्वादशमहंकारस्त्रयोदशः प्राणाश्चतुर्दश आत्मा पञ्चदशी बुद्धिरिति तेषां स्वरूपकथने
तेजःपदेन महत्तत्त्वस्य गणितत्वात् ।
'विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः ।
स्वतेजसाऽपिबत्तीव्रमप्रतर्क्यमपां तमः' ॥
इति पुराणे तस्य तेजोरूपत्वावगमात् । अतो यत्किंचिदेकदेशमालम्ब्य सकलशास्त्रविप्लावनं
इत्यत्र सिद्धेत्यर्थः । तस्येति ब्रह्मणो व्यवहार्यत्वस्येत्यर्थः । यौगिकमेवेति पूर्वमीमांसा-
कारिकास्थाचार्यैर्वेदान्ते योगमात्राङ्गीकारादेवेति । धातृपदेत्यादि 'धाता नारायणो विभुः' इति । नतु
रूढमिति । ननु रूढेः स्वमतेऽभावादप्राप्ताया निषेधः कुत इति चेन्न । स्वमते शक्तिसंकोचलक्षणायाः
रूढेः प्रस्थानरत्नाकरेऽङ्गीकारात् । तथा च न परमेश्वरभिन्ने नारायणपदं शक्तिसंकोचयुक्तमिति ।
रूढ्यैवेति अपां सत्यज्ञानानन्तेश्वरे संकोचः । अक्षरं नारं जीवसमूहः अयनं यस्येति न
तत्राधोक्षजेऽब्घटितयोगः संभवतीत्येवकारः । नारमयनं यस्येति योगाभासं वदन्तो हेतुमाहुः यथेति ।
तेनाब्घटितविग्रहे रूढिरित्युक्तम् । ननु सर्वेषां शब्दानां परमेश्वरे योगोऽङ्गीकृतः प्रस्थानरत्नाकरे इति
चेन्न वैष्णवबोधनपरत्वाद् ग्रन्थस्य । अपाम

or "वाक्यलिङ्गमसङ्कु" (with sic note or as printed). The prompt says: "exact transcription, do NOT hallucinate, output line by line". Let's look really closely at whether it's 'ङ्ग' or 'न':
Actually, look at the letter: it has a flat top, a loop on the left, horizontal stroke, vertical stroke: that is 'न'! But wait, is there a dot? No dot. So it looks like 'न'. Wait, could it be 'वाक्यलिङ्गमसङ्कुचाभिप्रायेण'?
Wait! Look at the top left of that glyph: there is a small dot? No, it's just 'न'. Let's keep it as printed or obvious Devanagari text. Wait, could it be 'वाक्यलिङ्गम-'? No, it has 'न'. Let's look at: "वाक्यलिनमसङ्कुचाभिप्रायेण".

Wait, let's look at L29:
"अवगन्तव्यमिति एतच्च 'समान एवं चाभेदात्' इति सूत्रे वक्तव्यं साधनाध्याये । तथा चेदमिति"
Wait, the sutra is: "समान एवं चाभेदात्" (Brahma Sutra 3.3.19: "समाना एवं चाभेदात्" or "समान एवं चाभेदात्").
Yes, 'समान एवं चाभेदात्' इति सूत्रे वक्तव्यं साधनाध्याये ।

L30

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५६१

तत्रानन्दमय इति मयट्प्रत्ययान्तस्याब्रह्मत्वेनाजगत्कर्तृत्वे ब्रह्मप्रपाठकस्या-
ब्रह्मपरत्वं स्यादिति तन्निराकरणार्थमानन्दमयाधिकरणम् । षडिन्द्रियरूप-
द्वयानन्दभेदेनानन्दस्याष्टविधत्वादष्टसूत्राणि ।
ननु कथं संदेहः, कथं वास्याब्रह्मत्वे प्रपाठकासंगतिरिति । उच्यते ।
ब्रह्मविदः परमाप्तिं प्रतिज्ञाय ज्ञेयांशे कारणत्वायानन्दांशमप्रवेश्य जडत्व-
परिहाराय सर्वज्ञानन्दरूपं फलमुपपाद्य तन्निरूपणार्थं सर्वोऽपि प्रपाठक आरब्धः।
तत्र साधनशेषब्रह्मणो वाक्यादेव निःसंदिग्धप्रतीतेः फलस्य ब्रह्मत्वं प्रतिपाद-
नीयम् ।
भाष्यप्रकाशः ।
वाक्यानीत्यर्थः । नन्वेतद्द्वये ब्रह्मणः कार्यमुच्यते । सत्यज्ञानानन्तलक्षणकं ब्रह्म प्रस्तुत्य 'तस्माद्वा
एतस्मादात्मन आकाशः संभूतः' इत्यादि

