भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२१ रूपं निरूप्य, नाम निरूपयति । 'सत्यस्य सत्य'मिति । तेन प्रपञ्चातिरिक्तब्रह्मणो भाष्यप्रकाशः। किन्त्वन्यत् परमस्तीति । तथाच द्वितीयेन नेतीत्यनेन एतावन्मात्रनिषेधोपसंहारः । तथाचात्र न सर्वन्निषेधः, नापि रूपद्वयनिषेधः, नापि भूतवासनाराश्योर्निषेधः, न वा तत्स्थापनमात्रम्, निषेध- पक्षेषु व्युत्पादनपूर्वकप्रतिपादनवैयर्थ्यापातात्, स्थापनमात्रपक्षे निषेधस्य प्रक्रमान्तरस्य च वैयर्थ्य- प्रसङ्गात्, अतः प्रकारैतावत्त्वयोरेव निषेध इत्यर्थः । एतदेव निगमयितुमाहुः इतीत्यादि । इत्येवं अरूपत्ववारणाय रूपं निरूप्यानामत्ववार- णाय नाम निरूपयति 'सत्यस्य सत्य'मिति । तत्र व्याख्येयवाक्य इव व्याख्यानवाक्येपि एवं शङ्का स्यात् । हि निश्चयेन । न एतस्मात् किन्त्वाविद्यकमिति हेतोर्नेति इति, इदं ब्रह्म न भवती- त्युच्यते, किन्त्वन्यत् परं ब्रह्मास्तीति । यद्वा । हि यस्माद्धेतोर्नेति नेतीति वीप्सया मूर्तामूर्ते तद्वा- सनात्मिकामविद्यां तत्कार्यादि च सर्वं निषिध्य सर्वन्निषेधावधित्वेन तत्साक्षित्वेन च ब्रह्मैव निर्दिष्टं इति, कृत्वा, नेति नेतीत्येतस्मात् परं उत्कृष्टं ब्रह्मणो निर्देशनं अन्यन्नास्तीति । अथवा । न ह्येतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीति नेतीत्युच्यते, न पुनः स्वयमेव नास्तीत्यर्थः । तच्च दर्श- यति, अन्यत् परमनिषिद्धं ब्रह्मास्तीति त्रिधापि अक्षरयोजना सम्भाव्यते । अतः को वा व्याख्यान- वाक्यार्थ इति, तत्सन्देहं निराकर्तुं नाम निर्वक्ति । 'प्राणा वै सत्यं तेषामेष सत्य'मिति । प्राण- न्तीति प्राणाः पूर्वोक्ता अपरब्रह्मरूपाः तत्कार्यत्वात् । सत्यम् । नाविद्यकाः ब्रह्मविवर्तभूताः । तत्र रश्मिः। वरणेनैव विवृण्वन्तोऽन्यमाहुः भिन्नेति । एतावत्तेति । पञ्चमहाभूतमात्रतानिषेधोपसंहारः । तथाच इति नाम पञ्चमहाभूतप्रकारेण ब्रह्म नेति द्वितीयेनेतीत्यस्यार्थः, किन्त्वन्यत्तत्समवायि परमस्ति तत इति भावः । नचेति । नन्द्वयेन मूर्तामूर्तस्थापनमात्रम् । व्युत्पादनेति । निषेधस्य व्युत्पादनेत्यादिः । व्युत्पादनं व्युत्पत्तिः । सा च नश्यतीति नञ् । नच भावे वा डभू डौ । प्रतिपादनं 'किं द्वौ नञा'- वित्यादिनोक्तपक्षाणाम् । मूर्तामूर्ते नेति न, किन्तु इति उक्तप्रकारेण । नैयायिकानां प्रसिद्धमिति । निषेधवीप्सया निषेधादरात्सर्वं निषिद्धम् । नो चेदुपसंहारे न भवेत् । किंवा रूपद्वयनिषेधद्वयमिति यथासंख्यमन्वयः । व्याकरणात् । पूर्वप्रतिषेधो भूतराशिं आध्यात्मिकं निषेधति । द्वितीयो वासनाराशिं आधिदैवतम् । स्वयमेवेति । एवकारः स्मृत्यादियोगव्यवच्छेदकः । एवेति । प्रतिपादनादन्ययो- गव्यवच्छेदकैवकारः । इत्येवमिति । इतिहैतावित्यनुक्त्वेत्येवमिति यदुक्तम्, तेन निगमनमेवं प्रकारेणेत्येवं तृतीयान्तोक्तहेतुघटितमिति बोध्यम् । तत्रेति । रूपनिरूपणे । एतस्मादित्यस्मादित्यत्र भाष्यानुरोधात् । आबिद्यकमिति । मूर्तामूर्तरूपं इति हेतोः नेति । इमौ शब्दौ व्याकुर्वन्ति स्म इतीति । इत्येवं प्रकारं इदं मूर्तामूर्तरूपं ब्रह्म न भवत्याविद्यकत्वात् इत्युच्यते । प्रथमं द्वयोः स्थापनमात्रं क्रियत इत्युक्त्वा द्वितीय आहुः यद्वेति । तत्कार्यादीत्यादिनाकार्यकार्यग्रहणम् । सर्वन्निषेधेति । यथा नेदं रजतमिति निषेधे निषेधावधित्वेन शुक्तिस्तद्वत् । ब्रह्मैवेति । एवकारेण मूर्तामूर्तयोगव्यवच्छेदः क्रियते । नेतीत्येतस्मादत्यन्तेन ह्यस्मादिति नेतीलन्तं व्याख्यानं व्याकृतम् । परमित्यारभ्यान्य- त्परमस्तीति व्याकृतम् । नहीति नञोत्रास्तिनान्वयः कृतः । उत रूपद्वयमिति तृतीयपक्ष आहुः अथवेति । अत इति । व्याख्यानवाक्यस्यार्थः । पूर्वोक्ता इति । 'प्राणन्नेव प्राणो भवती'ति श्रुत्युपन्यासेन पूर्वसूत्रकारोक्ताः । यद्वा 'अथामूर्तम् । प्राणश्च यश्चायमन्तरात्मन्नाकाशः । एतदमृतमेतद्य- देतस्य'मिति मूर्तामूर्तब्राह्मणस्थाः प्राणाः । तत्कार्यत्वादिति । ब्रह्मकार्यत्वात् । सत्यमिति । प्राणाः १६ ब्र० सू० २० 1657

१२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १७. विद्यमानत्वात् प्रपञ्चधर्मवचनं तस्मिन्नौपचारिकमेव युक्तम् । श्रुत्यैव तथा प्रति- पादनात् । चकारः पूर्वयुक्त्यनुसन्धानार्थः । अथो इति प्रक्रमभेदोपि । ‘अथात आदेश' इति भिन्नप्रक्रमेणाह । श्रुतेरन्यार्थतानिरकरणायाह । अपि स्मर्यते । ‘अनादि मत्परं ब्रह्म न सत् तन्नासदुच्यते' इति । सदसतोः क्षेत्रत्वात् । ज्ञेयनि- रूपणे निषेधः । प्रपञ्चधर्मा भगवति उच्यन्ते वेदादौ, न तु तद्धर्मा भवन्तीति ज्ञापयति । तस्माच्छ्रुतिस्मृतिभ्यामेव तथा निर्णयः ॥ १७ ॥ भाष्यप्रकाशः। हेतुः । तेषां प्राणानां एष परमात्मैव सत्यं स्वरूपभूत इति । यद्वा । सद्द्रूपत्वात् त्यद्रूपत्वाच्च सत्यं प्राणास्तेषामेष स्वरूपभूत इति । तथाच व्याख्यानवाक्यमपि न निषेधस्य प्रपञ्चे पर्यवसानं गम- यति, न वा ब्रह्मणः सर्वविशेषशून्यत्वे, किन्तु ब्रह्मणः प्रपञ्चप्रकारकत्वे प्रपञ्चसमवायिमात्रत्वे चेत्येतदर्थं रूपनामवत्त्वार्थं च नामनिर्वचनम् । तदेतदुक्तं इतीत्यादिना । तेन यत् सिद्धं तदाहुः तेनेत्यादि । नामव्याख्यानपूर्वकं ब्रह्मणोतिरिक्तत्वस्थापनेन ब्रह्मणस्तथात्वात् तथेत्यर्थः । प्रक्रम- भेदोपीति । प्रकारभेदेनब्रह्मातिरेकयोरुपोद्वलक इत्यर्थः । स्मृतौ ब्रह्मणः सदसत्त्वं निषिध्यते इति कथं तेन विवक्षितव्यतिरिक्तार्थवारणमित्यतो व्याकुर्वन्ति सदसतोरित्यादि ॥ १७ ॥ रश्मिः। सत्यमित्यन्वयः । सत्यं नाम नाविद्यकाः, किन्तु ब्रह्मविवर्तभूताः ब्रह्मणो विशेषेण वर्तनभूताः । ब्रह्मावैवर्तपुराणमपि भवति । परमात्मैवेति । तदन्याभावादेवकारोऽन्ययोगव्यवच्छेदकः । अन्यत्पर- मस्तीत्यत्रान्यत्त्वमिति पुस्तकान्तरपाठात्तत्प्रतमर्थमाहुः यद्वेति । प्रपञ्च इति । मूर्त्तामूर्त्तरूपे । किंवा वीप्सेत्युक्तद्वितीयपक्षे आहुः न वा ब्रह्मण इति । प्रपञ्चेति । पञ्चमहाभूतप्रकारकत्वे । प्रपञ्चेति । ब्रह्मणोऽभिन्ननिमित्तोपादानत्वादिति भावः । इतीतीति । इति रूपमित्यादिना । अतिरिक्तत्वेति । पञ्चमहाभूतातिरिक्तत्वस्थापनेन । तथेति । प्रपञ्चधर्मस्य पञ्चमहाभूतत्वस्य वचनं तस्मिन् ब्रह्मणि औपचारिकत्वं लाक्षणिकत्वं स्वसमवायिकारणत्वं सम्बन्धः । एवकार आरोपापवादसङ्गतिसत्त्वात् । श्रुत्यै- वेति अस्थूलादिश्रुत्यैव । तथेति । औपचारिकत्वम् । स्वमावतो निषेधायोगात् । प्रकारेति । प्रक्रमो मूर्त्तामूर्त्तयोः । तस्य भेदं सौत्रोथोशब्द आहेति । निषेधो हि विधिरूपप्रकारस्य भेदेन निषेधरूपप्रकारेण भवति । अतः पूर्वस्मात्प्रकारभेदः । अभावरूपनिषेधे ब्रह्मणोऽतिरेकोऽभावः । नहि खपुष्पे ब्रह्मास्ति । प्रतीत्यभावेन तस्यैवाभावात् । खपुष्पं तु ब्रह्मास्ति । ‘यदस्ति यन्नास्ति स एव विष्णु'रिति विष्णुपुरा- णात् । तयोः सतोः । उपोद्वेति । नहि घटो नास्तीत्यादिस्थले प्रक्रमभेदेनाभावनिरूपणमस्ति सत्यपि प्रक्रमभेदे । अथो इति शब्दप्रमाणेन तु सतोऽपोद्बलनात्पृथग्रूपनिरूपणमस्ति । ‘अथातो ब्रह्मजिज्ञासा' ‘अथातो धर्मजिज्ञासे'ति ब्रह्मधर्मयोः ब्रह्मकर्मणोर्वैक्यात् । 'कर्मके तत्र दर्शना'दिति जैमिनिसूत्रे धर्मस्थले कर्मोक्तिः । भाष्ये । अथो इति विषयवाक्यघटकथशब्दपर्याय इत्याहुः अथात इति । यतोतः सूत्रेपि भिन्नप्रक्रम इति भावः । मत्परमिति । अहं परो यस्येति मत्परम् । कथं तेनेत्यादि । सदसन्निषेधेन कथं विवक्षितोर्थः अस्थूलादिरूपः तद्व्यतिरिक्तो जडजीवधर्मो औपचारिका ब्रह्मणीति तद्व्यतिरिक्तार्थः वैदिकधर्मवद्ब्रह्म तस्य वारणमित्यर्थः । सदसतोरित्यादीति । निरूपण इति । गीतायाम् । निषेधः ज्ञापयतीत्यन्वयः । किं ज्ञापयतीत्यत आहुः प्रपञ्चेति । उच्यन्त इति । उपचारेणोच्यन्ते, न तु 1658