२६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११
तत्राऽन्नान्नमयादितुल्यवचनात् सुखवाचकशब्दानामेव वचनाच्च संदेहः ।
आनन्दांशस्यैव कारणत्वेन ब्रह्मत्वप्रतिपादनार्थत्वात् तदभावे प्रपाठकवैयर्थ्यं च ।
फलस्य नैकव्यप्रतिपादनायात्मपदप्रयोगेण फलरूपेण जगत्कारणतामुक्त्वा
भाष्यप्रकाशः।
बोधयितुं तस्य जडत्वपरिहाराय विपश्चिद्ब्रह्मपदाभ्यां सर्वज्ञानन्दरूपं फलमृगुत्तरार्धे, सोऽश्नुते
सर्वान् कामान् सहेत्यनेनोपपाद्य तस्य सर्वज्ञानन्दरूपस्य फलस्य निरूपणार्थं सर्वोऽपि प्रपाठक
आरब्धः । तत्रर्चि साधनशेषस्य ज्ञेयब्रह्मणो लक्षणवाक्यादेव निःसंदिग्धं स्वरूपावगमात् फलस्य
ब्रह्मत्वं प्रतिपादनीयम् । प्रतिज्ञावाक्ये परपदात् तस्य च श्रुत्युत्तरार्धेन विवरणे भिन्नविभक्तिभिन्नपद-
वचनयोश्च कथनेन परपदार्थानिश्चयाद् ऋग्व्याख्यानरूपे प्रपाठकेऽवश्यं कारणत्वादिना ब्रह्मत्व-
मुपपादनीयमित्यर्थः । एवं प्रपाठकार्थमुक्त्वा संदेहबीजमाहुः तत्राऽन्नमित्यादि । अन्नान्नान्नम-
यादीति अन्नमयादीत्यर्थः । एवं संदेहमुपपाद्य प्रपाठकासंगतिमुपपादयन्ति
आनन्दांशस्यैवेत्यादि। सदेव सोम्येति, 'स ऐक्षत लोकाम्नु सृजै' इत्यादिश्रुत्यन्तरे सच्चिदंशयोः
कारणत्वस्य प्रतिपादितत्वेन तत्सहचरितस्यानन्दांशस्यापि तथात्वेन तस्यान्यत्र कारणत्वाकथनात्
तदभावे कार्यानुसारिलक्षणस्याव्यापकत्वप्रसक्तेरत्र तस्यैव कारणत्वेन ब्रह्मत्वप्रतिपादनार्थत्वात्
तदभावे तद्वैयर्थ्यमित्येवमसंगतिरित्यर्थः ।
ननु कारणतावाक्ये 'तस्माद्वा एतस्मादात्मनः' इत्यात्मपदादात्मा वा इदमेक एवेत्यादावि-
वात्रापि चिदंशकारणताप्रतिपादनस्य संभवदुक्तिकत्वात् कथमत्रानन्दांशकारणताप्रतिपादनविनि-
गमनेत्याकाङ्क्षायामात्मपदोक्ततात्पर्यं वदन्तस्तद्विनिगमकयुक्तिमाहुः फलस्येत्यादि । यथा मलय-
रश्मिः ।
व्यापारकज्ञानरूपसाधनविषयत्वेनेत्यर्थः । फलस्येति परस्येत्यर्थः । भिन्नेत्यादि 'सत्यं ज्ञान-
मनन्तं ब्रह्म यो वेद निहितं गुहायाम्' स इत्यनेन प्रतिज्ञावाक्यगतं ब्रह्मविदितिपदं विवृतम् ।
आप्नोति परमित्यस्य अश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति व्याख्यानं, तत्र परमित्यत्र
द्वितीया विभक्तिः ।

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३६३
तस्यैव मध्ये सर्वान्तरत्वं प्रतिपादितं 'तस्माद् वा एतस्माद्विज्ञानमयादन्योऽन्तर
आत्माऽऽनन्दमयः' इति । अन्ते च, 'एतमानन्दमयमात्मानमुपसंक्रामति' इति
आदिमध्यरूपे अनूद्य फलत्वेनोपपादितम् । तन्निरूपकस्यापि तत्तुल्यफलत्वं
वक्तुमन्नमयादीनामपि ब्रह्मत्वेनोपासनमुक्तम् ।
तत्र पूर्वपक्षेऽन्नमयादेरिवानन्दमयस्यापि न ब्रह्मत्वम् । अन्नमयादितुल्य-
वचनात् तथैव फलसिद्धेरिति । एवं प्राप्तेऽभिधीयते ।
आनन्दमयोऽभ्यासात् ॥ ११ ॥ (१।१।५)
आनन्दमयः परमात्मा, नान्नमयादिवत् पदार्थान्तरम् । कुतः । अभ्यासात् ।
भाष्यप्रकाशः
जस्याभीष्टत्वेऽपि दूरत्वात् तदर्थं न पुरुषप्रवृत्तिस्तथात्र मा भूदिति तदर्थं फलस्य नैकट्यप्रतिपादना-
यात्मपदप्रयोगेण तदेतत्पदाभ्यां सन्निहितपरामर्शात् फलरूपेण जगत्कारणतामुक्त्वा तस्यैवानन्दस्य
मध्ये सर्वान्तरत्वमन्ते फलत्वं चानन्दमयपदाभ्यामुक्तम्। तेनादिमध्यावसानेषु कारणत्वसर्वान्त-
रत्वफलत्वानि तत्रैव साधितानि । तथान्नमयादीनां ब्रह्मत्वेनोपासनकथनात् तदान्तरत्वनिरूपकाणां
यदा तत्तुल्यं फलत्वं, तदाऽऽनन्दमयस्य सर्वान्तरस्य फलत्वं किं वाच्यमित्याशयेन फलत्वमेव
दृढीकतृम् । तथाच यदि केवलमात्मपदमेव कारणताप्रतिपादकवाक्ये स्यात् तदा त्वदुक्तं
स्यादपि । न त्विह तथा किंतु तदेतत्पदसमभिव्याहृतम् । तथा सत्यात्मपदं नैकट्यमेव बोधयति,
नतु तेन रूपेण कारणताम् । सा च प्रतिपिपादयिषिते पर्यवस्यतीति संपूर्णवाक्यविचारादवसीयते ।
अतः पूर्वोक्ताः फलत्वादय एतद्विनिगमकयुक्तिरूपा इत्यर्थः । एवं विनिगमकमोचनेन परोक्तं
प्रतिक्षिप्य प्रकृते पूर्वपक्षमाहुस्तत्रेत्यादि । तथैवेति ब्रह्मत्वेनोपासनेनैव । सूत्रं व्याकुर्वते
अभिधीयत इत्यादि ।
आनन्दमयोभ्यासात् ॥ ११॥ ननु हेतुना साध्यसिद्धिव्र्याप्तिनिश्चये सति भवति। प्रकृते
रश्मिः ।
रिति स्वरूपलक्षणप्रतिपादकानन्दकर्तृत्वप्रतिपादकप्रपाठकयोरसंगतिरित्यर्थः । तदर्थमिति प्रवृत्त्यर्थ-
मित्यर्थः । तदेतदिति 'तस्माद्वा एतस्मादात्मनः' इतिश्रुतौ । फलरूपेणेति ब्रह्मविदाप्नोति परमिति
सन्निहितश्रुत्युक्तेनेत्यर्थः । तस्येति विपश्चिद्ब्रह्मणः । इदं फलमत आहुरानन्दस्येति । आनन्द-
मयपदाम्यामिति 'तस्माद्वा एतस्माद्विज्ञानमयादन्योन्तर आत्मानन्दमयः' 'एंतमानन्दमयमात्मा-
नमुपसंक्रामति' इति श्रुतिद्वयघटकाभ्यामित्यर्थः । तन्निरूपकस्यापीत्यादिभाष्यं कैमुतिकन्यायेन
व्याकुर्वन्ति तथान्नमयेत्यादि । एतद्विनिगमेत्यादि । 'तस्माद्वा एतस्मादात्मनः' इति
श्रुतावात्मपदेनानन्दांशकारणताप्रतिपादनविनिगमेकेत्यर्थः । नन्वानन्दस्य कारणत्वेप्यक्षरानन्दस्य
वक्तव्यम् । धर्मिणो भक्तैः सह निगूढभावकरणस्य दशमसुबोधिन्यामुक्तेस्तद्रूपानन्दस्य जगत्कारणता-
भावादिति चेन्न । अदृश्यत्वाधिकरणोक्ताक्षरागेदमादायोपपत्तिसंभवात् । पुरुषविधब्राह्मणसान्त्र
वक्तव्यत्वात्तत्र पञ्चसंख्याया अभावात् । अत एषापि सदानन्दस्य जगज्जन्मादिकर्त्री शक्तिरित्युक्तं
द्वितीयस्कन्धनवमाध्याये । उपासनेति प्रायपाठादेवकारः।
आनन्दमयोभ्यासात् ॥११॥ भाष्ये । अभ्यस्यत इत्यादि । एतेन विधेरविशेषेण पुनः
श्रवणमभ्यासः इति शास्त्रदीपिकोक्तलक्षणं विधिपदरहितं युक्तं 'एकस्यैव पुनः श्रुतिरविशेषादनर्थकं
३४ ब्र० सू० २०
263