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १९३ अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥ प्रपञ्चधर्मा भगवत्युपचारादुच्यन्त इत्यत्र निदर्शनान्तरमाह । अतएव इममेव निर्णयमाश्रित्य, 'समः पुषिणा समो नागेन समो मशकेन सम एभिस्त्रिभि- र्लोकैः समोऽनेन सर्वेणे'ति निरुपमस्य भगवतो यदुपमानं तत् तद्धर्मसम्बन्धात् । न चात्र स्वतस्तादृशधर्मवत्त्वं ब्रह्मणो वक्तुं युक्तम् । नन्विदमपि विरुद्धमित्या- शङ्क्य दृष्टान्तमाह । सूर्यकादिवत् । सूर्येण सहितं जलं सूर्यकम् । 'यथा ह्ययं ज्योतिरात्मा विवस्वान् अपो भिन्ना बहुधैकोऽनुगच्छन्', 'एकधा बहुधा चैव दृश्यते जलचन्द्रव'दिति । यथेतरसंश्लिष्टस्योपमानत्वम्, एवं 'समः पुषिणे'त्यपि । भाष्यप्रकाशः। अत एव चोपमा सूर्यकादिवत् ॥१८॥ सूत्रमवतारयन्ति प्रपञ्चेत्यादि । व्याकुर्वन्ति अत एवेत्यादि । निरुपमस्येति । 'न तत्सम' इति श्रुत्या तथा प्रतिपादितस्य । तद्धर्मसम्बन्धा- दित्यादि । यदि प्रपञ्चधर्मवत्त्वं ब्रह्मणः स्यात्, तदा 'पुषिर्नाग' इत्यादि प्रथमान्तमेव निर्दिशेत्, समपदं च न निर्दिशेत्, अतस्तथा निर्देशाभावात् प्रपञ्चधर्मसम्बन्धादेव तद्धर्मवत्त्वम्, न स्वतस्तथा- त्वमित्यर्थः । दृष्टान्तोक्तिप्रयोजनमाहुः नन्वित्यादि । इदं निदर्शनमपि समत्वासमत्वयोरुभयोरपि भावितत्वेन विरुद्धम्, अथवा तद्धर्मसम्बन्धेन तद्धर्मवत्त्वे ब्रह्मणोऽङ्गीक्रियमाणे दृष्टसम्बन्धे दृष्टत्व- मपि स्यात्, अतोपि विरुद्धम्, अतो निर्णायकत्वाभावमाशङ्क्य श्रौतं दृष्टान्तमाहेत्यर्थः । सिद्धमाहुः यथेत्यादि । यथा किरणद्वारा जलादिसंश्लिष्टस्य सूर्यादेर्ब्रह्मोपमानत्वम्, 'यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोनुगच्छन्, उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोयमात्मे'- त्यादिवाक्येषूच्यते, एवं 'समः पुषिणे'तिवाक्येपि प्लुष्यादिसंश्लिष्टस्य तदुपमेयत्वमप्युच्यत रश्मिः । प्रपञ्चधर्मा भगवति भवन्तीति । एव तथेति । प्रसिद्धप्रमाणान्तरव्यवच्छेदकैवकारः । अस्थूलत्वादि- प्रकारेणेति तथेत्यस्यार्थः ॥ १७ ॥ अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥ प्रपञ्चेत्यादि । निदर्शनेति । 'दर्शयति चे'ति निदर्शनमुक्तम्, अन्यन्निदर्शनं 'समः पुषिणे'त्यादि, तदाह । निदर्शनं दृष्टान्तः यथा ब्रह्मास्थूलत्वादिश्रुतौ तथात्रारूपवत् यथा सम इत्यादिश्रुतौ तथात्रारूपवत् । प्लुष्यादिविशेषविलक्षणम् । अतएवेत्या- द्रीति । अतः ल्यब्लोपे पञ्चमी । इमं निर्णयमाश्रित्यैवेत्यन्वयः । उपमानमिति । एतेन भाष्येण सूत्रे उपमाशब्द उपमीयतेऽनेनेत्युपमा । करणे घञन्त इत्युक्तम् । उपमेयधर्मलुप्तम् । उपमानं पुष्यादि । समपदं वाचकं श्रुतावस्ति । उपमेयं लुप्तम्, धर्मो लुप्तः । 'हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गा- मवगाहत' इत्यत्र चतुष्टयमस्ति । तद्धर्मेति । प्रपञ्चधर्मीणां उपचारेण सम्बन्धात् । स्वतश्चेति । यथा पञ्चमहाभूतत्वं पञ्चमहाभूते स्वातन्त्र्येण घट इत्युक्ते घटवत्त्ववदुच्यते । युक्तमिति । ब्रह्मत्वेन ब्रह्मस्वतन्त्रधर्मेण तिरस्कारात् । ब्रह्म पञ्चमहाभूतानीत्येवं सदा पञ्चमहाभूतपदसन्निध्यभावात् । अतो न युक्तमित्यर्थः । दृष्टान्तेति । सौत्रदृष्टान्तेत्यादिः । इदमिति । समत्वनिदर्शनम् । असमत्वं 'न तत्सम- श्चाभ्यधिकश्च दृश्यत' इति श्रुत्युक्तम् । निर्णायकेति । निदर्शनान्तरस्य तथा । सिद्धमाहुरिति । श्रौतदृष्टान्तसिद्धं निदर्शनान्तरेऽविरोधमाहुरित्यर्थः । विवस्वानिति । सूर्यः । भाष्ये । दृष्टान्तप्रसङ्गात् दार्ष्टान्तिकेन समं दृष्टान्तवाक्यमप्याहुः उपाधिनेति । जलाद्युपाधिना । भेदेन रूप्यते व्यवह्रियत इति भेदरूपः । क्षेत्रेषु योन्यादिषु । इत्यादीति । आदिना सौत्रादिशब्दार्यैकधाबहुधेति भाष्यीयवाक्यम् । 1659

चकारस्तु विरोधाभावो वक्तव्यः, अधिकरणं च संपूर्णमेकदेशिन इति सूचयति । तस्माज्जडजीवधर्माणां भगवत्युपचारः, निषेधस्तु मुख्य इति ॥ १८ ॥ इति तृतीयाध्याये द्वितीयपादे पञ्चममरूपवदेव हीत्यधिकरणम् ॥ ५ ॥ भाष्यप्रकाशः । इति विरोधाभावादुपमारूपं निदर्शनमपि निर्णायकमित्यर्थः । सिद्धमाहुः तस्मादिति । ब्रह्मणः प्रपञ्चविलक्षणत्वेन कार्यासाधारणधर्माणां कारणे ब्रह्मण्यभावेन ब्रह्मणस्तत्स्वरूपधर्माणां च लौकिकमनोवागगोचरत्वेन ‘कृत्स्नः प्रज्ञानघन’ इति श्रुत्या आकारस्य ज्ञानात्मकत्वेन तच्चे- ष्टियादीनां धर्माणां च नैसर्गिकत्वेन तेषां च भगवत्प्राकट्ये एव दर्शनादिव्यवहारविषयत्वेन लौकिकवाङ्मनोभिः प्रतीयमानानां स्थानधर्मत्वात् तथेत्येकदेशिमतेन सिद्धमित्यर्थः । तेन ब्रह्मणः स्थानतो जडजीवधर्मवत्त्वम्, स्वतस्तु तद्रहितत्वमित्येकदेशिमतेन सिद्धम् । एतेनास्याधिकरणस्य प्रासङ्गिकत्वं वक्ष्यमाणोपद्घातत्वं वेति सूचितम् । विद्वन्मण्डने तु मायावादिमतेन अरूपवत्सूत्रप्रकृतैतावत्सूत्रद्वयाभ्यां निर्विशेषस्यैव मुख्य- तया निरूपणं दृश्यते इत्याशङ्कायां 'न स्थानतोऽपी'त्यादिसूत्रत्रयम्, 'अरूपव'दित्यादिसूत्रचतुष्टयं चोपादेयांशमादायेवं व्याख्यातम् । तथाहि । तत्र जडजीवधर्मा ब्रह्मणि सन्ति न वेति विचार- यैस्तन्निरूपकनिषेधक श्रुतीनामन्योन्यविरोधपरिहारं च विचारयन्नुभयोरपि श्रुतिवाक्यत्वेनान्यतर- बाधमप्यशक्यं जानन्नौपाधिकं ब्रह्म सविशेषश्रुतिविषयः, निरुपाधिखरूपं तन्निर्विशेषश्रुतेरिति मतम्, ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र ही’ति सूत्रेणौपाधिकत्वे तत्स्वभावत्वं ब्रह्मणो न सम्भवतीति तच्छ्रुतीनामब्रह्म निरूपकत्वापत्तिरिति निरस्य, पुनरुपाहितानुपहितयोर्भेदाङ्गीकारेणो- भयरूपत्वं ब्रह्मणि भविष्यतीति तन्मतोपपत्तिमाशङ्क्य, 'न भेदादितिचेन्न प्रत्येकमदतद्वचना’दिति सूत्रेण ‘अपि चैवमेके’ इत्यग्रिमेण चामेदबोधकश्रुतिविरोधनिरूपणेन निरस्य, पुनराकाराणां प्रपञ्च- मध्यपातित्वात् प्रपञ्चस्य जन्यत्वात् तेषामपि तथात्वात् तेषु ब्रह्माभेदबोधनमौपचारिकम्, अतः साकारवादिन्यो न ब्रह्म निरूपिका इति प्राप्त आह ‘अरूपवदेव हि तत्प्रधानत्वा’दिति । स्यादेतदेवम्, यद्याकाराणां प्रापञ्चिकत्वं भवेत्, न त्वेवम् । न हि प्रपञ्चस्थितत्वेनैव प्रापञ्चिकत्वं वक्तुं शक्यम् । त्वदभिमतस्यापि तथात्वापत्तेः । अतो निराकारवादिनीष्विव साकारवादिनीष्वपि श्रुतिष्वरूपवदेव तद् प्रतिपाद्यते । रूप्यते निरूप्यते व्यवह्रियते इति रूपं सर्वव्यवहारविषयत्वम्, तद्युक्तं रूपवद्वि- श्वम्, ब्रह्म तु तद्विलक्षणमित्यर्थः । यथा चैतत् तथा मृत्स्नामक्षणादिप्रसङ्गनिरूपणेन निरूपितम् । रश्मिः । तद्रूपेति । सूर्याद्युपमेयत्वम् । विरोधाभावादिति । असमस्यैव प्लुष्‍यादिसमत्वमिति तथा । पृथिवे- त्यत्युपमोपमानं सूर्यादि तद्रूपं निदर्शनम् । शेषमिति । अवक्तव्यः उक्तप्रायत्वात् । सूचय- तीति । समुच्चयार्थकत्वात्सूचयति । जडेति । सर्वकर्मसर्वकामत्वादीनां लौकिकानाम् । निषेधोऽस्थूला- दिश्रुत्या । इति विरोधपरिहारः । एवं शेषं स्फुटमित्यर्थः । स्थानत इति । तत्सूत्रे स्पष्टम् । प्रास- ङ्गिकत्वमिति । अविरोधप्रतिपादकेनाधिकरणेन स्मृतसैकदेशिमतसाविरोधप्रतिपादकस्योपेक्षानर्हत्वा- दिति भावः । वक्ष्यमाणेति । मुख्यसिद्धान्तबोधकवक्ष्यमाणाधिकरणस्य किमपेक्षया मुख्यत्वमिति निरूपकसापेक्षस्य प्रकृतस्य सिद्धयर्थैकदेशिमतस्य मुख्यत्वनिरूपकस्य चिन्तात्र कृतेत्युपोद्घातत्वम् । १. मूलपुस्तके ब्रह्मण इत्यारभ्य इत्यर्थ इत्यन्तं विद्धार्यकथनं नास्ति, किन्तु शेषं स्फुटमित्येव वर्तते, रश्मिकारेण तदेव विवृतमिति । 1660

सर्वतोमुखत्वात्"? "सर्वतोमुखत्वात्" is preceded by "सूत्राणां सर्वतोमुखत्वात्"! Wait, look at the letters in line 24: "व द न्त ए वे ति । सू त्रा णां" Wait! Is that 'सूत्राणां'? स् + ऊ = सू. त् + र + आ = त्रा. ण + आ + ं = णां! Wait, look closely at line 24: Does it say "सूत्रार्था" or "सूत्राणां"? The second akshara is त्रा (trā). The third akshara is णां (ṇāṃ)! Wait, look: it has a vertical bar, with a hook like 'ण' and anusvara on top! Yes, "सूत्राणां"! "सूत्राणां सर्वतोमुखत्त्वादन्यार्थ..." Yes! That is the exact maxim: "सूत्राणां सर्वतोमुखत्वात्"! Beautiful!

Let's check line 25: सर्वतोमुखत्त्वादन्यार्थवदनयोगव्यवच्छेदकैवकारः । त्रिवृदित्यादि । 'अग्नेराप' इति श्रुतेर्जलसमवायिनि- Wait, "श्रुतेर्जलसमवायिनि-"? Wait, at line 26: What follows "श्रुतेर्जलसमवायिनि-"? Look at line 26 start:

ानि मनःप्रभृतीनि Line 15: कार्याणि अस्वच्छानि । मनो हि शुद्धाशुद्धभेदेन द्विविधम् । तत्र शुद्धं कामविवर्जितमिति । Line 16: तत्र प्रतिबिम्बिते ब्रह्मणि सर्वकामा एव न भासेरन् । अशुद्धस्य तु कामवत्त्वेपि अस्वच्छत्वादेव Line 17: प्रतिबिम्बाग्राहकत्वम् । प्राणस्त्वपामयोपि वायुरूपत्वात् प्रतिबिम्बग्रहणायोग्यः । तथा भारूपं Line 18: तेजः आकाशश्च । तस्माज्जलादिवत् अंशेन संश्लिष्टस्य ब्रह्मणः प्रतिबिम्बं ग्रहीतुं न शक्नुवन्ति । Line 19: किञ्च । धर्मत्वात् । समवेतं हि कार्यं कारणस्यावस्थाविशेषरूपत्वात् तद्धर्मभूतं तस्मात् । न हि Line 20: समवेते कार्ये समवायिनः प्रतिबिम्बः क्वापि दृष्टचरः, नाप्यस्वच्छे कस्यापि । अतः समवायि- Line 21: व्यतिरिक्तस्य समवायिनश्च ब्रह्मणो ग्रहीतुमशक्यत्वबोधनायाम्बुवदग्रहणादित्युक्तमित्यर्थः । ननु Line 22: रश्मिः। Line 23: अस्थूलादिवाक्योक्तनिषेधस्य । जडजीवधर्मयोगादित्युकम् । सच 'पृथ

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२७ तथा धर्मा ग्रहीतुं शक्नुवन्ति । धर्मत्वान्न । सर्वाधारत्वेन तथोच्यमाने वैयर्थ्य- भाष्यप्रकाशः। मास्तु धर्माणाद्युपाधिभूतानां प्रतिबिम्बग्राहकत्वम्, तथापि द्युभ्वाद्यधिकरणविषयवाक्ये ब्रह्मणः सर्वाधारतायाः सिद्धत्वाद् ब्रह्मण्येव मनःप्रभृतीनां तद्धर्माणं च प्रतिबिम्बोस्तु, तथा सति तेषां धर्माणामौपचारिकत्वमेव सेत्स्यतीत्यत आहुः सर्वेत्यादि । यद्यपि रूपरहितस्य ब्रह्मणो न प्रतिबिम्बग्राहकत्वम्, आकाशादितुल्यत्वात्, तथापि भारूपत्वमादाय ग्रहिततया तथोच्यमाने तेषां धर्माणाद्युपाधिधर्मत्वेनैव प्रत्ययः । लोके हि स्थिर आधारे प्रतिबिम्बचञ्चलतायां तद्धर्मे चलने बिम्बीयत्वेनैव भानस्य दृष्टत्वात् । अतस्तद्धर्मत्वेन उपासनाया असिद्धेस्तदनुवादवैयर्थ्यमिति पूर्वं अरूपवत्सूत्रव्याख्याने सर्वशब्दस्य प्रसिद्ध

मिति पूर्वमवोचाम । नच भ्रमात् कल्पनं वेदेनोच्यते । अप्रतारकत्वात् । सर्व- भाष्यप्रकाशः। 'एकधा बहुधा चैव दृश्यत' इति दृष्टान्तप्रयोजनोक्त्यैव तथा निश्चयादिति । नन्वत्र पूर्वं ब्रह्मणः सर्वत्वेनोपासनायाः 'शान्त उपासीते'त्यन्तेन विधानात् 'स क्रतुं कुर्वीते'त्यस्यापि व्यवहितेनो- पासीतेत्यनेनैव सम्बन्धान्मनोमयत्वादिधर्मविशिष्टत्वेन ब्रह्मण एवोपासनं विधीयत इति, तत्र यथा सर्वत्वमारोपितम्, एवमत्र मनोमयत्वादिकमप्यारोपितमेवेत्यम्बुवद्ग्रहणाभावेऽपि सर्वकाम- त्वादिधर्माणां कल्पितत्वादौपचारिकत्वमेवेत्यत आहुः नचेत्यादि । नात्र मनोमयत्वादिकमा- रोपितम् । उपासनाया एवात्राभावात् । अथेत्यनेन प्रक्रमभेदे बोधिते प्रकृतच्छेदेन व्यवहितसम्ब- न्धस्य वक्तुमशक्यत्वात् । किन्तु पूर्वोपासनया शुद्धान्तःकरणस्य सर्ववेदान्तप्रसिद्धब्रह्मण उपदेशो- ऽयम् । स शान्तोऽन्यत्र रागरहितः, क्रतुं वक्ष्यमाणप्रकारकं निश्चयमध्यवसायात्मकमविचल- प्रत्ययं तथा मननं वा स्वस्य वक्ष्यमाणभगवत्स्वरूपलाभार्थं कुर्वीतेति । एतेन शब्दान्तरेणापि तथा निश्चयात् । उपसंहारे च पूर्वोक्तधर्मविशिष्टस्यात्मनो ब्रह्मत्वं 'एतत् ब्रह्म'त्यनेन निगमयित्वा 'एतमितः प्रेत्याभिसम्भावितास्मी'ति, 'यस्य स्यादद्धा न विचिकित्सास्ती'त्यत्रेतिशब्देन पूर्वोक्तं सर्वं परामृश्य, 'यस्य स्यादद्धे'त्यनेन सर्वस्य