२६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११
अभ्यस्यते पुनः पुनः कीर्त्यत इत्यभ्यासस्तस्मात् । अभ्यासस्य भेदकत्वं पूर्वतन्त्र-
सिद्धम् ।
यथा पूर्वतन्त्रे शब्दान्तराभ्याससंख्यागुणप्रक्रियानामधेयानां षण्णां
भाष्यप्रकाशः।
चाभ्यासत्वेन परमात्मबोधकत्वेन व्याप्त्यभावादसिद्धोऽयं हेतुरित्यत आहुः अभ्यासस्येत्यादि ।
पूर्वतन्त्रे हि, 'समिधो यजति,' 'तनूनपातं यजति,' 'इडो यजति,' 'बर्हिर्यजति,' 'स्वाहाकारं यजति' इति
पञ्चकृत्वो यजत्यावृत्तौ मीमांसितं, किमत्र तनूनपादादिषु चतुर्षु पूर्वयागानुवाद उत यागान्तर-
विधानमिति । तत्र पूर्वपक्षिणा धात्वर्थप्रत्यभिज्ञानादिडादिगुणविधानार्थं समिद्यागानुवादेऽङ्गीकृते
सिद्धान्तितम् । भेदाभेदसाधारण्या यजिश्रुत्या यागमात्रप्रत्यभिज्ञानेन श्रुतेर्यागान्तरपक्षे तुल्यत्वाद्
गुणविधानपक्षेऽपि चतुर्थीत्तद्धितयोरभावेन देवतायास्तृतीयाया अभावेन द्रव्यस्य च वक्तुमशक्यत्वाद्
द्वितीयया चाग्निहोत्रं जुहोतीत्यादिवत् तेषां कर्मनामत्वनिश्चयात् पदान्तरसमभिव्याहृतेन यजतिना
यागान्तरमेव बोध्यत इति । तथाच यत्र यत्र वाक्ये पदान्तरसमभिव्याहृतस्य यस्य पदस्याभ्यास-
स्तत्र तत्र तस्य पदस्य पूर्वस्मादर्थान्तरगमकत्वमिति व्याप्तेः पूर्वस्मादर्थान्तरत्वेन परमात्मसाधनान्ना-
सिद्धो हेतुरित्यर्थः । नन्वभ्यासस्य भेदकत्वमात्रं सिद्धम् । तस्य फलमितरभेदः सोऽत्र शब्दान्तरा-
देव सिद्धो वाक्यान्तरसिद्धमसन्निहितमभ्यासं स्वलाभाय नापेक्षते । तथा सति कथं तेन
परमात्मभावगतिरित्यत आहुः यथेत्यादि । तथाच शब्दान्तरेण सिद्धेऽपि भेदे वैलक्षण्यमभ्यासः
साधयति । सिद्धाच्च वैलक्षण्यादन्नमयादिभ्य आनन्दमयस्यातुल्यत्वं सिद्ध्यति । तेन ब्रह्मात्मभाव-
रश्मिः।
हि स्यात्' इति सूत्रे विधिपदाश्रवणात् । अत एव विधिभिन्नस्याप्यविशेषेण पुनः श्रवणेऽभ्यासत्व-
व्यवहार इति बोधितम् । प्रकृते । परमात्मेत्यादि । इदं चाधिकारसूत्राद् ब्रह्मेत्यनुवृत्तौ लभ्यते ।
तेन पक्षहेतुनिर्देशोपि सूत्रे न दोषाय । पूर्वतन्त्र इति द्वितीयस्य द्वितीयपादे 'एकस्यैवं पुनः
श्रुतिरविशेषादनर्थकं हि स्यात्' इत्यधिकरण इत्यर्थः । पूर्वयागेति समिद्यागानुवाद इत्यर्थः ।
धात्वर्थेत्यादि । करणीभूतधात्वर्थभेदेपि शब्दैकत्वेनार्थैकत्वस्य दृढतरप्रत्यभिज्ञानादित्यर्थः । प्रत्य-
भिज्ञानं च तत्तेदन्ताप्रकारकं ज्ञानं स एवायं यजतिरित्याकारकम् । इडादीत्यादि । अत्र तनून-
पादादीत्यनूदितव्ये इडादीत्यनुवादः शास्त्रदीपिकादौ तनूनपादादीति पदमसंगतमिति ध्वनयति ।
तथाहि । तनूनपादादीत्यत्रातद्गुणसंविज्ञानो बहुव्रीहिः संभवति । अन्यपदार्थस्य संयोगसमवायाति-
रिक्तसंबन्धेन संबन्धित्वात् । पञ्चानामपि यागानां भिन्नत्वात् । लक्ष्यतावच्छेदकस्य विशेष्यान्वय्य-
न्वयित्वाभावात् । नैयायिक लक्षणस्याप्यसमन्वयात् । तथा च चतुर्णां यागानां संग्रहायेडादीत्येव
वक्तव्यम् । आदि चेद् चेडादी 'अल्पाच्तरं पूर्वम्' इतीडः पूर्वनिपातः । इड् आदिर्ययोरित्यतद्गुण-
संविज्ञानो बहुव्रीहिः । इडादी च इडादी चेडादय इत्येकशेषः । तथा चेडादीनां तनूनपादिड्बर्हिः-
स्वाहाकाराणां देवतारूपाणां द्रव्यरूपाणां वा गुणानां विधानार्थमित्यर्थः । चतुर्थीत्यादि अग्नये जुष्टं
निर्वपामि, आग्नेयोष्टाकपालः, इतिवत् । तृतीयाया इति दध्ना जुहोतीतिवत् । इतर भेद इति यथा
पृथिव्या भेदकस्य गन्धवत्त्वस्य जलादिभेदसाधकत्वाजलादिभेदः फलं तद्वदित्यर्थः । शब्दान्तरादिति
द्वितीयस्य द्वितीयपादे 'शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्' इत्यधिकरणे सोमेन यजेत हिरण्यमात्रेयाय
ददाति दाक्षिणानि जुहोति इत्यत्र यजत्यादीनां शब्दान्तरत्वात् कर्मभेदकत्वमिति चिन्तितम् ।
शब्दान्तरादप्यन्नमयादिशब्दान्तरादेवेतरभेदः सिद्धः किमभ्यासेनेत्यर्थः । तथा चानन्दमयः शब्दान्तरादिति
264