ज्ञत्वाच्च । विप्लववादिन एवैवं वचनम्, न वैदिकस्य । 'पृथिव्यां तिष्ठ'न्नित्यादिविरो- धश्च । तस्मात् ब्रह्मधर्मा एव सर्वकामादयः, न तूपाधिसम्बन्धादौपचारिका इति ॥ १९ ॥ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥ सिद्धान्तेन विरोधपरिहारमाह । विरोधो हि परिहरणीयो लोकवेदाभ्यां तद- भाष्यप्रकाशः। च भ्रमात् कल्पनम् । तत्तु नात्र वेदेनोच्यते । अप्रतारकत्वात् सर्वज्ञत्वाच्च । यदि ह्येवं सत्यत्वं निगमयन् स्वयं सम्यक् ज्ञात्वा परस्मा आरोप्यान्यथा ब्रूयात्, प्रतारक एव स्यात् । अज्ञात्वा- रोपितं चेद् ब्रूयात्, सर्वज्ञत्वादेव हीयेत । अतो नात्र तथा वक्तुं शक्यमित्यर्थः । एतेन मध्वादि- विद्यास्विवात्र कल्पनोपदेश इत्यपि निरस्तम् । तत्रैवमवचनात् । सांख्यवादिं प्रति तद्रीतिबोधने तत्र तथा कथनाच्च ।

१३० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २०. नुसारेण। महानवकाशोऽल्पोऽवकाशः, 'यथावकाशं दश चमसा'निति लौकिकवै- दिकव्यवहारो वस्तुधर्मविरुद्धो दृश्यते। व्यापकत्वं वृद्धिह्रासौ च आकाशस्यैव। तत्र यथा करके प्रविष्ट आकाशस्तथा व्यपदिश्यते, तथा सत्युभयसामञ्जस्यं भवति, अन्यथा एकतरबाधो भवति, एवं तत्तदनुप्रवेशात् ब्रह्माप्येवम्। नचौ- पाधिकत्वम्। जपाकुसुमलौहित्यवदन्यधर्मत्वाभावात्। अन्यानुविधायित्वेपि भाष्यप्रकाशः। ब्रह्माप्येवमित्यन्तम् । 'यथावकाशं दश चमसा'नित्यासादनविषये श्रुतिः । एवं चयनेपि 'एतैरग्निं चिन्वीते'ति 'चितिः स्रु'गित्यादिमन्त्रैश्चयनं विधाय, प्रकारप्रदर्शनावसरे चतुर्षु दिक्षु तत्तद्देवमन्त्रैश्चयनं दर्शयित्वा, 'यथावकाशं ग्रहान् यथाव

स्वधर्मा एव ते । कारणत्वादिवत् । नचागन्तुकत्वात् तद्धर्मा एव न भवन्तीति वाच्यम् । अन्यधर्मत्वे प्रमाणाभावात् । तद्गतत्वप्रतीतेश्च । दृष्टत्वाच्चाविरोधः । अविरोधप्रकारोऽयम् । यथोभयसामञ्जस्यं भवति, प्रकारोपि तस्यैव तथा भाष्यप्रकाशः। जपाकुसुमलोहित्यवदन्यधर्मत्वेन प्रत्यायिताः स्युः, तदा तेषामौपाधिकत्वं स्यात् । प्रत्यायिता- स्त्वात्मविशेषणेष्वात्मधर्मत्वेन, अतो न तथात्वमित्यर्थः । ननु यद्यप्येते आत्मविशेषणत्वेनोक्ताः, तथापि मनोमयत्वादिकं पूर्वमुक्त्वा पश्चादुक्ताः, तेन ब्रह्मणो मनआद्यनुविधायित्वमेव स्फुटीकृतम्, तथा सति तेषां तद्धर्मत्वमेव, न ब्रह्मधर्मत्वम्, अन्यानुविधायित्वस्यैव स्फुटीभावादित्यत आहुः अन्येत्यादि । तदभिध्यानसूत्रे आकाशादिलिङ्गतया तत्तदनुविधायित्वस्य सिद्धत्वान्न मनआ- द्यन्यानुविधायित्वेपि सर्वकामादयो ब्रह्मधर्मा एव । यथा तन्त्रत्यं कारणत्वम् । आदिपदेन 'विशि- ष्टशक्तिर्बहुधैव भाती'ति स्मृत्युक्तं शक्तिविश्लेषादिकमपि संगृहीतं ज्ञेयम् । तेन स्वल्पकार्यकरणेपि नौपाधिकत्वमित्यर्थः । नन्वेवमन्यानुविधायित्वे तेषामागन्तुकत्वं तु सिद्धम्, तथा सति नैसर्गि- कत्वाभावादन्यधर्मा एव भवन्ति, न तु भगवद्धर्मा इत्यत आहुः नचागन्तुकेत्यादि । 'कामः सङ्कल्प' इति श्रुतौ 'अशुद्धं कामसङ्कल्प'मिति श्रुतौ च कामसङ्कल्पयोः केवलयोरेव मनोधर्मत्वं श्रूयते, न तु सर्वत्वसत्यत्वविशिष्टयोस्तयोः, अतोऽन्यधर्मत्वे श्रुत्यभावः। लिङ्गवाक्यप्रकरणाभावस्तु स्फुटः । स्थानं त्वन्यानुविधानेनैव व्याख्यातम्, अतः प्रमाणाभावात् तथेत्यर्थः । समाख्या तु बहुव्रीहिणा ब्रह्मधर्मत्वमेव स्फुटीकरोतीत्याहुः तद्गतेत्यादि । ननु यद्यप्येवम्, तथापि युक्ति- मिरनुचिन्तनस्य मननत्वात् तच्छेषत्वेनैतत्पाठोप्यासनाशेषत्वमेव, न तु स्वतन्त्रब्रह्मधर्मत्वमेषाम्, यथा अस्थूलत्वादीनाम्, अतस्तदपेक्षया निर्बलत्वात् कथमविरोध इत्यत आहुः दृष्टत्वाच्चा- विरोध इति । 'सोऽकामयत बहु स्यां'मित्यत्र सर्वविषयककामस्य ब्रह्मधर्मत्वेन दृष्टत्वादेतेषां स्वाभाविकब्रह्मधर्मत्वेन नैर्बल्याभावादविरोध इत्यर्थः । नन्वेवं सति धर्मविधिनिषेधयोरेकविषय- त्वाद्विरोध एवायातीति कथमविरोध इत्यत आहुः अविरोधेत्यादि । अयमस्मदुक्तरीतिकः । रश्मिः। पाधिकत्वमित्यादीति । जपेति । विलक्षणलौहित्यबोधनाय जपाकुसुमोपादानम् । वैलक्षण्यं त्वन्य- धर्मत्वम् । 'तत्स्सृष्ट्वा तदेवानुप्राविश'दिति श्रुतेः सर्वकामत्वादीनामन्यस्योपाधेर्धर्मत्वाभावात् । अन्येति । उपाध्यनुविधायित्वेपि धर्माणां ते धर्माः स्वस्य ब्रह्मण एव, नतूपाधेः, श्रुतावुपाधिसमत्वोक्त्या तथाव- सायात् । समत्वं धर्मैरिति । ननु समत्वेपि विभुत्वविरुद्धा अन्य धर्मा इति चेत्, तत्राहुः एवेति । 'यदेकमव्यक्तमनन्तरूप'मिति श्रुत्या निर्धारणादित्यर्थः । एवेत्यस्मात्पञ्चम्या लुक् । ननु स दोषस्तदवस्थ इति चेत्, तत्र दृष्टान्तमाहुः कारणत्वेत्यादि । नहि कारणत्वमुपाधिगतमुपाधेयेस्ति । 'कर्ता शास्त्रार्थ- वत्त्वा'दित्यधिकरणविरोधात् । आदिना सत्यत्वादयः । तद्वदिति न स दोषस्तदवस्थ इति भावः । ननु कारणत्वादयो नागन्तुका इति दृष्टान्तवैषम्यमिति प्रतिवादिनं पर्यनुयुञ्जतेस्म नचागन्तुकेति । जानाति इच्छति यतत इति प्रवादात् सर्वकामादीनां ज्ञानाधीनत्वेनागन्तुकत्वात्ते तद्धर्माः ब्रह्मधर्मा एव न । एवकारो 'नहि जन्या भगवद्धर्मा भवन्ती'ति तयोर्व्यवच्छेदकः । श्रुत्यादीति । आदिना १. न चौपाधिकत्वमित्यादि प्रमाणाभावादिति, युक्तादिरूपमात्रार्थेलिङ्गाभावात् । तद्गतत्वेत्यादिना तेषां वाक्यव- त्त्वानङ्गीकारे प्रत्यक्षविरोधोपीति बोधितम् । तस्यैवेति, विचार्य वस्तुन एव । शिष्टमाहुः तथेत्यादि । एवं ब्रह्मण्यपीति । तत्तदुपाध्यन्तर्भूतं तथा तथा भवति, तथा च पूर्वमर्ककार्यसूत्रे व्योमवच्चेत्यनेन यदुक्तम्, तदेवात्र स्मारितम् । अत्र ब्रह्मधर्मविचारप्रसङ्गेन जीवधर्मोपि विचारित इत्याशयेनाहुः दृष्टत्वात्पदेनेति मूलपाठः रश्मौ व्याख्यातः ।