छन्दसि' इति नियमस्य, मृन्मयं गृहं राजन्महं

L14:
गममित्यादिमन्त्रेषु व्यभिचारात् । तेन विकारार्थे द्व्यचो भवत्येव । अन्यस्मात्तु विकारार्थे

L15:
भवति, न भवति चेति व्यवस्थितविकल्पाश्रयणेन त्र्यचोऽप्यानन्दशब्दात् तस्य विकारार्थे

L16:
रश्मिः ।

L17:
सुवचमिति शङ्कितुराशयः । इत्यर्थ इति तथा च प्रकृतोपयोगिहेतुत्वस्याभ्यास एव सत्त्वान्न

L18:
तत्सुवचमिति भावः । तथा चेदं प्रथमस्य शब्दान्तरस्य त्यागे मानमिति भावः । नन्वेवमप्यभ्यासस्य

L19:
पूर्वतन्त्रे भेदकत्वमात्रं सिद्धमिति कथमत्र वैलक्षण्यसाधकत्वमस्येत्याशङ्कते नन्वभ्यासस्येति ।

L20:
एवमभ्यास इत्यादीति । एवं पूर्वेभ्यो विलक्षण इत्यर्थः । नन्वभ्यासस्वरूपं पूर्वतन्त्रसिद्धमेवेत्येव-
Wait, let's re-read L20:
Look at the word after एवं: 'पूर्वोक्तेभ्यो'.
Wait, is it 'पूर्वोक्तेभ्यो' or 'पूर्वेभ्यो