१३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २१. वक्तव्यः । तस्मात् यथा आकाशस्य वृद्धिह्रासभाक्त्वं करकादिष्वन्तर्भावात् तथै- वोभयसामञ्जस्यात् , एवं ब्रह्मापि । वृद्धिह्रासपदेन शरीरे आकाशजीवयोरेकमुदा- हरणं बोधयति ॥ २० ॥ दर्शनाच्च ॥ २१ ॥ हेत्वन्तरमाह । भगवति सर्वे विरुद्धधर्मा दृश्यन्ते । 'न हि दृष्टेऽनुपपन्नं नाम ।' व्याघातात् । तादृशमेव तद्रूपमिति त्वध्यवसायः प्रामाणिकः । चकारादुत्तम्भक- भाष्यप्रकाशः । यथोभयसामञ्जसे श्रुतिद्वयस्य मुख्यार्थप्रतिपादकता भवति । एकदेशिना दृष्टान्तेनैवाविरोधसाध- नात् । प्रकारोऽपि दृष्टान्तस्यैव श्रुत्यनुसारेण वक्तव्यः, अन्यथैकदेशी न मन्येत, अतस्तथेत्यर्थः। उक्तं निगमयन्ति तस्मादित्यादि । तथाच यदा भगवान् सत्त्वादिष्ववतर

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२३ बन्धनादिषु प्रत्यक्षमेवोभयसाधकं दृष्टमिति । 'अथो अमुष्यैव ममार्मकस्ये'ति च । तस्माच्छ्रुतिस्मृतिप्रत्यक्षैः सर्वविरुद्धधर्माश्रयत्वेन ब्रह्मप्रतीतेर्न विरोधः ॥ २१ ॥ भाष्यप्रकाशः । केवलब्रह्मबोधकश्रुतिषु तत्तद्धर्मदर्शनात् प्रत्यक्षेणापि भानात् स्मृतावपि सिद्धत्वात् ब्रह्म एवम्, यथा प्रतीयते तादृशम् । तत्र हेतुरुभयसामञ्जस्यमेव । तदेतत् हृदिकृत्य सूत्रोक्तं दर्शनं विवृण्वन्ति भगवतीत्यादि । तथाच वैश्वानरविद्यायां प्रादेशमात्रत्वाभिविमानत्वं द्युमूर्धत्वादिकं पुरुषत्वं पुरुषविधत्वं पुरुषेऽन्तःप्रतिष्ठितत्वम् । तैत्तिरीये 'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्ता'दित्येकस्याव्यक्तस्यानन्तरूपत्वम् । एवं श्रुत्यन्तरेऽपि 'आसीनो दूरं व्रजती'त्यादीनि दृश्यन्ते । एवं मिथिलागमने श्रुतदेवजनकयोर्गृहे एककालावच्छेदेन प्रवेशादिकं स्मृतिसिद्धं दृश्यते । अवतारदशायां गोवर्धनोद्धरणादिकमवस्थासाधनविरुद्धं कार्यं च दृश्यते । तत्र प्रत्यक्ष- श्रुतिसिद्धे सर्वजनीनदर्शनसिद्धे तादृक्स्मृतिसिद्धे च ब्रह्मणो विरुद्धधर्माश्रयत्वेऽनुपपत्तेर्वक्तुम- शक्यत्वाद्वस्तुस्वभावमेवादाय दर्शनेच्छानुग्रहादिहेतुकत्वं चादाय तादृशनिश्चयस्य प्रामाणिकत्व- मवगन्तव्यमित्यर्थः । उभयसाधकमिति । स्वल्पत्वमहत्त्वयोः साधकम् । तत्र बहूनां दाम्नां सन्धानेपि न स्वरूपवेष्टकत्वम्, स्वरूपस्य च न प्रथमपरिमाणादाधिक्यम्, अन्यथा विस्मया- नापत्तेः । मृल्लाभक्षणव्यादानस्थले च स्पष्टमेव तथात्वम् । 'एवं विदिततत्त्वाया' इति तत्र कथनात् । मायामोहस्य तदुत्तरं कथनाच्चेति । तेन सिद्धमाहुः तस्मादित्यादि । वैश्वानरेऽर्थ- रश्मिः । इत्यर्थः । च दर्शनादिति सूत्रयोजनामाहुः तथा चेति । तत्तद्धर्मेति । सत्यत्वज्ञानत्वादिकधर्म- दर्शनात् । स्मृताविति । 'अथो अमुष्यैव ममार्मकस्य यः कश्चनौत्पत्तिक आत्मयोग' इतिस्मृतौ । तेन चकारात्सप्तम्या लुक् । एवं चकारार्थेषु मध्ये श्रुतिषु दर्शनादिति सूत्रं व्याख्यातं पञ्चम्यन्तेन । प्रत्यक्षे- णेति । उलूखलबन्धनादिषु प्रत्यक्षेण । बुद्धिस्थद्वितीयचकारार्थेन समं सूत्रार्थः । बुद्धिस्थतृतीयचकारार्थेन समं सूत्रार्थमाहुः स्मृतावपीति । भानेन सिद्धत्वात् भानात् । एवं सूत्रार्थमुक्त्वाऽनुवृत्तपदाना मर्थमाहुः ब्रह्म एवमिति । एवंशब्दार्थः यथेत्यादिः । न विरोधः । उभयेति । पञ्चम्यन्तमितिविशेषणं बोध्यम् । एवेति । अयं दर्शनादितिहेतुयोगव्यवच्छेदकः । तस्यानुवृत्तपदेन्वयो न सकलसूत्रेऽहेतुत्वात् । नापि पूर्वहेतुसमुच्चयेन हेतुत्वम् । अन्यचकारार्थोक्तेः । वैश्वानरेति । इयं प्रथमाध्याये 'वैश्वानरः साधारण- शब्दविशेषा'दित्यत्र समर्थिता । प्रवेशादिकमिति । आदिशब्देन स्थित्यादिकम् । दशमस्कन्धे स्पष्टम् । अवस्थेति । सप्तवार्षिकी । साधनं गोवर्धनोद्धरणम् । तदुभयविरुद्धं कार्यं गोष्ठरक्षणम् । एतावता दृश्यन्त इति भाष्यार्थ उक्तः । नहीत्यादिभाष्यार्थमाहुः तन्न प्रत्यक्षेति । प्रत्यक्षा श्रुतिः प्रत्यक्षश्रुतिः । तत्सिद्धे विषये सति सार्वजनीनप्रत्यक्षसिद्धे विषये सति । तादृगित्याद्यावप्येवम् । अनुपपत्तेर्विरुद्धधर्म- रूपानुपपन्नपदार्थनिष्ठाया वक्तुमशक्यत्वाद्दृष्टे दर्शनविषये सति हि निश्चयेन नानुपपन्नं विरुद्धधर्मादि नाम । व्याघातात् । चक्षुरादौ प्रामाण्यहिंसनात् । स स्वभाव इव दृश्यते इति तादृशं ब्रह्मरूपनिश्चय- रूपवस्तुस्वभावम् । एवेत्यन्ययोगव्यवच्छेदकः । तादृशेति । 'इति त्वव्यवसायः प्रामाणिक' इति भाष्यार्थः । भाष्ये । चकारादिति । बुद्धिस्थसमुच्चायकात् । भाष्यप्रकाशोक्तार्थकात् । आदिशब्देन मृत्स्नाभक्षणविश्वरूपदर्शने । प्रत्यक्षमेवेति । सूत्रोक्तत्वात्प्रत्यक्षम् । एवकारेण श्रुतिस्मृतिरूपान्य- योगव्यवच्छेदकेनोभयसाधकम् । प्रकृते । स्पष्टमेवेति । अस्पष्टत्वयोग्यव्यवच्छेदक एवेति । विरुद्ध- धर्माश्रयत्वं तथात्वमित्यर्थः । विरुद्धधर्माश्रयत्वं तत्त्वमिति वाक्येनाहुः एवं विदितेति । तत्र प्रमाणमाहुरित्यप्याभासः । कथनादिति । 'वैष्णवी व्यतनोन्माया'मित्येवम् । प्रत्यक्षमेवेति भाष्येण 1669

१६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २२] प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ परमार्थतो विरोधं परिहृत्य युक्त्यापि प्रतिषेधति । ननु सर्वविशेषधर्माणा- मस्थूलादिवाक्यैर्निषेधात् कथमविरोधः प्रत्येय इति चेत् । तत्राह । प्रकृतैता- वत्त्वं हि प्रतिषेधति । प्रकृते यदेतावत् परिदृश्यमाना यावन्तः पदार्था लौकिकाः, भाष्यप्रकाशः । क्रमस्य बलीयस्त्वमुपगम्य विरोधस्य परिहर्तुं शक्यत्वेपि काठके तथा वक्तुमशक्यत्वात् । उलूखलबन्धने स्वल्पस्य यत्तावस्तु दामत्वमानं तस्य स्वरूपधर्मत्वे, मतान्तरेण शरीरधर्मत्वे वा तदाधारस्य विरुद्धधर्माश्रयतायाः प्रत्यक्षसिद्धतया स्मृतिसिद्धतया चापहोतुमशक्यत्वेन अभिन्ननि- मित्तोपादानत्वोपगमेन च विरुद्धधर्माश्रयत्वस्य प्रामाणिकत्वाच्छ्रुत्यादिभिस्तथात्वेन ब्रह्मप्रतीतेर्न विरोध इति प्रकृतानां सर्वकामत्वादीनामप्यौपचारिकत्वकल्पनं नैमित्तिकत्वेनानित्यत्वोद्भावनं चाप्रयोजकमित्यर्थः । एवमेताभ्यां सूत्राभ्यां 'अत एव चोपमे'तिमूत्रोक्तं सर्वं प्रत्युक्तं ज्ञेयम् ॥२१॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ सूत्रमवतारयन्ति परमार्थत इत्यादि । परमार्थत इति । वस्तुविचारात् । एवं सर्वैः प्रकारैः परिहृतेपि विरोधे पुनर्मुत्तया परिहारस्य किं प्रयोजनमित्याकाङ्क्षायां वस्तुनस्तादृक्स्वभावत्वममन्वानं प्रति युक्तिरवश्यं वक्तव्येत्यतः सूत्रांशमवतारयन्ति नन्वित्यादि । तथाच पूर्वसूत्रोक्तदर्शनस्य अवतीर्णं स्वेच्छया रश्मिः । सौत्रदर्शनस्य मुख्यत्वं श्रुतिस्मृत्योर्व्यवच्छेदेनोक्तं तयोरन्वयमत्र भाष्य उक्तं तत्स्पष्टयन्तिस्म वैश्वानर इति । प्रादेशमात्रेभिविमाने औपाधिकेऽभिविमानत्वासंभवादार्थक्रमेणाभिविमाने इति वक्तव्ये अर्थक्रमस्य बलीयस्त्वमुपगम्येत्यर्थः । काठक इति । 'आश्चर्यो वक्ता कुशलोऽस्य लब्धा, आश्चर्योस्य ज्ञाता कुशलोऽनुशिष्ट' इत्यत्राश्चर्ये वक्तव्ये औपाधिकोप्यभिविमान इत्यर्थक्रमेण तथा नामविरोधपरिहारस्य वक्तुमशक्यत्वात् । तस्येति । अमानस्य । मतान्तरेणेति । पुराणमतेन मायारूपशरीरधर्मत्वे वा । स्मृतेर्मुख्ये दर्शने उपष्टम्भकतयान्वयमाहुः स्मृतिसिद्धेति । प्रत्यक्षमुपष्टब्धमिति सप्रमाणम्, न तु शुक्तिरजतप्रत्यक्षवदप्रमाणमित्युक्तम् । अभिन्नेति । समन्वयाधिकरणेप्युपगमः । अत्र श्रुतेरन्वय- माहुः श्रुत्यादिभिरिति । श्रुतिस्मृतिप्रत्यक्षैः । तथात्वेन विरुद्धधर्माधारत्वेन । ब्रह्मप्रतीतेरिति । ब्रह्मदर्शनात् । अत्र श्रुत्यादिभिरित्यन्तेन श्रुतिस्मृतिप्रत्यक्षैरितिचकारार्थभाष्यर्थ उक्तः । तथात्वेने- त्यनेनानुवृत्तोभयसामञ्जस्यं पञ्चम्यन्तं तस्यार्थः सर्वविरुद्धधर्माश्रयत्वेनेति शक्यतावच्छेदक उक्तः । ब्रह्मप्रतीतेरित्यनेनावृत्तब्रह्मपदार्थः सौत्रदर्शनादितिपदार्थ उक्तः । न विरोध इत्यनेनावृत्तैवंशब्दार्थ उक्तः । नैमित्तिकत्वेनेति । जानातीच्छति यतत इति प्रवादात् निमित्तं ज्ञानं तत्सम्बन्धिविशेषत्वे च । अत एव चोपमेति । 'तस्माज्जडजीवधर्माणां भगवत्युपचारः, निषेधस्तु मुख्य' इति भाष्येण संगृहीतम् । प्रत्युक्तमिति । सर्वकामत्वादीनामौपचारिकत्वकल्पनस्यानित्यत्वोद्भावनस्य चाप्रयोजक- त्वोक्त्या प्रत्युक्तमित्यर्थः ॥ २१ ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ निश्चिते इति । स्वाभाविकानां निषेधायोगात् । कथमिति । कथमविरोधः प्रत्येय इत्यर्थः । भाष्ये । प्रतीतस्यै- १. तथा च सर्वविशेषनिषेधेन तादृक्स्वभावाभावे निश्चिते कथं तथेत्यर्थः इति मूले पाठः । 1670

तेषामेव धर्मान् निषेधति । प्रतीतस्यैव हि निषेधात् । अतो जगद्वैलक्षण्यमेवा- स्थूलादिवाक्यैः प्रतिपाद्यते, न तु वेदोक्ता ब्रह्मधर्मा निषेद्धुं शक्यन्ते । कुत एत- दवगम्यते । तत्राह । ततो ब्रवीति च भूयः । यत्रैव वाक्ये पूर्वं निषेधति, तस्मिन्नेव वाक्ये पुनस्तमेव विधत्ते । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वा'निति । तथा अस्थूलवाक्येपि 'एतस्यैव प्रशासने' 'एतद्वि- दित्वा' 'आकाश ओतश्च प्रोतश्चे'ति । चकारादेकवाक्योपाख्यानभेदौ संगृ- भाष्यप्रकाशः । व्यवहार्यं प्रपञ्चसलक्षण एव प्रतीयमानैकविशेषविरुद्धविशेषान्तरविषयत्वान्न तेन प्रपञ्चविलक्षणे सर्वविशेषशून्ये ज्ञानाकारे तद्विरुद्धविशेषवत्त्वसिद्धिरिति तत्र धर्मविधिनिषेधयोरविरोधः कथं प्रत्येतव्य इत्याकाङ्क्षायामविरोधप्रत्ययप्रकारमाहेत्यर्थ

११५ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ६ सू० २२. हीति । सर्वत्र लौकिकं प्रतिषेधति, अलौकिकं विधत्ते इति युक्त्या निर्णयः । तस्मात् युक्त्याप्यविरोधः ॥ २२ ॥ इति तृतीयाध्याये द्वितीयपादे षष्ठमम्बुवदग्रहणादित्यधिकरणम् ॥ ६ ॥ भाष्यप्रकाशः । व्यक्तिभेदेन षोडशिग्रहणाग्रहणवन्नित्य एकस्मिन् ब्रह्मणि ज्ञेयत्वाज्ञेयत्वप्रशासितृत्वप्रशासितृत्वादीनां विकल्पस्याशक्यवचनतया वाक्यस्याबोधकतायां तन्निवृत्त्यर्थं लौकिकं निषेधति, अलौकिकं तं धर्मं विधत्ते इति व्यवस्था मन्तव्या। स्थूलत्वादीनां लौकिकानामेव निषेधदर्शनात् । ईदृशप्रशासितृत्वादी- नामलौकिकानामेव विधानदर्शनात् । अतो ये वस्तुस्वभावतो विरुद्धधर्माश्रयत्वं न मन्वते, तान् प्रत्येवं लौकिकालौकिकविभागरूपया युक्त्या निर्णयः । तेन श्रुत्या बोध्यमाना ये सर्वकामत्वाद- यः, तेऽप्यलौकिका एव। मन्दधियामविचारकाणां परं नामतौल्येन भ्रमः। नचानाप्तकामत्वापत्तिः। अमिश्रारूपत्वेन, स्वयमेव तत्पूर्तिकरणेन चादोषात् । एतेन जीवतुल्यतापत्तिरपि परिहृता बोध्या । तस्माच्छ्रुत्यक्षराण्याननुसन्दधानानां बोधार्थं युक्त्याप्यविरोध आचार्येणोक्त इत्यर्थः । एतेनैव यावद्धर्मशून्यत्वं ब्रह्मणो वदन्तोपि प्रत्युक्ता वेदितव्याः । अन्ये त्वस्मिन् सूत्रे 'द्वे वा व ब्रह्मण' इति वाक्यं विषयत्वेनाहुः । तदर्थं विद्वन्मण्डने एतद्वाक्यार्थोपि विचारितः । तथाहि । 'नेति नेती'त्यत्र इतिशब्दः प्रकारवाची । तथाच पूर्वं मूर्त्तामूर्त्तब्रह्मणो विभूतिरूपं 'य एवं वेदे'त्यन्तेन निरूप्य यत्सैतद्रूपद्वयं पूर्वमेव षष्ठ्यन्तेन पदेन निरूपितमेदस्य तन्निभिरूप्यमाणेष्वपि सर्वतःपाणिपादान्तत्वादिक्ष्वेवं लौकिकत्वेन वेदनं मा भूदिति भिन्नप्रक्रमेणैतत्प्रकारकं वेदनं ब्रह्मणो निषेधति 'अथात' इत्यादिना । अयमर्थः । ब्रह्मण्यपि मूर्त्तामूर्त्तरूपे सर्वतःपाणिपादान्तेत्यादिश्रुत्युक्ते वेदितव्ये । परन्त्वित्यनेन प्रकारेण न वेदितव्ये ब्रह्मग एते रूपे इति, किन्तु ब्रह्मैवेति वेदितव्ये इत्यर्थः । अत्र विनिगमकमाह सूत्रकारः 'ततो ब्रवीति च भूय' इति । शेषं स्फुटम् । यत्तु प्रकृतशब्देन 'द्वे वा व ब्रह्मण' इत्यादिनोक्तं मूर्तामूर्तलक्षणं रूपद्वयं परामृश्यत इति मतम्, तत्र प्रकृतत्वं प्रतिषेधतीत्येतावत्तैव चारितार्थ्ये सत्येतावत्पदं व्यर्थम् । नच प्रकृतस्य ब्रह्मणः प्रकृते वा ब्रह्मणि एतावत्त्वं प्रतिषेधतीति व्याख्यानान्न दोष इति वाच्यम् । तथा सति 'ततो ब्रवीति च भूय' इत्यस्य वैयर्थ्यापातात् । प्रकृतपदेनैव ब्रह्मप्रमितौ तदभावशङ्कानुदयेन तत्सत्चायां मानाकाङ्क्षार्थं तत्कथनप्रयोजनाभावात् । तस्मादसदुक्त एवार्थ इति ॥ २२ ॥ इति षष्ठमम्बुवद- ग्रहणादित्यधिकरणम् ॥ ६ ॥ रश्मिः । देनेकैकेन। अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णातीति षोडशिग्रहणाग्रहणयोर्विकल्पस्येव । षष्ठ्यान्ताद्वतिः । अशक्येति । व्यक्तिभेदाभावादितिभावः । अबोधकेति । दृष्टान्ताभावान्नथा । एवेति । प्रक्षालनपङ्कन्यायेनैवकारः । विद्वन्मण्डनेयं विषयः स्पष्टः । सर्वत्रेतिभाष्यं विवृण्वन्ति स्म लौकिकं निषेधती। एवेति । नित्यानां निषेधायोगात् । एवेति । 'लौकिकं नैव मनुत' इत्याचार्यव- चसः। नित्यानित्यसंयोगापत्तेश्च । अलौकिका एवेति। एवकारार्थ उक्तः। नामेति। स्थूलसर्वकामादि- नाम्नां तौल्येनालौकिकानामवति लौकिकानामवत्त्वेन ज्ञानमितिभ्रमः । तस्मादितिभाष्यं विवृण्वन्तिस्म तस्मादिति । अनन्विति । युक्तीर्विनाननुसन्दधानानाम् । युक्त्यापीति । अपिशब्देन परमार्थतः । आचार्येण व्यासेन ॥ २२ ॥ इति षष्ठमम्बुवदग्रहणादित्यधिकरणम् ॥ ६ ॥ 1672