२६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११
स्तुत्या मयडर्थत्वप्रकृतिस्तु तुल्या। पुनर्वचनेनाभ्यासेन प्रवाहाद् भेदे साधिते
भाष्यप्रकाशः।
सुवचत्वात् । तथा सति न तेन वैलक्षण्यसिद्धिर्वैलक्षण्यसिद्धावपि न तेन परमात्मत्वसिद्धिरित्यत
आहुः मयडर्थेत्यादि । मयट् प्रत्ययः । अर्थत्वमर्थान्तरत्वम् । ताभ्यां सहिता प्रकृतिर्मयडर्थत्व-
प्रकृतिः शब्दान्तररूपा । सा तुल्या व्यवस्थितविकल्पाश्रयणेऽपि पदार्थान्तरपक्षे परमात्मपक्षे
च साधारणा । यद्वा स्तुत्या तुल्या यादृशी स्तुतिस्तादृशमर्थान्तरं बोधयति । अतो न
तयाऽवान्तरप्रायपाटेन वा विकारार्थग्रहो युज्यते । तदपेक्षयाऽसाधारणस्य लैङ्गिकाभ्यासस्यैव
ज्यायस्त्वादित्यर्थः । तेन सिद्धमाहुः पुनरित्यादि । किम्ः पुनर्वचनेन बोधितो य आर्थिकोऽभ्या-
सस्तेन मयडर्थान्तरयोः प्रवाहाद् भेदे आनन्दमयस्य साधिते तस्य ब्रह्मत्वं सिद्धमित्यर्थः ।
रश्मिः ।
ननूक्तं पूर्वस्माद्विलक्षणोत्राभ्यास इति तत्राहुः वैलक्षण्यसिद्धावपीति । तेनेति सिद्धेन वैलक्ष-
ण्येन दुर्बलेन लिङ्गेन वेत्यर्थः । अर्थान्तरत्वमिति प्राचुर्यविकारान्यतरत्वम् । शब्दान्तररूपेति
उभयोरेकतरानन्दमयशब्दान्तररूपा । साधारणेति स्तुत्येत्यत्रान्वेति । तथा च प्रायपाठोपि स्तुत्या
तेन साधारणेत्यर्थः । तथा चानन्दमयशब्दमहिम्नैव परमात्मत्वसिद्धिरित्याशयः । मुख्ये प्राचुर्यार्थे
संभवति गौणविकारार्थानौचित्यात् । इदानीं प्रायपाठविरोधं परिहरन्तः स्तुत्येति पदमत्र योजयन्तो-
र्हार्थकप्रत्ययान्त तुलू उन्मान इति धातुनिष्पन्नस्य तुल्येत्यस्योन्मातुं योग्येति यौगिकार्थं हृदिकृत्य
पक्षान्तरमाहुः यद्वेति । अत इत्यादि सर्वोत्कृष्टस्तुत्यानन्दमयस्यान्नमयादिभ्य उत्कर्षात् न
तया स्तुतेत्यर्थः । लैङ्गिकेति आर्थिकाभ्यासस्येत्यर्थः । केचित्तु मयटोर्थो वाच्यं प्राचुर्यं पूर्वापेक्ष-
याप्याधिक्यं यत्र प्राचुर्यविशिष्टानन्दे स मयडर्थः तस्य भावो मयडर्थत्वं, प्राचुर्यं विशेषणीभूतं
तस्य या प्रकृतिरानन्दशब्दात्मिका सा त्वानन्दमयशब्दनिष्ठा स्तुत्या कृत्वा प्रदर्श्यमानवाक्यनिष्ठानन्द-
शब्देनैकार्थवाचकत्वेन तुल्या । प्रदर्श्यमानवाक्ये स्तुतिर्वाक्यार्थः । आनन्दमयशब्दे तु प्रत्ययार्थ
इति तुल्यत्वमिति व्याचक्षते । (अस्मिन् पक्षे स्तुत्या इति षष्ठ्यन्तम् । निरूपितत्वं षष्ठ्यर्थः ।)
अन्ये तु को ह्येवान्यादिति श्रुतौ आनन्दस्याभ्यासः न त्वानन्दमयस्येत्यभ्यासाभावादानन्दमयो न
ब्रह्मेत्याशङ्कायामाहुः अर्थतोभ्यास इति । शब्दत आनन्दस्याभ्यासेप्यर्थतः आनन्दमयस्यैवाभ्यास
इत्यर्थः। अर्थतः कथमभ्यास इत्याशङ्कायामाहुः स्तुत्या मयडर्थत्वमिति । एवं सानुस्वारपाठोङ्गीकृतः।
स्तुत्या 'को ह्येवान्यात्' इत्यादिरूपया । मयडर्थत्वं मयटोर्थः प्राचुर्यं यस्मिन् स मयडर्थ इति
व्यधिकरणपदबहुव्रीहिणा मयडर्थ इत्यस्यानन्दमय इत्यर्थः । तथा च को ह्येवान्यात् इत्यादि-
स्तुत्यानन्दस्य मयडर्थत्वमानन्दमयत्वमित्यर्थः । स्तुतौ प्राचुर्यस्य प्रयोजकत्वात् । प्रभवो धनादिमन्त
एव स्तूयमाना दृश्यन्ते इति । अतोत्र स्तुत्या प्राचुर्यं ज्ञाप्यते । एवं सति 'को ह्येवान्यात्' इत्यत्र
स्तूयमान आनन्द एवेत्यानन्दप्रचुरस्यानन्दमयस्यैवाभ्यास इति भावः । प्रकृतिस्तु तुल्येति
आनन्दशब्दरूपेत्यर्थः । आनन्दमयपदे मयटा प्राचुर्यं बोध्यते को ह्येवान्यादित्यादौ आनन्दस्तुत्या
प्राचुर्यं बोध्यते । आनन्दशब्दस्त्वानन्दशब्दे आनन्दमयशब्दे च तुल्य इति भाव इत्याहुः तदेतद्भाष्ये
प्राचुर्येण प्रस्तुतेर्येनुशासिते मयटोकेकदेशं प्राचुर्यमादाय वक्ष्यमाणसूत्रानुसारेण व्याख्यातव्यम् । मयड-
र्थत्वेत्यादेर्भाष्यस्यानुमानपक्षेर्थः । नन्वानन्दमयः परमात्मा अभ्यासात् इडादियागान्तरवत् । एवं
सूत्रे पक्षहेतुनिर्देशापत्त्या वह्निमान् धूमादितिवत् साध्यहेतुनिर्देशस्य प्रसिद्धस्य त्यागोतः परमात्मानन्द-
266

ब्रह्मत्वम् । न तु द्वैतापत्तिः । उत्तरस्य बाधकत्वात् । तस्माद् आनन्दमयं ब्रह्मैव ।
भाष्यप्रकाशः ।
नन्वानन्दमयस्य ब्रह्मत्वे द्वैतापत्तिः । 'तस्य प्रियमेव शिरः' इत्यादिनिर्बन्धषष्ठ्या तस्य भेदबोधनात् ।
तथा सति ब्रह्मत्वस्याप्यसिद्धिः । नेह नानास्तीत्यादौ ब्रह्मणि भेदनिषेधादित्याशङ्कायामाहुः न
त्वित्यादि । उत्तरस्यैतदभ्यासवाक्यादग्रिमस्य 'यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य
भयं भवति' इत्यन्तरशब्दवाच्यभेदकृतिनिन्दावाक्यस्य गहोः शिर इत्यादिवदभेदषष्ठीसाधकत्वान्न
द्वयापत्तिरित्यर्थः । सिद्धमाहुः तस्मादित्यादि । चोद्याभावात् तथेत्यर्थः । उपचयापचयशङ्किता-
ब्रह्मत्वपरिहारस्तु गुणोपसंहारपादे प्रियशिरस्त्वादिसूत्रे आचार्येण विधेय एवेति न चोद्यावसर इति
बोधयितुमेवकारः । एवमस्मिन् वर्णकेऽन्नमयादी