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७ तदव्यक्तमाह हि ॥ २३ ॥ ( ३-२-७. ) शाब्दबलविचारेण विरोधं परिहृत्यार्थबलविचारेणाविरोधप्रतिपादनायाधिक- रणमारभते । सर्वाणि विरुद्धवाक्यान्युदाहृत्य चिन्त्यन्ते । 'न चक्षुषा गृह्यते' 'कश्चि- द्धीरः प्रत्यगात्मानमैक्षत्,' 'नापि वाचा' 'सर्वे वेदा यत् पदमामनन्ति' 'अप्राप्य मनसा सह' 'मनसैवैतदाप्तव्यम्,' 'अस्पर्शमगन्धमरसम्' 'सर्वरूपः सर्वगन्धः सर्वरसः', 'अपाणिपाद' इत्यादि 'विश्वतश्चक्षु'रित्यादि, 'निर्गुणञ्च' 'यः सर्वज्ञः सर्वशक्ति'रित्यादिविरुद्धवाक्यानि । न हि वस्तु द्विरूपं सम्भवति । वाक्यद्वय- मपि प्रमाणम् । तथा सति प्रमाणान्तरानुरोधेनैकस्य स्वार्थे प्रामाण्यम्, अन्यस्यो- पचरितार्थत्वमिति युक्तम् । तत्र प्रत्यक्षानुरोधेन निर्णयो विचार्यते । तत्र पूर्वपक्षमाह । तदव्यक्तम् । तत् ब्रह्म अव्यक्तमेव भवितुमर्हति । भाष्यप्रकाशः। तदव्यक्तमाह हि ॥ २३ ॥ अधिकरणप्रयोजनमाहुः शाब्दबलेत्यादि । तथाच यद्यपि स्वविचारे तस्यानावश्यकत्वम्, तथाप्यन्यैः ऋषिभिरर्थबलेन विचारस्याङ्गीकृतत्वात् तेनाविचारे तेषां निर्विशेषपक्षपातात् सविशेषश्रुतिः पीड्येत, विचारिते त्वर्थसामर्थ्ये वस्तुस्वभावादेवोभय- सम्भवाच्च श्रुतिपीड्येतस्तन्निवारणार्थं तदारभत इत्यर्थः । ननु विरुद्धवाक्येषु चिन्तितेषु किमवशिष्टं येनार्थबलाद्विरोधोत्थानमित्यत आहुः सर्वाणीत्यादि । सर्वाणीति । प्रमाणाग्राह्य- त्वतद्ग्राह्यत्वयोर्धर्मराहित्यतद्वत्त्वयोराकारराहित्यतद्वत्त्वयोर्गुणराहित्यतद्वत्त्वयोर्बोधकानि । 'सर्वरूप' इत्यनेन 'यथामाहारजनं वास' इत्यादिश्रुतिस्तद्विरुद्धा 'अरूपमव्यय'मिति श्रुतिश्च स्मार्यत इति बोध्यम् । सन्देहमाहुः न हीत्यादि । तथाच लौकिकालौकिकभेदेन व्यवस्थायां कृतायां मास्तु शब्दे संशयः, तथाप्यर्थे संशयो दुर्वार इत्यर्थः । सन्देहबीजमाहुः वाक्येत्यादि । तत्रं पूर्वपक्षमुत्थाप- यितुमापाततो निर्णयप्रकारं वदन्ति तथा सतीत्यादि, विचार्यत इत्यन्तम् । पूर्वपक्षमाहुः तत्रेत्यादि । यद्यपि पूर्वं सर्वप्रमाणापेक्षया शब्दस्यैव प्राबल्यं निर्णीतम्, तथापि शब्दस्यार्थसापेक्षत्वादर्थबलेनैव विचारो मुख्य इति श्रुत्यर्थनिश्चयानायार्थबले विचार्ये रश्मिः। तदव्यक्तमाह हि ॥ २३ ॥ तस्येति । अर्थबलविचारस्यास्मिन्भगवद्व्याससते शब्दबलसिद्धे- नावश्यकत्वम् । अन्यैरिति । अत्रैव बादरिप्रभृतिभिः । यथेति । आमाहारेण जनं जननम् । वर्णलोपः । वासः शरीरे इत्यनव्ययम् । संशय इति । चक्षुर्ग्राह्यो ग्राह्यो वेत्यादिः । सन्देहबीजमिति । प्रमाणं विकल्पोत्पादकं बीजमित्यर्थः । 'श्रुतोर्विरोधे विकल्प' इति मनुस्मरणात् । आपातत इति । अविचार आपातस्तस्मात् । एकदेशिनिर्णयप्रकारम् । पूर्वमिति । प्रथमाध्यायद्वितीयचरणे वैश्वानराधिकरणे । शाब्द- स्यैवेति । एवकारस्तु 'केवलं शब्दबलविचारका आचार्या' इति 'साक्षादप्यविरोधं जैमिनि' रितिसूत्र- भाष्यात् । शब्दस्यार्थेति । घटं दृष्ट्वा घटशब्द इति तथा । यद्यप्यर्थस्य शब्दसापेक्षत्वं 'शब्द इति चे'- दितिसूत्रात्, तथापि पूर्वपक्षग्रन्थस्यानुक्तम् । एवेति । 'अर्थबलविचारको बादरि'रिति तथा । 'केवलार्थवि- १. तत्रापाततो निर्णयप्रकारं बदन्तः पूर्वपक्षमुत्थापयन्तीति पाठः मूले। ब्र० सू० २० १८ 1673

११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ७ सू० २४. कुतः । आह हि । श्रुतिप्रत्यक्षाभ्याम् । 'नेति नेत्यात्मा अग्राह्यो न हि गृह्यत' इति । 'न हि गृह्यत' इत्यनुभवसाक्षिकं प्रमाणं श्रुतिराह । न हि केनचिदपि चक्षुषा मनसा वा ब्रह्म दृष्टमस्ति । सर्वरूपत्वे तु सर्वैरेव द्रष्टुं शक्येत । तस्मात् सर्वधर्मवत्त्वेन प्रतिपादकान्युपचरितार्थान्येव । अनुभवविरोधादित्येवं प्राप्तम् ॥ २३ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ अपीति पूर्वपक्षगर्हायाम् । सर्वथा मूर्खः पूर्वपक्षवादी । यतः संराधने सम्यक् सेवायां भगवत्तोषे जाते दृश्यते । 'श्रद्धाभक्तिज्ञानयोगादवैहि' 'यमे- भाष्यप्रकाशः । पूर्वपक्षमाहेत्यर्थः । हेतुं व्याकुर्वन्ति आह हीति । हि श्रुतिप्रत्यक्षाभ्यां हेतुभ्यां श्रुतिराह । अतस्तदव्यक्तमिति योजना । श्रुतिप्रत्यक्षाभ्यामिति यदुक्तम्, तत्र का श्रुतिः, किं प्रत्यक्ष- मित्याकाङ्क्षायां तदेव विभजन्ते नेतीत्यादि । अस्यां श्रुतौ कथं प्रत्यक्षप्राप्तिरित्यत आहुः नही- त्यादि । तदेव विवृण्वन्ति न हि केनचिदित्यादि ॥ २३ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४॥ सूत्रं व्याकुर्वन्ति अपीत्यादि । अत्र दर्श- नसूत्रोक्तो दृशिर्व्यवहितोऽप्यर्थबलात् परामृश्यते । तथाच केवलस्य प्रत्यक्षादेः प्रमाणस्य लौकिकत्वेन नैर्बल्येपि साधनबलसिद्धस्य तस्यालौकिकत्वेन प्रबलत्वात् केवलानुभवविरोधोऽप्रयोजक इति साधनसिद्धेन प्रत्यक्षेण निर्णय इत्यर्थः । हेतुं व्याकर्तुं श्रुतिस्मृती उपन्यस्यन्ति श्रद्धेत्यादि । इयं रश्मिः । चारको बादरि'रिति उक्तसूत्रभाष्यात् । नहि केनचिदित्यादीति । सर्वैरेवेति । योग्यत्वादेवकारः । उपचरितेति । उपचारो व्याख्यातः । एवकारः सर्वेषां दर्शनाभावात् ॥ २३ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ केवलस्येति । श्रुतिरहितस्य । पूर्वं 'श्रुतिप्रत्यक्षाभ्या'मित्युक्तत्वात् । प्रत्यक्षादेरित्यत्रादिशब्देनानुमानादि । भाष्ये प्रत्यक्षस्योपलक्षकत्वात् । तथा च 'सर्वैरेव द्रष्टुं शक्येते'तिभाष्याद्वह्निरूपत्वे धूमरूपेणानुमातुं शक्येत । गवरूपत्वे उपमातुं शक्येत । घटादिरूपत्वे शब्दितुं शक्येतेति बोध्यम् । केवलानुभवेति । केवलस्य धर्मशून्यस्य नीरूपत्वादनुभवो विरुद्धयते, तद्विषयको न भवतीत्यर्थः । नीरूपत्वसमानाधिकरणो न भवति । तथाच 'मूर्खो देहाद्यहं- बुद्धि'रिति वाक्यात् अग्राह्यत्वेन प्रकारेण प्रत्यक्षशून्यो देहाद्यहंवादी । अग्राह्यत्वस्योपचरितत्वात् । 'कश्चिद्धीरः प्रत्यगात्मानमैक्ष'दित्युक्तप्रकारेण प्रत्यक्षशून्यो देहाद्यहंबुद्धिः । ताम्बूलमदशक्तिवदप्यद- र्शनम् । व्यापकत्वेनाप्यदर्शनम् । किञ्च । आत्मोपनिषदूक्तरीत्यात्मत्वेन देहप्रत्यक्षशून्यः आत्मत्वेनान्त- रात्मप्रत्यक्षशून्यः । इति भाष्ये सर्वथाशब्दः । एवं देहाध्यासे 'अहं स्थूल' इत्यादौ ह्यस्मच्छब्दः प्रत्यगात्मवाचको व्याख्यातः । अहङ्कारेऽस्मच्छन्दप्रयोगं कृत्वा भाष्यं यत इत्यादि । देहगेहादि- ष्वहममेत्यभिमानवता भगवान्न दृश्यते । अभिमानस्य तामसत्वेनाज्ञानकार्यत्वादज्ञानस्य च दर्शनावर- कत्वात् । यतो यथाकथञ्चिदप्यमूर्खत्वमवलम्ब्य सम्यक्संराधने । करणल्युडन्तं पदम् । सम्यक्संसि- द्धिर्येन पुष्टिसैवनेन मोक्षावान्तरकालनिर्गमाय तत्संराधनं त्वस्मिन्संराधने तदाहुः, सम्यक्सेवाया- मिति । ननु सिद्धिजनकोऽन्योपि पदार्थोऽस्तीत्यत आहुः भगवत्तोष इति । 'यद्भक्त्या तुष्यते हरि'- रिति वाक्यान्नान्यपदार्थो भगवत्तोषजनक इति सिद्धमुपस्थापिका सेवैवात्र व्यासाशयीयेति भावः । नन्वधोक्षजत्वात्सेवायामप्यदर्शनमस्त्विति चेत्, तत्राहुः दृश्यत इति । स्वेच्छया दृश्यो भवति । अथवा 1674

यैष वृणुते तेन लभ्यः' 'भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तपे'ति । द्विविधमपि रूपं दृश्यते । 'ततस्तु तं पश्यते निष्कलं ध्यायमानः' 'अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूप'मिति संराधकस्य स्वानुभवः, ध्रुवादीनामनुमापकत्वं च । तस्मात् प्रत्यक्षानुमानाभ्यां भाष्यप्रकाशः। कैवल्योपनिषत्स्या । परमेष्ठिना आश्वलायनं प्रत्येतेन साधनेन जानीहीत्यत्रोपदिष्टम् । ज्ञानविषयं च ब्रह्म सर्वदेवतादिमयं शिवाकारं निराकारं चोपदिष्टम् । द्वितीया काठके मुण्डके च । तत्राद्ये, 'आसीनो दूरं व्रजती'त्याद्युक्त्वोक्ता । तत्राप्यासीनत्त्वादिना साकारताया 'अशरीर'मित्यनेनाना- कारतायाश्च लाभः । द्वितीयेपि द्वितीयमुण्डके विरुद्धधर्माश्रयं परमात्मानं प्रस्तुत्योक्ता । अत्र 'तनुं स्वा'मिति कथनात् साकारलाभ इति तत्राप्येवम् । गीतावाक्यं तु विश्वरूपं दर्शयित्वा ततः स्वरूपं चतुर्भुजाकारं प्रदर्शयोक्तं भगवता । द्विविधमिति । साकारं निराकारं च । तथाच श्रुतिस्मृत्यु- क्तसंराधकप्रत्यक्षानुरोधेनार्थबले विचारितेपि निराकारं साकार

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार लिप्यन्तरण (Markdown प्रारूप में) दिया गया है:

१४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ८ सू० २५ श्रुतिस्मृतिभ्यां वा ब्रह्म साकारमनन्तगुणपरिपूर्णं चेति नाव्यक्तमेवेति निश्चयः । अतो लौकिकालौकिकप्रत्यक्षविषयत्वादुभयवाक्यार्थरूपमपि ब्रह्म ॥ २४ ॥ इति तृतीयाध्याये द्वितीयपादे सप्तमं तदव्यक्तमाह हीत्यधिकरणम् ॥ ७ ॥ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥ (३. २. ८.) पुनः प्रकारान्तरेण पूर्वोक्तमेव स्थिरीकर्तुमधिकरणान्तरमारभते । तत्र सूत्रद्वयेन पूर्वपक्षद्वयमाह । ननु प्रत्यक्षानुरोधेनोभयविधवाक्यसमाधानं नोपपद्यते, वस्तुशक्त्यैव निर्णय उचितः, न तु श्रुतिप्रत्यक्षाभ्याम्, यथा प्रकाशाजलसुवर्णादीनामने- कविधत्वं नाङ्गीक्रियते, सूर्यचन्द्रमणिप्रकाशादिषूष्णशीतानुभवरूपस्पर्शाः प्रती- यन्ते, न हि तेजसि तावन्तः स्पर्शा अङ्गीक्रियन्ते, जले च हिमतप्तकुण्डा- दिषु, तथा सुवर्णे वर्णभेदाः, न हि सर्वे स्वाभाविकाः, तेजस्त्वादिखभावहानि- प्रसङ्गात्, तथा ब्रह्मणोऽप्यवैशेष्यमङ्गीकर्तव्यम्, निर्विशेषं हि ब्रह्मेति सर्वप्र- सिद्धिः । यकारादेवं साधकाः 'अग्राह्यो न हि गृह्यत' इत्येवमादयः । भाष्यप्रकाशः । साधनं दर्शनसूत्रादत्राधिकम् । तेन प्रकाशवत्सूत्रोक्तमेव दृढीकृतं ज्ञेयम् ॥ २४ ॥ इति सप्तमं तदव्यक्तमाह हीत्यधिकरणम् ॥ ७ ॥ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५॥ अधिकरणप्रयोजनमाहुः पुनरित्यादि । ब्रह्मणः श्रुत्येकसमधिगम्यत्वाच्छ्रुत्यवगतस्वरूपस्यैव बलेनोभयरूपत्वं दृढीकर्तुम- धिकरणान्तरमुपोद्घातसङ्गत्यारभते । अत्र ब्रह्मस्वभावः संराधकप्रत्यक्षेणावधारयितुं शक्यः, न वेति संशयः । साधनस्य ज्ञानार्थत्वम्, अग्राह्यश्रुत्या ब्रह्मणो दुर्ज्ञेयत्वं च सन्देहबीजम् । पूर्वपक्षौ तु तत्र द्वाविति तावाहुः तत्रेत्यादि । पूर्वपक्षद्वयमिति । भक्तप्रत्यक्षेण न निर्णय इत्येकः । श्रुत्यापि नेत्यपरः । स च द्वितीयसूत्रे फलितकथनेन स्फुटो भवतीति तथेत्यर्थः । कुतो वस्तुशक्त्यैवेत्यतो दृष्टान्तं व्याकुर्वन्ति यथेत्यादि । एतस्यैव विवरणं सूर्यचन्द्रेत्यादि । एवं साधका इति । रश्मिः । प्रामाणिकमेव प्रमेयबलाभावादिति तथा । भाष्ये । ध्रुवादीनामिति । 'स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथे'ति गोपालतापनीयादुभयाविरोधपश्यकानाम् । द्वितीयस्कन्धपञ्चमाध्यायोक्तब्रह्मादिशब्देन । गोपालतापनीयोक्तब्रह्मणश्च तादृशोभयधर्मवत्त्वानुमापकत्वम् । ब्रह्म तादृशोभयधर्मवत् । ध्रुवादीनां चक्षु- र्विषयत्वात् । घटादिवत् । चक्षुर्विषयत्वादूषघटलोभयधर्मवत्त्वम् । अव्यक्तमेवेति । व्यक्तयोगव्यवच्छे- दक एवकारः । उभयेति । सर्वधर्मप्रतिपादकवाक्यानां धर्मनिषेधकवाक्यानां चार्थरूपम् ॥ २४ ॥ इति सप्तमं तदव्यक्तमाह हीत्यधिकरणम् ॥ ७ ॥ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥ पूर्वोक्तमित्यादि- भाष्यविवरणं उभयरूपत्वं दृढीकर्तुमिति । अत्र भाष्य एवकारोऽग्रिमसूत्रीयोभयव्यपदेशयोग्य- व्यवच्छेदकः । उपोद्घातेति । प्रकृतं 'न स्थानतोपि परस्योभयलिङ्ग'मिति सूत्रादारभ्य यदुभयरूपत्वं तत्सिद्ध्यर्था चिन्ता पूर्वपक्षद्वयचिन्ता । सङ्गता । ताविति । पूर्वपक्षौ । वस्तुशक्त्यैवेति । वस्तु- शक्त्या निर्दोषत्वरूपया । एवकारस्तु भक्तप्रत्यक्षं चक्षुस्तस्य सदोषत्वायो गस्य व्यवच्छेदकः । भाष्ये । अङ्गीति । अस्माभिरङ्गीक्रियन्ते । जले चेति । विचार्यमाणे । हिमकुण्डः प्रसिद्धः । तप्तकुण्डः १ केवलं तद्वलेनेति मूके पाठः । 1676