३६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११
अथवा 'स नैव रेमे, तस्मादेकाकी न रमते स द्वितीयमैच्छत्, स
हैतावानास' इत्यादिश्रुतिभिरेष उ एवेतिश्रुतेश्च तानि तानि साधनानि कार-
यित्वा तानि तानि फलानि ददद् भगवान् स्वक्रीडार्थमेव जगद्रूपेणाविर्भूय
क्रीडतीति वैदिकैर्निर्णयते । एतदेव काण्डद्वयेऽपि प्रतिपाद्यते ।
भाष्यप्रकाशः ।
सांप्रतं तु प्रभुचरणैरखण्डब्रह्मवादेन पूर्वं सिद्धं कार्यस्यापि ब्रह्मत्वमनूद्यानन्दस्य साधन-
शेषत्वेऽपि रूपभेदेन फलत्वानपायाज्ज्ञेयकोटावानन्दं निवेश्यापि तेभ्य आनन्दमयभेदः 'तस्यैष एव
शारीर आत्मा' इत्यादिवाक्याभ्यासाद् वर्णकान्तरेणाधिदैविकवादमाश्रित्य साध्यते अथवेत्यादि ।
तदर्थं पूर्वं सर्वश्रुतीनां ब्रह्मपरत्वेनैकवाक्यत्वाय प्रतीयमानस्य द्वैतस्य बाध्यताप्रकारबोधनाय च
सृष्टिप्रक्रियासारणपूर्वकमखण्डब्रह्मवादस्वरूपं सप्रमाणं निरूप्यते स वै नैवेत्यादि । वैदिकैरिति
प्राचीनौपनिषदैः । एतेन संमतिरपि शिष्टानामुक्ता । एतेन सृष्टीच्छायां प्रयोजिका क्रीडेच्छेति
बोधितम् । एतदेव काण्डद्वयेऽपि प्रतिपाद्यत इति 'शाब्दस्य हि ब्रह्मण एष पन्थाः' इत्यनेन
रश्मिः ।
इति श्लोकेन भाष्यसमाप्तौ च—
'जानीत परमं तत्त्वं यशोदोत्सङ्गलालितम् ।
तदन्यदिति ये प्राहुरसुरांस्तानहो बुधाः' ॥
इति श्लोकेन च तथैवोक्तत्वात् । भक्तिरेव साधनं श्रौतस्मार्तं च प्रमेयमेकमेव 'स्मृतेश्च' इति
सूत्रेण श्रौतस्याप्यर्थस्य व्यासपादैः स्मृत्योपबृंहणादित्येतावान् मतभेदः । अन्यत्समानमित्याशयेन
भाष्यं भिन्दन्ति सांप्रतमित्यादि । प्रभुचरणैरिति श्रीमद्विट्ठलेश्वरदीक्षितैरित्यर्थः । तेन पूर्ववर्ण-
कस्यापि मुख्यत्वं न तु तत्र किमप्यस्वारस्यमिति ध्वनितम् । एवं तत्र तत्र मतभेदो द्रष्टव्यः । प्राकर-
णिकग्रन्थनिबन्धाद्येकवाक्यतायां विचार्यमाणायां तु एकमेव मतमिति वस्तुस्थितिरस्त्वेवेति विभावनीयं
महद्भिः । 'पितृप्रवर्तितपथप्रचारसुविचारकः' इति नामरत्नग्रन्थनाम्नः प्रभूणाम् । अत एव मिलि-
तयोरेवाचार्यत्वम् । अखण्डब्रह्मवादेनेति नात्राखण्डब्रह्मवादो 'अखण्डं कृष्णवत्सर्वं' इति
निबन्धोक्तः, तस्य ज्ञानमार्गीयत्वात् 'भजनं सर्वरूपेषु' इत्यस्य तत्वदीपे तथाकथनात् । किं तु
लीलासामग्रीसहितमेकखण्डं ब्रह्मेति परमभागवतेन वादेनेत्यर्थः । एतत्स्वरूपं द्युभ्वाद्यायतनाधिकरणे
'प्रकरणात्' इति सूत्रे वक्ष्यति । रूपभेदेनेति गणितत्वागणितत्वकृतेनेत्यर्थः । द्वैतस्येति
संशयरूपस्य संख्यारूपस्य वा बाध्यताप्रकारसूचनाय सर्वस्य ब्रह्मत्वबोधनेनेत्यर्थः । निरूप्यत इति ।
यत्तु शंकरपादा अतः परस्य ग्रन्थस्य किमुत्थानमुच्यते द्विरूपं हि ब्रह्मावगम्यते इत्यादिना सोपाधिक-
निरुपाधिकभेदेन श्रुतिव्यवस्थामाहुः तत्तात्त्विकत्वातात्त्विकत्वाभ्यां द्वेधा भेदस्य विद्वन्मण्डने निपुणतरं
खण्डनात् । ग्रन्थोत्थाने प्रकारान्तरमुपदिशद्भिरिति शेषः । स वै नैवेत्यादीति इदं प्रजापतिपरमिति
शांकरा व्याचक्षते तदशोभनं 'सर्वान् पाप्मन औषत् तस्मात्पुरुषः' इति पुरुषनिर्वचनश्रुतेः अपहत-
पाप्मत्वस्य ब्रह्मलिङ्गस्य तत्र सत्त्वेन विराडात्मकप्रजापतेर्ग्रहीतुमशक्यत्वात् । किं च सोऽबिभेदित्यपि
भयं न बाधकं बाललीलायां तत्स्वीकारात् भक्तानुरोधेन । माहात्म्यं चैतद्ब्रह्मणो यद्रूपवत्त्वम् ।
अतः एकोऽप्यसाधारणो धर्मो विद्यमानः शिष्टान् संदिग्धानपि ब्रह्मधर्मानैव गमयति इति 'अन्तस्त-
द्धर्मोपदेशात्' इत्यधिकरणभाष्याच्च । न च 'ततः पतिः पत्नी चाभवताम्' इत्यनन्तरं ततो मनुष्या-
268

अन्यथा जीवस्य साधनफले निरूपयन्त्याः श्रुतेर्जीवपरत्वमेव स्यान्न
ब्रह्मपरत्वम् । कर्मब्रह्मणोरपि जीवशेषत्वं नापेयात् ।
एवं सति पूर्वकाण्डेऽवान्तरफलान्युक्त्वा 'एतस्यैवानन्दस्यान्यानि भूतानि
मात्रामुपजीवन्ति' इतिश्रुतेर्निरवध्यानन्दात्मकमेव परमं फलमिति तद्विवक्षमाणा
पूर्वं सामान्यत आह, ससाधनं तैत्तिरीये 'ब्रह्मविदाप्नोति परम्' इति ।
अक्षरब्रह्मवित् परं ब्रह्माप्नोतीत्यर्थः । अत्र परशब्दस्य पूर्वपरत्वे तदित्येव भवेत् ।

भाष्यप्रकाशः ।
द्वितीयस्कन्धे उक्तार्थस्यैवोपबृंहणात् क्रीडनमेव प्रतिपाद्यत इत्यर्थः । तेन सृष्टीच्छा क्रीडेच्छा-
रूपैवेति निर्णायोक्तोपबृंहणेऽन्यस्याप्यर्थस्य संभवदुक्तिकत्वात् तदनुक्त्वा विपक्षे बाधकं
तर्कमेवाहुः अन्यथेत्यादि । अन्यथेति भगवतः सर्वरूपत्वाभावे । नापेयादिति पारार्थ्यरूप-
शेषलक्षणस्य फलद्वारा तत्र सत्

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति सटीक लिप्यन्तरण है:

२७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११
पूर्वं ब्रह्मोक्तस्यान्ये यत् परमित्याह तेन सान्निध्यात् तत एव परं पुरुषोत्तमरूप-
मेवात्राभिप्रेतमिति ज्ञायते ।
किंच प्रतिपादिना तदाप्तिर्ज्ञानात्मिकैव वाच्या । तथा सति ब्रह्मप्राप्तो ब्रह्म
प्राप्नोतीत्यर्थः स्यात् । स चासंगतः । साधनसाध्यभावव्याहतिश्च ।
भाष्यप्रकाशः ।
सत्यज्ञानाद्युक्तत्वमिति परस्य लक्षणमप्युक्तप्रायम् । तद्योक्तत्वमानन्दमीमांसोत्तरं, 'यतो
वाचः' इति श्लोके गणनापरिच्छेदराहितानाङ्मनसगोचरानन्दरूपत्वेन सिद्धं भविष्यति । ननु 'सर्वं
ब्रह्म' इतिवित् परं ब्रह्मामोतीत्यर्थोक्तौ न कोऽपि दोष इत्यत आहुः किंचेत्यादि । असंगत इति
पुनरुक्तिदोषादसङ्गतः। नन्वत्र व्याख्यानव्याख्येयभाव एव संगतिरिति चेत् तत्राहुः साधनेत्यादि ।
नच शाब्दज्ञानवान् परं साक्षात्काररूपं ज्ञानमामोतीत्युक्तौ न दोष इति वाच्यं प्रत्यक्षविरोधात् ।
नच साधनान्तरासमवधानाददोष इति वाच्यम् । तस्यात्रानभिप्रेतत्वात् । अनुपदेशेन तथाव-
रश्मिः।
आत्मानन्दमयः' इति विषयवाक्यस्य पूर्वाङ्गमित्यर्थः । प्रतीक मित्यावयवमित्यर्थः । भविष्य-
तीति जनन्तपदार्थनिरूपणे भविष्यतीत्यर्थः । यद्वा एकप्रक्रमपठितत्वेन भविष्यतीत्यर्थः । वस्तुतस्तु
निरवध्यानन्दत्वमेव लक्षणम् । सत्यज्ञानानन्तविपश्चित्त्वं वा लक्षणमेकश्रुत्युपपादितत्वात् ।
प्रकटबिंबत्वेन न सूर्येऽतिव्याप्तिः सत्यानन्तयोरच्छङ्गलत्वात् । परे तु त्रयं प्रकटमिति । प्रकटमिति
लक्षणे विशेषणम् । निरवधिसत्यज्ञानत्वे सतीति विशेषणाभावे शृङ्गाररसेतिव्याप्तिः स्वमतहानिश्च
'सत्यं परं धीमहि' इति 'सत्यव्रतं सत्यपरम्' इति च ।
'आत्ममायासृते राजन् परस्यानुभवात्मनः ।
न घटेतार्थसंबन्धः स्वप्नद्रष्टुरिवाञ्जसा' ॥ इति च ।
अर्थसंबन्धो देहसंबन्धः । विशेष्याभावे ब्रह्मज्ञानमेव भवेत् । अधोक्षजत्वेन निरवध्यानन्द-
द्वारा तज्ज्ञानात् । 'आनन्दं ब्रह्मणो विद्वान्' इति श्रुतेः । अक्षरेतिव्याप्तिवारणाय निरवधीति ।
शांकरोपनिषद्भाष्योक्तार्थ वदन्त आशङ्कामाहुः नन्वित्यादि । सर्वं ब्रह्मेत्युपासकः परं ब्रह्माप्नोति
इत्यर्थोक्तावित्यर्थः । न कोपीति यद्यपि प्राप्यस्य ब्रह्मणः उपासकाद्भिन्नत्वेन भवनमुक्तं तथापि
मात्रवर्णिकं ब्रह्म जीवाद्ब्रह्मातिरिक्तं नापि तु तस्यैवोपासकस्याविद्यालेषशून्यं निर्विशेषचिन्मात्रैकर-
स्वरूपं तदेव 'सत्यं ज्ञानमनन्तं ब्रह्म' इति मन्त्रेणोच्यते । अग्रे 'यतो वाचो निवर्तन्ते, अप्राप्य मनसा
सह' इत्यनेन वाङ्मनसयोरगोचरत्वसोक्तेरिति दोषोपि नेति न कोपि दोष इत्यर्थः । व्याख्यान-
व्याख्येयेति । तथा चोपनिषद्भाष्यं ब्रह्मविदिति ब्रह्म वेद ब्रह्मैवेति वक्ष्यमाणलक्षणं बृहत्तमत्वात्
ब्रह्म तद्वेत्तीति ब्रह्मविदाप्नोति परं निरतिशयं तदेव ब्रह्म परं नह्यान्यस्य विज्ञानादन्यस्य प्राप्तिरिति ।
साधनेत्यादीति 'धर्मादिष्वनियमः' इत्यनेन 'अल्पाच्तरं पूर्वम्' इत्यस्य बाधादेवं प्रयोगः ।
धर्मादिशाकृतित्वनः । ब्रह्मज्ञानं साधनं पराप्तिः साध्या सापि ज्ञानात्मिकेत्येकस्य साधन-
साध्यभावव्याहृतिरित्यर्थः । व्याख्यानव्याख्येयभावेपि तन्मतेन साधनसाध्यभावमाशङ्क्य निषेधन्ति
न च शाब्देत्यादि । प्रत्यक्षति शाब्दपरोक्षापत्त्या तथा । साधनान्तरेति संन्यासयोगरूप-
साधनान्तरासमवधानात् । अत्रेति श्रुतावित्यर्थः । अनभीत्यादि छान्दोग्ये आत्मनि सर्वेन्द्रियाणि
संप्रतिष्ठाप्येति गार्हस्थ्यलिङ्गाद्वेदान्तविज्ञानसुनिश्चितार्थानां पुंसां तदनिषेधे शुक्लमार्गा भवलोके
270

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २७१
अतः परं विशेषतस्तद्विवक्षमाणाऽनुभवैकगम्यं तत्स्वरूपं नान्यमानगम्य-
मिति ज्ञापयितुमन्यमुखेनाह 'तदेषाऽभ्युक्ता' इति । अन्यथा सर्वार्थतत्त्वप्रति-
पादिका श्रुतिरेवं कथं वदेत् । तदित्यव्ययम् । तथाच तत् पूर्वोक्तं ब्रह्मविदः
परमाप्तिलक्षणमर्थं विशदतया प्रतिपाद्यत्वेनाभिमुखीस्कृत्योपगुह्य ऋगेषा विवित-
परब्रह्मकैरुक्ता । पूर्ववाक्योक्तार्थस्य वैशद्यमनया क्रियत इत्यर्थः संपद्यते ।
भाष्यप्रकाशः।
शायात् । 'यमेवैषः' इति श्रुत्या साक्षात्कारस्य वरणेतरसाधनानधीनत्वाच्च । साधनान्तरकल्पनायामपि
पूर्वोक्तरीत्या परश्शब्दवैयर्थ्याच्च । अत उक्तविधस्यैवार्थस्यात्र संक्षेपत उक्तिरेवेति निश्चयः । एवं
सामान्यत उक्तिं तथैव व्याख्याय विशेषतो व्याख्यातुं सामान्यविशेषभावे गमकाकाङ्क्षायां
व्याख्यानव्याख्येयभाव एव गमक इत्याशयेनाहुः अतः परमित्यादि । अन्यथेति व्याख्यान-
त्वाभावे, परस्य तत्राप्तेश्चानुभवैकवेद्यत्वाभावे च । एवमिति अन्यमुखेन । अव्ययमिति
हेतूपञ्चम्यन्तमव्ययम् । श्रुतिव्याख्यानगतं तत्पदं स्वार्थाध्याहृतमर्थविशेषणत्वाय वाऽव्ययमित्यु-
रश्मिः।
परासृताद्धिरण्यगर्भमोक्षात् मोक्षानापत्तेः । तथा सति 'न स पुनरावर्तते' इति छान्दोग्यविरोध इति
तया । भाष्ये । काण्डद्वयेपीत्यादिना गृहस्थाधिकारस्य पूर्वकाण्डसिद्धस्यापि संग्रहात् । परमहंसयतीनां
तु गार्हस्थ्यमपि प्राप्तं चेत् पारिभाषिकसंन्यासो गृहस्थानां यथा । 'काम्यानां कर्मणां न्यासं संन्यासं कवयो
विदुः' इत्यादि गीतायाः । अत्र हेतुमाहुः अनुपदेशेनेति 'वेदान्तविज्ञानसुनिश्चितार्थाः' इत्यत्रोक्तगार्ह-
स्थ्यस्य तैत्तिरीयेऽनुपदेशेन तथा साधनान्तरत्वाभावनिश्चयात् । अनुपदेशेप्यपेक्षितोपसंहार एकवाक्य-
तयोचित एवेत्यत आहुः यमेवेति । वरणेतरत्यादि प्रमेयबलमेवैतत् । वरणं वैदिकमनुग्रहो
वेदान्तः । नन्वस्तु तत्र तथापरमत्र तु ब्रह्मविदिति साधनोपदेशेन भक्तिरूपसाधनत्वव्यापारत्वेन
निवेशस्यावश्यकत्वाद्ब्रह्मविद्वेदान्तविज्ञानसुनिश्चितार्थिनां संन्यासयोगाच्छुद्धसत्त्वानां प्राक्तन्यात् तद्वत्का-
ण्डद्वयेपीत्यादिभाष्यादसद्भाभिरपि साधनान्तरं कल्प्यत इत्यत आहुः साधनान्तरेत्यादि । पूर्वेति
अत्रैव पूर्वोक्तरीत्या चेति । अत्र व्यवहारे भाट्टत्वाभावेन निहितं गुहायामित्यत्रार्थे ब्रह्मणोभूते
एकीभवतीत्युक्तं स्यात् न तु परमे व्योमन्नित्यादिरुपनिबद्धः स्यात् । अतः स्वमते पुष्टिमर्यादामक्तफलं
वक्तीति युक्तम्। 'ब्रह्मविद्ब्रह्मैव भवति' इत्यत्र ज्ञानफलमिति चकारार्थः। अत उक्तेति माष्टवदर्थवादत्वा-
भावादक्षरब्रह्मविदः पूर्णानन्दप्राप्त्युपदेशरूपस्यैवेत्यर्थः । ब्रह्मविद्ब्रह्मैव भवतीति श्रुतेर्ज्ञानमार्गस्य
सावकाशत्वाद्भक्तिमार्गस्य निरवकाशत्वादेवकारः । अत्रेति ब्रह्मविदाप्नोति परमितिमात्रे । उक्तिरेवेत्ये-
वकारेण व्याख्यानत्वव्यवच्छेदः । निश्चय इति । शब्दादपरोक्षस्य सर्वनिर्णये मर्यादाभङ्ग एव
स्यादित्यादिना दूषितत्वादितोषिकाकाङ्क्षिणा स द्रष्टव्यः । सामान्यविशेषेत्यादि तदेषाभ्युक्तेति
श्रुतेरित्यर्थः । एवेति एवकारोप्यर्थकस्तेन तदेषाभ्युक्तेति श्रुतेरपि सामान्यविशेषभावे गमकत्वं द्रष्टव्यम् ।
अन्येत्यादि विदितपरब्रह्ममुखेनेत्यर्थः । यद्यपि श्रुतं नारदमुखादित्यन्यमतत्वं संभाव्यते तथापि
पुरुषविधब्राह्मणवत्तद्वा एतद्विदितं मीमांसितमिति श्रुत्यायमर्थः साधुः । श्रुत्यर्थस्तु एतदित्यस्य यथोक्त-
कर्मेणामवश्यकर्तव्यत्वं, विदितमित्यस्य भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञ ऋषियज्ञश्चेति
पञ्चमहायज्ञप्रकरणे विदितं विज्ञातमित्यर्थः । भाष्ये । तत्पदं द्वितीयान्तत्वेन व्याख्यातं तत्तात्पर्यमाहुः
श्रुतिव्याख्यानेत्यादि । अध्याहारदोषादाहुः अर्थेत्यादि । अर्थशब्दस्य नियतपुंल्लिङ्गत्वादिति
३५ ब्र० सू० १० 271